वासुदेवविजयम्

विकिस्रोतः तः
विजयम्
वासुदेवः
१९१५

वासुदेवकविरचितं
वासुदेवविजयम्।
स्वकृतपदचन्द्रिकाख्यव्याख्यासमेतम् ।

प्रथमः सर्गः ।

विघ्नेशभारतीव्यासगुरुशाब्दिकमूर्तये ।
नमोऽस्तु पत्ये भूतानां सदानन्दचिदात्मने ।
मत्स्यकच्छपभूदारनृसिहबटुविग्रहम् ।
नौमि रामत्रयीकृष्णकल्किरूपमधोक्षजम् ॥

कुन्दसूनमनोहारिमन्दहासविराजितम् ।
नन्दगोपकुलोत्तंसमिन्दिारमणं भजे ॥
काव्यं मया वासुदेवविजयाख्यमकारि यत् ।
व्याख्यापि तस्य तन्वीयं क्रियते पदचन्द्रिका ॥

कृतार्थता यस्य पदाम्बुजं सदा निषेवमाणं वृणुतेऽचिरात्स्वयम् ।
हृदा दधत्तं वसुदेवनन्दनं पुने गिरस्तञ्चरितामृतोर्मिभिः ॥१॥

अहं तं वसुदेवनन्दनं हृदा दधत् तच्चरितामृतोर्मिभिः गिरः पुने शोधयामि । यस्य पदाम्बुजं सदा निषेवमाणं पुरुषं कृतार्थता अचिरात् स्वयं वृणुते ॥

समस्तवित्तामधिजग्मुषः स्वतो यतः प्रजेशाः श्रुतिमध्यगीषत ।
तितिक्षमाणापि समं क्षमाप तं नृपीभवद्दैत्यभरार्दिता विधिम् ॥२॥

क्षमा तं विधिं ब्रह्माणमाप आश्रयत् । समं सर्वे तितिक्षमाणापि सहमानापि नृपीभवद्दैत्यभरार्दिता अनृपा नृपा भवन्तीति नृपीभवन्तस्ते दैत्या एव भरस्तेन पीडिता । यतः प्रजेशाः श्रुति अध्यगीषत अधीतवन्तः । स्वतः स्वभावेन अथवा सर्वात्मभूतादन्तर्यामिणः समस्तवित्तां सर्वज्ञत्वं अधिजग्मुषः प्राप्तवतः ॥-इह पाणिनीयसूत्रे चत्वारो भागाः परिकल्पिताः । प्रथमद्वितीयाध्यायात्मक आद्यः । तृतीयाध्यायात्मको द्वितीयः । चतुर्थपञ्चमाध्यायात्मकस्तृतीयः । अवशिष्टाध्यायात्मकश्चतुर्थः । तत्र युगपदधिक्रियन्ते-अध्यगीषतेति । इड् 'अध्ययने' । इडिकावधिपूर्वावेव प्रयुज्येते । लुडि 'चिल लुडि' इति च्लिः । 'च्लेः सिच्' 'विभाषा लुङ्लृडोः' इति गाडादेशे, 'गाङ्कुटादिभ्योऽञ्णिन्डित्' इति सिचो डित्त्वे 'घुमास्थागा-' आदिनेत्वं । 'आदेशप्रत्यययोः' इति षत्वम् । तितिक्षमाणेति । 'तिज निशाने। 'गुप्तिज्किद्भ्यः सन्' इति सन्प्रत्ययः । स्र च 'निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते' इति क्षमायाम् । पञ्चमाध्यायान्तं वक्ष्यमाणानां प्रकृत्युपपदोपाधिविकारागमवर्जं प्रत्ययसंज्ञा । स च 'प्रत्ययः' 'परश्च' इति धातोः प्रातिपदिकाद्वा परः स्यात् । 'सनाद्यन्ता धातवः' इति धातुसंज्ञा । 'सन्यङोः' इति सन्नन्तस्य द्विर्वचनम् । लटः शानच् । कृदन्तत्वात्प्रातिपदिकत्वम् । स्त्रीत्वविवक्षायां 'स्त्रियाम्' 'अजाद्यतष्टाप्' इति टाप् । तदन्तत्वात् 'ङ्याप्प्रातिपदिकात्' इत्यधिकृत्य 'स्वौजसमौट्छष्टाभ्याम्भिस्डेभ्याम्भ्यस्डसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्' इति सुप् । अधिजग्मुष इति । 'गम्लृ गतौ' अधिपूर्वः । लिटः क्वसुः 'गमहन-'आदिना उपधालोपः। 'लिटि धातोरनभ्यासस्य' इति द्विर्वचनम् । तच्च हलादीनां धातूनां 'एकाचो द्वे प्रथमस्य' इति प्रथमस्यैकाचः स्यात् । 'पूर्वोऽभ्यासः' इत्यभ्याससंज्ञा । 'कुहोश्चुः' इत्यभ्यासस्य चुत्वम् । समस्तविदिति । 'सत्सूद्विष-' इति क्विप् । 'दित्यदित्यादित्य-' इति ण्यः । ['तद्धितेष्वचाम्-' इति] आदिवृद्धिः । 'वृद्धिरादैच्' इति वृद्धिसंज्ञा ॥ काव्यमाला। मीमांसमानं निगमार्थवर्तनीरनुद्विजित्री समितेः शुचाथ सा। कार्श्ये दधत्यार्तिभरात्प्रणत्य तं जगद्धिते जाग्रतमार्चिचद्गिरा ॥३॥ अथ सा तं प्रणत्य गिरा आर्चिचत् स्तुतवती । निगमार्थवर्तनीः वेदार्थमार्गान् मीमां- समानं जगद्धिते जाग्रतं तात्पर्यवन्त शुचा हेतुना समितेः सभायाः अनुद्विजिनी भयं अगमयन्ती आर्तिभरात् पीडातिशयेन हेतुना कार्श्ये दधतौ --अनुद्विजित्रिति : ओ वि. जी भयचलनयो । ततस्तृच् । इडागमः। 'विज इट्' इति इडादेस्तृचो ङित्वात् 'किङितिच' इति गुणाभावः। अदेङ्गुणः' इति गुणसंज्ञा । 'ऋन्नेभ्यो ङिप्' इति ङिप् । मीमांसमानमिति । 'मान पूजायाम्' । 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य' इति मानेर्जिज्ञासायां सनभ्यासस्येकारस्य दीर्घश्च । दधतीति । 'डुधाञ् धारणपोषणयोः' । लट् । 'जुहोत्यादिभ्यः श्लुः' इति शपः लुः । 'प्रत्ययस्य लुक्श्लुलुपः' इति श्लुसंज्ञा । श्लौ' इति द्विवचनम् । 'उगितश्च' इति ङिप् । 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायाम् । 'नाभ्यस्ताच्छतुः' इति नुमभावः । आर्चिचत् । 'अर्च पूजायाम् । चुरादिः । लङि चङ् । 'चङि' इति द्विवचनम् । तच्च 'अजादेर्द्वितीयस्य' इति द्वितीयस्यैकाचः स्यात् । तत्र 'नन्द्राः संयोगादयः' इति रेफस्य न भवति । 'हलोऽनन्तराः संयोगः' [इति सं- योगसंज्ञा । जाप्रतमिति । 'जागृ निद्राक्षये । लटः शता 'जक्षित्यादयः षट्' इत्यभ्यस्त- संज्ञायां नुमभावः ॥ रजोगुणेनोर्णविता निज महो धियं दधद्विश्वसतत्त्वदृश्वरीम् । सिसृक्षितं संतनुषे त्वमीक्षया विभो कथं नूर्णुवितासि मे शुचम् ॥४॥ हे विभो, त्वं सिसृक्षितं स्रष्टुमिष्टं विश्वं ईक्षया ईक्षणेन संकल्पमात्रेण संतनुषे करोषि तथा सति मे शुचं कथं नु ऊर्णवितासि छादयितासि । रजोगुणेन निजं महः तेजः ऊर्णविता छादयिता विश्वसतत्त्वदृश्वरीं विश्वस्य सतत्त्वं पारमार्थिकं रूपंद्रष्ट्रीं धियं दधत॥- ऊर्णवितेति । 'ऊर्गुञ् आच्छादने । 'विभाषोर्णोः' इतीडादेः प्रत्ययस्य वा ङित्वम् । डित्वे उवड्। अडित्वे गुणः । संतनुषे इति । 'थासः से' 'सार्वधातुकमपित्' इति ङित्वे विकरणस्य गुणाभावः । सिसृक्षित मिति । 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इति सन् । सतत्त्वदृश्वरीमिति । 'दृशेः क्वनिप्' 'वनो र च' इति डीपि रेफादेशः । परमेश्वरस्य जगत्सिसृक्षात्मिका मायावस्था ईक्षणकामतपोवि. कीर्षादिशब्दरधीयते 'स ऐक्षत' इत्यादयः श्रुतयः॥ बहून्युदित्वा खलु या बभूव युद्दिवीह ये चक्रभृता निजघ्निरे । मयि द्विषस्ते जनिमेत्य तन्वते तनुं वृषस्य द्विपदीमनङ्घ्रिकाम् ॥ ५ ॥ बहूनि वक्तव्यानि उदित्वा उक्त्वा खलु या युत् युद्धं तारकामयाख्यं दिवि बभूव इह युधि ये चक्रभूता निजघ्निरे ते द्विषः असुराः मयि लोकरूपिण्यां जनिं जन्म एत्य वृवासुदेवविजयम् । षस्य धर्मस्य द्विपदीं पादद्वययुतां तनुं अनभिकां पादरहितां तन्यते । धर्ममशेषं नाशयन्ति । द्वापर युगेऽपि धर्मो द्विपात् ॥-निजन्निरे इति । 'असंयोगाल्लिट्कित्' इति किद्वद्भावात् 'गमहनजन-' इत्युपधालोपः । बभूवेति । 'इन्धिभवतिभ्यां च' इति लिटः किद्वद्भावाद्गुणाभावः । उदित्वेति । 'वद व्यक्तायां वाचि' अस्मात् क्त्वा । 'मृ- डमृदगुधकुषक्लिशवदवसः क्त्वा' इति कित्त्वे 'वचिस्वपियजादीनां किति' इति यजादि- त्वात्संप्रसारणम् । 'इग्यणः संप्रसारणम्' 'क्त्वातोसुन्कसुनः' इत्यव्ययसंज्ञा । द्विपदीमिति । द्वौ पादावस्य इति बहुव्रीहिः । 'संख्यासुपूर्वस्य' इत्यकारलोपः समासान्तः । 'पादोऽन्यतरस्याम्' इति वा ङिपि ‘पादः पत्॥ सुधाभुजोऽपि न्यजिघृक्षदोजसा यः कालनेमिः स हि कंसतामयन् । जिगीषया संकुटितापथा तिसृष्वाक्रीडते संप्रति लोकसीमसु ॥६॥ स हि कालनेमिः संप्रति कंसतामयन् प्राप्नुवन् जिगीषया जेतुमिच्छया तिसृषु लोकसीमसु लोकानामन्तेषु अपि आक्रीडते यः सुधाभुजो देवान् अपि ओजसा न्यजिघृक्षत् निगृहीतुमैच्छत् । अपथा अमार्गेण संकुटिता कौटिल्येन गन्ता । 'कुट कौटिल्ये' ॥--- न्यजिघृक्षदिति । 'ग्रह उपादाने' । 'धातोः कर्मणः-' इति सन् । 'रुदविदमुषग्रहिखपि- प्रच्छः संश्च' इति सनः कित्त्वम् । 'ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभूज- तीनां ङिति च' इति संप्रसारणम् । 'संप्रसारणाच' इति पूर्वरूपत्वम् । जिगीषयेति । 'इको झल्' इति सनः कित्वात् गुणाभावः । 'अज्झनगमां सनि' इति दीर्घः । तिसृष्विति । 'न षट्स्वस्त्रादिभ्यः' इति ङिप्प्रतिषेधः । सीमखिति । 'मनः' इति ङिप्प्रतिषेधः॥ न कोऽप्यशस्त्रीयदितः पुरा पुमान्न चायशस्काम्यदुवाह नो मुदम् । न धैर्यलक्ष्म्या समगस्त स प्रतानसावचिच्छित्सत यस्य वैभवम् ||७|| असौ कंसः यस्य पुंसः वैभवं अचिच्छित्सत छेत्तुमैच्छत् स तादृशः पुमान् कोऽपि कश्चिदपि इतः पुरा वर्तमानकालात् प्राक् न अशस्त्रीयत् आत्मनः अस्त्रमैच्छत् । न च अयशस्काम्यत् आत्मनः यशः ऐच्छत् । मुदं न उवाह । धैर्यलक्ष्म्या न समगस्त संगत- चान् । प्रतान् प्रकर्षण ताम्यन् ॥-अचिच्छित्सतेति । 'हलन्ताच' इति सनः कित्वम् । समगंस्तेति । 'गम्लृ गतौ' । 'वा गमः' इति सिचः कित्त्वविकल्पः । कित्त्वाभावपक्षे अनुनासिकलोपाभावः । अशस्त्रीयदिति । 'सुप आत्मनः क्यच्' इतीच्छायां क्यच् । अयशस्काम्यदिति । 'काम्यछ' इतीच्छायां सुपः काम्यच् । 'पाशकल्पकका- म्येषु' इति सकारः । उवाहेति । 'वह प्रापणे । लिख्यभ्यासस्योभयेषाम्' इति यजादि- वात्संप्रसारणम् ॥ अनुग्रहं मथ्यपशर्मणि प्रभो कृषीष्ट भित्सीष्ट ममापदं भवान् । असूषुपत्कस्त्वदृते परः सुखं निजौरसीयन्कृपणं तदार्तिहृत् ॥ ८॥ ५६ काव्यमाला । हे प्रभो, भवान् मयि अनुग्रहं कृषीष्ट कुरुतात् । अपशर्मणि अपगतं शर्म यस्याः। मम आपदं दुर्जनभरणलक्षणं भित्सीष्ट अपनयतात् । त्वदते परः अन्यः कः पुरुषः कृपणं दीनं जनं निजौरसीयन् निजं औरसं पुत्रमिवाचरन् तदार्तिहृत् तस्य पीडां हरन् सुख असूषुपत् खापितवान् । आर्त्यतिशये हि खापो दुर्लभः ॥-भित्सीष्टेति। 'लिड्सिचावात्म- नेपदेषु' इति लिड् कित्त्वाद्गुणाभावः । कृषीष्टेति । 'उश्च' इति कित्त्वाकुणाभावः । निजौ- रसीयन्निति । 'उपमानादाचारे' इति कर्मणः परः क्यच् । अपशर्मणीति । 'अनो बहु- बीहे. इति डीप्रतिषेधः । असूषुपदिति । 'जिध्वप् शये' । हेनुमण्ण्यन्तः चट् । 'स्वा- पेश्चङि' इति संप्रसारणम् । लघूपधगुणः । उपधाहखः। द्विवचनम् । “दी| लघोः ॥ पयायमानामपि तापदायिनी भृशायितातिम्लपितां गिरं भुवः । कृपायमाणोऽथ निशम्य चिन्तया क्षणं सतूष्णीमकृतासिकां विभुः॥९॥ अथ स विभुः भुवः गिरं निशम्य चिन्तया हेतुना तूष्णी आसिका अकृत कृतवान् । पयायमानां पय इवाचरति पयायते तादृशीमपि तापदायिनीं भृशायितार्तिग्लपितां अभृशा भृशा भूता भृशायिता । कृपायमाणः कृपावान् ॥-अकृतेति । 'उश्च' इति सिचः कित्त्वम् । पयायमानामिति । 'कर्तुः क्यड् सलोपश्च' इति क्यड् । पयसस्तु विभाषया' इति सलोपविकल्पः । पयस्यभानाम्' इति वा पाठः । भृशायितेति । भृशादिभ्यो- भुव्यच्वेर्लोपश्च हलः' इत्यर्थे ,क्यड् । कृपायमाण इति । 'लोहितादिडाज्भ्यः क्यष्' इत्यस्त्यर्थे क्यम् ॥ निश्चित्य सोऽथ सहपार्वतीपतिः सुरैस्तथाधार्मिकराजया भुवा । कष्टायमानस्य जनस्य शासितुस्तपस्यतां पत्युरगात्पदं हरेः॥ १० ॥ स ब्रह्मा अथै कर्तव्यं वस्तु निश्चित्य हरेः पदं क्षीराब्धिमगात् । सहपार्वतीपतिः सुरैस्तथा अधार्मिकराजया भुवा च सह । अधार्मिकाः अधर्मे चरन्तो राजानो यस्याः। कष्टायमानस्य पापं कर्तुं यतमानस्य जनस्य शासितुः तपस्यतां तपश्चरतां पत्युः ।।-कष्टायमानस्येति । 'कष्टाय क्रमणे' इति क्यद्द । तपस्यतामिति । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'तपसः परस्मैपदं च' 1 अधार्मिकराजयेति । 'अधर्माचेति वक्तव्यम्' इति ठक् । 'डाबुभाभ्यामन्यतरस्याम्' इत्यन्नन्तात् बहुव्रीहेर्डाप् । पार्वतीपतीति । 'तम् पर्वमुरुग्द्यो' इति मत्वर्थीयस्तप् । पर्वतस्थापत्यं पार्वती । 'अनुपसर्जनाद्' इत्यधिकृत्य 'टिड्ढाणद्वयसज्दघ्नमात्रच्तयप्ठक्ठञ्क्वरपः' इति ङिप् ॥ स्वान्याहत स्त्रैणमुरांसि यद्द्विषां नित्यं न चोदायत यत्परो जनः । सोषुष्यमाणं स तमेकजागृविं वावश्यमानो जगतां शमस्तवीत्॥११॥ स तं हरिं अस्तवीत् स्तुतवान् । यद्विषां यस्य शत्रूणां स्त्रैणं स्त्रीसमूहः खानि उरांसि आइत अताड्यत् । यत्परो यद्भक्तो जनो नित्यं न उदायत परदोषानासूचयञ्च । सोषुप्यमाणं पुनः पुनः स्वपन्तं एकजागृविं प्रधानजागरूकम् । जगतां शं सुखं वावश्य- 1 वासुदेवविजयम्। मानः भृशमिच्छन् ॥---आहतेति । 'आङो यमहनः', 'स्वाङ्गकर्मकाचेति वक्तव्यम्' इति तङ् । 'हनः सिच्' इति सिचः कित्त्वात् अनुनासिकलोपः । उदायतेति । 'यमो गन्धने' इति सिचः कित्त्वादनुनासिकलोपः । गन्धनं सूचनम् । सोधुप्यमाणमिति । खपेर्यट् । 'स्वपिखमिव्येबां यङि' इति संप्रसारणम् । वावश्यमान इति । 'वश कान्तौ'। कान्तिरिच्छा । यङि 'न बशः' इति संप्रसारणाभावः। जागृविमिति । 'जॄशॄस्तॄजागृभ्यः क्विन्' औणादिकः॥ पापठ्यमानस्य ऋचश्चतुष्पदाश्चेकीयमानस्य विधेरथात्मनि । वैरायमाणेषु विकाषिणा मधोरूष्मायमरणेन वचोऽन्वगृह्यत ॥ १२ ॥ अथ मधोः विकाषिणा हिंसकेन मधुसूदनेन विधेः ब्रह्मणः आत्मनि बुद्धौ वचो अस्वगृह्यत अनुगृहीतम् । चतुष्पदाः पादचतुष्टययुक्ता ऋचः पापठ्यमानस्य पौन:पुन्येन पठतः । चेकीयमानस्य भृशं पूजयतः । वैरायमाणेषु वैरं कुर्वाणेषु । ऊष्मायमाणेन ऊमाणमुद्रमता ॥-'बाष्पोष्मभ्यामुद्रमने' इति क्यङ् । 'अटकुप्वाङ्-' इत्यादिना णत्वम् । वैरायमाणेष्विति । 'शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे' इति क्यङ् । चतुष्पदा इति । 'संख्यासुपूर्वस्य' इत्यकारलोपः । 'टाबृचि' पादान्तादृचि वाच्यायां टाप् । कीयमानस्येति । 'चायृ पूजानिशामनयोः' । यडि 'चायः' 'की' इति कीआदेशः । विकाषिणेति । 'कष हिसांयाम्'। 'वौ कष-' इति धिनुण् । सुफीता दधत्प्रीतिमुपायतावनिं य एव पाथोथिकुमारिकामित्र। वाचं तदीयामथ सोऽदितात्मभूर्ययासुखायिष्टतरां त्रिविष्टपीम् ॥१३॥ अथ स आत्मभूः ब्रह्मा तदीयां विष्णुसंबन्धिनी वाचं अदित उक्तवान् य एव पायो- धिकुमारिका मिव लक्ष्मीमिव अवनि उपायत परिणीतवान् । स्फीतां प्रकृष्टां प्रीति दधत् । यया वाचा त्रिविष्टपीं त्रिभुवनं असुखायिष्टतरां अतिशयेन सुखमन्वभूत् ।।-उपायतेति । 'उपाद्यमः स्वकरणे' इति तङ् । विभाषोपयमने' इति सिचः कित्वम् । अदितेति । 'दाधाघ्वदाप्' इति धुसंज्ञा । 'स्थाघ्वरिच' इति कित्वामित्वं च । असुखायिष्टतरामिति । 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । 'अकृत्सार्वधातुकयोः' इति दीर्धः । कुमारिकामिति । 'वयसि प्रथमे','वयस्यचरम इति वक्तव्यम्' इति ङिप् । 'केऽणः' इति हखः । त्रिविष्टपीमिति । समाहारे द्विगु: 'द्विगोः' इति ङिप् । स्फीतामिति । 'स्फायी ओप्यायी वृद्धौ' क्तः । 'स्फायः स्फी निष्ठायाम्' इति स्फीआदेशः। 'क्तक्तवतू निष्ठा । क्षेत्रस्य भक्ती: सुधियां शतर्षभा द्राक्कोटिकाण्डाश्च हरन्यहंयवः । ये जागरित्वापथि भूरवेहि तान्प्रस्तीमपापानसुरान्प्रमापितान् ॥१४॥ हे भूः, तान् असुरान् प्रमापितान् हतान् अवेहि। ये अपथि अमार्गे जागरित्वा जागरूका भूत्वा सुधियां क्षेत्रस्य भक्तीः भागान् द्राक् झटिति हरन्ति । शतर्षभाः शतेन १. 'कीत' इति पाठः. काव्यमाला। ऋषभैः क्रीताः कोटिकाण्डाः काण्डकोटिप्रमाणाः । काण्डः प्रमाणविशेषः मानदण्डः । अहंयवः अहंकारिणः प्रस्तीमं धनीभूतं पापं येषाम् ॥-जागरित्वेति । 'न क्त्वा सेट्'इति कित्त्वाभावाद्गुणः । शतर्षभा इति । 'तेन क्रीतम्' इति ठक् । तस्य 'अध्यर्धपूर्वद्विगोर्लुगसं- झयाम्' इति लुकि 'अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि' इति न ङिप् । अभावे टाप् । कोटिकाण्डा इति । 'प्रमाणे द्वयसज्-' इति विहितस्य 'प्रमाणे लो द्विगोर्नित्यम्' इति लुकि कृते 'काण्डान्तारक्षेत्रे' इति ङिप्प्रतिषेधः । प्रस्तीमेति । 'स्त्यै ष्ट्यै शब्दसंघातयोः' । क्तः । 'स्त्यः प्रपूर्वस्य' इति संप्रसारणम् । 'प्रस्त्योऽन्यतरस्याम्' इति पक्षे मकारः। अहंयव इति । 'अहंशुभमोर्युस्' मत्वर्थीयः । भूरिति । 'नेयङुवङ्स्थानावस्त्री' इति नदीसंज्ञाभावाद्खाभावः । प्रमापितानिति। 'हन्त्यर्थाश्च' इति चुरादिणिच् । 'मीन तिमिनोतिदीङां ल्यपि च' इत्यात्वे पुक् ॥ आप्यानशीतांशुरुचौ नमस्थतः सुरक्षिताहौ शयितोऽपि पीनदोः । हव्यं सुरैरादयिता शृतं हुतं जनिष्यते स त्वयि विष्टरश्रवाः॥ १५॥ स विष्टरश्रवास्त्वयि भूलोके जनिष्यते । अहौ अनन्ते शयितः सुप्तोऽपि नमस्यतो नमस्कुर्वतो जनान् सुरक्षिता। आप्यानशीतांशुरुचौ । आप्यानः प्रवृद्धः। रुचिः शोभा। पीनदोः पीवरबाहुः । शृतं हुतं हव्यं सुरैरादयिता उपयोजयिता ॥-शयित इति । 'शीड् स्वप्ने'। तः। 'निष्ठा शीङ्खिदिमिदिक्ष्विदिधृषः' इति कित्त्वाभावे गुणः । नमस्यत इति । 'न- मोवरिवश्चित्रडः क्यच्, 'नमसः पूजायाम्' इति क्यच् । शीतेति । श्यैङ् गतौ क्तः । 'द्रव- मूर्तिस्पर्शयोः श्यः' इति संप्रसारणम् । शृतमिति । 'श्रा पाके' । क्तः । 'नृतं पाके' इति व्यवस्थितविभाषा । धातोः शृवादेशः । क्षीरहविषोर्नित्यम्, अन्यत्र न स्यात् । आप्या- नेति । 'स्फायी ओप्याथी वृद्धौ क्तः । 'प्यायः पी' इति व्यवस्थितविभाषया पी आ- देशः।अनुपसर्गस्य नित्यं सोपसर्गस्य न स्यात् । सुरैरिति । 'गतिबुद्धी-' इत्यत्र अदिखाद्योः प्रतिषेधो वक्तव्यः' इत्वणिकर्तुः कर्मलाभावः । विष्टरश्रवा इति । विष्टरो वृक्षोऽश्वत्थस्त- द्रूपत्वेन श्रूयते इति । 'अश्वत्थश्चास्मि वृक्षाणाम्' इति भारते। 'वृक्षासनयोर्विष्टरः' इति मूर्धन्यः ॥ माहा द्विदाम्नीर्बलतः पयोमराद्द्व्युरिवोत्पुच्छयमानतर्णकाः । जातः शुभंयोर्वसुदेवतः प्रभुस्वातां घटोघ्नीर्व्रजसीन्नि वर्त्स्यति ॥१६॥ प्रभुर्वसुदेवतो जातो माहा गास्त्राता व्रजसीन्नि वर्त्स्यति वर्धिष्यते । बलतः बलेन हेतुना द्विदाम्नीः द्वे दामनी यासां पयोभरात् क्षीरातिशयाद्धेतोः द्वधुध्निरिव द्वे ऊधसीआ- पीने यासाम् । उत्पुच्छयमानतर्णकाः पुच्छमुदस्यन्तस्तर्णकाः यासाम् । घटोघ्नीः घट इव ऊधो यासाम् । शुभंयोः शुभान्वितात् ॥-उत्पुच्छयमानेति । 'पुच्छभाण्डचीचराष्णिड्', १. 'गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी' इति हैम:. २. 'नाम्नीः' इति पाठः, वासुदेवविजयम् । 'पुच्छादुदसने पर्यसने चा' इति णिड् । द्विदाम्नीरिति । 'दामहायनान्ताच्च' इति संख्यादेर्ङिप् । घटोघ्निरिति । ऊधसोऽनङ्' समासान्तः । 'बहुव्रोहेरूधसो ङिष्' द्युघ्निरिति । 'संख्याव्ययादेर्ङिप्' इति संख्यादित्वाद् ङिप् ॥ विमिश्रयन्विश्वमिदं यशोभरैः पेपीयमानैर्भगवान्भुजंगराट । अमर्षितस्यापदि नो मधुद्विषस्तस्यानियत्वेन जनुर्ग्रहिष्यते ॥ १७ ॥ भुजंगराट् अनन्तो भगवान् तस्य मधुद्विषो अग्रिवत्वेन अग्रजत्वेन जनुर्जन्म ग्रहीष्यते । पेपीयमानैः क्रियासममिहारेण वर्धमानैर्यशोभरैरतिशयितैर्यशोभिः इदं विश्वं विमि- श्रयन् मिश्रं कुर्वन् नोऽस्माकमापदि अमर्षितस्य अक्षान्तस्य । विमिश्रयन्निति । 'मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तभ्यो णिच्' इति करणे णिच् । पेपीयमानैरिति । धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' पौनःपुन्यं भृशार्थों वा क्रियासमभिहारः। 'लि. ज्यडोश्च' इति धातोः पीआदेशः । 'भूषस्तितिक्षायाम्' इति सेटो निष्ठाया मि] । कि- स्वाभावात् गुणः । अप्रियेति । 'घच्छौ च' इत्याशब्दाद्भावे घः ॥ चक्रम्यमाणानसद्ध्वनौजसा शोशूयमानान्समरे जिघांसतः । तान्दन्दशकान्सहकृत्वरीहरेर्मायाग्र्यधाग्र्येष्यति नन्दतो जनिम्॥१८॥ माया हरेः सहकृत्वरी सहकारिणी सती नन्दतो नन्दगोपात् जनि जन्म एष्यति । दन्दशूकान हिंसान असुरान् समरे जिघांसतः असध्वना दुर्मार्गेण चङ्कम्यमाणान् कौटिल्येन गच्छतः ओजसा शोशूयमानान् भृशं वर्धमानान् अग्र्यधम्नि अग्र्यं श्रेष्ठ धाम प्रभावो यस्याः ॥-चक्रम्यमाणानिति । 'क्रमु पादविक्षेपे । 'नित्यं कौटिल्ये गतौ' इति गत्यर्थात् कौटिल्य एव यङ् । 'नुगतोऽनुनासिकान्तस्य' इत्यभ्यासस्य नुक् । दन्दशूकानिति । 'दंश दंशने। 'लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्' इति धात्वर्थगीयामेव यड् । 'यजजपदशां यडः' इत्युकः । अग्र्यधाम्नीति । 'अग्राद्यत्' 'तत्र भवः' इत्यर्थे 'अन उपधालोपिनोऽन्यतरस्याम्' इति वा ङिप् । 'अल्लोपोऽनः', 'अलोऽन्त्यात्पूर्व उपधा', 'अदर्शनं लोपः' । शोशूयमानानिति । 'विभाषा श्वेः' इति लिड्यडोर्वा संप्रसारणम् । 'शेश्वी- यमानान्' इति वा पाठः॥ उद्द्योतितं येन विपत्तमःसु वः प्रागप्यतिप्रद्युतितस्य शार्ङिणः । तस्याद्य नः पालयितुं ब्रजेत गां साहायकेनैधयितुं मुदं सुराः ॥१९॥ हे सुराः, यूयं साहायकेन सहायेन व्यापारेण तस्य शार्ङिणः मुदं एधयितुं वर्धयितुं गां भुवं ब्रजेत गच्छेत । येन शार्ङिणा वः विपत्तमःसु विपत्खेव तमाःसु प्रागपि उद्दयोतितं प्रज्व- लितं अत्यन्ततेजखिना भूतं अद्य नः पालयितुं अतिप्रद्युतितस्य अतिशयेन प्रयोतितुमार- ब्धस्य ॥ उद्द्योतितमिति । 'द्युती दीप्तौ । भावे क्तः । उदुपधाद्भावादिकर्मणोरन्यतर- स्याम्' इति सेटो निष्ठायाः पक्षे कित्वाभावः। प्रद्युतितस्रेत्यादिकर्मणि कित्त्वपक्षः । पाल- यितुमिति । सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वववर्मवर्णचूर्णचुरादिभ्यो णिच्' इति काव्यमाला। चुरादिभ्यः स्वार्थे णिच् । एधयितुमिति । 'हेतुमति च' इति स्वतन्त्रस्य कर्तुः प्रेरकः, तव्यापार प्रेषणादौ वाच्ये णिच् । साहायकेनेति । 'सहायाद्वा' इति वुञ् । महीयमानस्य महीं ब्रजेज्जगद्गोपायितुं कामयितुर्मनुष्यताम् । ऋतीयमानस्य धृतिं सपर्यया देवस्य शिश्वाययिषद्द्युयौवनम् ॥२०॥ द्युयौवनं स्वर्गयुवतिसमूहः देवस्य सपर्यया पूजया धृति मुदं शिश्वाययिषत् वर्धयितु- मिच्छत् महीं व्रजेत गच्छतु । जगत् गोपायितुं रक्षितुं मनुध्यतां कामयितुरेषणशीलस्या- महीयमानस्येति। 'महीङ् पूजायाम्। 'कण्ड्वादिभ्यो यक्' । गोपायितुमिति । 'गुपूधूपविच्छिपणिपनिभ्य आयः' । ऋतीयमानस्येति । ऋतिः सौत्रो धातुर्घृणायां वर्तते । 'ऋतेरीयड्। कामयितुरिति । 'कमेर्णिङ्' । शिश्वाययिषदिति । श्वर्णिजन्तात् सनि शतृ णौ च संश्चडोः' इति संप्रसारणे विकल्पः। यौवनेति । युवतिशब्दात् भिक्षाद्यणि विषये पुंबद्भावा- त्तिप्रत्ययनिवृत्तिः । 'अन्' इति प्रकृतिभावात् 'नस्तद्धिते' इति विलोपाभावः ॥ पादाब्जधूल्या पवितां विधाय गां यशो गुफित्वा विभवोऽपि भूयसि । अजोऽषित्वासुरभारजा रुजो भुवोलुचित्वाशु पदं स्वमेष्यति ॥२१॥ अजो विष्णुरेवं कृत्वा आशु खं पदमेष्यति प्राप्स्यति । किं कृत्वा । पादाब्जधूल्य श्री. पादारविन्दपरागेण गां भूमि पवितां विधाय यशो गुफित्वा प्रथितं कृत्वा भूयसि बहु- तरेऽपि विभवे अतृषित्वा स्पृहामकृत्वा भुवः असुरभारजाः रुजः पीडाः लुचित्वा अ- पनीय ॥---पवितामिति । क्तः । 'पूडच' इति वेट् । 'पूङ्ः क्त्वा च' इति कित्त्वाभावः। गुफित्वा इति । 'गुफगुम्फ ग्रन्धे' । 'नोपधात्थफान्ताद्वा' इति पाक्षिकः कित्त्वाभावः । लु- चित्वेति । 'लुक्षु अपनयने । का। वञ्चिलुञ्च्यृतश्च' इति वा कित्त्वप्रतिषेधः । अतृषित्वा इति । 'जितृष पिपासायाम्'। 'तृषिमृषिकृषः काश्यपस्य' इति सेटः काप्रत्ययस्य वा कित्त्वम् । एष्यति । 'स्यतासी लृलुटोः' इति लृटि स्यः॥ कृत्वेति दिद्योतिषु निर्मनोरुजं हृदिस्पृशा सार्वगिराविचाचलिः । गोप्ता सतां तत्स सदस्ततोऽश्वयीदतिधु वेधा निजधाम चित्रगुः ॥२२॥ स वेधाः तङ् सदः तां सभामिति सार्वगिरा सर्वस्मै हितया गिरा निर्मनोरुजं मनोरुजाया मनःपीडायाः निर्गतं कृत्वा ततः तस्मात् स्थानात् निजधाम अश्वयीत् गतवान् । सतांख- धर्मनिरतानां गोप्ता । अविचाचलिः स्थिरबुद्धिः। चित्रगुः चित्राः गावो यस्य । दिद्यो- विषु द्योतितुमिच्छु । हृदिस्पृशा मनोहरया हृदि स्पृशतीति । अतिद्यु द्यामतिक्रान्तम् ॥--- दिद्योतिष्विति । 'रलो ब्युपधाद्धलादेः संश्च' इति सेटः सनः पाक्षिके कित्त्वाभावे गुणः । सार्वगिरेति । सर्वस्मै हिता । 'सर्वपुरुषाभ्यां णढोञौ' इति णप्रत्यय आदिवृद्धिः।] 'गॄ शब्दे' । संपदादित्वात् क्विप् । 'अपृक्त एकालप्रत्ययः' इत्यपृतसंज्ञा । 'वेरपृक्तस्य' इति वेलोपः। 'तत्पुरुषः समानाधिकरणः कर्मधारयः' इति कर्मधारयसंज्ञा । पुंवत्कर्मधारय-' वासुदेवविजयम् । इवि पूर्वपदस्य पुंबद्भावः। निजधामेति । विशेषणसमासः । 'प्रथमानिर्दिष्टं समास उपसर्ज- नम्' इत्युपसर्जनसंज्ञा । 'उपसर्जनं पूर्वम्' इति निजशब्दस्य पूर्वनिपातः । निर्मनोरुज- मिति । 'निरादयः कान्ताद्यर्थे पञ्चम्या' इति समासः। 'एकविभक्ति चापूर्वनिपाते' इति मनोरुजाशब्दस्योपसर्जनसंज्ञा । 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । “कृत्तद्धितसमा- साश्च' इति प्रातिपदिकसंज्ञायां सुप् । वेधा इति । 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' इति प्रातिपदिकसंज्ञा । चित्रगुरिति । 'गोलियोरुपसर्जनस्य' इति ह्रस्वः । अतिद्यु। 'अत्यादयः कान्ताद्यर्थे द्वितीयया' इति समासः । 'ह्रस्व नपुंसके प्रातिपदिकस्य' इति ह्रस्वत्वम् । 'एच इग्घ्रस्वादेशे' इति ह्रस्वादेशे 'स्थानेऽन्तरतमः' 'ऊकालोऽज्झ्रस्वदीर्घ- प्लुतः' । गोप्ता इति । 'आयादय आर्धधातुके वा' इति तृचि पाक्षिक आयः । हृदि- स्पृशेति । 'हृद्युभ्यां ङेरुपसंख्यानम्' इत्यलुक् । अविचाचलिरिति । चलेर्यङ् । 'सहिच- लिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ ।। ऐन्द्रीं पुरीमाजुहुवे चकासती या शूरसेनेषु विभाति नीवृति । गुण्येषु पुण्या मधुरेति पूरभूत्तत्रोग्रसेनः किल पार्थिवाग्रणीः ॥ २३॥ मधुरा इति प्रसिद्धों या पूरैन्द्री पुरीमाजुहुवे स्पर्धया आहूतवती । तत्र उग्रसेनः पा- र्थिवाग्रणीः राजश्रेष्ठः अभूत् किल । शूरसेनेषु नीबृति जनपदे चकासती शोभमाना वि- भाति (दीव्यमाने) । गुण्येषु गुणवत्सु पुण्या शुद्धकरी ॥-~-पूरसेनेष्विति । शूरसेनानां राज्ञां निवास इति विगृह्य 'तस्य निवासः' इत्यण । तस्य 'जनपदे लुप्' । 'लुपि युक्त- बयक्तिवचने' इति प्रकृत्यर्थवदेव लिङ्गसंख्ये । गुण्येष्विति । याप्रकरणे 'अन्येभ्योऽपि दृश्यते' इति याप्रत्ययः । यानि विशेषणानि तेषां युक्तवद्भावाभावः(१) । पार्थिवाग्रणी- रिति । 'सर्वभूमिपृथिवीभ्यामणी' इत्यण् । 'तस्येश्वरः' इत्यर्थे । 'अग्रग्रामाभ्यां नय- ते वक्तव्यः' इति णत्वम् । नीवृतीति संपदादित्वादृतेः क्विप् । 'नहिवृति-' इति नेर्दीर्घः । आजुहुवे इति । 'हेञ् स्पर्धायामाह्वाने' । 'अभ्यस्तस्य च इति द्विवचनात् पूर्वं संप्रसारणम् ॥ उवुस्तथान्ये न नृपा वृषापि नो ववौ यथोवाय यश:पटं गुणैः । सोऽविद्धचेता विषयेण तेन वा निजेव पत्नी पतिवन्यभून्मही ॥२४॥ स उग्रसेनो गुणैरुरागाभिगाभिकैः सांसामिकैश्च यशःपटं यश एव पटं यथा उवाय व- यति स, तथा अन्ये नृपाः न ऊवुः उतवन्तः। वृषा इन्द्रः तथा नो क्वौ न उतवान् । विषयेण विषयैः शब्दादिभिरविद्धचेताः अनभिभूतचित्तः। तेन निजा पत्नीव मही पति- वत्नी सभर्तृका अभूत् ॥-विषयेणेति । 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्' इति जात्यर्थस्य वा बहुवद्भावः । विद्धति । 'न संप्रसारणे संप्रसारणम्' इति पूर्व परस्य संप्रसारणे कृते पूर्वस्य प्रसक्तं प्रतिषिध्यते । उवायेति । 'वेञ् तन्तुसंताने । 'वेञो वयिः' इति 'लिटि वयो यः' इति यकारस्य संप्रसारणं प्रतिषिध्यते । ऊबुरिति । 'वश्वास्यान्यतरस्या किति' इति यकारस्य वा वकारः । क्वाविति । 'वेषः' इति संप्रसारणद्वयं प्रतिषि६२ काव्यमाला। ध्यते । पतिवनीति । पतिशब्दान्मतुप् । 'अन्तर्वत्पतिवतोर्नुक् । नान्तत्वादुगित्वान्ङिप् । पत्नीति । 'पत्यु! यज्ञसंयोगे" इति पतिशब्दस्य नकारः, नान्तत्वान्डीप् ॥ प्रवाय कीर्ति सिचयं दिशोऽमुना प्रवाय सम्यक्परिवीय वा दिवम् । बभूव राजन्सहजोऽस्य देवकः प्रज्याय सन्तं सुजनं निषेविता ॥२५॥ अस्य उग्रसेनस्य सहजो देवको बभूव । कीर्ति सिचयं वस्त्रं प्रवाय । अमुना सिचयेन दिशः प्रवाय आच्छाद्य दिवं च सम्यक् परिवीय परिवीतां कृत्वा राजन् दीव्यमानःप्र. ज्याय सन्तं जरद्भूय दर्तमानं सुजन निषेविता वृद्धसेवकः ॥-प्रवायेति । 'ल्यपि च' इति वेजः संप्रसारणाभावः। प्रज्यायेति । 'ज्या वयोहानौ' । 'ज्यश्च' इति त्यपि संप्रसारण- प्रतिषेधः । प्रवायेति । वेनः संप्रसारणे 'व्यश्च' इति ल्यपि संप्रसारणाभावः । परिवीयेति । 'विभाषा परेः' इति वेलो ल्यपि संप्रसारणम् । 'हलः' इति दीर्घत्वेन तुग् बाध्यते ॥ पूतक्रतायीं च मनुं च मानवी वृषाकपायीं च करिष्यती तिरः। उल्लालसामास गुणैरकृत्रिमै रतेः सपत्नीव सुतास्य देवकी ॥२६॥ अस्य देवकस्य देवकी नाम सुता उल्लालसामास भृशं शुशुभे । अकृत्रिमैः खाभा- विकैर्गुणैरेतास्तिरकरिष्यती तिरः कर्तुमारब्धा । पूतकतायीं पूतक्रतोरिन्द्रस्य स्त्रियं शचीं मनुं मनोः स्त्रियं शतरूपां च, मानवीं मनोः रुधपत्यं देवहूतिम् , वृषाकयायीं वृषाकपः स्त्रियं च श्रियं गौरी वा । रतेः सपत्नीव तया सदृशी ।।-उल्लालसामासेति । लसः (8) 'कास्प्रत्ययादाममन्ले लिटि' इति लिटि आम्प्रत्ययः । 'कास्यनेकाच इति व- क्तव्यम्' । 'चुलुम्पाद्यर्थः । सपत्नीति । 'नित्यं सपत्न्यादिषु' इति निपात्यते । समानः प. तिरस्या इति विग्रहः । पतिशब्दस्य नकारः । समानस्य सत्वं ङिप् । पूतकतायीमिति । 'पूतक्रतोरै च' इति ङिप् । ऐकारादेशश्च । वृषाकपायीमिति । 'वृषाकप्यग्निकुसितकुसि- दानामुदात्तः' इति ङीवैकारादेशौ । 'हरविष्णू वृषाकपी' 1 मनुमिति । 'मनोरौ वा' इति डीप्सहितयोरौकारैकारयोरभावे पाक्षिके रूपम् । मानवीमिति । मनोरपत्यमित्यण् । दे- वकीमिति । देवकस्यापत्यं देवकी । 'अत इन्', 'संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः। 'इतो मनुष्यजातेः' इति ङीप् । देवकी ।। गार्गीव विज्ञानचणा यशश्चयैः श्येनी: कटाक्षोष्ठमृदुस्मितैर्दिशः । गौरीगरिष्ठा शबलीवितन्वती सैधांबभूवाद्भुतकामनीयका ॥ २७ ॥ सा देवकी एधांबभूव ववृधे । गार्गी गर्गस्य गोत्रख्यपत्यमिव विज्ञानचणा ज्योतिषा- दिज्ञानेन प्रसिद्धा। यशश्चयैः दिशः श्येनीः श्वेतवर्णाः वितन्वती। कटाक्षोष्ठमृदुस्मितैः दिशः शबलीः चित्रवर्णा वितन्बती । गौरीगरिष्टा गौरीव गुरुतरा । अद्भुतकामनीयका । कामनीयकं कमनीयत्वम् ॥ -एधांबभूवेति । 'इजादेश्च गुरुमतोऽनृच्छः' इति आम् । आमो मित्वमदन्तत्वात् 'आमः' इति लुक् । कृत्संज्ञायां प्रातिपदिकत्वे सु, तस्य 'अव्यवासुदेव विजयम् । यादाप्सुपः' इति सुपो लुक् । 'खरादिनिपातमव्ययम्' इत्यव्ययसंज्ञा । अम्आमिति स्व. रादिषु पठ्यते । गार्गीति । 'गर्गादिभ्यो यञ्', 'यञश्च' इति ङीप् । श्येनीरिति । श्येतो गुणोऽस्यास्तीति श्येतः। गुणवचनेभ्यो मतुपो लुग्वक्तव्यः' । 'वर्णादनुदात्तातोपधात्तो नः' इति वा ङीप् तकारस्य नकारः । (शबलोरिति) अन्यतो ङीष् । गौरीति । "षिद्गौरादिभ्यश्च' इति ङीष् । कामनीयका इति । 'योपधाद्गुरूपोत्तमाद्वुञ्' । भावकर्मणोः ॥ स्वःस्त्रैणसौत्राभिमतिं सतीतरा विव्याय तत्रे कुलधर्मसंपदम् । सा जागरामास निषेवणे हरेरासांबभूवात्मसु पुण्यशालिनाम् ॥ २८॥ सा स्वःस्त्रैणसौत्राभिमति स्वर्गस्त्रीसमूहस्य सुस्त्रीत्वाभिमानं विव्याय संवृतं चकार । सतीतरा अतिशयेन साध्वी कुलधर्मसंपदं खकुलधर्मसमृद्धि तत्रे ररक्ष । हरेनिषेवणे जा- गरामास तत्परा बभूव । पुण्यशालिना आत्मसु आसांबभूव उपविवेश ॥-जागरामासेति । 'उपविदजागृभ्योऽन्यतरस्याम्' इत्याम् । तत्र इति । आदेच उपदेशेऽशिति' इत्यात्वम् । लिटः कित्त्वे आतो लोपः। 'द्विर्वचनेऽचि' इति स्थानिवद्भावे द्विवचने पुनरप्याल्लोपः । विव्यायेति । 'न व्यो लिटि' इत्यात्त्वाभावः । 'लिट्यभ्यासस्योभयेषाम्' इति संप्रसार- णम् । एलि 'अचो ञ्ण्ति' इति वृद्धिः । [सौस्त्रमिति । ] सुस्त्रीशब्दाधुवादित्वादण् भावे ।। विदांकुरु श्रीमति पुत्रि नो गिरः स्फारादरेति प्रतिपित्सुरागमान् । गुरोः सदाध्यापयतोऽनुशासनं नम्रेण मूर्ध्ना बिभरांचकार सा॥२९॥ सा गुरोः इति अनुशासनं नम्रेण मूर्धा सदा बिभरांचकार धृतवती । हे पुत्रि, नः गिरः विदांकुरु जानीहि । इति स्फारादरा स्फारः प्रचुरः । प्रतिपित्सुः ज्ञातुमिच्छुः । आ- गमानध्यापयत्तः नः ॥-न इति । 'अस्मदो द्वयोश्च' इति वा बहुत्वम् । बिभरांचकारेति । 'डुभृञ् धारणपोषणयोः' । 'भीहीभृहुवा श्लुवच' इति वा आम् । श्वद्भावाद्विवचनम् । 'कृञ्चानुप्रयुज्यते लिटि' इति लिङन्ताः कृभ्वस्तय आम्प्रत्ययस्य पश्चात्प्रयुज्यन्ते। वि. दांकुर्विति । 'विद ज्ञाने' । 'विदाकुर्वन्वित्यन्यतरस्याम्' इति निपातनम् । लोट्याम्प्र- त्ययः । गुणाभावः । लोटो लुक् । 'कृञो लोटपरस्यानुप्रयोगश्च न केवलं प्रथमपुरुषबहु- वचनान्तः । 'सर्वाण्येव लोवचनान्यत्र प्रयुज्यन्ते' इति वृत्तौ । स्फारेति । 'स्फुरति- स्फुलत्योर्षञि' इति एच आकारः । अध्यापयत इति 'क्रीड्जीनां णौ' इति एचः स्थाने आकारः ॥

  • गुणैर्यदीयैरतृपन्दिवौकसो व्यध्रुक्षदुञ्चैन च पुण्यकर्म यः।

अमूमुपायंस्त यदोः स जन्मना विभूषयन्नानकदुन्दुभिः कुलम् ॥३०॥ स आनकदुन्दुभिरमूं देवकीमुपायंस्त परिणीतवान् । यदीयैर्गुणैर्दिवौकसोऽप्यतृपन ज- हषुः । यश्च उच्चैर्महदन्तःकरणशुद्धिद्वारकमुक्तिप्रदं पुण्यकर्म न व्यवक्षत् अर्थकामफलन- १. 'कृन्मेजन्तः' इत्यव्ययसंक्षा इति तत्त्वम्. काव्यमाला तथा लघूकृतवान् । 'ये स्वधर्मे दह्यन्ति धीराः कामार्थहेतवे' इति भागवते । जन्मना यदोः कुलं विभूषयन् यदुकुलालंकारभूतः ॥-- दिवौकस इति । देवानां बहूनां प्रत्यर्थ- शब्दनिवेशे 'सरूपाणामेकशेष एकविभक्तौ' इति एक एव शिष्यते अन्येषां निवृत्तिः। उपायंस्तेति । "चिल लुङि' 'च्लेः सिच्' । सिचः कित्वाभावपक्षे अनुनासिकलोपा. भावः । अतृपन्निति । 'स्पृशमृशकृशतृपदृपां च्ले: सिज्वा वक्तव्यः' इति सिजभावपक्षेच्ले. रङ् । अदृक्षदिति । 'शल इगुपधादनिटः क्सः' इति च्लेः क्सादेशः । 'दादेर्धातो.' इति हस्य घः । 'एकाचो वशो भष्-' इत्यादिना धत्वं धस्य चर्वम् ।। गर्गेण निर्व्यूढविवाहसंस्कृती तौ चक्रवाकाविव वत्सलौ मिथः । वात्स्यादि गाग्र्याविव दंपती गतौ वाडव्यमाश्लिक्षदुदश्रु हर्षुलम् ॥३१॥ तौ दंपती वात्स्यादि वाडव्यं ब्राह्मणसमूहः यथोचितमाश्लिक्षत् आलिलिङ्ग । वात्स्यी च वात्स्यायनश्च वात्स्यौ । गार्ग्याविव । गार्गी व गार्गायणश्च गार्ग्यौ । गर्भण कुलगुरुणा निर्व्यूढविवाहसंस्कृती कृतविवाहसंस्कारौ । चक्रवाकाविव । जन्मान्तरवासनया व- त्सलौ स्निग्धौ । चक्रवाकश्च चकवाकौ च चक्रवाकौ । उदश्रु स्नेहात् उद्गतबाष्पं हर्षुलं हर्षयुतम् ॥—गर्ग्याविति । 'वृद्धो यूना तल्लक्षणश्चेदेव विशेषः' इति वृद्धः शिष्यते । 'अपलं पौत्रप्रभृति गोत्रम्' । अपत्यमन्तर्हितं वृद्धम् । वात्स्येति । 'स्त्री पुंवच्च' इति यूना सहवचने वृद्धा स्त्री शिष्यते । तस्याः पुमर्थवद्भावश्च । चक्रवाका विति । 'पुमान् स्त्रिया' इति पुमान् शिष्यते । हर्षुलमिति । हर्षेरुलच् औणादिकः । आश्लिक्षदिति। 'षि आलिङ्गने' इति क्सः ॥ अतूतुषत्तां कबरीधृतस्रजं कंस: कनिष्ठामुपलाल्य देवकीम् । अदर्शतां सादरमानुकूलिकौ पुत्रौ दधानः पितरौ कृतार्थताम् ॥ ३२ ॥ कंसः कनिष्ठां तां देवकी उपलाल्य अतू तुषत् तोषयति स्म । कबरीवृतस्रजं कबरी केशरचना । पितरौ माता पिता च । आनुकूलिको अनुकूलं वर्तमानौ। पुत्रं दुहितरं च पुत्रौ सादरमदर्शताम् अपश्यतां कृतार्थतां दधानौ ॥-पुत्राविति । 'भ्रातृ- पुत्रौ स्वसूदुहितृभ्याम्' इति पुनः शिष्यते । दुहिता निवर्तते । पितराविति । 'पिता मात्रा' इति पितावशिष्यते । अदर्शतामिति । 'न दृशः' इति क्साभावे 'इरितो वा' इत्यङ् । 'ऋदृशोऽङि गुणः' । 'उरण रपरः' । अतूतुषदिति । णिश्रिद्वसुभ्यः कर्तरि चड्' इति च्लेश्चड् । 'णौ चड्युपधाया ह्रस्वः' । 'चङि' इति द्विवचनम् । कबरीति । जन- पदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराहृत्यमत्रावपनाकृत्रिमात्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु' इति ङीष् ।। बाप्पायमाणौ श्वशुरौ प्रणम्य तौ शौरिवियोगार्थ्यपदातृचेतसौ। वस्त्यात्तदीयादथ साधितार्थया जन्यान्वितो बन्धुतया निरैयत ॥३३॥ वासुदेवविजयम् । ६५ अथ शौरिः जन्यया भार्यया सह तौ श्वशुरौ श्वशुर श्वश्रू च प्रणम्य तदीयात् वस्त्यात गृहात् निरैयत निर्गतवान् । बाष्पायमाणौ बाष्पमुद्रमन्तौ वियोगार्त्युपदातृचेतसौ । उपदातृ क्षयं गन्तृ । साधितार्थया बन्धुतया बन्धुसमूहेन अन्वितः । अर्थो विवाहः ।।--- श्वशुराविति । श्वशुरः श्वश्वा' इति श्वशुरः शिष्यते । श्वशुरस्योकाराकारयोर्लोपश्चेति वक्तव्यम्' इति ऊङि श्वश्रूः । साधितेति । 'सिध्यतेरपारलौकिके' इलात्वम् । उपदातृ इति । दीङ् क्षये । 'मीनातिमिनोतिदीडां ल्यपि च' इत्यात्वम् । बन्धुतयेति । 'ग्राम- जनबन्धुसहायेभ्यस्तल् ॥ शोणीहूर्गा धवलाश्च बर्करान्पटूश्च दासीर्गुणशालि हास्तिकम् । पुत्र्यै पिता यौतकमुन्मनीभयन्नदिक्षदश्वात्रथकट्यया सह ॥ ३४ ॥ पिता पुत्र्यै यौतकं स्त्रीधनं अदिक्षत् दत्तवान् । किं तत् । शोणीः धवलाश्च बहूः गाः वृषभांश्च । बर्करान् तरुणान् पशून् तरुणीश्च । पटुः दासीश्च । गुणशालि हास्तिकं हस्तिनां हस्तिनीनां व समूहम् । अश्वान् अश्वाश्च । रथकट्यया रथसमूहेन सह । उन्म- नीभवन् उत्कीभवन् ॥-[गा इति । ] 'ग्राम्यपशुसंघेष्वतरुणेषु स्त्री' इति स्त्री शिष्यते । तस्तुवर्करानिति(2) । अश्वानिति । 'अनेकशफेष्विति वक्तव्यम्' इति पुमान् शिष्यते । शोणीरिति । 'शोणात्प्राचाम्' इति वा ङीप् । पद्वरिति । 'वोतो गुणवचनात्' इति वा ङीप् । हास्तिकमिति । 'अचित्तहस्तिधेनोष्ठक्' समूहे हस्तिनी । प्रातिपदिकात्तु 'भस्याढे तद्धिते' पुंवद्भावो वक्तव्यः । रथकव्ययेति । 'इनित्रकव्यचश्च' इति स्थात् क- व्यच् । पुत्र्यै इति । गौरादिः । केचिच्छार्ङ्गरवादिपाठात् ङीनिति । अन्यस्त्वाह--पुत्रा- द्वेति पुत्रा पुत्रीति ॥ व्यतिप्रभानो विविधस्तदोच्चकैस्तत्रैधते माङ्गलिक: स्म निस्वनः । रथेन कंसप्रगृहीतरश्मिना जायापतीभ्यामथ निर्यये शनैः ॥३५॥ तदा तत्र माङ्गलिकः मङ्गलार्थों विविधो निस्वनः उच्चकैः एधते स्म । व्यतिप्रभानः अन्योन्यविनिमयेन प्रकर्षण शोभमानः अथ जायापतीभ्यां रथेन शनैः निर्यये निष्का- न्तम् । कंसप्रगृहीतरश्मिना कंसः सारथ्यमकरोत् ॥ एधते इति । 'एध वृद्धौ'। 'भूवा- दयो धातवः' इति धातुसंज्ञा । 'उपदेशेऽजनुनासिक इत्' इति अकारस्येत्संज्ञायाम् 'तस्य लोपः' इति लोपः । 'अनुदात्तङित आत्मनेपदम् । निर्यये इति । 'भावकर्मणोः' इत्यात्मनेपदम् । व्यतिप्रभानः । 'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् ॥ शस्त्रापगोरं चलतां पदोद्धतं रजो भटानामद्धत्प्रभां रवेः । क्ष्वेला च वादित्रनिनादमांसला धनाधनानां निनदं निरास्थत॥३६॥ भटानां पदोद्धतं रजः रवेः प्रभां अदधत् अपिबत् । शस्त्रापगोरं शस्त्राण्युद्यम्य च- लतां गच्छतां श्वेला सिंहनादः च धनाधनानां वर्षाकालमेघानां निनदं निरास्थत निरकाव्यमाला। स्यति स्म । बादित्रनिनादमांसला !-अदधदिति । 'धेट् पाने' । “विभाषा धेट्श्व्यो' इति चङ् । 'चुटू' इति चकारस्येत्संज्ञा । निरास्थतेति । असु क्षेपणे'। 'उपसर्गदस्य- त्यूयोर्वा ववनम्' इति तङ्। 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरङ्। 'अस्यते- स्थुक्' । शस्त्रापगोरमिति । द्वितीयायां च' इति णमुल् । 'अपगुरो ण्मुलि' इति वा आत्वम् । 'शस्त्रापगोरम्' इति वा पाठः । रज इति । 'रजकरजनरजस्सूपसंख्यानम् इति रञ्जनलोपः। पद्गाः सलीलं व्यतिजग्मुरुत्सुकाः परस्परं व्यत्यभवंश्च वेगिनः । अन्योन्यमुच्चैर्व्यतिध्वनुः पथि न्यविक्षतान्तःपरमोत्सवो नृणाम् ॥३७ पद्गाः पद्भ्यां गच्छन्तः पदातयः पथि सलीलं व्यतिजग्मुः क्रियाविनिमयेन गतवन्तः। परस्परं व्यतिभवंश्च क्रियाविनिमयेनाभवंश्च । अन्योन्यमुच्चैर्व्यतिदध्वनुः शब्दं चकुश्च । उत्सुकः वेगिनः । परमोत्सवः नृणां अन्तः अन्तःकरणं न्यविक्षत ॥व्यतिजग्मुरिति । 'न गतिहिसार्थेभ्यः' इति तङ्भावः । इतरेतरान्योन्योपपदाच' इति तङ्भावः । व्यत्यभवन्निति । 'परस्परोपपदाचेति वक्तव्यम्' इति तङ्भावः । न्यविक्षतेति । 'ने- विंशः' इति तङ्। पद्गा इति। हलन्त्यपक्षः (सूत्रप्राप्तायाः)। 'न विभक्तौ तुस्माः' इति असः सकारस्येत्संज्ञाया अभावः॥ विस्मापयित्री जनमुग्रसेनजं द्रारंभापयित्री भृशमस्य पञ्चताम् । निश्चापयन्ती निकटे तदा वियत्युच्चैरुदस्थादशरीरिणीति गीः ।।३८॥ तदा वियति वक्ष्यमाणप्रकारा उच्चैः अशरीरिणी गीः निकटे उदस्थात् जनं विस्मा- पयित्री उग्रसेनजं कसं भृशं भापयित्री भीति कर्त्री अस्य पञ्चतां निश्चापयन्ती निश्चितां कुर्वती ।।--'चिञ् चयने' । 'विस्फुरोणौ इति वा आत्वम् । भापयित्रीति । त्रिभी भये । 'आदिर्बिटुडवः' इति ञेरित्संज्ञा । 'बिभेतेर्हेतुभये' इति वा आत्वम् । विस्मापयित्रीति । 'नित्यं स्मयतेः' इत्यात्वम् । द्राप्सीः स्म मा शीर्ष्णि हि कंस तेऽर्पितः स्रष्ट्रान्तकस्त्वाममतिविजेष्टमा । अस्या भवानीसद्दशोऽष्टमः सुतो विक्रेष्यते ते स्वबलेन जीवितम् ॥३९॥ हे कंस, त्वं मा द्राप्सीः मा हृषः । स्रष्ट्रा ईश्वरेण अन्तकः ते शीर्ष्णि मूर्धनि अर्पितः हि एव अमतिः अज्ञानं त्वां भा विजेष्ट परिभूत् । अस्याः अष्टमः सुतः ते जीवितं खबलेन विशेष्यते विक्रीतं करिष्यति । भवानीसदृशः पार्वतीतुल्यायाः ॥-विक्रेष्यते इति । 'परिव्यवेभ्यः क्रियः' इति तङ् । भवानीति : 'इन्द्रवरुणभवशवरुद्रमृडहिमारण्य- यवयवनमातुलाचार्याणामानुक्' इति ङिषानुकौ । स्रष्ट्रेति । सृजिशोझल्यमकिति' इत्य- मागमः । 'मिदचोऽन्त्यात्परः' । द्वाप्सीरिति । 'अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् इति वा अमागमः । 'रधादिभ्यश्च' इति इविकल्पः । [शीर्ष्णिति] । 'शीर्षेश्छन्दसि ।। वासुदेव विजयम् । संशृण्वतस्तामवृधद्रिं हृदि क्रुवारदक्षिद्वयमाशु रक्तिमा । धर्माम्बु कंसस्य तदासिचत्तरांस्रुतोऽङ्गरागोऽलिपताखिलं वपुः॥४०॥ तदा तां गिरं संशृण्वतः कंसस्य हृदि कुत क्रोधः अवृधत ववृधे । अक्षिद्वयं रक्तिमा रक्तत्वं आशु आरत् प्राप्तः । धर्माम्बु अखिलं वपुः असिचत्तरां अतिशयेन सिक्तमकरोत् । सुतः अङ्गरागः अलिपत लिप्तमकरोत् ॥-असिचत्तरामिति । 'लिपिसिचिह्वश्च्' इत्यङ् । अलिपतेति । 'आत्मनेपदेष्वन्यतरस्याम्' इत्यङ् । अवृघदिति । पुषादिद्युतादिलृदितः परस्मैपदेषु' इत्य । आरदिति । ‘सर्तिशास्त्वर्तिभ्यश्च' इत्यङ् ॥ रजोविलिप्ती तनुमुन्बलक्रीतीं विधास्यन्निजजीवितस्थितिम् । स शङ्खभिन्नीर्नृपतिर्द्विषां तनूः कर्तारमुग्रं करवालमाददे ॥ ४१ ॥ स नृपतिः उग्रं करवलं आददे । रजोविलिप्ती अल्पेन रजसा विलिप्ता तनुं उद्वहन् । निजजीवितस्थितिं बलकीतीं बलेन क्रीतां विधास्यन् । द्विषां तनूः शङ्खभिन्नीः कर्तारम् ।। आददे इति । 'डु दाञे दाने । 'आढो दोऽनास्यविहरणे' इति तट् । बलकीती मिति । 'क्रीतात्करणपूर्वात्' इति ङिष् । रजोविलिप्तीमिति । 'क्तादपाल्पाख्यायाम्' इति ङीप् । शङ्खमिन्निरिति । 'बहुव्रीहेश्चान्तोदात्तात्' इति ङीष् ॥ मनोज्ञगात्री मधुरारुणाधरा शातोदरी चन्द्रमुखी पृथुस्तना । तृपेण दोष्णा सहजा जिघांसुना शीर्षण्यबालेषु हठादगृह्यत ॥ ४२ ॥ शातं कृशम् । चन्द्रमुखीति । 'खाङ्गाचोपसर्जनादसंयोगोपचात्' इति वा ङिष् । मनोज्ञगा- न्नीति । 'अङ्गगात्रकण्ठेभ्योवक्तव्यम्' इति वा ङीष्। शातोदरीति । 'नासिकोदरौष्ठजवादन्त- कर्णशृङ्गाच्च' इति वा ङीष्। मधुरारुणाधरेति । 'न क्रोडादिबह्वचः' इति ङीष् । प्रतिषेधे टाप् । शीर्षण्येति । शरीरावयवाद्यत्' इति शिरश्शब्दाद्यत् । 'ये च तद्धिते' 'वा केशेषु [शि- रसः शीर्षनादेशो वक्तव्यः' इति शीर्षनादेशः । 'ये चाभावकर्मणोः' इति प्रकृतिभावः । दोष्णेति। पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदनासञ्छस्प्रभृतिषु' इति दोषन्नादेशः।। / अनासिका शूर्पणखा कृता न किं रामेण नो वा किमहानि ताटका । खले ब्रुवत्येवमवाङ्मुखी सती तस्मिन्नशेषा जनताथ सारुदत् ।।४३॥ तस्मिन् एवं ब्रुवति अशेषा सा जनता अवाङ्मुखी सती अरुदत् । रामेण शूर्पणखा अनासिका किं न कृता । ताटका नो वा किमहानि इति खले १५-अरुददिति । रुदिर अ- श्रुविमोचने' । 'इरितो वा' इत्यङ् । अनासिकेति । सहनविद्यमानपूर्वाञ्च' इति ङीप्प्रतिषेधः। शूर्पणखेति । 'नखमुखात्संज्ञायाम्' इति ङीप्प्रतिषेधः । अवाङ्मुखीति । 'दिक्पूर्व- पदान्ङीप्' इति ङीप् ॥ १. 'अघानि' इति युक्तम् काव्यमाला। उपस्थिते पाणिगृहीत्युपप्लवे भयं समाश्वद्धृदि पत्युरुच्चकैः । महान्विमर्शोऽप्युपादि रोषणं ततः स विद्वानिति कंसमाख्यत ॥४४|| पाणिगृहीत्युपप्लवे पत्नीविनाशे उपस्थिते पत्युः हृदि भयं उच्चकैः समाश्वत् ववृधे । महान् विमर्श उदपादि उपपन्नो विततः कंसमिति आख्यत रोषणं विद्वान् ॥-समाश्व- दिति । 'जॄस्तम्भुम्रुचुम्लुचुग्लुचुग्लुञ्चुश्विभ्यश्चः' इति वा अट् । उदपादि 'चिण् ते पदः' इति च्लेश्चिण्णादेशः। पाणिगृहीतीति । पाणिर्गृहीतोऽस्या इति 'पाणिगृहीत्यादीनामर्थविशेषे ङीष्वक्तव्यः'। उत्तिष्टसे कर्मणि किं जुगुप्सिते संदिह्य धर्मे त्वयि तिष्ठते जनः । संक्रीडतां कीर्तिरदूषितैव ते का वा त्वरैषा ह्यवतिष्ठते वशे ॥ ४५ ॥ त्वं जुगुप्सिते निन्दिते कर्मणि किं उत्तिष्ठसे ईहसे । जनः धर्मे संदिह्य त्वयि तिष्ठते निर्णग्रहेतुत्वेनाश्रयति । ते कीर्तिः अदूषितैव संक्रीडताम् । का वा त्वरा एषा । बशे अधीने अवतिष्ठते हि संक्रीडतामिति । 'क्रीडोऽनुसंपरिभ्यश्च' इति तङ् । अवतिष्ठते इति । 'समवप्रविभ्यः स्थः' इति तङ् । तिष्टते इति । 'प्रकाशनस्थेयाख्ययोश्च' इति तङ् । उत्तिष्ठस इति । 'उदोऽनूर्वकर्मणि' 'उद ईहायामिति वक्तव्यम्' इति तङ् ॥ अदीपि कोप: कुत एष नह्यसौ न स्यादशिश्वीत्यधुनास्ति निर्णयः । प्रसोध्यते चेदपि ते जगजितः कलो भवेञ्चिन्तयितुं महीपते ॥ ४६॥ हे महीपते, ते कुतः कस्माद्धेतोः एष कोपः अदीपि दीप्तोऽभूत् । असौ अशिश्वी शिशुना विनाभूता न स्यादिति अधुनापि न हि निर्णयोऽस्ति । प्रसोध्यते चेदपि ते चि- न्तयितुं कलो भवेत् । जगजितः ॥-अदीपीति । 'दीपजनबुधपूरितायियायिभ्योऽन्य- तरस्याम्' इति च्लेस्ते चिण् । [अशिश्वीति ।] 'सख्यशिश्वीति भाषायाम्' इति निपात- नम् । 'हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्' इति सुलोपः । प्रसोध्यत इति । 'षूद्द प्राणिप्रसवे'। 'धात्वादेः षः सः' । निर्णय इति । 'णीञ् प्रापणे' । 'णो नः' 'उपसर्गादसमासे- ऽपि' इति णत्वम् । भवेदिति । 'अतो येयः' । 'लोपो व्योर्वलि इति यलोपः । जगजित इति क्विम् । 'वेरपृक्तस्य' इति वेर्लोपः । महीपते इति । 'एङ्ह्रस्वात्संबुद्धेः' इति हल्लोपः ॥ अस्या वधात्पुण्यमहीरुहो रुषा च्छायां भवानच्छिदुरां स्म मा च्छिदत् । कीर्ति मनस्तापहृतं विमृत्वरी हीच्छेन्न को दुर्यशसामलीमसः ॥ ४७ ॥ भवान् अस्या वधात् कीर्ति मा स्म च्छिदत् छिन्नां कुरु । पुण्यमहीरुहः छायाम् । अच्छिदुरांच्छेदनशीला छिदुरा । मनस्तापहृतं बिसृत्वरीं बिसरणशीलां खतः । अम- लीमसः को दुयशसा. न हीच्छेत् लज्जेत । दुर्यशसा मलीमस इति वा ॥-विसृत्वरी- मिति । 'इण्नशजिसर्तिभ्यः क्वरमप्' इति क्वरपि 'ह्रस्वस्य पिति कृति तुकू' इति तुगावासुदेवविजयम् । गमः । 'आद्यन्तौ टकितौ । अच्छिदुरामिति । 'संहितायाम् इत्यधिकृत्य 'छे च' इति तुक् । मा च्छिददिति । 'आइमाडोश्च' इति नित्यं तुक् । ह्रीच्छेदिति । 'हीच्छ लज्जा- याम्' । 'दीर्घात्' इति तुक् । रुषा च्छायामिति । ‘पदान्ताद्वा' इति तुक् ।। न्यस्याशु पाणावसिमुज्वलं रथे गव्यादिजस्त्रीजनरक्ष्णदक्षिणम् । अक्रय्यमक्षय्यमुपेयुषा यशो रक्ष्ये हि भाव्यं प्रभुणा दयालुना ॥४८॥ पाणी उज्वलं असिमाशु रते न्यस्य (लोट्) स्थापय । गव्याद्विजस्त्रीजनरक्ष्णदक्षि- णम् । गव्या गोसमूहः । रक्ष्णो रक्षणम् । प्रभुणा रक्ष्ये जने विषये दयालुना भाव्यं अवश्यं भवितव्यम् हि अक्षय्यं क्षेतुमशक्यं अमरयं क्रयार्थरहितं यशः उपेयुषा ----न्यस्ये- ति । 'इको यणचि' इति इकारस्य यकारः । पाणौ असिमिति । 'एचोऽयवायावः' इति औकारस्यावादेशः । गव्येति । 'खलगोरथात्' इति यप्रत्यये 'वान्तो यि प्रत्यये' इति ओकारस्यावादेशः । भाव्यमिति । 'ओरावश्यके' इति ण्यति वृद्धौ ‘धातोस्तन्निमित्तस्यैव' इत्याचादेशः । क्षय्येति । 'क्षय्यजय्यौ शक्यार्थे' इत्ययादेशो निपात्यते । अक्रय्यमिति । 'क्रय्यस्तदर्थे' इत्ययादेशो निपात्यते । रथ इति। 'एकः पूर्वपरयोः' इत्यधिकृत्य 'आद्गुणः' इति एकादेशः । तस्य 'अन्तादिवच' इति सुप् आदिबद्भावः । पदसंज्ञा ॥ नारीवधान न्यवृतत्स तद्गिरः कद्रूजहिंस्रः श्रुतवानपीदृशीः । तं संहितोरूं युवतिं सरोरुदां शौरीरव्यमार्क्षीत्कुररीमिवेक्षिता ॥४९॥ सः कंसः ईशीः तद्गिरः श्रुतवानपि नारीवथात् न न्यबृतत् निवृत्तः । शौरीः कुर- रीमिव सरोरुदा भृशायमानरोदनसहितां युवति ईक्षिता व्यमाक्षीत् विमर्श कृतवान् । संहितोरूमिति । संहितावूरू यस्याः । कद्रूजहिंस्रः सर्पवद्धिसाशीलः ॥-कुररीमिति । 'जातेरस्त्रीविषयादयोपधात्' इति ङीन् । संहितोरूमिति । 'संहितशफलक्षणवामादेश्च' इत्यूङ् । कद्रू इति 'संज्ञायाम्' इति कद्रूशब्दादूङ् । नारीति 'शार्ङ्गरवाद्यञो डीन्' नृतर- योर्वृद्धिश्च' इति डीन् । युवतिमिति । 'तद्धिताः' इत्यापञ्चमाध्यायमधिकृत्य 'यूनस्तिः' इति स्त्रिया तिः सर्वतोऽक्तिन्नादित्येके' इति डीष् । ] रोरुदेति । यदन्तादप्रत्यये यलोपः ।। यः साधु भत्रैरुपतिष्ठते हरि तद्भावपूतानपि वोपतिष्ठते । चित्ते तदीये ह्युपतिष्ठते क्षमा सैतादृशस्योत्तपते कथं पुनः ।। ५० ॥ यो मन्तैः करणैः हरिं साधु उपतिष्ठते पूजयति अपि वा तद्भावपूतान् विष्णुभक्त्या शुद्धात्मनः उपतिष्ठते तैर्मैत्रीं करोति । तदीये चित्ते हि क्षमा उपतिष्ठते संनिधत्ते। सा क्षमा एतादृशस्य दुष्टस्य चित्ते कथं पुनरुत्तपते प्रकाशते ॥ हरिमुपतिष्ठत इति । 'उपा- न्मन्त्रकरणे' । उपतिष्ठते । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्' इति तड। उपतिष्ठत इति 'अकर्मकाच्च' इति तड् । उत्तपत इति 'उद्विभ्यां तपः इति तड‌्। काव्यमाला। प्राज्ञान्कचित्संशृणुते न खल्वसौ संपश्यतेऽक्ष्णा बत नान्तरेण वा । नो वा सतः संह्वयते तितंसितं संदृष्य किंवाह्वयते परं सुरान् ॥५१॥ असौ कचिदप्यवस्थायां प्राज्ञान् न खलु संशृणुते । अन्तरेण अक्ष्णा मनसा वा न संपश्यते वीक्षते बत । आत्मन तितंसितं चिकीर्षितं सतः सज्जनान् न वा संह्वयते। कितु संदृष्य दृप्तो भूत्वा परं केवलं सुरानाह्वयते स्पर्धया आह्वानं कुरुते ॥--संशृणुत इति। 'समो गम्वृच्छिमच्छिखरवर्तिश्रुविदिभ्यः' इति कर्माविवक्षायामात्मनेपदम् । संप- श्यत इति । 'दृशेश्चेति वक्तव्यम्' इति तड्। 'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ संह्वयत इति 'निसमुपविभ्यो ह्वः' इति तड् । आह्वयत इति । ' अस्मै ततोऽस्या वितरीतुमात्मजानुग्रामुपेत्याप्यधुनैष संविदम् । मृत्योरुपेतात्परिपालये सतीमेतां वराकीमथ सोऽभ्युपैतु वा ।। ५२॥ ततः तस्मात् एषोऽहं अस्याः आत्मजान् अस्मै वितरीतुं दातुमुनां संविदं प्रतिज्ञा- मुपेत्यापि एतां अधुना उपेतात् आसन्नात् मृत्योः परिपालये । स मृत्युः अथ कालान्तरे अभ्युपैतु वा । सती वराकीं मन्दाम् ।।--उपेत्येति । षत्वतुकोरसिद्धः' इत्येकादेशस्या सिद्ध- त्वात् तुक् । अधुनैष इति। 'वृद्धिरेचि' इति वृद्धिः । अभ्युपैतु इति । एत्येधत्यूट्यु' इति वृद्धिः । वराकीमिति । 'जल्पभिक्षकुट्टलुण्ठबृडः षाकन्' "षः प्रत्ययस्य' इतीत्संज्ञा ।। कृतस्मितेनौजसिकोऽथ शारुक: क्षितीश्वरः साहसिकोऽथ शौरिणा । अनाहतामौद्यत गां विपद्यहो न कुण्ठभावं मतिमानुपार्छति ॥५३॥ अथ कृतस्मितेन शौरिणा स क्षितीश्वरः गां वाचं औद्यत उक्तः । औजसिनः ओ- जसा वर्तमान: । साहसिकः सहसा वर्तमानः । शारुको हिंसाशीलः । अनाहतां सत्यार्थाम् । मतिमान् विपद्यपि कुण्ठभावं न उपार्च्छति प्राप्नोति । अहो ॥-औद्यत इति । वदेर्ग्रकि संप्रसारणम् । 'आटश्च' इति वृद्धिः । उपार्च्छतीति 'उपसर्गादृति धातौ' इति वृद्धिः। नामिति । 'औतोऽम्शसोः' इत्याकारादेशः। औजसिकः साहसिकः । 'ओजःसहोम्भसा बर्तते' इति ठक् ॥ अकारि यस्य प्रकरः स्वयं द्विषामदुग्ध कामानपि गौरियं समान् । जगत्यवारुद्ध च तादृशस्य ते सुहृज्जनोऽयं नृवरानुतप्त मा ॥ ५४ ।। हे नृवर, यस्य द्विषां प्रकरः समूहः स्वयं अकारि हिंस्यते स्म । इयं गौः भूमिः यस्य समान् कामान् स्वयं अदुग्ध दुग्धे स्म । अस्य जगती अवारुद्ध अवरुध्यते स । वशी- क्रियते स्म तादृशस्य ते सुहृत् अयं जनः मा अनुतप्त पश्चात्तापं प्राप्नोतु ॥----अकारीति 'अचः कर्मकर्तरि' इति ते च्लेर्वा चिण् । अदुग्धेति । ['दुहश्च'] इति तशब्दे चलेश्चि- ण्विकल्पः । अवारुद्धेति । 'न रुधः' इति चिण्प्रतिषेधः । अनुतप्तेति । 'तपोऽनुतापे च' इति चिण्प्रतिषेधः ॥ वासुदेवविजयम् । अपत्यमस्या भवते समस्तमप्यदायि राजन्ननुगृह्यतामियम् । भवाव्यथी दीव्य पुरीह दीव्यता जनेन मा क्लाम्य यसार्थसाधने ॥५५।। हे राजन् , अस्याः समस्तमप्यपत्यं भवते अदायि दत्तम् । इयमनुगृह्यताम् । त्वं अ- व्यथी अव्यथनशीलः भव । इह पुरि मधुरायां दीव्यता दिवीबाचरता जनेन सह दीव्य शोभस्व। मा क्लाम्य । अर्थसाधने यस यत्नं कुरु ॥-अदायीति । 'चिण भावकर्मणोः' इति तशब्दे च्लेश्चिण् । अनुगृह्यतामिति । 'सार्वधातुके यक्' इति यक् ! भवेति । कर्तरि शप्' इति शप् । दीव्येति । 'दिवादिभ्यः श्यन्' । क्लाम्यति । वा प्राशभ्लाशभ्रमुक्रम- क्लमुत्रसित्रुटिलषः' इति श्यन् । यसेति 'यसु प्रयत्ने' 'यसोऽनुपसर्गात्' इति श्यन्विकल्पः । दीव्यतेति । 'अधिकरणाच्चेति वक्तव्यम्' इति आचारे क्यच् ।। संयस्यतः साधुहिते भियं निजामाधुन्वतीमानकदुन्दुर्गिरम् । शृण्वन्नृपस्तत्क्षणमक्ष्णुवन्मदः सोऽमित्यवक्प्रोज्झितजामिधिप्सकः॥५६॥ आनकदुन्दुभेः गिरं शृण्वन् स नृपः तत्क्षणं अविलम्बेन ओं तथास्तु इत्सवक् उक्त- वान् । साधुहिते संयस्यतः यतमानस्य । निजां भियं आधुन्वतीं कम्पयन्तीम् । अक्ष्णु- वन्मदः व्यामुवन्मदो यस्य । प्रोज्झितजामिधिप्सकः प्रोज्झिता जाम्याः स्वसुः धिप्सा हिसैच्छा चेन ।-संयस्यत इति । 'संयसश्च' इति । वा श्यन् । आधुन्वतीमिति । 'धूञ् क- म्पने 'स्वादिभ्यः श्नुः । शृण्वन्निति । 'श्रुवः शृ च' इति श्रुः शृ इत्यादेशश्च । अक्ष्णु- बन्मद इति । 'अक्षू व्याप्तौ' । 'अक्षोऽन्यतरस्याम्' इति श्नुः । सोऽमिति । 'सोऽचि लोपे चेत्पादपूरणम्' इति सुलोपः । 'ओमाडोश्च' इति पररूपत्वम् । साधुहित इति । हित- योगे चतुर्थी वक्तव्या' । 'चतुर्थी तदर्था-' इति समासः । 'जामिः स्वसृकलस्त्रियोः' ।। भिन्द्युगिरीनप्यधिकुर्वते च ये जगन्ति रुन्धन्त्यपि मण्डलं दिशाम् । दर्प बलारेरपि तक्ष्णुवन्त्यलं प्रकुर्वते यान्सदराः सुरा अपि ॥५७॥ धिन्वन्ति ये बन्धुजनं तुदन्ति ये शोच्यान्कथं भव्यदृशो भवादृशः। स्तुत्वेति कंसं व्यतनोदथो मतिं गन्तुं सुपामानकदुन्दुभिर्गृहान् ॥२८॥ द्वयोरन्वयः । अथो आनकदुन्दुभिः कंसं इति स्तुत्वा गृहान् गन्तुं मति व्यतनोत् । मुषामा शोभनं सान्त्ववचनं यस्य । कथं स्तुत्वा । ये गिरीनपि भिन्द्युः, ये च जगन्ति अधिकुर्वते अभिभवन्ति, दिशां मण्डलमपि रुन्धन्ति, बलारेरपि दर्प अलं तक्ष्णुवन्ति तनूकुर्वन्ति यान् सुराः सदराः सभयाः प्रकुर्वते सेवन्ते, बन्धुजन धिन्वन्ति प्रीणयन्ति, ते भवादृशः त्वादृशः कथं शोच्यान् अस्मादृशान् तुदन्ति व्यथयन्ति । भव्यदृशः कुशल- मेव पश्यन्तः ॥--प्रकुर्वत इति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः' इति सेवने तड् । अधिकुर्वत इति । 'अधेः प्रसहने' इति अभिभवे तड् । प्रसह- १. 'दीव्यतीति दीर्घस्तु प्राचः प्रामादिकः' इति नामधातुप्रक्रियायां सिद्धान्तकौमुदी. काव्यमाला। नमभिभवः पराजयो वा । तक्ष्णुवन्तीति । 'तनूकरणे तक्षः' इति वा नुः। अनेकार्था धातवः । तुदन्तीति । 'तुदादिभ्यः शः' 'अतो गुणे' इति पररूपत्वम् । रुन्धन्तीति 1 'रुधादिभ्यः श्नम्' । व्यतनोदिति । 'तनादिकृञ्भ्य उः' । धिन्वन्तीति । [हिबि] धिवि] [जिवि]प्रीणनार्थाः । "धिन्विकृण्व्योर च' इति उप्रत्ययः । अकारश्चान्तादेशः। अतो लोपस्य स्थानिवद्भावाद्गुणाभावः । भिन्द्युरिति "भिद्यतेरुस्' 'उस्यपदान्तात्' इति पररूपत्वम् । 'सुषामादिषु च' इति षत्वम् ॥ मित्रैश्चटच्चटदिति त्रुटितोरुहारैः संमर्दतः स निजधाम विवेश रूपम् । केलीसमीकरतखाङ्गिकखट्यमानचर्मावलीपटपटायितपाटिताशम्॥५९॥ स मित्रै. स ह निजधाम विवेश । रूपं प्रशस्तं विवेश । संमर्दतः हेतोः चटच्चट- दिति त्रुटितोरुहारैः । केलीति समीकं युधं(?) खाङ्गिकाः खङ्गायुधा क्रियाविशेषणम् ॥--चटचटदिति । 'नित्यवीप्सयोः' इति द्विवचनम् । 'तस्य परमाम्रेडितम्' । 'नामेडितस्यान्त्यस्य तु वा' इत्यच्छब्दस्य इतेरिकारस्य च पररूपैकान्देशा- भावः । तकारेकारयोः पररूपविकल्पः। पटपटायितेति । पट इत्यस्य 'डाचि बहुलं द्वे भवत इति वक्तव्यम्' इति टिलोपात् पूर्व द्विवचनम् । 'नित्यमानेडिते डाचीति वक्तव्यम्' इति पूर्वान्त्यतकारस्योत्तरादिपकारस्य च पररूपमेकादेशः । निजधामेति । गाहिरुहि- विशां कर्म' [2] इत्यधिकरणस्य कर्मसंज्ञा ॥ स्वस्त्रीजनांश्चात्मरुचा क्षिपन्ती हस्तौ लसन्माङ्गलिकौ दधानाम् । हीणां नवोढां जगतोऽभिनन्द्यां तो पर्यगृह्णन्मुदिताः पुरंध्र्यः ॥ ६०॥ पतिपुत्रवत्यः स्त्रियो मुदिताः तां नवोडां पर्यगृह्णन् । आत्मरुचा स्वस्त्रीजनानपि क्षिप- न्तीम्, लसन्माङ्गलिकौ हस्तौ दधानाम् , लसन्ति माङ्गलिकानि दर्पणादीनि ययोः। ह्रीणा लज्जिताम् । जगतः अभिनन्द्याम् ॥–पर्यगृह्णन्निति । 'झ्यादिभ्यः श्ना' 'नाभ्यस्तयो- रातः' इत्यालोपः । च आत्मेति । 'अकः सवर्णे दीर्घः' इति द्वयोरेकादेशो दीर्घः । 'तु- स्यास्यप्रयत्नं सवर्णम्' । जनानिति । जन अस्। 'प्रथमयोः पूर्वसवर्णः' इति द्वयो. पूर्व- सवर्णदीर्घ एकादेशः। तस्माच्छसो नः पुंसि' इति सकारस्य नकारः । हस्ताविति । 'ना- दिचि' । पूर्वसवर्णदीर्घप्रतिषेधः । पुरंध्र्य इति । पुरं गृहं धरतीति- पूर्वरूपैकादेशः । ऊढेति । वहेर्निष्ठायां संप्रसारणम् । 'संप्रसारणाच्च' इति पूर्वरूपम् । जगतोऽभीति । ‘एडः पदान्तादति' इति पूर्वरूपत्वम् ॥ आचार्याण्यो मातुलान्यश्च दाक्ष्यो गार्गायण्यो ब्रह्मवध्वो गणक्यः । रम्भोर्वश्च क्षत्रियाण्यस्तरुण्यः शूद्र्यः शूद्रा मोमुदामासुरुच्चैः ॥६॥ एताः स्त्रियः उचैः मोमुदामासुः पुनः पुनर्मुमुदिरे। आचार्याण्यः आचार्याणा स्त्रियः। मातुलान्यः मातुलानां स्त्रियः । दाक्ष्यः दक्षस्य स्वपत्यानि । गार्गायण्यः गर्गगोत्रसं- भूताः । गणक्यः गणकानां स्त्रियः । क्षत्रियाण्यः क्षत्रियकुलजाः। शुद्र्यः शूद्राणां भार्याः । वासुदेवविजयम् । शूद्राः शूद्रजात्युत्पन्नाः । रम्भोर्चः रम्भोपमा ऊरबो यासाम् । तरुण्यः यौवनवत्यश्च । ---आचार्याण्य इति । 'इन्द्रवरुण-'इत्यादिना डीषानुकौ । मातुलान्य इति । 'पितृव्यमातुल- मातामहपितामहाः' इति मातृशब्दात् भ्रातरि डुलच् निपात्यते । 'उपाध्यायमातुलाभ्यां वा' इति पक्षे डीषानुको । दाक्ष्य इति । 'अत इञ्' अपत्यार्थे, 'इतो मनुष्यजातेः' इति डीए ! गार्गायण्य इति । 'गर्गादिभ्यो यञ्' इति गोत्रे यञ् । 'यञश्च' 'प्राचा ष्फ तद्धितः' इति वा ष्फः । पित्वात् डीष् । ब्रह्मवध्व इति । 'ऊडतः' इत्यूड् । गणक्य इति । 'पुंयो- गादाख्यायाम्' इति डीष् । शुद्रा इति । जातिविवक्षायाम् 'शूद्रा चामहत्पूर्वा' इति टाप् ।। ततो विसृज्याश्वपतादि शौरिर्दैत्यारिपादाब्जविलातृचेताः । गर्ग च गार्ग्य च ननाम दाक्षि गाार्गायणादींश्च मुनींस्त्रिवेदान् ॥२॥ ततः शौरिः आश्वपतादि जनजातं विमृज्य मुनीन्ननाम । अश्वपतीनां समूहः आश्वप- तम् । गर्गे च गार्ग्य च गर्गस्य गोत्रापत्यम् । दाक्षि दक्षस्यापत्यम् । गाार्गायणादीन् । गर्गस्य युवापत्यं गाार्गायणः । त्रिवेदान् त्रीन् वेदान् अधीतवन्तः । दैत्यारीति । विला- तृ विलयनशीलम् ।।-आश्वपतमिति । 'समर्थानां प्रथमाद्वा' इति स्वार्थिकेभ्यः प्राक्तनानां प्रत्ययानां सूत्रेषु प्रथमानिर्दिष्टः शब्दः प्रकृतित्वेनाधिक्रियते । 'प्राग्दीव्यतोऽण्' इत्यप- वादविषयं परिहत्याण् भवतीति परिभाष्यते । संख्याकालाविहाविवक्षितौ । 'तस्य समूहः' इत्यण् । 'अश्वपत्यादिभ्य इत्यण् । पत्युत्तरपदाण्ण्यस्य बाधकम् । दैत्येति । तस्याप- त्यम्' इत्यर्थे “दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' । त्रिवेदानिति । 'तदवीते तद्वेद' इत्यण् । तस्य 'द्विगोर्लुगनपत्ये' इति लुक् । गायमिति । तस्यापत्यम्' इत्यधिकृत्य 'गर्गादिभ्यो यन्' इति गोत्रापत्ये यञ्। 'एको गोत्रे' इति गर्गशब्द एव प्रकृतिः । 'अपत्यं पौत्रप्रभृति गोत्रम्' । गार्गायणेति । 'यजिलोश्च' इति युवापत्ये फक् । 'गोत्रा द्यून्यस्त्रियाम्' इति युवप्रत्ययस्य गोत्रप्रत्ययान्तं पदं प्रकृतिनियम्यते । 'जीवति तु वंश्ये युवा' इति चतु- र्थापत्वादेर्युवसंज्ञा । दाक्षिमिति । अपत्यार्थे 'अत इञ्' विलातृ इति । 'लीड् श्लेषणे' । 'विभाषा लीयतेः' इति वा आत्वम् । 'विलेतृ' इति वा पाठः ॥ गार्गीयास्ते साधु गार्गायमाणाश्चाजीगर्तिश्चाथ दाक्षायणाश्च । वैश्वामित्रात्रेयकोषीतकेया मार्कण्डेयः सोऽपि मैत्रेयनामा ।। ६३ ।। नाडायनो बादरिकश्च तस्मै व्यासश्च कानीनमुनिर्गरीयान् । माण्डूकिरेषां तनयाश्च पौत्रा महाशिषोऽनाष्टमिका वितेरुः ॥ ६४ ॥ द्वयोरन्वयः । ते तस्मै साधु महाशिषः विरुदत्तवन्तः । गार्गीयाः गर्गयुवापत्यभूतगा- र्गायणशिष्याः । गर्गस्य कुत्सितयुवापत्यं चापि। आजीगर्तिरजीगर्तस्यापत्यम् । अथेति समुच्चये। [दाक्षायणा इति ।]दाक्षस्य पूजितं गोत्रापत्यं च । वैश्वामित्रात्रेयकौषीतकेयाः। विश्वामित्रस्यापत्यम् । आत्रेयः अत्रेरपत्यम् । कौषीतकेयः कुषीतकस्यापत्यम् । मार्क- ण्डेयः मृकण्डोरपत्यम् । मैत्रेयनामा सोऽपि । मित्रयोरपत्यं मैत्रेयः । नाडायनः नडस्य काव्यमाला। गोत्रापत्यम् । बादारकः बदरिकानु(राण्यु)ञ्छन् । व्यासश्च कानीनमुनिः । कन्याया अ- पत्यं ऋषिः गरीयान् गुरुतरः । माण्डूकिः मण्डूकापत्यम् । एषां तनयाश्च पौत्राः पु- त्राणां पुत्राश्च अनाष्टमिकाः। आष्टमिकः अष्टम्यां अधीतवान् ॥-गार्गीया इति । गा- र्ग्यायणशब्दात् 'श्रद्धाच्छः' इति शैषिके छप्रत्यये विवक्षिते 'फक्फिञोरन्यतरस्याम्' इति युवप्रत्ययस्य फको लुक् । 'वृद्धिर्यस्याचामादिस्तदृद्धम्' इति वृद्धसंज्ञा । 'वृद्धाच्छः' शै- षिकः । यूनश्च कुत्सायां [ गोत्रसंज्ञेति वाच्यम् ] इति युवसंज्ञा । आजीगर्तिरिति 'बाह्वा- दिभ्यश्च' इतीञ् । दाक्षायणः । 'वृद्धस्य च पूजायाम्' इति वा युवसंज्ञायाम् 'यमिजोश्च' इति यूनि फक् । वैश्वामित्रेति । 'मित्रे चषौ' इति पूर्वपदस्य दीर्घे विश्वामित्रः । तस्मात् ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यण् । आत्रेयेति । 'इतश्चानिञः' इति ढक्। कौषीतकेयेति । "विकर्णकुषीतकात्काश्यपे' इति ढक् । मार्कण्डेय इति । 'शुभ्रादिभ्यश्च' इति ढक् । 'ढे लोपोऽकद्र्वाः ' इति उकारलोपः । मैत्रेयेति । 'गृष्ट्यादिभ्यश्च' इति ढञ् । 'केकयमित्रयुप्र- लयानां यादेरियः' । नाडायन इति । 'नडादिभ्यः फक्' गोत्रापत्ये । व्यास इति । 'असु क्षेपणे'। व्याडावुपसर्गौ । पत्राद्यच् । वि वेदान् विभज्य आ समन्तात् शिष्येषु अस्यति इति । अथवा अस्मादेव धातोर्विपूर्वात् करणे घञ् । कानीनेति । 'कन्यायाः कनीन च' इत्यण् । कनीनादेशश्च । माण्डूकिरिति । 'ढक्च मण्डूकात्' इति ढक् । पौत्रा इति । 'अनुष्यानन्तर्ये बिदादिभ्योऽञ्' इति अस्य अनृषित्वादनन्तरापत्ये पुत्रशब्दादञ् । वादरिक इति 'उञ्छति' इति ठक् । अनाष्टमिका इति 'अभ्यायिन्यदेशकालात्' इति ठक् ॥ द्वैमातुरादिसुरसंघतनोरसोदुर्दैतेयदुर्विलसितानि गवेश्वरस्य । चेतो हरेविदधती पदयोर्गुणैः स्वैः पत्युमनोऽहरदथो अतुलैर्वधूः सा ६५ अथो सा वधूः स्वैर्गुणैः पत्युः मनः अहरत् । अतुलैः । चेतः हरेः पदयोः विदधती। द्वैमातुरादिसुरसंघतनोः । द्वैमातुरो गणपतिः । दैतेयदुर्विलसितानि असोढुः । गवेश्वरस्य गवामीश्वरस्य ॥-द्वैमातुरेति। द्वयोर्मात्रोरपत्यमित्यर्थे मातुरुत्संख्यासंभद्रपूर्वायाः' इत्यण् । उत्वं च । दैतेयेति । 'कृदिकारादक्तिनः' इति वा ङीषि 'स्त्रीभ्यो ढक्' इति ढक् । तनो- रिति। 'ङसिङसोश्च' इति पूर्वरूपत्वम् । असोङुरिति । 'ऋत उत्' इति द्वयोरेक उकारो र- परः । 'रात्सस्य' इति सलोपः । पत्युरिति । 'ख्यत्यात्परस्य' इति ङसोऽकारस्य उकारः । मनोऽहरदिति । 'ससजुषो रु.' 'अतो रोरप्लुतादप्लुते' इति रोरुकारः । चेतो हरेरिति । 'ह- शि च' इति रोरुकारः। गवेश्वरस्पेति । 'अवङ् स्फोटायनस्य' इति गोरवङादेशः। 'ङिच्च' इत्यन्तस्य । अथो अतुलैरिति । 'ओत्' इति प्रगृह्यसंह थाम् 'तप्रगृह्या अचि' इति प्रकृतिभावः ॥ आनर्च यो महऋषीन्गुणसंपदा खं पर्यष्करोच विधे च मतिं गवेन्द्रे । स्कुन्वन्द्युलोकमपि कीर्तिभरेण सैष तामन्वरुध्यत पथं सदृशीं न शौरिः६६ स एष शौरिः सदृशीं तां कथं न अन्वरुध्यत अनुवर्तते स्म । यः महऋषीन महत वासुदेवविजयम् । ऋषीन् आनचं । गुगसंपदा खं पर्यष्करोत् अलंकृतबांश्च । गवेन्द्र गवामिन्द्रे कृष्णे मति विदधे च । कीर्तिभरेण धुलोकमपि स्कुन्वन् आवृण्वन् ॥-स्कुन्वन्निति । 'स्कुञ् आव- रणे'। सन्मुस्तुन्मुस्कन्भुस्कुन्भुस्कुरुभ्यः नुश्च' इति क्षुः । गवेन्द्र इति । इन्द्र च नित्यम् इत्यवडादेशः। महऋषीन् इति । 'आन्महत:--'इत्यात्वे 'ऋत्यकः इति प्रकृतिवद्भावो हस्त्रश्च । धुलोकमिति । 'दिव उत्' इति वस्य उकारः । एष तामिति । एतत्तदोः सुलोपोऽकोरनब्समासे हलि' इति सुलोपः। सैष इति । 'सोऽचि-' इति सुलोपः । पर्यष्करोदिति । 'मुट कात्पूर्वः' इत्यधिकृत्य ‘संपर्युपेभ्यः करोती भूषणे' 'अडभ्यास- व्यवायेऽपि' इति सुट् । 'सिवादीनाम्-' इति वा पत्रम्(१) । अन्वरुध्यतेति । 'अनो रुष कामे' इति रुधेर्दिवादिलमात्मनेपदित्वं च ॥ पैतृष्वस्रीयाश्च मातृध्वसेयाः कुल्याः स्वस्रीयाश्च काल्याणिनेयाः । ये भ्रातृव्या ये श्वशुर्याः कुलीना: कौरव्या ये चापि माहाकुलीना:६७ ये वा गर्गा ये च दासेरदेश्यास्ताक्षण्याद्या चे पुनर्दीष्कुलेयाः। सर्वाञ्छौरिवृत्तसर्वागमस्ताना दुच्चैदैष्टिकोऽनुप्रधानम् ॥ ६८॥ द्वयोरन्धयः । शौरिस्तान् सर्वान् अनुप्रधानं प्रधानानुपूप्या उच्चैः आर्चीत्पूजितवान् । ये कुल्याः कुलापत्यानि । पैतृष्वस्रीयाः पितुः स्वसुरपत्यानि । कुलशब्देन भेदात् कुल्य उच्यते । मातृध्वसेथा मातृष्वसुरपत्यानि । स्वस्रीयाश्च खसुरपत्यानि च । काल्याणि- नेयाः कल्याणीनामपत्यानि च । भ्रातृव्या भ्रातॄणामपत्यानि च । ये च कुलीनाः कुला- पत्यानि च श्वशुर्याः श्वशुरापत्यानि । ये च माहाकुलीनाः महाकुलापत्यानि च कौरव्याः ये वा गर्गाः कुत्सितानि गर्गापत्यानि । ये च दासेरदेश्याः दासीपुत्रप्रायाः चे युनः दौऽकुलेयाः दुष्कुलापत्यानि । ताक्षण्याद्याः तक्षापत्यप्रभृतयः । तान् । वृत्तसर्वांगमः । वृत्तमधीतम् । दैष्टिको दिष्टमस्तीति मत्या युक्तः ।।-पैतृष्वनीया इति । 'पितृष्वसुइछ। इत्यपत्यार्थे छण् प्रत्ययः ।मातृवसेयाः। 'मातृष्वसुश्च' इति । 'ढकि लोपः । इति लोपोऽयम् । कुल्या इति । 'अपूर्वपदादन्यतरस्यां यड्ढकौ' इति यत् । खत्रीया इति 'श्वसुश्छः' । काल्याणिनेया इति । 'कल्याण्यादीनामिनङ्' इति ढक् ! इनड्डादेशश्च । प्रातृव्या इति । 'भ्रातुर्व्यच । श्वशुर्या इति । 'राजश्वशुराद्यत्' कुलीना इति। 'कुलात्खः' । कौरव्येति । 'कुर्वादिभ्यो ण्यः' इति यः। ('कुरुनादिभ्यो ण्यः')इति ग्यप्रत्ययोऽन्योऽपि तद्राजसंज्ञोऽस्ति। तस्य वहुषु लुक् । अयं तु श्रूयत एव । माहाकुलीना इति । 'महाकुलादखजौ' । गर्गा इति । गोत्रास्त्रियाः कुत्सने ण च'। गोत्राभिधायिनः शब्दाण्णढको । दासेरेति। क्षुद्रास्यो वा' इति ट्रक् । ताक्षण्येति । सेनान्तलक्षणकारिभ्यश्च' इति ण्यः। कारिणः कारवः । दौष्कुलेया इति । 'दुष्कुलाढक्' । दृतेति । 'णेरध्ययने वृत्तम् । दैष्टिकेति । 'अस्तिनास्ति दिष्टं मतिः' । अनुप्रधानमिति आनुपूर्थेऽव्ययीभावः ॥ पुषाण धर्म न तपांसि तप्था मा वत्स चेतश्च विधेहि कृष्णे । य ईगस्मै नमते स्वयं द्रागभीष्टमुक्त्वैवमहास्त गर्गः ॥ ६९॥ काव्यमाला। गर्ग एवमुक्त्वा अहास्त गतवान्-'हे वत्स, त्वं धर्म पुषाण वर्धय । तपांसि न । [मा] तप्याः आर्जय । अपि तु आज एव । चेतः च कृष्णे विधेहि । यः पुरुषः ईग्भवति अस्सै अभीष्टं द्राक् वयं नमते ॥-पुषाणेति । 'पुष्ट पुष्टौ' । 'झ्यादिभ्यः श्ना' हलःश्नः शानज्झौ' इति थाप्रत्ययस्य शानच् । तथा इति । 'तप संतापे' । 'तपस्तपःकर्मकस्यैव' इति कर्तुः कर्मवद्भावः । नमते इति । 'कर्मवत्कर्मणा तुल्य क्रियः' इति कर्मवद्भावे 'न दुहस्नुनमा यक्विणौ' इति यगभावः ।। अथ चेदयश्च कुरवश्व भृशमपचिता विचक्रिर आत्तकुतुकम् । अपरे च ततो निरगुळकुर्वत च शब्दमुच्चकैः ।। ७० ।। अथ चेदयः चेदिराजाः, कुरवः कुरुकुलजातनृपाः, तथा अपरे च आत्तकुतुकं विच- किरे विविधमचेष्टन्त। भृशं अपचिताः पूजिताः ते ततो निरगुश्च। उच्चकैः शब्द व्यकुर्वत विविधमकुर्वत च ॥–न्यकुर्वतेति ।] 'वेः शब्दकर्मणः' इति तड् । विचक्रिरे इति । 'अकर्मकाच्च' इति तड् । चेदय इति । 'वृद्धकोसलाजादायड्' इति 'जनपदशब्दाक्ष- त्रियादग्' इत्यमोऽपवाद इदन्तत्वात् व्यङ्प्रत्यये ते तद्राजाः' इति तद्राजसंज्ञायाम् 'त- द्राजस्य बहुषु तेनैवास्त्रियाम्' इति लुक् । कुरव इति । 'कुरुनादिभ्यो ण्वः' इति ण्यप्रत्य- योऽपयार्थे । बहुषु लुक् । 'क्षत्रियसमानशब्दान्जनपदात्तस्य राजन्यपत्यवत्' । ब्रह्मण्यबुद्धिरथ विश्वजनीनशीलः शौवस्तिकेषु मतिमादधदातिथेयः। उच्चस्तर िनिजधामतया स शौरिस्तत्पारिषद्यचरितः सुखमध्युवास७१ अथ स शौरिः तया सह तत् निजधाम स्वगृहं सुखं अध्युवास । ब्रह्मण्यबुद्धिः ब्राह्म- णेभ्यो हिता बुद्धिर्यस्य । विश्वजनीनं विश्वजनहितं शीलं यस्य । शौवस्तिकेषु भवेषु का- र्येषु मतिमादधत् आतिथेयः अतिथिषु साधुः । पारिषद्यचरितः परिषदि साधु चरितं यस्य । उच्चैस्तरद्धि उच्चैस्तरा ऋद्धिर्यत्र ॥--ब्रह्मण्येति । 'खलयबमाषतिलवृषब्रह्मणश्च' इति हितार्थे यत् । विश्वजनीनेति । 'आत्मन्विश्वजनभोगोत्तरपदात् खः । शौवस्ति- केषु । श्वसस्तुट् च' इति वा ठञ् तुडागमश्च । अतिथेय इति। 'पथ्यतिथिवसतिस्वपतेर्ड' 'तत्र साधुः' इत्यर्थे । पारिषवेति । परिषदो ण्यः' । उच्चैस्तरेति 'अद्रव्यप्रकर्षे' इत्युक्त्या अप्रत्ययाभावः। इति वासुदेवकृतौ वासुदेव विजयकाव्ये पदचन्द्रिकाख्यया व्याख्यया समेतः प्रथमः सर्गः। द्वितीयः सर्गः। कृष्णाशिभक्तरुपचस्करेऽथो भिक्षंश्च काषायपटानभक्त । कर्तव्यमाने पटिमानमाटीत्सा देवकी लाक्षिकपाणिपादा ॥१॥ १. अस्मिन्वृत्ते छन्दो न ज्ञायते. टीकायामपि मूलतोऽन्यूनानतिरिक्तानि प- दानि दृश्यन्ते. वासुदेवविजयम् । अथो सा देवकी कृष्णाजिभक्तः उपचस्करे स्वतः सती तां साविशयामकरोत् । का- घायपटान् भिक्षुन् अभक्तासेक्त च । कषायेण रकं काषायम् कर्तव्यमाने कर्तव्ये कृल्ले पटिमानं वैदग्भ्यम् । आटीत् प्राप्ता। लाक्षिकपाणिपादा लाक्षया रक्तं पाणिपाद यस्याः तत्सदृशं वा उपमानाद्भविष्यतीति व्युक्तम् (१)।-उपचस्करे इति । प्रतियत्ने तट् । 'उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु' इति सुद्। सतो गुणान्तराधानं प्रतियत्नः । 'ऋ- तश्च संयोगादेर्गुणः' इत्यत्र 'संयोगोपधग्रहणं कृअर्थम्' इति गुणः । 'कृञः प्रतियत्ने' इति कर्मणि षष्ठी । कर्तव्येति । 'धात्तोः' इत्या तृतीयाध्यायसमातेरधिकारः । तत्रोपपदं सप्तमीस्थम्' इति सप्तम्यन्तस्योपपदसंज्ञा "कृदतिड्' इति तिड्व्यतिरिक्तानां प्रत्ययाना कृत्संज्ञा । 'वासरूपोऽस्त्रियाम्' इति त्यधिकारविहितप्रत्ययवर्जमसमानरूपस्यापवादप्रत्य- यस्य बोत्सर्गबाधकत्वम् । 'कृत्याः प्राण्बुलः' इति कृत्यसंज्ञा । 'डुकृञ् करणे । 'तव्य- त्तव्यानीयरः' इति तव्यत् । तव्यो वा खरे भेदः । काषायेति । 'तेन रक्तं रागात्' इत्यण् । शुक्लस्य वर्णान्तरापादनमिह र रर्थः । लाक्षिकेति । 'लाक्षारोचनाश- कैलकर्दमाहा ॥ व्यनेष्ट लोभं विभवं चिनिन्ये प्रत्यषिकरन्नो मनसापि किंचित् । सापन्नसत्वा च बभूव काले महोपसर्येव विशेषदृश्या ॥ २ ॥ सा लोभं व्यनेष्ट विशमितवती । विभवं धनं विनिन्ये । धर्माद्यर्थ विनियुक्तवती किं- चिप्राणिजातं मनसापि नो प्रत्यधिकरत् हिंसितवती । उचिते काले आपन्नसत्त्वा गर्भिणी व बभूव । उपसर्या प्रथमगर्भग्रहणे प्राप्तकाला महागौरीव विशेपदृश्या विशेषदर्शनीया ॥- विनिन्ये इति। 'संमाननोत्सजनाचार्यकरणज्ञानभूतिविगणनव्ययेषु नियः' इति व्यये आ- त्मनेपदम् । व्यनेष्टेति । 'कर्तृस्थे चाशरीरे कर्मणि' इति तड् । उपसति । 'उपसभी काल्या प्रजने' इति निपातनाद्यत् । दृश्येति । 'ऋदुपधाचाक्लपित्रुतेः' इति क्यच् । प्र- त्यष्किरदिति । 'कृ विक्षेपे' । “हिंसायां प्रतेश्च' इति सुट् ॥ । पश्यन्पतिस्तामनुमेयगर्भामों बुधानामनवद्यचर्यः । प्रजा न लभ्येति निजां प्रतिज्ञा स्मरन्नसावार्तिमगादसह्याम् ॥ ३ ॥ अनुमेयगी तां पश्यन् असौ पतिः वसुदेवः प्रजा न लभ्या इति असह्या आति अ. गात् । निजां प्रतिज्ञा स्मरन् । बुधानां अर्थः प्रधानभूतः । अनवद्यचर्यः। अवधं दोषः । चर्या व्यापारः॥-अनुमेयेति । 'अचो यत्' । लभ्येति । 'पोरदुपधात्' इति यत् । असह्यामिति । 'शकिसहोश्च' इति यत् । चर्येति । 'गदमदचरयमश्चानुपसर्गे' इति यत् । अवद्येति । 'अवधपण्यवर्या गर्दापणितव्यानिरोधेषु' इति यन्निपात्यते। अर्य इति । 'अर्यः खामिवैश्ययो.' 'इति यन्निपात्यते ।। वह्यं शुचामाकलयन्नथ खं धन्यें पुरोपक्रमते स मार्गे। अचायदप्याक्रममाणमर्कमक्रस्त कृष्णापचितौ विशिष्य ॥ ४॥ काव्यमाला अथ स धम्य धर्मादनपेते मार्ग उपक्रमते पुरा अप्रतिबन्धेनावर्तत । आक्रममाणं उ- द्यन्तं अ अचायत पूजितवाश्च । 'आदित्यस्य सदा पूजाम्' इति स्मृतिः। कृष्णाप- चितौ विष्णुपूजायां विशिष्य अकस्त उत्सेहे । खं आत्मानं शुचां वह्यं वहनकरणभूत आकलयन् निश्चिन्वन् ।-अक्रस्त इति । 'वृत्तिसर्गतायनेषु क्रमः' इति सर्गे तट् । सर्ग उत्साहः । उपक्रमते इति । 'उपपराभ्याम्' इति वृत्तौ तड् । वृत्तिरप्रतिबन्धः । आक्रममाणमिति । 'आड उद्गमने' इति तड्। 'ज्योतिरुद्गमन इति वक्तव्यम्' । वह्य- मिति । 'वह्यं करणम्' इति यत् ।। प्रच्छायकारस्करमस्करात्ये मेध्ये कृतापस्किरणैररण्ये । सुखास्पदे शुम्भति विष्किरौधैरगोष्पदे संस्वबोधि गर्गः ।। ५ ।। अरण्ये सन् वर्तमानः गर्गः तत् गर्भोत्पत्तिलक्षणं वस्तु अबोधि ज्ञातवान् । प्रच्छाय- कारस्करमरकराव्ये प्रकृष्टच्छायैः कारस्करैः मस्करैः वेणुभिश्च समृद्धे । मेध्ये शुद्धे । कृतापस्किरणैः विधिकरौथैः पक्षिसमूहैः शुम्भति शोभमाने । सुखास्पदे सुखस्य स्थान- भूते। अगोष्पदे महत्त्वात् गवामयन्तासंभवविशिष्टे॥---कृतापस्किरणैरिति । कृ विक्षेपे'। 'अपाचतुष्पाच्छकुनिष्वालेखने' । 'हर्पजीविकाकुलायकरणेष्विति वक्तव्यम्' इति जीवि- कार्थे सुट् । गोष्पदमिति । 'गोष्पदं सेवितासेवितप्रमाणेषु' इति असेविते सुट् । सुखा- स्पदमिति ! 'आस्पदं प्रतिष्ठायाम्' इति सुट् । विष्किरेति। 'विष्किरः शकुनिर्विकिरो वा' इति विपूर्वात् किरतेः 'इगुपध ज्ञाप्रीकिरः कः' इति कप्रत्यये सुट् निपात्यते । मस्करति । 'मस्करमस्करिणी वेणुपरिव्राजकयोः' इति सुट् । कारस्करेति । 'कारस्करो वृक्षः' इति सुट् । अबोधीति 'दीपजन--' इत्यादिना कर्तरि चिण् । कयाशुभीयादिमसूक्तविद्याविचक्षणक्ष्मासुरतः पदात्स्वात् । परस्पराशस्यसुशस्यमार्गाहारेण निर्याय ह माधुरेण ॥ ६॥ सक्षौद्रकुस्तुम्बुरुयावकादीनाश्चर्यविनान्क्रयिकान्सरम्भान् । विच्छायतो वीवधिकानगच्छत्सान्विचायन्नपरस्परान्सा ॥ ७॥ सः खात् पदात् माधुरेण मधुरामभिनिष्क्रमता द्वारेण निर्याय अपरस्परान् विच्छा- यतः संततमविच्छेदेन गच्छतः सार्थान् विचारयन् पश्यन् स [अगच्छत् ह । कयाशुभीयादिमसूक्तविद्याविचक्षणक्ष्मासुरतः । कयाशुभीय आदिम आदी भवं येषा तानि सूक्तानि एव विद्या तस्यां विचक्षणाः क्ष्मासुरा यस्मिन् । परस्पराशस्यसुशस्य- मार्गात् परस्परं अशस्यं अहिंसनीयं अहिंसक वा सुशस्यं सुतरा प्रशंसनीयं मार्ग मृगस- मूहो यत्र । सक्षौद्रकुस्तुम्बुरुयावकादीन् क्षौद्रं मधु, कुस्तुम्बुरु धान्यकम् । आश्चर्यवि- नान् विश्नो गमनम् । ऋथिकान् क्रयेण जीवतः । सरम्भान् रम्भो वैशवो दण्डः । वीवधिकान् वीवधेन पर्याहारेण जीवतः ॥-शस्येति । 'शसु हिसायाम् । 'तकि- १. कयाशुभीयेति पुस्तकस्थपाठः काशिकायां तु कयाधुभीय इति. वासुदेवविजयम् । शसिचतियतिजनीनामुपसंख्यानम्' इति यत् । सुशस्येति । 'शसिटुहिगुहिभ्यो वेति वक्तव्यम्' इति क्यप् । 'अनिदितां-' इति नलोपः । कुस्तुम्बु इति । 'कुस्तुम्बुरूणि जातिः' इति सुट । अपरस्परानिति । 'अपरस्पराः क्रियासातये' इति सुट् । आश्चर्येति। "चरेराडि चागुरौं' इति यप्रत्यये 'आवर्यः' | 'आश्चर्यमनित्ये' इति सुट् निपात्यते । क- याशुभीयमिति । 'मतौ छः सूक्तसाम्नोः' इति मत्वर्थे छः । आदिमेति 'आदेश्चेति व- तव्यम्' इति मः । माधुरेणेति 1 मधुरामभिनिष्कामति । 'अभिनिष्कामति द्वारम्' इत्यण । मधुरामभिनिष्क्रामतीत्यत्र द्वारं करणं खातन्त्रयेण विवक्ष्यते । क्षौदेति । क्षुदान- मरवटरपादपादञ्' तेन कृते संज्ञायाम् । वीवधिकानिति । 'विभाषा विवधवीवधात्' इति छन् । तेन जीवतीत्यर्थे । विश्नेति । 'यजयाचयतविच्छप्रच्छरक्षो नड्' इति नडि छोः शू --' इति शः । 'शात्' इति चुत्वाभावः । ऋयिकानिति । वस्नायविक्रयाह' तेन जीवतीत्यर्थे । राम्भेति । रम्भशब्देन वंशो चोध्यते ततोऽण् । विचक्षणेति । 'चक्षितः ख्याञ्' इत्यत्र 'असनयोश्च प्रतिषेधो वक्तव्यः' इति ख्याअभावः ॥ दर्पोल्ललद्विक्रममाणवाहां स्वपस्कराकाक्षसुरथ्यरथ्याम् । व्यवस्करामेत्य पुरीमवोचच्छौरि हरिश्चन्द्रसक्षमेवम् ।। ८ ॥ स गर्गः पुरी मथुरामेत्य शौरि वसुदेवं एवं अवोचत् । दर्पोल्छसद्विक्रममाणवाहां वि. क्रममाणाश्चरन्तो वाहा अश्वा यस्याम् । स्वपस्कराकाक्षसुरथ्यरथ्याम् स्वपस्करा शोभ- मानरधाजयुक्ता अकाक्षा कुत्सिताक्षरहिता सुरथ्या शोभनै रथ्यै रथं वहद्भिरश्वर्युक्ता रथ्या रथसमूहो यस्याम् । व्यवस्कर पुरीषाद्यमेध्यरहिताम् । हरिश्चन्द्रसदृक्षम् ॥---विक्रममा- गति 'वेः पादविहरणे' इति तड् । व्यवस्करेति । 'वर्चस्केऽवस्करः' इति सुद् । स्वपस्क- रेति । 'अपस्करो रथाङ्गम्' इति सुट् । हरिश्चन्द्रेति । 'प्रस्कण्वहरिश्चन्द्रावृषी' इति सुट् । काक्षेति । 'का पथ्यक्षयोः' इति कोः कादेशः ।। बृहस्पती वत्स धियोप यस्त्वं कृत्ये स नोपक्रमसे किमर्थम् । पुष्योऽद्य नः पुंसवनस्य कालः प्राप्तश्च पौपेऽहनि तद्विधेयम् ।। ९ ।। रे वत्स, यः धिया वृहस्थतौ उप सुराचार्यादधिकः रा त्वं किमर्थं कृले वस्तुनि विपये न उपक्रमसे आरमसे । अद्य पुष्यः नः पुंसवनस्य कालः प्राप्तश्च । तत् पौषे पुष्ययुक्तचन्द्रयुक्ते अहनि तत् विधेयम् ।।--उपक्रमस इति । श्रोपाभ्यां समर्थाभ्याम्' इति तङ्। पुष्ये इति । 'पुष्यसिध्यौ नक्षत्रे इति क्यप् । 'नक्षत्रेण युक्तः कालः' इत्यण । 'यस्येति च' इत्सलोपः । "पुष्यतिध्ययोनक्षत्राणि यलोपो वक्तव्यः' । पुष्य इति । 'लुचविशेषे इत्यणो लुम् । 'लुपि युक्तवद्यक्तिवचने' । कृत्ये इति । 'विभाषा कृवृषोः' इति क्यम् । वृहस्वताविति । 'पार- स्करप्रभृतीनि च संज्ञायाम्' 'तहतोः करपत्योश्वोरदेवतयोः सुट तलोपश्च । वृहन्तो देवाः उपेति। 'उपोऽधिके च' इति कर्मप्रवचनीयत्वे 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । स्तोकापरुष्टोऽपि कर्षन्नवध्यान्यो यातुधर्मा क्रमते मुमूर्षन । कंस: क्रियाणां सहसाकृतानां फलानि भोक्ता स पचेलिमानि ॥१०॥ ८० काव्यमाला। सः कंसः सहसाकृतानां क्रियाणां पचेलिमानि स्वयमेव पक्वानि फलानि भोक्ता यः यातुधर्मा यातूनां राक्षसानां धर्म इच धर्म आचारो यस्य तादृशः सन् क्रमते कौटिल्येन वर्तते। स्तोकात्प्रस्टः अल्पेन कारणेन भृशंस्टः क्रुद्धः । अवध्यान् गुर्वादीन् अपि कर्षन् हिंसन् मुमूर्षन् संभावितमरणः ॥-कमत इति। अनुपसर्गादा' इति तड्। पचेलिमानीति के- लिमर उपसंख्यानम्' 'कर्मकर्तरि चायमिष्यते' अवध्यानितिा हनो वा यद्वधश्चवक्तव्यः'इति यद्वधादेशौ। स्त्रोकात्प्रसष्टेति । 'करणे च स्तोका-' इत्यादिना पञ्चमी । 'स्तोकान्तिक-'इति समासः । 'अलुगुत्तरपदे' इत्यलुगधिकारः प्रागानडः । उत्तरपद इत्यापादान्तम् । 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । सहसाकृतानामिति । 'ओजःसहोम्भस्तमसस्तृतीयायाः' इल. लुक् । मुमूर्षनिति । 'आशंसायामुपसंख्यानम्' इति सन् । सा च प्रयोक्तधर्मः । सनि 'पूर्ववत्सनः' इत्यात्मनेपदस्य नावकाशः । 'नहि शदिम्रियतिमात्रमात्मनेपदनिमित्तं किं तहि शिदाद्यपि' इत्युक्तेः । यातुधर्मेति । 'धर्मादनिच्केवलात्' इत्यनिच् समासान्तः ।। अजयंमार्यैः सह संगतं तत्कान्येव कर्माण्यवजानते ते । श्वःश्रेयसं त्वाप्स्यति सर्पिरादेर्थे जानते ते न पदं विपत्त्याः ॥ ११ ॥ ते आयः सदाचारपरैः सह तत् चिराभ्यस्तं संगतं कान्येव कर्माणि अवजानते अप- झुवते । अजय न जयमिति वा श्वःश्रेयसं भद्रं आप्स्यति । ये सर्विरादेः घृतादिना होमसा- धनेन जानते प्रवर्तन्ते ते विपत्त्याः आपदः पदं न भजन्ति । 'जपता जुहतां चापि विनि- पातो न विद्यते' इति स्मृतिः ॥--अवजानत इति । 'अपह्नवे ज्ञः' इति तड् । जानत इति । 'अकर्मकाच' इति तड्। 'ज्ञोऽविदर्थस्य करणे' इति षष्टी । अजयमिति । 'अ- जय संगतम्' इति यत् । आर्येति । 'ऋहलोर्ण्यत्' । श्वःश्रेयसमिति । मयूरव्यंसकादिस- मासः । श्वसो वसीयः श्रेयसः' इत्यच्समासान्तः ।। संजानते ब्रह्मरहस्यमयं विरिञ्चभूये विगतस्पृहा थे। तान्भ्रूणहत्यामपि निघ्नतस्त्वं स सत्यवद्यान्भज नित्यमित्यान् ॥ १२ ॥ स त्वं तान् निलं भज । कान् । ये अम्यं ब्रह्मरहस्यं वेदस्य रहसि भवं तात्पर्य सं- जानते सम्यग्विदन्ति । विरिञ्चभूये ब्रह्मत्वे विगतस्पृहाः । कणहत्यामपि निघ्नतः । सत्य- वद्यान् सत्यवादिनः । इत्यान् अनुगन्तव्यान् ।--संजानते इति । 'संप्रतिभ्यामनाच्याने' इति तड् । सत्यवद्यानिति । 'बदः सुपि क्यप् च' इति यत् । विरिश्चभूये इति : 'भुवो भावे' इति क्यम् । भ्रूणहत्यामिति । 'हनस्त च' इति भावे क्यप् । इत्यानिति । 'एति- स्तुशास्त्रजुषः क्या' । ससत्यवद्यान् इति एकपदत्वपक्षे सत्यवचनयुकान् । अबमिति । 'अग्राद्यत्' । रहस्यमिति । 'दिगादिभ्यो यत्। उक्त्वेत्वृषि: कारितयोग्यकर्मा शौरि समापृच्छय सभृत्यभार्यम् । साहस्रखेयान्नगरात्सुमेधास्तं मायंशोकं कलयन्स्वधामैत् ॥ १३ ।। १ दिशि इति पुस्तकस्थः पाठः काशिकानुसारं शदिकृतः. वासुदेव विजयम् । ऋषिः इति उक्त्वा कारितयोग्यकर्मा पुंसवनादि कारयित्वा शौरि समापृच्छय नगरात खधाम ऐत् गतवान् । समृत्यभायें भृत्वभार्यासहितं माग्यशोकं कलयन् अपनेयदुःखं चिन्तयन् । साहस्रखेयात् साहसं सहस्रपरिमितेन धनेन हेतुना निवृत्तं खेयं परिखा यत्र । ..-खेयानिति । 'खनु अवदारणे' । 'ई च खनः' इति खनेः क्यम् । अन्त्यस्य च ई- त्वम् । भृत्येति । 'भृञोऽसंज्ञायाम्' इति क्यप् । भाति । ऋहलोयत्' । मायति । 'मृजेर्विभाषा' इति क्यप् । तदभाबे 'ऋहलोर्ण्यत्' । पक्षे वृद्धिः कुत्वं च । 'भृज्य' इति पाठे क्यपि 'किति च' इति मृजेवृद्धलंधूपधगुणस्य प्रतिषेधः । साहसमिति । 'तेन निवृत्तम्' इत्यण् ॥ मासे सुतं वैजननेऽथ सूतमादाय शौरिर्वदमानमद्यौत् । तमात्मनालक्षतमं कुराज भिद्योध्यकल्पं व्यथितोऽमृषोद्यः॥ १४ ॥ अथ शौरिः वैजनने प्रसवयोग्ये मासे सूतं सुतमादाय तं कुराजं कुत्सितं राजानं अ- द्यौत् अभिगतवान् । वदमानं भासमानम् । आत्मनालक्षतमं लक्षसंख्यापूरकं बहुपरिवार- युक्तम् । भिद्योध्यकल्पं नविशेषद्वयवत् दुर्निवारम् । व्यथितः। अमृषोद्यः मृषावादर- हितः ।। बदमान मिति । 'भासनोपसंभाषाज्ञानयनविमत्युपमन्त्रणेषु वदः' इति शानच् । अमृषोद्य इति । 'राजसूयसूर्यमृषोद्यरुच्यकुंप्यकृष्टपच्याव्यथ्याः' इति क्यन्निपात्यते । भि- योध्येति । 'भिद्योद्ध्यौ नदे' इति क्यन्निपात्यते । आस्मनालक्षतममिति । 'नित्यं शता- दिमासाधमाससंवत्सराच' इति तमडागमः । आत्मनश्च पूरणे' इत्यलुक् । वैजनन इति । विजननशब्दात् 'ज्योत्लादिभ्य उपसंख्यानम्' इति अण् मत्वर्थीयः । अद्यौत् । 'धु अभिगमने। संस्त्यानया सिद्ध्यरुचः शुचास्य प्रष्ठस्य शिष्टेषु गविष्ठिरस्य । प्रणाय्यगृह्योऽतिविनीयधामाप्यप्रेष्ट सत्योद्यतया स कंसः ॥ १५ ॥ स कंसः अस्य सत्योद्यतया सत्यवादितया अति अतिशयेन अप्रेष्ट प्रीतोऽभूत् । प्र- णाय्यगृयः असंमतजनपक्ष्यः। विनीयधामा विनीयस्य पापस्य आस्पदमपि । संस्त्या- नया घनीभूतया शुचा सिध्यरुवः पुष्यनक्षत्रवद् म्लानशोभस्य । शिष्टेषु प्रष्ठस्य पुरोगमस्य। गावि वाचि स्थिरस्य ॥-विनीयेति । 'विपूयविनीयजिला मुञ्जकल्कहलिषु' इति कल्के क्यन्निपात्यते । गृह्येति । ‘पदाखैरिबाह्यपक्ष्येधु त्र' इति पक्षमावे क्यप् । प्रणाय्येति । 'प्र- णाय्योऽसंमतौ' इति ण्यदायादेशनिपातनम् । गविष्ठिरस्येति । 'गवियुधिभ्यां स्थिरः' इति षत्वम् । अलुक् च निपातनात् । संत्यानेति । 'संयोगादेरातो धातोर्यण्वतः' इति निष्ठानत्वम् । प्रष्ठस्येति । 'प्रष्ठोऽग्रगामिनि' इति षत्वम् । अवीवचञ्चेति तथा व्यथा मा युग्येन यायाः ससुतः समीसन् । अश्राव्यपादानमनष्टमो वां न ह्यात्मजन्मा मम मित्र भीतेः ॥१६॥ १ 'कुल्य' इति पुस्तकगतः पाठः. २ 'पथ्याः' इति पुस्तकगतः पाठः, काव्यमाला। स इति । अवीवचच उक्तवांध । हे मिन्न बन्धो, त्वं व्यथा मा तथाः कार्षीः । ससुतः युग्येन वाहनेन यायाः गच्छ । समीनि वर्धितुमिच्छन् । वां युवयोः अनष्टमः आत्म- जन्मा पुत्रः मम भीतेः अपादानं हेतुः न अश्रावि ॥-युग्येति। 'युग्यं च पत्रे' इति युजेः क्या कुत्वं च । अवीवचच्चेति । 'वच परिभाषणे'। युजादिः । तथा इति । 'तनादिभ्यस्त- थासोः' इति वा सिचो लुक् । समीसनिति । 'ऋधु वृद्धौ'। संपूर्वः सन् । 'सनीवन्तर्ध- भ्रस्जदम्भुधिस्वयूर्णभरज्ञपिसनाम् इति पक्ष इडभावः । 'अजादेर्द्वितीयस्य' इति र्धशब्दस्य द्विवचनम् । आप्शप्यधामीत्' इतीत्वं रपरम् , अभ्यासलोपः । 'खरिब' इति चत्वम् । लटः शता॥ संपावदन्तैव गुणांस्तवार्या विप्रावदन्तेह न केऽपि साधो । आलाप्यभाजां वचसां तथैषां ममाधुनैवान्ववदिष्ट चेतः ॥१७॥ हे साधो, आर्याः तब गुणान् संप्रावदन्त एव । इहगुणेषु विषये न केऽपि विप्रावदन्त विरुद्धमवदन् । तथा आलाप्यभाजां आलापनाभाजां एषां जनानां वचसां मम चेतः अधुनैव अन्ववदिष्ट अनुवादमकार्षीत् । अनुः सादृश्ये ।-संप्रावदन्तेति । 'व्यक्तवाचा समुच्चारणे' इति तड् । अन्ववदिष्टेति । 'अनोरकर्मकात्' इति तद् । विप्रावदन्तेति । 'वि- भाषा विप्रलापे' इति तड्। आलाप्येति । 'आसुयुवपिरपिलपित्रपिचमच' इति व्यत् ।। अवश्यलाव्या दिविजा ममाघ ये खेचरी वाचमुदैरिरंस्ताम् । नूनं गृहेशूर इतीमके मां क्षिपन्ति वर्षेजजलानिवार्यम् ।। १८ ॥ अद्य मम दिविजा देवा अवयलाव्या अवश्यमुच्छेदनीया ये तां खेचरी वाचं अशरी- रवाचं उदैरिरन् उदीरितवन्तः । इसके कुत्सिता इमे मां गृहेशूर इति क्षिपन्ति । तून वर्षजजलानिवार्य वर्षे जायते यजलं तेनानिवार्यम् ॥-अवश्यलाच्या इति । 'ओरावश्य- के इति ण्यत् । मयूरव्यंसकादिसमासः । 'लुम्पेदवश्यमः कृये' इति मलोपः । खेच. रीमिति । 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । दिविजा इति । 'प्राट्शर- कालदिवां जेइति अलुक् । वर्षेजेति । “विभाषा वर्षक्षरशरवरात्' इत्यलुक् ॥ अवागिरन्तैव यकृन्ति नृणां ये पूतनाद्या यमशिश्रियंस्ते । वाणीमकाय: प्रसितस्य तस्य न चेतसा संगिरते स्म शौरिः॥ १९॥ शौरिः तस्य तादृशस्य कंसस्य वाणी चेतसा न संगिरते स्म नाङ्गीकृतवान् । ये नृणां यकृन्ति एव कालखण्डान्येव अवागिरन्त भक्षितवन्तः, ते पूतनाया यं अशिश्रियन् आश्रितवन्तः । अकायैः प्रसितस्य अकार्येषु प्रसक्तस्य ॥-अनागिरन्तेति । 'गृ निगरणे । 'अवादः' इति तड् । संगिरत इति। 'समः प्रतिज्ञाने' इति तड् । अशिश्रियन्निति। "णि- श्रिद्रुक्षुभ्यः' इति चड्। अकारिति । 'ऋहलोपॅतू' । 'भसितोत्सुकाभ्याम्-' इति तृतीया ॥ वासुदेवविजयम् । इदंवचोऽनुञ्चरमाण ईते तस्मिन्स्वमादाय शिशु निकाथ्यम् । आनाय्यपूज्यो मधुरां प्रणाव्यस्ता नारदः स्मायति लोकपान्थः ॥२०॥ तस्मिशौरौ खं शिशुमादाय निकाय्यं गृहं ईते सति नारदः तां मधुरा आयति स्म प्राप्तवान् । इदंवचः अस्य वाक्यं अनुचरमाणे अनुक्रम्य वर्तमाने आनाय्यपूज्यः आना- य्योऽग्निविशेषः । तद्वत् पूज्यः । प्रणाय्यः निष्कामः तथापि लोकपान्थः लोकेषु पथो निलं गच्छन् ।-अनुच्चरमाण इति । 'उदश्चरः सकर्मकात्' इत्यात्मनेपदम् । लटः शानच् । 'आनाय्योऽनित्ये' इत्यापूर्वान्नयतेयंदायादेशौ । नणाय्य इति । 'प्रणाय्यो संमतो' इति प्रपूर्वान्नयतेर्ण्यदायदोशौ। निकाय्येति । 'पाठ्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससा- मिधेनीषु' इति निवासे वाच्ये निपूर्वाचिनोतेयंदायादेशावादिकुत्वं च निपात्यते । लो- कपान्थः । 'पन्थो । नित्यम्' गच्छतीत्यर्थे । सकुण्डपाय्यैर्विदिताग्निचित्यैश्चिन्वद्भिरमीश्च समूह्यमुख्यान् । 'अध्येतृभिः सम्यगृचा चरूणां पचैः कुशाग्रीयविशालधीभिः ॥ २१ ॥ वासिष्ठकालेशमुखेषु सामस्वधीतिभिर्ब्रह्मभिरन्वितां ज्ञैः । सवामदेव्येषु तथैव वास्त्रवैयाघ्रमुख्यैश्च रथै ढिष्ठैः ।। २२ ।। अभ्रेण खे संचरमाण आराद्विलेशयद्वेषिसमानजूतिः । प्राढेतनादित्यकरोपमप्तः पुरी ददृश्वान्गजतावृतां सः ।। २३ ॥ ज्ञैः विद्वद्भिः ब्रह्मभिः अन्विताम् । सकुण्डपाय्यैः तन्नामक्रतुविशेषसहितैः । विदि. ताग्निचित्रः विदिता अग्निचित्या अग्निचयनं यैः । समूद्यमुख्यान् अग्नीन् चिन्वद्भिः । च ऋचां सम्यगध्येतृभिः । सवामदेव्येषु वासिष्ठकालेयमुखेषु सामसु अधीतिभिः । कुशाग्रीयविशालधीभिः । कुशाग्रीया कुशाग्रवनिशिता विशाला वा वीर्येषाम् । वरूणां पचैः तथैव रथैश्च अन्विताम् । वास्त्रवैयाघ्रमुख्यैः वस्त्रेण परिवृता वानाः । व्याघ्रस्य विकार- श्चर्म वैयाधं तैः परिवृताः । तैश्च तैश्च द्रदिष्टंढतरैः । स पुरी आरात् दद्दश्वान् दृष्ट- वान् । अभ्रेण मेधेन खे संचरमाणः तद्वाहनतया चरन् विलेशयद्वेषिसमानजूतिः गरुड- तुल्यवेगः । प्राढेतनादित्यकरोपमप्तः प्रातनः प्राहे भवः । प्ता जटा । गजतावृतां गज- समूहव्याप्ताम् ।।----कुण्डपारयेति । 'ऋतौ कुण्डपाय्यसंचाय्यौं' इति निपातनम् । समूह्येति । 'अग्नौ परिचाय्योपचाप्यसमूह्याः' इति निपातनम् । 'समूयं चिन्वीत पशुकामः' इति श्रुतिः । अग्निचित्येति । 'चित्याग्निचित्ये च' इति भावे यकारस्तु निपात्यते । अध्येतृभि- रिति । 'एकुल्तृचौ' इति तृच् । पचैरिति । 'नन्दिनहिपचादिभ्यो ल्युणिन्यचः' इत्यच् । पचतीति पचः । ज्ञैरिति । जानातीति ज्ञः। 'इगुपधज्ञाप्रीकिरः कः वासिष्ठेति । वसिष्टेन दृष्टं 'दृष्टं साम' इत्यण् । कालेयेति । 'कलेक्' । कलिना दृष्टम् । वामदेव्येति । तेन दृष्टमित्यर्थे 'वामदेवाद् ड्यज्यौ । वास्त्रेति । 'परिवृतो रथः' इत्यण् । [वैयालेति । 'आतश्चोपसर्गे ८४ काव्यमाला। इति व्याजिघ्रतेः कः । व्याघ्रः । 'द्वैपवैयाघ्राद' । कुशाग्रीयेति । 'कुशाग्राच्छः ॥ संचरमाण इति । 'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । प्राढेतनेति । 'घकालतनेषु कालनान्नः' इति वा सप्तम्या अलुक् । विलेशयेति । 'अधिकरणे शेतेः' इत्यच् । 'शयवासवासिध्वकालात्' इति वा अलुक् । गजतेति । 'गजाच वक्तव्यम्' इति तल् । तलन्तं नित्यं स्त्री । ददृश्वानिति । 'दृशेश्चेति वक्तव्यम्' इति क्वसोर्वा इट् ॥ भ्राष्ट्रानपूपान्पललं च शूल्यं क्षैरेयमौदश्चितमनतान्धः । या दाधिकायं च जनेन पूर्णा रराज कौमारवधूत्ककान्ता ! २४ ।। या पुरी जनेन पूर्णा रराज । भ्रष्टानपूपान् क्षैरेयं क्षीरेण संस्कृतं औदश्वितं उदश्विति संस्कृतं दाधिकाद्यं दधिसंस्कृतं दाधिकं तदादि च अन्धः अन्नं च अश्नता कौमारव- धूत्ककान्ता अपूर्वपतीः कुमारीरुपपन्नाः कौमाराः ते च ते वधूत्काश्च कान्ता यत्र । अथवा अपूर्वपतयः पतीनुपपन्नाः कुमार्यः कौमार्यः ताश्च ता वध्वश्च तासु उन्मनसः कान्ता यत्र ॥-कौमारेति ! 'कौमारापूर्ववचने' इत्यण् । शल्यमिति । 'शूलोखाद्यत्' इति यत् । दाधिकेति । 'दनष्ठक्' । औदश्वितमिति । 'उदश्वितोऽन्यतरस्याम्' इति ठगणौ।

रेयमिति । 'क्षीराड्ड' ॥

रुच्यं फलं संग्रददे ह किंचिद्दास्या मिथः कश्चन कौलटेरः । शारावमन्नं दद्देऽपरस्यै यत्रापरः स्मेरमुखस्तदानीम् ॥ २५ ॥ यत्र कश्चन कौलटेरः कुलटाया अपत्वं रुच्यं शोभनं किंचित् फलं मिथो रहसि दास्या संप्रददे दास्यै दत्तवान् । अपरः कौलटेरः अपरस्यै दास्यै शारावं शरावे उद्धृतम् अन्नं स्मेरमुखःसन् दददे दत्तवान् ।।दास्यति । 'अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवतीति वक्तव्यम्' । संप्रददे इति । 'दाणश्च सा चेचतुर्थ्य' इति तड् । सेति तृतीया । कौलटेर इति । कुलटाशब्दात् शीलहीनस्त्रीवचनात् 'क्षुद्राभ्यो वा' इति डूकू । 'कौलटेयः' इति पाठे 'कुलटाया वा' इति ढक् । शारावमिति । तत्रोद्धृतममत्रेभ्यः' इत्यण् ।। बाघक(ग)णं यत्र सराजपुत्रकोर्जस्विराजन्यकराजकाढ्यम् । प्राज्यौष्ट्रकौरभ्रकबाडवाश्वीयोसिक्तकाण्डीरककौन्तिकाद्यम् ॥ २६ ॥ यत्र मधुरायां बाह्याङ्क(ग)णं बहिर्देशमवमङ्क(झ)णं एवंविधमभवत् । सराजपुत्रकोर्ज- खिराजन्यकराजकाढ्यं राजपुत्रसमूहसहितेन ऊर्जखिना बलवता राजन्यकेन राजन्य- समूहेन राजकेन राजसमूहेन च समृद्धम् । प्राज्येति । औष्ट्रक उष्ट्रसमूहः । औरनं उरभ्र- समूहः । उरभ्रो मेषः । चाडवं बडवासमूहः । अश्वीयमश्वसमूहः । काण्डीरकाः काण्डसंज्ञा- युधयुक्ताः । कौन्तिकाः कुन्तायुधाः । प्राज्याः प्रभूता एते यत्र ॥-बाह्येति । 'बहिदै- वपञ्चजनेभ्यश्चेति वक्तव्यम्' इति भवार्थे व्यः । बहिषष्टिलोपश्च । 'अव्ययानां भमाने टिलोपः' इत्यस्यानित्यत्वज्ञापकमेतत् । बाडवेति । 'खण्डिकादिभ्यश्च' इत्यत् । अश्वीयेति । वासुदेवविजयम् । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छः । औष्ट्रादिषु 'गोत्रोक्षोष्ट्रोरभ्रराजराजन्यरा- जपुत्रवत्समनुष्याजादु । राजके 'नस्तद्धिते' इति टिलोपः । आद्यमिति । 'दिगा- दिभ्यो यत्' इति यत् । काण्डीरेति । 'काण्डाण्डादीरनीरचौं' इतीरन्मत्वर्थीयः॥ तं पौरुषीः षट् पुरुषास्तथान्या: क्रान्त्वोपयान्तं परिखा मुनीन्द्रम् । दिदृक्षमाणं नृपतिं विविद्वान्द्वास्थोऽन्वजिज्ञासवेक्ष्य दूरात् ॥ २७ ॥ द्वास्थः तं मुनीन्द्रं दूरादवेक्ष्य अन्यजिज्ञासत् ज्ञातुमैच्छत् । नृपति दिडक्षमाणं वि- विद्वान् ज्ञातवान् । पौरुषीः पुरुषप्रमाणाः तथा अन्याश्च परिखाः कान्वा अतिक्रम्य उ- प्रयान्तं समीपं आगच्छन्तम् ॥–दिदृक्षमाणमिति । 'ज्ञाश्रुस्मृशां सनः' इत्यात्मनेपदम् । अन्वजिज्ञासदिति । 'नानोईः' इति तनुभावः । पौरुषीरिति । 'पुरुषहस्तिभ्यामण्व' । षट्- पुरुषा इति । प्रमाणे विहितस्य द्वयसजादेशस्य 'प्रमाणे लो द्विगोनित्यम्' इति लुकि 'पु- रुषात्प्रमाणेऽन्यतरस्याम्' इति डीबभावे टाप् । षट्पुरुषीः' इति वा पाठः । विविद्वानिति विदेानार्थात्वसुः॥ कंसं कृतातिथ्यविधि सजन्यं शुश्रूषमाणं मुनिरित्यवादीत् । न शीयते मे त्वयि सौहृदयं तत्प्रत्यशुश्रूषिषमीप्सितं ते ॥ २८ ॥ स मुनिः कंसं इति अवादीत् । 'मे त्वयि सौहृदयं न शीयते नावगच्छति । तत् ते अभीप्सितं प्रत्यशुश्रूषिषम् प्रतिश्रोतुमैच्छम् । कृतातिथ्यविधिम् । जन्यं जनस्य जल्पम् । शुश्रूषमाणं श्रोतुमिच्छन्तम् ॥--प्रत्यशुश्रूषिषमिति प्रत्याभ्यां श्रुवः' इति तड्डभावाशीयते इति । 'शदेः शितः' इति तड् । 'पाध्रा-' इति शीयादेशः । आतिथ्येति । 'अतिथेय:'ता- दर्थ्ये । जन्यमिति । 'मतजनहलात्करणजल्पकर्षेषु' इति जल्पे यत् । सौहृद्ध्यमिति । ब्राह्मणादित्वात् व्यञ् । हृदादेशाभावपक्षः ॥ ऋजुत्वदोषाम्रियसे पुरा त्वं जानासि न स्वं विषमस्थमेव । वसुःपतिः स्थाण्डिलसंमितस्ते भूकाश्यपश्चक्रभृत: पितायम् ॥२९॥ ऋजुत्वदोषात् आर्जवमेव दोषस्तस्माद्धेतोः म्रियसे आशु प्राणांस्त्यक्ष्यसि । ख. मात्मानमेवं विषमस्थं कृच्छ्रे वर्तमानं न जानासि । ते अयं वसुःपतिर्वसुदेवश्चक्रभृतः पिता भूकाश्यपः । यो यो भगवतः पिता दशरथादिः स स भूकाश्यपः स्थाण्डिलसंमितः व्रतवशात् स्थण्डिले शायी स्थाण्डिलः ॥-नियस इति । 'म्रियते डिडोश्च' इति तड् । विषमस्थमिति । 'सुपि स्थः' इति कः । 'स्थे च भाषायाम्' इत्यलुनिषेधः । खसुःपति- रिति । "विभाषा खसृपत्योः' इति षष्टया अलुक् । स्थाण्डिलेति । 'स्थण्डिलाच्छयि- तरि व्रते॥ संविद्धि मातापितरौ तवेमौ यदूश्च गोपांश्च नृपादितेयान् । प्रस्थं युधां नन्दनमाश्रितानां खं कालनेमि स्वसखांश्च दैत्यान् ॥३०॥ काव्यमाला। हे नृप, तब इमौ मातापितरौ तथा अन्यान् यदूंश्च गोपांश्च आदितेयान् संविद्धि अवेहि । स्खं आत्मानं कालनेमि तन्नामकमसुरेश्वरं संविद्धि । युधां युद्धानां प्रस्थं प्रति- ते इति प्रस्थः । आश्रितानां नन्दनम् । खसखान् प्रलम्बादींश्च दैत्यान् सं विद्धि ॥---आ- दितेयानिति । 'कृदिकारादक्तिनः' । 'सर्वतोऽचिन्नादित्येके' इति डीषन्तात् 'स्त्रीभ्यो टुक् । मातापितराविति । 'आनऋतो द्वन्द्वे' इत्यानपूर्वपदस्य । प्रस्थमिति । 'आतश्चो- पसर्गे' इति कः॥ कः कालनेमेरितरो हि कण्ठेकालाशिभागी निपुण: समित्याम् । मित्रेषु साधुः प्रियमांस मे त्वां संपश्यतो मुञ्चति हा न चेतः॥३१॥ कालनेमेरितरः को ह्येवंविधः, काण्ठेकालागिभागी शिवपादर्भजनशीलः । समित्यां युधि निपुणः । मित्रेषु साधुश्च स कालनेमिः । विषीदामि । त्वां संपश्यतः मे चेतो न मु- ञ्चति । प्रियमां अहं प्रियो अस्य॥-मित्रेषु समित्यामिति । 'साधुनिपुणाभ्यामर्चायां सप्त- न्यप्रतेः' इति सप्तमी । तत्त्वकथने न भवति । कण्ठेकालेति । 'सप्तमीविशेषणे बहुब्रीहौ' इति सप्तम्यन्तस्य पूर्वनिपातः । 'अमूर्धमस्तकात्स्वानादकामे' इति सप्तम्या अलुक् । कण्ठेकालस्याङ्गि भजते सेवत इति काण्ठेकालाजिभागी । 'संपृचानुरुधा-' इति भजधा- तोर्धिनुणि 'चजोः कु धिण्ण्यतोः' इति कुत्वम् । प्रियमामिति । 'त्वमावेकवचने' इति समास एकार्थस्यास्मदो मपर्यन्तस्य मादेशः ।। वित्ताश्चतुर्विशतिरनिहस्ता यस्याशरेन्द्रः स हि चैद्य एषः । स विप्रचित्तिः शृणु मागधोऽसौ यः संहितोऽभूजरया गुरुस्ते ॥३२॥ यस्य चतुर्विशतिरभिहस्ता वित्ताः ख्याताः । स आशरेन्द्रो वैष वैद्यश्चेदिराजः शिशुपालः त्वं शृणु । स प्रसिद्धो विप्रचित्तोऽसुरस्ते गुरुरसौ मागधो मगधराजो जरा- संधः । यो जरया संहितोऽभूत् ॥-अधिहस्ता इति । 'अधिकरणैतावत्त्वे च' इति द्वन्द्वे कृत्वाभावः । मागध इति । 'यज्मगधकलिङ्गसूरमसादण्' इत्यपत्येऽण् 'तस्य राजन्य- पत्यवत्' । रावणो हि चतुष्पात् । उक्तं च रामायणे--- रावणो विंशतिभुजश्चतुष्पान्मा- नमन्दिरः' इति॥ इन्द्राबृहस्पत्युपक्लप्तमत्रा उत्साहिनोऽग्नीवरुणौ तथान्ये । सुरा भवन्तं बत हन्तुकामाः प्रबोधयांचारधोक्षजं तम् ॥ ३३ ॥ अग्नीवरुणौ तथा अन्ये सुराश्च भवन्तं हन्तुकामाः तमधोक्षज प्रबोधयांचक्रुः । बत खेदे । इन्द्राबृहस्पत्युपक्लप्तमन्त्राः । मन्त्रो गुप्तिबादः । उत्साहिनः ॥–प्रबोधयां- चक्रुरिति । 'बुधयुधनशजनेझुडुत्नुभ्यो पेः' इति परस्मैपदम् । 'आम्प्रलयवत्कृञोऽनु- प्रयोगस्य' इति कृयोऽपि परस्मैपदम् । इन्द्राबृहस्पती इति । 'देवताद्वन्द्वे च' इत्यानड् । १. 'भञ्जन' इत्यादर्शपाठः, २. 'तस्य राजनीत्येव' इति काशिकावृत्तिः, वासुदेवविजयम् । अग्नीवरुणाविति । 'ईदग्नेः सोमवरुणयोः' इतीकारः । हन्तुकामा इति । 'हुंकाममन- सोरपि' इति लोपः॥ स उत्पियो दैत्ययशोमृतानामुदेजय: सर्वनिलिम्पभीतेः । गोविन्द आधेरसतां ददोऽसौ हन्ताष्टमस्ते वसुदेवसूनुः ।। ३४ ॥ सोऽसौ गोविन्दो अष्टमो वसुदेवसूनुस्ते हन्ता । दैलयशोमृतानामुत्पिनः । सर्वनिलिम्प- भीतेरुदेजयः कम्पयिता । असतामाधेदः --उत्पिब इति । 'पाघ्राध्माधेश. शः' इति शः । उदेजय इति । 'एज़ कम्पने"। 'अनुएसल्लिम्पविन्दधारिपारिवेद्युदेजिचेति- सातिसाहिभ्यश्च' इति श· । निलिम्पति । 'नौ लिम्पेरिति वक्तव्यम्' इति शः । गो- विन्द इति । 'गवादिषु विन्देः संज्ञायाम्' इति श· । दद इति । 'ददातिदधात्योर्विभाषा' इति शः॥ प्रयुङ्व काल्यान्फलिनानुपायान्प्रियाणि मित्राणि च दर्शयस्व । संक्ष्णुष्व बुद्धिं शृणु भोक्ष्यसे त्वं नैवान्यथा राज्यसुखं चिराय ॥३५|| काल्यान् प्राप्तकालान्' फलिनान्फलेन निश्चितान् उपायान् प्रयुड्न । प्रियाणि मि- त्राणि च दर्शयस्व च तेषामात्मकर्मदर्शने अनुकूलो भव । चुद्धि संक्ष्णुघ्न निशितां कुरु । इदं शृणु । अन्यथा मदुताकरणे त्वं राज्यसुखं चिराय नैव भोक्ष्यसे नानुभवि- ध्यसि ।।-प्रयुड्क्वेति । 'प्रोपाभ्यां युजेरयज्ञपात्रेषु' । 'स्वराद्यन्तोपसृष्टादिति वक्तव्यम्' इति तड् । संक्ष्णुष्वेति । 'समः क्ष्णुवः' इति तड् । भोक्ष्यस इति । 'भुजोऽनवने' इति तङ् । दर्शयखेति । गेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने' इति तङ् । 'हको:-' इत्यत्र 'अभिवादिदृशोरात्मनेपद उपसंख्यानम्' इति कर्तुळ कर्मसंज्ञायां द्वितीया । काल्यानिति 'तदस्य प्राप्तम्' इत्यधिकारे 'कालाद्यत्' इति यत् । फलितानिति 'फलबहान्यामिनच्' इति मत्वर्थीय इनच्] द्यावाक्षमे संचरतः सदा मे दिवस्पृथिव्योरधिपोऽसि बुद्ध्याम् । न भीषये नापि च गर्धये त्वां शक्त्याचलं नाप्यपपालयेऽहम् ॥३६॥ त्वं मे बुद्ध्यां असि वर्तसे । धावाक्षमे लोकेषु साकल्येन संचरतः । दिवस्पृथिव्योर- धिपः । अहं त्वां न भीषये, नापि च गर्धये व्यामोहये। नापि अपपालये (अपलापये)न्य- करोमि। शक्त्या ज्वलं ज्वलन्तम् 1-~-भीषये इति । 'भीम्बोर्हेतुभये' इति तड् । गर्धये इति । 'गृधिवक्ष्योः प्रलम्भने' इति तद् । अपपालये (अपलापये) इति । 'लियः संमानन- शालीनीकरणयोश्च' इति तड्। 'विभाषा लीयतेः' इत्यात्वे पुक् । ज्वलमिति । 'ज्वलिति- कसन्तेभ्यो णः' इति णाभावे पचाद्यच् । द्यावाक्षमे इति । 'दिवो द्यावा' इति द्यावादेशः । दिवस्पृथिव्योरिति । 'दिवसश्च पृथिव्याम्' इति दिवसादेशः । सस्य रुत्वादिविकाराभा- वोऽकारोच्चारणात् ॥ १. 'शक्लाज्वलं नाप्यपलापयेऽहम् इति न्याय्यः पाठः, काव्यमाला। हसन्नवश्यायकरं प्रभाभिवं नृणामुत्पथनायनायम् । तमित्थमुद्दीप्य गृहात्तदीयान्मार्ग ग्रहाणां मुनिराटिटीके ॥ ३७॥ मुनिस्तमित्थमुद्दीप्य तदीयान् गृहात् ग्रहाणां मार्गमाटिटीके प्राप्तवान् । प्रभाभिर- वश्यायकरं हिमकरं हसन् । नृणां दावं परितापकम् । उत्पथनायनायं पन्थानमुत्कान्तो यो नायः नयः तस्य नायं नेतारं प्रापकम् ॥---अवश्यायेति । 'श्यैड् गतौ'। 'श्याश्यधा- खुसंस्वतीणवसावलिहश्लिषश्वसश्च' इति णः । दावं नाय इति । 'दुन्योरनुपसर्गे इति गः । ग्रहाणामिति । 'विभाषा प्रहः' इति णः । जलचरे ग्राहः । ज्योतिषि अहः । गृहा- दिति । गेहे कः' इति कर्तरि कः । [ आटिटीके इति । टीक गत्यर्थः। [लिट् ॥ स्वर्गाथकानां प्रथमेऽथ तस्मिन्विच्छायिते पाणिविषक्तवीणे । मानुष्यकं नर्तकगायकायं मुक्त्वान्तरानभ्र ततः सभायाम् ॥३८॥ तस्मिन् विच्छायिते गते सति स नर्तकगायकाचं मानुध्यकं मनुष्यसमूहं मुक्त्वा ततः तस्याः सभायाः अन्तः पुरमानन गतवान् । स्वर्गाधकानां स्वर्गायकानां प्रथमे । याणि- विषक्तवीणे पाणिविषक्ता वीणा यस्य ---नर्तकेति । 'शिल्पिनि चुन्। 'ऋतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्'। गाथकानामिति । 'गस्थकन्' इति गायतेः शिल्पिनि थकन् । गायनेति । ‘ण्युट च' । गायतेः शिल्पिनि । विषक्तवीणे इति । स्त्रियाः पुंवद्भाषितपुंस्का- दनूड् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु' इति पूर्वपदस्य पुंचद्भावः । तत इति । 'तसिलादिष्वाकुत्वसुचः' इति पुंवद्भावः । मानुष्यकमिति । 'प्रकृत्याके राजन्यमनुष्ययु- वानः' इति प्रकृतिभावेन 'आपत्वस्य च' इति यलोपाभावः ।। विपक्षलावस्य निजस्य शत्रोरह्नाय भूत्वा लवको बहूनि । संजीवकोऽहं बत हायनानि भूयासमाशंसत चेतसेति ॥ ३९ ॥ स चेतसा इत्याशंसत इष्टवान् । अहं अह्राय झटिति निजस्य शत्रोः [ लवक: उच्छे- दको भूत्वा बहूनि हायनानि संवत्सरान् संजीवकः भूयासं बत इति ॥---हायनानीति । 'हश्च ब्रीहिकालयोः' इति जहावेः काले ण्युट् । लवक इति । 'सुल्वः समभिहारे बुन्' इति साधुकारिणि वुन्। संजीवक इति । 'आशिषि च' इति धातुमात्रादुन् । विपक्षला- वस्येति । 'कर्मण्यम्' इति विकार्ये कर्मणि उपपदे ॥ श्येनायते यद्यशसा त्रिलोकी दिगन्तमायेन तमोपहेन । तं शूरसूनुं सहजाययोगः कारोपरोधं निगलैरसेष्ट ॥ ४० ॥ तं शूरसूनुं वसुदेवं [जायया देवक्या सह] कारोपरोधं कारायामुपरुध्य निगलैरशेष्ट अबध्नात् । उग्रः । यद्यशसा यस्य शूरसूनोर्थशसा त्रिलोकी श्येनायते श्येनी धवलेवाच- रति । दिगन्तमायेन दिगन्तान् मिमानेन परिच्छिन्दता । तमोपहेन दुरितं नता ॥-दिवासुदेवविजयम् । गन्तमायेनेति । 'हावामश्च' इत्यण । तमोपहेनेति । 'अपे क्लेशतमसोः' इति हन्तेर्डः। श्ये- नायत इति । 'क्यड्मानिनोश्च' इति पुंवद्भावः । असेप्टेति । 'षिञ् बन्धने' । लुङ् ॥ स तामसीबुद्धिररुध्करोक्तिः प्रणाशिकावृत्तिरथो तदीयम् । कोपोत्थदुष्प्रेक्षमुखीतनुक्शिशुं प्रसह्याच्युतशङ्कयाहन् ॥ ४१ ॥ अथो स द्राक् तदीयं शिशुमच्युतशङ्कया प्रसह्य अहन् हतवान् । तामसीबुद्धिः तमो. गुणविकाररूपा बुद्धिर्यस्य । अरुध्करोक्तिः अरुष्करी बाधाविधायिनी उकिर्यस्य प्रणा- शिकावृत्तिः जनानां प्रणाशयित्री वृत्तिर्यस्य । कोपोत्थदुष्प्रेक्षमुखीतनुः कोपोत्थानेन दुर्निरीक्षवदना मूर्तिर्यस्य ॥-प्रणाशिकावृत्तिरिति । 'न कोपधायाः' इति पुंवद्भावप्रति- षेधः । तामसीबुद्धिरिति । वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' इति पुंवत्वाभावः। कोपोत्थेति । 'सुपि स्थः' इति योगविभागाद्भावे कः । दुप्रेक्षमुखीतनुरिति । 'खासाचे- तोऽमानिनि' इति पुंवत्त्वाभावः ॥ पुलोमजाजानिमुदोऽवसायो गोदं फलद्वैनयिक स्वतातम् । जनस्य शोकापनुदं स बड्वा परम्परीणां श्रियमन्वबोभूत् ॥ ४२ ॥ स स्वतातमुग्रसेनं बद्धा परम्परीणां परांश्च परतरांश्चानुभवन्ती क्रमप्राप्तां अन्वबोभूत भृशमन्वभवत् । पुलोमजाजानिमुदः पुलोमजा जाया यस्य तस्येन्द्रस्य मुदः अवसायः अ- वसानकरः। गोदं गा ददतम् । फलदैनयिकं फलत् वैनयिक विनयो यस्य । जनस्य शो- कापनुदं शोकमपनुदन्तम् ॥ अवसाय इति । 'श्यायधास्रसंस्त्रतीणवसा-' इत्यवपूर्वात् 'षो. ऽन्तकमणि' इत्यतो णः गोदमिति । 'आतोऽनुपसर्गे कः' । शोकापनुदमिति । 'तुन्दशो- कयोः परिमृजापनुदोः' 'आलस्यसुखाहरणयोरिति वक्तव्यम्' इति कः । पुलोमजाजा- निरिति । 'जायाया निड्' समासान्तः । 'संज्ञापूरण्योश्च' इति न पुंवत्वम् । वैनयि- केति । 'विनयादिभ्यष्टक' खार्थे । परम्परीणामिति । 'परोवरपरम्परपुत्रपौत्रमनुभवति' इति खः॥ साधिष्ठसंतापकनीतिशाली धियो यदून्साध्वितरा दधानान् । सुखप्रदान्भागवतांश्च नृणां गोसंख्यवर्गीयजनं च सोऽद्वेट् ॥ ४३ ॥ स यदून् भागवतान् भगवद्भक्तिर्येषां तांश्च गोसंख्यवर्गीयजनं च अद्वेट् द्वेष्टि स्म । साधिष्ठसंतापकनीतिशाली साधिष्ठाः साधुतमाः तेषां संतापिकी संतापाय समर्था या नितिः तद्वान् । साध्वितरा अतिशयेन साध्वीः धियः दधानान् नृणां सुखप्रदान् ॥--- [प्रदानिति। दाज्ञः' इति कः । गोसंख्येति । 'समि ख्यः' इति कः । गोसंख्यवर्गी- येति । 'वर्गान्ताच्च' इति छः । संतापकनीतीति । 'पुंवत्कर्मधारयजातीयदेशीयेषु' इति पुं- वत्त्वम् । साध्वितरा इति । 'वोतो गुणवचनात्' इति डीप् । घरूपकल्पचेलब्रुवगोत्रम- तहतेषु डयोऽनेकाचो ह्रस्व.' । 'तरप्तमपौ घः' । भागवतानिति । 'भक्तिः' इत्यण् ।। काव्यमाला आख्याच भृत्यानयि भो निषेव्ये यश्चैत्रवैशाखमुखैः सदापि मासैः स्वकार्यार्पणतो द्विषो मे तस्याद्य यद्यस्तु कुरुध्वमेतत् ॥४४॥ स भृत्यान् इति आख्यात् उक्तवांश्च । 'अयि भो मित्राणि, यः अहं चैत्रवैशाखमुखै- मासैरपि सदा खकार्यार्पणतः निषेव्ये सेवितो भवामि तस्य तादृशस्य मे अद्य द्विषः श- ववो भवन्ति यदि तहि अस्तु भवतु । यूयमेतद्वक्ष्यमाणं कुरुध्वम् ॥---[कुरुध्व- मिति । 'स्वरितमितः कत्रभिप्राये क्रियाफले' इति तड् । वैशाखेति । 'नक्षत्रेण युक्तः कालः' इत्यपि विशाखायुक्ता पौर्णमासी वैशाखी 'सास्मिन् पौर्णमासीति' संज्ञायामम् । चैत्रेति । विभाषा काल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति ठगभावपक्षेऽण् । अस्त्विलव्ययं सासूयाङ्गीकारे । माहेन्द्रमानेयमृतव्यमैन्द्रं द्यावापृथिव्यं च चरं निरुप्य । कायं च सौम्यं च सुरान्यजन्ते ये तान्द्विजानाहत सामगाद्यान् ॥४५॥ यूयं तान् द्विजान् आहत । सामगाद्यान् साम गायन्तीति सामगाः । चरुं निरुप्य निर्वापं कृत्वा । किदेवत्यम् । माहेन्द्र महेन्द्रदेवताकम् , आग्नेयमग्निदेवत्यम् , ऋतव्यमृतु- देवत्यम्, ऐन्द्रं द्यावापृथिव्यं कार्य कः प्रजापतिस्तद्देवत्यं च सौम्यं सोमदेवताके च ॥- यजन्त इति । स्वरितेत्त्वादात्मनेपदम् । सामगेति । 'गापोष्टक' । ऐन्द्रमिति । 'सास्य देवता' इत्यण् । कायमिति । 'कस्येत्' इत्यण् , इकारादेशश्च । माहेन्द्रमिति । महेन्द्राद् धागो च' इत्यण् । सौम्यमिति । 'सोमा ट्यण' । ऋतव्यति । 'वायवृतुपित्रुषसो यत्' । द्यावापृथिव्यमिति । 'द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च' इति यत् । आग्नेयमिति। 'अग्नेर्डक् । प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढरवक्तव्यः'। मिथ्यापि ये केचन कारयन्ते पदानि लोकेऽत्र यजन्ति वा ये 1 तान्दैत्यमुद्रानपि भावयध्वं तेऽपि स्फुटं नोऽपवदन्त एव ॥ ४६ ॥ अयि तान् दैत्यमुद्रां भावयध्वं गमयत । कान् । येऽत्र लोके पदानि मिथ्यापि कार- यन्ते स्वरादिदुष्टमसकृदुचारयन्ति । ये वा यजन्ति परार्थ यागं कुर्वन्ति तान् । तेऽपि नः अस्मभ्य अपरदन्ते क्रुध्यन्ति असूययन्ति वा एव स्फुटम् ॥--कारयन्त इति । 'मिथ्योपपदात्कृञोऽभ्यासे' इति तड्। अपवदन्त इति । 'अपाद्वदः' इति तङ् । न इति क्रुधादिना संप्रदानसंज्ञा । भावयध्वमिति । 'भू प्राप्तौ' । “णिचश्च' इति तब् ॥ अपूपिकादं सुवितीर्णभैक्षं कैदार्यवत्कावचिकानुयातम् । अश्वीयवद्गृह्मकतैत्तिरोत्कं तृण्यामिवान्यानवमन्यमानम् ॥ ४७ ॥ प्राङ्मत्प्रसत्त्यैव यदीढगासीत्तत्काकवचाय कुलं यदूनाम् । भवत्वनन्तापितपक्षपातात्परेतपिण्डादनविन्दजीवम् ॥ ४८॥ यत् प्राक् मत्प्रसत्त्या मप्रसादेनैव ईदगासीत्, तत् यदूनां कुलमयेदानीं तु अनन्ताबासुदेवविजयम् । र्पितपक्षपातात् मामुपेक्ष्य विष्णौ अर्पितात् पक्षपाताद्धेतोः परेतपिण्डादनविन्दजीवं द. रिद्रतया परेभ्य इतस्य पिण्डस्य अदनेन लब्धजीवनं भवतु । काकवत् काकसमूह इव तदपि अनन्ते आकाशे अर्पिता पक्षाभ्यां पातात् प्रेतपिण्डभक्षणलब्धजीवनं भ- वति । कीदृक् । आपूपिकादं अपूपसमूह आपूपिकम् । सुवितीर्णभैक्षं दत्तभिक्षासमूहम् । कैदार्यवत् । कैदार्य केदारसमूहः । कावचिकानुयातम् । कावचिकं कवचिनां समूहः । अश्वीयवत् । अश्वीयमश्वसमूहः । गृह्यकतैत्तिरोत्कम् । गृहासक्ते तित्तिरिसमूहे उत्कम् । अ- न्यान् सर्वान् तृण्यामिव तृणसमूहमिवावमन्यमानम् ॥-काकेति । तस्य समूहः इत्यण् । भैक्षमिति । 'भिक्षादिभ्योऽग्'। केदार्येति । 'केदाराद्यञ्च । कावचिकेति। 'उ कवचिनश्च' । तैत्तिरेति । 'अनुदात्तादेरज्' । आपूपिकेति । 'अचित्तहस्तिधेनोष्ठक' । अश्वीयेति । 'केशा- श्वाभ्यां यच्छावन्यतरस्याम्' इति छः । तृण्येति । 'पाशदिभ्यो यः' । गृह्यति । पदारखै. रिवाह्यापक्ष्येषु च' इति ग्रहेरखैरिणि क्यप् ।। ऊर्च मुहूर्ताच्छृणुया यदि त्वमव्यथ्यमेकं द्विषतां भवन्तम् । निस्तृण्ढि मांसौदनिकान्किमन्यद्भाक्तान्नृपास्मानिति ते तमूचुः ॥४९॥ ते असुरास्तमित्यूचुः। नृप, अन्यत् कि ब्रूमहे । त्वं मुहूर्तादूर्ध्व द्विषता मध्ये एक- मपि अव्यथ्यं व्यथाहीनं भवन्तं सन्तं यदि शृणुयाः, तर्हि अस्मान् निस्तृण्डि जहि इति । मासौदनिकान् येभ्यो नित्यं मांसौदनं दीयते। तथा भक्तं येभ्यो नित्यं दीयते। भक्कमन्नम्। ते भाकाः । न व्यथत इति अव्यथ्यः ।।--अव्यथ्यमिति । 'राजसूयसूर्यमृषोद्य-' इति नपूर्वाधथतेः क्यप् । शृणुया इति । "लिट् चौर्ध्वमौहूर्तिके' इति लोडीलक्षणे भ- विष्यति वा लिङ् । लोडर्थः प्रैषादिः । मांसौदनिकानिति । 'श्राणामांसौदनाठिन्' । 'तदस्मै दीयते नियतम्' इत्यर्थे । भातानिति । 'भक्तादणन्यतरस्याम्' इत्यम् ॥ उद्यच्छमानात्कदनाय कंसाढद्विग्नचित्ता यवः सदाराः । प्रायेण वैराटकशैवमुख्यं देशान्तरं पादविका बतेयुः ॥ ५० ॥ यदवः कंसादुद्विग्नचित्ता भीतचित्ताः सदाराः प्रायेण बाहुल्येन वैराटकशैवमुख्य वैराटक विराटविषयः, शैबं शिवीनां विषयो देशः। तं देशान्तरमीयुः । बत कदनाय सं- कुलवधाय उद्यच्छमानात् उद्यम कुर्वाणात्। पादविकाः पदवी धावन्तः॥--उद्यच्छमाना- दिति । 'समुदाड्म्यो यमोऽग्रन्थे' इत्यात्मनेपदम् । शैव हति । 'विषयो देशे' इत्यण् । ग्रामसमूहोऽन्न विषयः । वैराटकेति । 'राजन्यादिभ्यो बुन्' । पादविका इति । 'पाथो- तरपदपदव्यनुपदं धावति' इति टक् । ईयुरिति । 'दीर्घ इणः किति' इस्लभ्यासस्य दीर्घः॥ श्रेयस्क(स्त)राभिर्गुणमण्डलीभिर्या रोहिणीति स्त्रितरा वितेपे । शौरेधूः सा निजभर्तृबन्धोर्नन्दस्य तावद्र्जमन्ववात्सीत् ॥५१॥ तावत् शौरेः सा.वधूर्जाया नन्दस्य व्रजमन्ववात्सीत् । या रोहिणीति प्रतिद्धा स्त्रितरा उत्तमस्त्री श्रेयस्क(स्त)राभिर्गुणमण्डलीभिर्वितेपे अशोभत ॥–वितेपइति । सद्विभ्यां तपः' ९२ काव्यमाला। इति तइ । स्त्रितरेति । 'स्त्यै ष्टथै शब्दसंघातयोः' । 'संस्त्याने त्यायते ट्' । टिलोपय- लोपी। डीम् । 'द्विवचनविभज्योपपदे तरबीयसुनौ' इति स्त्रीशब्दात्तरप्। नद्याः शेषस्यान्य- तरस्याम्' इति वा हस्खः । श्रेयस्क(स्त)राभिरिति । प्रकर्षयोगात् प्राक्त्रीत्वस्याविव- क्षायां सिद्धिः । डीपि तु 'उगितश्च' इति हखाभावपक्षे तखिलादिष्वाकृत्वसुचः' इति पुंवद्भावः॥ अन्यायतो रिक्थहरः क्षितीशो बिभ्यन्मृतेराशु पुनर्भगिन्याः । स स्त्रीतरायास्तनयान्सुषूतीननेष्ट पञ्चाप्यथ पञ्चभावम् ॥ ५५ ।। स क्षितीशः पुनर्भगिन्या द्वितीयादीन् पश्चाप्याशु जातमात्रान् तनयात् पञ्चभावं नि- अनमनेष्ट प्रापितवान् । एवं षड्ग जन्मोक्तम् । अन्यायतो रिक्थहरः अन्यायेन द्रव्यं हरन् । मृतेर्बिभ्यत् । स्त्रीतराया,अतिशयिताया स्त्रियाः सुध्तीन् ।--रिक्थहर इति 'हर- तेरनुधमनेऽच् ॥ यद्भागिभाजोऽपि हि जानते ताज्ञेयं यदष्टादश यश्च पाता। विद्या भुजङ्गाधिपतिर्महात्मा स देवकीसप्तमगर्भ आसीत् ।। ५३ ॥ स भुजलाधिपतिरनन्तो देवकीसप्तमगर्भ आसीत् । महात्मा महानात्मा यस्य । यद्भागिभाजो यद्भक्तान् भजन्तोऽपि यत् ज्ञेयं वस्तु तत् जानते हि । यश्च अष्टादश वेदोपवेदाङ्गोपाजलक्षणा विद्याः पाता रक्षिता ॥—जानत इति । 'अनुपसर्गाज्ज्ञः' इति तड् । महात्मेति । 'आन्महतः समानाधिकरणजातीययोः' इत्याकारः । अष्टादश इति । 'यष्टनः संख्यायामबहुव्रीह्यशीयोः । 'प्राक्शतादिति वक्तव्यम्' इत्याकारः ।। महीयसीरूपतयोदिता या हल्लेखसंसारभयापहनौं । या च त्रयोविंशतितत्त्वरूपा वणास्त्रिषष्टिश्च वपुर्यदीयम् ।। ५४ ॥ हृच्छोकहर्तुर्जगतां हरेः सा मायाज्ञया गर्भमथो अमुष्याः । तं रोहिणीमाप्य पुनः स्वजन्यै नन्दस्य दारानविशद्यशोदाम् ।। ५६ ॥ अथो सा माया हरेराज्ञया अमुष्यास्तं गर्भ रोहिणीमाप्य प्रापय्य पुनः खजन्यै आ- स्मनः प्रादुर्भावाय नन्दस्य दारान् यशोदामविशत् । या शास्त्रेषु महीयसीरूपतया उ- दिता उक्ता । अतिशयेन महती महीयसी । हल्लेखसंसारभयापही हृदयं लिखतीति ह. लेखः । या च त्रयोविशतितत्त्वरूपा । तत्र योगैमते चित्तं नाम(१)तत्त्वान्तरं नहि अत- नयोविंशतिको गणः । इति बोदेवः । त्रिषष्टिर्वणीश्च यदीयं वपुः । जगतां हृच्छोक- हर्तुः । हृदये शोको हृच्छोकः-त्रयोविंशतीति । 'तेस्त्रयः' । प्राक्छतादिति त्रयसादेशः। त्रिषष्टिरिति । 'विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्' इति वा त्रयसादेशः। 'प्राक्छतात्' १'कर्तुर्जगतां यदीयहरेः सा मायागर्भः' इत्यादर्शपा. २ 'योगतमे' इत्यादर्शपाठः ३ 'वोपदेव' इत्यादर्शपाठः. वासुदेवविजयम् । हृदेखेति । 'हृदयस्य हल्लेख यदण् लासेषु' इति हृदादेशः । हृच्छोकेति । 'वा शोक- ध्योगेषु' इति वा हृदादेशः । महीयसीरूपतयेति । 'उगितश्च' इति हखाभावपक्षः । आप्येति । आड्पूर्वालयप् । 'विभाषापः' इति शेरयादेशाभावपक्षे 'णेरनिटि' इति गेर्लोपः। 'आदित्रयं ह्रखदीर्घप्लुतभेदानवात्मकम् । दीर्घलुततया षटकं परंतु द्वादशात्मकम् ॥ स्युः पञ्चविशतिः स्पर्शा अन्तस्थानां चतुष्टयम् । षष्माणश्च चत्वारो यमा बिन्दुविसर्गलाः ॥' इति षष्टिवर्णाः । दीर्घाश्चाष्टौ प्लुताश्चाष्टौ ह्रखाः पञ्च यमा नव । व्यञ्जनानि त्रयस्त्रिशत् त्रिषष्टिवर्णजातयः ॥ ३ ॥ धन्यं वितन्वन्नपरोधिभ्यः क्षीरोदमुच्चैरथ शाङ्गधन्वा । दुराजपद्योफ्लभङ्गहृद्या विधास्यमानः श्रुतिपद्धतीस्ताः ।। ५६ ॥ पन्मिश्रतीर्थान्बुकृतोदवासैर्जुष्यो मुनीन्द्रैः कलितोदकुम्भैः । 'सुरासुरग्रामणिदर्पदाता गर्भेऽभवद्देवकनन्दनायाः ।। ५७ ।। अथ शार्ङ्गधन्वा देवकनन्दनाया गर्भे अभवत् सांनिध्यमकरोत् । इतरोदधिभ्य क्षी- रोदमात्मसांनिध्येन उन्चैर्धन्यं भाग्यवन्तं वितन्वन् । ताः श्रुतिपद्धतीः दुराजपयोपलभङ्ग- हृद्या दुष्टा राजान एव पादौ विध्यन्त उपलास्तेषां भड्रेन हृदयस्य प्रिया विधास्यमानः । मुनीन्द्रर्जुष्यः सेव्यः । पन्मिशतीर्थाम्बुकृतोदवासैः पदमिश्र तीर्थाम्बु गङ्गाजलं तत्र कृत उदवासो यैः कलितोदकुम्भैः धृत उदकपूर्णकुम्भो यैः । मुरासुरप्रामणिदर्पदाता सुरा- मुरश्रेष्ठानां दर्पस्य प्रतिपादयिता खण्डयिता च ।।-पद्येति । 'विध्यत्यधनुषा' इति यत् । 'पद्यत्यतदर्थे' इति पादशब्दस्य पदादेशः । पद्धतीति । पादाभ्यां हन्यते इति कर्मणि क्तिन् । 'हिमकाधिहतिषु च' इति पदादेशः । बह्वादित्वात् हीषन्तो वा । पन्मिश्रेति । 'वा घोषमिश्रशब्देषु' इति पद्भावः । क्षीरोदमिति । 'उदकस्योदः संज्ञायाम्। 'संज्ञाया- मुत्तरपदस्योदकशब्दस्य उदादेशो भवतीति वक्तव्यम्' । उदवास उदधीति । पेषंवासवाह- नधिषु च' इत्युदकशब्दस्य उदादेशः । उदकुम्भेति । 'समानाधिकरणाधिकारे शाकपा- र्थिवादीनामुपसंख्यानम् । मध्यमपदलोपश्च' 'एकहलादौ पूरयितव्येऽन्यतरस्याम्' इत्यु- दादेशः । सुरासुरग्रामणिदर्पदाता इति 'इको ह्रखोऽडयो गालवस्य' इति वा ह्रखादेशः ॥ श्रमोदबिन्दुस्नपितास साल्पे हेतौ तथाप्यैदिधदात्मधर्मम् । भान्ती निकामं धृतवामनां तां तदादिति(ती)मन्वकरोदिवासौ ॥५८॥ सा अल्पे हेतौ अपि श्रमोदबिन्दुस्लपिता आस बभूव । उदकस्य बिन्दव उदबिन्दवः। तथापि आत्मधर्ममैदिधदवर्धयत् । तदा निकामं भान्ती शोभमाना असौ धृतवामनां तामदितीमन्वकरोदिव -ऐदिधदिति । “विभाषोपपदेन प्रतीयमाने इत्यात्मनेपदा- १. 'वृत्त्यादिषु 'विदुषीतरा' इत्युदाहृतम् । तन्निर्मूलम्' इति सिद्धान्तकौमुदी. एवं वे- दमपि वृत्त्यनुरोधेन बोध्यम्. काव्यमाला। भावे परस्मैपदम् । भान्तीति । 'शेषात्कतरि परस्मैपदम्' । अन्वकरोदिति । 'अनुपराभ्यां कृमः' इति परस्मैपदम् । श्रमोदविन्द्विति । 'मन्थौदनसस्तुविन्दुवज्रभारहारवीवधगाहेषु च' इति बा उदादेशः । आसेत्सव्ययम् ॥ सुखाहरैर्वमहरैः सगभ्यः प्रलम्बमुख्यैश्च सहाश्रवैस्तैः । अभिक्षिपन्नक्षमकोऽर्चनाहन्दृिष्ट्वा स्वसुर्दीप्तिमखिन्त कंसः ॥ ५९॥ कंसः खसुर्दीप्तिं दृष्ट्वा अखिन्त खिन्नोऽभूत् । सगभ्यतृभिस्तैः प्रलम्बमुख्यैश्च सह अर्चनाहन् । पूजामर्हतः अभिक्षिपन् अभिभवन् । सुखाहरैः सुखहरणशीलैः वर्महरैः कवचं हतु संभाव्यमानवयोभिः ॥ आश्रवैः वचनस्थितैः । अक्षमक: न विद्यमाना क्षमा यम्य ॥–अभिक्षिपन्निति । 'अभिप्रत्यतिभ्यः क्षिपः' इति परस्मैपदम् । वर्महरैरिति । 'यति च' इत्यच् । सुखाहरैरिति । 'आडि ताच्छील्ये' इत्यच् । अर्चनाहानिति । 'अहः' इत्यच् । दीप्तिमिति । 'क्तिनाबादिभ्यः' । सगभ्यरिति । 'सगर्भसयूयसनुताश्चत्' भवेऽर्थे । समाने गर्ने भव इति 'समानस्य च्छन्दसि' इति सः ॥ प्रोवाह चिन्तां परिमृष्यति स्म देवाय कार्याद्विरराम भीतः । उपारमत्स्वान्न स दानमानै: सदोपरेमे विषयोपभोगात् ॥ ६॥ स सदा भीतश्चिन्तां प्रोवाह बभार, दैवाय परिमृध्यति स्म असूयति स्म, कार्यात् विरराम उपरतव्यापारोऽभूत् , दानमानैः खान् ज्ञातीन नोपारमत् नावारयत्, विषयोप- भोगात् उपरेमे निववृते॥-प्रोवाहेति । 'प्राद्वहः' इति परस्मैपदम् । परिमृष्यतीति । 'परे- मुंषः' इति परस्मैपदम् । विररामेति । 'ब्याड्परिभ्यो रमः' इति परस्मैपदम्। उपार- मदिति । 'उपाच' सकर्मकात् परस्मैपदम् । उपरेम इति । विभाषाकर्मकात्' इति परस्सै- पदविकल्पः । कार्यादिति । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इत्यपादानसंज्ञायां पञ्चमी ॥ न बाजथान्यद्य वधामुष्याः स्थेष्ठं यशो मे तनयं तु जातम् । विनाशयिष्यामि तदैव प(क)क्त्वेत्यासीदसौ तत्प्रसवप्रतीक्षः ॥ ६१ ॥ अहमद्यामुष्या वधात् मे स्थेष्ठं स्थिरतरं यशो न वाजयानि कम्पयानि । जातं तनयं तु तदैव प(ब) क्त्वा गत्वा विनाशयिष्यामि इति चिन्तयन् असौ तत्प्रसवप्रतीक्षः तस्याः प्रसवं प्रतीक्षमाण आसीत् ॥-प्रतीक्षमाणेति । 'ईक्षिक्षमिभ्यां चेति वक्तव्यम्' इति गः । वाजयानीति । वा मतिगन्धनयोः' । 'वो विधूनने जुक्' इति णौ जुगागमः। निगर- मचलनार्थेभ्यश्च' इति परस्मैपदम् । प(ब)क्त्वेति । प(व)ञ्चुचवादयो गत्यर्थाः ॥ उद्बोधयन्नुक्तिभिरप्रमादं सोऽतिष्ठिपच्चाप्रसवात्तदन्ते । अशीतक रक्षिजनं तथापि त्रासो मनस्तस्य पराचकार ।। ६२॥ तदन्ते तस्याः समीपे आ प्रसवातूं प्रसवपर्यन्तं रक्षिजनं अतिष्ठिपत् स्थापयामास । वासुदेवविजयम् । उक्तिभिरप्रमादमनवधानमुद्बोधयन् । अशीतकः [ न ] शीतकोऽलसः । तथापि तस्य मनः पराचकार अभ्यभवत् ॥-उद्बोधयनिति । 'बुधयुधनशजनेसुद्रुसुभ्यो णेः' इति परस्मैपदम् । अतिष्ठिपदिति । 'अणावकर्मकाञ्चित्तवल्कर्तृकात्' इति परस्मैपदम् ॥ "द्रोहिक्षिपाकर्मठसुप्रवेष्टे गर्भ गते शंकरयाच्बयाजे। स्तम्बरमा भूवलयस्य धायाः प्रावीवृतन्द्राड्मदवारिधाराः ।। ६३ ।। अजे शंकरयाच्या गर्भ गते भूवलयस्य धायाः भूवलयं दधतः स्तम्बरमा दिग्गजा द्राक् मदवारिधाराः प्रावीवृतन्प्रवर्तितवन्तः । द्रोहिक्षिपाकर्मठसुप्रवेष्टे द्रोहिणो द्रोहशी- लास्तेषां क्षिपायां निरासे कर्मठाः कर्मशूराः शोभनाः प्रवेष्टा भुजा यस्य ॥--स्तम्बरमा इति । 'स्तम्बकर्णयो रमिजपोः' 'हस्तिसूचक्योरिति वक्तव्यम्' इत्यच् । तत्पुरुषे कृति बहुलम्' इत्यलुक् । शंकरेति । 'शमि धातोः संज्ञायाम्' इत्यच् । कर्मठ इति । 'कर्मणि घटोऽठच् ॥ बिलेशयेशोऽपि भरावभुनः किमप्यगर्वायत हर्षमाणः । मुद्द्युतच्चेतसि देवतानामनर्तयन्ताप्सरसश्च तानि ॥ ६४ ॥ विलेशयेशोऽनन्तोऽपि किमप्यगर्वायत गर्ववान् अभवत् । भरावभुन्नः । हर्षमाणो हृष्टमनाः । देवतानां चेतसि मुत् संतोषोऽद्युतद् दीप्यते स्म । तानि दैवतानि कतैणि अप्सरसोऽनर्तयन्त नर्तितवत्यश्च ॥-अनर्तयन्तेति । 'न पादम्याडयमाडयसपरिमुहरु- विवृतिवदवसः' इति परस्मैपदप्रतिषेधः । अगर्वायतेति । 'वाक्यपः' इति परस्मैपदमात्म- नेपदं च । अद्युतदिति । 'धुझ्यो लडि' इति वा परस्मैपदम् । बिलेशयेति । 'अधिकरणे शेतेः' इत्यच् । 'शयवासवासिष्वकालात्' इति वा सप्तम्या अलुक् । हर्षमाण इति । ता. च्छील्यवयोवचनशक्तिघु चानश् ॥ 7 बनेचरास्त्रैष्टुभजागतादिप्रगाथविज्ञा मुनयः सशिष्याः ! चिक्लप्सति स्वस्थितये हरौ तं विवृत्सदानन्दथवो ह्यवानयन् ।। ६५ ।। हरौ स्वस्थितये स्वर्गस्य रक्षाथै चिकृप्सति परिणन्तुमिच्छति सति मुनयः सशिष्यास्त- मवानयन् स्तुतवन्तः । वनेचराः त्रैष्ठभजागतादिप्रगाथविज्ञाः । प्रगाथो मन्त्रविशेषः । त्रिष्टुबादिरस्येति त्रैष्टुभः । जगती आदिरस्येति जागतः । विज्ञाः निपुणाः । विवृत्सदा- नन्दथवः विवृत्सन् वर्धितुमिच्छन् आनन्दथुः सुखं येषाम् ॥-'वृद्ध्यः स्यसनोः' इति वा परस्मैपदम् । चिक्लप्सतीति । 'लुटि च क्लपः' इति वा परस्मैपदम् । वनेचरा इति । 'चरेष्टः' । त्रैष्टुभजागतेति । 'सोऽस्यादिरिति च्छन्दसः प्रगाथेषु' इत्यण् । 'त्रिष्टुभम्' इति विवक्षिते 'छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ उपसंख्यानम् ॥ खस्थितये इति । कृषिसंपद्यमाने चतुर्थी वक्तव्या ॥ १. एवं पाठे छन्दो विचिन्वम्. काव्यमाला। अपिस्फवत्पुण्यकृतां प्रमोदं महोत्सवं प्रादित बल्लवेभ्यः । भिक्षाचरोपाहृतमाजिजीवच्छौरेर्मुदं रोहिणिपुत्रजन्म ॥ ६६ ॥ रोहिणिपुत्रजन्म रोहिणीपुत्रस्य रामस्य जन्म पुण्यकृतां प्रमोदं हर्षमपिस्फवदवी. वृधत्, बल्लवेभ्यो गोपेभ्यो महोत्सवं प्रादित, शौरेर्मुदमाजिजीवत् । भिक्षाचरोपाहृतं च- रणेन भिक्षामर्जयद्भिः कथितम् ॥-भिक्षा इत्यत्र इकारस्य 'हखं लघु' इति लघुसंज्ञा प्रा- नोति । 'संयोगे गुरु' इति गुरु संज्ञैव भवति । 'आकडारादेका संज्ञा' इति नियमात् । 'गुरोश्च हलः' इत्यप्रत्ययः। भिक्षासेनादायेषु च' इति चरेष्टः। अपिस्फवदिति । 'स्फायी वृद्धी' इत्यस्माणिचि 'स्कायो वः' इति यकारस्य वकारे 'स्फावि' इत्यत्मानुडि च्लेश्चडि 'णौ चडथुपधाया ह्रस्वः' इत्युपधाह्रखे 'चड़ि' इति द्वित्वे 'पूर्वोऽभ्यासः' इत्यभ्याससंज्ञायां 'हलादिः शेषः' 'शपूर्वाः खयः' इति सकारलोपे 'अभ्यासे चर्च' इति पकारा- देशे 'सन्वल्धुनि चड्परेऽनग्लोपे' इति सन्वद्भावे 'सन्यतः' इत्यभ्यासाकारस्येत्वम् । आजिजीवदिति । आड्पूर्वाज्जीवधातोर्णिचि लुडि चडि 'भ्राजभाषदीपीवमीलपीडामन्य- तरस्याम्' इत्युपधाहखाभावपक्षः। बवेभ्य इति । 'सुपि च' इति दीर्धे 'बहुवचने झल्येत्' इत्येत्त्वे च प्राप्ते 'विप्रतिषेधे परं कार्यम्' इति परत्वादेत्त्वमेव स्यात् । रोहिणि- पुत्रजन्मेति । 'दयापोः संज्ञाछन्दसोबहुलम्' इति ह्रस्वः ॥ ज्वरपूर्वसरा रुजः प्रशेमुः कलहाः बैणपुरःसराश्च गोष्टे । भुजगेशि निशाकराभिरामे द्विषतां शोककरे तदावतीर्णे ॥ ६७ ।। तदा भुजगेशिअनन्ते अवतीर्णे,गोष्ठे ज्वरपूर्वसरा ज्वरादयो रुजो रोगाः प्रशेमुः शान्ताः त्रैणपुरःसराः कलहाश्च प्रशेमुः । स्त्रैणः स्त्रीप्रियो जनः । निशाकराभिरामे चन्द्रवन्मधुरे। द्विषतां शोककरे शोककरणशीले । पुरःसर इति । 'पुरोऽप्रतोऽग्रेषु सर्तेः' इति टः। पूर्वसरेति । 'पूर्वे कर्तरि' इति टः । शोककर इति । 'कृओ हेतु- ताच्छील्यानुलोम्येषु' इति टः । निशाकरेति । 'दिवाविभानिशाप्रभाभास्कारान्तानन्ता- दिबहुनान्दीकिलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसख्याजङ्घाबाह्वयत्तद्धनुररुःषु' इति टः। बणेति । 'संग्रामे प्रयोजनयोद्धभ्यः' इति नन् । भुजगेशीति । 'ईश ऐश्वर्य' क्विम् ।। यो वैरकारः स्वयमेव गोष्वभूत्तॄणेढि नो स स्म शकृत्करीनपि । नासीदकालेऽप्यफलेग्रहि?मस्तदर्तवः कर्मकरा इवाभवन् ॥ ६८ ॥ गोषु यो वैरकारोऽभूत् स खयमेव शकृत्करीनपि नो तृणेढि स्म वत्सानपि न हि- सितवान् । द्रुमोऽकालेऽपि अफलेग्रहिन्ध्यो नासीत् । तदा ऋतकः कर्मकरा वैतनिका इबाभवन् ॥ कर्मकरा इति 1 'कर्मणि भूता' इति टः। वैरकार इति । 'न शब्दश्लोककलगायावरचाटुसूत्रमन्त्रपदेषु' इति टप्रतिषेधे 'कर्मण्यण् । श- १. 'अविस्फचत्' इत्यादशैं. वासुदेवविजयम् । कृत्करीनिति । 'स्तम्बशकृतोरिन्' । फलेग्रहिरिति । फलानि गृह्णातीति । 'फलेपहिरात्म. भरिश्च' इति निपातितः॥ पृथ्व्या रक्षामभि(पि) विधतस्तं श्रियो वासभूमे- दैत्यश्रीणां प्रविचलयितुः स्वःश्रियाः स्थापकस्य । देवस्त्रीणामभिभवहृतः संभवोत्थं प्रमोदं विश्वस्यावेत्रिभुवनपतेयंत्रसीचाति कंसः ॥ ६९ ॥ कंसः विश्वस्य तं प्रमोदं त्रिभुवनपतेः संभवोत्थमवेज्ज्ञातवान् । अति व्यत्रसीच्च बि- भाय। पृथ्व्याः रक्षामपि विदधतः। श्रियः वासभूमेः। दैत्यश्रीणां प्रविचलयितुः कम्प- यितुः । स्वश्रियाः खर्गलक्ष्म्याः स्थापकस्य । देवस्त्रीणामभिभवहृतः परिभवं हरतः ॥- पृथ्व्या इति । 'यू व्याख्यौ नदी' इति नदीसंज्ञा 'यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' इत्यङ्गसंज्ञा । 'आग्नद्याः' इति आटि वृद्धियणादेशौ । दैत्यस्त्रीणामिति । 'नेयडवस्था- नावस्त्री' 'वामि' इति विकल्पेन नदीसंज्ञायां नुट् । श्रियः, खश्रिया इति । 'डिति ह्र- स्त्रश्च' इति वा नदीसंज्ञायामाबृद्धियणादेशाः । अन्यत्रेयड् । वासभूमेरिति । विकल्पेन नदीसंज्ञाभावे 'शेषो ध्यसखि' इति विसंज्ञायां घेर्डिति' इति गुणः । त्रिभुवनपतेरिति । 'पतिः समास एवं' इति घिसंज्ञायां गुणः । स्त्रीणामिति । 'अस्त्री इत्युक्त्या परत्वानुट् ॥ कालिंमन्याः कुर्वदाशाः स्वधाम्ना गां द्यांमन्यां चोल्लसन्मालभारी । बिभ्यन्मृत्योर्भावनादाययोगाच्छौरे रूपं शश्वदीक्षांबभूव ॥ ७० ॥ मृत्योर्बिभ्यत् स भावनादाययोगात् शौरे रूपं शश्वद् ईक्षांबभूव प्रत्यक्षीकृतवान् । खधाम्ना आशाः कालिंमन्या आत्मनः काली मन्यमानाः कुर्वत् । गां भूमि द्यांमन्यां खर्गसात्मानं मन्यमानां कुर्वत् । उल्लसन्मालभारी उल्लसन्ती मालां बिभ्रत् ॥ ईक्षाब- भूवेति । 'दीय च' इति गुरुसंज्ञा । 'इजादेश्च गुरुमतोऽनृच्छः' इत्यामः । उल्लसन्माल- भारीति । 'इष्टकेषीकामालानां चिततूलभारिघु' इति हस्खः । 'इष्टकादिभ्यस्तद- न्तस्यापि प्रहणम्' कालिंमन्या इति । 'जानपदकुण्डगोणस्थलभाजनागकालनीलकुशका- मुककबराबृत्यमन्त्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु' इति डोषि काली। 'आत्ममाने खश्च'। 'खियनव्ययस्य इति हवः । अरुषिदजन्तस्य मुम्' इति मुमा हखो न बाध्यते । धांमन्यामिति ! 'इच एकाचोऽम्प्रत्ययवच' इत्यमागमो द्वितीयैकवचनवञ्च स्यात् । 'औतोऽम्शसोः ॥ दाण्डां क्रीडां ये च मौष्टामकुर्वञ्छ्यैनंपातां शश्वदाखेटकेलीम् । ये वाचाटास्तेऽपि वाचंयमानां योग्यामापुः सात्त्विकीमेव वृत्तिम्।।७१॥ तेऽपि जनाः सात्त्विकीमेव वृत्तिमापुः । के ये दाण्डो मौष्टां च क्रीडामकुर्वन् । दण्डः प्रहरणमस्या क्रीडायाम् । मुष्टिः प्रहरणमस्यां क्रीडायाम् । ये च शश्वदाखेटकेलीमकुर्वन् । काव्यमाला! श्येनपातोऽस्यां कियायामिति श्यैनंपाताम् । ये च वाचाटाः । वाचंयमानां मुनीनां योग्याम् ॥-दाण्डां मौष्टामिति । 'तदस्यां प्रहरणमिति क्रीडायां णः' 'स्त्रियाम्' 'अजायतष्टाप्' इति टाप् । श्यैनंपातामिति । 'नः सास्यां क्रियेति ञः' इति घयन्तात् पातशब्दात् कृद्रहणे गतिकारकपूर्वस्य कारकत्वादञ् । 'श्येन तिलस्य पाते ने' इति मुमागमः । वाचंयमानामिति । 'वाचि यमो व्रते' इति खच् । 'वाचंयमपुरंदरौ च' इति पूर्वपदस्यामागमो निपात्यते । वाचाटा इति । 'आलजाटचौ बहुभाषिणि' इ. खादच् । 'कुत्सित इति वक्तव्यम् । 'यचि भम् इति भसंज्ञायां कुत्वाभावः ।। वर्मायितं मत्रकृतां मरुत्वतः केशापहं दानवसत्त्वमेजयम् । स्वर्वासिनः सार्वमुदात्तवाङ्मयैः शर्वादयोऽस्तौषत शंयवो हरिम् ॥७२॥ शर्वादयः स्वासिनो हरिसुदात्तवाङ्मयैर्वाग्विकारैरस्ताषत स्तुतवन्तः । मन्त्रकृतां मन्त्रद्रष्टृणां वायितुं वर्मवदाचरितवन्तं रक्षकम् मरुत्वतः क्लेशापहम् । दानवसत्त्वमेजयं दानवानां सत्त्वं हृदयं कम्पयन्तम् । सावं सर्वस्मै हितम् । शंयवः सुखातिशयवन्तः॥-- शर्वादयोऽस्वौषतेति । 'सुप्तिडन्तं पदम्' इति पदसंज्ञायां 'एडः पदान्तादति' इति पूर्व- रूपत्वम् । वर्मायितामेति । आचारक्यचि 'नः क्ये' इति पदसंज्ञायां नलोपः । शेयव इति । 'केशंभ्यां बभयुस्तितुतग्रसः' इति युस् । 'सिति च' इति पदसंज्ञायामनुस्वारपर- सवौँ । मरुत्वत इति । मरुतोऽस्य सन्तीति मतुपि 'तसौ मत्वर्थे' इति भसंज्ञायां जश- भावः । शर्वादय इति । 'बहुषु बहुवचनम्' इति बहुवचनम् । हरिमिति । कयोक्चि- नैकवचने' इत्येकवचनम् । वाड्मयैरिति । 'मय.तयो षायामभक्ष्याच्छादनयोः' इति बि- कारे मयट्यरोऽनुनासिकेऽनुनासिकोवा'। 'तद्धितप्रत्यये भाषायां नित्यवचनं कर्तव्यम्। अमरारिभरातुरक्षमासाध्वगदंकारपरंतपानुभावे । भगवत्यभिलाषकेऽवतारं भुवनं प्रीतिवशंवदं बभूव ।। ७३ ॥ भगवति अवतारमभिलाषके सति भुवनं प्रीतिवशंवदं बभूव । अमरारिभरातुरक्षमासा- ध्वगदंकारपरंतपानुभावे अभयस्य एव भरस्तेनातुरायाः क्षमायाः साधुर्दक्षो अगदंकारश्चि- कित्सकः । परेषां तापयिता चानुभावो यस्य । 'दक्षस्तीर्थात्तशास्त्रार्थों दृष्टकर्मा भिषक् शुचिः' इति वाहटः ॥--वशंवदमिति । 'प्रियवशे वदः खच्' । 'अरुषिदजन्तस्य मुम्' परंतपेति । 'द्विषत्परयोस्तापेः' इति खच् । अगर्द कारेति । अगदं करोतीत्यण् । 'कारे सत्यागदस्य' इति 'अस्तु सत्यागदस्य कार इति वक्तव्यम्' इति मुमागमः ।। इति सटीके वासुदेवविजये द्वितीयः सर्गः। तृतीयः सर्गः। नारायणे रात्रिमटाङ्गनानामसातये तत्र जनिष्यमाणे । मुक्तं सुरैर्नाकनगप्रसून पपात नक्षत्रपथादनल्पम् ॥ १ ॥ वासुदेवविजयम् । तत्र नारायणे अनिष्यमाणे प्रादुर्भविष्यति सति नक्षत्रपथात् अनल्यं नाकनगप्रसून स्वर्गवृक्षकुसुमं पपात । सुरैर्मुक्तम् । अनल्पं बहु । रात्रिमटाङ्गनानां राक्षसस्त्रीणामसातये न सातयति सुख्यतीत्यसातयः॥-नक्षत्रपथादिति । 'कारके' इत्यधिकृत्य 'ध्रुवमपाये- आदानम्' इत्यपादानसंज्ञा । 'अपादाने पञ्चमी'। रात्रिमटेति । 'रात्रेः कृति विभाषा' इति मुमागमः । असातय इति । 'अनुपसर्गालिम्पविन्दधारिपारिवेादेजिचेतिसाति-' इति नञ्पूर्वोत्सातेः सुखार्थांच्छः । 'नलोपो नवः' उत्तरपदे परे । अनल्पमिति । 'तम्मानुडचि' इति परस्य नुडागमः । नक्षत्रनाक इत्यत्र 'नानपानवेदानासत्यानमु- चिनकुलनखनपुंसकनक्षत्रनकनाकेषु प्रकृल्या' इति नजः प्रकृतिभावः । नगेति । 'नगोड- प्राणिध्वन्वतरस्याम्' इति प्रकृतिभावः ॥ येषां पराजेषत वीर्यभून्नो थेभ्यः पुरान्तर्दधते च पूर्वम् । मुष्टिंधयेभ्योऽपि च दानवेभ्यस्तेभ्यस्तदा नाविभियुर्दिविष्ठाः ॥ २॥ तदा दिविष्ठा देवास्तेभ्यो दानवेभ्यो नाबिभियुर्बिभ्यति स्म । ते पूर्व येषां वीर्यभून्नः पराजेषत विमुखीबभूवुः । मुष्टिधयेभ्यो अत्यन्तबालेभ्योऽपि येभ्यः पुरा अन्तर्दधते अन्तरदधत ॥---दानवेभ्य इति । भीत्रार्थानां भयहेतुः' इत्यपादानसंज्ञा । पराजेषत वीर्यभूम्नः इति । 'पराजेरसोढः' इत्यपादानसंज्ञा । येभ्यः अन्तर्दधते । 'अन्तद्धौं येना- दर्शन मिच्छति' इत्यपादानसंज्ञा । 'पुरि लुइचास्मे' इत्यनद्यतनभूतेऽपि लट। दिविष्ठा इति । 'सुपि स्थः' इति कास्ये 'हृद्दयुभ्यां च इति । सप्तम्या अलुकि 'अम्बाम्बगो- भूमि-' इति मूर्धन्यादेशः । मुष्टिवयेभ्य इति । 'नाडीमुष्टयोश्च' इति खश् । [भून्न इति 'पृथ्वादिभ्यः-' इतीमनिच्प्रत्यये 'बहोर्लोपो भू च बहोः' इति बहुशब्दस्य भूरादेशः प्रत्ययादिलोपश्च ॥] विभीहि मा देवकि ते सुतोऽयं संत्रास्यते त्वां स सगोत्रवग्याम् । खस्त्यस्तु तुभ्यं सहभर्तृकायै विहाय इत्यानशिरे गिरोऽर्थ्याः ॥३॥ हे देवकि, मा विभीहि । ते सोऽयं सुतः सगोनवर्या त्वां संत्रास्यते रक्षिष्यति । समानगोत्राणां वर्गे भवाः सगोत्रवाः । सहभर्तृकाय तुभ्यं खस्त्यस्तु इति गिरो विहाय आकाशं आनशिरे व्याप्ताः । अर्ध्या अर्थादनपेताः ॥--सगोत्रवामिति । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्गवयोवचनबन्धुषु' इति समानशब्दस्य सभावः । चोपसर्जनस्य' इति बहुव्रीह्मवयवस्य सहशब्दस्य सभावः । सहभर्तृकायै । 'प्रकृत्याशिषि' 'अगोवत्सहलेषु' इति सहशब्दस्य प्रकृतिभावः । 'नयतश्च' इति कम् समासान्तः । अर्थ्या इति । 'धर्मपथ्यर्थन्यायादनपेते' इति यत् ॥ अथार्धरात्रे निबिडैस्तमोभिरभ्रंलिहैश्छन्नदिशे निकंसः । खारिंपचामत्रविपकमन्नं विष्वण्य सुष्वाप स रक्षिवर्गः ॥ ४ ॥ अथार्धरात्रे निकंसः कसेन नियुक्तो रक्षिवर्गोऽनं विध्वण्य सशब्दं भुक्त्वा सुष्वाप । काव्यमाला। अभ्रंलिहैराकाशलेहर्निविडैस्तमोभिश्छनदिशे छादितदिशि । खारिपचामत्रदिपक्वं खारि- यचेषु पात्रेषु विपक्वम् । खारि पचतीति खारिपचः ॥-'परिमाणे पचः' [इति खश् ] । 'खित्खनव्ययस्य' इति हखः । पक्कमिति । 'पचो वः' इति निष्ठातस्य वः । अध- लिहरिति । 'बहाने लिहः' इति खश् । निकंस इति । 'अवादयः क्रुष्टाद्यर्थे तृतीया' इति गतिसमासः ।। मितंपचं किंचिदरंतुदं तां प्रसूतिजं दुःखमयांबभूव । चक्रं ललाटतपभास्कराभं दधानमीशं शरणं गता सा ॥ ५॥ तां प्रसूतिजं दुःखं प्रसववेदना अयांबभूव प्राप्ता । सा ईशं विष्णुं शरणं गता मितं. पचमल्पं किचित् अरुंतुदं पीडाकर ललाटंतपभास्कराभं चक्रं दधानम् । ललाटं तप- तीति तथा मध्याह्नार्कः ॥-मितंपचामिति । 'मितनखे च' इति खश् । अरंतुदमिति । 'विश्वरुषोस्तुदः' इति खश् । संयोगान्तलोपः । ललाटंतप इति । 'असूर्यललाटयोई- शितपोः' इति खम् ॥ प्रियंवदं मित्रमिवानुरोधि द्विपंतपं देवमिव स्तुवानम् । इरंमदं ज्योतिरमुञ्चभ्रं शनैः शनैः प्रावृषिकं ररास ॥६॥ प्रावृषिकं प्रावृषि जातमनं शनैः शनैः ररास शब्दायते स । प्रियंवदमनुरोध्यनुवर्व- नशीलं मित्रमिव । द्विपंतपं देवं स्तुवानमिव । द्विषतः तपतीति । इरमदं ज्योतिरमुञ्चत् इरया जलेन माद्यतीति ।-रंमदमिति । 'उग्रंपश्येरंमदपार्णिधमाश्च' इति निपातनम्। प्रियंवदमिति । प्रियवशे वदः खन्' । द्विषतपमिति । 'द्विषत्परयोस्तापेः' इति खच् । प्रावृषिकमिति । प्राथषष्ठप्' । 'प्रावृषिजम्' इति वा पाठे 'प्रावृट्शरत्कालदिवां जे इति सप्तम्या अलुक्॥ अधीतवन्तो विधिवद्गुरुभ्यः श्रुत्ती: सतीयः सह सेष्टि मत्याः । भूयात्सुखं देवकनन्दनाया हृदैवमाशासत तापसौद्धाः ॥ ७ ॥ तापसौद्धाः प्रशस्तास्तपखिनो हृदैवमाशासत प्रार्थितवन्तः । देवकनन्दनायाः सुखं भूयात् इति गुरुभ्यः सतीथ्यः समानतीर्थेवासिभिः सह सेष्टि श्रुतीः [अधीतवन्तः] । सेष्टीति 'अव्ययं विभक्तिसमीप-' इत्यन्तार्थकसहशब्दस्याव्ययीभावसमासे 'अव्ययीभावे चाकाले' इति 'ग्रन्थान्ताधिके च' इति वा सहशब्दस्य सभावः । सतीषैरिति । 'समाने तीर्थेवासी' इति यत् । 'तीर्थे ये' इति समानशब्दस्य सभावः । तापसौद्धा इति। तपः शब्दात् 'अञ्च' इत्यण् मत्वर्थीयः । 'प्रशसावचनैश्च' इति समासः। मत्या इति । 'मत- जनहलात् करणजल्पकर्षेषु' इति यत् ॥ १. अस्य तत्पुरुषे चरितार्थलादुपन्यासश्चिन्त्यः वासुदेवविजयम् । १०१ सब्रह्मचारी नवमेघरुच्याः सोदर्यदेश्यो हरिदश्मभासाम् । तमालकान्तेः सदृगाननन्दत्प्रभोद्गमः कश्चन जंपती तौ ॥ ८ ॥ कश्चन प्रभोद्गमः तौ जंपती जायापती आननन्दत् आनन्दयामास । नवमेघरुच्याः सब्रह्मचारी हरिदश्मभासां मरकतत्विषां सोदर्यदेश्यः ईषदसमाप्तः समानोदर्यः । तमालकान्तेः सदृक् सदृशः ॥—सब्रह्मचारीति । ब्रह्म वेदः । तदध्ययनार्थं यद्व्रतं तदपि ब्रह्म तच्चरतीति ब्रह्मचारी । समानं ब्रह्म चरतीति सब्रह्मचारी । 'व्रते' इति णिनिः । 'चरणे ब्रह्मचारिणि' इति समानस्य सः। सोदर्यदेश्य इति । समाने उदरे शयितः स्थितः इत्यर्थे 'सोदराद्यः' इति यत्प्रत्यये विवक्षिते प्रागेव 'विभाषोदरे' इति समानस्य सः । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' । सदृगिति । 'दृग्दृशवतुषु' इति समानस्य सः। जंपती इति । राजदन्तादित्वात् पक्षे जायाशब्दस्य जंभावो दंभावश्च निपात्यते । परनिपातश्च ॥

इयानसावित्यपि कल्पकोट्या दुर्ज्ञानसौभाग्यविशेषसीमा । सुतः स तादृक्त्रिजगत्पवित्रमाहात्म्यभूमाजनि देवकीतः ॥ ९ ॥ देवकीतः स तादृक् सुतो अजनि । असौ इयान् इदंपरिमाणक इति कल्पकोट्या कल्पानां कोट्या अपि दुर्ज्ञानसौभाग्यविशेषसीमा । त्रिजगत्पवित्रमाहात्म्यभूमा ॥-देवकीत इति । 'जनिकर्तुः प्रकृतिः' इत्यपादानसंज्ञा । इयानिति । 'क्रिमिदंभ्यां वो घः' । 'इदं किमोरीश्की' इतीशादेशः । तादृगिति । 'आ सर्वनाम्नः' इत्याकारादेशः । दुर्ज्ञानेति । 'आतो युच्' इति युच् ॥

कलानिधेः संतमसस्य हन्तु: पत्युः सतामात्तरतेरनन्ते । समुद्रियात्प्रादित मोदमाभ्यां विधोर्भवन्ती स्मितचन्द्रिका सा ॥१०॥ विधोर्विष्णोश्चन्द्राच्च भवन्ती स्मितचन्द्रिका आभ्यां जंपतिभ्यां मोदं प्रादित प्रददौ । कलानिधेः कलानां विद्यानां बिम्बषोडशांशानां च निधेः । संतमसस्य व्याप्ततमसोऽज्ञानस्य, तिमिरस्य च हन्तुः । सतां साधूनां, नक्षत्राणां च, पत्युः अनन्ते शेषे, आकाशे च, आत्तरतेः । समुद्रियात् समुद्रोद्भवात् ॥-विधोरिति । 'भुवः प्रभवः' इत्यपादानसंज्ञा । आभ्यामिति । 'कर्मणा यमभिप्रैति स संप्रदानम्' इति संप्रदानसंज्ञा । 'चतुर्थी संप्रदाने' । समुद्रियादिति । भवे 'समुद्राम्राट् घः' ॥

पुरंदराश्मद्युतिचौर्यधुर्यविष्वद्यगक्षाममहःप्रवाहम् । तिर्यक्स्फुरत्सारसनप्रभोर्मीसौदामनीनूतनवारिवाहम् ॥ ११ ॥ सर्वंसहादुर्विषहामनस्यसर्वंकषं सर्वपथीनवीर्यम् । यथामुखीनं मुकुरं रमायाः श्रीकौस्तुभं प्रत्युरसं दधानम् ॥१२॥ १०२ काव्यमाला ।

प्रतीपवृत्तैर्गरुडाश्मदण्डसध्र्यग्भिरिन्द्रारिषु बाहुदण्डैः । सम्यक्षु सक्तैश्चरितेषु भान्तं हृदे समेषामपि रोचमानैः ॥ १३ ॥ क्षेमंकरैः पुण्यवतामरीणां भयंकरैर्नित्यमनन्यदास्थैः । पनायितं वैतनिकैरिवास्त्रैः क्षीरार्णवानूपविहारलोलम् ॥ १४ ॥ कदर्थितानर्थमनन्यदर्थं स्वाभ्यां स्वधामेत्यं नवं नुवानम् । दृग्भ्यां न धारू न परं तमेतौ जगन्ति चानन्दरसे न्यमाङक्षुः ॥ १५ ॥ तं दृग्भ्यां धारू साधु पिबन्तौ एतौ देवकीवसुदेवौ न परं केवलं न अपि तु जगन्ति च आनन्दरसे न्यमाङ्क्षुः न्यमज्जयन् । स्वाभ्यामात्मभ्यां स्वधाम स्वदेहं अपह्नुवानं प्रकाशयन्तम् । पुरंदराश्मद्युतिचौर्यधुर्यविष्वद्र्यगक्षमामहःप्रवाहम् । पुरंदराश्मा इन्द्रनीलः । विष्वद्र्यक् समन्ततो व्याप्नुवत् । सारसनप्रभोर्मीसौदामनीनूतनवारिवाहम् । सारसनं काञ्ची । सर्वंसहादुर्विषहामनस्यसर्वंकषम् । सर्वसहा भूमिः । आमनस्यं दुःखम् । सर्वंपथीनवीर्यं सर्वपथं व्याप्नुवत् । प्रत्युरसं उरसि श्रीकौस्तुभं दधानम् । रमाया यथामुखीनं मुखप्रतिबिम्बदर्शनाधिकरणं मुकुरम् । बाहुदण्डैर्भान्तम् । इन्द्रारिषु प्रतीपवृत्तैः प्रतिकूलव्यापारैः । गरुडाश्मसध्र्यग्भिःमरकतदण्डसदृशैः । सध्र्यड् सहायः । सम्यक्षु शुभेषु चरितेषु सक्तैः समेषां सर्वेषामपि हृदे रोचमानैः चित्तं स्वविषये स्पृहां कारयद्भिः । अस्त्रैः चक्राद्यायुधैः पनायितं स्तुतं वैतनिकैः वेतनेन जीवद्भिरिव । पुण्यवतां क्षेमंकरैः । अरीणां नित्यं भयंकरैः । अनन्यदास्थैः आस्थान्तररहितैः । क्षीरार्णवानूपविहारलोलम् । अनूपं जलप्रायो देशः । कदर्थितानर्थम् । कदर्थीकृता अनर्था आपदो थेन । अनन्यदर्थम् ॥-हृदे इति । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानसंज्ञा । स्वाभ्यामिति । 'श्लाघहुङ्स्थाशपां ज्ञीप्स्यमानः' इति संप्रदानसंज्ञा । पुरंदरसर्वंसहेति । 'पूःसर्वयोर्दारिसहोः' इति खच् । क्षेमंकरैरिति । 'क्षेमप्रियभद्रेऽण् च' इति खच् । विष्वद्र्यगिति । 'ऋत्विग्दधृक्स्त्रग्दिगुष्णिगञ्चुयुजिकुञ्चां च' इति क्विन् । 'विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये' इत्यद्र्यादेशः । सम्यक्ष्विति । 'समः समि' । तिर्यगिति 'तिरसस्तिर्यलोपे च' । सध्र्यग्भिरिति 'सहस्य सध्रिः' । प्रतीपेति । प्रतिगता आपोऽस्मिन्निति । 'द्व्यन्तरूपसर्गेभ्योऽप ईत्' इत्याकारस्य ईकारः ॥ 'आदेः परस्य'। अनूपेति। 'ऊदनोर्देशे' इत्यूकारः । अनन्यदास्थैरिति । 'अषष्ठ्यतृतीयास्थस्य दुगाशीराशास्यास्थितोत्सुकोतिकारकरागच्छेषु' इति दुगागमः । अनन्यदर्थमिति । 'अर्थे विभाषा' इति दुक् । कदर्थितेति । कुत्सितोऽर्थः कदर्थः । 'कोः कत्तत्पुरुषेऽचि' इति कदादेशः । चौर्येति । ब्राह्मणादिपाठात् ष्यञ्। सौदामनीति । सुदाम्ना पर्वतेन एकदिक् । 'तेनैकदिक्' इत्वड् । 'टिड्ढाणञ्-' इति डीप् । नूतनेति । 'नवस्य नूत्नतनखाश्च' इति स्वार्थे तनप्रत्ययो नू आदेशश्च । सर्वपथीनेति । 'तत्सर्वादेः पथ्यङ्ग' इति ख.। यथामुखीनमिति । 'यथामुखसंमुखस्य दर्शनः खः'। वैतनिकैरिति । वेतनैर्जीवन्तीति ठक् । वासुदेवविजयम् । १०३

प्रत्युरसमिति । 'विभक्त्यर्थेऽव्ययीभावः' । 'प्रतेरुरसः सप्तमीस्थात्' इति समासान्तोऽच् । धारू इति । 'दाधेट्सिशदसदो रुः' ताच्छीलिकः ॥

ये कद्वदाः कोष्णवधूकुचैकश्राद्धाः कवोष्णानि पलान्यदन्तः । सकत्तृणारण्यजुषोऽभवंस्तेऽप्यकापथाः कापुरुपास्तदानीम् ॥ १६ ॥ ये कापुरुषाः कुत्सिताः पुरुषास्तदानीं भगवदाविर्भावसमये अकापथाः सन्मार्गस्था अभवन् । कुत्सितः पन्थाः कापथः । तद्रहिताः । कीदृशाः । कद्वदाः गर्ह्यवादिनः । कोष्णबधूकुचैकश्राद्धाः प्रभूतश्रद्धाः । कवोष्णानि ईषदुष्णानि पललानि अदन्तः । कत्तृणारण्यजुषः । कत्तृणं तृणविशेषः ॥-कद्वदा इति । 'रथवदयोश्च' इति कोः कद्भावः । कत्तृणेति । 'तृणे च जातौ' इति कद्भावः । कापथेति । 'का पथ्यक्षयोः' इति कादेशः । कोष्णेति । 'ईषदर्थे' इति कादेशः । कापुरुषा इति । 'विभाषा पुरुषे' इति कादेशः । कवोष्णानीति। 'कवं चोष्णे' इति कवादेशः । श्राद्धा इति। श्रद्धार्चावृत्तिभ्यो णः मत्वर्थीयः ॥

उदूढहर्षा ननृतुर्मयूरा व्यह्नेऽपि पद्मा व्यरुचन्प्रफुल्लाः । वीरुत्ततिर्भृङ्गकुलैररंसीदामोदमुद्वोढुमिवानुसर्था (?) ॥ १७ ॥ मयूरा उदूढहर्षा ननृतुः । व्यह्ने अपि अहनि अतीतेऽपि पद्माः प्रफुल्ला व्यरुचन् शोभन्ते स्म । विगतमहो व्यह्लः । वीरुत्ततिः भृङ्गकुलैरामोदं सौरभ्यं हर्षं चोद्वोढुमनुसर्था(?) इव ॥-मयूरा इति । मह्यां रौतीति रौतेरचि टिलोपः । महीशब्दस्य मयूभावः । 'वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारलोपौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥' 'पृषोदरादीनि यथोपदिष्टम्' इति लोपविकारादयः । व्यह्न इति । 'संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां डौ' इत्यहनादेशाभावे रूपम् । उदूढेति । वहेः क्तः । यजादित्वात्संप्रसारणम् । 'हो ढः' 'झषस्तथोर्धोऽधः' इति तस्य धः । तस्य 'ष्टुना ष्टुः' इति ष्टुत्वम् । 'ढो ढे लोपः' । 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' । उद्बोढुमिति । 'सहिवहोरोदवर्णस्य' इत्योकारः । ढलोपः। वीरुदिति । विविधं रोहतीति क्विप् । न्यंक्वादित्वात्हस्य धः । 'अन्येषामपि दृश्यते' इति दीर्घः । प्रफुल्ल इति । 'ञिफला विशरणे'। 'ञितः क्तः' 'ति च' इति अकारस्य उकारः ॥

यायावरा लाक्षणिकाः कठाश्च कौशिक्यनु ब्राह्मणिपैप्पलादाः । ये तैत्तिरीयाः क्रमकाः समे ते विश्वंभरं तुष्टुवुरार्त्विजीनाः ॥ १८ ॥ ते समे सर्वे विप्रा विश्वंभरं तुष्टुवुः । के । यायावराः । 'अग्निहोत्रकमात्रस्तु थात्राशीलो द्विजो हि यः । याचमानः क्रमाद्वर्णान् स हि यायावरः स्मृतः ॥' लाक्षणिका इति । लक्षणमधीतवन्तो ज्ञातवन्तो वा । द्वावर्थावत्रानुवर्तते । क्रमकाः क्रममधीयाना विदन्तो वा । कठाः कठेन प्रोक्तमधीयाना विदन्तो वा । कौशिक्यनुब्राह्मणिपैप्पलादाः । कौशिकिनः कौशिकेन प्रोक्तं कल्पमधीयाना विदन्तो वा । अनुब्राह्मणिनः अनुब्राह्मणमधी१०४ काव्यमाला । यानाः । पैप्पलादं पिप्पलादप्रोक्तं छन्दोऽधीयानाः। तैत्तिरीयाः तित्तिरिप्रोक्तं छन्दोऽधीयानाः विदन्तो वा । आर्त्विजीनाः ऋत्विजमर्हन्तो यागयोग्याः । ऋत्विक्कर्मार्हा वा॥-विश्वंभरमिति। 'संज्ञायां भृतॄवृजिधारिसहितपिदमः' इति खच् । थायावरा इति । यातेर्यड्। 'यश्च यडः' इति वरच् । लाक्षणिका इति 'तदधीते तद्वेद' इत्यधिकृत्य 'ऋतूक्थादिसूत्रान्ताट्ठक्' इति अनुसूर्लक्ष्यलक्षणे च (?)' इति ठक् । क्रमका इति । 'क्रमादिभ्यो वुन्' । अनुब्राह्मणीति। अनुब्राह्मणादिनिः। पैप्पलादा इति । पिप्पलादशब्दात् 'तेन प्रोक्तम्' इत्यण् । छन्दसि तदन्तात् 'छन्दोब्राह्मणानि च तद्विषयाणि' इति वचनात् अध्येतृवेदित्रोरुत्पन्नस्य 'प्रोक्तात् लुक्' इति लुक् । तैत्तिरीया इति तित्तिरिवरतन्तुखण्डिकोखाच्छण् तदन्तादप्युत्पन्नस्य प्रत्ययस्य लुक् । कौशिकीति । 'काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' । तदन्तादुत्पन्नस्य 'प्रोक्ताल्लुक् । 'छन्दोब्राह्मणानि च' इति चकारात् कल्पसूत्राणामपि केषांचित् तद्विषयता। कठा इति । 'कलापिवैशंपायनान्तेवासिभ्यश्च' इति वैशंपायनान्तेवासित्वाण्णिनिः । तस्य 'कठचरकाल्लुक्' तदन्तात्तथा तद्विषयादुत्पन्नस्य प्रत्ययस्य 'प्रोक्तात् लुक् ।' आर्त्वजीना इति । 'यज्ञर्त्विग्भ्यां घखञौ' । 'तत्कर्मार्हन्तीत्युपसंख्यानम्' ॥

औदुम्बरे वैदिशनैम्बमुख्ये देशेऽवसन्ये स जनंगमौघाः । ये चाधिकौशाम्बि जनास्तदानीमाकस्मिकीं प्रीतिमयासिषुस्ते ॥ १९ ॥ ते जना अपि तदानीमाकस्मिकीमविद्यमानहेतुकां प्रीतिमयासिषुः। ये औदुम्बरे वैदिशनैम्बमुख्ये च देशे तन्नामकेषु देशेषु अवसन् । अधिकौशाम्बि कौशाम्ब्यामवसन्। ते जनंगमौघाः। जनंगमाश्चण्डालाः॥-जनंगमा इति। 'गमश्च' इति खच् । औदुम्बर इति । उदुम्बरा अस्मिन्सन्तीति तथा । 'तदस्मिन्नस्तीति देशे तन्नाम्नि' इत्यण् । कौशाम्बीति । कुशाम्बेन निवृत्ता इति तथा । 'तेन निर्वृत्तम्' इत्यण् । नैम्बेति । निम्बानां निवास इति । 'तस्य निवासः' इत्यण् । वैदिशेति । विदिशाया नगर्या अदूरभवं नगरं वैदिशम् । 'अदूरभवश्च' इत्यण् । आकस्मिकमिति । अकस्माच्छन्दो विनयादिः स्वार्थे ठक् ॥

पाण्ड्यैः कलिङ्गैः कुरुभिः प्रसिद्धा वसुंधरा सर्वगशक्तिसारे । जाते हरौ तारपतावुदीते कुमुद्वतीव स्म चकास्ति ॥ २०॥ हरौ जाते वसुंधरा चकास्तिरूपं स्म । प्रशस्तमशोभत । तारपतौ उदीते । कुमुद्वतीव पाण्ड्यैः कलिङ्गैः कुरुभिर्जनपदैः प्रसिद्धा अलंकृता । सर्वगशक्तिसारे सर्वं गच्छति व्याप्नोति इति सर्वगः। 'अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः' इति गमेः कर्मण्युपपदे डः। 'डित्यमस्यापि' इति टिलोपः । पाण्ड्यैः कलिङ्गैः कुरुभिः इति । पाण्ड्यादीनां निवास इत्यर्थे उत्पन्नस्याणो 'जनपदे लुप्' इति लुप् । 'लुपि युक्तवद्व्यक्तिवचने' इति पुंस्त्वं बहुत्वं च । 'पाण्डोर्जनपदशब्दात् क्षत्रियात् ड्यण्वक्तव्यः' इति पाण्ड्यशब्दः । कुमुद्वतीति । 'कुमुदनडवेतसेभ्यो ड्मतुप्' । डित्वाट्टिलोपः । 'झयः' इति वत्वम् । चकास्तिरूपमिति । 'प्रशंसायां रूपम्' । वासुदेवविजयम् । १०५ तापिच्छनीकाशरुचि प्रतीचि स्वर्वैरिमर्माविधि पुंसि रागात् । स शत्रुहः स्तादिति वक्तुकामः स्वयं व्यलज्जिष्ट विविच्य गर्गः ॥२१॥ गर्गः प्रतीचि सर्वप्रत्यगात्मनि पुंसि रागात् स शत्रुहः शत्रूणां हन्ता भूयादिति वक्तुकामः सन् विविच्य स्वयं व्यलज्जिष्ट लज्जते स्म । तापिच्छनीकाशरुचि तमालसदृशकान्तौ स्वर्वैरिमर्माविधि असुराणां मर्मवेधकर्तरि ॥-शत्रुह इति । 'आशिषि हनः' इति डः ।मर्माविधीति । मर्मपूर्वकाद्व्यधधातोः क्विपि 'नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ' इति पूर्वपदस्य दीर्घः। संप्रसारणम् । नीकाश इति । पचाद्यच् । 'इकः काशे' इति दीर्घः। प्रतीचीति । 'चौ' इति दीर्घः ॥

दन्तावलेन्द्रं सुचिरेण बाष्पपाथःपरीवाहततस्तुराषाट् । विमुच्य विश्वावसुविष्टुतः सन्नातिष्ठदष्टापदविष्टराग्र्यम् ॥ २२ ॥ तुराषाट् सुचिरेण दन्तावलेन्द्रं ऐरावतं विमुच्य विश्वावसुविष्टुतः सन् अष्टापदविष्टराग्र्यं स्वर्णसिंहासनमातिष्ठत् आक्रम्य स्थितवान् बाष्पपाथःपरीवाहततः ॥-दन्तावलेति । 'दन्तशिखात्संज्ञायाम्' इति मत्वर्थीयो वलच् । 'वले' इति दीर्घः । विश्वावस्विति । 'विश्वस्य वसुराटोः' इति दीर्घः । परीवाहेति । 'वाहेर्भावे घञ्' । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । अष्टापदेति । 'अष्टनः संज्ञायाम्' इति दीर्घः । तुराषाडिति । तुरं वेगवन्तं सहते इति 'छन्दसि सहः' इति ण्विः । छान्दसा अपि लोके भवन्तीति 'अन्येषामपि दृश्यते' इति दीर्घः ॥

क्षिप्नुः सुदर्पात्पुरुहूतपक्ष्यान्कंसः पतिघ्नीमथ पाणिरेखाम् । दारैर्दधद्भिः सहितोऽजशक्त्या मूर्च्छां तदानर्च्छ कुमारघाती ॥ २३ ॥ अथ तदा कंसः अजशक्त्या विष्णुमायया हेतुना मूर्च्छामानर्च्छ प्राप्तवान् । पतिघ्नीं पाणिरेखां दधद्भिः दारैः सहितः। सुदर्पात् दर्पसमृद्धेर्हेतोः पुरुहूतपक्ष्यान् इन्द्रपक्षभवान् क्षिप्नुर्निरसनशीलः । कुमारघाती ॥-कुमारघातीति । 'कुमारशीर्षयोर्णिनिः' । पतिघ्नीमिति । हन्तेः 'लक्षणे जायापत्योष्ठक्' । हूतेति हूतमाह्वानम् । ह्वयतेः क्तः। यजादित्वात् संप्रसारणम्। 'अङ्गस्य' इत्यासप्तमाध्यायपरिसमाप्तेरधिकारः । 'हलः' इति दीर्घः। सुदर्पादिति । समृद्धावव्ययीभावः ॥ तमीशितारं तिसृणां गतीनां सुखाय नॄणामुररीकृताङ्गम् । चतुर्दशानां प्रभवं तनूजं विद्यापदानां पितरौ तनु (नुतः) स्म ॥२४॥ पितरौ देवकीवसुदेवौ तनूजमात्मजं नुतः स्म तुष्टुवतुः । तिसृणां सत्त्वरजस्तमोमयीनां गतीनां ईशितारम् । नॄणां सुखाय उररीकृताङ्गम्। चतुर्दशानां विद्यापदानां स्थानभूतम् । गतीनामिति । 'ह्रस्वनद्यापो नुट्' इति नुरि 'नामि' इति दीर्घः । तिसृणामिति । 'न तिसृचतसृ' इति दीर्घाभावः । नॄणामिति । 'नृ च' इति दीर्घः । चतुर्दशानामिति । 'षट्चतुर्भ्यश्च' द.११ १०६ काव्यमाला । इति नुट्। 'नोपधायाः' इति दीर्घः । ईशितारमिति। 'ईश ऐश्वर्ये' । तृच् । 'अप्तृन्तृच्खसृनप्तृनेष्टृत्वष्टॄक्षत्तृहोतृपोतृप्रशातॄणाम्' इति दीर्घः ॥

वंहिष्ठ धामानमुपेयिवांसं मनुष्यलोकं पुरुषं महान्तम् । प्रशासितारं परिपन्थिनस्तमित्यब्रुवातां प्रियकारमुर्व्याः ॥ २५ ॥ तमित्यब्रुवाताम्। बंहिष्ठधामानमतिप्रवृद्धतेजसम्। मनुष्यलोकमुपेयिवांसं प्राप्नुवन्तम्। महान्तं पुरुषम् । परिपन्थिनः प्रशासितारम् ॥ उर्व्याः प्रियकारम् । बंहिष्ठधामानमिति । 'सर्वनामस्थाने चासंबुद्धौ' इति दीर्घः। उपेयिवांसमिति। 'उपेयिवाननाश्वाननूचानश्च' इति क्वस्वन्तो निपातितः । 'उगिदचां सर्वनामस्थाने चाधातोः' इति नुम् । 'सान्तमहतः संयोगस्य' इति । महान्तमिति । महधातोरौणादिकेऽतिप्रत्यये शतृवद्भावे चोगित्त्वान्नुमि 'सान्तमहतः'- इति दीर्घः । प्रशासितारमिति तृन्नन्तस्य दीर्घः । प्रियकारमिति । 'क्षेमप्रियमद्रेऽण् च इति कृञोऽण् ॥

.......................

.......................॥२६॥

.......................

.......................॥२७॥

सुहृन्मनोजूर्तिकृतस्तथापि तस्मान्मदीयान्वयनाशवांशः । हस्तिघ्नतो भोजपतेर्भयं नो भनक्ति मूर्तं हृदयं शुचैव ॥ २८ ॥ तथापि तस्मात् भोजपतेर्भयं नो हृदयं भनक्ति भग्नं करोति । सुहृन्मनोजूर्तिकृतः। जूर्तिः ज्वरः पीडा । मदीयान्वयनाशवांशः मदीयस्य वंशस्य नाशं वाञ्छतः । हस्तिघ्नतः हस्तिनं हन्तुं समर्थात् शुचैव मूर्तं मूर्च्छायुक्तम् ॥–हस्तिघ्नत इति 'शक्तौ हस्तिकपाटयोः' इति ठक् । 'गमहनजनखनघसां लोपः क्डित्यनडि' इत्युपधालोपः । वांश इति । 'वाछि इच्छायाम्' । क्विप् । 'छ्रोः शूडनुनासिके च' इति छकारस्य शकारः । जूर्तीति । 'ज्वर रोगे' । 'स्त्रियां क्तिन्' 'ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च' इति वकारस्य उपधाया अकारस्य स्थाने ऊठ् । मूर्तमिति । 'मूर्च्छा मोहसमुच्छ्राययोः' । क्तः । ‘रालोपः' इति छलोपः। 'न ध्याख्यापॄमूच्छिमदास्' इति नत्वाभावः । भनक्तीति । 'भञ्जो आमर्दने । 'रुधादिभ्यः श्रम्' 'श्नान्नलोपः' इति धातुनकारस्य लोपः ॥

'स्वमुत्तमर्णाय यथाधमर्णस्तस्मै कुमारान्बत धारयामः । तस्य स्मरन्तः स्पृहयामहे न स्वजीवितायापि शपामहे ते ॥ २९ ॥ यथा अधमर्ण उत्तमर्णाय स्वं धनं धारयति तथा तस्मै कुमारान् धारयामः । बत वयं वासुदेवविजयम् । १०७ तस्य स्मरन्तः स्वजीवितायापि न स्पृहयामहे इच्छामः । ते शपामहे शरीरं स्पृशाम इति शपथं कुर्महे शपथं ज्ञापयितुं इच्छामः ॥–ते इति । 'श्लाघहुङ्स्थाशपां ज्ञीप्स्यमानः' इति संप्रदानसंज्ञा । तस्मै इति । 'धारेरुत्तमर्णः' इति तत्तुल्यत्वात्संप्रदानसंज्ञा । स्पृहयामहे इति (स्वजीवितायापीति)। 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञा । तस्येति 'अधीगर्थदयेशां कर्मणि' इति षष्ठी ॥

निषेवितो झार्झरपाणिघाद्यैः कौक्षेयकक्रूरतराग्रहस्तः । पुरायमैति श्रुतसंभवस्ते क्रुधं धियोऽन्धंकरणीं दधानः ॥ ३० ॥ अयं ते श्रुतसंभवः श्रुतत्वात्संभवः पुरा ऐति शीघ्रमागमिष्यति । धियो अन्धकरणीमन्धीभावकरणभूतां क्रुधं दधानः । कौक्षेयकक्रूरतराग्रहस्तः । कौक्षेयकः खड्गः । झार्झरपाणिघाद्यैर्निषेवितः । झर्झरवादनं शिल्पमस्येति झार्झरः ।।--पाणिघाद्यैरिति।पाणितलयोर्मिथो घट्टनेन वादनं कुर्वन्तः पाणिघाः । 'पाणिघताडघौ शिल्पिनि' । अन्धंकरणीमिति । 'आढ्यसुभगस्थूलपलितनग्मान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्'। कौक्षेयकेति । कुक्षिशब्दात् 'कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' इति ढकञ् । यौगिकोऽपि रूढः । झार्झर इति । 'मड्डुकझर्झरादणन्यतरस्याम्' इति शिल्पेऽण् ॥

भक्तेष्वभिव्यक्तमिदं पिधाय बालोचितं रूपमुरीकुरुष्व । परिष्वजेमह्यचिराद्विभो त्वां गोपायितुं क्वापि पुनर्लषामः ॥ ३१ ॥ त्वमिदं रूपं पिधाय आच्छाद्य बालोचितं रूपमुरीकुरुष्वाङ्गीकुरुष्व । हे विभो, त्वामचिरात् परिष्वजेमहि तथा प्रार्थयामहे । पुनः क्वापि गोपायितुं रक्षितुं लषामः । भक्तेषु अभिव्यक्तम् । - अभिव्यक्तमिति 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' क्त: 'अनिदितां हल उपधायाः क्लिति' इति नलोपः। परिष्वजेमहीति । 'दंशसञ्जस्वञ्जा शपि' इति नलोपः ॥

नादेयतोयागमदुर्निवारः पौरस्त्यपाकाहतिदृष्टकर्मा । क्रुध्यन्नहेतावपि नाथ सद्भ्यो माभिद्रुहत्त्वां सहसा स कंसः ।। ३२ ।। हे नाथ, कंसः सहसा त्वां मा अभिद्रुहत् । नादेयतोयागमदुर्निवारः । नद्या भवं नादेयम् । पौरस्त्यपाकाहतिदृष्टकर्मा पुरस्ताज्जातानां शिशूनां हनने दृष्टं कर्म यस्य । अहेतावपि सद्भ्यः क्रुध्यन् तान् प्रति क्रोधं कुर्वन् ॥---सद्भ्य इति । 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः' इति संप्रदानसंज्ञा । त्वामिति । 'क्रुधद्रुहोरुपसृष्टयोः कर्म' इति कर्मसंज्ञायां द्वितीया । नादेयमिति । 'नद्यादिभ्यो ढक्' । पौरस्त्येति। 'दक्षिणापश्चात्पुरसस्त्यक् ॥

येऽस्मभ्यमैक्षन्त विषद्रुहृद्भ्यः कार्तान्तिकाः पुत्र्यसुकर्मभाग्भ्यः । दशद्विषादोरगतार्क्ष्यमाहुस्ते त्वानुरज्यन्मनसः सुपानम् ॥ ३३ ॥ ये कार्तान्तिका दैवज्ञाः पृष्टा अस्मभ्यमैक्षन्त अस्माकं शुभाशुभं पर्यालोचितवन्तः । ते त्वां सुपानं अकृच्छ्रेण रक्षणीयमाहुः । विषद्रुहृद्भ्यः विषादनशीलं हृदयं येषाम् । १०८ काव्यमाला । पुत्र्यसुकर्मभारभ्यः पुत्रनिमित्तं सुकर्म भजद्भ्यः । दशद्विषादोरगतार्क्ष्यमनुरज्यन्मनसः स्वयमेवानुरागं दधद् मनो येषाम् ॥-अस्मभ्यमिति । 'राधीक्ष्योर्यस्य विप्रश्नः' इति संप्रदानसंज्ञा । कार्तान्तिका इति । कृतान्तो दैवम् । 'तद्वेद' इति ठक् । उरगेति । उरसा गच्छतीति 'गमेर्डः' । 'उरसो लोपश्च' । अनुरज्यदिति । 'कुषिरजोः प्राचां श्यन्परस्मैपदं च'। कर्मकर्तरि । पुत्र्येति । 'पुत्राच्छ च' इति यत् । सुकर्मभाग्भ्य इति । 'भजो ण्विः'॥

अथानुरागस्यदविह्वलाभ्यां ताभ्यां प्रतिश्रुत्य तथेति वाञ्छाम् । स्यन्त्वेव सौहार्दभरेण देवस्तावूचिवानञ्चितमुग्धहासः ॥ ३४ ॥ अथ देवो वाञ्छां तथा इति ताभ्यां प्रतिश्रुत्य सौहार्दभरेण स्यन्त्वा इव तौ ऊचिवान् उक्तवान् । अनुरागस्यदविह्वलाभ्यां स्यदो वेगः । अञ्चितमुग्धहासः । अञ्चितः पूजितः ॥-ताभ्यामिति 'प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता' इति संप्रदानसंज्ञा । अनुरागेति । 'भावे घञ् । 'धञि च भावकरणयोः' इति लोपः । स्यदेति । स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । 'स्यदोजवे' । अञ्चितेति । 'नाञ्चेः पूजायाम्' इति नलोपाभावः। स्यन्त्वेति । ' क्त्वि स्कन्दिस्यन्दोः' इति नलोपाभावः ॥

प्राच्येऽपि वामङ्ग भवोभयस्मिन्सुतोऽभवं दिव्यवपुः प्रसद्रुः । तत्रत्यमुन्मीलयितुं मयेदं वृत्तं सुखं ह्यस्त्यमिवापि रूपम् ॥ ३५ ॥ अङ्ग अहं वा युवयोः प्राच्ये प्राग्भवे भवोभयस्मिन् जन्मद्वयेऽपि सुतोऽभवम् । दिव्यवपुः दिवि भवम् । प्रसद्रुः प्रसादशीलः । तत्रत्यं तत्र भवं वृत्तं ह्यस्त्यमिव गतदिवसजातमिव सुखमुन्मीलयितुं मया इदं रूपं आपि प्राप्तम् ॥--दिव्यप्राच्येति । 'द्युप्रागपागुदक्प्रतीचो यत्' । तत्रत्यमिति । 'अव्ययात्त्यप्' । अमेहकतसित्रेभ्यस्त्यविधिर्योऽव्ययात्स्मृतः । निनिर्भ्या ध्रुवगत्योश्च प्रवेशो नियमे तथा ॥' ह्यस्त्यमिति । 'ऐषमो ह्यः श्वसोऽन्यतरस्याम्' इति त्यप् ॥

भक्त्यै परिक्रीतमुपादानं वपुः शिशूनामुचितं पिता तम् । तत्प्रेरितात्मा नवराङ्कवत्वक्पर्यङ्किकाया जगृहे कराभ्याम् ॥ ३६ ॥ पिता तं नवरातवत्वक्पर्यङ्किकायाः कराभ्यां जगृहे । राङ्कवी रङ्कुसंबन्धिनी । शिशूनामुचितं वपुरुपाददानम् । भक्त्यै भक्त्या परिक्रीतम् । तत्प्रेरितात्मा अन्तर्यामिणा तेन प्रेरितबुद्धिः॥--भक्त्यै इति । 'परिक्रयणे संप्रदानमन्यतरस्याम्' इति वा संप्रदानसंज्ञा । कराभ्यामिते । 'साधकतमं करणम्' इति करणसंज्ञायां 'कर्तृकरणयोस्तृतीया' इति तृतीया । राङ्कवेति । 'रङ्कोरमनुष्येऽण्च' ॥

आढ्यंभविष्णुः प्रमदेन गच्छन्पथा प्रियंभावुकतां गतेन । स नन्दगोष्ठाय ददर्श मार्गे दीव्यन्तमूर्मीन्यमुनाप्रवाहम् ॥ ३७ ॥ नन्दगोष्ठाय पथा गच्छन् स मार्गे यमुनाप्रवाहं ददर्श । प्रमदेन आढ्यंभविष्णुः अवासुदेवविजयम् । १०९

नाढ्यः समृद्धो भूतः । प्रियंभावुकतां गतेन प्रियतां प्राप्तेन । ऊर्मीन् दीव्यन्तमूर्मीभिः क्रीडन्तम् ॥-ऊर्मीनिति । 'दिवः कर्म च' इति कर्मसंज्ञा । मार्गे इति । 'आधारोऽधिकरणम्' इत्यधिकरणसंज्ञायां 'सप्तम्यधिकरणे च' । आढ्यभविष्णुरिति । प्रियंभावुकतेति । 'कर्तरि भुवः खिष्णुच्खुकञौ' आढ्यादिषूपदेषु । गोष्ठायेति । गावस्तिष्ठन्त्यस्मिन्निति 'घञर्थे कविधानम्' इति कः । 'अम्बाम्बगोभूमि' इति षत्वम् ॥

अध्यास्त यं नक्रकुलं स्थवीयो द्विपोऽप्यमङ्क्त्वा न यमुत्ततार । नभस्पृगूर्मिस्तितरीषतोऽस्य हरेर्दधस्यैकपदीमदात्सः ॥ ३८ ॥ स यमुनाप्रवाहस्तितरीषतस्तरितुमिच्छतोऽस्य वसुदेवस्यैकपदीं मार्गमदात् । नभःस्पृगूर्मिः । हरेर्दधस्य हरि दधतः । यं स्थवीयः स्थूलतरं नक्रकुलमध्यास्तावर्तत । यं द्विपोऽपि अमङ्क्त्वा नोत्ततार ॥--यमिति । 'अधिशीङ्स्थासां कर्म' इत्याधारस्य कर्मसंज्ञा । नभस्मृगिति । 'स्पृशोऽनुदके क्विन्' । अमड्क्त्वेति । 'जान्तनशां विभाषा' इति वा नलोपाभावः । द्विप इति । द्वाभ्यां करेणास्येन च पिबतीति । 'सुपि' इति योगविभागात् कः ॥

तावज्जनित्वा व्रजनाथपत्न्या मनो जनस्याभिनिविश्य देव्या । अभाजि निद्राच्छलतोऽर्थबोधः शक्त्या हरेः प्रागशिषद्यथा सः ॥३९॥ तावत् हरेः शक्त्या देव्या मायया व्रजनाथपत्न्या जनित्वा निद्राच्छलतो जनस्य मनो अभिनिविश्यार्थबोधो विषयज्ञानं अभाजि भग्नः । स हरिर्यथा प्रागशिषत् नियुक्तवान् ॥-मन इति । 'अभिनिविशश्च' इति कर्मसंज्ञा । अभाजीति । 'भञ्जेश्च चिणि' इति वा नलोपः। 'अभञ्जि' इति वा पाठः। अशिषत् । 'सर्तिशास्त्यर्तिभ्यश्च' इत्यड्। 'शास इदङ्हलोः' इति इत्वम् । 'शासिवसिघसीनाम्' इति षत्वम् ॥

जहि द्विषो वत्सक शाधि लोकानित्यात्मनाशंसुरथात्मजं स्वम् । शौरिर्यशोदाशयने न्यधात्तामादत्त चोत्तानशयां कुमारीम् ॥४०॥ अथ शौरिः स्वमात्मजं यशोदाशयने न्यधात् । तामुत्तानशयामुत्तानत्वेन शयानां कुमारीमादत्त च । हे वत्सक, द्विषो जहि वध्याः, लोकान् शाधि इति आत्मना आशंसुरिच्छ्रुः ॥---शाधीति । 'शा हौ' इति शासः शादेशः। 'असिद्धवदत्राभात्' इति शाभावस्यासिद्धत्वात् 'हुझल्भ्यो हेर्धिः' । जहीति 'हन्तेर्जः' इति हौ जादेशः।उत्तानशयामिति। 'उत्तानादिषूपसंख्यानम्' इत्यच् । 'पुंवत्कर्मधारय-' इति पुंवत्वम् ॥ गत्वा दधृग्धाम तत: स्वपत्न्या निधाय पल्यङ्कतले शिशुं ताम् । विरत्य कृत्यान्निगलार्पिताङ्घ्रिः सुखी स तत्पूर्ववदन्ववात्सीत् ॥ ४१ ॥ स ततो धाम स्वगृहं गत्वा स्वपत्न्याः पल्यङ्कतले तां शिशुं निधाय कृत्यात् विरत्य विरतो भूत्वा पूर्ववत् तद्धामान्ववात्सीत् । दधृक् प्रगल्भः । निगलार्पिताङ्घ्रिः । सुखी स्व११० काव्यमाला । स्थचित्तः ।--तदिति। 'उपान्वध्याङ्वसः' इति कर्मसंज्ञा । दधृगिति । 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुजिक्रुञ्चां च' इति क्विन्प्रत्ययान्तो निपातितः । गत्वेति । 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्डिति' इति नलोपः । अनुस्वारोत्तमा अनुनासिका इति प्रातिशाख्ये । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः ।विरत्येति । 'वा ल्यपि' इति मलोपः । मान्तानां विकल्पेन अन्येषां नित्यम् ॥

स्वरेण पुर्यन्तगताथ बाला सा तादृशेनातितरामरोदीत् । स्वापेन काष्ठैः सदृशः शयानः स यादृशाबुध्यत रक्षिवर्गः ॥ ४२ ॥ अथ सा बाला तादृशेन स्वरेण अतितरां अरोदीत् । यादृशा स रक्षिवर्गोऽवुध्यत । पुर्यन्तगता पुर्यन्तं गच्छता स्वरेण । स्वापेन निद्रया काष्ठैः सदृशः शयानः ॥-तादृशेनेति ! 'त्यदादिषु दृशोऽनालोचने कञ्च' इति कञ् । यादृशेति । कञ्चेति चकरात् क्विन् सदृश इति । 'समानान्ययोश्चेति वक्तव्यम्' इति कञ् । 'दृग्दृशवतुषु' इति समानस्य सादेश । तादृशादयो रूढिशब्दाः । पुर्यन्तगता इति । 'गमः क्वौ' 'गमादीनामिति वक्तव्यम्' इति मलोपे तुक् ॥

नालोकयत्किंचन नाशृणोद्वा न चावदत्किंचन कंचनावपि । जातत्वराभीतिरुपेत्य कंसं प्राबूबुधत्स प्रसवं भगिन्याः ॥ ४३ ॥ स रक्षिवर्गः, किंचन वस्तु नालोकयत् , नाशृणोत् वा, कंचनावपि किंचन नावदत् ,जातत्वराभीतिः उपेत्य कंसं भगिन्याः प्रसवं प्राबूबुधत् निवेदयामास ॥-प्रसवमिति । 'कर्तुरीप्सिततमं कर्म' इति कर्मसंज्ञाया 'कर्मणि द्वितीया'। किंचनेति । 'तथायुक्तं चानीप्सितम्' इति कर्मसंज्ञा । कंचनेति । 'अकथितं च' इति कर्मसंज्ञा । कंसमिति । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ' इति कर्मसंज्ञा । जातेति । 'जनसनखनां सन्झलोः' इत्याकारादेशः ॥

जाजायमानेन भयेन नभ्राडतायताथो सहसोत्थितश्च । मित्त्रध्रुगादीनवभावप्रकम्पः कंस: समाभ्रञ्च जवादरिष्टम् ॥ ४४ ॥ अथो कंसो जाजायमानेन भृशं जायमानेन भयेन नभ्राट् शोभारहितः अतायत अकारि । सहसा उत्थितश्च जवादरिष्टं सूतिकागृहं समाभ्रत् गतवांश्च । मित्त्रध्रुक् । मित्त्रेभ्यो द्रुह्यति इति । आदीनबभाक् आदीनवः क्लेशः प्रकम्पः ॥ मित्रत्रुगिति । 'सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्' इति क्विप् । आदीनवभागिति। 'भजो ण्विः'। जाजायमानेति । यड् । 'ये विभाषा' इत्याकारः । 'जञ्जन्यमानेन' इति वा पाठः । अतायतेति यड् । 'तनोतेर्यकि' इति वा आकारः । 'अतन्यत' इति वा पाठः ॥

कुमारजीवादमवेक्ष्य कंसं क्रव्यात्सदृक्षं तरसाजिहानम् । सा देवकी संपरिषस्वजेऽजां प्रलापिनी चातितरामरोदत् ॥ ४५ ॥ वासुदेवविजयम् । १११ सा देवकी तरसा आजिहानमागच्छन्तं कंसमवेक्ष्याजां कन्यारूपां महामायां संपरिषस्वजे दृढं परिरब्धवती, अतितरां अरोदच्च । कुमारजीवादं जीवमत्तीति । क्रव्यात्सदृक्षं राक्षसतुल्यम्।प्रलापिनी प्रलपनशीला॥-परिषस्वज इति । 'प्रादयः' 'उपसर्गाः क्रियायोगे' इत्युपसर्गसंज्ञा । 'उपसर्गात्सुनोतिसुवतिस्थतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वजाम्' इति षत्वम् । अवेक्ष्येति । 'गतिश्च' इति गतिसंज्ञायां 'कुगतिप्रादयः' इति समासः। जीवादमिति । 'अदोऽनन्ने' इति विट् । क्रव्यादिति । 'क्रव्ये च' इति विट् । सदृक्षमिति । 'क्सश्च वक्तव्यः' इति क्सः । 'दृशे चेति वकाव्यम्' इति समानस्य सभावः ॥

सुकर्मणः क्ष्माविबुधान्हविर्दुघास्तथार्जुनीर्गाः स्म निहन्ति सत्कषम् । अनान्नसुत्रामककाङ्क्षितापदं न लालपा सा तमचीकरत्कृपाम् ॥ ४६॥ सा लालपा भृशा(?)तं कंसं कृपां नाचीकरत् कारयामास । सत्कषं सतः कषति पीडयति इति । अनान्नसुत्रामककाङ्क्षितापदं आन्ना अन्नं लब्धारः सुत्रामा ग्रामणीः श्रेष्ठो येषां सुत्रामका देवास्तैः काङ्क्षिता आपद्यस्य । सु कर्मणः क्ष्माविबुधान् , तथा हविर्दुधा अर्जुनीर्गाश्च, निहन्ति स्म हतवान् । शोभनं कुर्वन्तीति सुकर्माणः । हविर्दुहन्तीति हविर्दुघाः ॥--तमिति । 'हृक्रोरन्यतरस्याम्' इति वा कर्मसंज्ञा । य इति । 'स्वतन्त्रः कर्ता' इति कर्तृसंज्ञा । तिडाभिहितत्वात् तृतीयाभाव. । लालपेति । तत्प्रयोजको हेतुश्च' इति हेतुसंज्ञा कर्तृसंज्ञा च। हेतुत्वाणिचो निमित्तं कर्तृत्वाच्च तिड्प्रत्यय.। नेति । 'प्राग्रीश्वरान्निपाताः' इत्यधिकृत्य 'चादयोऽसत्वे' इति निपातसंज्ञा । 'स्वरादिनिपातमव्ययम्' 'अव्ययादाप्सुपः' इति सुपो लुक् । हविर्दुघा इति । 'दुहः कब्घश्च' इति कप् । घकारश्चान्तादेशः । सुत्रामेति । 'त्रैड् पालने' । 'आतो मनिन्क्वनिब्वनिपश्च' इति मनिन् । सुकर्मण इति । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । सत्कषमिति । 'क्विप्च' इति किप् । सुत्रामकेति 'स एषां ग्रामणीः' इति कन् ।

शूत्कुर्वता तीव्रमसाधुकारिणा कंसेन सा रोषभयातुरीसता । दीनामसत्कृत्य सहोदरां हठादग्राहि कन्या जगतामलंकृतिः ॥ ४७ ॥ कंसेन सहोदरां देवकीमसत्कृत्यानादृत्य सा कन्या हठादग्राहि । तीव्रं शूत्कुर्वता । असाधुकारिणा । रोषभयातुरीसता(?)रोषभयातुरीभवता । दीनाम् । जगतामलंकृतिः॥--आतुरीसतेति । 'अमूततद्भावे' इति च्विः । 'ऊर्यादिच्विडाचश्च' इति गतिसंज्ञा। शूत्कुर्वतेति । 'अनुकरणं चानितिपरम्' इति गतिसंज्ञा । असत्कृत्येति । 'आदरानादरयोः सदसती' इति गतिसंज्ञा । अलंकृतिरिति । 'भूषणेऽलम्' इति गतिसंज्ञा । असाधुकारिणेति। 'सुप्यजातौ णिनिस्ताच्छील्ये' इति णिनिः। सहोदरामिति । सहशब्दोऽत्र समानार्थे ॥

इमां मृदित्वा सुहृदां पुरस्कृतस्तेभ्यः कणेहत्य ददान ईप्सितम् । अनस्तमित्यार्दयितास्मि सुत्वनस्तामित्यदःकृत्य निरास सोऽश्मनि॥४८ अदःकृत्य कर्तव्याकर्तव्यं निश्चित्य तामश्मनि निरास चिक्षेप । इमां मृदित्वा संचूर्ण्य । ११२ काव्यमाला । अनस्तमित्य मृतिमप्राप्य सुत्वनो यागसंवन्धिस्नानं कृतवतो यज्वनोऽर्दयितास्मि पीडयिष्यामि । सुहृदां पुरस्कृतः पूजितः । तेभ्य ईप्सितं वस्तु कणैहत्य श्रद्धां प्रतिहत्व ददानः॥--कणेहत्येति । 'कणेमनसी श्रद्धाप्रतीघाते' इति गतिसंज्ञा । पुरस्कृत इति । 'पुरोऽव्ययम्' इति गतिसंज्ञा । अनस्तमित्येति । 'अस्तं च' इति गतिसंज्ञा । अद.कृत्येति । 'अदोऽनुपदेशे' इति गतिसंज्ञा । सुत्वन इति । 'सुयजोर्ड्वनिप् ॥ सुरवैरिवनानि भर्ष्टुरेनामनुजां बाल्यतिरोहितानुभावाम् । स तिरस्कृतभीः प्रमोदभूम्ना क्षिपमाणः स्म विभाति सिंहनादी॥४९॥ एनां क्षिपमाणो विभाति स्म । सुरवैरिवनानि भष्टुरनुजाम् बाल्यतिरोहितानुभावाम् । प्रमोदभूम्ना तिरस्कृतभीः सिंहनादी सिंहवन्नदन् ।-तिरोहितेति । 'तिरोऽन्तधौं इति गतिसंज्ञा । तिरस्कृतेति । 'विभाषा कृञि' इति वा गतिसंज्ञा । सिंहनादीति । 'कर्तर्युपमाने' इति णिनिः । अनुजामिति । अनु पश्चाज्जायते इति 'अन्येष्वपि दृश्यते' इति डः । भर्ष्टुरिति । 'आर्धधातुके' इत्यधिकृत्य 'भ्रस्जो रोपधयो रमन्यतरस्याम्' इति रेफोपधयो रमादेशः ॥

अभ्रे ततो निजचिकीर्षितमालुनानां सब्रह्मचारिमहसं नवमेघभायाः । तां ब्रह्मवादिविमलात्मगुहैकसिंहीं साक्षाच्चकार सहसा सहसां स कंसः ॥ ५० ॥ ततः स कंसः सहसा तामभ्रे आकाशे साक्षाच्चकार दृष्टवान् । निजचिकीर्षितमालुनानां छिन्दन्तीं नवमेधभायाः सब्रह्मचारिमहसं श्यामवर्णाम् । ब्रह्मवादिविमलात्मगुहैकसिंहीँ ब्रह्मवादिनामपूर्णंमन्यताभिन्नवेद्यप्रथाशुभाशुभकर्मवासनालक्षणमलत्रयरहित आत्माबुद्धिरेव गुहा तत्राद्वितीयतया स्फुरन्तीं सहसां हसेन हासेन सह वर्तमानाम् ॥-साक्षाच्चकारेति । 'साक्षात्प्रभृतीनि च' इति गतिसंज्ञा । ब्रह्मवादीति । ब्रह्मणि (?) वदतीति णिनिः । ब्रह्मचारीति । 'व्रते' इति णिनिः । चिकीर्षितमिति । सनोऽकारस्य 'अतो लोपः' इत्यकारस्य लोपः । सिंहीमिति । जातिलक्षणो डीष् ॥

आत्तायुधाहितजनैः सह संयतित्री शत्रोमनोरथशतान्यथ बेभिदित्री । आकाशचारिवनिताभिरुपास्यमाना साह स्म तन्मनसिकृत्य महान्तमर्थम् ॥ ५१ ॥ अथ सा महान्तमर्थं मनसिकृत्य निश्चित्य तमाह स्म । अहितजनैः सह संयतित्री योद्धुमिच्छन्ती इव आत्तायुधा शत्रोः कंसस्य मनोरथशतानि बेभिदित्री भृशं भेत्त्री। आकाबासुदेवविजयम् । ११३ शचारिवनिताभिरुपास्यमाना ॥--मनसिकृत्येति । 'अनत्याधान उरसिमनसी' इति गतिसंज्ञा । आकाशचारीति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । आभीक्ष्ण्यं तात्पर्यम् । बेभिदित्रीति भिदेर्यडन्तात् तृन् । 'यस्य हलः' इति साकच्कस्य यकारस्य लोपः । संयतित्रीति । 'यम उपरमे' क्विप् । 'गमः क्वौ' इत्यनुवृत्तौ 'गमादीनामिति वक्तव्यम्' इत्यनुनासिकलोपः । संयत् स्त्रियां पुंसि वा । तत इच्छार्थे क्यच् । तदन्तात् तृन् । 'क्यस्य विभाषा' इति यलोपः॥

मित्त्रस्य कंस जगतां परकीयमानी मा भूर्ममोरसि कुरुष्व वचो मदीयम् । भावत्कमीप्सितमिदं विफलं त्वया य- त्पाणौकृता बत पुरा विधवा भवन्ति ॥ ५२ ॥ हे कंस, त्वं मम परकीयमानी मा भूः मां परकीयां मा मन्यस्व । जगतां मित्त्रस्य मदीयं वच उरसि कुरुष्व अङ्गीकुरु । भावत्कं भवदीयमीप्सितं विफलं यत् तत् त्वया पाणौ कृताः परिणीताः स्त्रियः पुरा विधवा भवन्ति आशु भविष्यन्तीत्यर्थः॥-पाणौ कृतेति। 'नित्यं हस्ते पाणावुपयमने' इति गतिसंज्ञा । 'ते प्राग्धातोः' इति गत्युपसर्गाणां धातोः प्राक्प्रयोगः। मदीयमिति । 'त्यदादीनि च' इति वृद्धसंज्ञायाम् 'वृद्धाच्छः' । भावत्कमिति 'भवतष्ठक्छसौ'। परकीयमानीति । परशब्दाद् 'गहादिभ्यश्च' इति छः। 'कुग्जनस्य परस्य च' इति कुगागमः । मानीति । 'मनः' इति णिनिः । 'क्यड्मानिनोश्च' इति पुंवद्भावः ॥

योऽभूच्छूरंमन्य जन्मान्तरे ते हन्ता कश्चित्सोऽधुना मर्त्यभावम् । मध्येकृत्य ख्यातिमान्नाशकस्त्वां शुम्भत्युच्चैः क्वापि सद्वर्णितौजाः ॥५३॥ हे शूरमन्य, यो जन्मान्तरे ते हन्ता कश्चित् अभूत् सोऽधुना मर्त्यभावं मध्येकृल त्वां नाशकः त्वां नाशयितुं क्वापि देशे उच्चैः शुम्भति । ख्यातिमान् । सद्वर्णितौजाः ॥--मध्येकृत्येति । 'मध्येपदे निवचने च' इति गतिसंज्ञा । शूरंमन्येति । 'आत्ममाने खश्च' इति खश् । अतीताः प्रत्ययाः सार्वकालिकाः । नाशक इति । नश्यतेर्ण्य॑न्तात् ण्वुल् । 'णेरनिटि इति णिलोपः । वर्णितेति । वर्णयतेः क्तः । 'निष्ठायां सेटि' इति णिलोपः ॥

प्रियंकरं तं भुवि सोमयाजिनां मन्ये स्ववीर्येण हनिष्यसीति । ब्रुवे न तं हास्य हनिष्यसि ध्रुवं स त्वां तु राजन्नचिराद्धनिष्यति ५४ त्वं स्ववीर्येण तं हनिष्यामीति किं मन्ये मन्यसे । भुवि सोमयाजिनां प्रियंकरम् । अहं ब्रुवे-हे हास्य, त्वं तं न हनिष्यसि ध्रुवम् । हे राजन् , स तु त्वामचिरात् हनिष्यति ॥--सोमयाजिनामिति । 'भूते' इत्यधिकारे 'वर्तमाने लट्' इति यावत् 'करणे यजः' इति णिनिः । हनिष्यसीति । 'युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इति मध्यमपुरुषः । हनिष्यसि मन्ये इति । 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवञ्च' ११४ काव्यमाला इत्ति प्रहासे मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमौ विधीयते । ब्रुवे इति । 'अस्मद्युत्तमः' इत्युत्तमपुरुषः । हनिष्यतीति । 'शेषे प्रथमः' इति प्रथमपुरुषः ॥ ग्रामेयकैर्नागरकैश्च लोकर्निरीक्ष्यमाणा सह राजकीयैः । कर्मन्दिवन्द्या प्रकथय्य सैवं तिरोदधेऽनु स्तनयित्नुपद्याम् ॥ ५५ ॥ सा देवी एवं प्रकथय्य स्तनयित्नुपद्यां मेधमार्गमनु तिरोदधे । राजकीयैः राजसंवन्धिभिर्ग्रामेयकैर्ग्रामेभवैर्नागरकैः प्रवीणैर्नगरभवैश्च लोकैर्निरीक्ष्यमाणा कर्मन्दिवन्द्या कर्मन्दप्रोक्तं भिक्षुसूत्रमध्यायिनः कर्मन्दिनः ॥–कर्मन्दीति । 'कर्मन्दकृशाश्वादिनिः'। अनु स्तनयित्नुपद्यामिति । 'स्तन गदी देवशब्दे' चुरादिः औणादिक इत्नुच् । 'अयामन्ताल्वाय्येन्त्विष्णुषु' इति णेरयादेशः। पादाय हिता पद्या । 'शरीरावयवाद्यत्'। 'पद्यत्यतदर्थे' इति पद्भावः। अन्विति । 'कर्मप्रवचनीयाः' 'अनुर्लक्षणे' इति कर्मप्रवचनीयसंज्ञा । 'कर्मप्रवचनीययुक्ते द्वितीया' प्रकथव्येति । कथयतेर्ल्यप् । 'ल्यपि लघुपूर्वात्' इति णेरयादेशः ग्रामेयकैरिति । 'कन्न्यादिभ्यो ढकञ् । नागरकैरिति । 'नगरात्कुत्सनप्रावीण्ययोः' इति वुञ् । राजकीयैरिति । 'राज्ञः क च' इति छः । कश्चान्तादेशः ॥ व्यामोहमन्ववसितेन हृदा नृपोऽपि प्रक्षीय सोऽक्षितधियौ निगलाद्विमोक्षम् । प्रापय्य शौरिमथ तां भगिनी च वाक्यै- रक्षीणसौहृदमपेतशुचावतानीत् ॥ ५६ ॥ अथ स नृपोऽपि हृदा प्रक्षीय क्षीणचित्तो भूत्वा अक्षीणसौहृदं शौरि तां भगिनीं च निगलात् विमोक्षं प्रापय्य वाक्यैरपेतशुचावतानीत् । व्यामोहं अनु व्यामोहेन अवसितेन संबद्धेन । अक्षितधियौ अदीनमनसौ ॥–अन्विति । 'तृतीयार्थे' इति कर्मप्रवचनीयसंज्ञा । तद्योगे द्वितीया । प्रापय्येति । 'विभाषापः' इति णेर्वायादेशः । प्रक्षीयेति । 'क्षियः' इति ल्यपि दीर्घः । अक्षीणेति । कर्तरि 'निष्ठायामण्यदर्थे' इति दीर्घः । अक्षितेति । कर्तरि निष्ठा । 'वा क्रोशदैन्ययोः' इति वा दीर्घः ॥ असकृत्कृतवृत्रहाभिषङ्गः सुकृतां सोमसुतामसोढसौख्यः । गृहमेत्य स भागिनेयघाती द्रुतमाजूहवदात्मनः सहायान् ॥ ५७ ॥ स गृहमेत्य द्रुतमात्मनः सहायान् आजूहवत् आह्वाययामास । असकृत्कृतवत्रहाभिषङ्गः कृतेन्द्रपरिभवः । सुकृतां सोमसुत्ता सोमं सुतवतां सोमयाजिनामसोढसौख्योऽसोढतत्सुखः ॥-भागिनेयघातीति 'कर्मणि हनः' इति णिनिः । 'कुत्सितग्रहणं कर्तव्यम् । वृत्रहेति । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । सुकृतामिति । 'सुकर्मपापमन्त्रपुण्येषु कृञः' इति क्विप् । सोमसुतामिति । 'सोमे सुञः' इति क्विप् । आजूहवदिति । ह्वयतेर्णिच् । 'ह्वः संप्रसारणम्' इति वासुदेवविजयम् । ११५ सन्परे णौ च संप्रसारणम् । संप्रसारणस्य बलीयस्त्वात् 'शाच्छासाह्वाव्यावेपां युक्' इति प्रागेव युड् न भवति ॥ अधपूतनाबकमुखा बलिनः परिवादिनः सततमग्निचिताम् । नितरामपारिमुखिकेन नृणामधिपेन तेऽथ सदकारिषत ।। ५८ ॥ अथ अघपूतनाबकमुखास्ते नृणामधिपेन नितरां सदकारिषत सत्कृताः । बलिनः । अनिचितामग्निं चितवता सततं परिवादिनोऽपवादशीलः। अपारिमुखिकेन सौमुख्यवता॥-अग्निचितामिति । 'अग्नौ चेः' इति क्विप् । सदकारिषतेति । कृञः कर्मणि लुङि 'स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च' इत्युपदेशेऽजन्तत्वाच्चिण्वद्भाव इडागमश्च । 'चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति। इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विधाती ॥' इति चिण्भावयोजनम् ॥

सुभृशमुपदिदीये मृत्युभीत्या मदीयं हृदयमनु च यः स्वं वीर्यतोऽमंस्त विश्वम् । स्वजनमपरिमेयक्रौर्यमोजायमानं नृपतिरथ स पश्यन्प्रण्यगादीप्रणेयम् ॥ ५९ ॥ अथ नृपतिः स्वजनं पश्यन् आलोकनेन संभावयन् प्रण्यगादीत् उक्तवान् । मदीयं हृदयं मृत्युभीत्या सुभृशमुपदिदीये क्षीणमभूत् । यश्च विश्वं वीर्यतः स्वमनु आत्मनो हीनममंस्त । अपरिमेयक्रौर्यम् । ओजायमानमोजस्विनं भवन्तम् । प्रणेयं वश्यम् ॥--ओजायमानमिति । 'ओजसोऽप्सरसोर्नित्यम्' इति क्यडि सलोपः। अन्विति । 'हीने' इति कर्मप्रवचनीयसंज्ञा । उपदिदीये इति । 'दीड् क्षये । 'दीडो युडचि क्डिति' इति युडागमः । परिमेयेति । 'माड् माने' । 'अचो यत्' । 'ईद्यति' इत्याकारस्येकारः। प्रण्यगादीदिति । अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते ॥

सर्वोऽपि यानुप गुणैर्जगतीह तेषां न स्थीयते नहि मया जननाद्वशे वः । तेभ्यश्च युष्मदप मे सुहृदोऽनुकार्यं नैवास्ति वर्तनमपि स्थ च मां सहार्दाः ॥ ६० ॥ हे सुहृदः, इह जगति सर्वोऽपि जनो गुणैर्यानुप हीनो भवति । मया तेषां वो वशेऽधीनत्वे आ जननात् जननमारभ्य नहि न स्थीयते अपि तु स्थीयत एव । तेभ्यो युष्मत् अप तान् युष्मान् वर्जयित्वा मे अनुकार्यं कार्ये कार्ये वर्तनं च नैवास्ति । मामभि लक्षणीकृत्य सहार्दाः सस्नेहाः स्थ भवथ च ॥-उपेति । 'उपोऽधिके च' इति चकाराद्धीने कर्मप्रवचनीयसंज्ञा । अपेति । 'अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञायां 'पञ्चम्यपाड्परिभिः' इति तद्युक्ते पञ्चमी । आ जननादिति । 'आड् मर्यादावचने' इति कर्मप्रवचनी११६ काव्यमाला । यसंज्ञा । अभीति । 'अभिरभागे' इति कर्मप्रवचनीयसंज्ञा । स्थीयते इति । 'घुमास्थागापाजहातिसां हलि' इति हलादौ क्वित्यकारस्येकारः ॥

क्षीबा ये चारण्यकाः पा(प)र्वतीया दुर्देशस्थाः सन्ति सामुद्रका वा। यौष्माकीणेनैव वीर्येण सर्वेऽप्यास्माकत्वं प्रापितास्तेऽक्लिशित्वा॥६१॥ ते सर्वेऽपि यौष्माकीणेन युष्मत्संबन्धिना वीर्येण अक्लिशित्वा अनायासेन । आस्माकत्वं अस्मदीयत्वं प्रापिताः । के ये आरण्यका अरण्ये भवाः । पा(प)र्वतीयाः पर्वते भवाः । दुर्देशस्था यवनादयः । ये वा सामुद्रकाः समुद्रे भवाः सन्ति ते क्षीबा वीर्यादिना मत्ताः ॥-सामुद्रका इति । 'धूमादिभ्यश्च' इति वुञ्। 'समुद्रान्नावि मनुष्ये च वुञिष्यते'। आरण्यका इति । 'अरण्यान्मनुष्ये' ! 'पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम्' इति वुञ् । शैषिकः । पा(प)र्वतीया इति 'पर्वताच्च' [इति छः] यौष्माकीणेनेति । 'युष्मदस्मदोरन्यतरस्यां खञ्च' इति खञ् । 'तस्मिन्नणि च युष्माकास्माकौ' इति युष्माकादेशः । आस्माकेति । अन्यतरस्यां ग्रहणादण् । तस्मिन्नस्साकादेशः । दुर्देशस्था इति । 'आतो लोप इटि च' इत्याकारलोपः । क्षीबा इति । 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निपातितः ॥

स्थेयात्स्वामी शक्रत: प्रत्यशद्रुः प्रम्लेयासुश्चास्य सर्वोपसर्गाः । प्रग्लायासुः शत्रवश्चेति मां प्रत्याशंसध्वे गृघ्नवो यूयमेव ॥ ६२ ॥ यूयमेव मां प्रति लक्षणीकृत्य इति आशंसध्वे इच्छथ । गृध्रव इच्छाधर्माणः। कथम् । अस्माकं स्वामी अशद्रुरनवसन्नः शक्रतः प्रति शक्रस्य प्रतिनिधिः सन् स्थेयान् । अस्य सर्वोपसर्गाः सर्वोपद्रवाः प्रम्लेयासुः म्लाना भूयासुश्च । शत्रवः प्रग्लायासुः ग्लानाः सन्तु च ॥-प्रतीति । 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति कर्मप्रवचनीयसंज्ञा । 'प्रतिनिधिप्रतिदाने च यस्मात्' इति तद्योगे पञ्चमी । 'प्रतियोगे पञ्चम्यास्तसिः' । स्थेयादिति । 'एर्लिडि' इति घुमास्थादीनामेकारः । प्रम्लेयासुरिति । प्रग्लायासुरिति । 'वान्यस्य संयोगादेः' इति वा एत्वम् । स्वामीति । 'स्वामिन्नैश्वर्ये' इति निपातितः ॥

कुतोऽभ्युपेयाद्विपदीदृशानित्येतां धियं तावदतो विहाय । मृत्युं विहन्तुं मम यस्यत स्म प्राप्तामिमां यस्यत यस्यतेति ॥ ६३ ॥ अतो यूयमीदृशान् कुतः केन प्रकारेण विपत् अध्युपेयात् प्राप्नुयात् इत्येतां धियं तावद्विहाय मम प्राप्तामासन्नत्वेन श्रुतामिमां मृत्युं विहन्तुं यस्यत यस्यतेति यस्यत स्म भृशं यत्नं कुरुत ॥-अधीति । 'अधिपरी अनर्थकौ' इति कर्मप्रवचनीयसंज्ञा । धात्वर्थव्यतिरेकेणार्थस्यानभिधानात् संज्ञायाः प्रयोजनं स्वरविषयम् । विहायेति । 'न ल्यपि' इति घुमास्थादीनामित्वाभावः । यस्यत स्मेति । 'अधीष्टे च' इति स्मे लोट् ॥ वासुदेवविजयम् । ११७

अतिसक्ततयैव मामकीने हितकृत्ये मम सा हि भागिनेयी । भुवि सुस्थमुपादिशद्रिपुं मे वितथाभूशरीरिणी तु वाणी ॥ ६४ ॥ सा मम भागिनेयी स्वसुरपत्यं मामकीने हितकृत्येऽतिसक्ततयैव मे रिपुं भुवि सुस्थमुपादिशत् । अशरीरिणी वाणी वितथा असत्या अभूत् ॥-सुस्थमिति । 'सुः पूजायाम्' इति कर्मप्रवचनीयसंज्ञा । अतिसक्ततयेति । 'अतिरतिक्रमणे च' इति चकारात् पूजायां कर्मप्रवचनीयसंज्ञा । मामकीने इति । खञि 'तवकममकावेकवचने' इति अस्मदो ममकादेशः॥

प्रणिजगदुरथासुरा नरेन्द्रं नृप किमिदं भवति ह्यधि त्रिलोकी । कमलभवमपि स्वजेत भीतिस्त्वयि रुषिते किमुताल्पकं कृतान्तम् ६५ अथ असुरा नरेन्द्र प्रणिजगदुरुक्तवन्तः । हे नृप, किमिदं वैक्लव्यम् । त्रिलोकी भवति अधि हि भवत्स्वामिकं त्रैलोक्यम् । त्वयि रुषिते कमलभवमपि भीतिः स्वतेज आलिङ्गितुं संभाव्यते । अल्पकं कृतान्तं किमुत॥--अपीति । 'अपिः पदार्थसंभावनान्ववसर्गंगर्हासमुच्चयेषु' इति संभावनायां कर्मप्रवचनीयसंज्ञा । लिङ् च संभावने । अधीति । 'अधिरीश्वरे' इति कर्मप्रवचनीयसंज्ञा । भवतीति 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' इति सप्तमी ॥

ब्रूमो वयं संप्रति पश्य तावद्द्वित्रैर्दिनैरेव भवन्तमेत्य । निजेन दण्डेन भियापमित्य याचिष्यति स्वं न स जीवितं किम् ॥६६॥ वयं संप्रति ब्रूमः । पश्य तावत् । स कृतान्तो भिया द्वित्रैर्दिनैरेव भवन्तमेत्य निजेन दण्डेनापमित्य प्रहृत्य स्वं जीवितं कि न याचिष्यति । कृतान्तो भवन्तं याचित्वा निजेन दण्डेन भवदधीनं स्वजीवितं व्यतिभास्यति व्यतिहरिष्यते ॥-अपमित्येति । 'उदीचां माडो व्यतीहारे' इति उत्तरकाले क्त्वा विधीयते । गतिसमासे 'भयतेरिदन्यतरस्याम्' इतीत्वम् ॥

विप्रैः सुराविक्रयिणां विरोपिभिश्चिन्वद्भिरग्नीन्रथचक्रचिन्मुखान् । आदृत्यकर्मा यदि सोऽन्यभुव्यभूत्तस्याधिकुर्मः क्षणमञ्जसोष्णकाः ६७॥ स कन्यकोक्त्या द्योतितो विष्णुर्यद्यन्यभुव्यभूत् तर्हि अञ्जसा तस्य क्षयमधिकर्मः । विप्रैरादृत्यकर्मा । सुराविक्रयिणां विरोपिभिः रथचक्रचिन्मुखान् अग्नीन् चिन्वद्भिरुष्णका उष्णमिव शीघ्रं कुर्वन्तः । अधिकुर्मः।-क्षयमिति । 'विभाषा कृञि' इत्यधेर्वा कर्मप्रवचनीयसंज्ञा । कर्मण्येवात्र द्वितीया । रथचक्रचिदिति । 'कर्मण्यग्न्याख्यायाम् इति क्विप् । रथचक्रवञ्चीयत इति संज्ञैषा । 'रथचक्रचितं चिन्वीत भ्रातृव्यवान्' इति श्रुतिः । सुराविक्रयिणामिति । 'कर्मणीनि विक्रयः' इति इनिः । कुत्सानिमित्तमिह कर्म । उष्णका इति । 'शीतोष्णाभ्यां कारिणि' इति कन् । अभूदिति । 'लुङ्लङ्लुङ्क्ष्वडुदात्तः' ॥ द.१२ ११८ काव्यमाला । भूतार्थदृश्वन्नथ राजयुध्वन्नस्माभिरेतैः सहकृत्वभिस्ते । न खल्वसाध्यो दिविजोऽपि सोऽजः किमु क्रशीयो मनुजत्वमीतः ६८ अयि भूतार्थदृश्वन् परमार्थ दृष्टवन् , राजयुध्वन् राज्ञो योधितवन् तैरस्माभिः सहकृत्वभिः सहकृतवद्भिः सहायभूतैर्दिविजोऽपि सोऽजस्तेन खलु असाध्यः, अपि तु मारयितव्य एव । क्रशीयः कृशतरं मनुजत्वमीतः प्राप्तः । किमु ॥-भूतार्थदृश्वन्निति । कर्मण्युपपदे 'दृशेः क्वनिप्' । राजयुध्वन्निति । राजनि युधि कृञः' । युधिरन्तर्भावितण्यर्थत्वात् सकर्मकः । युध्यमानं राजानं यदापरःप्रेरयति युध्यस्वेति तदा युधिःप्रयोज्येन सकर्मकः । सहकृत्वभिरिति । 'सहे च' इति क्वनिप् । दिविज इति । 'सप्तम्यां जनेर्डः' । 'प्रावृट्शरत्कालदिवां जे' इत्यलुक् । अज इति । 'अन्येष्वपि दृश्यते' इति डः । ईत इति । 'ई गतौ' । 'निष्ठा' इति भूते क्तः ॥

त्वदनुजात्मजा साथवा प्रजा कथमिवैद्वपुस्तादृशं क्षणात् । हृतविभूतयः शाम्बरीं सुरा न किमदीदृशन्मेह विश्वसीः ॥ ६९ ॥ अथवा त्वदनुजात्मजा सा प्रजा कथमिव तादृशं वपुः क्षणादैत् प्राप्ता । त्वया हृतविभूतयः सुराः शाम्बरीं मायां तादृशीं न किमदीदृशन् अदर्शयन् । इह अस्मिन्नर्थे मा विश्वसीः विश्वासं कार्षीः ॥—आत्मजेति । 'पञ्चम्यामजातौ' इति डः । प्रजेति। 'उपसर्गे च संज्ञायाम्' इति डः । त्वदनुजेति । त्वामनुजाता त्वदनुजा । 'अनौ कर्म-' इति डः। अदीदृशन्निति । 'लुडि' इति भूते लुड् । ऐदिति । 'अनद्यतने लड्' 'आडजादीनाम्' इत्याडागमः । विश्वसीरिति । 'न माड्योगे' इति अडाटोरभावः ॥

ये यज्वानः शुश्रुवांसः श्रुतीनामर्थाच्छान्तिं सर्वदोपेयिवांसः । तेषां घात: स्याज्जरद्ब्राह्मणानां घातो विष्णोस्ते यदस्यैकमूर्तिः ॥ ७० ॥ ये जरद्ब्राह्मणा यज्वान इष्टवन्तः श्रुतीनामर्थान् शुश्रुवांसः श्रुतवन्तः, सर्वदा शान्ति मनोजयमुपेयिवांसः प्राप्तवन्तश्च, तेषां जरद्ब्राह्मणानां वृद्धानां ब्राह्मणानां घातो विष्णोर्घातः स्यात् । ते अस्य एकमूर्तिः प्रधानशरीरं यत् ॥-जरदिति । 'जीर्यतेस्तृन्'। शुश्रुवांस इति । 'भाषायां सदवसश्रुवः' इति लिटः क्रसुः । उपेयिवांस इति । 'उपेयिवाननाश्वाननूचानश्च' इति निपातनम् । ब्राह्मणानामिति । ब्रह्मणोऽपत्यार्थेऽण् । अजातादेव लिटि लोपः॥

खादित्वा तृणचयमाशितंभवं या निर्मन्तुं ददति हविः समांसमीनाः । प्रष्ठौहीरवनिप कूलमुद्रुजास्ता हन्मो गा: परिभविनीः स्तनंधयीर्वा ॥ ७१ ॥ हे अवनिप, ता गाश्च हन्मः । समांसमीनाः प्रत्यब्दं सूयमानाः । प्रष्ठौहीः बाल्य एव गर्भिणीः । स्तनंधयोः अतिबालाश्च । कूलमुद्रुजाः कूलं भिन्दतीः । परिभाविनीः अस्मत्परिभववासुदेवविजयम् । ११९ करीः। या आशितंभवं तृप्तिसाधनभूतं निर्मन्तुं निरपराधं तृणचयं खादित्वा हविर्ददति॥-स्तनंधयीरिति । 'धेट् पाने' । 'नासिकास्तनयोर्ध्माधेटोः' इति खश् । धेटष्टित्वात् 'टिड्ढाणञ्-' इति डीप् । कूलमुद्रुजा इति । रुजो भङ्गे । 'उदि कूले रुजिबहोः' इति खश् । आशितंभवमिति । 'आशिते भुवः करणभावयोः' इति करणे खच् । आशितस्तृप्तो भवत्यनेनेति । प्रष्ठौहीरिति । पञ्चमे षष्ठे वा वर्षे वहतीति । 'वहश्च' इति ण्विः । उपधावृद्धिः। प्रष्ठवाहशब्दात् डीप् 'वाह ऊठ्' इति वकारस्य संप्रसारणम् । 'एत्येधत्यूठ्सु' इति ऊठि पूर्वपरयोर्वृद्धिः । समांसमीना इति । 'समा समां विजायते' इति खः ॥

द्वैरात्रिका ये शिशवस्त्र्यहीना मास्या भुवि द्वैसमिका: समीनाः । तान्पञ्चमास्यानपि च त्रिवर्षान्सर्वान्प्रहन्मोऽद्य तवापदर्थम् ॥ ७२ ॥ वयमद्य तव आपदर्थमापन्निवृत्तये तान् सर्वान् शिशून् प्रहन्मः। कान् । भुवि ये द्वैरात्रिका द्वेरात्रीभूताः । त्र्यहीनाः । त्रीण्यहानि भूताः । मास्याः मासं भूताः । द्वैसमिकाः द्वैसमे भूताः । समीना समा भूताश्च शिशवः सन्ति तान् । तथा पञ्चमास्यान् पञ्च मासान् तान् । अपि च त्रिवर्षान् त्रीणि वर्षाणि भूतांश्च ॥-मास्यानिति । 'मासाद्वयसि यत्खञौ' इति यत् । पञ्चमास्यानिति । 'द्विगोर्यप्' । समीना इति । 'समायाः खः' । द्वैसमिका इति । 'द्विगोर्वा' इति खाभावपक्षे ठञ् । द्वैरात्रिका इति । 'रात्र्यहःसंवत्सराच्च' इति ठञ् । त्र्यहीना इति । तेनैव खः । त्रिवर्षानिति । चित्तवति नित्यम्' इति खठञोर्लुक् ॥

न तेऽस्त्यभिज्ञा सहकुष्ठलाधिपं विजेष्यते संयति राजकं भवान् । न वाभिजानासि विकत्थिनः सुरान्यदप्रतिस्तब्धपराक्रमोऽजयः ॥७३॥ ते अभिज्ञा स्मृतिर्नास्ति किम् । भवान् संयति सहकुष्ठलाधिपं कुत्सितस्थलाधिपतिसहितं तं राजकं राजसमूहं विजेष्यते जितवान् । नाभिजानासि वा । विकत्थिनः श्लाघाशीलान् सुरान् अप्रतिस्तब्धपराक्रमोऽनभिभूतपराक्रमः सन् अजय इति यत्॥-विजेष्यते इति । 'अभिज्ञावचने लुट्' इत्यनद्यतनभूते लृट् । अजय इति । 'न यदि' इति लृडभावे लङ् । कुष्ठलेति । 'विकुशमिपरिभ्यः स्थलम्' इति षत्वम् । अप्रतिस्तब्धेति । 'प्रतिस्तब्धनिस्तब्धौ च' इति षत्वाभावो नियात्यते ॥

इदमपि तवाभिज्ञातं यत्क्षणेन दिशांपती- नपि युधि भवान्भङ्क्ष्यत्येषां हरिष्यति वा वसु । तितनिषसि यत्कस्त्वं श्वासो निवारयिता ततः परिपरि परं धर्माधर्मावपास्य बलीयसः ॥ ७४ ॥ इदं तवाभिज्ञातमपि भवान् युधि दिशांपतीन् अपि क्षणेन भङ्क्ष्यति भग्नवान् । एषां वसु हरिष्यति वा हृतवांश्च । यत् तितनिषसि ततः तस्मात् श्वासः प्राणान् सन् को नि१२० काव्यमाला ।

वारयिता न कोऽपि । धर्माधर्मौ परं केवलं बलीयसः परिपरि अतिबलवन्तं परिहृत्य वर्तते इत्यपास्य जानीहि ॥-भङ्क्ष्यति हरिष्यतीति । 'विभाषा साकाङ्क्षे' इति यच्छब्दसहिते केवले चाभिज्ञावचने उपपदे वा लृट् । तत इति । 'वारणार्थानामीप्सितः' इत्यपादानसंज्ञा । श्वास इति । 'श्याद्व्यधास्रुसंस्व्रतीण्वसावहलिहश्लिषश्वसश्च' इति णः परिपरि इति । 'परेवर्जने' 'असमासे चेति वक्तव्यम्' इति द्वित्वम् 'पञ्चम्यपाड्परिभिः ॥

अर्ध्यां शंभोर्भावयित्वा मृडानीं लेभे तस्माद्रावणः प्रागभीष्टम् । आयान्त्यायःशूलिकान्पार्श्वकान्वा संप्रत्यर्था पश्य नन्यायवृत्तान् ॥७५॥ प्राक् रावणो विश्रवसोऽपत्यं शंभोरध्य-मर्धे वर्तमानां मृडानीं भावयित्वा तस्मादभीष्टं लेभे । संप्रति आय:शूलिकाम् तीक्ष्णोपायेनार्थानन्विच्छतः पार्श्वकान् वा अनृजुना उपायेनार्थानन्विच्छतश्च । अर्था आयान्ति । पश्य । न तु न्यायवृत्तान् ॥--अर्ध्यामिति । 'अर्धाद्यत्' शैषिकः । पार्श्वकानिति । 'पार्श्वेनान्विच्छति' । इति कन् । आयःशूलिकानिति । 'अयःशूलदण्डाजिनाभ्यां टक्ठञौ' । शंभोरिति । डप्रकरणे ‘मितद्व्रादिभ्य उपसंख्यानम्' इति डः भूप्राप्तौ' आत्मनेपदी। शं कल्याणं भूतवान् लब्धवानिति । रावण इति । 'शिवादिभ्योऽण्' इति गणे 'विश्रवणरवणौ' इति पाठात् विश्रवसो रवणादेशः ॥

निग्राहिता सोऽपि सुधारसान्धो दर्शिष्यते येन पतन्पदोस्ते । जगद्भुजाविक्रमजेन तेऽदः प्रभावभूम्ना परिभाविषीष्ट ॥ ७६ ॥ यः पुरुषस्ते पदोः पतन् न दर्शिष्यते स सुधारसान्धः सुधारसाशनोऽपि निग्राहिता हनिष्यते । भवद्भुजाविक्रमजेन प्रभावभूम्ना अदो जगत् परिभाविषीष्ट परिभूयताम्॥--विक्रमजेति । 'पञ्चम्यामजातौ' इति डः । दर्शिष्यत इति । 'स्यसिच्' इति चिण्वद्भावः । परिभाविषीष्टेति । सीयुटि । निग्राहितेति । तासौ ॥

इत्युक्तवत्यै स सहायतायै प्रीणन्परार्ध्यानि वसूनि वाग्मी । ददेऽवरार्ध्यानि च राष्ट्रियाणि द्वैप्यानि मध्यानि च पार्वतानि ॥ ७७ ॥ स इति उक्तवत्यै सहायतायै सहायस्य समूहाय प्रीणन् तां तोषयितुं वसूनि रत्नानि ददे दत्तवान् । वाग्मी प्रशस्तवाक् । कानि । परार्ध्यानि उत्तमार्ध्या॑नि अवरार्ध्या॑नि अधमार्ध्यानि मध्यानि समानि राष्ट्रियाणि राष्ट्रे भवानि द्वैप्यानि समुद्रसमीपद्वीपे भवानि पार्वतानि पर्वते भवानि च ॥-[पार्वतानि]इति । 'विभाषामनुष्ये'इति छाभावपक्षेऽण् । राष्ट्रियाणीति । 'राष्ट्रावारपाराद् घखौ' । परार्ध्यानीति अवरार्ध्यानीति 'परावराधमोत्तमपूर्वाच्च' इति यत् । मध्यानीति। मध्यशब्दात् 'अ सांप्रतिके' इत्यप्रत्ययः । द्वैप्यानीति । 'द्वीपादनुसमुद्रं यञ्' । वाग्मीति । 'वाचो ग्मिनिः' मत्वर्थीयः ॥

देवद्रीचा दोःपटिम्नाम्रदिष्ठानत्यन्तीनांस्तांस्तथादिश्य वश्यान् । शश्वद्विष्णोर्घातुकान्भीरुकः सन्स न्यध्यासीत्तन्मयं विश्वमेतत् ॥७८॥ धातुकाव्यम् । १२१ स तान् तथा आदिश्य शश्वत् विष्णोर्भीरुकः सन् एतत् विश्वं तन्मयं विष्णुमयं न्यध्यासीत् दृष्टवान् । देवद्रीचा देवान् प्राप्नुवता दोःपटिम्ना सामर्थ्येन अम्रदिष्ठान् अमृदुतमान् । अत्यन्तीनान् अत्यर्थं गमनशीलान् । वश्यान् वशंप्राप्तान् । घातुकान् दैत्यहननशीलान् ॥-अत्यन्तीनानिति । 'अवारपारात्यन्तानुकामंगामी' इति खः । वश्यानिति । 'वशं गतः' इति यत् । भीरुक इति । 'भियः क्रुकन्निति वक्तव्यम्' । 'भीलुकः' इति वा पाठः ॥

अध्वनीनकथिताननुशृण्वन्नन्दगोपसुतसंभवजन्यान् । उत्सवान्व्रजपदे हरिमर्चञ्जायया स मुमुदे वसुदेवः ॥ ७९ ॥ स वसुदेवो जायया सह मुमुदे । व्रजपदे अध्वनीनकथितान् नन्दगोपसुतसंभवजन्यान् तेन जातान् उत्सवान् अनुशृण्वन् हरिमर्चन् पूजयन् ॥--अध्वनीनेति । 'अध्वनो यत्खौ' । अनुशृण्वन्निति । 'श्रु श्रवणे' । अस्माल्लट् । 'लः परस्मैपदम्' इति परस्मैपदसंज्ञा । 'शेषात्कर्तरि परस्मैपदम्' । मुमुद इति । 'तडानावात्मनेपदम्' इत्यात्मनेपदसंज्ञा । 'तिडस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः' इति प्रथमपुरुषसंज्ञा । शेषे प्रथमः' इति प्रथमपुरुषः । 'तान्येकवचनद्विवचनबहुवचनान्येकशः' इत्येकवचनसंज्ञा । 'द्व्येकयोर्द्विचनैकवचने' इत्येकवचनम् । स इति । 'सुपः' इति वचनसंज्ञा । 'विभक्तिश्च' इति सुपां तिङां च विभक्तिसंज्ञा । 'त्यदादीनामः' इति विभक्तावकारादेशः । जाययेति । 'आडि चापः' इत्येकारः । 'परः संनिकर्षः संहिता' इति संहितासंज्ञायां 'एचोऽयवायावः' इत्ययादेशः । वसुदेव इति । 'विरामोऽवसानम्' इत्यवसानसंज्ञायां 'खरवसानयोर्विसर्जनीयः' ॥

इति वासुदेवकृते वासुदेवविजयकाव्ये पदचन्द्रिकाख्यया व्याख्यया समेतस्तृतीयः सर्गः ।


"https://sa.wikisource.org/w/index.php?title=वासुदेवविजयम्&oldid=309051" इत्यस्माद् प्रतिप्राप्तम्