वाल्मीकिरामायणम् (व्याख्यासहितम्)/बालकाण्डम्

विकिस्रोतः तः

रक्षसां निहतान्यासन्सहस्राणि चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥ सहायं वरयामास मारीचं नाम राक्षसम्। वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥ न विरोधो बलवता क्षमो रावण तेन ते। अनादृत्य तुतद्वाक्यंरावणः कालचोदितः ॥१-१-५१॥ जगाम सहमारीचस्तस्याश्रमपदं तदा । तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥ जहार भार्यांरामस्य गृध्रं हत्वा जटायुषम्। गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्॥१-१-५३॥ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः । ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्॥१-१-५४॥ मार्गमाणो वनेसीतांराक्षसं सन्ददर्शह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम्॥१-१-५५॥ तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरीं धर्मचारिणीम्॥१-१-५६॥ श्रमणां धर्मनिपुणामभिगच्छेति राघव । सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥ शबर्यापूजितः सम्यग्रामो दशरथात्मजः । पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥ हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वंशंसद्रामो महाबलः ॥१-१-५९॥ आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः । सुग्रीवश्चापि तत्सर्वंश्रुत्वा रामस्य वानरः ॥१-१-६०॥ चकार सख्यंरामेण प्रीतश्चैवाग्निसाक्षिकम्। ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥ रामायावेदितं सर्वंप्रणयात्दुःखितेन च । प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥