वासवदत्ता

विकिस्रोतः तः

ॐ नमो भारत्यै ॥

करबदरसदृशम् अलिखं भुवनतलं यत्प्रसादतः कवयः ।
पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ सु-वास१ ॥
खिन्नोऽसि मुञ्च शैलं बिभृमो वयम् इति वदत्सु शिथिलभुजः ।
भरभुग्नविततबाहुषु गोपेषु हसन् हरिर् जयति ॥ सु-वास२ ॥
कठिनतरदामवेष्टनलेखासन्देहदायिनो यस्य ।
राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ॥ सु-वास३ ॥
स जयति हिमकरलेखा चकास्ति यस्योत्सुकोमया निहिता ।
नयनप्रतीपकज्जलजिघृक्षया शिरसि रजतशुक्तिर् इव ॥ सु-वास४ ॥
भवति सुभगत्वम् अधिकं विस्तारितपरगुणस्य सुजनस्य ।
वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्योतः ॥ सु-वास५ ॥
विषधरतोऽप्य् अतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।
यद् अयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ सु-वास६ ॥
अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ सु-वास७ ॥
हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सुजनम् ।
दर्पणम् इव तं कुरुते तथा तथा निर्मलच्छायम् ॥ सु-वास८ ॥
विध्वस्तपरगुणानां भवति खलानाम् अतीव मलिनत्वम् ।
अन्तरितशशिरुचाम् अपि सलिलमुचां मलिनिम् आभ्यधिकः ॥ सु-वास९ ॥
सा रसवत्ता निहता नवका विलसन्ति चरति नो कङ्कः ।
सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये ॥ सु-वास१० ॥
अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ सु-वास११ ॥
गुणिनाम् अपि निजरूपप्रतिपत्तिः परत एव संभवति ।
स्वमहिमदर्शनम् अक्ष्णोर् मुकुरतले जायते यस्मात् ॥ सु-वास१२ ॥
सरस्वतीदत्तवरप्रसादश् चक्रे सुबन्धुः सुजनैकबन्धुः ।
प्रत्यक्षरश्लेषमयप्रबन्धं विन्यासवैदग्ध्यनिधिर् निबन्धम् ॥ सु-वास१३ ॥


१) अभूद् अभूतपूर्वः, सर्वोर्वीपतिचक्रचूडामणिश्रेणीशाणकोणकषणनिर्मलीकृतचरणनखमणिः, नृसिंह इव दर्शितकशिपुक्षेत्रदानविस्मयः, कृष्ण इव कृतवसुदेवतर्पणः, नारायण इव सौकर्यसमासादितधरणीमण्डलः, कंसारातिर् इव जनितयशोदानन्दसमृद्धिः, आनकदुन्दुभिर् इव कृतकाव्यादरः, सागरशायीवानन्तभोगीचूडामणिरञ्जितपादः, वरुण इवाशान्तरक्षणः, अगस्त्य इव दक्षिणाशाप्रसाधकः, जलनिधिर् इव वाहिनीशतनायकः समकरप्रचारश् च, हर इव महासेनानुयातो निर्जितमारश् च, मेरुर् इव विबुधालयो विश्वकर्माश्रयश् च, रविर् इव क्षणदानप्रियश् च्छायासन्तापहरश् च, कुसुमकेतुर् इव जनितानिरुद्धसंपद् रतिसुखप्रदश् च, विद्याधरोऽपि सुमनाः, धृतराष्ट्रोऽपि गुणप्रियः, क्षमानुगतोऽपि सुधर्माश्रितः, बृहन्नलानुभावोऽप्य् अन्तःसरलः, महिषीसंभवोऽपि वृषोत्पादी, अतरलोऽपि महानायकः राजा चिन्तामणिर् नाम ।

२) यत्र च शासति धरणिमण्डलं छलनिग्रहप्रयोगा वादेषु, नास्तिकता चार्वाकेषु, कण्टकयोगो नियोगेषु, परीवादो वीणासु, खलसंयोगः शालिषु, द्विजिह्वसङ्गृहीतिर् आहितुण्डिकेषु, कर[च्छेदः कॢप्तकर]ग्रहणेषु, नेत्रोत्पाटनं मुनीनां, राजविरुद्धता पङ्कजानां, सर्वभौमयोगो दिग्गजानां, शूलसंयोगो युवतिप्रसवे, अग्नितुलाशुद्धिः सुवर्णानां, दुःशासनदर्शनं भारते, करपत्रदारणं जलजानां, परम् एवं व्यवस्थितम् । महावराहो गोत्रोद्धरणप्रवृत्तोऽपि गोत्रोद्दलनम् अकरोत् । राघवः परिहरन्न् अपि जनकभुवं जनकभुवा सह वनं विवेश । भरतोऽपि रामदर्शितभक्तिर् अपि राज्ये विरामम् अकरोत् । नलस्य दमयन्त्या मिलितस्यापि पुनर् भूपरिग्रहो जातः । पृथुर् अपि गोत्रसमुत्सारणाद् विस्तारितभूमण्डलः । इत्थं नास्ति वागवसरः पूर्वतरराजेषु ।

३) स पुनर् अन्य एव त्यक्तसर्वपूर्वोर्वीपतिचरितः । तथा हि । सर्वतः कटकसंचारिणो गन्धर्वान् दर्शितशृङ्गोन्नतिः सुखयन् न विरराम । स हिमालयो नावश्यायोच्छलितः नो मायाजन्मने हितश् च । असौ हि मानी गिरि स्थितो वृषध्वजश् च । [असौ] सद्गतिः, अवधूताखिलकान्तारः, पावकाग्रेसरः, न भोगोत्सुकः सुमनोहरः[श् च] । स रत्नाकरोऽनहिमयः, कथम् अगाधः, समर्यादः, नोद्रेकोऽप्य् अस्य विस्मयः, हिमकराश्रयोऽमृतमयः, सत्पात्रः, तस्याचलो न क्रोधः, महानदीनः, सपोतः स समुद्रः । [स चन्द्र इव] क्षणदानन्दकरः, कुमुदवनबन्धुः, सकलकलाकुलगृहं, नतारातिबलः । [स समुद्रो] मित्रोदयहेतुः, काञ्चन शोभां बिभ्रत्, अचलाधिकलक्ष्मीः सुमेरुर् इव । यस्य च रिपुवर्गः सदा पार्थोऽपि न महाभारतरणयोग्यः, भीष्मोऽप्य् अशान्तनवे हितः, सानुचरोऽपि न गोत्रभूषितः । अपि च स त्रिशङ्कुर् इव नक्षत्रपथस्थलितः, शङ्करोऽपि न विषादी, पावकोऽपि न कृष्णवर्त्मा, आश्रयाशो [ऽपि] न दहनः, नान्तक इवाकस्माद् अपहृतजीवनः, न राहुर् मित्रमण्डलग्रहणवर्धितरुचिः, न नल इव कलिविलसितविनटितः, न चक्रीव शृगालवधस्तुतिसमुल्लसितः, नन्दगोप इव यशोदयान्वितः, जरासन्ध इव घटितसन्धिविग्रहः, भार्गव इव सदानभोगः, दशरथ इव सुमित्रोपेतः सुमन्त्राधिष्ठितश् च, दिलीप इव सुदक्षिणानुगतो रक्षितगुश् च, राम इव जनितकुशलवयो रूपोच्छ्रायः । तस्य च पारिजात इवाश्रितनन्दनः, हिमालय इव जनितशिवः, मन्दर इव भोगिभोगाङ्कितः, कैलास इव महेश्वरोपभुक्तकोटिः, मधुर् इव नानारामानन्दकरः, क्षीरोदमथनोद्यतमन्दर इव मुखरितभुवनः, रागरज्जुर् इवोल्लासितरतिः, ईशानभूतिसञ्चय इव सन्ध्योच्छलितः, शरन्मेघ इवावदातहृदयो विष्णुपदावलम्बी च, पार्थ इव समरसाहसोचितः, कंस इव कुवलयापीडभूषितः, तार्क्ष्य इव [विनतानन्दकरः] सुमुखनन्दन[श् च], विष्णुर् इव क्रोडीकृतसुतनुः, शान्तनव इव स्ववशस्थापितकालधर्मः, कौरवव्यूह इव सुशर्माधिष्ठितः, सुबाहुर् अपि रामानन्दी, समदृष्टिर् अपि महेश्वरो, मुक्तामयोऽप्य् अतरलमध्यो, जलद इव विमलतरवारिधारात्रासितराजहंसः, वंशप्रदीपोऽप्य् अक्षतदशः, तनयः कन्दर्पकेतुर् नाम ।

४) येन च चन्द्रेणेव सकलकलाकुलगृहेण, शर्वरीतिहारिणा, कुमुदवनबन्धुना, प्रसादिताशेन, विलोकिता जलधय इवोल्लसितगोत्राः, सुदूरवर्तितजीवनाः, प्रसन्नसत्त्वाः सन्तः पराम् ऋद्धिम् अवापुः प्रजालोकाः । यस्य च जनितानिरुद्धलीलस्य, रतिप्रियस्य, कुसुमशरासनस्य, मकरकेतोर् इव दर्शनेन वनिताजनस्य हृदयम् उल्ललास । यस्मै चानुगतदक्षिणसदागतये, नेत्रश्रुतिसुखदकोमलकोकिलरुताय, विकासितपल्लवाय, कृतकान्तारतरङ्गाय, सुरभिसुमनोऽभिरामाय, सर्वजनसुलभपद्माय, विस्तृतकरसंपदे, अतिक्रान्तदमनकाय वसन्तायेव, वनलता इवोत्कलिकासहस्रसंकुलाः, भ्रमरसङ्गताः, प्रवालहारिण्यः, विलसद्वयसस् तरुण्यः स्पृहयांचक्रुः । यस्य [च] समरभुवि भुजदण्डेन कोदण्डं, कोदण्डेन बाणाः, बानै रिपुशिरः, तेनापि भूमण्डलं, तेन चाननुभूतपूर्वो नायकः, नायकेन च कीर्तिः, कीर्त्या च सप्तसागराः, सागरैः कृतयुगादि राजचरितस्मरणं, अनेन च स्थैर्यं, अमुना च प्रतिक्षणम् आश्चर्यम् आसादितम् । यस्य च प्रतापानलदग्धानां रिपुसुन्दरीणां करतलताडनभीतैर् इव मुक्ताहारैः पयोधरपरिसरो मुक्तः । यस्य च निहितनाराचजर्जरितमत्तमातङ्गकुम्भस्थलविगलितमुक्ताफलदन्तुरितपरिसरे, तरत्पत्ररथे, रक्तवारिसंचरत्करिकच्छपोत्फुल्लपुण्डरीकशतसमाकुले, नृत्यत्कबन्धे, सुरसुन्दरीसंगमोत्सुकचारभटाहङ्कारसंभारभीषणे, समरसरसि, भिन्नपदातिकरितुरगरुधिरार्द्रो जयलक्ष्मीपादालक्तकरागरञ्जित इव खड्गो रराज ।

५) अथ स कदाचिद् अवसन्नायां यामवत्यां दधिधवले कालक्षपणकपिण्ड इव निशायमुनाफेनस्तबके, मेनकानखमर्जनशिलाशकल इव मधुच्छत्रच्छायमण्डलोदरे, पश्चिमाचलोपधानसुखनिलीनशिरसः, ताडङ्क इव शेषमधुभाजि, चषक इव विभावरीवध्वाः, अपरजलनिधिपयसि शङ्खकान्तिकामुके निमज्जति कुमुदिनीनायके, शिशिरकर्दमितकुमुदपरागमध्यबद्धचरणेषु, षट्चरणेषु, कलप्रलापबोधितचकिताभिसारिकासु सारिकासु, प्रबुद्धाध्यापककर्मठेषु मठेषु, भासरागमुखरकार्पटिकोपगीयमानकाव्यकथासु रथ्यासु, सकलनिपीतनिशातिमिरसंघातम् अतितनीयस्तया सोढुम् असमर्थेष्व् इव कज्जलव्याजाद् उद्वमत्सु, कामिमिथुननिधुवनलीलादर्शनार्थम् इवोद्ग्रीविकाशतदानखिन्नेषु, विविधबुधाश्रयभवनविचित्रसुरतक्रीडासाक्षिषु, शरणागतम् इवाधोनिलीनं तिमिरम् अवत्सु, दुर्जनवचनेष्व् इव दग्धस्नेहतया मन्दिमानम् उपगतेषु, अतिवृद्धेष्व् इव दशान्तम् उपगतेषु, विपन्नसदीश्वरेष्व् इव पात्रमात्रशेषेषु, दानवेष्व् इव निशान्तपथचारिषु, अस्तगिरिशिखरेष्व् इव पतितपतङ्गेषु, प्र्दीपेषु, अनवरतमकरन्दबिन्दुसंदोहमोहमुखरमधुकरनिकुरुम्बहुंकारमुखरितेषु, म्लानिमानम् उपगच्छत्सु वासागारकुसुमोपहारेषु, विगलितकुन्दैर् अलकैः प्रियविरहशोकाद् बाष्पबिन्दून् उत्सृजद्भिर् इव प्रियतमगमननिषेधम् इव कुर्वतीषु वाचालतुलाकोटिभिश् चरणपल्लवैर् विलसितासु, रजनिशेषसुरतपरिश्रमविगलितकेशपाशदरदलितमालतीमालापरिमललुब्धमुखरमधुकरनिकुरुम्बपक्षानिलपीतनिदाघजलशीकरकणासु, उद्वेल्लद्भुजवल्लीझणत्कारसुभगासु, [नव]नखपददष्टकेशनिर्मोकवेदनाकृतसीत्कारविनिर्गतदुग्धमुग्धदशनकिरणच्छटाधवलितभोगवासासु, पुनर्दर्शनपृच्छाविधुरसखीजनानुक्षणवीक्ष्यमाणप्रियतमासु, क्षणदागतसुरतवैयात्यवचनशतसंस्मारकगृहशुकचाटुव्याहृतिक्षणजनितमन्दाक्षासु, शरद्वासरलक्ष्मीष्व् इव नखालङ्कृतपयोधरासु, आसन्नमरणास्व् इव जीवितेशपुराभिमुखीषु, वसन्तवनराजिष्व् इवोत्कलिकाबहुलासु, प्रियैर् आलिङ्ग्यमानासु कामिनीषु, आन्दोलितकुसुमकेसरे, केशरेणुमुषिरणितमधुकरमणीनां रमणीनां, विकचकुमुदाकरे मुदाकरे सङ्गभाजि, प्रियविरहितासु रहितासु सुखेन मुर्मुरम् इव वर्षति समन्ताद् अर्पके दर्पकेषु दहनस्य, दूरप्रसारितकोकप्रियतमारुते मारुते वहति, जघनमदननगरतोरणेन, मन्मथमहानिधिमन्दिरकनकप्राकारेण, रोमलतालवालवलयेन, गगनचन्द्रमण्डलपरिवेषेण, त्रिभुवनविजयप्रशस्तिरोमावलीकनकपत्रेण, सकलजनहृदयबन्दीनिवासपरिखावलयेन, जगल्लोचनविलासशलाकागुणेनेव मेखलादाम्ना परिकलितजघनस्थलाम्, उन्नतपयोधरभारान्तरितमुखदर्शनाप्राप्तिखेदेनेव गुरुनितम्बपयोधरकुम्भपीडाजनितायासेनेव, पयोधरकलशयोः कथं मय्य् एव पातो भविष्यतीति चिन्तयेव, गृहीतगुरुकलत्रानुशयेनेव, विधातुर् अतिपीडयतो हस्तपरामर्शजनितपरिक्लेशेनेव क्षीणतरताम् उपगतेन मध्यभागेनालङ्कृताम्, अनुरागरत्नमयकनकपरुवकाभ्यां चूचुक[मुद्रा]सनाथाभ्याम्, अतिगुरुपरिणाहतया पतनभयखिल्लिताभ्याम् इव चूचुकच्छलेन विधिना इव कीलिताभ्यां, सकलावयवनिषिक्तशेषलावण्ययुक्ताभ्यां, [हृदय]तटाककमलाभ्यां [इव] हृच्छयचातुरिकाविभ्रमाभ्यां, रोमावलीलताफलाभ्यां, कन्दर्पदर्पवर्धनवशीकरणचूर्णपूर्णसमुद्राभ्यां, अशेषजनहृदयपतनसञ्जातगौरवाभ्यां, संसारमहातरुफलाभ्यां, यौवनमहापादपप्रसवाभ्यां, हारलतामृणाललोभनीयचक्रचाकाभ्यां, हारलतारोमावलीसङ्गमव्याजप्रयागतरुफलाभ्यां, त्रिभुवनविजयपरिश्रमखिन्नस्य मकरकेतोर् विजनवासगृहाभ्याम् उद्भासमानां स्तनभ्यां, मुखचन्द्रसंततसंनिहितसन्ध्यारागेण, दन्तमणिरक्षासिन्दुरमुद्रानुकारिणा, निःसरता हृदयानुरागेणेव रञ्जितेन, रागसागरविद्रुमशकलेनेवाधरपल्लवेनोपशोभमानां, तरुणकेतकदलद्राघीयसा पक्ष्मलचटुलालसेन हृदयावासगृहावस्थितस्य हृच्छयविलासिनो गवाक्षशङ्काम् उपजनयता, सरागेणापि निर्वाणं जनयता, गतिप्रसररोधकश्रवणकृतकोपेनेवोपान्तलोहितेन धवलयतेव जगदशेषं, उत्फुल्लकमलकाननसनाथम् इव गगनं कुर्वता, दुग्धाम्भोनिधिसहस्राणीवोद्वमता, कुन्दलीलोत्पलमालतीमालालक्ष्मीम् उपहसता नयनयुगलेन विभूषितां, दशनरत्नतुलादण्डेन नयनसेतुसमुद्धतबन्धेन यौवनमन्मथवारणवरण्डकेनेव नासावंशेन परिष्कृता, विलोचनकुवलयभ्रमरपङ्क्तिभ्यां मुखमदनमन्दिरतोरणाभ्यां, रागसागरवेणिकाभ्यां, यौवननर्तकलासिकाभ्यां भ्रूलताभ्यां विराजितां, घनसमयाकाशलक्ष्मीम् इवोल्लसच्चारुपयोधरां, जयघोषणापन्नजनताम् इवोल्लसत्तुलाकोटिप्रतिष्ठितां, सुयोधनधृतिम् इव कर्णविश्रान्तलोचनां, वामनलीलाम् इव दर्शितवलिभङ्गां, वृश्चिकरविस्थितिम् इवातिक्रान्तकन्यातुलां, उषाम् इवानिरुद्धदर्शनसुखां, शचीम् इव वन्दनेक्षणरुचिं, पशुपतिताण्डवलीलाम् इवोल्लसच्चक्षुःश्रवसं, अटवीम् इवोत्तुङ्गश्यामलकुचां, वानरसेनाम् इव सुग्रीवाङ्गशोभितां, शनैश् चरेण पादेन सौम्येन दर्शनेन गुरुणा नितम्बेन, लोहितेनाधरेण विकचेन विलोचनेन भास्वतालङ्कारेण, ग्रहमयीम् इव संसारभित्तिचित्रलेखाम् इव त्रैलोक्यसौन्दर्यसङ्केतभूमिम् इव रसाञ्जनसिद्धिम् इव यौवनस्य, संकल्पवृत्तिम् इव शृङ्गारस्य, निधानम् इव कौतुकस्य, विजयपताकाम् इव मकरध्वजस्य, अभिभूतिम् इव मदनकान्ताभ्याः, सङ्केतभूमिम् इव लावण्यस्य, स्तंभनचूर्णम् इवेन्द्रियाणां, मोहनशक्तिम् इव मन्मथस्य, विहारस्थलीम् इव सौन्दर्यस्य, एकायतनशालाम् इव सौभाग्यस्य, उत्पत्तिस्थानम् इव कान्तेः, [आकर्षणमन्त्रसिद्धि]म् इव मनसः, चक्षुर्बन्धनमहौषधिम् इव मन्मथेन्द्रजालिनः, त्रिभुवनविलोचनमृष्टिम् इव प्रजापतेः कन्यकाम् अष्टादशवर्षदेशीयाम् अपश्यत् स्वप्ने ।

६) अथ तां प्रीतिविस्तारितेन पिबन्न् इव चक्षुषा, जनितेर्ष्ययेव निद्रया चिरसेवितया मुमुचे । विबुद्धस् तु विषसरसीव दुर्जनवचसीव निमग्नम् आत्मानम् अवधारयितुं न शशाक । तथा हि क्षणम् आकाशतलालिङ्गनार्थं प्रसारितबाहुयुगलः "एह्य् एहि प्रियतमे, मा गच्छ मा गच्छेति" दिक्षु विदिक्षु च विलिखिताम् इवोत्कीर्णाम् इव चक्षुषि निखाताम् इव हृदये प्रियाम् आजुहाव । ततस् तत्रैव शय्यातले निलीनो निषिद्धाशेषपरिजनदर्शनो दत्तकपाटः परिहृतताम्बूलाहारादिसकलोपभोगस् तं दिवसम् अनयत् । तथाइव निशाम् अपि स्वप्नसमागमेच्छाभिर् अनैषीत् ।

७) अथ तस्य प्रियसखो मकरन्दो नाम कथम् अपि लब्धप्रवेशः कन्दर्पसायकप्रहारविवशं कन्दर्पकेतुम् उवाच । "सखे, किम् इदम् असाम्प्रतम् असाधुजनोचितचरितम् आश्रितोऽसि? तवैतद् आलोक्य [चरितं] वितर्कदोलासु निवसन्ति सन्तः । खला(ः) पुनस् तत् तद् अनिष्टम् अनुचितम् एवावधारयन्ति । अनिष्टोद्भावनरसान्तरं खलहृदयं भवति । को नामास्य तत्त्वनिरूपणे समर्थः । तथा हि भीमोऽपि न बकद्वेषी, आश्रयाशोऽपि मातरिश्वा, अतिकटुर् अपि महारसः, सर्षपस्नेह इव करयुगलालितोऽपि शिरसा धृतोऽपि न काटवं जहाति । तालफलरस इवापातमधुरः परिणामविरसस् तिक्तश् च । पादपराग इवाधूतोऽपि मूर्धानां कषाययति । विषतरुप्रसव इव यथा यथानुभूयते तथा तथा मोहम् एव द्रढयति । न वारिविरहोऽस्य जायते नीचदेशस्येव । निदाघदिवस इव मत्सरो वहति संतापं सुमनसाम् । अन्धकार इव दोषानुबन्धचतुरः विश्वकर्मावलोपनोद्यतः । विरूपाक्षोऽपि चक्रधरः, शक्रश् च इवोच्चैःश्रवाः नदेशजप्रशंसी च । शरस्येव निर्भिन्नस्यापि सतः स्नेहं दर्शयति । तक्राट इव हृदयं विलोडयति । यक्षबलिर् इवात्मघोषमुखरो मण्डलभ्रमणकथकश् च । मत्तमातङ्ग इव स्ववशालोलमुखोऽधरीकृतदानश् च । वृषभ इव सुरभियानविकलः कामीव गोत्रस्खलनविधुरो वामाध्वानुरक्तश् च । अजीर्णविकार इव कलेवरेऽपि वचसि मन्दिमानम् आवहति । वञ्चक इव रक्तः कटुकफलेन विभावरीरक्तश् च । परेत इव बन्धुतापदर्शनः । परशुर् इव भद्रश्रियम् अपि खण्डयति । कुद्दाल इव दलितगोत्रः क्षमाभाजः प्राणिनो निकृन्तति । रतकील इव जघन्यकर्मलग्नोऽपि ह्रेपयति साधून् । दुष्टशूर्पश्रुतिर् इव काननरुचिर् अनुगतम् अपि यवसं ततं नानुमोदते । अबीजाद् एव जायन्तेऽकाण्डात् प्रसरन्ति खलव्यसनाङ्कुराः दुरुच्छेदाश् च भवन्ति । असतां हृदि प्रविष्टो हि दोषलवः करालायते, सतां न विशत्य् एव हृदयम्, भूयो यदि कथम् अपि विशति तदा पारद इव क्षणमात्रं न तिष्ठति । मृगा इव [विनोद]बिन्दोः श्रमगाः भवन्ति साधवः । सुखं जना हि भवादृशाः शरत्समया इव हरन्ति न च मित्रस्य सचेतना विसदृशम् उपदिशन्ति । अचेतनानाम् अपि मैत्री समुचितपक्षनिक्षिप्ता । [तथा हि] माधुर्यशैत्यशुचित्वतापशान्तिभिः पयः पय इति निमित्तताम् उपगतस्य दुग्धस्य मत्समागमाद् वर्धितस्य क्वाथे पुरो ममैव क्षयो युक्त इति विचिन्त्येव वारिणापि क्षीयते । तद् इदम् असांप्रतम् आचरितम् । सखे गृहाण साधुजनोचितम् अध्वानम् । साधवो हि मोहात् परम् उत्पथप्रवृत्ता भवन्तीत्यादि" वदति तस्मिन् कथम् अपि स्मरप्रहारपरवशः परिमिताक्षरम् उवाच [कन्दर्पकेतुः] । "वयस्य, दितिर् इव शतमन्युसमाकुला भवति सज्जनचित्तवृत्तिः । नायम् उपदेशकालः । पच्यन्त इवाङ्गानि क्वथ्यन्त इवेन्द्रियाणि । भिद्यन्त इव मर्माणि । निःसरन्तीव प्राणाः । उन्मूल्यन्त इव विवेकाः । नष्टेव स्मृतिः । तद् अधुना यदि त्वं सहपांसुकृईडितसमदुःखसुखोऽसि तदा माम् अनुगच्छेत्य्" उक्त्वा परिजनालक्षितस् तेन सहैव पुरान् निर्जगाम ।

८) अनन्तरं कतिपयनल्वशतम् अध्वानं गत्वागस्त्यवचनसमाहृतब्रह्माण्डगतशिखरसहस्रः, कन्दरान्तरलतागृहसुखप्रसुप्तविद्याधरमिथुनगीताकर्णनसुखितचमरीगणमारणोत्सुकितशबरशतसंबाधकक्षतटः, कटककरिकराकृष्टभग्नस्यन्दमानहरिचन्दनामोदवाहिगन्धवाहसुरभितशिलातलः, सुदूरपतनभग्नतालफलरसार्द्रकरतलास्वादसोत्सुकशाखामृगकदम्बकः, प्रलम्बमाननिर्झरवरसविधोपविष्टजीवंजीवकमिथुनलिह्यमानविविधफलरसामोदसुरभितपरिसरः, सरभसकेसरिसहस्रखरनखरधाराविदारितमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलशबलशिखरतया शिरोलग्नं तारागणम् इवोद्वहन्, सुग्रीव इव ऋक्षगवयशरभकेसरिकुमुदसेव्यमानपादच्छायः, पशुपतिर् इव नागनिःश्वाससमुत्क्षिप्तभूतिः, जनार्दन इव विचित्रवनमालः, सहस्रकिरण इव सप्तपत्रस्यन्दनोपेतः, विरूपाक्ष इव सन्निहितगुहः शिवानुगतश् च, कामीव कान्तारोषरसानुगतः समदनश् च, श्रीपर्वतः इव सन्निहितमल्लिकार्जुनः, नरवाहनदत्त इव प्रियङ्गुश्यामासनाथः, शिशुर् इव कृतधात्रीधृतिः, वासरारम्भ इवारुणप्रभापाटलितपत्रवनराजिः, कृष्णपक्ष इव बहुलतागहनः, कर्ण इवानुभूतशतकोटिदानः, भीष्म इव शिखण्डिमुक्तैर् अर्धचन्द्रै राचितः, कामसूत्रविन्यास इव मल्लनागघटितकान्तारसामोदितः, हिरण्यकशिपुर् इव शम्बरकुलाश्रयः, गैरिकरागव्याजाद् उपरिरविरथमार्गमार्गणार्थम् इवारुणेनोपास्यमानः, शिखरगतसूर्याचन्द्रमस्तया विस्तारितविलोचनोऽगस्त्यमार्गम् इवोद्वीक्षमाणः, स्रस्तान्त्रनाल इव जरदजगरभोगैः, कुम्भकर्ण इव दन्तान्तरालगतवानरव्यूहः, पिण्डालक्तकाङ्कितपदपङ्क्तिसूचितसञ्चरितशचीपतिवारविलासिनीसङ्केतकेतकीमण्डपः, अकुलीनोऽपि सद्वंशभूषितः, दर्शिताभयोऽपि मृत्युफलदायी, सप्रस्थोऽप्य् अपरिमाणः, सनदोऽपि निःशब्दः, भीमोऽपि कीचकसुहृत्, पिहिताम्बरोऽप्य् उल्लसदंशुको विन्ध्यो नाम महागिरिर् अदृश्यत ।

९) यश् च प्रवृद्धगुल्मतयैवेह दृश्यमानबहुधातुविकारः, साधुर् इव सानुग्रहप्रचारप्रकटितमहिमा, मीमांसान्याय इव पिहितदिगम्बरदर्शनः । यश् च हरिवंशैर् इव पुष्करप्रादुर्भावरमणीयैः, राशिभिर् इव मीनमिथुनकुलीरसङ्गतैः, करणैर् इव शकुनिनागभद्रबालबकुलोपेतैः खातकैर् उपशोभितोपान्तः । यश् च कुसुमविचित्राभिः, वंशपत्रपतिताभिः, सुकुमारललिताभिः पुष्पिताग्राभिः शिखरिणीभिः प्रहर्षिणीभिर् लताभिर् दर्शितानेकवृत्तविलासः । यश् च समदकलहंससारसरसितोद्भ्रान्तभाकूटविकटपुच्छकच्छव्याधूतविकचकमलखण्डविगलितमकरन्दबिन्दुसन्दोहसुरभितसलिलया, सायन्तनसमयोन्मज्जद्राजसुन्दरिनाभिमण्डलनिपीतसलिलया, मदमुखरराजहंसकुलकोलाहलमुखरितकूलपुलिनया, तटनिकटमत्तमातङ्गगण्डपिण्डनिर्गतमदधारास्तबकितसलिलया, तीरप्ररूढकेतकीकानननिपतितधूलीनिकुरुम्बजातसैकतसुखोपविष्टतरुणसुरमिथुननिधुवनलीलापरिमलसाक्षिकूलोपवनया, तटावटनिकटनिपतितजम्बूखण्डमण्डपावस्थितजलदेवतावगाह्यमानपयसा, तीरप्ररूढवेतसलताभ्यन्तरनिलीनदात्यूहव्यूहमदकलकुहकुहारावकौतुकाकृष्टसुरमिथुनसंस्क्रियमाणोपभोगया, उपकूलसञ्जातकुलालकुक्कुटघटाघूत्कारतीरया, जलमानुषमृदितसुकुमारपुलिनया, उपवनवातान्दोलिततरलतरङ्गया, नलनिकुञ्जपुञ्जनिविष्टबकोटककुटुम्बिनीनिरीक्ष्यमाणार्द्धशफरया, पोताधानलुब्धककोयष्टिकस्कभनभीमवेतसवनया, तरङ्गमालासन्तरदुद्दण्डपालदर्शनधावदतिचपलराजिलराजिराजितोपकूलसलिलया, खञ्जरीटकणाटीनमिथुनमैथुनोपजातनिधिग्रहणकौतुककिरातशतखन्यमानतीरया, क्रुद्धयेव दर्शितमुख्भङ्गया, मत्तयेव स्खलद्गत्या, दिनारम्भलक्ष्म्येव वर्धमानवेलया, भारतसमरभूम्येव नृत्यत्कबन्धया, प्रावृषेव विजृम्भमाणशतपत्रपिहितविषधरया, धनकामयेव कृतभूभृत्सेवया रेवया प्रियतमयेव प्रसारितवीचिहस्तोपगूढः । यश् च

हरिखरनखरविदारितकुम्भस्थलविकलवारणध्वानैः ।
अद्यापि कुम्भसम्भवम् आह्वयतीवोच्चतालभुजः ॥ सु-वास१४ ॥

ततो मकरन्दस् तम् उवाच॒

पश्योदञ्चदवाञ्चदञ्चितवपुःपश्चार्धपूर्वार्धभाक् स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् ।
दंष्ट्राकोटिविसङ्कटास्यकुहरः कुर्वन् सटाम् उत्कटाम् उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केसरी ॥ सु-वास१५ ॥

अपि च

उत्कर्णोऽयम् अकाण्डचण्डिमकुटः स्फारत्स्फुरत्केसरः क्रूराकारकरालकायविकटः स्तब्धोर्ध्वलाङ्गूलभृत् ।
चित्रेणापि न शक्यते विलिखितुं सर्वाङ्गसङ्कोचभाक् चीत्कुर्वद्गिरिकुञ्जकुञ्जरशिरः कुम्भस्थलस्थो हरिः ॥ सु-वास१६ ॥

१०) अनन्तरं च नीचदेशनद्येव न्यग्रोधोपचितया, उत्तरगोग्रहणसमरभूम्येव विजृम्भितबृहन्नलया, मरुदेशटक्कयात्रयेव घनसारसार्थवाहिन्या, विदग्धमधुगोष्ठ्येव नानाविटपीतासवया, नलकूबरचित्तवृत्त्येव सततधृतरम्भया, मत्तमातङ्गगत्येव घण्टारवविदितमार्गया, सदीश्वरसेवयेव दूरोद्गतबहुफलया, विराटलक्ष्म्येव आनन्दितकीचकशतया विन्ध्याटव्या कतिपयपदं गत्वा, कामिन इव मदनशलाकाङ्कितस्य, विकर्तनस्येव स्निग्धच्छायस्य, वैकुण्ठस्येव लक्ष्मीभृतः, यात्रोद्यतनृपतेर् इव घनपत्रशोभितस्य, वेदस्येव भूरिशाखालङ्कृतस्य, गाणिक्यस्येवानेकपल्लवोज्ज्वलस्य, जम्बूवृक्षस्य तलच्छायायां विशश्राम ।

११) अत्रान्तरे भगवान् अपि मरीचिमाली आतपक्लान्तमत्तमहिषलोचनपाटलमण्डलश् चरमाचलशृङ्गम् आरुरोह ।

१२) ततो मकरन्दः फलमूलान्य् आदाय कथम् अपि तम् अभिनिन्दिताहारपरिचयम् अकार्षीत् । स्वयं च तदुपभुक्तशेषम् अशनम् अकरोत् । अथ ताम् एव प्रियतमां हृदयफलके संकल्पतूलिकया लिखिताम् अवलोकयन् निष्यन्दकरणग्रामः कन्दर्पकेतुर् मकरन्दविरचितपल्लवशयने सुष्वाप । अथार्धयाममात्रखण्डितायां विभावर्यां तत्र जम्बूतरुशिखरे मिथः कलहायमानयोः शुकशारिकयोः कलकलं श्रुत्वा, कन्दर्पकेतुर् मकरन्दम् उवाच । "वयस्य श्रुणुवस् तावद् एतयोर् आलापम्" इति । ततः सारिका प्रकोपतरलाक्षरम् उवाच । "कितव शारिकान्तरम् अन्विष्य समागतोऽसि, कथम् इतरथा रात्रिर् इयती तवेति" । तच् छ्रुत्वा शुकस् ताम् अब्रवीत् । "भद्रेऽपूर्वा मया कथा श्रुता" । अथ समुपजातकुतूहलयानुबध्यमानः स कथयितुम् आरेभे ।


१३) अस्ति प्रशस्तसुधाधवलैः बृहत्कथालम्बैर् इव शालभञ्जिकोपशोभितैः, वृत्तैर् इव समाणवकक्रीडितैः, करियूथैर् इव समत्तवारणैः, सुग्रीवसैन्यैर् इव सगवाक्षैः, बलिभवनैर् इव सुतलसन्निवेशैर् वेश्मभिर् उद्भासितं, धनदेनापि प्रचेतसा, प्रजापालेनापि रामेण, प्रियंवदेनापि पुष्पकेतुना, भरतेनापि शत्रुघ्नेन, तिथिपरेणाप्य् अतिथिसत्कारप्रवणेन, असङ्ख्येनापि सङ्ख्यावता, मर्मभेदेनापि वीरतरेण, अपतितेनापि नानासवासक्तेन, सुदर्शनेनाप्य् अचक्रेण, अज्ञातमदेनापि सुप्रतीकेन, अपक्षपातिनापि हंसेन, अविदितस्नेहक्षयेणापि कुलप्रदीपेन, अग्रहेणापि काव्यजीवज्ञेन, निदाघदिवसेनेव वृषवर्धितरुचिना, माघविरामदिवसेनेव तपस्यारम्भिना, नभस्वतेव सत्पथगामिना, विवस्वतेव गोपतिना, महेश्वरेणेव चन्द्रं दधता निवासिजनेनानुगतं, घनाघनेनेव प्रवालमणिमण्डलेन, देवाङ्गनाजनेनेवेन्द्राणीपरिचितविदग्धेन, वनगजेनेव नवपल्लवपल्लवितरुचिना, कोकिलेनेव परपुष्टेन, भ्रमरेणेव कुसुमेषु लालितेन, जलौकेनेव रक्ताकृष्टिनिपुणेन, यायजूकेनेव सुरतार्थिना, महानटबाहुनेव बद्धभुजङ्गेन, गरुडेनेव विलासिहृदयतापकारिणा, अन्धासुरेणेव शूलानाम् उपरिगतेन वेश्याजनेनाधिष्ठितं कुसुमपुरं नाम नगरम् ।

१४) यत्र च सुरासुरमौलिमणिमालालालितचरणारविन्दा, शुम्भनिशुम्भबलमहावनदावानलज्वाला, महिषमहासुरगिरिवरवज्रधारा, प्रणयप्रणतगङ्गाधरजटाजूटस्खलितजाह्नवीजलधाराधौतपादपद्मा भगवती कात्यायनी चण्डाभिधाना स्वयं निवसति । यस्य परिसरे सुरासुरमुकुटकुसुमरजोराजिपरिमलवाहिनी, प्रजापतिकमण्डलुधर्मद्रवधारा, धरातलगतसगरसुतशतसुरनगरसमारोहणपुण्यरज्जुः, ऐरावणकटकमठकम्पिततटा, हरिचन्दनस्यन्दनसुरभितसलिला सलीलसुरसुन्दरीनितम्बबिम्बाहतितरलिततरङ्गा, स्नानावतीर्णसप्तर्षिमालाविमलजटाटवीपरिमलपुण्यवेणिः, एणतिलकमुकुटजटाजूटकुहरभ्रान्तिजनितसंस्कारतयैव कुटिलावर्ता, धरणीव सार्वभौमकरस्पर्शोपभोगक्षमा, जलदकालसरसीव गन्धान्धोपरिभ्रमद्भ्रमरमालानुमीयमानजलमग्नकुमुदपुण्डरीका, छन्दोविचितिर् इव मालिनीसनाथा, ग्रहपङ्क्तिर् इव सूर्यात्मजोपशोभिता सराजहंसा च, शरत्कालदिनश्रीर् इवोज्ज्वलत्कोकनदा प्रबुद्धपुण्डरीकाक्षा च, हतान्धतमसापि तमसान्विता, [वीचिकलिताप्य् अवीचिदुर्गमा] भगवती भागरथी प्रवहति ।

१५) [यच् च] दिशि दिशि कुसुमनिकरम् इव तारागणम् उद्वहद्भिः, उत्तम्भितजलदैः, अनूरुकशाभिघातपरवशरविरथतुरगग्रासविषमितपल्लवैः, चन्द्रचमूरुरुचिरचरणसङ्क्रान्तामृतकणनिकरसेकसञ्जातबहलसुकुमारनवकिसलयसहस्रकलिताकालसन्ध्याविभ्रमैः, भरतचरितैर् इव सदारामाश्रितैः, महावीरैर् इव नारिकेलधरैः, असंस्कृततरुणैर् इव दूरप्रसारिताक्षैः, तपस्विभिर् इव जपासक्तैः, प्रसाधितैर् इव मालोपशोभितैः, मातङ्गकुम्भस्थलदारणोद्यतसिंहैर् इवोत्कर्णकेसरैः, सारिष्टैर् अपि चिरजीविभिः, मुनियुतैर् अपि मदनाधिष्ठितैः, उपवनपादपैर् उपशोभितं, अदितिजठरम् इवानेकदेवकुलाध्यासितं, पातालम् इव महाबलिशोभितं भुजङ्गाधिष्ठितं च, सुरालयैर् अपि पवित्रं, भोगिभिर् अपि निरुपद्रुतम् ।

१६) तत्र च सुरतभरखिन्नसुप्तसीमन्तिनीरत्नताटङ्कमुद्राङ्कितबाहुदण्डः, प्रचण्डप्रतिपक्षलक्ष्मीकेशपाशकुसुममालामोदसुरभितकरकमलः, प्रशस्तकेदार इव बहुधान्यकार्यसंपादकः, पार्थ इव सुभद्रान्वितः सभीमसेनश् च, कृष्ण इव सत्यभामोपेतः शृङ्गारशेखरो नाम राजा प्रतिवसति । यो बलभित् पावको धर्मराण् निरृतिः प्रचेताः सदागतिर् धनदः शङ्कर इत्य् अष्टमूर्तिर् अप्य् अनष्टमूर्तिः ।

सुराणां पातासौ स पुनर् अतिपुण्यैकहृदयो ग्रहस् तस्यास्थाने गुरुरुचितमार्गे स निरतः ।
करस् तस्यात्यर्थं वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणम् इव सुरेशं विजयते ॥ सु-वास१७ ॥
जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुर् आसीद् गतासुर् लक्षाप्तिर् मार्गणानाम् अभवद् अरिबले तद् यशस् तेन लब्धम् ।
मुक्ता तेन क्षमेति त्वरितम् अरिगणैर् उत्तमाङ्गैः प्रतीष्टो पञ्चत्वं द्वेषिसैन्ये स्थितम् अवनिपतिर् नाप सङ्ख्यान्तरं सः ॥ सु-वास१८ ॥

१७) यत्र च राजनीतिचतुरे चतुरम्बुधिमेखलाया भुवो नायके शासति वसुमतीं पितृकार्ये वृषोत्सर्गः, शशिनः कन्यातुलारोहः, योगेषु शूलघातादिचिन्ता, दक्षिणवामकरणं दिग्विनिश्चयेषु, शरभेदो दधिषु, शृङ्खलाबन्धो वर्णग्रथनासु, उत्प्रेक्षाषेपः काव्यालङ्कारेषु, लक्षदानच्युतिः सायकानां, क्विपां सर्वविनाशः, कोशसङ्कोचः कमलाकरेषु, जातिहीनता दुष्कुलेषु न पुष्पमालासु, शृङ्गारहानिर् जरत्करिषु न जनेषु, दुर्वर्णयोगः कम्बिकादिषु न कामिनीकान्तिषु, गान्धारविच्छेदो रागेषु न पौरवनितासु, मूर्च्छाधिगमो गानेषु, खर्माभावो नीचसेवकेषु न परिधानेषु, मलिनाम्बरत्वं निशासु न जनेषु, चलरागता गीतेषु न विदग्धजनेषु, वृषहानिः निधुवनलीलासु न पौरेषु, भङ्गुरत्वं रागविकृतिषु न चित्तेषु, अनङ्गता कामदेवे न परिजने, मारागमो यौवनोदयेषु न प्रकृतिषु, द्विजघातः सुरतेषु न प्रजासु, रशनाबन्धो रतिकलहेषु न दानानुमतिषु, अधररागता तरुणीषु न परिजनेषु, कर्तनम् अलकभ्रूषु न पुरन्ध्रीषु, निस्त्रिंशत्वम् असीनां, करवालनाशो योधानां परं व्यवस्थितः ।

१८) तस्य च महिषी दिग्गजमदलेखेवानन्दितालिमाला, पार्वतीव सुकुमारा चन्द्रलेखालङ्कृता च, वनराजिर् इव नवमालिकोद्भासिता सचित्रका च, अप्सरस्संहतिर् इव संहतसुकेशी समञ्जुघोषा च, सर्वान्तःपुरप्रधानभूता आनङ्गवती नाम । तयोश् च मध्यमोपान्तवयसि वर्तमानयोः कथम् अपि दैव(व)शात् त्रिभुवनविलोभनीयाकृतिः, पुलोमतनयेवानन्दितसहस्रनेत्रा वासवदत्ता नाम [तनया] बभूव । अथ सा रावणभुजवन इवोल्लासितगोत्रेव परिणामम् उपयात्य् अपि यौवनभावे परिणयपरङ्मुखी तस्थौ ।

१९) अथैकदा तु विजृम्भमाणसहकारकोरकनिकुरुम्बनिपतितमधुकरमालामदहुङ्कारजनितपथिकसंज्वरः, कोमलमलयमारुतोद्भूतचूतप्रसवसरसास्वादकषायकण्ठकलकण्ठकुहरितभरितसकलदिङ्मुखः, विकचकमलखण्डलीयमानमत्तकलहंसकुलकोलाहलमुखरितकमलसरोवरः, परभृतनखकोटिपाटितपाटलकुड्मलविवरविनिर्गतमधुधारासारशीकरकणनिकरसमारब्धदक्षिणसमीरबाणदुर्व्रणितपथिकवधूहृदयः, मधुमदमुदितकामिनीगण्डूषसीधुसेकपुलकितबकुलः, मदनरयपरवशविकासिनीतुलाकोटिविकटचटुलचरणारविन्दामन्दप्रहारहृष्टकङ्केलिशतः, प्रतिदिशम् अश्लीलप्रायगीयमानश्रवणोत्सुकखिङ्गजनप्रायप्रारब्धचर्चरीगीताकर्णनमुह्यदनेकपथिकशतः, दुर्जन इव सतामरसः, दुष्कुल इव जातिहीनः, रावण इवापीतलोहितपलाशशतसेवितः, महाशृङ्गारीव सुगन्धवहः, सुराजेव समृद्धकुवलयः, वास्तविक इव वर्धितसुखाशः, सत्कविकाव्यबन्ध इवाबद्धतुहीनः, सत्पुरुष इव दोषानुबन्धरहितः, कैवर्त इव बद्धराजीवोत्पलमालः, समृद्धकासारशकुनिसार्थ इव निन्दितमरुवकः, शक्र इवेन्द्राणीरुचितः, महावीर इवाधरीकृतदमनकः, खिङ्ग इवाम्लानसुभगो वसन्तकाल आजगाम ।

२०) अतिदूरप्रवृद्धेन मधुना जगति को वा न विक्रियते यद् अतिमुक्तोऽपि मुनिर् अपि विचकास । कुसुमशरस्य नवचूतशरमूलनिलीनमधुकरावलि पत्रेणेव रेजे । वृन्तनिर्गतविचकिलविवरे गुञ्जन्मधुकरो मकरकेतोस् त्रिभुवनविजयशङ्खध्वनिम् इव चकार । नवयावकपङ्कपल्लवितसनूपुरतरुणीचरणप्रहारानुरागवशान् नवकिसलयच्छलेन तम् एव रागम् उदवहद् अशोकपादपः । मधुरमधुध्वनितकामिनीमुखकमलसङ्गानुरागाद् इव तद्रसम् आत्मकुसुमेषु बिभ्रद् बकुलतरू रराजत । अन्तरान्तरानिपतितमधुकरनिकरकिर्मीरः कङ्केलिगुच्छोऽर्धनिर्वाणमनोभवचिताचक्रानुकारी पथिकजनदाहम् उवाह । विकचविचकिलराजिर् अलिकुलशबलेन्द्रनीलमुक्तावलीव मधुश्रियो रुरुचे । विरहिणीहृदयमथनाय कुसुमशरस्य चक्रम् इव नागकेसरकुसुमम् अशोभत । पथिकहृदयम् अस्त्यं ग्रहीतुं मकरकेतोः पलाव इव पाटलिपुष्पम् अदश्यत ।

२१) कन्दर्पकेलिसंपल्लम्पटलाटीललाटतटविकटधम्मिलमलनमिलितपरिमलसमृद्धमधुरिमगुणः, कामकलाकलापचारुसुन्दरीसुन्दरस्तनकलशघुसृणधूलिपरिमलामोदवाही, रणरणकरसितकान्तकुन्तलीकुन्तलोल्लासनसङ्क्रान्तपरिमलमिलितालिमाला मधुरतरझङ्कारमुखरितनभस्तलः, नवयौवनरागतरलकेरलीकपोलपालिपत्रावलीपरिचयचतुरः, चतुःषष्टिकलाकलापविदग्धमुखमालवीनितम्बबिम्बसंवाहकुशलः, सुरतश्रमवशाङ्घ्रीनीरन्ध्रपीनपयोधरभारनिदाघकणशिशिरितो मलयानिलो ववौ ।

२२) अत्रान्तरे वासवदत्तासखीजनाद् विदिताभिप्रायः शृङ्गारशेखरः स्वसुतास्वयंवरार्थम् अशेषधरणितलभाजां भूभुजां सङ्गतम् अकरोत् । ततो दग्धकृष्णागुरुपरिमलामोदितमधुव्रतमालाबहलगुमगुमायितमुखरितं, अतिरभसहासच्छटादीधितिपरिमिलितं, अनेककथालापविदग्धशृङ्गारमयजनसमाकुलं, दह्यमानसुगन्धसौरभाकृष्टपुरोपवनषट्पदकुलसमाकुलं, अर्जुनसमरम् इव नन्दिघोषमुखरितदिगन्तं मञ्चम् आरुरोह वासवदत्ता ।

२३) तत्र केचित् कलाङ्कुरा इव विजितनगरमण्डनाः, अपरे पाण्डवा इव दिव्यचक्षुःकृष्णागुरुपरिमिलिताः, अन्ये शरद्दिवसा इव दूरप्रवृद्धाशाः, इतरे प्य् आहर्तुम् उद्यता इव स्वबलार्थिनः, केचिद् व्याधा इव शकुनश्रावकाः, केचिद् आखेटिन इव रूपानुसारप्रवृत्ताः, केचिज् जैमिनिमतश्राविण इव तथागत[मत]ध्वंसिनः, केचित् खञ्जना इव सांवत्सरफलदर्शिनः, केचित् सुमेरुपरिसरा इव कार्तस्वरमयाः, केचित् कुमुदाकरा इव भास्वद्दर्शननिमीलिताः, केचिद् धार्तराष्ट्रा इव विश्वरूपावलोकनजनितेन्द्रजालोद्भूतप्रत्ययाः, केचिद् आत्मनिवारणबुद्ध्या बलवन्तोऽपि सुवाहाः, केचित् पाणिग्रहणार्थिनोऽप्य् असुकरं मन्यमानाः, केचिद् अधरीभूता (अ)पि स्थिराः, केचित् पाण्डुपुत्रा इवा[क्षहृदया]ज्ञानहृतक्षमाः, केचिद् बृहत्कथाबन्धिनो गुणाढ्याः, केचित् तिर्यग्गतयो गन्धवाहाः, केचित् कौरवसैनिका इव द्रोणाशासूचकाः, केचित् कुमुदाकरा इवासोढभासः क्षणम् एवं स्थिता राजपुत्राः । सा च क्षणेनैकैकशः समवलोक्य कुमारिका त(स्)मात् कर्णीरथाद् अवततार ।

२४) अथ सा तस्याम् एव रात्रौ स्वप्ने वालिनम् इवाङ्गदोपशोभितं, कुहूमुखम् इव हारिकण्ठं, कनकमृगम् इव रामाकर्षणनिपुणं, जयन्तम् इव वचनामृतानन्दितवृद्धश्रवसं, कृष्णम् इव कं सहर्षं न कुर्वन्तं, महामेघम् इव विलसत्करकं, [समुद्रम् इव] महासत्त्वं, मालिन्या कबरिकया, तुङ्गभद्रया नासिकया, शोणेनाधरेण, नर्मदया वाचा, गोदया भुजया स्वर्वाहिन्या कीर्त्या च पुण्यमयम् इव, आदिकन्दं शृङ्गारपादपस्य, रोहणगिरिं सकलगुणरत्नसमूहस्य, प्रभवशैलं सुन्दरकथानदीनां, सुरभिमासं वैदग्ध्यसहकारस्य, आदर्शतलं सौजन्यमुखस्य, आदिकन्दं विद्यालतानां, स्वयंवरपतिं सरस्वत्याः, स्पर्धागृहं कीर्तिलक्ष्म्योः, आदिगृहं शीलसंपदां, कोशम् इव महासौन्दर्यस्य त्रिभुवनलोभनीयाकृतिं युवानं ददर्श ।

२५) "स चिन्तामणिनाम्नो राज्ञस् तनयः कन्दर्पकेतुर् नामेति" सा स्वप्न एव नामादिकम् अश्रौषीत् । अनन्तरं "अहो प्रजापते रूपनिर्माणकौशलम् इदं, मन्ये स्वस्यैव नैपुण्यस्य सौन्दर्यदर्शनोत्सुकमनसा कमलभुवा जगत्त्रयसमवाये रूपपरमाणून् आदाद्य विरचितोऽयम् अन्यथा कथम् अयम् अस्य कान्तिविशेष" इति, "वृथैव दमयन्ती नलस्य कृते वन[वास]वैशसम् अवाप, मुधैवेन्दुमती महिष्य् अप्य् अजानुरागिणी बभूव, अफलम् इव दुष्यन्तस्य कृते शकुन्तलापि दुर्वाससः शापम् अनुबभूव, निरर्थकम् इव मदनमञ्जुका नरवाहनदत्तं चकमे, निष्कारणम् एवोरुगरिमनिर्जितरम्भा[रम्भा] नलकूबरम् अचीकमत, विफलम् एव धूमोर्णा स्वयंवरार्थगतदेवग्रहगन्धर्वसहस्रेषु धर्मराजम् अकाङ्क्षतेति" बहुधिया चिन्तयन्ती विरहमुर्मुरमध्यम् आरूढेव वाडवाग्निशिखा[कवलितेव], कालाग्निरुद्रपावकग्रस्तेव, पातालगुहाप्रविष्टेव, [शून्यकरण]ग्रामालिखितम् इव, उत्कीर्णम् इव, निगलितम् इव, वज्रलेपघटितम् इव, अस्तिपञ्जरप्रविष्टम् इव, मर्मान्तरास्थितम् इव, [मज्जारसशबलितम् इव], प्राणपरीतम् इव, अन्तरात्मानम् अधिष्ठितम् इव, रुधिराशयद्रवीभूतम् इव, पललसंविभक्तम् इव कन्दर्पकेतुं मन्यमाना, उन्मत्तेव, बधिरेव, मूकेव, शून्येव, निरस्तकरणग्रामेव, मूर्च्छागृहीतेव, ग्रहग्रस्तेव, यौवनसागरतरङ्गपरम्परापरिगतेव, रागरज्जुभिर् अपवारितेव, कन्दर्पकुसुमबाणैः कीलितेव, शृङ्गारविषघूर्णितेव, रूपपरिभावनशल्यखिल्लितेव, मलयानिलाहतजीवितेव "प्रियसख्य् आनङ्गलेखे वितर[मे] हृदये पाणिपादं दुःसहो विरहसन्तापः, मुग्धे मदनमञ्जरि सिञ्च चन्दनोदकेन, सरले वसन्तसेने संवृणु केशकलापपाशम्, तरले ऌअवङ्गवति विकिर केतकधूलिं, मालिनि अलं शैवलदलेन, चपले चित्रलेखे लिख चित्रे चित्तचोरं जनं, भामिनि विलासवति विक्षिप मुक्ताचूर्णनिकरम्, रागिणि ऋआगलेखे स्थगय नलिनीदलसमूहेन पयोधरभरम्, सुकान्ते कान्तिमति मन्दं मन्दम् अपनय बाष्पबिन्दून्, यू(थि)कालङ्कृते य़ू(थि)के सञ्चारय नलिनीदलार्द्रवातान्, एहि भगवति निद्रे अनुगृहाण माम्, धिग् इन्द्रियैर् अपरैः, किम् इति लोचनमयानि ममाङ्गानि विधिना न कृतानि, भगवन् कुसुमायुध तवायम् अञ्जलिर् अनुचरो, भव भाववति तादृशे जने, [मलयानिल] सुरतोत्कण्ठदीक्षागुरो वह यथेच्छम्" इति बहुविधं भाषमाणा वासवदत्ता सखीजनेन समं मुमूर्च्छ ।

२६) अनन्तरं परिजनप्रयत्नोच्छ्वासितजीविता च, क्षनम् अतिशिशिरघनसाररजोनिम्नगाकूलपुलिने, क्षनम् अतितुहिनजडमलयरजसः सरित्परिसरे, क्षणम् अरविन्दकाननपरिवारितसरस्तटविटपच्छायासु, क्षणम् अनिलोल्लासितदलेषु कदलीकाननेषु, क्षणं कुसुमशय्यासु, क्षणं नलिनीदलस्रस्तरेषु, क्षणं तुषारसंघातशिशिरितशिलातलेषु परिजनेन नीयमाना, प्रलयकालोदितद्वादशरविकिरणकलापतीव्रविरहाग्निदह्यमाना सती, अतिकृशां विप्राणाम् इव तनुं बिभ्रती, प्रचलदमन्दमन्दरान्दोलितदुःखसिन्धुतरलतरतरङ्गच्छटाधवलहासच्छुरिताधरपल्लवं तन्मुखारविन्दं, द्विजकुलम् इव श्रुतिप्रणयि तदीक्षणयुगलं, सहजसुरभिमुखपरिमलामोदम् आघ्रातुकामा सुदूरनिर्गतनासावंशलक्ष्मीः, कलङ्कमुक्तेन्दुकलाकोमला, पीयूषफेनपटलपाण्दुरास्यद्विजपङ्क्तिः, तददृष्टचरम् अनङ्गम् अतिशयानं रूपं, धन्यानि तानि [स्थानानि] ते च जनपदाः, पुण्यनामाक्षराणि च तानि सुकृतभाञ्जि यान्य् अमुना परिष्कृतानीति मुहुर् मुहुः परिभावयन्ती, दिक्षु विलिखितम् इव, नभस्य् उत्कीर्णम् इव, लोचने प्रतिबिम्बितम् इव, चित्रपटलिखितम् इव, पुरो दर्शितम् इवेतस् ततो विलोकयन्ती व्यतिष्ठत ।

२७) अथ तस्याः सारिका टमालिका नाम तत्सखीभिः सहालोच्य कन्दर्पकेतोर् भावम् आकलयितुं [प्र]स्थिता । आगता च मयैव सार्धम् अत्रैव तरोर् अधस् तिष्ठतीत्य्" उक्त्वा विरराम ।


२८) अथ सहर्षम् उत्थाय मकरन्दो विदितवृत्तान्तां टमालिकाम् अकरोत् । सा च कृतप्रणामा कन्दर्पकेतवे पत्रिकाम् उपानयत । अथ स तां स्वयम् अवाचयत ।

प्रत्यक्षदृष्टभावाप्य् अस्थिरहृदया हि कामिनी भवति ।
स्वप्नानुभूतभावा द्रढयति न प्रत्ययं युवतिः ॥ सु-वास१९ ॥

२९) तच् छ्रुत्वा कन्दर्पकेतुर् अमृतार्णवमग्नम् इव सर्वानन्दानाम् उपरि वर्तमानो मन्दं मन्दम् उत्थाय प्रसारितबाहुयुगलस् ताम् आलिलिङ्ग । अथ तयैव सार्धं समासीनः "किं वदति, किं करोति, कथम् आस्त" इत्यादि सकलं वृत्तान्तं पृच्छंस् तां निशां दिनम् अप्य् अतिवाह्य चचाल कन्दर्पकेतुः । अत्रान्तरे भगवान् अपि मरीचिमाली एनं वृत्तान्तम् इव कथयितुं मध्यमं लोकम् अवातरत् ।

३०) अथ वासरताम्रचूडचक्राकारः चक्रवाकचक्रसङ्क्रमितसन्तापतयेव मन्दिमानम् उद्वहन्मन्दारस्तबकसुन्दरः, सिन्दूराहतसुरगजकुम्भविभ्रमं बिभ्राणः, ताण्डवचण्डवेगोच्छलितधूर्जटिजटाजूटकूटबन्धबन्धुरविकटवासुकिभोगमणिताटङ्कसङ्काशनाभिमण्डलः, सन्ध्यासन्धिनीसरसयावकपटचारुः, वारुणिवारविलासिनीमणिकुन्तलकान्तिः, दिनकरच्छिन्नवासरकबन्धचक्राकरः, मधुपूर्णकपाल इव कालकपालिनः, अम्लानकुसुमस्तबक इव श्रियः, गगनाशोकतरुस्तबकः [इव], कनकदर्पण इव प्रतीचीविलासिन्याः, बलभद्र इव वारुणीसङ्गतः सरागश् च, दुर्विध इव परित्यक्तवसुः सविषादश् च, शा(क्य) इव रक्तांशुकधरः, संज्ञोपेतो भगवान् चरमार्णवपयसि तरलतरङ्गवेगोच्छलितविद्रुमविकटाकृतिर् ममज्ज ।

३१) क्रमेण च रजोलुठितोत्थितकुलायार्थिकलहविकलकलविङ्ककुलकलकलवाचालितशिखरेषु शिखरिषु, वसतिसाकाङ्क्षेषु ध्वाङ्क्षेषु, अनवरतदह्यमानकालागुरुधूपपरिमलोद्गारेषु वासागारेषु, दूर्वान्विततटिनीबद्धगोष्ठीकविदग्धजनप्रस्तूयमानकथाश्रवणोत्सुकशिशुजनकलकलनिवारणकुपितश्रद्धेषु वृद्धेषु, आलोलिकातरलरसनाभिः कथितकथाभिर् जरतीभिर् अतिलघुकरताडनजनितसुखे, शिशयिषमाणशिशुजने, विरचितकन्दर्पमुद्रासु क्षुद्रासु, कामुकजनानुबद्ध्यमानदासीजनविविधाश्लीलवचनश्रुतिविरसीकृतसन्ध्यावन्दनोपविष्टेषु शिष्टेषु, रोमन्थमन्थरकुरङ्गकुटुम्बकाध्यास्यमानम्रदिष्ठगौष्ठीनपृष्ठास्व् अरण्यस्थलीषु, निद्राविनिद्राणद्रोणकुलकलितकुलायेष्व् आरामतरुषु, निर्जिगमिषति जरत्तरुकोटरकुटीरकुटुम्बिनि कौशिककुले, तिमिरतर्जननिर्गतासु दहनप्रविष्टदिनकरकिरणास्व् इव स्फुरन्तीषु दीपलेखासु, मुखरितधनुषि वर्षति शरनिकरम् अनवरतम् अशेषसंसारशेमुषीमुषि मकरध्वजे, सुरतारम्भाकल्पशोभिनि, शम्भलीभाषितभाजि भजति भुषां भुजिष्यजने, सैरन्ध्रीबध्यमानरशनाजालजल्पाकजघनासु जनीषु, विश्रान्तकथानुबन्धतया प्रवर्तमानकथकजनगृहगमनत्वरेषु चत्वरेषु, समावासितकुक्क्(उ)टेषु निष्कुटेषु, कृतयष्टिसमारोहणेषु बर्हिणेषु, विहितसन्ध्यासमयव्यवस्थितेषु गृहस्थलेषु, सङ्कोचोदञ्चदुच्चकेसरकोटिसङ्कटकुशेशयकोशकोटरकुठीरशायिनि षट्चरणचक्रे, अथानेन प्रवर्तता [वर्त्मना] भगवता भानुना [आ]गन्तव्यम् इति सर्वपट्टमयैर् वसनैर् इव मणिकुट्टिमाभिर् विरचितवरुणेन, भगवता कालेन कृत्तस्य दिवसमहिषस्य रुधि(र)धारेव, विद्रुमलतेवाम्बरमहार्णवस्य, रक्तकमलिनीव गगनतडाकस्य, काञ्चनसेतुर् इव कन्दर्पस्य, मञ्जिष्ठारागारुणपताकेव गगनहर्म्यतलस्य, लक्ष्मीर् इव स्वयंवरगृहीतपीताम्बरस्य, भिक्षुकीव तारानुरागरक्ता, रक्ताम्बरधारिणीव भगवती सन्ध्या समदृश्यत ।

३२) क्षणेन च क्षणदारागरचनाचतुरासु सन्ध्याशिष्यास्व् इव वेश्यासु तुलाधारशून्यायां पण्यवीथ्याम् इव दिवि, घनघनायमानदलपुटासु पुटकिनीषु, तिमिरप्रतिहस्तेष्व् इव तत इतः (प)रिभ्रमत्सु कमलसरसि मधुकरेषु, विकलकुररीरुतच्छलेन रविविरहविधुरासु विलपन्तीष्व् इव सरोजिनीषु, कमलिनीसन्ध्यारागरज्यमानसलिलस्थितासु पतिविनाशहृत्पीड्या दहनप्रविष्टास्व् इव कमलिनीषु, गणक इव नक्षत्रसूचके प्रदोषसमये, हरकण्ठकाण्डकालिमसनाभि, दैत्यबलम् इव प्रकटतारकं, भारतसमरम् इव वर्धमानोलूककलकलं, धृष्टद्युम्नवीर्यम् इव कुण्ठितद्रोणप्रभावं, नन्दनवनम् इव संचरत्कौशिकं, कृष्णवर्त्मेवाखिलकाष्ठापहारकं, सगर्भम् इव घनतरपाषाणकर्कशासु गिरितटीषु, सचक्षुर् इव सुप्तसिंहनयनच्छविच्छटाकपिलिकेषु सानुषु, सजीवम् इव तमोमणिभिः, संवर्धितम् इवाग्निहोत्रधूमलेखाभिर् मासलितम् इव कामिनीकेशपाशसंस्कारधूपपटलैः, उद्दीपितम् इव घनतरलीनमधुकरपटलमेचकितपेचकिकपोलतलदानधाराशीकरैः, पुञ्जीकृतम् इव विततमालतमालकाननच्छायासु, लीयमानम् इव कज्जलरसश्यामभोगिभोगेषु, प्रावरणम् इव रजनीपांसुलायाः, पलितौषधम् इव वृद्धवारयोषिताम्, अपत्यम् इव रजन्याः, सुहृद् इव कलिकालस्य, मित्रम् इव दुर्जनहृदयानां, बौद्धसिद्धान्तम् इव प्रत्यक्षद्रव्यम् अपह्नुवानं तिमिरम् अजृम्भत ।

३३) मुदितम् इवातिमत्तमातङ्गमण्डलमनोहरगण्डमण्डले, फलितम् इवातिसान्द्रबहलच्छदवितततमालकानने, स्फुरितम् इवातिकान्तकान्ताजनघनतरकेशसंहतौ, मलितम् इवेन्द्रनीलमणिरश्मिभिः, अतिशयमांसलं तमोऽवटतटाटवीषु, साटोपम् अतिस्फुटपाटवोत्कटप्रकटविशङ्कटैकविटपोत्कटविनटितषट्पदालिषु, घनतरघोरं, अतिघस्मरविषधरभोगभासुरं, मदभरमत्तदन्तिदन्तद्युतितर्जनजर्जरम् । ततो निशाकरारम्भसमय इव संकुचत्कुवलयव्याजविरचिताञ्जलिपुटे नमति तमितिमिरे, क्षणेन च सन्ध्याताण्डवडम्बरोच्छलितमहानटजटाजूटकूटकुटिलविवरवर्तिजहनुकन्यावारिधाराबिन्दव इव विकीर्णाः, दुर्धरधरणिभारभुग्नभीमदिङ्मातङ्गमण्डलामुक्तशीकरच्छटा इवातितताः, अतिदवीयोनभस्तलभ्रमणखिन्नदिनकरतुरगविसरवान्तफेनस्तबका इव [विस्तीर्णाः], गगनमहासरःकुमुदकाननसन्देहदायिनः, विश्वं गणयतोविधातुः शशिकमठिनीखण्डेन तमोमषीश्यामेऽजिन इव वियति संसारस्यातिशून्यत्वाच् छून्यबिन्दव इव वितताः, जगत्त्रयविजयनिर्गतस्य कुसुमकेतो रतिकरतलविकीर्णलाजा इव, गुलिकास्त्रगुलिका इव पुष्पधनुषः, वियदम्बुराशिफेनस्तबका इव, रतिविरचिता गगनाङ्गणे आतर्पणपञ्चाङ्गुलय इव, व्योमलक्ष्मीहारमुक्तानिकरा इव, चन्द्रचिताचक्राद् वात्यावेगव्यस्ताः कामकीकसखण्डा इव, तिमिरोद्गमधूमधूमलसन्ध्यामलाहितगगनमहास्थलीमहाकटाहभृज्ज्यमानस्फुटितलाजानुकारास् तारा व्यराजन्त । ताभिश् च श्वित्रीव वियद् अशोभत ।

३४) ततो दीर्घोच्छ्वासरचनाकुशलं सश्लेषबहुघटनापटु सत्कविविरचनम् इव, चक्रवाकमिथुनम् अतीवाखिद्यत । कमलिनीसञ्चरणलग्नमकरन्दबिन्दुलवमधुकरमालाशबलगात्रं, कालपाशेनेव मूर्तरामशापेनाकृष्यमाणं चक्रवाकमिथुनम् विजघटे । रविविरहविधुरायाः कमलिन्या हृदयम् इव द्विधा पपाट चक्रवाकमिथुनम् । आगमिष्यतो हिमकरदयितस्य पार्श्वे संचरन्ती कुमुदिन्या भ्रमरमाला दूतीवालक्ष्यत । तारकाव्याजाद् अस्तङ्गतस्य दिवाकरस्य शोकाद् इव ककुभो व्यरुदन् । भास्वतो निजदयितस्य विरहाद् अभिनवकिञ्जल्कराशिव्याजेन मुर्मुर इव नलिनीकोशहृदये जज्वाल । रविरश्मिभस्मितनभोवनमषीराशिर् इव, श्रुतिवचनम् इव क्षतदिगम्बरदर्शनं, कृष्णरूपम् अपि तिरस्कृतविश्वरूपभावं, सद्योद्रावितराजतपट्टसमुद्रप्रवाह इव शार्वरम् अन्धकारम् अजृम्भत ।

३५) क्षणेन च क्षणदाराजकन्याकन्दुक इव, कन्दर्पकनकदर्पण इव, उदयगिरिबालमन्दारस्तबकाकृतिः, प्राचीललाटकुसुमचक्राकारः, कुण्डलम् इव नभश्रियः, दिव्यवधूप्रसाधिकाहस्तस्रस्तालक्तपट इव, गगनसौधकनककुम्भ इव, प्रस्थानकलश इव त्रिभुवनविजयनिर्गतस्य मकरकेतोः, कन्दर्पकार्तस्वरतूणमुखचक्रकान्तितस्करः, प्राक्शैलशिखराग्रप्ररूढजवातरुकुसुमच्छविः, अच्छकुङ्कुमपिण्डपूर्णस्थित[पात्र] इव निशाविलासिन्याः कुङ्कुमारुणश्वेत[स्तन]कलश इव चाखण्डलाशायाः, उदयारुणमण्डलो रजनीपतिर् अभ्युदयम् आससाद ।

३६) ततः कामिनीहृदयसङ्क्रामित इव चकोराङ्गनानेत्रपुटपाटित इव रक्तकुमुदकोशकीट इव क्षीणतां जगाम क्षणदाकृतो रागः ।

३७) अनन्तरं शर्वरीव्रजाङ्गनानिष्ठ्यूतनवनीतस्वस्तिक इव, कुसुमकेतोर् मुखच्छायामुद्रित इव, श्वेतातपत्रम् इव मकरकेतोः, दन्तपालिचक्र इव वियन्महासेः, श्वेतचामर इव मदनमहाराजस्य, बालपुलिनम् इव निशायमुनायाः, स्फुटिकलिङ्गम् इव गगनतापसस्य, अण्डम् इव कालोरगस्य, कम्बुर् इव नभोमहार्णवस्य, चैत्यम् इव मदनारिदग्धस्य मकरकेतोः, चिताचक्रम् इव कलङ्काङ्गारशबलं सङ्कल्पजन्मनः, गगनगामिपुण्डरीकम् इव, अम्बरमहार्णवफेनपुञ्ज इव, पारदपिण्ड इव [कालधातुवादिनः], राजतकलश इव दूर्वाप्रवालशबलः, कन्दर्परथचक्रचारुः, उदयाचलचूडामणिः, अम्बरमहाप्रासादपारावतः, ऐरावतकुम्भस्थलम् इव, भग्नशृङ्गपुराणगोमुण्ड इव, तारकाश्वेतगोधूमशालिनो नभःक्षेत्रस्य, पाण्डुरराजतपात्रम् इव सिद्धाङ्गनाहस्तस्रस्तो ग्रहपतिर् उज्जगाम । यश् च पुण्डरीकं लोचनमधुकराणां, शयनीयसैकतं चित्तहंसानां, स्फटिकव्यजनं विरहवह्नीनाम् ।

३८) अत्रान्तरेऽभिसारिकासार्थप्रेषितानां प्रियतमान् प्रति दूतीनां द्व्यर्थाः सप्रपञ्चाः विकारभङ्गुराः प्रवादा बभूवुः । तथा हि । "अवस्त्रीकृतम् आत्मानं नाकलयसि तत्त्वतः । प्रस्तर इव क्रूरोऽसि । न चाकर्षकचुम्बकद्रावकेष्व् एकोऽप्य् असि, भ्रामकोऽसि परं कितव । धमार्थान्य् अप्रयुक्तः क्षेपणिक इव मुधा वाहिततरवारिस् त्वम् असि । सखेदम् इव मनसा चिन्तयसि दुर्लभाम् । सत्त्वसारचरितो रिपुमण्डलाग्रतो निर्वृतिम् उपेत्य तिष्ठति । स खलु वीरः प्रतिपक्षस्य यः सम्प्रहारतः कुञ्जरान् नयति । धृतोरुकरवालसञ्चयोऽपि परमकाण्ड एव एतन् महापदं विग्रहेण लभते । राजसेन रहितो राजसे न रहितो ध्रुवम् । विशारदा विशारदाभ्रविशदा विशदात्मनीनमहिमानम् अहिमानरक्षणक्षमा क्षमातिलक ते वीरता वीरता मनसि भूतता भूतता वचसि । साहसेन सा हसेन कमला कमलालया जिता, सा त्वदर्पणा दर्पणाकारविमलाशया शयाब्जनिर्जितकिसलया सलयाङ्गुलिर् इव विभ्रमेण विभ्रमेण गवाक्षशलाकाविवरं प्रति विलोकयन्ती विलोकयन्ती विनाशापम् अनुभवति दुःखानि । जीवनायक जीवनाय क इह नाश्रयति सुभगम् । अन्यास् तावद् आसतां दासतां पुरतोऽहम् एव भजामि, मैत्र्य् अतो मैत्र्यतोऽस्तु । अञ्जसारतः सारतः किम् अपि कन्दर्पकं दर्पकं न तनोषि विशेषतोऽशेषतः स्थितम् एव मरणम् । शट्ःधियां शोधन यशोधन प्रेमहार्यामहार्या समोत्कटाक्षैः कटाक्षैर् आविर्भूतदास्यास् तदास्याः परिजनाः । कमलाकृतिनारीणां कमलाकृतिनारीणां भवता मुखं मलिनितम् । विश्वस्य विश्वस्य व्यवस्थां समासाद्य समासाद् यम् अनेककालं सङ्गीतसङ्गी तनुषेऽतनुषेकम् अनङ्गपुष्पेषु पुष्पेषुरुजा तरसा जातरसा मन्दाक्षमन्दा क्षणं भ्रमन्ती मुह्यति । कामधुराधरेण का मधुराधरेण युक्ता रजोराजिविशेषकेण सविशेषकेण मुखेन्दुना तव हृदि लग्ना म्रदिमाकरेण करेण स्वेदबिन्दुपयोधरेण पयोधरेण वक्षःफलकाञ्चनेन जितानाविलकाञ्चनेन । कामदारुण मदारुणनेत्रा स्मरमयं रमयन्तं त्वाम् अदयं मदयन्ती परमकमितारं वाञ्छति हारिणा हारिणा स्तनकुम्भेन हारिणाक्षिरुचिहारिणा चक्षुषा हारिणा । अनन्तरं दुग्धार्णवप्रविष्टम् इव, स्फटिकगृहप्रविष्टम् इव श्वेतद्वीपनिवाससुखम् अनुभवद् इव जगद् आमुमुदे ।

३९) क्रमेण च विघटमानदलपुटकुमुदकाननकोशमकरन्दबिन्दुसन्दोहदोहदमधुकरकुलकलरुतमुखरितदिगन्ते, चन्द्रिकापानभरालसचकोरकामिनीभिर् अभिनिन्दितागमने, सुरतभरखिन्नपुलिन्दसुन्दरीस्वेदजलकणिकापहारिणि प्रतिवाति सायन्तने तनीयसि निशानिःश्वासनिभे नभस्वति कन्दर्पकेतुस् टमालिकांकरन्दसहायो वासवदत्ताजनकनगरीम् अयासीत् ।

४०) अनन्तरं कटकैकदेशविरचितैकान्तनिहितमुक्तामकरन्दपद्मरागशकलेन वासवदत्तादर्शनार्थम् आस्थितेन देवतागणेनेव जातवलयेन परिगतम्, अनिलोल्लासिताभिर् नभस्तरुमञ्जरीभिर् इव तर्जयन्तीभिर् इव गगनपुरश्रियं पताकाभिर् उपशोभमानं, पट्टाङ्कणप्रसृताभिः कर्पूरचन्दनकुङ्कुमैलागन्धोदकरसपरिमलवाहिनीभिर् वाहिनीभिस् तटस्फटिकपट्टसुखनिषण्णनिद्रायमाणाज्ञातप्रासादपारावतालिभिः प्रभ्रश्यत्तटविटपकुसुमस्तबकितसलिलाभिर् अनवरतमज्जदुन्मदयुवतिजनजघनास्फालनोच्छ्वसितशीकरनिकरस्नपितवेदिकाभिः, कर्पूरपूरविरचितपुलिनतलनिषण्णनिनदानुमीयमानराजहंसीभिः, विकचनीलोत्पलकाननदर्शिताकाण्डचक्रवाकतिमिरशङ्काभिः, युवतीभिर् इव सुपयोधराभिः, सुग्रीवयुद्धकलाभिर् इव कीलालस्नपितकुम्भकर्णाभिः, सागरकूलभूमिभिर् इव सुन्दरीपादपरागशबलाभिः, नवनृपतिचित्तवृत्तिभिर् इव कुल्यायमानकरिणीभिः, शिखरगतमुक्ताजालव्याजेन युवतिजनदर्शनागतं तारागणम् उद्वहद्भिः, काचकलशाकृतिम् उद्वहन्तीभिः शिखिसंहतिभिर् उद्भासितैः प्रासादैर् उपशोभितं, कालागरुधूपपटलैर् दर्शिताकालजलदोन्नाहम्, क्वचिद्गम्भीरमुरजरवाहूतमन्दमन्दनर्तितनीलकण्ठं, सायंसमयम् इव निपतितलोकलोचनं, जनकयज्ञस्थानम् इव दारोत्सुकितरामं, मानुषम् इवाभिनन्दितसुरतं, निधानम् इव कौतुकस्य, आवासम् इव शृङ्गारस्य, कुलगृहम् इव विभ्रमस्य, सङ्केतस्थानम् इव सौन्दर्यस्य, वासवदत्ताभवनं भवनन्दनप्रभावो ददर्श ।

४१) "द्रवसि द्रवसिन्धुतो निगलिते चपला चपलायते किम् एषा । स्तबकस् तव कर्णतः पतितोऽयम् । षुरेखे सुरया सुरयाचनोचितश्रीस् त्वम् असि । मत्ता कलहे कलहेमदामकाञ्चीदामक्वणितैः स्मरम् इवाह्वयसि । मलये मलयेप्सितं दृशैवाधिगतासि । कलिके कलिकेतुम् इमां मुखरां मुञ्च मेखलां शृणुवः कलवल्लकीविरुतम् । मेखला मे खला न भवति, त्वम् एव त्व् अमेव मुखरतया मुखरतया च । त्रपतेऽत्र पतेद् इयम् अवन्तिसेनाकुसुमोपहारे मुग्धा तव कैतवकैरलं, ऌअवङ्गिके वेपथुर् एवाशयं व्यनक्ति । वहतीव हतीर् आनङ्गलेखे स्मरसायकानां तव वपुर् अलसम् । पिहिताऽपि हितायते । ऊत्कलिके तवोत्कलिका महोर्मिः । वदने वद नेत्रपेयकान्तौ किम् उपमानम् इन्दुर् अप्य् उपयाति । वसतीव सतीव्रते तव हृदये कोऽपि । शतधा शतधारसारा वाचस् तवानुभूतः । केरलि करकाकरकालमेघखण्डतुलाम् अयम् उल्लसितोत्फुल्लमल्लिकामालभारी [तव याति] कुन्तलकलापः । कुन्तलिके पुरगोपुरगोचराः श्रूयन्ते गीतध्वनयः । किम् अत्र कल्पयसि क्षणम् ईक्षणमीलनात् । अपि चटुलं चटुलम्पटं सखीजनम् आयासयसि । मुरले स्तनता स्तनताडनेषु यत् सौख्यं लब्धं स्मरता स्मरतापनोदनं तद् इयं तेन वियुक्ता किं मुह्यसि । हतमोहतमो दयितः स्मरति स्म रतिप्रियं तव कौशलं । नखराणां व्रणः स्मरजन्यां स्म रजन्यां कुरुते रुजं न ते । किं लोचनाभ्यां लोचनाभ्यां प्रीणिताखिल जनेक्षणदेशः क्षणदेशः किं न पीयते । प्रियसखि मदनमालिनि मालिनि बिम्बाधरसङ्गत्यागेच्छया विरामं कुरु । मधुमदारुणमालवीकपोलतलसमानोऽभ्रान्तसमानो रक्तमण्डलतया त्वया को विशेषः । कुरङ्गिके कल्पय कुरङ्गशावकेभ्यः शष्पाङ्कुरम् । किशोरिके कारय किशोरकप्रत्यवेक्षाम् । टरलिके तरलय गुरुसान्द्रधूपपटलम् । कर्पूरिके पाण्डुरय कर्पूरधूलिभिः पयोधरभारम् । मातङ्गिके मानय मातङ्गशिशुयाचनाम् । शशिलेखे लिख ललाटपट्टे शशिलेखाम् । केतकिके सङ्केतय केतकीमण्डपस्य दोहदम् । शकुनिके देहि क्रीडाशकुनिभ्य आहारम् । मदनमञ्जरि मञ्जरय सभामण्डपकदलीगृहम् । शृङ्गारमञ्जरि सङ्कल्पय शृङ्गाररचनाम् । षञ्जीवनिके वितर जीवज्जीवकमिथुनाय मरिचपल्लवम् । ढ़ल्लविके पल्लवय कर्पूरधूलिभिः कृत्रिमकेतककाननम् । षहकारमञ्जरि सञ्जनय सहकारसौरभं व्यजनवातेषु । मदनलेखे लेखय मदनलेखं मलयानिलस्य । मकरिके देहि मृणालाङ्कुरं राजहंसशावकेभ्यः । विलासवति विलासय मयूरकिशोरकम् । टमालिके [परि]मलय मलयजरसेन भवनवाटम् । काञ्चनिके विकिर कस्तूरिद्रवं काञ्चनमण्डपिकायाम् । ढ़्रवालिके सेचय घुसृणरसेन बालप्रवालकाननम्" इत्य् अन्योन्यप्रणयपेशलाः प्रमदानाम् आलापकथाः शृण्वन् कन्दर्पकेतुर् मकरन्देन समं विस्मयम् अकरोन् मनसि "अहो भवनानाम् अतिशायि सौन्दर्यम् । अहो शृङ्गाररचनाकौशलम् । तथा हि तत्काललीलादलितमालवीदशनकाण्तिकोमलकान्तदन्तघटितो मण्डपः । असाव् अपि कर्पूरशलाकानिर्मितयन्त्रपञ्जरसंयतः क्रीडाशुक" इत्यादि परिचिन्तयन् प्रविश्य व्याकरणेनेव सरक्तपादेन, भारतेन्(एव्)अ सुपर्वणा, रामायणेनेव सुन्दरकाण्डचारुणा जङ्घायुगलेन विराजमानां, छन्दोविचितिर् इव भ्राजमानतनुमध्यां, नक्षत्रविद्याम् इव गणनीयहस्तश्रवणां, न्यायस्थितिम् इवोद्योतकरस्वरूपां, बौद्धसङ्गीतिम् इवालङ्कारप्रसाधितां, उपनिषदम् इव सानन्दात्मकम् उद्योतयन्तीं, द्विजकुलस्थितिम् इव चारुचरणां, विन्ध्यगिरिश्रियम् इव सुनितम्बां, ताराम् इव गुरुकलत्रोपशोभितां, शतकोटिमूर्तिम् इव मुष्टिग्राह्यमध्यां, प्रियङ्गुश्यामासखीम् इव प्रियदर्शनां, ब्रह्मदत्तमहिषीम् इव सोमप्रभां, दिग्गजकरेणुकाम् इवानुपमां, वेलाम् इव तमालपत्रसाधितां, अश्वतरकन्याम् इव मदालसां वासवदत्तां ददर्श ।

४२) अथ प्रीतिविस्फारितेन चक्षुषा पिबतः कन्दर्पकेतोर् जहार चेतनां मूर्च्छावेगः । तम् अपि पश्यन्ती वासवदत्ता मुमूर्च्छ । अथ मकरन्दसखीजनप्रयत्नलब्धसंज्ञौ तौ एकासनम् अलंचक्रतुः । ततो वासवदत्तायाः प्राणेभ्योऽपि गरीयसी सर्वविस्रम्भपात्रं कलावती नाम कन्दर्पकेतुम् उवाच । "आर्यपुत्र नायं विस्रम्भकथानाम् अवसरः । अतो लघुतरम् एवाभिधीयते । त्वत्कृते यानया वेदनानुभूता सा यदि नभः पत्रायते सागरो लोलायते ब्रह्मा लिपिकरायते भुजगपतिर् वाक्कथकः तदा किम् अपि कथम् अप्य् एकैकैर् युगसहस्रैर् अभिलिख्यते कथ्यते वा । त्वया च राज्यम् उज्झितम् । किं बहुनात्मा सङ्कटे समारोपितः । एषास्मत्स्वामिदुहिता प्रभातायां रजन्यां पित्रा यौवनातिक्रमदोषशङ्किना भयेन विद्याधरचक्रवर्तिनो विजयकेतोः पुत्राय ढ़ुष्पकेतवे पाणिग्रहणाय दातव्या । अनयाप्य् आलोचितम् अद्य यदि तं जनम् आदाय नागच्छति टमालिका, तदावश्यम् एव मया हुतवहे शयितव्यम्" इति । तद् अस्याः सुकृतवशेन महाभागः इमां भूमिम् अनुप्राप्तः । अथ कन्दर्पकेतुर् भीतभीतः सप्रणयम् आनन्दामृतसागरोद्दामतरङ्गलहरीभिर् आप्लुत इव वासवदत्ताया सहामन्त्र्य मकरन्दं वार्तान्वेषणाय तत्रैव नगरे नियुज्य, भुजगेनेव सदागत्यभिमुखेन मनोजवनाम्ना तुरगेन तया सह नगरान् निरगात् ।

४३.१) क्रमेण च जाङ्गलकवलाभिलाषमिलितनिःशङ्कशकुनिकुलसङ्कुलेन अर्धदग्धचिताचक्रसिमिसिमायमानविकटकटतृष्णाचटुलकटपूतनोत्तालवेतालरवभीषणेन, शूलशिखरारोपितशङ्कितवर्णकर्णनासिकाच्छेदरुधिरपटलपतितभाङ्कारिभम्भरालीसम्भारभरितभूमिभागबीभत्सेन, कटाग्निदह्यमानपटुचटन्नृकरोटिटङ्कारभैरवरवेण, शूलपाणिनेव कपालबलिभस्मशिवावह्निभूतिभुजगावरुद्धदेहेन, पुरुषातिशयेनेवानेकमण्डलकृतसेवेन श्मशानवाटेन गत्वा, निमेषमात्राद् इवानेकशतयोजनं, प्रलयकालवेलाम् इव समुदितार्कसमूहां, नागराज्यस्थितिम् इवानन्तमूलां, सुधर्माम् इव स्वच्छन्दस्थितकौशिकां, सत्पुरुषसेवाम् इव श्रीफलाढ्यां, भारतसमरभूमिम् इव दूरप्ररूढार्जुनां, पुलोमकुलस्थितिम् इव सहस्रनेत्रोचितेन्द्राणिकां, शूरपालचित्तवृत्तिम् इव कलितगणिकारिकां, सज्जनसम्पदम् इव विकसिताशोकसरलपुन्नागां, शिशुजनलीलाम् इव कृतधात्रीधृतिं, क्वचिद् राघवचित्तवृत्तिम् इव वैदेहीमयीं, क्वचित् क्षीरसमुद्रमथनवेलाम् इवोज्जृम्भमानामृतां, क्वचिन् नारायणशक्तिम् इव स्वच्छन्दापराजितां, क्वचिद् वाल्मीकिसरस्वतीम् इव दर्शितेक्ष्वाकुवंशां, लङ्काम् इव बहुपलाशशोभितां, धार्तराष्ट्रसेनाम् इवार्जुनशरनिकरपरिवारितां, नारायणमूर्तिम् इव बहुरूपां, सुग्रीवसेनाम् इव पनसचन्दननलकुमुदसेवितां, क्वचिद् विधवाम् इव सिन्दूरतिलकभूषितां प्रवालाभरणां च, क्वचित् कुरुसेनाम् इवोलूकद्रोणशकुनिसनाथां धार्तराष्ट्रान्वितां च, अम्लानजातिविभूषिताम् अपि विरुद्धवंशां, दर्शिताभयाम् अपि भीषणां, सततहितपथ्याम् अपि प्रवृद्धगुल्मां, षट्पदव्याप्ताम् अपि द्विपदानाकुलां, द्विजकुलभूषिताम् अप्य् अकुलीनवंशां विन्ध्याटवीं विवेश । अत्रान्तरे भगवत्य् अपि निशा तयोर् निद्राम् आदाय जगाम ।

४३.२) क्रमेण कालकैवर्तकेन तमिस्रानायं प्रक्षिप्य गगनमहासरसि सजीवशफरनिकर इवापह्रियमाणे तारागणे, रक्तांशुके विषमप्ररूढबिसलताशरयन्त्रानुगतशतपत्रपुस्तकसनाथे मकरन्दबिन्दुसन्दोहनिर्भरपानमत्तमधुकरमन्द्रमुक्तस्वनैः सद्वर्णम् इव पठति विकचे कमलाकरे, भिक्षुकृषीवलेनेव कालेन तिमिरबीजेष्व् इव मधुकरेषु मधुरसकर्दमितकेसरपङ्केषु घनघटमानदलपुटेषु, रजोमुर्मुरसनाथमधुकरपटलानुगतोद्दण्डपुण्डरीकव्याजाद् धूपम् इव भगवते किरणमालिने प्रयच्छन्त्यां कमलिन्यां, रजनीवधूकरद्वयोच्छलितपतन्मुसलाहतिक्षतान्तर उलूखल इव चन्द्रे, कण्डनविकीर्णेषु तण्डुलेष्व् इव तारागणेषून्मीलत्सु, सन्ध्याताम्रमुखेन वासरवानरेण नभस्तरुम् आरोहता, शाखाभ्य इव कम्पिताभ्यो दिग्भ्यो विकचप्रसून इव तारागणे इन्दुमण्डलफले च पतति, तारातण्डुलशबलं नभोऽङ्गणं स्फुरदरुणतरुणचूडाचारुवदने वासरकृकवाकौ चरितुम् अवतरति, "मत्सङ्गतिप्रसिद्धो वारुणीसमागमाद् द्विजपतिर् एष पतिष्यतीति" हसन्त्याम् इवाखण्डलककुभि, कराघातनिहतान्धकारकरीन्द्ररुधिरधाराभिर् इवोदयगिरिशिखरनिर्झरधौतधातुरागैर् इव, त्वङ्गत्तुरङ्गखरखुरपुटपाटितपद्मरागच्छायाभिर् इव, केसरिकरतलाहतमत्तमातङ्गोत्तमाङ्गसङ्गलदस्रसारणीभिर् इव, त्रिभुवनकार्यसम्पादनप्रभावानुरागरसैर् इव रक्तमण्डले, ताराकुमुदवनग्रहणाय प्रसारितहस्त इव कुङ्कुमरागारुणे, प्राचीविलासिन्याः पूर्वाचलभोगीन्द्रफणार्पणे, गगनेन्द्रनीलकनककिसलये, नभोनगरप्राचीकाञ्चनदीनारचक्रकुम्भे, प्राचीललाटतटकुङ्कुमार्द्रबिन्दौ, सन्ध्याबाललतैककुसुमे, मञ्जिष्ठारुणपट्टसूत्रसदृशे, सन्ध्यारुणगुम्फिते, प्रचीकाञ्चनदीनारचक्र इव वासरविद्याधरसिद्धगुलिके, धातुरागारुणदिग्गजपादतलानुकारिणि विभावरीतिमिरतस्करे भगवति भास्करे समुदयम् आरोहति, मञ्जिष्ठाचामर इव दिग्गजेषु, महाभारतसमररुधिरोद्गार इव कुरुक्षेत्रेषु, शक्रधनुःकान्तिलेप इव जलदच्छेदेषु, काषायपट इव शाक्याश्रममठिकासु, कौसुम्भराग इव ध्वजपटपल्लवेषु, फलपाक इव कर्कन्धुषु, कुङ्कुमच्छटारस इव व्योमसौधाङ्गणस्य, सञ्चरदरुणयवनिकापट इव कालस्य, बालप्रवालभङ्गारुणे प्रसरत्य् आतपे, क्षणेन च चक्रवाकचक्रवालहृदयशोकसन्तापहरणाद् इव, दहनसमनुप्रवेशाद् इव, दिननाथकान्तोपलसङ्गमाद् इव, उत्तिष्ठमानम् उष्नम् उष्णरश्मेर् आश्रयति रश्मिसञ्चये कन्दर्पकेतुः सर्वरात्रजागरपरवश आहारशून्यशरीरतया निश्चेतनः, अनेकयोजनशतभ्रमणखिन्नः, वासवदत्तयाप्य् एवंविधया सह लतागृहे मन्दमारुतान्दोलितकुसुमपरिमललुब्धमुखरपरिभ्रमद्भ्रमरझङ्कारमनोहरे तत्कालसुलभया निद्रया गृहीतो निष्पन्दकरणग्रामः सुष्वाप ।

४४) ततो वणिजीव प्रसारिताम्बरे महादावानल इव सकलकाष्ठादीपिनि पतङ्गमण्डले मध्यंदिनम् आरुढे कन्दर्पकेतुः प्रियया विना लतागृहम् अवलोक्योत्थाय तत इतो दत्तदृष्टिः क्षणं विटपेषु, क्षणं तरुशिखरेषु, क्षणम् अन्धकूपेषु, क्षणं शुष्कपत्रराशिषु, क्षणम् आकाशे, क्षणं दिक्षु, क्षणं विदिक्षु भ्रमन्न् अनवरतदह्यमानहृदयो विललाप ।

४५) "हा प्रिये वासवदत्ते देहि मे दर्शनम् । किं परिहासेनान्तर्हितासि । त्वत्कृते मया यानि दुःखान्य् अनुभूतानि, तेषां त्वम् एव प्रमाणम् । प्रियसखे मकरन्द पश्य मे दैवदुर्विलसितम् । किं मया न कृतम् अवदातं कर्म । दुर्विपाका नियतिः । दुरतिक्रमा दुःकालगतिः । अहो ग्रहाणाम् अतिकटु कटाक्षपातनम् । अहो विसदृशफलता गुरुजनाशिषाम् । अहो दुःस्वप्नानां दुर्निमित्तानां च फलितम् । सर्वथा न कश्चिद् अगोचरो भवितव्यतानाम् । किं न सम्यगागमिता विद्याः । किं यथावन् नाराधिता गुरवः । किं नोपासिता वह्नयः । किं नाभ्यर्चिता देवताः । किम् अधिक्षिप्ताः भूमिदेवताः । किम् अप्रदक्षिणीकृताः सुरभयः । किं न कृतः शरणेच्छुरभय" इति बहुविधं विलपन् दक्षिणेन काननं निर्गत्य नव्यनलनलदनलिनीनिचुलपिचुलविडुदबहुलेन, प्रचुरचिरिबिल्वबिल्वोटजकुटजरुद्धोपकण्ठेन, सोत्कण्ठभृङ्गराजरसितसुन्दरसुन्दरीवनेन, विततवेत्रव्रततिव्रातावरणतरुणवरुणतरुस्कन्धसमुन्नद्धभृङ्गगोलकेन, गोलाङ्गूलभग्नगलन्मधुपटलरसासारसिक्ततरुतलेन, तालहिन्तालपूगपुन्नागनागकेसरघनेन, घनसारमल्लिकाकेतककोविदारमन्दारबीजपूरकजम्बीरजम्बूगुल्मगहनेन, प्रत्यूहदात्यूहव्यूहकुहरितभरितनन्दीनलनिकुञ्जेन, पुञ्जिताकुण्ठकण्ठकलकण्ठाध्यासितोद्दामसहकारपल्लवेन, चपलकुलायकुक्कुटकुटुम्बसंवाहितोत्कटविकटेन, कोरकनिकुरुम्बरोमाञ्चितकुरबकराजिना, रक्ताशोकपल्लवलावण्यविलिप्यमानदशदिशा, प्रविकसितकेसररजोविसरवर्धमानवासरधूसरिमभारेण, परागपिञ्जरमञ्जरीयुज्यमानमधुपमञ्जुशिञ्जितजनितजनमुदा, मदजलमेचकितमुचुकुन्दस्कन्धकाण्डमथ्यमाननिःशङ्ककरिकरटकण्डूतिना, कतिपयदिवसप्रसूतकुक्कुटीकृतकुटजकोटरेण, चटकसञ्चार्यमाणचतुरवाचाटचाटकैर् अक्रियमाणचाटुना, सहचरीचारणचञ्चुरचकोरचुञ्चुना, शैलेयसुकुमारशिलातलसुखशयितशशशिशुना, शेफालिकाशिफाविवरविस्रब्धवर्तमानगौधेरराशिना, निरातङ्करङ्कुणा, निराकुलनकुलकेलिना, कलकोकिलकुलकवलितसहकारकलिकोद्गमेन, सहकारारामरोमन्थायमानचमरयूथेन, श्रवणहारिसनीडगिरिनितम्बनिर्झरनिनादनिद्रानन्दमन्दायमानकरिकुलकर्णतालदुन्दुभिना, समासन्नकिन्नरीगीतरवरममाणरुरुविसरेण, क्षतहरितहरिद्राद्रवरज्यमानवराहपोतपोत्रपालिना, गुञ्जापुञ्जगुञ्जज्जाहकजातेन, दशनकुपितकपिपोतपुटकपाटितपाटलकीटपुटसङ्कटेन, कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटपाटितमत्तमातङ्गरक्तच्छटाच्छुरितचारुकेसरभासुरकेसरिकदम्बकेन महासागरकच्छप्रान्तेन कतिपयदूरं गत्वा, अतिचपलवीचिप्रचयतया ताण्डवोद्दण्डदोःषण्डखण्डपरशुविडम्बनापण्डितं, वारुणीविजयपताकाभिर् इव शेषकुलनिर्मोकमञ्जरीभिर् इव शशाङ्कपरिशेषपरमाणुसन्ततिभिर् इव फेनराजिभिर् उपान्तरामणीयकं, अपरम् इव गगनं अवनीतलम् अवतीर्णम् अच्छार्णवच्छलाद् उच्छलच्छीकरकणनिकरनिभेन नभश्चरान् मुक्ताफलैर् इव विलोभयन्तम्, अभयाभ्यर्थनागतानेकपक्षक्षितिधरभरितकुक्षिभागं, सगरसुतखातकम्, उत्खातपारिजातम्, अभिजातमणिरत्नाकरं, करिमकरकुलसङ्कुलं, शकुलकवलाभिलाषि, सञ्चरन्नक्रचक्रम्, अस्तमिततिमिङ्गिलकुलकन्दलीवलयावलीविलुलितलवलीलवङ्गमातुलुङ्गगुल्मम्, ऊर्मिमारुतमर्मरिततरलतरोत्तालतालीतरलतरलितजलमानुषमिथुनमृदिततलपुलिनबालशैवालं, प्रवालाङ्कुरकोटिपाटितमुखखिन्नशङ्कनखखरनखरशिलालिखिततटलेखं, खगेश्वरगोत्रपत्ररथपटलकलिलसलिलम्, अद्याप्य् अनिर्मुक्तमन्दरमथनसंस्कारम् इवावर्तभ्रान्तिभिः, सापसारम् इव फेनैः, ससुरामोदम् इव वेलाबकुलगन्धैः, सरोषम् इव गर्जितैः, सखेदम् इव निःश्वसितैः, सभ्रूकुटीबन्धम् इव तरङ्गैः, आलानस्तम्भम् इव रामसेतुना, कुम्भीनसीकुक्षिम् इव लवणोत्पत्तिस्थानं, व्याकरणम् इव विततस्त्रीनदीकृत्यबहुलं, राजकुलम् इव दृश्यमानमहापात्रं, हस्तिबन्धम् इव वारिगतानेकनागमुच्यमानशूत्कारं, विश्वामित्रपुत्रवर्गम् इवाम्भोजचारुमत्स्योपशोभितं, सत्पुरुषम् इव गोत्राश्रयं साधुम् इवाच्युतस्थितिरमणीयं, सनृपम् इव सज्जनक्रमकरं, कृतमन्युम् इव करतोयाप्लुतमुखं, विरहिणम् इव चन्दनोदकसिक्तं, विलासिनम् इव नर्मदावगतं, उद्धृतकालकूटम् अपि प्रकटितविशराशिं, अतिवृद्धम् अपि सुन्दरीपरिगतकण्ठं, सुरोत्पत्तिस्थानम् अप्य् असुराधिष्ठानं जलनिधिम् अपश्यत् ।

४६) अचिन्तयच् च "अहो मे कृतापकारेणापि विधिनोपकृतिर् एव कृता यद् अयं लोचनगोचरतां नीतः समुद्रः । तद् अत्र देहम् उत्सृज्य प्रियाविरहाग्निं निर्वापयामि । यद्य् अप्य् अनातुरस्यात्मत्यागो न विहितस् तथापि कार्यः । न खलु सर्वः सर्वं कार्यम् अकार्यं वा करोति । असारे संसारे केन किं नाम न कृतम् । तथा हि । गुरुदारहरणं द्विजराजोऽकरोत् । पुरूरवा ब्राह्मणधनतृष्णया विननाश । नहुषः परकलत्रदोहदी महाभुजग आसीत् । ययातिर् आहितपाणिग्रहणः पपात । सुद्युम्नः स्त्रीमय इवाभवत् । सोमस्य प्रख्याता जन्तुवधनिर्घृणता । पुरुकुत्सः कुत्सित इवासीत् । कुवलयाश्वो नाश्वतरकन्याम् अपि परिजहार । नृगः कृकलासताम् अगमत् । नलं कलिर् अभिभूतवान् । संवरणो मित्रदुहितरि विक्लवताम् अगात् । दशरथ इष्टरामोन्मादेन मृत्युम् अवाप । कार्तवीर्यो गोब्राह्मणपीडया पञ्चत्वम् अयासीत् । मनुः सुवर्णव्यसनी ननाश । शन्तनुर् अतिव्यसनाद् विपिने विललाप । युधिष्ठिरः समरशिरसि सत्यम् उत्ससर्ज । नास्त्य् अकलङ्कः कोऽपि प्रायः । देहत्यागे न कलङ्की भवामीति" विचिन्त्य कुररखरनखरशिखरखण्डितपृथुलपृथुरोमाविलम्, अविरलशकुलशल्कसङ्कुलजलनकुलकुलोच्चारं, क्रोष्टुकुलोच्छिष्ठविकटकर्कटकर्परपरम्परापरिगतप्रान्तम्, अतितरलतरजलरयलुलितचटुलशफरकुलकवलनकृतम्, अतिनिभृतबकशकुनिनिवहधवलितपरिसरम्, अतिचपलजलकपिकुलविहरणलुलितसलिलकणनिकरजडितपरिमलितशिशिरितम्, अनुदिवसनिपतदतितरुणवनमहिषशृङ्गशिखरलिखितविषमतटम्, अनवरतचरदसितमुखचरणविहगनिवहमधुरनिनदमुखरितम्, अहिमकरकिरणरुचिजलमनुजशयनमृदितजलधरणीतलम्, अतिबहलमदजलशबलकरटतटकरिवरशतनिपतितमधुकरनिकरमधुरविरुतरतकरम्, अतिजवनपवनविधुतजलविनटननिपतितमणिगणपरिगतपरिसरं, जलनिधिभुजगनिर्मुक्तनिर्मोकपट्टम् इव, दर्पणम् इव वसुन्धरायाः, स्फटिककुट्टिमम् इव वरुणस्य पुलिनतलम् आससाद ।

४७) ततः कृतस्नानादिर् जलम् अवतरितुम् आरेभे शरीरत्यागाय ।

४८) अथ सानुग्रहेषु ग्राहेषु, निर्मत्सरेषुमत्स्येषु, अक्षुद्रेषु क्षुद्रेषु, वत्सलेषु कच्छपेषु, अक्रूरेषु नक्रेषु, अभयङ्करेषु मकरेषु, अमारेषु शिशुमारेषु, आकाशात् षरस्वती समुदचरत् । "आर्य कन्दर्पकेतो पुनर् अपि तव प्रियया संगमो भविष्यतीत्य् अचिरेण । तद् विरम मरणव्यवसायाद्" इति । तद् उपश्रुत्य मरणारम्भाद् विरराम । पुनः प्रियया समागमाशया संस्थितिहेतुभूतम् अशनं चिकीर्षुः कच्छोपान्तभुवं जगाम । तत्र तत इतः परिभ्रमन् फलमूलादिना वने वर्तयन् कालं निनाय ।

४९) एकदा तु कतिपयमासापगमे काकलीगायन इव समृद्धनिम्नगानदः, सन्ध्यासमय इव नर्तितनीलकण्ठः, कुमारमयूर इव समूढशरजन्मा, महातपस्वीव प्रशमितरजःप्रसरः, तापस इव धृतजलदकरकः, प्रलयकाल इव दर्शितानेकतरणिविभ्रमः, निरुपद्रवकाननोद्देश इव घनोत्सुकितसारङ्गः, रेवतीकरपल्लव इव हलिधृतकरः आजगाम वर्षासमयः ।

५०) निर्भिन्नमेघनीलोत्पलकानने क्रीडासरसीव नभसि स्मरस्य रत्ननौकेव, कुलटलक्ष्मीमातङ्गकन्यानर्तनचलरज्जुर् इव, नभःसौधतोरणमालिकेव, प्रवसतानिदाघेन दिवःपयोधरे स्मरणाय क्षता नखपदावलिर् इव, गगनलक्ष्मीरत्नरशनामालेव, नभोमन्दारकुसुममञ्जरीव, रतिनखमार्जनरत्नशलाकेव, रत्नशुक्तिर् इव कुसुमकेतोर् इन्द्रधनुर्लता रराज ।

५१) अतिवेगनिपीतजलधिशङ्खमालाम् इव बलाकाच्छलाद् उद्वमन्न् इवादृश्यत जलधरनिकरः । आपीतहरितैः कृष्णासु केदारिकाकोष्ठिकासु समुत्फलद्भिर् जातुशबलैर् इव दर्दुरैर् विद्युता समं चिक्रीड वर्षाकालः । रविदीपकज्जलनिचयनिकषोपल इव मेघे समयसुवर्णकारनिकषितसुवर्णलेखेव तडिद् अशोभत । विरहिणां हृदयं विदारयितुं करपत्रम् इव कुसुमायुधस्य क्रकचच्छदम् अशोभत । जलददारुणि लोलतडिल्लतापत्रनिपातविदारिते वेगधूताश् चूर्णचया इव जलरेणवो बभुः । विच्छिन्नदिग्वधूहारमुक्त इव खरपवनवेगभ्रमितघनघरघट्टनसञ्चूर्णितास् तारानिकरा इव भुवनविजिगीषोर् मकरध्वजस्य प्रस्थानलाजाञ्जलय इव करका व्यराजन्त ।

५२) अनन्तरम् अखञ्जखञ्जरीटेऽकुञ्चितक्रौञ्चसञ्चारे, निर्भरभरद्वाजद्विजवाचाटविटपे, पात्रभ्रान्तशुककलमकेदारे, प्रवेशितावेशिकराजहंसे, कंसारिदेहद्युतिद्युतले, हंसतूलतुलितराजज्जलमुचि, सान्द्रीकृतेन्दुमहाकामुकमुदि, मधुरमधुतृणवीरुधि, सरससारसरसितसारकासारे, कशेरुकन्दलुब्धपोत्रिपोतपौत्रोत्खाततटतडागसञ्चरन्माषपुत्रिकापत्रीपटलमधुरसाध्वनिविहितमुदि, कदर्थितकदम्बे कम्बुद्विषि, प्रसृतबिसप्रसूने, चकितचातके, विरलवारिदे, तारतरतारके, वारुणीचारुचन्द्रमसि, स्वादुरससलिले, स्फुरितशफरतर्कुबकोटे, घूकमण्डूकमण्डले, सङ्कोचितकञ्चुकिनि, काञ्चनच्छेदगौरशालिनि, क्रोशदुत्क्रोशे, सुरभिगन्धिसौगन्धिकगन्धहारिहरिणाश्वे कुमुदामोदिनि कौमुदीकृतमुदि, निबर्हबर्हिणि, कूजत्कोयष्टिके, धृतधार्तराष्ट्रे, हृष्टकलमगोपिकागीतसुखितमृगयूथे, कथाकृतकिंशुके, म्लापितमालतीलतामुकुले, बन्धूकबान्धवे, सञ्जातकमुञ्जानके, विसूत्रितसौत्रामणधनुषि, स्मेरकाश्मीररजःपिञ्जरितदिशि, विकस्वरसरे शरत्समयारम्भे कन्दर्पकेतुः परिभ्रमन् शिलामयीं पुत्रिकां कौतुकेन, मोहेन, शोकेन, वेगेन स्वप्रियानुकारिणीति हस्तेन पस्पर्श ।

५३) अनन्तरं स्पृष्टमात्रा सा शिलामयीं मूर्तिम् उत्सृज्य, पुनर् वासवदत्ता स्वरूपम् आपेदे । ताम् अवलोक्य कन्दर्पकेतुर् अमृतार्णवमग्न इव सुचिरम् आलिङ्ग्य पप्रच्छ । "प्रिये कथय किम् इदं वृत्तान्तम्" ।

५४) सा तु दीर्घम् उष्णं च निःश्वस्य कथयितुम् आरेभे । "आर्यपुत्रापुण्याया मम मन्दभागिन्याः "कृते महाभाग उज्झितराज्य" इति एकाकी जन इव वाङ्मनसयोर् अगोचरं दुःखम् अनुभूतवान् । अनेकदिवसान् आहारशून्यतया कृशतरो निद्रान्ते यदि कदाचित् फलमूलादिकं मिलति, तदा शरीरस्थितिं करोतीति विचिन्त्य फलान्वेषणायोपवनतरून् अवलोकयन्ती कतिपयनल्वगोचरम् अगच्छम् ।

५५) क्रमेण च गुल्मान्तरितक्रियमाणकायमानिकं, विरच्यमानेश्वरगृहं, अवतार्यमाणकण्ठालकं, आरभ्यमाणपटुकटुकं, व्यवस्थाप्यमानवेश्यासंनिवेशं, श्रूयमाणतुरगहेषारवं, वाद्यमानविश्रामढक्कापुष्करं, अन्विष्यमाणस्वादुसलिलाशयं, उद्दिश्यमानविपणिकेतुवांशं सेनासन्निवेशम् अपश्यम् । तम् अवलोक्याहम् अचिन्तयम् । "किम् अयं ममान्वेषणाय तातस्य व्यूह आहोस्विद् आर्यपुत्रस्य वाहिनीसम्भार" इति चिन्तयन्त्यां मयि परिचारककथितोदन्तो माम् उद्दिश्य सेनापतिर् धावितः । ततोऽनन्तरं किरातसैन्यसेनापतिस् तादृश एव सेनासमन्वितो मृगयाव्याजेनागतः सोऽपि दावितः ।

५६) अनन्तरं चिन्तितं मया । "यद्य् अहम् आर्यपुत्राय कथयामि तदैकाक्य् एभिर् अवश्यम् एव हन्तव्यः । अथ न कथयामि तदाहम् एवैभिर् हन्तव्येति" चिन्ताक्षण एव द्वयोः सैन्ययोर् युद्धम् अभूद् एकामिषाभियुक्तयोर् गृध्रयोर् इव । ततः प्रवृत्तप्रतिशरासारदुर्दिनहृतदिनकरकिरणे, रथकर्मविशारदद्विरदकरदूरोत्क्षिप्तखड्गधरसुभटश्लिष्यमाणविद्याधरविभ्रमे, समरदर्शनसञ्चरदनेकनभश्चरचारणचक्रवाले, वेतालसमाक्रान्तस्कन्धकबन्धचक्रक्रियमाणचारुप्रचारे, चारभटखड्गखण्डितद्विरदपादसमाप्तपिशाचीकर्णोलूखलाभरणकौतुके, समुत्फुल्लफलकिनि, नदन्नान्दीके, कान्दिशीकभीरुणि रणखले, सृगालीप्रार्थनीयेष्व् आमिषपिण्डेष्व् इव वत्सदन्तक्षतेषु तृणेष्व् इव, जिह्मगदष्टेष्व् इव शरीरेष्व् अनास्थां कलयन्तः समं द्विषां धनुषां च जीवाकर्षणं चक्रुः ।

५७) त्यागिन इव दानवन्तो मार्गणसन्तापम् असहन्तः महामृगा उत्कुपिता इव क्षमां मुञ्चन्तस् तुरगा रेजुः । कर्णाभ्यां परपरिवादश्रवणकुतूहलिभ्यां, नेत्राभ्याम् आलोकितसाधुविपत्तिभ्यां, मूर्ध्ना चास्थाने प्रणमता "त्यक्तोऽहम्" इति हर्षाद् एव ननर्त चिरं कबन्धः ।

५८) ततः परिहासेनेव चक्षुषी पिदधता परापवादश्रवणारुणेव श्रोत्रवृत्तिं स्थगयता, सोन्मादेनेव वायुवेगविक्षिप्तेन, पलितङ्करणेनेव सुरयोषितां, अन्धंकरणेनेव योधानां, तिमिरेणेव समरप्रदोषस्य, पतितेनेव विमुक्तगोत्रेण, मीमांसकदर्शनेनेव तिरस्कृतदिगम्बरदर्शनेन, सत्पुरुषेणेव विष्णुपदावलम्बिना समरजेन रजसा जजृम्भे । तत्र समरसम्भारे कश्चिद् आशङ्कितोरुभङ्गः सुयोधन इव योधः पयसि विवेश । कश्चिच् छरतल्पशयो भीष्म इव चिराय श्वसन्न् आसीत् । कश्चित् कर्ण इव विक्लवीभूतसर्वाङ्गः शक्तिमोक्षणम् अकरोत् । ततो विध्वस्तध्वजपटं पतत्पताकं च्युतचापचामरापीडं स्खलत्खड्गधेनुकं तत्समस्तसैन्यम् अन्योन्यं निधनम् अवाप ।

५९) अनन्तरं यस्याश्रमस् तेन मुनिना पुष्पादिकम् आदायागतेन प्रतिपन्नसर्ववृत्तान्तेन "ममायम् आश्रमो भग्न इति शिलामयी भवेति" शप्ताहम् । अनन्तरं "वराकी बहुदुःखम् अनुभवतीति" करुणयार्यपुत्रस्य स्पर्शावधि शापान्तम् अकरोत् ।"

६०) ततः कन्दर्पकेतुः समागतेन मकरन्देन वासवदत्तया सह स्वपुरं गत्वा हृदयाभिलषितानि तानि तानि सुरतसुखान्य् अनुभवन् कालं निनाय ॥

इति महाकवि-सुबन्धु-विरचिता वासवदत्ता नाम कथा समाप्ता ।

स्रोतम्[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वासवदत्ता&oldid=122960" इत्यस्माद् प्रतिप्राप्तम्