वामनपुराणम्/अध्यायः ४०

विकिस्रोतः तः
Jump to navigation Jump to search

2.19/40
ऋषय ऊचुः
वसिष्ठस्यापवाहोऽसौ कथं वै संबभूव ह
किमर्थं सा सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् १
लोमहर्षण उवाच
विश्वामित्रस्य राजर्षेर्वसिष्ठस्य महात्मनः
भृशं वैरं बभूवेह तपःस्पर्द्धाकृते महत् २
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थे बभूव ह
तस्य पश्चिमदिग्भागे विश्वामित्रस्य धीमतः ३
यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम्
स्थापयामास देवेशो लिङ्गाकारां सरस्वतीम् ४
वसिष्ठस्तत्र तपसा घोररूपेण संस्थितः
तस्येह तपसा हीनो विश्वामित्रो बभूव ह ५
सरस्वतीं समाहूय इदं वचनमब्रवीत्
वसिष्ठं मुनिसार्दूलं स्वेन वेगेन आनय ६
इहाहं तं द्विजश्रेष्ठं हनिष्यामि न संशयः
एतच्छ्रुत्वा तु वचनं व्यथिता सा महानदी ७
तथा तां व्यथितां दृष्ट्वा वेपमानां महानदीम्
विश्वामित्रोऽब्रवीत् क्रुद्धो वसिष्ठं शीघ्रमानय ८
ततो गत्वा सरिच्छ्रेष्ठा वसिष्ठं मुनिसत्तमम्
कथयामास रुदती विश्वामित्रस्य तद् वचः ९
तपःक्रियाविशीर्णां च भृशं शोकसमन्विताम्
उवाच स सरिच्छ्रेष्ठां विश्वामित्राय मां वह १०
तस्य तद् वचनं श्रुत्वा कृपाशीलस्य सा सरित्
चालयामास तं स्थानात् प्रवाहेणाम्भसस्तदा ११
स च कूलापहारेण मित्रावरुणयोः सुतः
उह्यमानश्च तुष्टाव तदा देवीं सरस्वतीम् १२
पितामहस्य सरसः प्रवृत्तासि सरस्वति
व्याप्तं त्वया जगत् सर्वं तवैवाम्भोभिरुत्तमैः १३
त्वमेवाकाशगा देवी मेघेषु सृजसे पयः
सर्वास्त्वापस्त्वमेवेति त्वत्तो वयमधीमहे १४
पुष्टिर्धृतिस्तथा कीर्तिः सिद्धिः कान्तिः क्षमा तथा
स्वधा स्वाहा तथा वाणी तवायत्तमिदं जगत् १५
त्वमेव सर्वभूतेषु वाणीरूपेण संस्थिता
एवं सरस्वती तेन स्तुता भगवती तदा १६
सुखेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति
न्यवेदयत्तदा खिन्ना विश्वामित्राय तं मुनिम् १७
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः
अथान्विषत् प्रहरणं वसिष्ठान्तकरं तदा १८
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी
अपोवाह वसिष्ठं तं मध्ये चैवाम्भसस्तदा
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम् १९
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्
अब्रवीत् क्रोधरक्ताक्षो विश्वामित्रो महातपाः २०
यस्मान्मां सरितां श्रेष्ठे वञ्चयित्वा विनिर्गता
शोणितं वह कल्याणि रक्षोग्रामणिसंयुता २१
ततः सरस्वती शप्ता विश्वामित्रेण धीमता
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा २२
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा
सरस्वतीं तदा दृष्ट्वा बभूवुर्भृशदुःखिताः २३
तस्मिन्तीर्थवरे पुण्ये शोणितं समुपावहत्
ततो भूतपिशाचाश्च राक्षसाश्च समागताः २४
ततस्ते शोणितं सर्वे पिबन्तः सुखमासते
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा २५
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः
तीर्थयात्रां समाजग्मुः सरस्वत्यां तपोधनाः २६
तां दृष्ट्वा राक्षसैर्घोरैः पीयमानां महानदीम्
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे २७
ते तु सर्वे महाभागाः समागम्य महाव्रताः
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् २८
किं कारणं सरिच्छ्रेष्ठे शोणितेन ह्रदो ह्ययम्
एवमाकुलतां यातः श्रुत्वा वेत्स्यामहे वयम् २९
ततः सा सर्वमाचष्ट विश्वामित्रविचेष्टितम्
ततस्ते मुनयः प्रीताः सरस्वत्यां समानयन्
अरुणां पुण्यतोयौघां सर्वदुष्कृतनाशनीम् ३०
दृष्ट्वा तोयं सरस्वत्या राक्षसा दुःखिता भृशम्
ऊचुस्तान् वै मुनीन् सर्वान् दैन्ययुक्ताः पुनः पुनः ३१
वयं हि क्षुधिताः सर्वे धर्महीनाश्च शाश्वताः
न च नः कामकारोयं यद् वयं पापकारिणः ३२
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ३३
एवं वैश्याश्च शूद्रा श्च क्षत्रियाश्च विकर्मभिः
ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः ३४
योषितां चैव पापानां योनिदोषेण वर्द्धते
इयं संततिरस्माकं गतिरेषा सनातनी ३५
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे
तेषां ते मुनयः श्रुत्वा कृपाशीलाः पुनश्च ते ३६
ऊचुः परस्परं सर्वे तप्यमानाश्च ते द्विजाः
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् ३७
केशावपन्नमाधूतं मारुतश्वासदूषितम्
एभिः संसृष्टमन्नं च भागं वै रक्षसां भवेत् ३८
तस्माज्ज्ञात्वा सदा विद्वान् अन्नान्येतानि वर्जयेत्
राक्षसानामसौ भुङ्क्ते यो भुङ्क्ते अन्नमीदृशम् ३९
शोधयित्वा तु तत्तीर्थमृषयस्ते तपोधनाः
मोक्षार्थं रक्षसां तेषां संगमं तत्र कल्पयन् ४०
अरुणायाः सरस्वत्याः संगमे लोकविश्रुते
त्रिरात्रोपोषितः स्नातो मुच्यते सर्वकिल्बिषैः ४१
प्राप्ते कलियुगे घोरे अधर्मे प्रत्युपस्थिते
अरुणासंगमे स्नात्वा मुक्तिमाप्नोति मानवः ४२
ततस्ते राक्षसाः सर्वे स्नाताः पापविवर्जिताः
द्वियामाल्याम्बरधराः स्वर्गस्थितिसमन्विताः ४३
इति श्रीवामनपुराणे सरोमाहात्म्ये एकोनविंशोऽध्यायः