वासन्तिकास्वप्नम्
वासन्तिकास्वप्नम् Shakespeare १८९२ |
PKEfACE.
I may perhaps appear presumptuous in having come forward to render into Sanskrit the thoughts of the immortal Bard of Avon, and I feel that my bold attempt needs a few words of explanation.
A literature is often enriched by translations. This has been the case with almost all the languages of Europe. We have thus English versions of Greek and Latin poets — not to speak of the English renderings of modern works of note in the current languages of Europe. Similarly the writings of Shakespeare have been translated into German, French and other tongues. Some of the choicest works of the East have also been thus rendered into several languages of the West. Sakuutala has her admirers on the banks of the Danube as much as on the banks o£ the Ganges or the Cauvery. It is a pity that Sanskrit should not have been thus enriched — the more so that it is peculiarly fitted for such a task by reason of its richness and pliability.
It has been my long-cherished wish to render into Sanskrit some of the plays of Shakespeare. But a trans- lation in the form of a Sanskrit drama, is attended with difficulties. A Sanskrit drama, even if it should be a trans- lation, has to conform to a string of hard and fast rules. Failing in this respect, the work, no matter however good. is sure to offend the taste of Sanskrit Pandits, and a work like mine written in the first instance to give our Pandits a taste of Western- poetry will have no reason for its existence.
Translation in narrative form is not so fettered ; but
the feelings and dramatic effect are lost in such mere narraii
tions. It is for this reason that Prof. H. H. Wilson has adopted the form of the English drama in translating Sans- krit Natakas. Following the same plan a translation of Shakespeare should have the garb of a Sanskrit drama, though it may not be possible in every case to observe the rules laid down for Sanskrit Natakas.
Generally translations are less effective than the originals ; much more should it be the case if they are Shakepeare's works. And in a first attempt of this kind Shakespeare must necessarily lose much of his original beauty, charm and grandeur. Yet this should not deter us from making the attempt.
This work is an adaptation of Shakespeare's Mid- summer-night's Dream. The rendering; is free in some places and literal in other places, without being detrimental to the general tenor of the passages in the original. The ideas are enlarged in some places, but the enlargement is generally in keeping with the dominant feelings. There are deviations in details with a view to keep up the characteristics of the Sanskrit drama. Some few passages pregnant with such ideas as cannot be brought home to our Pandits have been omited, as also some passages which relate purely to Western habits and customs. I daresay men of greater capacity and learning than myself may produce a much happier and better translation of the same play.
I have selected Midsummer-night's Dream at the outset, since it is not long and most of the ideas in it are not unfamiliar to the best of our Pandits* This play of Shakespeare has, of all his plays, the most Oriental cast about it, and I have accordingly given Sanskrit names for
all the characters in the play ; such as इन्दुवर्मा r Theseusiii
इन्दुशर्मा for Egeus, वसन्त for Lysander मकरन्द for Dennet rius, प्रमोद for Philostrate, धान्यक for Quince, अधरक for Bottom, धनक for Snug, वसुपालित for Flute राजस for Snout, साधक for Staveling, कनकलेखा for Hippolyta, कौमुदी for Hermia, सौदामिनी for Helena, प्रदोष for Oberon, निम्बवती for Titania, प्रमोह for Puck or Robin good fellow जयसेना, धूमिनी, | विजया and गोमिनी for Peaseblossonm, Mustardseed, Cobweb and Moth respectively. I trust that scholars will see some appropriateness in several of the names I have adopted.
I sincerely hope that this essay of mine may induce abler scholars to take up the task, and, with far better success, introduce to the literatii of the East some of the most chaste and beautiful thoughts of the West.
I am greatly indebted to the Honorable A. Seshiah Sastriar Avrgal, C. S. I.Dewan-Regent of Pudukota. but for whose very kind patronage I should not have been able to bring out this work.
I thank my printers for the very neat style in which they have brought out the work.
24th February 1892. PUDUKOTA.
THE AUTHOR.॥श्री॥
॥ वासन्तिकस्वप्नम् ॥
प्रथमोऽङ्कः ।
श्रीब्रह्माच्युतशङ्करादितनुभृत्त्रैगुण्यमाश्रित्य य- |
(नान्द्यन्ते सूत्रधारः)
अलमलमनया वेदान्तजिज्ञासया ।
(सामाजिकानवलोक्य साञ्जलिबन्धम् ।)
सदसद्व्यक्तिपारीणानमितज्ञानसम्पदः । |
(नेपथ्याभिमुखम् ।) मारिष ! किं विलम्ब्यते ।}}
पारिपाश्चैकः– (प्रविश्य) भाव, आश्चर्यानन्दसागरे किञ्चिन्मग्नः
क्षणं स्तब्धोऽभवम् ।
सूत्रधारः- कुत एवम् ।
तानां विदुषां पुरतश्चिरादधिगतं नाट्यप्रयोगं हेमेव निकषेषु दर्शयितुमाहूताः स्मः ।
सूत्रधारः– स्थान एवात्र ते संमोदः । कथं पुनरपि किञ्चिच्चिन्तयन्निव दृश्यसे ।
पारिपार्श्वकः– अस्मदधिगतेषु परिषदाराधने श्लाध्यतमं प्रबन्धं
सूत्रधारः– अये किं विस्मृतं त्वया ! यदाङ्गलभौमदेशेऽवतार इव कविताया अस्मत्कालिदासादीनपि क्वचिदतिक्रान्तो निजय शोधवलीकृततद्देशजनः कश्चित् कविरद्यापि स्वग्रथितग्रन्धरत्नैर्जीवति किल । स एष षेक्स्पियर्नाम यः परान् दृप्तान् कवीन् स्वनाम्नैव कम्पयति ।
पारिपार्श्वकः– आं स्मृतं मया । परं तद्विरचितानि सर्वाण्यपि नाटकानि सममेकां तुलामारोहन्ति । तेषु कतमदद्य प्रस्तूयताम् ।
सूत्रधारः-- वासन्तिकस्वममेव युज्यते । कालोऽप्ययं वसन्तः । तत्किं सर्वेऽप्यस्मद्वर्ग्यास्तत्प्रयोगोद्युक्ता: ।
पारिपार्श्वकः-- वयं तत्र सज्जा हर्षवन्तश्च ।
सूत्रधारः -- यद्येवं किन्न गीयते ।
पारिपार्श्वकः-- किमधिकृत्य गास्यामः ।
सूत्रधारः-- रे मुग्ध ! वसन्तोऽद्य सर्वोत्कृष्टतया राजते ।
पारिपार्श्वकः- प्रत्युत्पन्नमतिरत एव भवान् सूत्रधारः ।सूत्रधारपारिपार्श्वकौ – (सहर्षम् । )
माद्यत्कोकिलकान्तनिस्वनमिमं श्रुत्वा प्रहृष्यज्जगत् |
पारिपार्श्वकः-– (पार्श्वतोऽवलोक्य सभयम् ।) कथमस्मगीतमाधुर्याक्रान्तहृदय इवाद्य समग्रसामन्तमौलिनिवेशितमणिकिरणराजिरञ्जितचरणयुगलः, प्रथमे वयसि वर्तमानोऽपि सुरासुरदुरवगाहमहाबिलमद्वितीय एवावगाह्य, भीम इव बकम् , सङ्कर्षण इव वृषम् , वृषासुरमुन्मथ्य, संकटात्पितरमुन्मोच्यनिजबलविजिताशेषदृप्तराजराजिस्सम्पदा राजराजमप्यतिक्रान्तो रूपविभ्रमा कृष्टाशेषलीलावतीशेखरमणिरवन्तीनाथ इन्द्रवर्मा देव्या सहेत । एवाभिवर्तते । तद्गच्छावः । ( इति निष्क्रान्तौ !) (प्रस्तावना ।) (ततः प्रविशति कनकलेखयाऽनुगम्यमानः सप्रमोदः सपरिवारो राजा इन्द्रवर्मा ।) राजा-
प्रिये कनकलेखेऽद्य कुहूर्नेयं दवीयसी । |
अस्मदुद्वहमुद्दिश्य सोऽस्मि पर्युत्सुकः सखि । |
कनकलेखा-- वल्लभ , दिनचतुष्टयं तु प्रायो रात्रिचतुष्टयं भूत्वा क्षणमिव निद्रालुभिरस्माभिर्नीयमानमचिरेणैव दर्शनाने ष्यति यस्य निशयामावयोः परिणयमहोत्सवो भविष्यति । तत्किमिति दूयते महाराजेन ।
राजा-- रे प्रमोद, गच्छ सम्प्रति प्रतिरथ्यमस्मन्नगरस्य । तथा कुरुष्व यथा सर्वेऽपि युवन महोत्सवाभिनिविष्टचित्ताः परमा ह्लादभरिता वर्तेरन् । दुःखं विद्रावय वैवस्वतनगरमावर्जय सर्वतः प्रमोदम् ।
प्रमोदः- यथाज्ञापयति देवः । ( इति प्रणम्य निष्क्रान्तः )
राजा-- प्रणयवति कनकलेखे, जितवानस्मि त्वामसिधारया, तवाप्रियं कृत्वऽभवं प्रियस्तव। तस्मादद्य तादृशमप्रशस्तमार्गमुज्झित्वा महोत्सवप्रमोदप्रसाधनपूर्वं त्वां परिणेष्ये ।
( नेपथ्ये पदशब्द इव निपुणं निरूप्य ।)
किमयमागच्छन् वृद्धः कोपशोकाविष्ट इव दृश्यते ! तमनु द्वौ युवानौ काचिदिन्दुवदना च ।
( ततः प्रविशति इन्दुशम वसन्तः मकरन्दः कौमुदी च ।)
इन्दुशर्मा -- (हस्तमुद्यम्य ) विजयतास्माकमवनिपः ।
राजा– नमो भवत इन्दुशर्मन् , कथं कार्यातुर इव दृश्यते
भवान् ।
इन्दुशर्मा-
राजन्नियं मे दुहिता मदाज्ञा |
(मकरन्दं तर्जन्या निर्दिश्य ।)
एतं वरं सम्मतमेव कन्य |
( ततो वसन्तं सक्रोधं दृष्ट्वा पुनरपि राजानं प्रति। )
महाराज, दीयतां दयार्द्रं चित्तम् । अयं यौवनमत्तः कलाभिमानी तैस्तैरुपायैरेनां बालां मे दुहितरं मोहयित्वा वशीकरोति तन्मनः । ( सरोषविस्मयं वसन्तं प्रति ।)
रे रे वसन्त,
अहो ! ते गानमाधुर्यमहो! ते वाक्यपद्धतिः । |
यत
आकृष्टवानसि मम प्रियकन्यकाया |
तत्साम्प्रतम् ।।
तथा मुषितचित्ताऽभूत् कौमुदयं त्वया शठ । |
त्वया प्रेषितवस्त्रादि ह्यल्पश्च बहु मन्यते ।
(राजानम्प्रति ।)
न कोऽप्यत्र मया निन्द्यो राजन् कुरु दयां मयि ।
यावदियं वराकी मकरन्दमुपयम्य मन्मतन्नानुवर्तते तावदस्मद्देशचरमनुसृत्य पित्राज्ञाऽतिवर्तिनोऽपत्यस्य यावन् दण्डो विहितस्तवन्तमेषऽनुभवत्वित्याज्ञां दत्त्वाऽहमनुग्राह्यपक्षे गणयितव्य इति प्रार्थये ।
राजा- (कौमुदीं प्रति ।) कथय वासु, किं वा युक्तं समयविरुद्धाचरणम् ।।
प्रायो जनयिता तन्वि कुमारीणां हि दैवतम् ।
बिम्बस्य तस्य यत्पुत्रयः प्रतिबिम्बपदं श्रिया ॥ १२ ॥
किञ्च । रमणीयोऽयं तरुणस्ते वरो मकरन्दः ।
कौमुदी– महीपते, तथैव वसन्तोऽपि ।
राजा - बाले, वसन्तः प्रियदर्शनोऽपि पितृपक्षपातोऽस्मिन्निति तव प्रेयान् मकरन्द एव ।
कौमुदी-- यदि मे जनको वीक्षते मदीक्षणेनैनं वसन्तं तदा बहुमानयिष्यति स एव मन्मनसम् ।
राजा- परं तद्विवेचनामाश्रित्य खलु वीक्षणीयं त्वया ।
कौमुदी – करुणानिधे क्षम्यत दासजनस्यायमपराध । न जाने केन वा कारणेन मे मनस्येतादृशनिर्णयो जातः । विस्मृतं च
मया महानयमनयो यद्राज्ञः सन्निधावेवमचरितम् । तातनिदेशाननुरोधेन यन्महदनिष्टं भावि तन्मे निरूपयतु महाराजः ।
राजा- अयि भद्र, दर्शनीयं ते वपुः । अयातयामं वयः । सर्वजनमहनीया जातिः । अभंगुरा तारुण्यधोरणी । तत्सर्वमेकपद एव मा कृथा वृधा । यदि पितरं नानुवर्तसे तदा शरणं भवति मरणमथवा यावज्जीवं परिणयाकरणम् । उक्तञ्च नास्ति जीवितादभिमततरमिह जगति जन्तूनाम् '। रमणरहितत्वं हि रमणीनां त्वादृशीनां मरणादपि कष्टतरम् । तथात्वे सर्वतोऽपि दुःखम् । न केवलं तवाभिमतवल्लभानान्निशोकः । एतादृशकुलसमयाचरविरुद्धगामिन्या सुखं नाम कथं भवेत् तव पितुर्मातुर्वा । मर्मच्छेदी खल्वेष वृत्तान्तः सर्वबन्धूनाम् । परिहास्योऽयमन्येषाम् । तज्जातमामरणं किल हृदयशस्यं सर्वेषाम् । सैष ते मतिर्न कल्याणी, न कदाऽपि सुखावह । तदपरज्य वसन्तन्मकरन्दमेव प्रतिपद्यस्व ।
कौमुदी-- महाराज, यद्भावि तद्भवतु । वसन्तं विहाय नान्यं पश्येयम् । तदथ जीवितमपि त्यजेयम् । यावदायुः परिणयं विनापि वसेयम् । एष एव निश्चयोऽस्या मन्दभागिन्याः ।
राजा --
कालेनालोच्य वक्तव्यं बालेऽस्मिन् विषये त्वया । |
मकरन्दः- (सविषादानुनयं कौमुदीं प्रति)
सरले प्रसीद मा मां त्वद्रागाविष्टचेतसं मुञ्च । |
सासूयं वसन्तं प्रति ।)
अन्याय्यस्तव रागस्तातनिदेशो हि बहुमान्यः ॥ १४ ।।
वसन्तः– (मकरन्दं प्रति ।) त्वं तावत्प्रियोऽस्याः पितुः । अहन्त्वस्या एव । अपि नामेहसे तस्योपयमन् ।
इन्दुशर्मा– (सभ्रूभङ्गम् ।) किमात्थ र जाल्म वसन्तहतक, सत्यमेव मत्प्रेमाधिक्यं " वहति मकरन्दः यद्यन्मदीयं तत्तदस्मै प्रेम्णा दातुं सज्ज एवाहम् । इयं तु मदीयैव नान्या । यप्रभुत्वममुष्यां मे वर्तते तत्सर्वमद्य दीयते मकरन्दाय ।
वसन्तः-- (राजानं प्रति ।)
विशिष्यते न मत्तोऽयं जातिरूपवयोधनैः ।
सोशील्येनापि भो राजन् स्त्रीमनोहरणेन वा ।। १५ ।।
महीपाल, वराीयानत्रानुराग एव कन्यकायाः । अन्यदप्यत्र द्रष्टव्यम् । सत्यमेव यथेयं कौमुदी मय्यनुरागिणी तथैवास्मिन्नपि प्रणयवती काचिदुत्पलाक्षी वर्तते । सैषा सौदामिनी नाम । तां खल्वेष मकरन्दः प्रथमं प्रणयेन वशीकृत्य साम्प्रतं कौमुदी मपि कामयते । नैषा सज्जनाचरिता सरणिः । किं बहुना ।
एनं विचिन्त्य मदनज्वरतापतप्ता |
राजा-
श्रुतपूर्वं मयाप्येतत्कर्णाकर्णिकया भृशम् । |
(नेपथ्ये मृदङ्ग ध्वनिः ।)
कनकलेखा-- कथमस्मदगमनं प्रतीक्षन्ते बहव सङ्गतशालाभ्यन्तरे ।
राजा -- परं कार्यपरतया विस्मृतमेतत्सर्वमपि । तत्वरितं गम्यते । इन्दुशर्मन् , मामनुयाहि मकरन्देन । युवभ्यां किञ्चिद्गूढं वक्तुकामोऽस्मि । अयि बाले कौमुदि, सम्यगालोच्य तातमेवानुसर नोचेद्भज मरणमुत त्यज परिणयमेषाऽस्मद्दण्डनीतिरित्यवधार्यताम् । प्रिये कनकलेखे, सम्प्रति साधयामः (मकरेन्दुन्दुशर्माणौ दृष्ट्वा) अग्रतो गम्यताम् ।
इन्दुशर्मा-- यथाऽऽज्ञापयतेि देवः ।
( इति कौमुदीवसन्तवर्जमन्ये निष्क्रान्ताः । )
वसन्तः-- (कौमुदीचिबुकमुन्नमय्य ।)
सखि प्राणाधिकस्नेहे, कथं ते गण्डपाण्डिमा। । |
कौमुदी-
वर्षाभावादिदं नाथ, कुसुमं तव ताम्यति । |
वसन्तः-
श्रेयांसि बहुविघ्नानि किं भद्रे न श्रुतं त्वया । |
अयि प्रिये, न किं ते कर्णपथमागतं यज्जनकेन सञ्जयाय दत्तमात्मानमनुरागसाक्षिकमुदयनाय प्रयच्छन्त्या वासवदत्तयाऽन्वभाविमहान्क्लेश इति । तथैव सर्वत्राप्यनुरागानुगुणं वलभमक्लेशेनैवाप्नुवत्यो नार्यः प्रायो विरला एव । इह खलु दाम्पत्यं नाम क्वचिज्ज़ात्या भिद्यते-
कौमुदी— हन्त ! उत्तमनीचयोः परिणयो मामयं महानभाग्यपरिणाम: ।
वसन्तः --- उत क्वचिद्ववयसा वसंवदति -
कौमुदी— तरुण्या जरठभर्तुलाभ इति विधिविहितो महानयं दण्डपातः ।
वसन्तः– आहोस्विन्मित्रवर्गविनिर्दिष्टं भवति ।
कौमुदी~ यदन्यदीयचक्षुषा वरणं वल्लभस्येति नातःपरं कष्टतर मस्ति युवतीनाम् ।।
वसन्तः– यदि कदाचित्सर्वथाऽनवद्य दाम्पत्यं तत्तु आयोधनेन निधनेन व्याधिना व विहन्यमानं शब्दवत्क्षणभंगुरं प्रतिबिम्बवदनियतं स्वप्नवदनायातं कृष्णनिशानिशीथनिरूढान्धतमसपरिस्फुरच्चञ्चलाचञ्चलतरञ्च भवति । सुखं हि नाम क्षणभंगुरम् । कष्ट खङ लाकयात्रा ।
कौमुदी-- सर्वत्रानुरागः क्लेशपुरस्सर इति चेत् सहिष्णुभ्यामेवावाभ्यां प्रतीक्षणीयः कश्चित्कालः ।
विधिरेव विशेषगर्हणीयो |
अनुरागवशंवदा हि नालं |
यथैव सन्ततचिन्तास्वप्ननिश्वासप्रत्याशाश्रूणि प्रणयाभिभूत मनस्कायः सहजानि तथैव तीव्रवेदना च ! किं करोमि मन्दभागधेया । ( इत्यश्रूणि मुञ्चति ।)
वसन्तः-- समाश्वसिहि । भद्र, समाश्वसिहि । शृणु मे वचनम् । एषैवात्र प्रतिपत्तिः । काचिन्मे पितृष्वसा मृतभर्तृका वर्तते । तस्या द्रविणमस्त भूरि । अनपत्य च सा । अवन्त्या- क्रोशद्वयमात्रमेव तस्याः सदनम् । पुत्रमिवाभिमन्यते मामेषा । तत्र भवत्वावयोः परिणयो गान्धर्वेण विधिना । नास्त्ययं कठोरः समयाचारस्तत्र । यदि ते सत्यमेव मय्यनुरागस्तर्हेि श्वो रात्रौ वञ्चितस्वजना पितृगृहाद्गृढं निर्गत्य नगरस्य नातिदूरे बाह्योद्याने यत्र कदाचिदद्राक्षम् त्वां सौदैमिन्या सह तत्र वकुलवीथ्यां त्वदगमनदत्तचक्षुष मया संगच्छस्व ।
कौमुदी - (हर्षमभिनीय ।)
सम्यग्विचिन्त्य मदनानलदाहशान्ति |
सत्यमेव भवता तस्यामेव बकुलवाटिकायां संगच्छेय ।
वसन्तः प्रिये, प्रतिश्रुतमप्रमत्तैव निर्वंहस्व । सम्प्रति पश्य सौदामिनीमितएवागच्छन्तीम् ।
(ततः प्रविशति सौदामिनी ।)
कौमुदी-- जयजय चिरमत्र रमणीये सौदामिनी, कुत्र गम्यते भवत्या ।
सौदामिनी- अयि परिहासशीले, किं मामुपहससि लावण्यवार्तया यदितेऽस्ति त्रैलोक्यसम्मोहनं सौन्दर्यं येनासौ मकरन्दो लोहधातुरिवायस्कान्तेनाकृष्टस्सन्ततं त्वामेव निद्धयायति । अहो हृद्या हि ते लावण्यमञ्जरी । त्वदपाङ्गभुजङ्गदष्टश्शश्वन्मुह्यति महाभागो मकरन्दः । त्द्वचनामृतास्वादनेन वीणावेणु निनादमपि नाद्रियते। वसन्तोदयवसरेषु पाककपिशकलममञ्जरी रमणीयनवनवमालिकाकुसुमसुरभिदक्षिणानिलवीज्यमानगृह।राम रसालकिसलयरसास्वाद मत्तकलकोकलमनोहररुतमपि न श्रृणोति । रन्ध्रान्वेषी कुसुमधन्वाप्यमुमेव समयमधिकृत्याधिकं दुनोति महानुभावम् । यदि त्वदुक्तं किञ्चिद्रामणीयकं मयि वर्तते तत्प्रतियच्छेयं तावकाय । मदलकस्ते चूर्णकुन्तलशोभामिच्छति । त्वदीक्षणप्रभां लिप्सेते मे लोचने । त्वद्वाणीविलासञ्जिघृक्षति मे रसना । किं बहुना प्रलपितेन । यदि भवामीश्वरी सर्वलोकानां मकरन्दवर्जं तत्सर्वमपेि त्वद्रामणीयकविलासविभ्रमेभ्यः प्रतियच्छेयम् । यदि सकरुणा त्वं प्रियसखीविषये तर्हि शिक्षय मां
कथं त्वमीक्षसे । केनवोपायेन महानुभावमकरन्दमनोऽप्यावर्जितवती येनायमद्य शून्यवत् भ्राम्यति ।कौमुदी- अहो कोपविवर्तमानविषण्णवदनामपि मां कामयतेऽयं वराकः ।
सौदामिनी-- सखि, तव क्रोधवैवर्ण्यरामणीयकं धारयतु मे स्मितम् ।
कौमुदी-= हन्त ! शपथशतेन निवारयन्तीमपि मां मानमुत्सृज्यानुसरत्ययं मकरन्दहतकः ।
सौदामिनी-- आयि ते शपथशोभां भजतु मेऽनुरागनुतिसहस्रम् ।
कौमुदी-- यावदहं कुप्यामि तावदयं स्निह्यति । सौदामिनी- यावदहं स्निह्यामि तावदयं कुप्यति ।
कौमुदी– सौदामिनि, तदबोधो न मेऽपराधः ।
सौदामिनी– न तेऽयमपराधः, अपि तु ते लावण्यस्य । तादृशमपराधं लिप्सतेऽस्या मनो मन्दभागिन्याः ।
कौमुदी-- समाश्वसिहि प्रियसखि, नेतः पर द्रक्ष्यति मन्मुखं ते मकरन्दः । जिहासामि नगरमेनं प्रियवसन्तेन } यावदयं वसन्तो नावातरन्मे लोचनपथं तावदेव मामवर्तत रम्येयमवन्ती स्वर्ग इव । अहो ! गरीयाननुरागः यदुपघातात् त्रिदिवोपि निरयायते ।
वसन्तः-- ( सकरुणम् )
अयि सौदामिनि प्रेमबाहुल्यादनुतप्यसे । |
कौमुदी-- प्रियसखि, रजन्यामागामिन्यमेतस्य नगरस्य बाह्योद्याने अस्मत्केलिगृहायमाणबकुलवीथ्यां मदागमनदत्तचक्षुषा वल्लभवसन्तेनार्धरात्रे सङ्गम्य अवन्तीं हित्व।न्यदेशं गमिष्यामि । कथं त्वां पांसुक्रीडनात् प्रभृति प्रणयवतीं मुकत्वापसृता भवेयम् । तथापि कार्यवशेनैतत्करणीयं भवति त्वां पुनरपि | कालेन प्रेक्षिष्ये यदि दैवमनुकूलम् । मकरन्दमुपयम्य सुखमत्रैव वस । न भूयात्ते प्रत्यूहो मङ्गलपरपरायाः । सखि विस्रब्धं परिष्वजस्व मां त्वद्वियोगदुःखदुःखिताम् । ( इति परिष्वज्य ) नाथ वसन्त, अप्रमादेनाचर स्वप्रति श्रुतम् । । कथं वा त्वद्वियोगं सहिष्ये तावन्तं कालम् ।
वसन्तः- अयि महिले, न मया ' कदाचिदप्यसत्यमाचरितम् ।
- (निष्क्रान्ता कौमुदी)
सौदामिनि, अनुरागाभिनिविष्टां त्वामेवोपयम्य कुशलीभवतु मकरन्दः । साधयामि। (इति निष्क्रान्तः )
सौदामिनी-- अहो ! केचन सुखिनः, केचन दुःखभागिनश्च भवन्ति नियत्या ! कौमुदीवाहमपि युवतिललामभूतैवास्मिन्नगरे । किमनया चिन्तय । मकरन्दस्तथा न मन्यते । यत्सर्वेपि मां शसन्तीति न किञ्चिदेतत् प्रियमकरन्दस्य । यथेैवायमद्य कौमुदीमेव कामयते तथैवाहमपि तम् । नीचमपि वस्त्वनुरागरञ्जितश्चेद्भवति रमणीयम् । मनोरथ एव कारणमनुरागस्य न चक्षुषी । उक्तञ्च ।
‘‘व्यतिषजति पदाराथीनान्तरः कोऽपि हेतु र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते । |
विकसति हि पतङ्गस्योदये पुण्डरीकं |
मन्मथोऽपि मनसिज एव न चाक्षुषः । विवेचनराहेित्यादर्भक इवानुरागो मुहुर्मुहुरभीष्टवरणे वञ्चितो भवति । बिहारासक्तचेतसः परस्परजयाकाङ्क्षिणो बालकानिव जननसत्यवादिनः करोति । तत्क्षणभंगुरोऽयं प्रणय । यतोऽसौ मकरन्दः कौमुदीदर्शनात्पूर्वं मय्यवर्तत प्रेमपरवशः । शश्वन्मद्रामंणीयकमेवास्तावीत् । मदुक्तम् ‘* मन्त्रमिव जजाप, बहुमङ्गलमिव मेने, आगममिव सस्मार, दिष्टवृद्धिमिव शुश्राव, उपदेशमिव जग्राह प्रतिशुश्राव च मय्यवनुरागम् । तावदेव तस्यानङ्गमङ्गलगृह यितं मे वदनेन । परं कौमुदीदर्शनात् प्रभृति तेन विस्मृतमेतत्सर्वमप्येकपद एव । संप्रति हालाहलायते मे वचनम् । द्वेष्टयसौ मद्दर्शनम् । नाद्रियते तद्विरहानलतापतप्तामेनां सौदामिनीम्। विवृत्तवदनो भवति सन्मुखागतायां मयि । किं बहुना । शपथशतेन निवारयति तमेवानुसरन्त माम् | किं करोमि, कुत्र वा गमिष्यामि, कं वा शरणं भजामि । केन वोपायेन प्रीणयामि प्रियमकरन्दम् । किं वा कौमुदी गमिष्यति श्वो नगरादस्मादिति निवेदयामि मकरन्दम् । तथा चेत्सोऽपि तामेवानुगमिष्यति । यदि मकरन्दः प्रीतो भवति मयि प्रियनिवेदनेन तदेव मन्ये महाभाग्यम् । यद्भावि तद्भवतु । सर्वथ।द्य तस्मै कौमुदीवसन्तपलायनं निवेद्य कदाचित्तदनुग्रहपात्रीभवेयम् ।
- ( इति निष्क्रान्ता ।)
इति वासन्तिकस्वप्ने प्रथमोऽङ्कः ।
द्वितीयोऽङ्कः ॥
- (ततः प्रविशति धान्यकः, अधरक , धनकःवसुपालितः,
राजसः साधकश्च )
धान्यकः- हीमाणहे ! किणो एत्थ आशण्णा शब्वे वि अम्हवग्गिआ ।
- आः ? किमत्रासन्नाः सर्वेप्यस्मद्वर्ग्याः ।
अधरकः– अळे ळे ! धण्ण आ, क्कमेण एक्केक्कशो ताण णामाइ आहबूण पलिक्खा वेअ जुत्ता ।
- अरे रे धान्यक, क्रमेण एकैकशस्तन्नामान्याहूय परीक्षैव
- युक्ता !
धान्यकः - वट्टइ इध पट्टिआ, जाए क्कमेण ळिहिदाइ णामहेआइ ताणं । जे जे अम्हशामिणाह शण्णिहिम्मि पळिणअमहूशवदिवहम्मि केण वि अपुळिवेण पअळणेण उच्छवशमाअं विणोएदुं अळिहा त्ति णिएणीदा ।
वर्तत इह पट्टिका, यस्यां क्रमेण लिखितानि नामधेयानि तेषाम् । येऽस्मत्स्वामिनो:सन्निधौ परिणयमहोत्सवदिवसे केनाप्यपूर्वेण प्रकरणेन उत्सवसमाजं विनोदयितुं अर्हा इति निर्णीता: ।
अधरकः-- अळ घण्णआ, कहेहि पुढमं के उण कहाशन्दभ्भे
शे णाडआह । ता पढिजाजन्दु णामाइ णढाणं ।अरे धान्यक, कथय प्रथमं क: पुन : कथासंदर्भोऽस्य नाटकस्य । तत: पठ्यन्तां नामानि नटानाम् ।
धन्यकः- शू अदिकणे एशे पअळणे । शामिणीए भाणुमईए शामिण।ह अम्हइदाह अ तुमुळे पाणविओए वेअ वत्थु शेणाड अlह ।
हा ! अतिकरुणमेतत्प्रकरणम् । स्वामिन्या भानुमत्या: स्वामिनोऽश्मकेन्द्रस्य च तुमुलः प्राणवियोग एव वस्त्वस्य नाटकस्य ।
अधरकः-“ शlहु ळे घण्णआ शlहु, पढ़ पढ शंव्वदं ताणं अहिहाणइ णडणम् । वळे णाडआ, ण एअत्थ संउलीहोध । साधु रे धान्यक साधु ! पठ पठ सांप्रतं तेषामभिधानानि नटानाम् । भो नटा:, नैकत्र संकुलीभवत ।
धन्यकः --- अज्ज णाडआ। शुण।ध। ( इति दलं विदलय्य वाचयति ।) पुढमे दाव तन्तुवाए अहळए ।
भा नटाश्श्रृणुत । प्रथमं तावत्तन्तुवायोऽधरक: ।
अधरकः-- हके, हगे, अहए शज्जे । कहेहि का मह भूमिआ । अहमहमत्र सज्जः । कथय का मे भूमिका ।
धान्यकः -- अम्हइन्दे होहि ।
अश्मकेन्द्रो इव ।
अधरकः-- के एशे अम्ह इन्दे कूळे आदु अणुळ|इणे ।
क एषोऽश्मकेन्द्रः । क्रूरो वानुरागी ?
धान्यकः-- एशे शे अणुळएण पणएण अ अप्णो पाण ओवच्चिदवन्ते ।
अयमनुरागेण प्रणयेन चात्मनः प्राणानपवर्जितवान् ।
अधरकः-- अळे ळे धण्णआ, मए अणुळाआदु शIहु कङ्कणे अहिणीदे अहिअद अश्शु मोइश्शन्दि शव्वे वि शामइआ । जइ चउळे हके ता अख्खिळख्खणे हन्तु शावहाणा चख्खुळ्ळआ। तइ प्पअंव्वणं पि प्पअंव्वइश्शं । भीमं पि भाअइश्शं ! शव्वंपि शिढिळीकळिश्शं । ळोदतळं केळिश्शं । चाळआ वि भेइश्शं त्ति ते उच्चवआइ मह विजंफिदाइ । होदु जहशत्ति कङ्कणं पि अहिणइश्शं । के के इअळे णडा । कहेहि । अरे रे धान्यक, मया अनुरागात्साधु करुणेऽभिनीते अधिकतरं अश्रु मोचयिष्यन्ति सर्वेपि सामाजिकाः । यदि चतुरोहं तदक्षिरक्षणे भवन्तु सावधानाश्चक्षुष्मन्तः । तदा प्रकल्पनमपि प्रकंपयिष्यामि । भीममपि भापये ष्यामि । सर्वमपि शिथिलीकरिष्यामि । रौद्रतरं क्रीडि. ष्यामि । चारकानपि भेत्स्यामि । इत्युच्चावचानि मे विजृंभितानि । भवतु यथाशक्ति करुणमप्यभिनेष्यामि । क इतरे नटाः । कथय ।
धन्यकः - दुदीए दाव वशुपाळिदए । द्वितीयस्तावद्वसुपालितः ।
अधरकः--- धण्णआ, अअं म्हि ।
धान्यक, अयमस्मि ।धान्यकः- वशुपाळिदा, भाणुमई होहि । वसुपालित, भानुमती भवेः ।
बसुपालितः- किणु शे भणुमई त्ति । के वि जत्तिए वीळे व । किं तद्भानुमतीति । कश्चिद्यात्रिको वीरो वा ।
धान्यकः-- श का वि तळुणी जं अम्हइन्दे कामेज्ज । सा कापि तरुणी यां अश्मकेन्द्रः कामयेत ।
वमुपालितः-- कइ वि हके अवळा ण होज्ज । किं णो अहए उम्भिज्जमाणम्हशुळिए ।
कदाप्यहमबला न भवेयम् । किं नाहमुद्भिद्यमानश्मश्रुकः। धान्यकः- इशि मुहं अच्छादिअ वेअ णडिश्शशि । मिउभा शी अ होहि ।
ईषन्मुखमाच्छाद्यैव नटिष्यसि । मृदुभाषी च भव ।
अधरकः-- अळे ळे धण्णआ, हगे अ मुहं अच्छादिअ भाणुवळ्ळहा, माणअ मईए वेशं गण्हिश्शं ! अहिणइश्शं । अ।ळविश्शं अ मंजु । अम्हइंद, पिआ तुह म्हि भाणू , भाणुमा, भाणुमी, भाणुमई त्ति अ शळशदळं अहिव्वाहलिश्शं ।
अरे रे धान्यक, अहमपि मुखमाच्छाद्य भानुमत्या वेषं ग्रहीष्यामि । अभिनेष्यामि । आलपिष्यामि च मंजु । वल्लभ ’ मानद , अश्मकेन्द्र, प्रिया तवास्मि भानूः, भानुनी, भानुमती, इति च सरसतरमभिव्याहरेयम् ।
धान्यकः- णो णो तुमं शि अम्हइंदे । वशुपाळिद, तं भाणुमई शि ।नो ! नो ! त्वमस्यश्मकेन्द्रः ? वसुपालित, त्वमेव भानु मत्यसि ।
अधरकः-- अहइं, तदा तदो । अथ किं ततस्ततः ।
धान्यकः-- तदा एत्थ fळहिदे शाहए । ततोत्र लिखितःसाधकः ।
साधकः-- एशे म्हि शाहए । एषस्मो साधकः ।
धान्यकः- अळे शाहआ भाणुमईए मादुभूमिअं गण्ह । तदोअ ळाअशे।
अरे साधक , भानुमत्यामातृभूमिकां गृहाण । ततश्च राजसः ।
राजसः-- के मे वेशे ।
को मे वेषः ।
धान्यकः -“ अळे ळाअश, तुमं अम्हइन्दाह आवुए होहि । इके भाणुमईए आवुए । चळमे दाव धणए। अळे ळे धणआ, केशरिणेवच्छं गण्ह । तह जइ ओशिदे णाडए ।
अरे राजस, त्वमश्मकेन्द्रस्य जनक भव ! अह भानु मत्या जनक: । चरमस्तावदद्धनकः । अर रे धनक, केस रिनैपथ्यं गृहाण । तथा चेत् अवसितं भवति नाटकम् ।
धनकः- किण्णु मए शिंगरूविणा ववहळिदव्वं कुंगभूमिंमि ।तं ळिहिदं अत्थि जइ अज्ज वेअ दिज्जउ , जं एशे मान्दे पढणकम्मणि !
किं मया सिंहरूपिणा व्यवहर्तव्यं रङ्गभूमौ । तल्लिखितमस्ति चेदद्यैव दीयताम् । यतोहं मंदः पठनकर्मणि ।
धान्यकः-- ए किं पि तुह अत्थि पढणिज्जम् ? केशळिणोववहाळे उ अशीहिदेण वि शुअळे ? जदो अट्टहाशे वेअ शे वाहाळे ।
न किमप्यस्ति ते पठनीयम् ? केसरिणो व्यवहारसत्वशिक्षितेनापि सुकरः ! यतोऽट्टहास एव तद्व्यवहारः ।
अधरकः-- अट्टहाशे जइ हगे वि केशऴी होम्मि। गहिळं ऴुविमि । गच्चंमि जीमूदे विअ तइ मुहळीकशीऴंश दह वि दिशाओ मह गच्चणेण । जह अम्हाणं अवणिवे उण वि गच्च त्ति वइशइ ।
अट्टहासश्चेदहमपि केसरी भवामि ! गभीरं रौमि । गर्जामि जीमूतइव ! तथा मुखरीकरिष्यामि दशापि दिशो मद्गर्जनेन यथाडस्माकमवनिपः पुनरपि ए गर्जेति वदिष्यति |
धान्यकः-- जइ अहिअं गच्चशि तइ अवळाओ शव्वाओ विभएण ऴुदन्तीओ ओशळेज्ज । तइ अम्हाणं चितवधं काळइ श्सइ ळाआ ।
यद्यधिकं गर्जसि तदा अबला: सर्वा अपि भयेन रुदत्योऽपसरेयु : । तदाऽस्माकं चित्रवधं कारयिष्यति रााज !
सर्वे- (सभयम् ।) अविध प्पमाए ! सच्चं जेव्व अम्हे चितवधं अणुहुविश्शम्ह ।
</poem>अहो । प्रमादः ! सत्यमेव वय चित्रवधमनुभविष्यामः ।
अधरकः = चित्तवधभीई जइ मिउ मिउ गच्चन्हि ! कोइळोव्व
ऴुवीमि ।
चित्रवधभीतिर्यदि मृदु मृदु गर्जामि । कोकिळ इव रौमि ।
धान्यकः — अम्हइन्दादु उदे ण अण्णा भूमिआ तुह जुज्जइ जदो शे अम्हइन्दे ळमणिज्जवअणे ऴुव्वजोव्वण संवण्णे विळाशी अ । अदो तुमं अम्हइन्दणेप्पच्छं वेअ धाळइश्शशि । अश्मकेंद्रादृते नान्या भूमिका तव युज्यते । यत: सोऽश्मकेंद्रो रमणीयवदनो रूपयौवनसंपन्नो विलासी च । अतस्त्वमश्मकेंद्रनैपथ्यमेव धारयिष्यसि ।
अधरक – तह अथ्थु ।
तथाऽस्तु ।
धान्यकः-- वळे नडा, शव्वे वि तुभ्भे णअळादु बही आआ मिणीए जोण्हाघवळिदं अळण्णाणिं अवणिवाह प्पविठ्ठेण मए शंगच्छध । तत्थ णिश्शंवाहवेळाए विअळिदविघ्घशंका शंम णडित्तूण पओअणिउणा हुविश्शम्ह ।
भो नटाः, सर्वेपि यूयं नगराद्वहिरागामिन्यां शर्वर्यो ज्योत्स्नाधवलितभरण्यानीमवनिपस्य प्रविष्टेन मया संगच्छध्वम् । तत्र निःसबाधवेलायां विगलितविघ्नशङ्काः सम्यङ्नटित्वा प्रयोगनिपुणा भवेम ।
सर्वे तह ।
तथा । (इति निष्क्रान्ताः ।)
इतेि प्रवेशकः ।।
(ततः प्रविशतो नेपथ्योभयपार्श्वाभ्यां प्रमोहः किन्नरी च ।)
प्रमोहः--- भद्रमुखि, कुत्र गम्यते ?
किन्नरी --- साम्प्रतमहस्--
क्वचिच्छैलाग्रेषु क्वचिदपि च नीरन्ध्रतमसि |
रे र किन्नर, कुशलमस्तु ते। सम्प्रत्यागमिष्यत्यचिरेणैवास्मत्स्वामिन्यत्र सह परिवारेण ।
प्रमोहः-- अयि, किञ्चिच्छुद्धस्व मे वचनम् । निर्णीतवानस्मद्राजा प्रदोषोऽत्रैवास्यामेव रजन्यमागत्य परिवरेण नर्तितव्यमिति । तत्कुरुष्व यथाऽस्मदवनिपस्य दृष्टिपथं नावतरेत् स्वामिनी । यतस्तस्यामतीव वद्धवैरो देवः ! स त्वेष्वेव विवसेषु कञ्चित्सुन्दरं राजकुमारमानीय वर्धयति । तं खल्ववनिपः स्वसेनापतिं चिकीर्षति । देवी तु न कदापि बालकं दास्यामीति साभिनिवेशं भणति । ततः प्रभृति कोपविष्टस्तस्यां राजा । त तु राजकिशोरकमतीवादरेण पोषयति देवी । जातीचम्पककुसुमैरलङ्करोतिं शश्वत् । स एवास्या। हर्षभूमिः । तस्मादद्य ।
वने वा शैले व तरुगहनकुञ्जेषु पुलिने |
दिने वा शर्वर्यामविकलशरच्चन्द्रमसि वा |
किन्नरी-- (प्रमेहं सम्यङ्निर्वर्ण्य ) यद्यविस्मरणशीलाहं जानामि त्वां तमेव तीक्ष्णमतिं दुष्टप्रमोहम् । यस्त्वमायासयिता सर्वप्रा णिनम् ! तथाहि। भाययसि कदाचित् मुग्धा: ग्रामवनिताः । क्षारयसि क्षीरं दोहकाले, भ्रामयसि यन्त्राणि, पातयसि तोरणानि, क्षालयसि महार्हाणि वस्त्राणि,भुक्त्वा नवनीतं मन्थयसि । दधि वृधा, कृत्वा बृंहितं व्यामोहयसि गजान् । छित्वा बन्धनं विद्रावयसि वाजिनः । चोरयित्वोष्णीषाण्याक्रन्दयसि राजसेव कान् । कृत्वा स्तनितमुत्साहयसि शिखिनः। मोहयित्वा पान्थानन्यत्र गमयसि, तानपहससि च । ये त्वां “मनोहर, दयालो, प्रमोह, प्रभो, इत्याह्वयन्ति तेषां साधयसि कार्याणि लीलया । सम्पादयसि च तत्समीहितम् । भाग्यवन्तः खलु ते ये त्वामाराधयन्ति । एवं किल नीयते कालः त्वया। । न किं त्वमेतादृशः ।
प्रमोहः-- (हर्षम् ।) साधु साधु, अहमेव तादृशः परिहासलीलारुचिर्निशाभ्रमणकौतुकी ।
तैस्तैर्नेमवचोभिरद्य कुतुकं राज्ञःसमुत्पादयन् |
(पार्श्वतोऽवलोक्य ) अपसराषसर । इत एवागच्छति राजा
भदष पपरवारः ।किन्नरी-- अहो प्रमादः। अत्रैवागच्छति स्वामिनी । निम्बवत्यपि । (ततः प्रविशतो नेपथ्यमुभयतः प्रदोषो निम्बवती च स्वस्वपरिवारेण )
प्रदोषः- (निम्बवतीं प्रति ।) अस्यां रजन्यां आवयोः इदमन्योन्यदर्शनन्न सुखायते ।
निम्बवती-- किं ! किं ? ईर्ष्याकलुषितहृदय प्रदोषो वा । (अनुचरीर्दृष्ट्वा) गन्तव्यमस्माभिरितः प्रदेशात् । यतोऽहमस्य शय्यां दर्शनं च सशपथं वर्जितवती ।
प्रदोषः-- मा तावत्साहसिके, किन्नाहं ते प्रभवामि ?
निम्बवती— तथाचेदहमपि त प्रधानमहिषी । अपि न जाने यदा यदा भवान् हित्वास्मद्देशं धृत्वा गोपवेषं गत्व बहु दूरं कृत्वा वेणुगानं आचकषं कस्याश्चित् मदनाक्रान्तायाः गोपि काया: मनः । अयि मूढ, किमहं न बोधामि त्वत्प्रत्यागमनकारणं ते गूढनायिकायदेशयाश्शौर्यावलिप्तहृदयाया इन्द्रवर्मणा हठादुपयम्यमानायाः कनकलेखयाः परिणयमहोत्सवदिदृक्षैवेति ।
प्रदोषः -- निम्बवति, कनकलेखाया मम च कमपि प्रणयमामन्त्रयन्तीं न बाधते त्वां लज्जा मयि जानत्येव ते अनुरागं इन्द्रवर्मणि । अपि न जानीषे यत्सर्वलोकविदितं त्वयैव कारणभूतया त्वदनुरागभाजनेन इन्द्रवर्मणा बह्वयस्तमेव शरणं मन्वानाः । कन्यकाः प्रायो विप्रलब्धा इति ।
निम्बवती--
ईर्ष्या ते हृदयगता मिथ्या वस्तूनि किमपि शुम्भयति । |
मया विवदमानस्य मासास्सप्त गतास्तव । |
प्रदोषः- (सप्रणयमिव । ) ।
दुर्दशाया निवृतीच्छा यदि सा त्वद्वशंवदा । |
अहं तु राजकिशोरकमेव त्वत्तो जिहीर्षामि ।
निम्बवती-- ( सरोषशोकम् ।) जोषमास्यताम् । कृत्स्नोऽयं विद्याधरलोकोऽपि नैनं क्रीणीयात् । एकतमा ह्यस्य जननी मदाराधनपरा मे सखीषु । सा किल मया कदाचित्सुखस्पर्शमन्दानिसान्दोलितानेकानोकहरमणीयोपवनप्रान्तेषु कदाचित् प्रवातोद्धूयमानवाचालवीचिमालाकोलाहलाकुलितकालानलोद्भ्रान्तहालहलोत्त्तिकालायमानोदनृत्यद्वणिक्पोतभागीरथीकान्तरम्योपकण्ठस्थतालीवनश्याममेघावृताकाशभागाधिकश्यामलामन्दकान्तारपीतपुलिन
प्रदेशेष्वसकृन्मां निर्भरं परिष्वज्यानवरतममन्दमरन्दधारामाधुर्यवचनामृतवर्षेणासिञ्चन्मे कर्णयुगलम् । जातुचित् सगरसलिलनरीनृत्यमाननौकावलीमवलोकयन्त्यन्तर्वर्तिनी स्वयमपि पर्यायो द्गमनावगमनायितगतिचातुर्येण किञ्चिदन्तरं गत्वा परावृत्य तट भूमौ तां विडम्बयन्ती विस्मयविकसितलोचनारविन्दां समनन्दयत् प्रियसखीं माम् । ते हि गतः स्मर्यमाणमधुरा दिवसाः ।
अद्यापि तां युवमनोरथलक्ष्यभूतां |
(अश्रूणि मुञ्चन्ती ।) हन्त ! कुमरमेनमखिललक्षणोपेतं प्रसूय मर्त्यत्वान्मद्दौर्भाग्याच्च प्रसववेदनयाऽमरलोकङ्गतयामस्यामनाथं तं बालकं वीक्ष्य प्रियसखीविनाशोकविनोदनायौरसमिव खलु वर्धयामि । तत्कथं वा पूरयेयं तेऽभीष्टम् ।
प्रदोषः कियन्तं कालमत्र वस्तुमिच्छसि ।
निम्बवती– यावदिन्द्रवर्मणः परिणयोत्सवदिवसः । यदि तेऽभिरुचिरस्माभिर्नर्तितुं तर्हि सङ्गच्छस्व मया । नोचेत् गम्यताम् । वयमप्यपसरामः ।
प्रदोषः-- देहि मे राजकुमारम् । त्वया नृत्येयमधुना ।
निम्बवती– (सरोषम् ।) नैव ते विद्याधरलोकायापि ; किं पुनस्ते । (अन्यतो मुखमाक्षिप्य ।) सख्यस्त्वरितं गम्यतामन्यथा महान् कलह भविष्यति ।
( इति सपरिवारा निष्क्रान्ता । )
प्रदोषः-- चण्डि गच्छ गच्छ, जहाहि मैतद्वचनं यावदहं त्वां दावयामि । सखे प्रमोह, अपि स्मरसि कदाचिदहं कस्मिश्चिदुदधिरोधसि तिष्ठन्नत्तुङ्गशैलशिखरेऽशृणवं किमपि देवार्हं गानमभोभोधिमध्ये । यस्य माधुर्येण शान्तोऽभवद्वीचिवाचाटोऽपि वारिधिः । कतिचन तारकाश्च विहाय खमण्डलं न्यपतन्सलिले ।
प्रमोहः -- आ स्मरामि ।
प्रदोषः-- तदाऽहं अद्राक्षं मदनं धनुर्बाणपाणिं डयमनोऽन्तरा मेदिनीशीतकिरणौ । न तु त्वमशक्ततया । सतु काञ्चित् प्रतीच्यवाटतपस्विनीं स्वशरव्यतां नीत्वा सजवममुच्चच्छरमपघ्नन्निव सहस्रं प्राणिनां मनांसि । परं सा योगिन्यकलुषितहृदया सन्ततध्यानपरायणा नेयाय तद्वशताम् । एवमञ्जसा गच्छन्क्षिपन् स्फुलिङ्गानपि मोघीकृतात्मशक्तिस्तस्य बाण निपपातामोघीभवन्निव कस्मिंश्चित् प्रसूने । तत्तु कुसुमं प्रकृत्या दुग्धधवलमपि मारशरक्षत्या। रक्तमभवत् । समाहूयते चेदं कन्यकाभीरागालसनाम्ना । सद्यः समानय तत्सुमं यत्कदाचिददर्शयं ते । यस्य च रस: पतितश्चेदुपरि निद्रानिमीलितयोर्यस्य पक्ष्मणोस्तं जनं स्त्रियं वा पुरुषं वा स्वप्नसमनन्तरं यो नयनविषयीभवति तस्मिन् जीव एवानुरागाभिनिविष्टहृदयं करोति । आनयैतं प्रसूनमविलम्बेन कालेन यावत क्रोशार्धं गच्छेत्तिमिङ्गिलः ।
प्रमोहः- चत्वारिंशता क्षणानामाखिलावनिं भ्रान्त्वा निवर्तेय ।
(इति निष्क्रान्तः )
प्रथमं यमेषा पश्यति स व्याघ्रः ऋक्षः सिंह: लुलायो वृषो वानरो गोलांगूलो वा भवतु तमनुरागेणानुसरिष्यतीयं कोपना । अहं तु मूलिकान्तरेणास्य अनुरागोन्मादपनयनापूर्वमेव तं राजबालकं मे दापयामि । (पुरतोऽवलोक्य ) कोऽयमगच्छति ? (अनुधावन्तीं तरुणीं दृष्टा । ) अन्तरितस्तिरस्करिण्या श्रोष्यामि तयः सल्लापम् ।
(ततः प्रविशति मकरन्दस्तमनुष्टावन्ती सौदामिनी च )
मकरन्दः– (सौदामिनीं प्रति ।)
मा माऽनुधाव तन्वङ्गि, प्रणयो नास्ति मे त्वयि । |
सौदामिनी -- अयि कठिनहृदय, त्वयैवाहमाकृष्टा । त्वया विमुक्ता चेत्तादृशी शक्तिरहमपि स्वयमेवापगता भवंयम् ।
मकरन्दः= किमहं त्वां प्रलोभये ? किं वा ददामि ते प्रत्याशावकाशम् । न किं ते भणामि शश्वत् त्वय्यनुरागो नास्ति न जात्वपि च भविष्यतीति विस्पष्टैर्वचनैः ।
सौदामिनी-- तथापि त्वयि मेऽनुरागोऽसाधारणः प्रतिक्षणं
वर्धते । अहं ते बालिका सरमा । अत एव त्वया प्रह्रत्यापसारिताऽपि पुनः पुनरनुसराम्येव । तव सरमापोतपदं मामारोपयतु भवान् । त्वया धिक्कृतापि प्रहृताप्यपसारितप्यनादृतापि कदाचिदपि न विमोक्ष्यामि त्वाम् । अनुसरणमनुमन्यस्वनर्हाया अपि मे । त्वदनुरागाय किमिदं सरमापोतपदमन्तरन्यदपकृष्टमभिलषेयम् । लघिष्ठमप्येतन्मम तु माननीयमेव ।
मकरन्दः-
वर्धयसि कोपमधिकं बाले वाचाऽनया हि मम सद्यः ।
त्वद्दर्शनेन खिन्नः -
सौदामिनी-
त्वद्विरहं नास्मि सोढुमयि कान्त ॥ १६ ॥
मकरन्दः --- ( सरोषकरुणम्)
हित्वा ह्यवन्तिनगरीमतितुङ्गसाला |
सौदामिनी -- (सप्रणयम् ।) त्वद्धर्मशीलतैव मामेवं प्रेरयति ।
निर्मानुषाणि न हि नाथ, वनानि तानि |
यत्र त्वद्वदना मलेन्दुरनिशं प्रह्वादनो दृश्यते |
मकरन्दः- अयि साहसिके, अधुनैवापहृत्य निगूढं यत्र कुत्रापि निकुजे नेलंय त्वां शरारूणामामिषीकरोमि ।
सौदामिनी--हन्त। नातिहिंस्राणामप्येवं भवति मानसी वृत्तिः । तवासन्निधाने नास्युपायः प्राणितुम् । भवतु यथाशक्त्यनुसरामि त्वाम् ।
मकरन्दः– (सक्रोधम् ।) न दद्यां तेऽवकाशमुक्तिप्रत्युक्तिवैदग्ध्यस्य । अथैव प्रद्रवेयम् । यद्यनुयासि मामवेहि त्वयि किमपि पापमप्याचरेयं क्रोधवशगः ॥ (इति निष्क्रान्तः )
सौदामिनी– अये प्रस्तरप्रतीकाश, किमन्यदप्यस्ति पापाचरणम् । तत्तदैव खलूपक्रान्तं यद। मां मुक्वIऽन्यासक्तचेता धावसि । घिक्त्वामसदृशकारिणम् । अश्रुतचरं किल यत्काचित्तरुण्यननुरागिणं कञ्चित्पुरुषमनुगतेति ।“ कोवा सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति ।' भवतु अहमप्युनुभवामि त्वाम् । त्वदलाभे कथं व मन्दभागिन्या जीवितव्यम् । (इत्यनुधावन्ती मकरन्दं निष्क्रान्ता )
प्रदोषः--( सदयम् ) अयि मुग्धे, अनुयाहि तम् । यावदयं वना दस्मान्न निष्क्रामति तावत् त्वां प्रणयेनानुनेष्यति |
( प्रविशन्तं प्रमोहमवलोक्य स्वगतम् । )
महाजङ्घाल, किमुपानीतं तत् कुसुमम् ।
प्रमोहः - नन्विदमेव । ( इति प्रसूनं दर्शयति ।)प्रदोषः-- दीयतां ( हस्तं प्रसार्य गृह्मन् । )
कान्तारोत्तरभागे सरसिजनिचितं सरोवरं रम्यम् । |
तस्मिन्मन्दानिलविचलितविटपशिखरैर्वितायमानविस्तारैरभ्रंकषैस्तरुनि करैराच्छ।द्यमाने सरोरोधसे नर्तनहास्यप्रशसालापैरात्मानं विनोदयन्ती निद्राति स्वावासे किसलयोपरचितपर्यङ्किक|यां निम्बवती । अतोऽद्यैव गत्व तस्याः स्वप्नमीलितलोचनयोस्तत्कुसुमरसं निषिच्य यस्मिन् कस्मिंश्चिज्जीवेऽमन्दानुरागमुत्पादयामि । त्वमपि किञ्चिदेतत् गृहीत्व भ्रमास्मिन् गहने । काचिदवन्तीनगरयुवतिः प्रणयविहीनं काञ्चद्युवानमनुनीय धावति । तावन्विष्य तस्य तरुणस्य पक्ष्माणि रसेनानेन सेचयित्वा तथा कुरुष्व यथाऽस्य निद्राविरामेसैव शोच्यां कन्यका पुरतस्तिष्ठेत् । एवं जागरुकेण यूनस्तस्य तरुण्यामन्यादृशप्रणयं जनयित्वा ताम्रचूडनिनादात्पूर्वमेव द्रष्टव्योऽहं त्वया ।
प्रमोहः-- प्रभो, न काऽप्यत्र विचारणा कार्या । इदं गम्यते ।
(इत्युभौ निष्क्रामतः ।)
(ततः प्रविशति कासारतीरे यथा निर्दिष्टा निम्बवती ।)
'निम्बवत'ी-
नृत्यतां गीयतां सख्यः स्थीयतां मण्डलाकृति । |
किन्नर्यः-
‘कविससिदासिदणाआ कन्डइदङ्गा अ कविळभूदारा । |
कपिशसितासितनागाः कण्टकिताङ्गाश्व कपिलभूधाराः ।
अपसरत कुटिलकीटा: देवीपर्यङ्कपार्श्वतो मशकाः ।।
- ( इति गायन्ति )
{{( निद्रालसा निम्बवती निमीलयति लोचने )
किन्नर्यः– गम्यतामस्माभिः काचिदनुपालयन्ती देवीं दूरे तिष्ठतु ।
- (निष्क्रान्ताः )
- (निम्बवती गाढ निद्राति )
( प्रविश्य प्रदोषः प्रसूनं निष्पिष्य रसेन निम्बवतीपक्ष्मणि सिञ्चन्।)
यस्ते निद्रावसाने प्रथममवतरत्यक्षिमार्गे शरीरी |
- (इति निष्क्रान्तः)
- (ततः प्रविशति वसन्तः कौमुदी च ।)
वसन्तः -- सखि वसन्तमयजीविते, कान्तारभ्रमणेनाध्वश्रान्तेव दृश्यसे । तत्वतो विस्मृतवानस्म्यध्वानमात्रयोर्गाढान्धतमसे । यदि त रोचतेऽत्रैव विश्रम्य मार्गश्रममपनयावः ।
कौमुदी- भवतु विदूर एव शेष्व। अहमप्युपधायैतत् किञ्चिदुन्नतं सरित्तटमत्रैव शये ।
V. 5वसन्तः--- आवामेकमेवोपधाय शेवहे । भिन्नशरीरयोरप्यावयोर्मनस्त्वेकमेव हि ।
कौमुदी– यद्यहमनुकम्पनीया ततः कुरुष्व दूरत एव शय्याम् ।
वसन्तः-- अनुरागेणेदं प्रार्थ्यते । करोमि न कदाsपि मिथ्यावादम् । शयनेऽप्येकस्मिन् स्थले नोल्लङ्घयिष्याम्यवधिम् । कौमुदी-- नाथ, न कुर्यां मनस्यलीकवादी त्वमिति । क्वानुरागः क्व च कन्यकाजनपरिपालनीया। लोकमर्यादा । तद्दूरत एव कार्यतां शय्या । यावदयुः क्षणमपि न विस्मर्तव्योऽयं दासीजनः । वसन्तः- अस्तु को दोषः । तथैव कुर्याम् (कतिचित्पदानि गत्वा ) अहमत्रैव । अयि मुग्धे, न विस्मरणीय आवयोः प्रणयप्रबन्धो जन्मान्तरेऽपि ।
कौमुदी-- साधु साधु । (उभौ निद्रामनुभवतः ।) ततः प्रविशति प्रमोहः ।)
प्रमोहः-
भ्रान्त्वापि सर्वविपिनं नाहं पश्यामि देवनिर्दिष्टम् । |
दीनेयमनुरागेण भूतले धूलिधूसरे |
(तथा कृत्वा ।) निद्राविरामे तरुणीमेनामेव साक्षात्कृत्यास्यामनुरक्तो भव । अहमपि प्रदोषं विज्ञापयामि ।
- (इति निष्क्रान्तः ।
- (ततः प्रविशति मकरन्दस्तमनुधावन्ती सौदामिनी च ।)
सौदामिनी— तिष्ठ तिष्ठ कान्त मकरन्द, हंस्यपि मां मन्दभागिनीम् ।
मकरन्दः- (सक्रोधम् ।) अयि मूढे साहसिके, गच्छ गच्छ सर्वधा माऽनुसर मम् ।
सौदामिनी— मा मा मुञ्च नाथ, मामनाथामस्मिन् गाढान्धतमसे।
मकरन्दः-– तिष्ठात्रैव । नियतगतेिर्हि तादृशी । अहमेक एवापसरामि ।
- (इति निष्क्रान्तः )
सौदामिनी-- हन्त दारुणमिदं दैवदुर्विलसितम् ।
चरणौ रुजतस्सद्यः सुदूरभ्रमणेन मे । |
अहो भाग्यमहो भाग्यं कामुद्यावर्धतेऽधुना । |
कः पुनरयमादर्शोऽप्रशस्तो यो मां दुर्भगां कौमुद्य आत्मगणयितुं प्रैरयत् । (इति परिक्रामन्ती । भूमौ चक्षुर्निक्षिप्य कोऽयम् ? वसन्त !-- भूतले-- मृतो वा सजीवो वा। । ह्यसृक्क्षतादयो दृश्यन्ते । (वसन्तं स्पृष्टवा ) वसन्त, यदि सचेतः स्युद्धाटय पक्ष्मणी ।
वसन्तः-- (विबुध्य ) अयि रमणीये सौदामिनि, त्वत्कृतेऽः मप्यवतरेयम् । महान् खलु विधेस्त्वद्रूपनिर्माणे यत्नः । दृष्टा त्वयि ते हृदयमादर्शवत्प्रतिभाति । अहो ते त्रिजगज्जैत्रं लाण्यम् । कुत्रास्ते मकरन्दः ? नयाम्यद्यैव तं कृपणधारया स्मव्यां गतिम् ।
सैदामिनी-- वसन्त, मा तावत् । न तथा भाषस्व ते कौमुदीमयं कामयत इति । कौमुदी दृढं त्वय्येवानुरक्ता । त सत्यर्तिकारणं न पश्यामि ।
वसन्तः-- (सानुरागम् ) नेतः परं स्मरिष्यामि कौमुदीम् । एतावन्तं कालं कौमुदीमनुरक्त इत्यत्र भृशं दूये । अद्य युवतिलएमभूता त्वमेव विकिरस्यक्ष्णोरानन्दम् । अनभिज्ञतया तावन्म कौमुद्यनुसृता । अद्यैव किल विवेचना जाता । त्वदृतेऽन्यां
द्रक्ष्यामि |- ( इत्यलिङ्गितुमुत्तिष्ठति ।)
सौदामिनी-- ( सलज्जम्) कोऽयमद्यतनस्ते दुर्विनयप्ररोहः ! किं मामुपहससि यदि त्वयि बद्धप्रणया त्रिलोकसुन्दरी कौमुदी । अह भवितव्यता । यसर्वेषामप्युपहास्यतां नीता । किमेवं विडम्बनाया वा भाजनमहं सृष्टा । यन्मकरन्दो मां न्यक्कृत्यापसरतीत्यत्र न कोऽपि मयोपलब्धव्यः । भवन्त्वन्विष्यामि मकरन्दम् । (इति सजवं निष्क्रान्ता ।)
वसन्तः -- (दीर्घमुष्णं निश्वस्य ) कथं गता सौदामिनी । कौमुदीमत्र स्वपन्तीं नोपलब्घवत्येषा । (विचिन्त्य ) पुनरपि सौदामिनीं सौन्दर्यनिकेतनमनुनीय तामेव परिणेष्ये । क्व रमणीया सौदामिनी । क्व चेयं दुर्भगा कौमुदी । (कौमुदीं प्रति ) इयानेवावयोः प्रणयः । सौदामिन्यर्थे जीवितमपि त्यजेम् । तामननुनीय के मया जीव्यते ।
- ( इति सौदामिन्याक्षिप्तचित्तस्तामेवानुध्यायन्निष्क्रान्तो वसन्तः । )
कौमुदी– (किञ्चिदुस्वप्नायमाना ) हा वसन्त, कौमुदीप्रणयैकनिघे , करुणमालम्ब्य परित्रायस्व परित्रायस्व माुमेतस्माद्दष्टसर्पात् । अयमद्य वक्षस्यारुह्य दंष्टुमिच्छति । (इति सभयं विलप्य पक्ष्माण्युद्घाट्य ।) किमयं स्वप्नः । किं परिह।सो वा । (विचिन्त्य ) नाथ, वसन्त, ( इत्याक्रन्दन्ती कम्पं नाटयित्वा ) वल्लभः कुत्र गत : । अये, क्व गतस्ते मय्यसाधारणः प्रणयः । कुत्र वा गतोऽसि विहाय मां त्वदेकशरणम् । नायं कालः
परिहासस्य । ( भयमभिनीय )काननं भीषणं शर्वगलकाला च शर्वरी ।
दीनाहं कन्यका नाथ दयार्द्रं कुरु मानसम् ॥ ३३ ॥
(इतस्ततोऽन्विष्य) सत्यमेव गते वसन्तः । यदि नोपलभे दयितं शरणमस्तु कृपण।या मे दवः कृशlनुरेव । भवतु भाग्वमत्र परीक्षष्ये ।
- ( इति निष्क्रान्ताः सर्वे ।)
इति वासन्तिकस्वप्ने द्वितीयोऽङ्कः ॥
तृतीयोऽङ्कः ॥
(ततः प्रविशति धान्यकोऽधरकःधनकःवसुपालितःराजसः, साधकश्च ।)
अधरकः-- कहं अब्भवग्गिआ शब्वे वि एत्थ जेव्व ।
कथमस्मद्वर्ग्या: सर्वेडप्यत्रैव ।
धान्यकः- शम्म शम्म । एशे वेअ प्पएशे अम्हाण पुढमपओआह उइदेत्ति पळिहाइ । इमाओ शामाओ सरितडभुओ होदु रङ्गट्टळी । णिउञ्जे एशे अत्थु जवणिअन्तळे । अवणिवाह शण्णिहिव्मि विअ एत्थ वि णडिश्शम्ह ।
सम्यक्सम्यक् । एष एव प्रदेशोऽस्माकं प्रथमप्रयोगस्य चित इति प्रतिभाति । इमा: श्यामा: सरित्तटभुवो भवन्तु रङ्गस्थली । नेिकुञ्जोऽयमस्तु यवनिकान्तरम् । अवनिपस्य सन्निधाविवात्रापि नटिष्यामः।
अधरकः , अळे ळे धण्णआ । भो धान्यक ।
धान्यकः- वअशु वत्तव्यं अहळअ, सन्ददाळावीण, । वद वक्तव्यमधरक, सन्ततालापिन् ।
अधरकः~ इमश्शिं भाणुमईअम्हइन्दणाडए कइच्चिअ अप्यशत्थविशआ दीशन्दि । पुढमे दव अम्हइन्देण अप्पाणं हन्दुं अशी आअळिशिदध्वे । तं पुळोवन्तीओ णाळीओ भएण
ऴोदमाणाओ ओशळेज्ज ।अस्मिन्भानुमत्यश्मकेन्द्रनाटके कतिचनप्रशस्तविषया दृश्यन्ते । प्रथमस्तावदश्मकेन्द्रेणात्मानं हन्तुमसिराकृष्टव्यः । तत्पश्यन्त्यो नार्यो भयेन रुदत्यऽपसरेयुः ।
राजसः -- शव्वह भए उप्पज्जेज्ज । सर्वधा भयमुत्पद्येत ।
साधकः-- ता वहं वच्चइत्तूण णडिश्शम्ह तद्वधं वर्जयित्वा नटिष्यामः।
अधरक: -- ण किं पि वच्चदव अभ्भेही । अथ एत्थ के वि उवए । क iषे पथावण विळिह । अम्हाण अशीही ण हिंशा जाएज्ज । अम्हइन्दोप्पच्छधी हके तत्तुवदो तन्दुवाए अहळए वेअ त्ति विळशिणीभीवाळणाह कडे फुडे अहिहिज्जउ तत्थ उउग्घाअम्मि न किञ्चिदपि वर्जयितव्यमस्माभिः । अस्त्यत्र कोऽप्युपायः काञ्चित् प्रस्तावनां विलिख । अस्माकमसिभिर्न हिंसा जायते । अश्मकेन्द्रनैपथ्यधार्यहं तत्वतस्तन्तुवायोऽधरक एवेति विलासिनीभीतिनिवारणाय स्पुटमभिधीयतां तस्मिन्नुपोद्धति ।
धान्यकः- शम्म शाहु उत्ते । सम्यगुक्तम् ।
राजसः-- ण किणो भाइज्ज़ा अवळाओ मइन्ददंशणे । न किं बिभीयुरबळा मृगेन्द्रदर्शने ?
साधकः--- शे वि जण्णे भीईठ्ठाणे ।तदप्यन्यद्भीतिस्थानम् ।
अधरकः= शे शाहु शम्म विआळिअ कळणिज्जे । भीऴूणं मझ्झ मइन्देत्ति अच्चाहिदे पशे ।
तत्साधु विचार्य करणयिम् । भीरूणां मध्ये मृगेन्द्र इत्यतिभयङ्करमेतत् ।
राजसः-- इमिणा पत्थावणन्दळे वि ऴेख्खे । अनेन प्रस्तावनान्तरमपेि लेख्यम् !
अधरक -- तत्थ पञ्चश्शिअणेप्पच्छधाळी हके वत्थुदो धणएति वच्चे । ताह वअणद्धं पि पे जह दीशिज्ज वह धाळज्जउ णेप्पच्छे। शे वि कण्ठदो बुअउ ळङ्गभूमिम्मि मा भाआध अहके ण शीहे ति ।
तस्यां पञ्चस्यनेपथ्यधार्यहं वस्तुतो धनक इति । वाच्यम् । तस्य वदनार्द्धमपि यथा दृश्येत तथा धार्यतां नैपथ्यम् । सोऽपि कण्ठतो ब्रवीतु रङ्गभूमौ मा भैष्टाहं न सिह्यः इति ।
धान्यकः— होदु तत्थ अण्णे वि काठिण्णे वट्टण । भवतु तत्रान्यदपि काठिन्यं वर्तते ।
कहूण ळङ्गभूमिम्मि चन्दिआणअणं शहे ।
भाणुमच्चम्हइन्दा हि जोण्हाए इल शङ्गदा ।। १ ।।
कथं पुना रङ्गभूमौ चन्द्रिकानयनं सखे ।
भानुमत्यश्मकेन्द्रौ हि ज्योत्स्नायां किल सङ्गतौ ॥
राजसः- (विचित्य ) अत्थि व णट्टप्पओअळअणीए चन्दिआ ।
अस्ति वा नाट्यप्रयोगरजन्यां चन्द्रिका ।
अधरकः– दीशदु अविलंब्वेण काळशूइआ ।
दृश्यतामविलम्बेन कालसूचिका ।
धान्यकः-- णिअदं वेअ ळअणिं तं अळङ्करेइ शशङ्के । नियतमेव रजनीन्तामलङ्करोति शशाङ्कः ।
अधरकः-- तह जइ जाळमग्गेण लङ्गभूमेिं ओदळिश्शन्दि
शीदकिळणळम्ही ।
तथाचेज्जालमार्गेण रङ्गभूमिमवतरिष्यन्ति शीतकिरणर
श्मयः ।
धान्यकः-- शlहु आदु कण्डएही आबद्धे दीअं धेत्तूण प्पविविअ शशङ्गाअमाणे वट्टउ के वि पुळिशे । विआळनिज्जे अण्णे एशे विशए । ऴंगभूमिम्मि का वि भित्ती आवशिअई । कुळिअळन्धेण इळ णअआ संळवन्दि ।
साधु, अथव कण्ठकैराबद्धो दीपं गृहीत्वा प्रविश्य शशाङ्कायमानो वर्ततां कश्चित्पुरुषः । विचार्योऽयमन्यो . विषयः। रङ्गभूमौ काचिद्भित्तिरावश्यकी । कुड्यरन्ध्रेण किल नायकौ सल्लपत: ।
राजसः-- बळे भित्ती कहं आणेअव्या । अहळआ, किणु उच्चये शळणे अम्हाण अज्ज तुह पळह वअ ।
अहो भितिः कथमानेतव्या । अधरक , किमुच्यते । शरणमस्माकमद्य ते प्रतिभैव ।अधरकः— भित्तिणेप्पच्छधाळीण वित्थिदहस्थशाहे चिट्ठउ केवि ऴंगप्पएशम्मि । तदो ताह पाणिविडवळन्घेण संळवन्दु देवी देवे अ ।
भित्तिनैपथ्यधारी विस्तृतहस्तशाखास्तिष्ठतु कश्चिद्रङ्गप्रदेशे । ततस्तस्य पाणिविटपरन्ध्रेण सल्लपतां देवी देवश्च ।
धान्यकः-- तह जइ शव्वे शाहु । संवइ पत्थुज्जउ । अम्ह इन्दा, अहळा, क्कमेण णं णिउञ्जजवणिअं पविशन्दु |
तथा चेत्सर्वं साधु । संप्रति प्रस्तूयताम् । अश्मकेन्द्र, अधरक. भवानेव तावत्प्रथम : । वचनावसाने सर्वाण्यपि
पात्राणि क्रमेणैनां निकुञ्जयवनिकां प्रविशन्तु ।
( ततः प्रविशत्यदृश्यमानः प्रमोहः ।)
प्रमोहः- ( पुरोऽवलोक्य सवितर्कम्) कथमेते वराकाः स्वपन्ती मस्मत्स्वामिनीं निम्बवतीमजनानास्तच्छयनदेशं निकषां नर्तितुमारब्धवन्तः । भवत्वत्रैव स्थित्वा सामाजिकीभवामि । सति समये नटोऽपि कदाचिद्भवेयम् । ( इति गूढं स्थितः । )
अधरकः- अह्नइन्दा, कहं तुहीं ठ्ठिज्जइ । भाणुमइ, सज्जा
होहि ।
अश्मकेन्द्र, कथं तूष्णीं स्थीयते । भनुमति, सज्जा भव ।
धान्यकः-- भाणुमइ, (सचिन्तम् )
भानुमति ।
प्रसूनान्यामगन्धिनी यथा रम्याणि भामिनि ।
धान्यकः मन्दमए, शुगन्धाइ शुगन्धाइ । मन्दमते, सुगन्धीनि सुगन्धीनि ।
अधरकः -- (पुनरपि ।)
पशूणाइ शुगंधइ जह ळम्माइ भामिणि ।
तह दे भाइ णीशाशे मळआणिळशोळहे ॥ २ ॥
प्रसूनानि सुगन्धीनि यथा रम्याणि भामिनि ।
तथा ते भाति निश्वासो मलयानिलसौरभः ।।
के शे ( शद्देत्ति वित्तूण णिवच्चेज्ज जबा शहि ।
कोऽयं शब्द इति ज्ञात्वा नेिवर्तेय जवात् सखि ।
- (इति निष्क्रान्तः)
प्रमोहः- चित्रतरोऽयमश्मकेन्द्र । (इति निष्क्रान्तः ।
वसुपलितः -- कहं वत्तव्ये मह । कथ वक्तव्यं मया ।
धान्यकः-- उवजंदव्वे हळ तुए । इमे उ अज्ज आअण्णिदं शद्दं विआळिअ अइला आअमिश्शइ ।
उपयन्तव्यं किल त्वया । अयं त्वद्याकर्णितं शब्दं विचार्या चिरादागमिष्यति ।
वसुपालितः
अणंगपेशलंगे शे अम्हइंदे विहाइ मे ।
अनङ्गपेशलाङ्गोऽयमश्मकेंद्रो विभाति मे ।
सृजन्निव सुधावृष्टिं दर्शनेन दृशोर्मयि ।।
वळ्ळह शङ्केदधळणिआह णिअडे तुमं उण वि पेख्खंमि ।
वल्लभ, संकेतधरणिजम्य निकटे त्वां पुनरपि प्रेक्षे ।
धान्यकः- ( सक्रोधम् ) अळे मुळिहा शंकेदधऴणिए ण अज्ज पत्थोदव्वे तुए । शे खु उत्तळे होदि । तुए जे जे इमश्शिं पअळणे वत्तव्वे शे शे शव्वे वि एक्कपदच्चिअ भाशिदुं ण उइ दे । ( निकुञ्जभिमुखम् ) अम्हइंदा, पविशिअ ण कइ वि मं विम्हळशु (त तुए अज्ज फणिदव्वे ।
अरे मूर्ख सङ्केतधरणिजो नाद्य प्रस्तोतव्यस्त्वया । तत्खलूतरं भवति । त्वया यद्यदस्मिन् प्रकरणे वक्तव्यं तत्तत्सर्वमप्येकपदे भाषितुं नोचितम् । अश्मकेन्द्र, प्रविश्य न कदाऽपि मां विस्मरेति त्वयाऽद्य फणितव्यम् ।
वसुपालितः-- (विचिन्त्य ) वळे शुमलिदे । वळ्ळहा अणुळा अपद्धदीए ण कइ वि खळिश्शम् ।
आ: स्मृतम् । वल्लभ, अनुरागपद्धतेर्न कदापि स्खलिष्यामि।
( ततः प्रविशति ससंभ्रमं शिरसा रासभोऽधरकः सहास: प्रमोहश्च ।)
अधरकः - अइ भाणुमइ, जइ हके शुन्दळे शे शव्वे वि तुह ळामणिच्चए वेअ ।
अयि भानुमति, यद्यहं सुंदरस्तसर्वं त्वद्रामणीयकमेव ।
सर्वे-- (सभयम् ) अविध ! पमाए पमाए । अच्चळिअं अच्चाहिएअ एशे । शव्वे वि एदे भीशिदा ह्म । झति ओश्शेळिअ पाणा शंळक्खम्ह ।
अहो। प्रमादः प्रमादः । आश्चर्यमतिभयङ्करश्चैतत् । सर्वेऽपि वयं भीषिताः स्म । झटित्यपसृत्य प्राणान् संरक्षामः ।
- [ इति निष्क्रान्ताः
प्रमोहः- ( सोल्लासस्मितम् । ) क्व नु खलु धावथ । अयमहमागत्य वः सर्वानपि वनेऽस्मिन् भीषयित्वा विद्रावयामि ।
- [ इति निष्क्रान्तः
अधरकः— कीश एदे घावन्दि । णिअदं एव्व मं भीशेदुं इदं आळद्धम् ।
कथमेते धावंति । नियतमेव मां भीषयितुमिदमारव्धम् ।
( पुनः प्रविश्य राजसः ।)
राजस -- शू चित्ते एशे । अळे अहळआ, कहं ळाशहे तुमं शंवुत्ते । किणो एशे उअळि दे गिव्वाए ।
हंत चित्रमेतत् । रे अधरक कथं रासभस्त्वं संवृत्तः । किमेतदुपरि ते ग्रीवायाः ।
अधरकः-- (सरोषम् ।) तुह पडिइदिं विण किं अण्णं पुळवशि। गच्छ मुलिहा, का इअं बिहीशिआ ।
तव प्रतिकृतिं विना किमन्यत् पश्यसि । गच्छ मूर्ख, केयं विभीषेका ।
- (राजसः निष्क्रान्तः । ) ४७तृतीयोऽङ्कः ।
- (राजसः निष्क्रान्तः । )
(पुनः प्रविश्य)
धान्यकः- अहळआ, कहं वा केण वा एवं कडे शि । अधरक, कथं वा केन वैवं कृतोऽसि ।
- ( इति निष्क्रान्तः )
अधरकः-“ ण कइ वि पळिहशणिच्चे हुविश्शं । भं ळाशहीकादुं एशे आळम्भे त्ति पडिहाइ / मं भीशेदुं उवाए एशे एदाण ते बोहम्हि । ण एददु पदा पदं पि पअळिश्शं । अहळिशं एत्थ एव्व गाइश्शं । अवत्तवाए अधोमुहे त विहाइश्शं ।
न कदापि परिहास्यो भवेयम् । मां रासभकर्तुमयमारम्भ इति प्रतिभाति । मां भीषयितुमुपायोऽयमेतेषामिति बोधामि । नैतस्मात् पदात् पदमपि प्रचलिष्यामि । सहर्षमत्रैव गास्यामि । अपत्रपयाऽधोमुखान् तान्विधास्यामि ।
- ( इति गायति ।)
( गीतिः । )
- शाळशहंशकवोदा को अचओ ळळेिचअआ विविणे ।।
निम्बवती-- ( विबुद्ध्य ) को वा गन्धर्वो मां प्रबोधयत्यात्मनो यदृच्छाविनोदनागताधरीकृतवेणुनिनादकलकण्ठगीतेन । को वा महान् मच्छूवसोरमृतधारां वर्षति गानमिषेण ।
अथरक
- कूअन्दि कण्णमहुलं णो तह गा अन्दि जिव्वळोआ मे ।।
सारसहंसकपोताः कोकचकोरालिचातकाः विपिने ।
कूजन्ति कर्णमधुरं न तथा गायन्ति जीवलोका मे ।
निम्बवती- ( आकण्यं पुलकिताङ्गी ) उपसृत्य ।
अहो मानवशार्दूल गातुं त्वां प्रार्थये पुनः।
यथा ते गानमाधुर्याविष्टचित्ता भवाम्यहम् ।। ५ ।।
तथानवद्यं ते रूपं वक्ष्य नन्दन्ति मन्मनः ।
असंख्यास्त्वद्गुणा मन्ये प्रेरयन्त्यद्य मां त्वयि ।। ६ ।।
अधरकः— के उच्चइ । के हेऊ तुह मइ अण्णाळिशाणुळाआह ता इमादु वणा तुळिदं गन्दुं मइश्शं । चिन्देशु अप्पणो वावाळम् ।
किमुच्यते । को हेतुः तव मय्यन्यादृशानुरागस्य । तदस्माद्वनात् त्वरितं गन्तु यतिष्ये । चिन्तयस्वात्मनोव्यापारम् ।
निम्बवती-
स्थातव्यं मत्कृते कान्त, कान्तारेस्सिन्मनोहरे ।
अनुग्राह्या महाभाग, जीवातुर्हि भवान्मम ।। ७ ।
विद्याधर्यप्यहं नाथ त्वद्रागेणार्दिता भृशम् ।
यद्यत्र नेच्छसे स्थातुं तर्हि त्वां स्थापयाम्यहम् ॥ ८ ॥
दास्यामि रत्नाकररत्नजातं
दास्यश्च य मे तव दास्यहेतोः ।
करोमि ते पादसरोजसेवां
प्रसूनपर्यङ्कतलस्थितस्य ॥ ९ ॥
तत्प्रसीदास्मै दासजनाय । संप्रति समाह्वयामि चेटीः । अह जयसने , विजये, भो धूमिनि, गोमिनि ।
- ( ततः प्रविशति जयसेना विजया गोमिनी धूमिनी च )
जयसेना--- स्वामिनि, सज्जाऽहम् ।
विजया---अहमपि ।
धूमिनी -- इयमस्मि ।
गोमिनी– अहं च ।
सर्वाः -- आज्ञापयतु देवी ।
निम्बवती– (अधरकं निर्दिश्य )
सेव्यऽयं नवपल्लवारुणकरो लावण्यपाथोनिधिः
सौशील्यादिगुणोज्वलो मम पुनःसज्जन्मभाग्योदयः।
मृद्वीकामृतभक्षणैरहरहः संवर्ध्यं तं श्रद्धया
गानालपमरन्दपानमुदितं कुर्वन्तु चेट्यो मम ॥ १० ।।
जयसेना। स्वागतमहो महानुभाव, मानवशार्दूल।
विजया - स्वागतम् !
धूमिनी- स्वागतम् ।
गोमिनी– स्वागतम् ।
अधरकः-- मुदिदे म्हि णेण कुशलप्पण्हेण । संवइ जिण्णाशू हगे होदीए णामहेअम् ।
मुदितोऽस्म्यनेन कुशलप्रश्नेन । संप्रति जिज्ञासुरहं भवत्यानामधेयम् ।
विजया - - देव, विजयाऽहम् ।
V. 7
निम्बवती-- यूयममुं महानुभावमस्मदुद्यानं नीत्वा सम्यक् स्नपयित्वा कुंकुमपटवासधूळिभिः परिलिप्य माधुर्योपपन्नानि नानाविधान्यास्वाद्यवस्तूनि च दत्वा भवतीभिरहं सत्वरं ज्ञापनीया ।
- (इति सहाधरकेण सर्वाः निष्क्रान्ताः)
इति मिश्रविष्कम्भः ।
(ततः प्रविशति प्रदोषः ।)
प्रदोषः-- न जाने यदि प्रबुद्धा न वा निम्बवती । को वा जीवस्तस्या दृष्टिपथमवातरत् । (इति चिन्तयन् किञ्चिदन्तरं गत्वा पुरोवलोक्य) अहो ! अत्रैवाभिवर्तते मे नर्मसचिवः । सखे प्रमोह, कस्ते वृत्तान्तः !
(प्रविश्य । )
प्रमोहः-- महाराज, आश्चर्यमाश्चर्यम् । देवी निम्बवती कञ्चित् रासभमनुरक्ता । अवन्तीनगरात् कतिचन तन्तुवायप्रभृतयो नीचपुरुषा निद्रान्तीं देवीमजानानाः तच्छयनदेशं समया यदिन्द्रवर्मणः परिणयदिवसे प्रयोक्ष्यन्ते तत् प्रकरणं प्रथमं गूढ़ं नाटयितुमरेभिरे । तेष्वेकतमोऽश्मकेन्द्रवेषं धृत्वा किञ्चिन्नटित्वा यवनिकामिव निकुञ्जं प्रविष्टः । तदाऽहमपि तं सुभगम्मन्यमनुगत्य तच्छीर्षस्थाने गर्दभशिरः स्दापयेित्वा तं नृखरमकरवम् । तथाविदमेनं दृष्ट्वेतरे सर्वेऽपि नटा भयेन प्राद्रवन् । स तु तत्रैव निषद्यात्मविनोदनार्थं जगौ । अत्रान्तरे तद्भानाकर्णनेन
प्रबोधिता निम्बवती प्रणयेन तमेव रासभं बहुधाऽनुनीय तस्या
प्याश।मुत्पाद्य स्वीनकटे वासयित्वा वस्त्राभरणजातै: सन्तोष्यानवरतगानवर्षेणाह्वादयति । तदवलोक्य विस्मयस्य पराङ्कोटिमापन्नो देवसकाशमहमुपासरम् । इतः परं देव एव प्रमाणम् ।
प्रदोषः- अस्तां नामेदम् । अवन्तीयुवानं प्रति किं वा निर्वर्तितो मत्सन्देशः ।
प्रमोहः- महीपते, देवस्याज्ञां शिरसा बहन्वनमखिलमन्विष्य निद्रानिमीलितनयनं तं तरुणमुपलभ्य न्यषिञ्चं कुसुमरसं तल्लोचनयोः । सविधे तस्य सा तरुण्यप्यस्वाप्सीत् । तामेवासौ । द्रक्ष्यति स्वप्नावसाने ।
(ततः प्रविशति कौमुदी मकरन्दश्च ।)
प्रदोषः-- संप्रत्यन्तरितस्तिष्ठ । अयमेव स युवा मया निर्दिष्टः ।
प्रमोहः- ( सम्भ्रान्तः ) इयमेव सा तरुणी । परं न कदापि मया दृष्टचरोऽय तरुणः ।
मकरन्दः- अयि मानिनि, किमेवमधिक्षिपसि मां स्वप्रणयार्द्रार्द्रमानसम् ।
कौमुदी-- ( सविषादम् ) न केवलं त्वमधिक्षेपार्हः किं तु शापार्होऽपि । अस्मद्दयितवसन्तजीवितं प्रति त्वय्येवास्ति मे शङ्का । अरे दुरात्मन् मकरन्दापशद, यदि प्राणिति वसन्तस्तद। न कदपि मामनाथां शरारुभीषणे कान्तारे निदान्तीमर्धरात्रे मुक्त्वा गमिष्यति (अश्रूणि मुञ्चन्ती ।) हन्त ! कुटिलोऽयं कालः । एव मतिनृशंसः पापाग्रेसरस्त्वमिति स्वप्ने न विदितं मन्दभागिन्या
मम । एष एवाधुना महोपकारस्त्वत्तः प्रार्थ्यते । तथैवासिधा
रया । नय मामपि वसन्तनिकटम् । नृशंसतरं किल जीवितं यदद्यापि नोत्क्रमति । हा नाथ दयित वसन्त कौमुदीययजीवित, कुत्र गतेऽस्यविगणय्य मां त्वदेकशरणाम् । यद्यन्तर्हितो भावजिज्ञासया नायमवसरः परिहासस्य । हन्त ! किं करोमि । निखिलमपि बान्धवजनं तृण।य मत्वा धिक्कृत्य पितरौ विहाय लज्जामपहाय धृतिं निवार्य विनयमविगणय्य जनापवादमुल्लंघ्य राजशासनमुत्सृज्य समयाचरं परित्यज्य शीलमविचिन्त्य कुलं विसृज्य यशो रागोन्मादेन माता च पिता । च प्रियवल्लभो वसन्त एवेति दृढमाकलय्य त्वमेवानुगतामेवं विप्रलब्धुं नार्हसि । (किञ्चिद्विचिन्त्य ।) किमनेनारण्यरुदितेन । वेपते मे हृदयम् । सर्वतः कालरात्रिमिव पश्यामि । श्रुयते पिशाचानामतिभीषण: कोलाहल : । इतस्ततः पश्यीमि भ्राम्यमाणमलातपुञ्जम् । तत्सर्वधा हतास्मि मन्दभागिनी । नियतमेव मकरन्दहतकेन स्मर्तव्यां गतिं नीतो वसन्तः । अन्यथा कथ मेवं प्रलपन्तीं कौमुदीं नानुकम्पते ।
- (इति मुर्छति ।)
मकरन्दः– (पठान्तेन बीजयति ।)
कौमुदी-- (संज्ञां लब्ध्वा ) रे महापातकिन् , पश्यामि त्वन्मुखे तादृशपापकर्मणश्चिह्नानि !
मकरन्दः -- (सप्रणयशोकम् )
- त्वयैवाहं हतस्तन्वि, मृतवन्नष्टचेतनः ।
- तथाऽपि शोभते, भद्रे, त्वन्मुखामलचन्द्रमाः ।। ११ ।। ५३तृतीयोऽङ्कः ।
- जीवयैनमद्गार्तमालम्ब्य करुणां सखि ।
कौमुदी--- किमेतेन वल्लभस्य । हा । मकरन्द, देहि मे दयितम् ।
मकरन्दः-- यदि वसन्तो लोकान्तरं गतस्तन्मे हर्षायेत्यवेहि ।
कौमुदी-- (सक्रोधम् ) किमात्थ रे मूर्ख , किमेवमतिनिष्करुणोसि ? कथं वा व्यवसितं हन्तु महाभागम् । यद्यहमबला किं दैवमप्यबलम् । शङ्कितपूर्वमेव त्वयैव व्यापादनं वसन्तस्य । (सास्रम् ) मदुपयममपेक्ष्य किलोपयमं नीतो जगदलङ्कारमणि-र्दयितवसन्तः धिढ्यामेतादृशपापाचरणनिदानम् ।
श्मशानपूतनाकार दूरतो याहेि साम्प्रतम् ।
सनिद्रो वा विनिद्रो व प्रियो ब्रूहि यथा हतः ।। १२ ।।
मकरन्दः
सत्यं ब्रवीमि तव शोकनिरासहेतो-
र्जानीहेि कौमुदि मया न हतो वसन्तः ।
लोकान्तरं न च गतस्तव रागपात्रं
किं वा मुधा प्रलपसि प्रणयेन भद्रे ।। १३ ।।
कौमुदी-— वसन्तः स्वस्थो वर्तत इति वचनमाकाङ्क्षामि ।
मकरन्द- तथा चेत्को वा मे लाभः ।
कौमुदी यदितः परं कदाचिदपि मां न द्रक्ष्यसीति । अपस रामि ते जुगुप्सितात् सन्निकर्षात् । वसन्तः प्राणितु वा न वा ।। त्वं पुनरपि मां न पश्येः । [ इति निष्क्रान्ता ।
मकरन्दः-- ( सखेदस्मितम् )
श्रान्तोऽस्मि तामनुगतो मुहुरात्तकोपां
दौर्भाग्यभाजनमहं बहुधापि भग्नः ।
तत्सङ्गमाय किल धावति मानसं मे
सर्वङ्कषा भगबती भवितव्यतैव ।। १४ ॥ ।
( किञ्चिदन्तरं गत्वा भूतले निविश्य ) अत्रैव निद्रमनुभूय पुन-
रपि कौमुदीमन्विष्यानुनीय परीक्षिष्ये भागधेयम् ।
( इति वामभुजमुपधाय शेते )
प्रदोषः-- [ सशकम् ]
प्रमोह त्वं प्रमुग्धोऽसि कथमेवं स्वकर्मणि ।
विरागिणं विमुच्यैव रागिणोऽक्ष्णो रसः कृतः ।। १५॥
प्रमोहः-- अलंघ्या नियतेराज्ञा। तस्मान्मुग्धं मया प्रभो,
प्रदोषः - सम्प्रत्यघरीकृतमातारिश्वा जवेन परिक्रम्य कृत्स्नमरण्यमनङ्गतापतप्तां सौदामिनीमिहानय । अहं चास्य मकरन्दस्य पक्ष्माण्यनेन सुमरसेन सिञ्चामि ।
प्रमोहः- अधुनैव सरामि जवेनातिक्रान्तराघवशरः ।
- (इति निष्क्रान्तः )
प्रदोषः– (मकरन्दस्य पक्ष्माणि कुसुमरसेन सिक्त्वा ।) प्रभावेनास्य सौदामिनीं दृष्ट्वा मदनातुरो भव ।
(नेपथ्ये )
विद्याधराणामधिपस्य दूतः
सौदामिनीमानयतीह वेगात् ।
अन्वयमानां तरुणेन तेन
योऽसौ प्रमुग्धो मम तु प्रमादात् ।। १६ ॥
(प्रविश्य )
प्रमोहः- देव, सम्प्रत्यनयोश्चेष्टितं क्षणं पश्यावः ।
प्रदोषः-- विदूरे तिष्ठ । उच्चैर्भाषमाणयोरनयोः कण्ठरवेण । प्रबुद्धो भविष्यतेि मकरन्दः ।
प्रमोहः-- विचित्रोऽयं सन्दर्भः । अधुन। द्वावपि तरुणावेनां । सौदामिनीं कमयिष्येते ।
(इति सहर्ष नृत्यति ।)
( ततः प्रविशति वसन्तेनानुगम्यमाना सौदामिनी )
वसन्तः-- अयि सौदामिनि, सत्यमेव त्वमनुरक्तोऽहं मदनस्य त्रिलोकीविजयवैजयन्तिकाम् । कथमपहसेयं प्राणसमाम् । उपहासदयो न जात्वश्रुपुरस्सरमायान्ति । निरीक्षस्व मे वदनम् । कुरुष्व सदयं मानसम् । सकामो भवेयम् । हन्त ! निरनुक्रोशे कथमेवमपगतदाक्षिण्यमाचर्यते ।
सौदामिनी– (सरोषम् ) किमनेनासत्यशपथेन । नन्वहं सौदामिनी । जानताऽपि त्वया कथमेवमुपक्रान्तम् । यदि त्वद्वशगा । लावण्यमञ्जरी कौमुदी कथं वा दीनामेनामवलेपेनैवमुपहससि । किमहं न जाने कौमुदीमयप्राणस्त्वमिति । गच्छ खल, कौमुदीवल्लभ इत्येव त्वयि मे बहुमानः ।
वसन्तः-- विवेकशून्येन किलालुनीतपूर्वा कौमुदी ।
सौदामिनी— किं वा सहसेऽन्यं कौमुद्याः पाणिग्रहीतारम् ।
वसन्तः-- मकरन्दः खल्वधुना कौमुदीमनुरक्तस्तत्तेनैवोपयन्तव्या कौमुदी । मकरन्दः-- ( प्रबुध्द्य ) सौदामिनीं दृष्ट्वा।
रतिर्वा लक्ष्मीर्वा त्रिदिवरमणी वेयमबला
विधात्रा सृष्टा वा युवनयनसम्मोहमनसा ।
अहो रामा रम्या मदनबुधजैत्रप्रहरणं
मया बाला दूना बहुविधमधिक्षेपवचनैः ॥ १७ ॥
( इत्युपसृत्य ) अयि सौदामिनि, क्षमस्व मेऽपराधम् । परित्यज्य माणिक्यं गैरिकपरिग्रहायासं विचिन्त्य वारं वारमधिकं लज्जे । समक्षं सौदामिन्याः केयं कौमुदी विवेचनाराहित्यादेव मया कौमुद्यनुसृता । भद्र, परिष्वजस्व माम् । नो चेन्न मृष्यति मां जीवितुं वसन्तबन्धुः ।
सौदामिनी-- हन्त ! घोरघोरमिदम् । यदात्मविनोदनायारब्धोऽयं परिहास इति जाने । यदि युवां मर्यादाभिज्ञौ नैवमप्रियमलीकमाचरिष्यथः । मां द्विष्टो युवां । अहमपि जाने । उभाभ्यामपि सम्भूय किं वा परिहसितव्यम् । आकारेण मानुषावपि गुणेनापि यदि मानुषौ विनीतां वनितां नैवमवमन्येयाथाम् । मद्विदितेऽपि युवयोर्मयि विरागे किममुना सत्यवचनेन शपथगिराऽलीकस्तुत्या च । तत्त्वतो युवां परस्परजिगीषिणौ कौमुद्यामनुरक्तौ । सांप्रतं सौदामिनीमुपहसितुमहमहमिकथाऽपि ।
परिहासवचोजालैरबलानयनद्वयात् ।
यदश्रुपातनं नाम कैषा पौरुषधोरणी ॥ १८ ॥
धीराः सच्चरिता लोके स्वापराधेन साधवः ।
नैवं कलुषयन्त्येव कन्यकानां क्षमाम्बुधिम् ।। १९ ।।
एतत्सर्वमपि युवयोर्लीलाविनोदायैव कृतमित्यन्यादृशमेतत् ।
वसन्तः- किं वा न जानामि मकरन्द, ते प्रणयं कौमुद्याम् । सैव परिणेतव्या त्वया । यतस्त्वयैवोक्तं ‘तातनिदेशो हि बहुमान्य:’ इति । परित्यजामि कौमुदीं त्वत्कृते । त्वमपि विसृज । सौदामिनीम् ।
सौदामिनी
एतावताऽपि कालेन परिहासपरायणाः ।
न केऽपि व्यर्थवचनैरेवं कण्ठमशोषयन् ।। २० ।।
मकरन्दः– “ भूयाननुराग एव कन्यकाया ’ । तत्कौमुदीमेवोदुह्य सुखं निवसतु महाभागः । नेतः प्रभृति मनसाऽपि स्मरेयं कौमुदीम् । सौदामिनीविप्रलम्भकारीति ममाप्ययशो रूढम् । तत्परिमार्ष्टुमीहे । स्वनिलयं प्रतिनिवृत्तश्चिरप्रवासीव सद्य एव सौदामिनीं यथापूर्वमभजत मन्मनः ।
वसन्तः - ( सावज्ञम् ) भद्र, सूनृता न खल्वस्य वणी ।
मकरन्दः- ( सक्रोधम् ) नेक्षस्वेमाम्। त्वन्नयेनकौमुदीं कौमुदी- मेवोपगच्छ । सम्प्रति पश्य त्वामेवान्वेषयन्त्यागता वराकी ।
- ( ततः प्रविशति पटाक्षेपेण सम्भ्रान्ता कौमुदी ।)
कौमुदी
गाढध्वान्ता रजनिरधुना चाक्षुषीं कर्षतीयं
वृत्तिं शब्दग्रहणचतुरां श्रोत्रयोर्वर्द्धयन्ती ।
कर्णाभ्यां मे नतिशतमिदं यत्प्रसादद्वियुक्तं
जानामि त्वां मधुरमधुरैः कण्ठनादैरुदारैः ।। २१ ।।
V. 8
( सास्रम् । )
चक्षुः शून्यीभवति विपिने गाढसान्द्रान्धकारे
पादो मान्दीभवति नितरां कण्टकाविद्धमूलः ।
त्वत्संपर्कं प्रति मम मनश्चञ्चलं शङ्कया च ।
चिन्ताक्रान्ता तृणमिव जगज्जालमालोकयामि ।।२२।
वल्लभ, कुत इदमौदासीन्यम् । क्व गतस्ते मय्यप्रतिमः प्रणय. ।
कथमेवं विहायाशु कन्यकां भीषणे वने ।
अनाथामामिषीकृत्य शरारूणां त्वया गतम् ।। २३ ॥
वसन्तः-- ( सौदामिनीदत्तचक्षुरेव ।) कथं स तिठेद्यं प्रणयो वि द्रावयति ।
कौमुदी-- ( साश्चर्यम् ) को वा प्रणयो वसन्तं कौमुदीसन्निकर्षादपसारयति ।
वसन्तः-- सौदामीनमदृष्ट्वा क्षणमपि न जीवेयम् । का त्वं यदि दृश्यते सौदामिनीवदनचन्द्रमाः । को वा परित्यज्य रजतं रङ्गमपेक्षते । त्वयि द्वेष एव मामद्रावयत् ।
कौमुदी-- नैतद्युज्यते । यन्मन्यसे तन्न ब्रूषे ।
सौदामिनी-- ( सत्रेदोपालम्भम् )
हा हा कष्टमियञ्च में परिभवे बद्धोद्यमा दृश्यते
ज्ञातं सम्प्रति हा त्रयोऽपि मिलिता मिथ्योपहासाय मे ।
कौमुद्यन्यजनापकारिणि, भृशं भूत्वा कृतघ्ना मयि
ह्येताभ्यां सह मां कथं व्यथयसेि क्रूरापहासैरलम् ।
सल्लापः खलु तादृशः शपथवाक्स्नेहे मिथोऽन्यादृशी
ह्यावाभ्यां च वियोजने द्रुतगतिः कालो मुहुर्निन्दितः ।
विद्यावाप्तिदिनप्ररूढरुचिरप्रेमा निरागस्कता
चान्योन्यं समभूतदेदमखिलं किं सर्वधा विस्मृतम् ।
स्थित्वैकत्र महासनेऽतिरुचिरे नीरन्ध्रमन्योन्यतो
गानं चैकलयस्वरातिमधुरं कृत्वा विनोदाय नौ । ।
एकं तन्तुगणैरुदारकुसुमं ह्यावां वयावः स्म तत्
पार्श्वाभ्यां ध्वनिनाङ्गकैरपि हृदा चैक्यं प्रपन्ने इव ।
आपाततो द्विधा भिन्नो यथैकश्चेरिभूरुहः ।
आवामाकृतितो भिन्ने तथा वृद्धिं गते उभे ॥ । २७ ।।
यथैकस्मिन् फलद्वन्द्वं वर्धते सरिख नालके ।
तथैकस्मिन् मनस्येते लम्बेते द्यावयोस्तन् ॥ २८ ॥
सखि मदुपालम्भ एतयोः सहायपदवीमारोढुं चिरनिरूढामावयोरतिमधुरां प्रणयधारां किं वा शिथिलयसि, नेदमुचितं सौहार्दस्य । नायं कन्याधर्मः । यद्यप्येतस्य कर्मणोऽहमेकैव दुःखभागिनी तथाऽपि त्वां निन्देयुः सह मया सर्वा अप्यस्मद्वर्ग्याः ।
कौमुदी– (सशोकविस्मयम् ) किमेवमिदमित्थमित्यजानानाऽतिनिष्टुरं प्रलपसि । नाहं द्वेिष्म त्वाम् । अपि तु त्वयैवाहं द्विष्ये ।
सौदामिनी-- (सास्रम् ।) न किं त्वया प्रेरितो वसन्तो मामनुसृत्य नयनवदनादिवर्णनेन ह्रियमुत्पादयितुम् । त्वदनुवर्ती खल्वयं मकरन्दः । येनाहमितः पूर्वं पादहतिभिरप्यधिकमधिक्षिप्ता स तु मामद्य ‘रतिर्वालक्ष्मीदवे ' त्यादिना स्तवीति । तदपि त्वद्विनोदना यैवेति स्फुटम् । प्राणव्ययेऽप्रतिहतस्नेहस्त्वयि वसन्तः। मम त्वनुरागानुनयप्रार्थितोऽप्यपि मकरन्दः कटाक्षलेशमपि न पातयति । तत्सर्वधा शोच्याऽहं कौमुदि, । तदेवन्नैर्घृण्यस्य कारणमणीयोऽपि नोपलभे ।
(इति पटान्तेन मुखमावृत्य रोदिति ।
कौमुदी- सखि, ते हृदयगतं नावगच्छाम्यनयातिनिष्टुरया वाचा ।
सौदामिनी- अयि, कथं सौदामिन्यामपि विप्रलम्भमारभसे । यदा पार्श्वतोमुखमपर्वतयामेि तदा मुखमुन्नमय्य भ्रुवमुल्लास्य स्मितमारचय्य कृतसङ्केता मामपहसथ । भद्र, यदि कारुण्यस्य वा सौहार्दस्य वा धर्मस्य वा लेशस्त्वयि तर्हि मैवं कृथाः । अथ वा कथमत्र स्थीयते । प्राणवियोग एवञ्च वरीयान् ।
(इति गन्तुमिच्छति ।)
वसन्तः- तिष्ठ तिष्ठ । सत्यमेव मत्प्रणयस्य मज्जीवितस्य मदारत्मनश्च त्वमेवेश्वरी रमणीये सौदमिनि, ॥
सौदामिनी— अतिनिपुणमुपक्रान्तम् ।
कौमुदी-- (सदयम् । ) वल्लभ, मैवमुपहस प्रियसखीम् ।
मकरन्दः- यदि स्वयमेव नागच्छति सौदामिन्यागमयामि तां हठात् ।
वसन्तः-- (मकरन्दं प्रति ।) न कदापि त्वां विश्वासघातुकं वरिष्यतीयं रमणी । न च त्वमपि मयि स्थिते शक्ष्यसि हठात्तामागमयितुम् । (सौदामिनीं प्रति । ) सत्यं त्वय्यनुरक्तोऽस्मि मत्प्राणैरपि ते शपे ।
त्यक्त्वा याननृतीकुर्यामन्यथावादिनं जनम् ॥ २९ ॥
मकरन्दः-- अकत्रिमतरः खलु मे प्रणय : ।
वसन्तः-- तथा चेन्मूर्ख, द्रक्ष्यामि तेऽनुरागम् ।
मकरन्दः-- (सरोषम् ) जाल्म, त्वरितमागच्छ ।
कौमुदी- (सम्भ्रान्ता ) वसन्त, किमेतत् ।
वसन्तः-- (किमात्थ रे अनात्मज्ञ ।
मकरन्दः-- गच्छ गच्छ वसन्त, कौमुदी प्रतिपालयति त्वाम् । अपि च त्वं किल शान्तः । क धनुर्विद्या क्व च त्वम् । धिक् । धिक् ते पौरुषम् ।
वसन्तः- - ( सक्रोधम् ) मूर्व, पश्य कालदण्डमिव मे बाहुमधुनैव त्वां व्यपादयेयम् ।
कौमुदी– प्राणेश, किमेतत् । विरम शुष्ककलहात् । किमिदमपि ते विनोदनम् ।
सौदामिनी-— - त्वमपि विरम ।
मकरन्दः-- रे वसन्त, किं वा न विदितं मम यदसून्विहायापि कोंमुदीं न त्यक्ष्यसीति ।
वसन्तः-- किं वा कौमुदीं प्रहरेयं तुदेयं व्यापादयेयं वा । यादृशो वा मे द्वेषो भवतु तस्याम् । क्रोधेन किमपि पापाचरणं । न हि धर्मः । विशेषतस्तस्त्वबलायाम् ।
कौमुदी-- (सशोकम् )
यद्येवं किमिहपरा मम भवेव्द्यापत्तिरन्यादृशी
कौमुद्यस्मि वसन्त एव स भवान् किं वाऽन्यथा भाषसे।
त्वामाश्रित्य गृहं विहाय पितरौ सन्त्यज्य रात्रौ वने
भ्रान्तं निष्करुण, त्वयाद्य निखिलं किं सर्वधा विस्मृतम् ॥
वसन्तः– (कोपातिशयं नाटयन् । ) न दिदृक्षामि ते वदनम् । गम्यतामस्मत् प्रदेशात् । नेतः प्रभृति वसन्तं स्मर । गतस्ता वदावयो: प्रणयः । विह।य विवेचनामेतावत् स्थितं मया । सत्यमेव सौदामिनीं दृष्ट्रा रतिरमणबाणगोचरतामवातरम् । सैव मे बहिश्चराः प्राणाः ।
कौमुदी-- (विचिन्त्य ।) अयि पापाशये, मित्रच्छद्मना शत्रुभूते सौदामिनि हतके, असंशयमेवैतदखिलं त्वचेष्टितमेव । त्वयैव तावद्भिन्नहृदयो मे वल्लभः । रोषितश्च मयि । किं तेऽनयाऽपराद्धम् । साम्प्रतं सकामा भव । प्रतिकुले दैवे किं वा न सम्भवति ।
- (इति रोदिति । )
सौदामिनी -- दुर्विनीते, दूरमतिक्रामत्यपि प्रसन्ने कथं न विर मस्यात्मविनोदनात् ।
कौमुदी - ( क्रोधमभिनीय ) कर्तव्यमखिलं कृत्वा यत्किचिदद्य प्रलपसि । अयि, वदामि त्वयैव विभिन्नहृदयो वसन्त इति । सौदामिनी– वितथमवितथं वा भवतु ते वचनम् । नाहं किञ्चिदपि जाने । एतदेव मयाऽपराद्धं त्वयि । अस्मत्पश्चिमदर्शनानन्तरं मकरन्दनिकटमेत्य त्वं हि वसन्तेनार्धरात्रे गूढं पलायिष्यस इति मया रहस्यनिर्भेदः कृतः । तदाकर्ण्य मकरन्दस्त्वामन्वेषयन्वनमेव प्राद्रवत् । अहमपेि प्रेमाधिक्यात्तमनुध-ावन्ती बहुधऽनुनीयास्त्वम् । स तु मद्दौर्भाग्यान्मां न्यक्कृत्य विपिनान्तरे परित्यज्य पलायितः । एतदेव मे वृत्तम् । सम्प्रत्यपसरमि । कुशलिनी भव । दीनाऽहं ते प्रणयसखी कारुण्येन द्रष्टव्या ।
- ( इति जिगमिषति ।)
कौमुदी- केन वाऽत्र स्थापिता । सुखं गम्यताम् ।
सौदामनी-- ( स्खलितगतिः ) मनो मां नानुयति ।
कौमुदी -- प्रणयेन किल वसन्ते ।
सौदामिनी-- नहि नहि- मकरन्दे ।
वसन्तः-- अतिकातरे सौदामिनि, मा भैषीः । मत्पुरतः किं । करिष्यति मकरन्दस्तव ।
मकरन्दः-- (सरोषम् ।) मूर्ख वसन्त, किमेवं प्रलपसि । यावदहं । नयामि त्वां वैवस्वतमन्दिरम् ।
वसन्तः--(क्रोधातिशयमभिनीय ।) किमात्थ रे मनुष्यकीट, संप्रति पश्यामि ते पौरुषम् ।
- (इति परिक्रमति ।)
मकरन्दः– एहि पाप , समन्तादुत्स्वातिनी भूमिरियम् । विमर्दक्षमप्रदेशमवतरावः ।
- (इत्युभौ निष्क्रान्तौ ।)
कौमुदी– (सशोकम्) अहो प्रमादः । आः पापे दुष्कृतकारिणि सौदमिनि, पूर्णास्ते मनोरथाः । पश्य फलमात्मनोव्यापारस्य । सौदामिनी-- (सास्रम् ।) न युक्तमत्रावस्थातुम् ।
- (इति निष्क्रान्ता ।)
कौमुदी--- (अश्रूणि मुञ्चन्ती ।) हन्त, हन्त कर्तव्यतामूढाऽस्मि । कम्पते मे हृदयम् । का वाऽत्र प्रतिपत्तिः । अनाथाऽस्मि संवृत्ता | विफलाश्च मे मनोरथः । हा हा विधे, कथमेवमतिनिष्करुणमारब्धम् । उक्तञ्च ।
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्च ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ।। ३१ ।।
- (इति पठन्ती निष्क्रान्ता ।)
प्रदोषः-- शठ, प्रमोह त्वद्विजृम्मितं खल्विदम् । अन्वर्थनामा हि त्वम् । अथव निर्दयोऽसि ।
प्रमोहः-- अवन्तीतरुणस्य पक्ष्मसु निषिञ्च प्रसूनरसमित्येव विद्याधराधिपनिदेशः । न किं वसन्तोऽवन्तीयुव । तदयमेव राजनिर्दिष्ट इति मनसिकृतमिदं नान्यथा ।
प्रदोषः– गतमद्य न शोच्यम् । पश्योभावपि तौ रोषकलुषित- नयनौ परस्परजिगीषया वीरवादान् कुर्वन्तौ परिक्रामतः । त्वमद्य सजवमपसृत्य विकीर्य प्रभूतं तमो भीषणीकृत्य रजनीं वसन्तस्य कर्णे मकरन्दवद्भर्जित्वा मकरन्दसविधे वसन्तीभूय च प्रतिभटः पुरो गच्छतीति प्रत्येकं निश्चयं जनयित्वा यथापुनरन्योन्यं न पश्येतां तथा सुदूरं नीत्वा भ्रामय । प्रमोहः-- अस्तु । ततः किम् ।
प्रदोषः-- यदा वसन्तो गन्तुमक्षमस्तदा निद्रामुत्पाद्य (प्रसूनमेकं ददत् ।) अस्य रसेन सेचय तन्नयने । तदनन्तरं निद्रविरामे स्वस्थो भूत्वा यथापूर्वं कौमुद्यामेव पुनरुक्तरागो भविष्यति स युवान सर्वमिदं स्वप्नमवधार्य न स्मरिष्यति च सौदामिनीम् । अयमेवात्र प्रतीकारः । सम्प्रत्यप्रमत्तो भव । अहमपि निम्बवती। परिसरमेत्य राजबालमनायासेन गृहीस्व तामप्यनेन स्वस्थीकृत्य निवर्ते । तदा सर्वं साधु सम्पद्येत । साधयामि ।
- (इति निष्क्रान्तः )
प्रमोहः महाराज , रजन्यमि यामशेषैव दृश्यते । तत् द्रुतमेव सर्वं निवर्तितव्यम् । एष च तावनुधावामि ।
- (इति यथोक्तं कुरुते ।)
(ततः प्रविशति वसन्तः )
वसन्तः - रे वीराभिमानिन् मकरन्द, वद कुत्र वर्तसे ।
प्रमोहः-शठ, मूर्ख, सज्जोस्म्यत्रैव । तिष्ठ तिष्ठ । कुत्र पलायसे।
वसन्तः- अयमहमागच्छामि ।
प्रमोहः- द्रुतमागच्छ । विदूरे विमर्दोचितः प्रदेशो दृश्यते ।
- (शब्द मनुसरन्निष्क्रान्तो वसन्तः )
(ततः प्रविशति मकरन्दः । )
मकरन्द्रः- वसन्त , कथ जोषमास्यते । कातरः खलु त्वं । नरापशद, किं वा पलायितोऽसि ।
प्रमोहः- जाल्म मकरन्दहतक , त्वं किल युद्धाद्भीतो मां
भीषयसि वाचा । त्वामद्यैव हन्यामित्यवधेहि ।
V. 9
मकरन्दः-- (सरोषविकटं परिक्रामन्। ) अयमहमागत्यासून् ते
निष्कासयामि ।
- (निष्क्रान्तः ।)
(पुनः प्रविशति विश्रान्तो वसन्तः ।)
वसन्तः-- (श्रममभिनीय ।) नेतः परमनुधावामि त्वाम् । त्वं वाचैव वीर इति ज्ञातचरमेव । तत्सूदूरं मारीच इव राघवं मां नयसि । क्षणमप्येकत्र न तिष्ठसि । मत्तोऽपि द्रुततरं धावसि । तत्पलायनकर्मणि त्वं वरीयानेव । अहं त्वतीव श्रान्तोऽत्रैव किञ्चिद्विश्रम्य प्रातस्त्वां निहत्य सौदामिनीं परिणेष्ये ।
- (इति निद्राति ।)
(प्रविश्य निदिद्रासुः ।)
मकरन्दः-- आः क्वापि द्रुतो वसन्तः ।
प्रमोहः-- अहो ते वीर्यम् । कातर, कथमत्र नागच्छसि ।
मकरन्दः-- रे वसन्त, भीतस्त्वमिति विदितपूर्वमेव । तत्क्षण मप्यवसरं न ददासि युद्धस्य । अपसर जाल्म , । अधुनाऽहं निद्रामि । ।
प्रहह-- त्वमेव भीतः । अहमत्रैव वर्ते ।
मकरन्दः, कथमेव मां प्रलोभयसि । गम्यताम् । प्रत्युषसि ते बाहुवीर्यं द्रक्ष्यामि ।
( इति भूतले स्वपिति ।)
( ततः प्रविशति सौदामिनी ।)
सौदामिनी-- ( सविषादम् )
त्रियामा बहुयामेयं विशालं विपिनं त्विदम् ।
दोलायमानं हृदयं प्रतिकूलो विधिर्मम ॥ ३२ ॥ अवन्तीं प्रति यातव्यं यद्युदेष्यति भानुमान् ।
शयेऽस्मिन् वृक्षमूलेऽहमपनेतुं पथिश्रमम् ॥ ३३ ॥
- ( इति निद्राति । )
प्रमोहः—
कुत्रान्या कौमुदी दीना मदनेनार्दिता भृशम् ।
पञ्चेषुरतिमूर्खोऽयमुन्मादयति कन्यकाः ॥ ३४ ॥
(ततः प्रविशति कौमुदी ।)
कौमुदी-- (सखेदम् )
परिश्रान्ताऽस्मि खिन्नाऽस्मि हतेयं दुःखभागिनी ।
प्रत्याशैकपदे भग्रा हा प्राणा न त्यजन्ति माम् ॥ ३५ ॥
सर्वधा सुखी भवतु वसन्तः । न शक्यमितः परं गन्तुम् । इयमेवावस्थाऽनुभूयते । उक्तं हि ।
मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविकलज्वालमन्तर्ज्वलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्या करोमि ।
(इति मोहमापन्ना भूमौ निपत्य निद्राति ।)
प्रमोहः-- (वसन्तं स्पृष्ट्वा प्रसूनं लोचनयोर्निष्पिष्य ) यथापूर्वं कौमुदीदत्तमना एव भूत्वा तामेवोपयम्यायं तरुणो विजयतां शरदां सहस्रम् । सर्वत्र भवतु मङ्गलम् ।
- (इति निष्क्रान्तास्सर्वे ।)
इति वासन्तिकस्वप्ने तृतीयोऽङ्कः ॥
चतुथोऽङ्कः ॥
( ततः प्रविशत्यधरकेण निम्बवती विभवतश्च परिवारः)
निम्बवती-- ( सप्रणयं खरशिरत्कमधरकं प्रति ।) आगच्छ मानद निषीद मनोज्ञतल्पे पुष्पैश्चिते रमय मां त्वयि बद्धभावाम् । सद्यः प्रसाध्य रमणीयमिमं कपोलं चुम्बामि कर्णयुगलं तव दीर्घदीर्घम् ॥ १ ॥
अधरकः— कहिं जअशेणा । क्व जयसेना ।
जयसेना --- किमाज्ञापयति महाभागः ।
अधरकः-- कळलूअशु मह वअणे । कर्हि अत्थि विअआ । कण्डूयस्व मे वदनम् । कुत्रास्ते विजया ।
विजया- इयमस्मि ।
अधरकः-- वळे विअए, शअवं गत्तूण मच्छिआ हत्तूण मध्धिअं आणेहि . । वळे गोमिणि ।
अयि विजये, सजवं गत्वा मक्षिका हत्वा माध्वीकमानय। भो गोमिनि ।
गोमिनी— को निदेशः ।
अधरकः-- वअणम्मि अच्चन्तळोमशे हगे त्ति मण्णे । तह मिउळे मह शीऴीळे लोम्माणं शंकळणे कऴ्ळूअणं अवेक्खइ । ता ताळिशकम्मणि पुळिवं एव णिउत्ताए जअशेणाए शाहाइअं कळे हि ।
वदनेऽत्यन्तरोमशोऽहमिति मन्ये । तथा मृदुलं मे शरीरं रोम्णां सङ्कलने कण्डूयनमपेक्षते । तत्तादृशकर्मणि पूर्वमेव नियुक्ताया जयसेनायास्साहाय्यं कुरु ।
निम्बवती-- अहो वल्लभ, अपि शुश्रुषसे गानम् ।
अधरकः-- अत्थु णाम गाणे । भक्खिच्चळशं अश्शाएम्ह । आस्तां नाम गानम् । भक्ष्यरसमास्वादयावः ।
निम्बवती प्राणेश, किं वाssज्ञापयामि भक्ष्यमानेतुम् ।
अधरकर -- शुअइदुं इच्छम्हि । कहं एव्वं वाहेशि । स्वप्तुमिच्छामि । कथमेवं व्यथयसि ।
निम्बवती (हस्तं प्रसार्य ।) संप्रति निद्रामनुभवतु भवान् । मत्पाणिमेवोपधाय शेतामत्रभवान् । (अधरकः तथा करोति ।) चेट्यः, गम्यताम् ।
- (निष्क्रान्ताश्चेट्यः ।)
- वल्लभ, प्रतिक्षणं विजृम्भते रागस्त्वयि ।
- (ततः प्रविशति सह प्रमोहेण प्रदोषः)
प्रदोषः-' (कतिचित्पदानि गत्वा ) प्रमोह, स्वागतम् । दृश्यतामवस्था निम्बवत्याः ।
दुःखितोऽहमिमां दृष्ट्वा दत्तभावां खरेऽधुना ।
प्रसूनरसमाहात्म्यमुन्मोहयति भामिनीम् ॥ २ ॥
अधिक्षिप्ता मयोद्याने गर्विता बालकार्थिना ।
सांत्वनानि प्रयुञ्जाना मयि क्रुद्धेऽनुरागिणी ॥ ३ ॥
ततोऽनुतापमापन्ना बालकं प्राहिणोद्रुतम् ।
बालकागममज्ञात्वा मयेयं पीडिता भृशम् ।। ४ ।।
अविलम्ब्य प्रतीकारः कर्तव्योऽद्य महमते ।
( हस्तगतं प्रसूनं निष्पिष्य निम्बवतीपक्ष्माण्यनुलिप्य )
स्वस्था भवतु भद्रेयं मुच्यतां गर्दभेऽनया ।। ५ ॥
रासभश्च यथापूर्वं कर्तव्यो मानुषस्त्वया ।
पश्यैषा पद्मपत्राक्षी लज्जयोत्तिष्ठति ध्रुवम् ।। ६ ।।
निम्बवती-- ( पक्ष्माण्युन्मील्य प्रदोषं पश्यन्ती ) आर्यपुत्र, कोऽयं स्वप्नः । यो मां गर्देभानुरक्तामकरोत् ।
प्रदोषः- देवि, विदूरे शयनं पश्य त प्रियवल्लभम् ।
निम्बवती-- ( सलज्जम् )
कथमेवं प्रमुग्धाऽस्मि गर्दभाक्रान्तमानसा ।
कथं वा विप्रलब्धाऽहं लोचनाभ्यां खरं प्रति ।। ७ ।।
प्रदोषः– (प्रमोहं प्रति ।)
अपनीय रासभशिरः स्थापय शीर्षे नरस्य सजवं त्वम् ।
- (निम्बवतीं प्रति)
- (निम्बवतीं प्रति)
सर्वे किन्नरगानं हृष्टाः श्रुत्वाऽद्य गच्छन्तु ॥ ८ ॥
निम्बवती- चेट्यस्त्वरितं गीयतामस्माकं प्रभुराज्ञापयति । तृतीयोऽङ्कः । ७१ ( सर्वा गायन्ति) प्रमोहः- अधरक, नरो भव निद्रावसाने । प्रदोष– देवि निम्बवति, यथाप्रमोदं रमणीयारामनिकुञ्जेषु विहृत्यगामिनेि दिवस इन्द्रवर्मणः पाणिग्रहणमहोत्सवसमाजनेत्य सुखं नृत्यावः । ( इति विना अधरकं सर्वे निःक्रान्ताः । ) ( ततः प्रविशति कनकलेखयेन्दुशर्मणा चानुगम्यमानः सपरिवारो राजा इन्द्रवर्मा ) इन्द्रवर्मा - (सावलेपम् ) हत्वा हिंस्रमृगनतीव मृगयाव्यापारखिन्नोऽस्म्यहं गत्वा व्याधमिहानयाहमधुना पश्यामि सर्वं वनम् । । क्रीडाशैलमुताधिरुह्य सहसा श्रुत्वा मृगक्रन्दनं हर्षं प्राप्स्यति मङ्गलेयमधिकं देवी मया सादरम् ॥ ९ ॥ कनकलखे सप्रतेि विहरावः । कनकलेखा-- ( स्वगतम्) अवलेपएनं मुखरयति । भवतु नीच खल्वयम् । ( प्रकाशम् ) महीपते गच्छावः । इन्द्रवर्मा-- (विकटं परिक्रम्य ) प्रिये, रमणीया इमा वनभूमयः । सुखस्पर्शो वाति दक्षिणानिलः । मधुरं कूजन्ति शकुन्ताः । माधवश्रियं पुष्यन्ति रक्तपल्लवावतंसेिंतचूताशोकातरुनिवहाः । (स्खलितगतिर्भूमौ चक्षुर्निक्षिप्य ।) कथमिमे अमरतरुण्यौ । ० ७२ वासन्तिकस्वप्ने (ततः प्रविशतः सुप्तौ वसन्तमकरन्दौ सह कौमुदीसौदामिनीभ्याम् ।) इन्दुशर्मा -- (सविमर्शाश्चर्यम् ।) कौमुदीयं महाराज, वसन्तोऽयं महामते ।। मकरन्दश्च निद्राति सैषा सौदामिनी प्रभो ।। १० ।। चित्रमेतद्यदिमे स्वपन्ति विपिनैकदेशे । राजा-- असंशयमेते प्रत्युषस्युत्थाय वयमत्र मृगयायै गमिष्याम इति ज्ञात्वा पूर्वमेव संमोदेन वनश्रियं दिदृक्षव आगता इति तर्कयामि । अन्यथा कथमेतत् संभवति [स्मरणमभिनीय ।] इन्दुशर्मन् , दिवसेऽस्मिन् खल्वनया परिणयं प्रति स्वाभिमतो वाच्यः । तदद्य तां पृच्छामि । कः कोऽत्र भोः । अनुचरः- आज्ञापयतु महाराजः । राज - सत्वरमेतान् प्रबोद्धयागमय तावन्मत्सकाशम् । अनुचरः -- यथाऽज्ञापयति देवः । ( इति प्रणम्य निष्क्रान्तः ) (नेपथ्ये ध्वनेः ) (कौमुदीवसन्तादयः प्रबोधिताः ।) राजा–कथमद्यापि न जहति युष्मान्निद्रा । वसन्तः- (राजानं दृष्ट्वा ससम्भ्रमम् ।) क्षम्यतां दासजनस्यायमपराधः । राजा-- कथं सर्वेऽपि यूयं मात्सर्यमुत्सार्यं स्नेहधर्मेण सम्मोदमनुभवथ । एतदेव युज्यते । चतुर्थोऽङ्कः । ४२ वसन्तः - (सभयसंभ्रमम् ) = सम्भ्रान्तोऽहं महाराज न जाने वक्तुमुत्तरम् । कथं वा केन चैवाहमिहानीतः प्रभोऽधुना ॥ । ११ ॥ स्वप्नो वा किमियं माया किमु वा चित्तविभ्रमः । ( किञ्चिद्विचिन्त्य हृदयेनावधार्य ) सत्यं भणामि भो राजन् कौमुदीं रमणीमहम् ॥१२॥ ० है - आश्वास्य मत्प्राणसमां जनकाज्ञातिदुखिताम् । अर्धरात्रे गृहाद्रूढमनयं विपिनं त्विदम् ।। १३ ।। इन्दुशर्मा- ( सरोषम् ।) विरम विरम महीपाल, चित्रवधार्हः खल्वयं कन्यारत्नतस्करः । दण्ड्यतामविलम्बेन । अहो। मकरन्द, त्वद्वल्लभां मे प्रियकुमारीं कृत्वा यत्र कुत्रापि स्वयं गान्धर्वेणोपयन्तुं किलारब्धमनेन वसन्तहतकेन । तद्दिष्टया वर्धसे । मकरन्दः- अहो ! इन्दुशर्मन् , अयमञ्जलिस्त्वां प्रत्यथव। कौमुदीम् । पूर्वेद्युः सौदामिन्या विज्ञप्तोऽहं कौमुदीवसन्तपलायनं. कौमुदीविभ्रमाक्षिप्तहृदय एव मामेव प्रणयेनानुगतां त्रिलोकसुन्दरीं सौदामिनीं न्यक्कत्य कान्तारमिममागतोऽभवम् । इदं तु न ज्ञायते । केन व कारणेनं पुनरपि सौदामिनीमभजन्मदनुराग । सम्प्रति तु । सौदामिनीप्रणयचरितमानसोऽहं सौदामिनी हि वनिताकुलरत्न भूषा । सैवाध में शरणमेवमनङ्गतापः सौदामिनीस्फुरणचञ्चल एव रागः ।। १४ ।। V. 10 ७४ वासन्तिकस्वप्ने ९ ३ वसन्त एव कौमुद्यां प्रणयी साऽपि तं प्रति ।। मनसाऽपि स्मरेयं त्वत्कन्यकां न कदाचन ।। १५ ॥ राजा। - (सविस्मयम् ।) अहो ! सम्यग्भणितम् । रे इन्दुशर्मन् , प्रशस्ता नातिभाति ते मतिः । तद्वरीयान् वरस्ते वसन्त एव । मकरन्दश्च सौदामिनीदत्तराग एव वतते । तदिदमेव साधु । अस्मिन्नेव दिवसेऽनयोः कौमुधीवसन्तयोः सौदामिनीमकरन्दयोश्चास्मदुत्सवसमाज एव पाणिग्रहणमङ्गलोत्सवो निर्वर्तनीयः । प्रिये कनकलेखे, परिणयवेलाप्यासन्न्ना । तत् सर्वेऽपि क्षिप्रं प्रासादमेव गच्छन्तु । (इति निष्क्रान्तः सपरिवारो राजा ।) मकरन्दः- (सवितर्कम् ) सत्यमेवायं स्वप्नोऽथवा कोऽपि विम्प्रलभ एवेति मन्ये । कौमुदी -– सर्वमेतद्वृतमसम्बद्धम् । सौदामिनी सर्वधा स्वप्नएवैषः । विहाय कौमुदीं रम्यां प्रसादमकरोन्मयि । वल्लभो मकरन्दोऽयं कथं वैतस्य सम्भवः ॥ १६ ॥ मकरन्दः-– (कौमुदीं प्रति ।) कथ वा मन्यसे सुभ्रु स्वप्नोऽयमिति चिन्तये । किं वा स्मरसि राज्ञोऽत्र निदेशं नगरं प्रति ।। १७ ।। कौमुदी-- अथ किम् । न केवलं राजा । तमनु मे जनकश्च तत्राभूत् । सौदामिनी-- कनकलेखIऽपि । वसन्तः-- प्रासादमगच्छतेति किल राजनिदेशः । चतुर्थोडङ्क: । ७५ मकरन्दः-- तथा चेत् सर्वेऽपि वयं जागृमः । तत्साम्प्रतं राजा देशानुरोधेन प्रसादमङ्गलमण्डपमेव सत्वरं भजामः । (इति निष्क्रान्तः ) अधरकः-- (प्रबुध्य ।) कहं शुहिआ धण्णआई शळ्ळोहम्मि ट्ठावूण अह्यइन्दणेप्पच्छं पि धळिअ भाणुमहं एक्कपदम्मि मो- इअ णिउञ्जं णं पविट्ठेण मए शुविज्जइ । (सत्वरमुत्थाय) पिए भाणुमइ, (इत्यादि व्याहरन्निकुञ्जाद्वहिरागत्य धन्यकादीनपश्यत् ।) वळे घण्णआ महामए, अज्ज ळाअशा, अळे वशुावळिदा , शहे धणआ, (इति सर्वतोऽन्विष्य ) कहं गदा इमे वळाआ । (विचिन्त्य ) अपुळिवे एशे शिविणए । शव्वाह वि अश्शु दचळे इळ एशे । त अवन्तिं वेअ गदुअ घण्णआंह वृत्तं णिहिऴं पि अख्खाऊण अहिणेदव्वे पअळणे पत्थावणलुब्वेण पआशेमि । णामेण अहळआशियिणए त्ति ते होदु शा । (इति निष्क्रामति ) कथं सुहृद् धान्यकादीन्सरोरोधसि स्थापयित्वाऽश्मकेन्द्र नैपथ्यामपि धृत्वा भानुमतीमेकनदे मुक्त्वा निकुञ्जमेतं प्रविष्टेन मया सुप्यते । प्रिये भानुमति, भो भो धान्यक महामते, हे राजस , रे वसुपालित, सखें धनक , कथं गता इमे वराकाः । अपूर्वोsयं स्वप्नः । सर्वस्याप्यश्रुतचरः किलैषः। तदवन्तीमेव गत्वा धान्यकाय. वृत्तं निखिलमप्याख्यायाभिनेतव्ये प्रकरणे प्रस्तावनारूपेण प्रकाशयामि । नम्ना अधरकस्वप्न इति च भवतु सा । ७६ वसन्तिकस्वप्ने (ततः प्रविशन्ति धान्यकः वसुपलितः राजसः साधकश्च ।) धान्यकः-- कहं पेशिदे दूए अहळअणएअणम् । अवि णाम घेऴं पडिणिउट्टे अहळए । कथं प्रेषितो दूतोऽधरकनिकेतनम् । अपि नाम गृहं प्रतिनिवृत्तोऽधरकः । साधकः-- (सविषादम् ) ण किं पि मुणिज्जइ । शच्चे वेअ ळाशहीकडे शे । न किमपि ज्ञायते । सत्यमेव राक्सभीकृतोऽयम् । वसुपालितः-- जइ ण आआमिज्ज अहळए अम्हाण लूव्व- आIहेणए अशक्किए वेअ । अवणिवाह वि अशन्दुठ्ठी । यदि नागच्छेदधरकोऽस्माकं रूपकाभिनयऽशक्य एव । अवनेषस्याप्यसन्तुष्टिः। धान्यकः- णं विण अझइन्दवेशे ण काह वि जुज्जइ । एनं विनाऽश्मकेन्द्रवेषो न कस्यापि युज्यते । वसुपालितः-- पच्चुप्पण्णमर्ह इल शे । प्रत्युत्पन्नमति: किल स: । धान्यकः— कळअण्ठाह विअ तो वाहाळे । कलकण्ठस्येव खलु तव्द्याहार: । (प्रविश्य ससम्भ्रमम् ) धनकः- अळे भाआळे देअजत्तं णिव्वट्टिअ पच्छागच्छइ ळाआ । पाणिग्गअणमङ्गळप्पड़िशळबद्धहत्था तळ्ुणा तळुणओ अ ।। चतुर्थोऽङ्कः । ४७ ( नेपथ्ये मङ्गलध्वनिः । ) शू ! णाडअप्पओअवट्टा वि णळवळशण्णिहिम्मि अज्ज ण पत्थोदव्वा । भ्रातरः, देवयात्रा निर्र्वतर्त्य प्रत्यागच्छति राजा । पाणिग्रहणमङ्गलप्रतिसरबद्धहस्तौ तरुणौ तरुण्यौ च । हन्त ! नाटकप्रयोगवार्ताऽपि नरपतिसन्निधावद्य न प्रस्तोतव्या । वसुपालितः- ( सखेदम् ।) शहे अहळआ ळामणिच्चअणिहे, हदा अभ्भे तुह अशण्णिहाणेण । सखेऽधरक, रामणीयकनिधे, हता वयं त्वदसन्निधानेन । ( प्रविश्य पटाक्षेपेण । ) अधरकः- ( सहर्षसम्भ्रमम् ) वळे शुदिआ, कहं एत्थ ट्टिज्जइ । कुद एशे आळश्शे । सुहृदः कथमत्र स्थीयते । कुत इदमालस्यम् । धान्यकः--( सम्मोदातिशयं नाटयन् । ) अहळआ, अज्ज्ञ वेज किदत्था म्ह । एशे वेअ अम्हण भग्गपळिणामे । अधरक, अद्यैव कृतार्थाः स्मः । अयमेवास्माकं भाग्यपरिणामः | अधरकः-- शुहिआ, अच्चभ्भुअं मे वुत्तं बाहळाम्हि वो । सुहृदोऽत्यद्भुतं वृत्तं मे । व्याहरामि वः । धान्यकादयः-- अच्चळि्अश्शवणकुउक्किळ्ऴा अभ्भे । आश्चर्यश्रवणकुतुकिनो -वयम् । ७८ वसन्तिकस्वप्ने [ नेपथ्ये मङ्गलगीतवाद्यानि श्रूयन्ते ।] अधरकः-- शंव्वइ ण किं पि कहेज्ज । अट्ठाणमण्डवं आअदे । ळाआ शब्वे वि अभ्भे पअळणाणुशाळेण जहूइदणेप्पच्छशामग्गिळीओ शण्णाहिअ उव्वाहमण्डवं उवगदुअ पडिख्खिअ ओशऴं अपुळिवे एशे णाडअप्पओए त्ति जह शामाइआ वइश्शन्दि तह अप्पमत्तेहिं अभ्भेहेिं भव्वे । ता द्रुददळे आशिळम्ह । सम्प्रति न किञ्चिदपि कथयेयम् । आस्थानमण्डपमागतो राजा । सर्वेऽपि वयं प्रकरणानुसारेण यथोचितनेपथ्यसामग्रीस्सन्नाह्योद्वाहमण्टपमुपगत्य प्रतीक्ष्यावसरं अपूर्वों ऽयन्नाटकप्रयोग इति यथा सामाजिका वक्ष्यन्ति तथा अप्रमत्तैरस्मभिर्भाव्यम् । तत् द्रुततरमपसरामः । [ इति निष्क्रान्ताः सर्वे] इति वासन्तिकस्वप्ने चतुर्थोऽङ्कः । > पञ्चमोऽङ्कः ॥ ( ततः प्रविशतः प्रास।दपर्यङ्कतलस्थौ राजा कनकलेखा च । सभामण्टपासीनः प्रमोदः नागरिकमुख्याः परिवारश्च । ) कनकलेखा-- आर्यपुत्र, विचित्रमेतद्वधूवराणामनुरागाविष्टचेतसां कथितम् । राजा- अद्भुतं भणितं तेषामपि नैव ऋतं भवेत् । न प्रत्येमि कदाऽप्येताः कल्पनागुम्भिताः कथाः ।।१।। कामुकानां तथान्मत जनानां मतिवृतयः । अन्तराहेतुसामग्रीं कल्पयन्ति नवं नवम् ।। २ ।। कामुकः कविरुन्मत्तः कल्पनामयमूर्तयः । पिशाचलोकाः सर्वेऽपि स्फुरन्त्युन्मत्तचक्षुषोः ।। ३ । । रागोन्मत्तमना विवेकविधुरः पञ्चेषुणा वञ्चितः कामी पश्याति कुत्सितां स्त्रियमहो ! कामस्य हि प्रेयसीम्। आवेशात्कवनोद्भवादृृगमला विज्ञानरूपा कवेः यात्यायाति नभोऽवनेश्च नभसो भूमिं भ्रमन्ती सुखात् । कविमतिरतिचतुरा सा कालेनैतावताऽपि यत्नैव । सृष्ट्वा किमपि च ततद्वासभुवं नाम चास्य सन्धत्ते । सन्ति चमत्कृतयस्ताः कविधिषणायाश्च कल्प्यते धुरि यैः । । हर्षभयादौ तत्तत्कारणकार्याङ्गकर्तृसामग्री ॥ ६ ॥ ८ ७ वसन्तकस्वप्ने कनकलेखा -- राजन् , सर्वेषामेकवाक्यतो निशlवृत्तमकर्ण्य तसर्वमत्यद्भुतमपि सत्यमेवेति प्रतीयते । राज -- संप्रति पश्येत एवाभिवर्तन्ते ते वधूवराः । [ ततः प्रविशति वसन्तः मकरन्दः कौमुदी सौदामिनी च ] राजा-- ( सस्मितम् । ) मङ्गलपरम्परया नित्यसम्मोदोदर्कं वर्ततां राजमन्दिरम् । राजा- अस्मिन् महोत्सवे हर्षानुरोधेन।त्मानं परिजनञ्च विनोदयितुं किमपि रूपकं दिदृक्षुरस्मि । कुत्रास्ते प्रमादः । कुत श्चास्मत्सभासूत्रधारः । प्रमोदः–[उदञ्जलिः ]देव महाराज वीरग्रेसरमणे, सज्ज एष दासः। राजा- क्षपामेनां क्षपयितुं किमप्यस्ति वा विनोदनम् । नृत्तं रूपकमथवा गीतम् । यथा तथा वा मोदेन कालयापनं कर्तुमीहे । प्रमोदः-- अत्र प्रतीक्षन्तेऽवसरं बहव राजानं विनोदयितुम् । अनेकानि च विनोदनानि । यदि रोचते देवयाऽखलमपि व्यक्तीभविष्यत्यनेन पत्रकेण । [ इति लेखं ददाति ] राजा -- [ गृहीत्वा वाचयन् ] प्रथमतो ‘राज्ञः सन्निधौ वीणापाणिः सौविदलः कश्चिद्भीमेन जरासन्धस्य निधनं गातुभिच्छति ।’ सांप्रतं न रोचते मे गानाकर्णनम् । उक्तपूर्वैव कथाप्येषा प्रसङ्गतः कनकलेखायै । [ पुनरपि वाचयन्] ततः “ रौहिणेयस्य सूतवधचरितं नाटकरूपेण प्रयोक्ष्यते ।' [ स्मरणमभिनीय ] एतदपि काश्मीरविजयानन्तरं भागीरथीरोधसि दृष्टचरमेव । चतुर्थोsङकः । ८१ (पुनरपि वाचयन् । अनन्तरं ‘सर्वेऽपि कविशिखामणयोदारिध्रमागताः स्मर्तव्यां गतिमीयुः । गैर्वाण्यपि क्षीणदशामापन्ना इत्यादि सरस्वतीरोदनं नम नाटकमभिनेतव्यम् । ' आह्लादप्रतिबन्धीदं न युज्यते मङ्गलमहोत्सवसमाजस्य । (पुनरपि वाचयन् ।) अथ ‘दुःखाकरमप्याह्लादकारि दीर्घमप्यनायतं भानुमत्यश्मकेन्द्रयोः प्रणयमाविष्कुर्वत् प्रकरणमपूर्वं प्रयोक्तुमवनिपस्य पुरत इमे सज्जाः । कथं वाऽस्मिन् प्रकरणे सङ्करः शोंकहर्षयोः । परस्परविरुद्धं तत् कथं वा सरसं भवेत् ॥ ७ ॥ प्रमोद-- महाराज, मया दृष्टचरमेतत् प्रकरणम् । तस्मिन् अस्मकेन्द्र इति कश्चिदवनिपो भानुमतीमनुरक्तोऽवसाने प्रणयाधिक्यादात्मनं व्यापादितवान् । सत्यमेव तदा शोकमसहमानेनाश्रुपूर्णवदनेन मया स्थितम् । तथाऽपि तादृश।नन्दबाष्पपूरो न कस्मिन्नपि प्रकरणान्तरे जायते । राज- क इमे नर्तकाः । प्रमोदः- अस्मन्नगरस्थाः स्थूलबुद्धयस्तन्तुवायप्रभृतयः। राजानमाहृादयितुं प्रथमारम्भोऽयमेतेषाम् ।
राजT अवश्यं द्रक्ष्यामः प्रकरणमेतत् । प्रमोदः-- महाराज, न कदाऽपि देवदर्शनयोग्यमेतत् । सभासदो नन्दयितुमेषां मन्दमतीनामुद्योगाभिनिवेशमन्तरा न किमपि विद्यतेऽस्मिन् नाटके । राज -- प्रणयारब्धं न किञ्चिदपि परित्याज्यम् । तत् सर्वधा V. 11 ८२ वे सन्तकस्य । दृक्ष्याम्येव । प्रवेशय तान् । भामिन्यः, स्थीयतां स्वे स्वे आसने । प्रमोदः- इदं क्रियते । (इति निष्क्रान्तः) कनकलेखा-- नोत्सहे द्रष्टुमेतत् करुणं प्रकरणम् । राजा- कान्ते कनकलेखे, सर्वत्रापि प्रकरणं न शोकभूयिष्ठम् । कनकलेखा-- आनन्दनं किञ्चिदप्यस्मिन्निनिति श्रुतमार्यपुत्रैणैव । राजा दीनानुकम्पनं नाम व्रतं राज्ञो वरं प्रिये । प्रभुधर्मश्च भूत्यानां प्रसादश्शाश्वतो मतः ।। ८ ।। । अपरञ्च । सरसं विरसं व भवतु प्रकरणम्। निपुणा वा न वेमे नटाः । प्रथमप्रवेश एवयमेत्षामस्दाराधनोद्यतानाम् । तत् सर्वधा न परित्याज्या इमे भृत्याः । अपि च श्रृङ्गारैकरसमित्येवोक्तमेतत् । ( प्रविश्य ) प्रमोदः-(अञ्जलिं बध्वा ॥) अमी सज्जा निदेशं प्रतीक्षन्ते नटाः । कृतानि च नैपथ्यविधानानि । राजा-- (नेपथ्याभिमुखमवलोक्य ) प्रस्तूयतां भोः । (प्रविश्य सूत्रधारः ।) सूत्रधारः सभासदाराधनमानसा वयं नवप्रयोगा ’ न च तीक्ष्णबुद्धयः ।
चतुथाऽङ्कः | ८३ तथाऽपि हर्षेण नृपस्य सन्निधौ प्रमादाकाङ्क्षध समागता वयम् ॥ । ९ ।। (नाद्यन्ते प्रविशति भानुमत्यश्मकेन्द्रो भित्तिश्चन्द्रिक। केसरी च । ) सूत्रधारः -- आर्यमिश्रा : किं पात्रदर्शनेन विस्मिता यूयम् । अस्तु तावद्विस्मयो ! यावद्वस्तुस्थितेरुपरि प्रकाशनम् । अयमेवाश्मकेन्द्रः । इयमेव रमणीया भानुमती । यस्या रन्ध्रेण नायकौ जल्पतस्सैवेयं भितिः कण्टकावृततनुर्दीपाङ्कितपाणिस्सारमेयानुगम्यमानः पुरुष ज्योत्स्नेत्यवधार्यताम् । यतो भानुमत्यश्मकन्द्रौ चन्द्रिकायामेवन्योन्यं दृष्ट्वा विपिनान्तर्गतदेवदारुमेव सङ्केतीकृत्य गतौ । सङ्केतानुसारेण भानुमती पादपमेत्य कान्तमपश्यन्त्यविज्ञायवनौ स्खलितमुत्तरीयमप्यन्वियेष वल्लभम् । तदा द्विरदरस्य कस्यचिद्रक्तं पीत्वा धावन् पथि तत्सं-व्यानमालोच्य तदसृग्रञ्जितमकरोदयं केसरी । यदा चाश्मकेन्द्रः संकेतमहीरुहमुपेत्य प्रेयसीमपश्यन् पञ्चास्यपदविन्यासान् रक्त रञ्जितं प्राणप्रियाया दुकूलश्च साक्षात्कुर्वन् सर्वधा कबलितेयमनाथा मामेव प्रलपन्ती कालेन सिंहरूपिणेति विलपन् प्रेमविदीर्णहृदयः सद्य एवासिनाऽऽत्मानं निहत्य पञ्चतामयासीत् । तत्सर्वमपि रूपकेडस्मिन् व्यक्तीभविष्यति । L इति भित्तिवर्जमन्ये निष्क्रान्ताः । [सर्वे सामाजिकाः स्मयन्ते ।) (ततः प्रविशत्यश्मकेन्द्रः ।) राजा-- भितिसविधमुपसर्पत्ययं तरुणः । अश्मकेन्द्र:८४ वासन्तिकस्वप्ने तमः समीकृता भान्ति निम्नेोन्नतभुवोऽप्यमी । चक्षुरन्धीकृतं सद्यः सर्वतो भीषणा निशा ॥ १० ॥ अहो रमणीयभित्ते, भानुमतीपितुर्निकेतनस्य मामकीनस्य च मद्यस्थाऽसि । अपि जानीषे कुत्रास्ते मिलासिनीति । बिभेमि च तरुण्या विप्रलब्ध इति । रे कुड्य, दर्शय त रन्ध्रम् । [ भितिर्हस्तं प्रसारयति ।] नमस्ते कुड्य, ( विवरे चक्षुः पातयन्।) न दृश्यते भानुमती । ह। हन्त हन्त ! वञ्चितोऽस्मि । तथा हि । किं पित्रा ननु शिक्षित किमथवा साङ्केतिकं विस्मृतं किं सुप्त। किमु मूर्च्छिता किमु गता किन्नागता लज्जया । मद्दौर्भाग्यवशाद्विभिन्नहृदया किं वाऽथवा रोषिता निद्रा नैति निशा न याति तरूणी नायाति का यातना । ( रोषावेगं नाटयन् । ) रे रे कुड्यहतक, शपामि त्वां यत् त्वयैवाहं विप्रलब्धः । राजा-- ( सहासम् । ) सजीवेयं भित्तिः । कथं प्रतिशापं न ददाति । अश्मकेन्द्रः-- महाराज, नाटकं खल्विदम् । तत्त्वतो न शप्त मिदं कुड्यम् । भानुमत्या मे विप्रलम्भश्च न सत्यः । साप्यद्यैवागमिष्यति । रन्ध्रेणैवानेन द्रक्ष्यामि वसुपालितमथवा भानुमतीम् । सर्वे -- (उच्चैर्हसन्ति ।) ( ततः प्रविशति भानुमती ।) चतुर्थोऽङ्कः । ८५ भानुमती राकारम्यशशाङ्कसन्निभमुखं सञ्चिन्त्य दूये मुहू रे रे कुड्य, कुतोऽस्ति मे प्रियसखो नाम्नाऽश्मकेन्द्रो ह्ययम् । अश्मकेन्द्रः- ( आकर्ण्य ) नादः कर्णमुपैति भित्तिविवरात्तकिं प्रियाभाषितं [ इति रन्ध्रमुपसृत्य ] कान्ते भानुमति प्रिये, तव रातिर्नास्तीति शङ्केऽधुना । भानुमती-= मत्प्रणयैकानिधे, कथमेवमभिधीयते । अश्मकेन्द्रः- दहि मे चुम्बनं विवरमार्गेण । भानुमती-- भित्तिमेव चुम्बामि न तेऽधरमणिम् । अश्मकेन्द्रः-- यदि ते सत्यमेव मयि प्रणयस्तर्ह्यारामे देवदांरुपादपस्य मूले त्वमेव प्रतीक्षमाणेन मया सङ्गच्छस्व । भानुमती-- प्रणनुत्सृज्याप्यविलम्बं सङ्केतमहीरुहस्याधस्ताद्दयितं प्रतिपालयामि । (इत्युभौ निष्क्रान्तौ ) भित्तिः-- कृतं कर्तव्यं मया कुड्यरूपिणा । सम्प्रत्यपसरामि । (इति निष्क्रान्ता ) राजा- (सस्मितम् ) प्रातिवेश्यनिकेतनमध्ययवनिकायमाना भितिरनश्यत् । मकरन्दः— तिष्ठत च सजीवेन परवार्ताश्रवणकुतूहलेन कुड्येन किं वा प्रयोजनम् । ८६ वासन्तिकस्वप्ने कनकलेखा-- चित्रमेतत्संविधानम् । राजा- उत्कर्षापकर्षौ भावाश्रयावेव । कनकलेखा- – क्व भावानुभावौ । क्व चेमे नटाः । भावस्वायं- पुत्रस्येव । राजा– सत्य मन एव कारणम् । यदि मन्यामह निपुणानेत।न् तदा समर्था एव ते । अस्तु नामेदम् । दृश्यताम् । उदारमृगौ द्वौ प्रविशतौ नरकेसरिणौ। (ततः प्रविशति केसरी, चन्द्रिका च ।) केसरी-“ अहं भामिन्यो मूषकदर्शनेऽप्यतिकातरः, मा भैष्ट सिंहनेपथ्यधारिणं मां दृष्ट्वा । गर्जति मयि न पलायध्वम् । तत्त्वतो युष्माकमहं दासो धनकः । न मामसूत सिंही । राजा- [सस्मितम् । साधु साधु । आत्मज्ञानवानयं हरिः । मकरन्दः-- महीपते, दृष्टपूर्वेषु वरिष्ठोऽयं मृगेन्द्रः । वसन्तः- ननु प्रतापे सृगालोऽयम् । राजा-- सत्यम् । मेधया ताम्रचूडोऽयम् । भवतु ज्योत्स्नां । श्रुणुमः । ज्योत्स्ना- आदर्शमयमिदं दीपभाजनं सविषाणेन्दुबिम्बमिति जानन्तु । मकरन्दः-- शिरसा खल्वनेन धर्तव्यानि विषाणानि । राजा- मण्डले किलान्तर्हितानि तानि । योत्ला – सविषणशशाङ्कमण्डलायमानमेतन्मुकुरदीपभाजनम् । रधुन।थविलासे ८४ अहं तु मण्डलमध्यस्थनराकारकलङ्कायमानो वर्ते । राज-- हन्त, असम्बद्धमेतत् । आदर्शपेटकमध्ये किलानेन विबुधेन स्थातव्यम् । अन्यथा कथमेष तुहिनकिरणलाञ्छनं भवेत् । ज्योत्स्ना। — [स्वगतम् ] निसर्गपट्टी खलु महाराजस्य मतिः । तथैव कुर्याम् । (इति दीपभाजनमुद्धाट्य मुखं प्रवेशयति ) सर्वे-- [सहस्ततालं हसन्ति ।] मकरन्दः– (सोचैर्हासम् ।) अयं दीपशिखार्धदग्धनासिको रुदन् कथं कथञ्चित्प्रवेशितं वदनं बहिराकर्षति । कनकलेखा— खिन्नऽस्मि ज्योत्स्नपात्रदर्शनेन । किं वा नापसरेदयं यवनिकान्तरम् । राजr~ इदमप्यस्माकं विनोदनस्थानमेव । तिष्ठत्वयम् । पश्य प्रविशन्तीं भानुमतीम् । [ प्रविश्य ] भानुमती-- [ परिक्रम्य समन्तादवलोक्य ।] अयमेव स देवदारुः । कथमद्यापि नागतः प्राणवल्लभः । सिंह-- हा ! हा ! ( इति भीषणं गर्जति । ) [ भानुमती भीता धावति) मकरन्दः-- सम्यगगर्जत् केसरी । राजा-- साधु भानुमति, द्रुततरं पलायस्व । ८८ वासन्तकस्वप्ने भानुमती-- दिष्टया व्यक्तं भान्ति शीतकिरणगभस्तयः । [ इति निष्क्रान्ता ।] सिंहः- ( स्खलितं तस्याः संव्यानं दष्ट्वा निष्क्रान्तः । ) राजा- ( सस्मितम् ।) मूषकोऽभवत्सिहः । मकरन्दः-- ततः प्रविशत्यमकेन्द्रः । ( प्रविश्य ) अश्मकेन्द्रः सर्वेृतो भासमानोऽयमोषधीशो विराजते । नमोऽस्तु भवते चन्द्र, प्रियान्वेषणसाधक ।। १३ ॥ । वनं सर्वमिदं व्यक्तं पाण्डरैः शशिरश्मिभिः । पञ्चेषुरतिधूर्तोऽयमुन्मोहयति मानसम् ॥ १४ ॥ ( इति कतिचित्पदानि गत्वा । भूमौ दत्तदृष्टिः) कथमेतत् वल्लभादुकूलं रक्तमसृणं दृश्यत । कथं पश्चास्य पदान्यपि । हा हतोऽस्मि मन्दभाग्यः । हन्त विषे,सम्प्रति सकामो भव । ( सास्रम् ।) त्यक्त्वा गृहं प्रियसमागमलालसैषा कान्तारमेत्य हरिणा कवलीकृतासीत् । सञ्जीवनौषधिरियं त्रिदिवं गता चेत् किन्नाम दग्धहृदयेन मयेह लब्धम् ॥ १५ ॥ राजा-- अतिकरुणमेतत् प्रकरणम् । कनकलेखा- अवस्थामस्य दृष्ट्वा द्रवति. मे हृदयम् । पञ्चमोऽङ्कः । ८९ अश्मकेन्द्रः- ( सधैर्यसम्भ्रमम् । ) तदियमेवाद्य साधीयसी सन्घा । अस्मिन्नेव तरुमूले आत्मनं हन्मि । ( इत्याकृष्य निस्त्रिंशं वक्षसि निक्षिप्य ।) अधुना गतजीवोऽहम् । ज्येत्स्ने, निष्काम त्वं रङ्गप्रदेशात् । ( ज्योत्स्ना–निष्क्रान्ता ) सामाजिकाःअद्यैव सम्यग्गतप्राणेऽहमिति जानीत । ( इति भूतले पतति । ) मकरन्दः— क्षणं जीव । कनकलेखा– कथ भानुमतीं गाढन्धतमसे विहाय ज्योत्स्नां निष्क्रामति । कथ वा विचेतनं वल्लभं साक्षात्करिष्यति विलासिनी । राजा नक्षत्रज्योतिषा । सापीत एवाभिवर्तते । अस्याः प्रणयप्रकाशनेनविराममेष्यति प्रकरणम् । { ततः प्रविशति भानुमती ।) कनकलेखा- किं वा भवेदनायतोऽस्याः प्रलापः । वसन्तः - अश्मकेन्द्रमद्यैव दृष्टवत्येषा । मकरन्द:- किं वा विस्मृतमनया वक्तव्यं वचनम् ? सामाजिकाः- ( स्मयन्ते । ) भानुमती- ( स्मरणमभिनीय ।) दयित, कथं गाढं निद्रासि । ( स्पृशन्ती । ) अनथास्मि मन्दभगिनी । यदि वा मूर्छितः । ( पुनरपि स्पृष्टा । ) कथं गत एव दृश्यते । अहो नाथोतिष्ठ । देहि मे प्रतिवचनम् । कुतस्तवेदमतिनैर्घृण्यम् । कथय त्वदृते क्व गच्छामि । कमालपामि । कं वा शरणं भजामि । (कम्पयित्वा।) ९० वासन्तिकस्वप्ने नियतमेव लोकान्तरं गतः । अपि न जानीषे यन्न शक्ष्यामि भवता विना क्षणमपि प्राणान् धर्तुम् । तदविलम्बेनानुम्रिये । ( इति तस्य हस्तादाच्छिद्यासिमुरसि निक्षिप्य ।) साम्प्रतं प्रियमनुमृतास्मि । ( इति भूमौ शेते ।) राजा- ( सस्मितम् ।) ज्योत्स्नाकेसरिणौ विनेतरे गता गन्तव्यां गतिम् । मकरन्दः- महीपते, भितिश्च जीवति । अधरकः- ( ससम्भ्रममुत्थाय ।) वळे शमइआ, कुळिए वि णठ्ठे वेअ । णेण ओशिदे आशी अम्हाण णाळअप्पओए । सामाजिका: कुड्यमप्यनश्यदेव । अनेनावसितोऽभयदस्माःकं नाटकप्रयोगः । सर्वे-- ( सहासम् ।) मIऽस्तु माऽस्तु । अधरक--- ओशाणविण्णवणा का वि वट्टइ । जइ कुऊहळे शावेह्यि वो। अवसानविज्ञापन काचिद्वर्तते । यदि कौतूहलं श्रावयामि वः । राजा-- आवश्यकी न हि विज्ञापना । यदा गतान्यखिलानि पात्राणि । सम्प्रति सहर्षं नृत्यताम् । [ नेपथ्ये मङ्गलगीतवादित्रध्वनिः ।] [ सर्वेऽप्युत्थाय जयघोषेण पीत्वा मधु सम्मोदेन नृत्यन्ति । निम्बवतीप्रदोषप्रभृतयो विद्याधरा दिवि सहस्ततालं गायन्ति । अम्बरतलात् पुष्पवृष्टिः सङ्जाता ] पञ्चमोऽकः। मकरन्दः-- ( सश्लाघम् ।) सखे वसन्त, प्रस्तूयतां केनापि महाराजस्य मङ्गल्या । वसन्तः-- नन्वहमेव गायामि । नित्यमङ्गलस्य विभोर्मङ्गलान्तर- मप्यावश्यकम् । तथापीदमस्तु भरतवाक्यम् । धर्माधर्मविचारदत्तह्रदयो जीयादजस्त्रं नृपः शौर्याक्रान्तसमस्तबाहुजशिरःसंसेविताङ्घ्रिद्वयः। भुञ्जन् सागरमेखलां ध्रुवमहो ! मार्ताण्डवत्स्वैः करैः कुर्वन् दृप्तजनस्य मूर्धनि सदा शार्दूलविक्रीडितम् ॥ [ इति निष्क्रान्ताः सर्वे । ] इति वासन्तिकस्वप्ने पञ्चमोऽङ्कः संपूर्णः ॥