वादन्यायः

विकिस्रोतः तः
वादन्यायः
धर्मकीर्ति-विरचित
निग्रहस्थानलक्षणम्

नमः समन्तभद्राय ।

१. न्यायवादिनमपि वादेषु असद्व्यवस्थोपन्यासैः शठा निगृह्णन्ति, तन्निषेधार्थमिदमारभ्यते ।
असाधनाङ्ग गवचनमदोषोद्भावनं द्वयोः ।
निग्रहस्थानम्, अन्यतु न युक्तमिति नेष्यते ॥
इष्टस्यार्थस्य सिद्धिः साधनम्. तस्य निर्वर्तकम् अङ्गम्. तस्य अवचनं तस्याङ्गस्यानुच्चारणं वादिनो निग्रहाधिकरणम्: तदभ्युपगम्य अप्रतिभया तूष्णीम्भावात् । साधनाङ्गस्यासमर्थनाद् वा ॥
२. [स्वभावहेतौ साधनाङ्गसमर्थनम्]
त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य सिद्धेरङ्गम् स्वभावः, कार्यम्, अनुपलम्भश्च ।
तस्य समर्थनं साध्येन व्याप्तिं प्रसाध्य धर्मिणि भावसाधनम् । यथाऽयत् सत् कृतकं वा, तत् सर्वमनित्यम्, यथा घटादिः, सन् कृतको वा शब्दःऽ; इति ।
३. अत्रापि न कश्चित् क्रमनियमः, इष्टार्थसिद्धेरुभयत्राविशेषात् ।
यस्माद् धर्मिणि प्राक् सत्त्वं प्रसाध्य पश्चादपि व्याप्तिः प्रसाध्यत एव । यथाऽऽसन् शब्दः कृतको वा, यश्चैवं स सर्वोऽनित्यः, यथा घटादिःऽ; इति ।
४. अत्र व्याप्तिसाधनं विपर्यये बाधकप्रमाणोपदर्शनम् ।
यदि न सर्वं सत् कृतकं वा प्रतिक्षणविनाशि स्याद्, अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियायोगाद् अर्थक्रियासामर्थ्यलक्षणमतो व्यावृत्तम् इत्यसदेव स्यात् ।
सर्वसामर्थ्योपाख्याविरहलक्षणं हि निरुपाख्यमिति ।
एवं साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने विरोधाभावादस्य विपर्ययवृत्तेरदर्शने सन् कृतको वा स्यात्, नित्यश्च इत्यनिवृत्तिरेव शङ्कायाः ।
५. न च सर्वानुपलब्धिर्भावस्य बाधिका, तत्र सामर्थ्यं क्रमाक्रमयोगेन व्याप्तं सिद्धम्; प्रकारान्तराभावात् ।
तेन व्यापकधर्मानुपलब्धिरक्षणिके सामर्थ्यं बाधते ।
क्रमयौगपद्यायोगस्य सामर्थ्याभावेन व्याप्तिसिद्धेर्नानवस्थाप्रसङ्गः ।
६. अत्राप्यदर्शनमप्रमाणम्, यतःक्रमयौगप्द्यायोगस्यैवासामर्थ्येन व्याप्त्यसिद्धेः पूर्वकस्यापि हेतोरव्याप्तिः । इहापि पुनः साधनोपगमेऽनवस्थाप्रसङ्ग इति चेत् । न; अभावसाधनस्यादर्शनस्याप्रतिषेधात् ।
यददर्शनं विपर्ययं साधयति हेतोः साध्यविपर्यये, तदस्य विरुद्धप्रत्युपस्थानाद् बाधकं प्रमाणमुच्यते ।
एवं हि स हेतुः साध्याभावेऽसन् सिध्येत्, यदि तत्र प्रमाणवता स्वविरुद्धेन बाध्येत । अन्यथा तत्रास्य बाधकासिद्धौ संशयो दुर्निवारः ।
ततो व्यतिरेकस्य सन्देहादनैकान्तिकः स्याद्धेत्वाभासः ।
नाप्यदर्शनमात्राद् व्यावृत्तिः; विप्रकृष्टेष्वसर्वदर्शिनोऽदर्शनस्याभावासाधनाद्, अर्वाग्दर्शनेन सतामपि केषाञ्चिदर्थानामदर्शनात् ।
७. बाधकं पुनः प्रमाणम् । यत्र क्रमयौगपद्यायोगो न तस्य क्वचित् सामर्थ्यम् । अस्ति चाक्षणिके स इति प्रवर्तमानमसामर्थ्यमसल्लक्षणमाकर्षति । तेहऽयत् सत् कृतकं वा तदनित्यमेवऽ; इति सिध्यति ।
तावता साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं च सिद्धं भवति ।
एवं स्वभावहेतुप्रयोगेषु समर्थितं साधनाङ्गं भवति । तस्यासमर्थनं साधनाङ्गावचनम् । तद् वादिनः पराजयस्थानम्; प्रारब्धार्थासाधनात् । वस्तुतः समर्थस्य हेतोरुपादानेऽपि सामर्थ्याप्रतिपादनात् ।
८. [कार्यहेतौ साधनाङ्गसमर्थनम्]
कार्यहेतावपि साधनाङ्गस्य समर्थनम् । यत् कार्यं लिङ्गं कारणस्य साधनायोपादीयते, तस्य तेन सह कार्यकारणभावप्रसाधनं भावाभावप्रसाधनप्रमाणाभ्याम् । यथाऽइदमस्मिन् सति भवतिऽ,ऽसत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु तदभावे न भवतिऽ; इति ।
एवं ह्यस्यासन्दिग्धं तत्कार्यत्वं समर्थितं भवति । अन्यथा केवलंऽतदभावे न भवतिऽ; इत्युपदर्शने अन्यस्यापि तत्राभावे सन्दिग्धमस्य सामर्थ्यम् । अन्यत् । तत्र समर्थं, तदभावात् तन्न भूतम् ।
एतन्निवृत्तौ पुनर्निवृत्तिर्यदृच्छासंवादः । मातृविवाहो हि त्द्देशजन्मनः पिण्डखर्जूरस्य देशान्तरेषु मातृविवाहाभावेऽभाववत् । एवं हि समर्थितं तत् कार्यं सिध्यति ।
सिद्धिं तत् स्वसम्भवेन तत्सम्भवं साध्यति, कार्यस्य कारणाव्यभिचारात् ।
अव्यभिचारे च स्वकारणैः सर्वकार्याणां सदृशो न्यायः ।
एवमसमर्थनं कार्यहेतावपि साधनाङ्गावचनं तद् वादिनः पराजयस्थानम् । असमर्थिते तस्मिन् कार्यत्वासिद्धेरर्थान्तरस्य तद्भावाप्रतिबद्धस्वभावस्य भावे तद्भावनियमाभावात्, आरब्धार्थासिद्धेसर्वस्तुतः कार्यस्याप्युपादाने तदप्रदिपादनात् ।
९. [अनुपलब्धावपि साधनाङ्गसमर्थनम्]
अनुपलब्धावपि प्रतिपत्तुरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसाधनं समर्थनम्; तादृश्या एवानुपलब्धे रसद्व्यवहारसिद्धेः । अनुपलब्धिलक्षणप्राप्तस्य प्रतिपत्तृप्रत्यक्षोपलब्धिनिवृत्तावप्यभावासिद्धेः ।
तत्रोपलब्धिलक्षणप्राप्तिः स्वभावविशेषः कारणान्तरसाकल्यं च । स्वभावविशेषो यन्न त्रिबिधेन विप्रकर्षेण विप्रकृष्टम् । यदनात्मरूपप्रितिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासरूपम् । तादृशः सत्स्वन्येषूपलम्भप्रत्ययेषु तथानुपलब्धोऽसद्व्यवहारविषयः, अन्यथा सति लिङ्गे संशयः ।
१०. अत्रापि सर्वमेवंविधमसद्व्यवहारविषय इति व्याप्तिः, कस्यचिदसतोऽभ्युपगमे तल्लक्षणाविशेषात् ।
न ह्येवंविधस्यासत्त्वानभ्युपगमेऽन्यत्र तस्य योगः । न ह्येवंविधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः । अनुपलभ्यमानं त्वीदृशं नास्तीत्येता वन्मात्रनिमित्तोऽयमसद्व्यवहारः, अन्यस्य तन्निमित्तस्याभावात् ।
११. सर्वसामर्थ्यविवेको निमित्तमिति चेत् । एवमेतत्, तस्यैव सर्वसामर्थ्यविवेकिन एवं प्रतीतिः, अन्यस्य तत्प्रतिपत्त्युपायस्याभावात् । तत्प्रतिपत्तौ च सत्यामसद्व्यवहार इतीदं तन्निमित्तमुच्यते ।
१२. बुद्धिव्यपदेशार्थक्रियाभ्यः सद्व्यवहारो विपर्यये चासद्व्यवहार इति चेत् । भवति बुद्धेर्यथोक्तप्रतिभासायाः सद्व्यवहारः, विपर्ययेऽसद्व्यवहारः ।
प्रत्यक्षाविषये तु स्याल्लिङ्गजाया अपि कुतश्चित् सद्व्यवहारः ।
असद्व्यवहारस्तु तद्विपर्ययेऽनैकान्तिकः, विप्रकृष्टेऽर्थे प्रतिपत्तृप्रत्यक्षस्य अन्यस्य वा प्रमाणस्य निवृत्तावपि संशयात् ।
१३. न च सर्वे बुद्धिव्यपदेशास्तद्भेदाभेदौ वा वस्तुसत्तां वस्तुभेदाभेदसत्तां वा साधयन्ति, अस्त्स्वपि कथञ्चिदतीतानागतादिषु नानैकार्थक्रियाकारिषु वार्थेषु तद्भावख्यापनाय नानैकात्मताभावेऽपिनानैकरूपाणां वृत्तेः राजा महासम्मतः (Vन् १५) प्रभवो राजवंशस्य, सङ्खश्चक्रवर्ती महासम्मतनिर्मितस्य यूपस्योत्थापयिता, शशविषाणं, रूपं सनिदर्शनं सप्रतिघं घटश्चेति ।
१४. नहि सनिदर्शनादिशब्दा नानावस्तुविषयाः, एकत्रोपसंहारात् ।
नानाविषयत्वेऽप्येकत्रोपसंहारस्तन्निमित्तानां तत्तत्समवायादिति चेत् । आयासे बतायं तपस्वी पदार्थे [पदर्थः?] पतितोऽनेकसम्बन्धिनमुपकृत्यानेकंशब्दमात्मनि तेभ्यः समाशंसन् ! स यैः शक्तिभेदैरनेकसम्बन्धिन मुपकरोति तैरेवानेकं शब्दं किं नोत्थापयति ! एवं ह्यनेन प्रम्परानुसारपरिश्रमः परिहृतो भवति ।
नानाशब्दोत्थापनासामर्थ्ये नानासम्बन्ध्युपकारोऽपि मा भूत्, अनुपकारे हि तेषां तत्सम्बन्धितापि न सिध्यति । घट इत्यपि च रूपादय एव बहव एकार्थक्रियाकारिण एकशब्दवाच्या भवन्तु, किमर्थान्तरकल्पनया?
बहवोऽपि हि एकार्थकारिणो भवेयुः, चक्षुरादिवत् । तत्सामर्थ्यख्यापनाय तत्रैकशब्दनियोगोऽपि स्यादिति युक्तं पश्यामः ।
१५. न च निष्प्रयोजना लोकस्यार्थेषु शब्दयोजना । तत्र येऽर्थाः सह पृथग्वा एकप्रयोजनाः तेषां तद्भावख्यापनाय हि एक्शब्दो नियुज्येत यदि, किं स्यात्? तदर्थक्रियाशक्तिख्यापनाय नियुक्तस्य समुदायशब्दस्यैकवचनविरोधोऽपि नास्त्येव; सहितानां सा शक्तिरेका, न प्रत्येकमिति ।
समुदायशब्द एकस्मिन् समुदाये वाच्ये एकवचनं घट इति ।
जातिशब्देष्वर्थानां प्रत्येकं सहितानां च शक्तिर्नानैका च शक्तिरिति, नानैकशक्तिविवक्षायां बहुवचनमेकवचनं चेच्छातः, वृक्षा वृक्षमिति [? वृक्ष इति] स्यात् ।
यद्येष नियमो बहुष्वेव बहुवचनम् एकस्मिन्नेकवचनमिति ।
अस्माकं तु साङ्केतिकेष्वर्थेषु सङ्केतवशात् तावित्य भिनिवेश एव ।
१६. नानेको रूपादिरेकशब्दोत्थापने समर्थ इति चेत् । किं वै पुरुषवृत्तेरनपेक्षाः शब्दानर्थः स्वयमुत्थ्यापयन्ति, आहोस्वित् पुरुषैः शब्दा व्यवहारार्थमर्थेषु नियुज्यन्ते? स्वयमुत्थापने हि भावशक्तिः, आशक्तिर्वा चिन्त्येत । न च तद्युक्तम्, पुरुषैस्तेषां नियोगे यथेष्टं नियुञ्जीरन्निति कस्तत्रोपानम्भः?
निमित्तं च नियोगस्योक्तमेव ।
अपि च यदि न रूपादीनामेकेन शब्देन सम्बन्धः, कथमेकेनैषा माश्रयाभिमतेन द्रव्येण सम्बन्ध इति केवलमयमसद्भूताभिनिवेश एव ।
न वयमेकसम्बन्धविरोधादेकं शब्दं नेच्छामः, अपि त्वभिन्नानां रूपादीनां घटकम्बलादिषु नानार्थक्रियाशब्दविरोधात् ते एकरूपाः समुदायान्तरा सम्भाविनीमर्थक्रियामेव न कुर्युः, तेन तत्प्रकाशनायैकेनापि शब्देनोच्येरन् ।
भवतु नाम कस्यचिदियं वाञ्छा भवेयुरेकरूपा रूपादयः सर्वसमुदायेषु इति । किमिदं परस्परविविक्तरूपप्रतिभासाध्यक्षदर्शनमेनामुपेक्षते?
अनिष्टं चेदं रूपादीना । प्रतिसमुदायं स्वभावभेदोपगमात् ।
१७. यद्यन्य एव रूपादिभ्यो घटः स्यात् किं स्यात्?
अस्तु, तस्य प्रत्यक्षस्य सतोऽरूपादिरूपस्य तद्विवेकेन बुद्धौ स्वरूपेण प्रतिभासने किमावरणम्?
प्रतिभासमानाश्च विवेकेन प्रत्यक्षार्था दृश्यन्तेऽपृथग्देशत्वेऽपिगन्धरसादयः. वातातपस्पर्शादयश्चैकेन्द्रियग्राह्यत्वेऽपि ।
इदमेव च प्रत्यक्षस्य प्रत्यक्षत्वं यदनात्मरूपादिविवेकेन स्वरूपस्य बुद्धौ समर्पणम् । अयं पुनर्घटादिरमूल्यदानक्रयी यः स्वरूपं च नोपदर्शयति, प्रत्यक्षतां च स्वीकर्तुमिच्छति ।
१८. एतेन बुद्धिशब्दादयोऽपि व्याख्याताः, यदि तैस्तत्साधनमिष्यते । न च प्रत्यक्षस्यानभिभवे रूपानुपलक्षणम्; येन तत्साधनाय लिङ्गमुच्यते । अप्रत्यक्षत्वेऽप्यप्रमाणस्य सत्तोपगमो न युक्तः । तन्न रूपादिभ्योऽन्यो घटः एवं तावन्न बुद्धिव्यपदेशाभ्यां सत्ताव्यवहारः, सत्ताभेदाभेदव्यवहारो वा । (Vन् २२) अत एव न तद्विपर्ययाद् विपर्ययः ।
१९. अर्थक्रियातस्तु सत्ताव्यवहारः स्यात्, न सत्ताभेदाभेदव्यवहारः, एकस्याप्यनेकार्थक्रियादर्शनात् । यथा प्रदीपस्य विज्ञानवर्तिविकारज्वालान्तरोत्पादनानि । अनेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात् ।
न ब्रूमः अर्थक्रियाभेदमात्रेण सत्ताभेद इति । किं तर्हि? अदृष्टार्थक्रियाभेदेन । या अर्थक्रिया यस्मिन्नदृष्टा पुनर्दृश्यते सा सत्ताभेदं साधयति । यथा मृद्यदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमाना । अदृष्टा च तन्तुषु प्रावरणाद्यर्थक्रिया पटे दृस्यते इति सत्ताभेदः ।
सिध्यत्येवमर्थान्तरं, तथाप्यवयवी न सिध्यति । यथाप्रत्ययं संस्कारसन्ततौ स्वभावभेदो त्पत्तेरर्थक्रियाभेदः । अरणिनिर्मथनावस्थादाविवाग्नेः स्थूलकरीषतृणकाष्ठदहनशक्तिभेदः, तथा यथाप्रत्ययं स्वभावभेदोत्पत्तेस्तन्त्वादिष्वर्थक्रियाभेदः ।
एतेन बुद्धिव्यपदेशभेदाभेदौ व्याख्यातौ ।
२०. तत्रयदुक्तम्ऽअर्थक्रियातः सत्ताव्यवहारसिद्धिः, विपर्ययाद् विपर्ययःऽ; इति; सत्यमेतत् । स एव तु विपर्ययोऽनुपलब्धिलक्षणप्राप्तेषु न सिध्यति ।
तत्र पुनरिदमनिच्छतोऽप्यायातम्ऽयस्येदं सामर्थ्यमुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, सोऽसद्व्यवहारविषयः, सामर्थ्यलक्षणत्वात् सत्त्वस्यऽ; इति ।
तथापि कोऽतिशयः पूर्वकादस्य? न हि स्वभावादर्थान्तरं सामर्थ्यम् । तस्योपलब्धिलक्षणप्राप्तस्य योऽनुपलम्भः स स्वभावस्यैवेति पूर्वकैवेयमनुपलब्धिः ।
तस्मादनेन क्वचित् केषाञ्चिदसद्व्यवहारमभ्युपगच्छता अतोऽनुपलम्भादभ्युपगन्तव्यः ।
सोऽन्यत्रापि तथाविधेऽविशिष्ट इति सोऽपि तथास्तु इति । न वा क्वचिद्, विशेषाभावात् । व्याप्तिः सर्व एवंविधोऽनुपलब्धोऽसद्व्यवहारविषय इति ।
२१. नैव कश्चित् क्वचित् कथञ्चिदनुपलब्धोऽप्यसद्व्यवहारविषय इति चेत् । सर्वस्य सर्वरूपाणां सर्वदानिवृत्तेः सर्वं सर्वत्र सर्वदा समुपयुज्येत ।
इदं च न स्यात्ऽइदमतःऽ,ऽनात इदम्ऽ,ऽइहेदम्ऽ,ऽइह नेदम्ऽ,ऽइदानीमिदम्ऽ,ऽइदानीं नेदम्ऽ,ऽइदमेवम्ऽ;ऽइदं नैवम्ऽ; इति; कस्यचिदपि रूपस्य कथञ्चित् क्वचित् कदाचिद् विविक्तहेतोरभावात् । अनन्वयव्यतिरेकं विश्वं स्यात्, भेदाभावात् ।
अवस्थानिवृत्तिप्रवृत्तिभेदेभ्यो व्यवस्थेति चेत् । नन्वत एव सर्वविषयस्यासद्व्यवहारस्याभावान्न ते सम्भवन्ति, यतस्तेभ्यो व्यवस्था स्यात् ।
क्वचिद् विषयेऽसद्व्यवहारोपगमे स कुत इति वक्तव्यम् । न ह्यनुपलम्भादन्यो व्यवच्छेदहेतुरस्ति; विधिप्रतिषेधाभ्यं व्यवच्छेदे सर्वदानुपलम्भस्यैव साधनत्वात् ।
अनुपलम्भादेव तदभ्युपगमे, स यत्रैवास्ति सर्वोऽसद्व्यवहारविषय इति वक्तव्यम्, विशेषाभावात् ।
२२. सर्वप्रमाणनिवृत्तिरनुपलब्धिः । सा यत्र सोऽसद्विषय [? सोऽसद्व्यवहार विषय] इष्ट इति चेत् । सुकुमारप्रज्ञो देवानाम्प्रियो न सहते प्रमाणचिन्ता परिक्लेशं, येन नात्रादरं कृतवान् ।
न ह्यनुमानादिनिवृत्तिरभावं गमयति, व्यभिचारात् । न सर्वप्रत्यक्षनिवृत्तिः, असिद्धेः ।
नात्मप्रत्यक्षाविशेषनिवृत्तिरपि विप्रकृष्टेषु ।
तस्मात् स्वभावविशेषो यतः प्रमाणान्नियमेन् सद्व्यवहारं प्रतिपद्यते, तन्निवृत्तिस्तस्यासद्व्यवहारं साधयति, तत्स्वभावसत्तायाः तत्प्रमाणासत्तया इष्टेः ।
न चोपलब्धिलक्षणप्राप्तस्यार्थस्याप्रप्त्यक्षादन्योपलब्धिः, येनानुमानादस्योपलब्धिः स्यात् । न च तद्रूपान्यथाभावमन्तरेणाप्रत्यक्षता, अन्यथाभावे च तदेव न स्यात् ।
अपि च कुत इदममन्त्रौषधमिन्द्रजानं भावेन शिक्षितम्, यदयमजातानष्टरूपातिशयोऽव्यवधानदूरस्थानस्तस्यैव तदवस्थेन्द्रियादेरेव पुरुषस्य कदाचित् प्रत्यक्षः, अप्रत्यक्षश्च; येन कदाचिदस्यानुमानमुपलब्धिः, कदाचित् प्रत्यक्षं, कदाचिदागमः ! एकस्मिन्नेवानतिशये अमीषां प्रकाराणां विरोधात् ।
२३. नानतिशयनिवृत्त्या, [नैकातिशयनिवृत्या?] अपरातिशयोत्पत्त्या च तैर्व्यवहारभेदोपगमात् ।
सोऽतिशयस्तस्यात्मभूतोऽनन्वये [... नन्वयः?] निवर्तमानः प्रवर्तमानश्च कथं न स्वभावनानात्वमाकर्षयति, सुखदुःखवत् । सान्वयत्वे च का कस्य प्रवृत्तिर्निवृत्तिर्वा इति यत्किञ्चिदेतत् ।
अथवा यदि च कस्यचित्स्वभावस्य प्रवृत्तिर्निवृत्तिर्वेति स्वयमप्यभ्यनुज्ञायते, तदेतदेव परो ब्रुवाणाः किमिति नानुमन्यते?
तस्य निरन्वयोपजननविनाशोपगमादिति चेत् ।
कोऽयमन्वयो नाम? भावस्य जन्मविनाशयोः शक्तिः; सास्त्येव प्रागपि जन्मनो निरोधादप्यूर्ध्वम् । तेनायं नापूर्वः सर्वथा जायते, न पूर्वो विनश्यतीति ।
यदि सा सर्वदानतिशया, किमिदानीमतिशयवद् यत्कृतोऽयं व्यवहारविभागः?
ता अवस्था अतिशयवत्य इति चेत्, ता अवस्थाः सा च शक्तिः किमेको भवः? आहोस्वित् नाना?
एकश्चेत् कथमिदानीमिदमेकत्राविभक्तात्मनि निष्पर्यायं परस्परव्याहतं योक्ष्यते जन्माजन्म, निवृत्तिरनिवृत्तिः, एकत्वं नानात्वं, प्रत्यक्षताप्रत्यक्षता, अर्थक्रियोपयोगः अनुपयोगश्चेत्यादि ।
२४. अस्ति पर्यायोऽवस्था शक्तिरिति, तेनाविरोध इति चेत् । विस्मरणशीलो देवानाम्प्रियः प्रकरणं न लक्षयति । शक्तिरवस्थेत्येको भावोऽविभाग इति यत् कोऽयं विरोध उक्तः?
अथाप्यनयोर्विभागः, नकश्चिद् विरोधः, केवलं सान्वयौ भावस्य जन्मविनाशौ इति न स्यात् ।
तस्माद् यस्यान्वयो न तस्य जन्मविनासौ, यस्य च तौ न तस्यान्वयः ।
तयोरभेदाददोष इति चेद्, अनुत्तरं बत दोषसङ्कटमत्रभवान् दृष्टिरागेण प्रवेस्यमानोऽपि नात्मानं । चेतयति । अभेदो हि नामैक्यम्,ऽतौऽ; इत्ययं च भेदाधिष्ठानो भाविको व्यवहारः । निवृत्तिप्रादुर्भावयोः अनिवृत्तिप्रादुर्भावौ, स्थितावस्थितिः इत्यादिकं नानात्वलक्षणं च कथं योत्स्यते?
अथ हि भावानां भेद एतद्विरहश्चाभेदः, यथा सुखादिषु शक्त्यवस्थयोच्चैकात्मनि । अन्यथा भेदाभेदलक्षणाभावाद् भेदाभेदयोरव्यवस्था स्यात्सर्वत्र ।
तदात्मनि प्रादुर्भावोऽभेदः, विपर्यये भेदः, यथा मृदात्मनि प्रादुर्भवतो घटस्य तस्मादभेदः, भेदश्च विपर्यये सुखदुःखयोरिति इदं भेदाभेदलक्षणं, तेनाविरोध इति चेत् ।
न वै मृदात्मनि घटस्य प्रादुर्भावः । किं तर्हि? मृदात्मैव कश्चिद् घटः, न ह्येकस्त्रैलोक्ये मृदात्मा । प्रतिविज्ञप्तिप्रतिभासभेदश्च द्रव्यस्वभावभेदात् । एवं ह्यस्यापि सुखादिषु चैतन्येषु भेदावगमः समर्थो भवति ।
यद्येव, भेदः स्यात् ।
सत्यप्येतस्मिन् कस्यचिदात्मनोऽन्वया देवमिति चेत् । सुखादिष्वप्ययं प्रसङ्गः चैतन्येषु च ।
न च घटादिष्वपि सर्वात्मनान्वयः, अवैश्वरूप्यसहोत्पत्त्यादिप्रसङ्गात् ।
न च घटं मृदात्मानं च कश्चिद् विवेकेनोपलक्षयति, येनैवं स्यादिदमिह प्रादुर्भूतमिति ।
न ह्यधिष्ठानाधिष्ठानिनोर्विवेकेनानुपलक्षणे एवं भवति । न च शक्तेः शक्त्यात्मनि प्रादुर्भावः इति तस्याः स्वात्मनोऽभेदो न स्यात् ।
२५. एतेनैव परिणामः प्रत्युक्तः । योऽपि हि कल्पयेद्ऽयो यस्य परिणामः स तस्मादभिन्नःऽ; इति । न हि शक्तिरात्मनः परिणाम इति ।
किञ्चेदमुक्तं भवति परिणाम इत्यवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तिः, धर्मान्तरप्रादुर्भवश्च परिणामः ।
यत्तद्धर्मान्तरं निवर्तते प्रादुर्भवति च, किं तत् तदेवावस्थितं द्रव्यं स्यात्, ततोऽर्थान्तरं वा, अन्यविकल्पाभावत्?
यदि तत्तदेव, तस्यावस्थानान्न निवृत्तिप्रादुर्भावाविति कस्य ताविति वक्तव्यम् ।
अवस्थितस्य धर्मान्तरमिति च न सिध्यति । न हि तदेव तस्यानपाश्रितव्यपेक्षाभेदं धर्मान्तरं भवति ।
अथ द्रव्यादर्थान्तरं धर्मः, तदा तस्य निवृत्तिप्रादुर्भावाभ्यं न द्रव्यस्य परिणतिः । न ह्यर्थान्तरगताभ्यां स्यात् निवृत्तिप्रादुर्भावाभ्यामर्थान्तरस्य परिणतिः, चैतन्येऽपि प्रसङ्गात् ।
द्रव्यस्य धर्म इति च व्यपदेशो न सिध्यति, सम्बन्धाभावात् । न हि कार्यकारणभावादन्यो वस्तुसम्बन्धोऽस्ति ।
न चानयोः कार्यकारणभावः, स्वयमतदात्मनोऽतत्कारणत्वात्, धर्मस्य द्रव्यादर्थान्तरभूतत्वात् ।
अर्थान्तरत्वेऽपि धर्मकारणत्वे, अर्थान्तरस्य कार्यस्योत्पादनात् द्रव्यस्य परिणामः इतीष्टं स्यात् । तद्विरुद्धस्यापि हेतुफलसन्ताने मृद्द्रव्याख्ये, पूर्वकान्मृत्पिण्डद्रव्यात् कारणादुत्तरस्य घटद्रव्यस्य कार्यस्योत्पत्तौऽमृद् द्रव्यं परिणतम्ऽ; इति व्यवहारस्योपगमात् ।
न च धर्मस्य द्रव्यात् तत्त्वान्यत्वाभ्यामन्यो विकल्पः सम्भवति, उभयथा येन परिणामः ।
२६. न निर्विवेकन्द्रव्यमेव धर्मः, नापि द्रव्यादर्थान्तरम्, किं तर्हि? द्रव्यस्य सन्निवेशोऽवस्थान्तरम्, यथा अङ्गुलीनां मुष्टिः । न ह्यङुल्य एव निर्विवेका मुष्टिः, प्रसारितानाममुष्टित्वात् ।
नाप्यर्थान्तरं, पृथक्स्वभावान्नोपलब्धिरिति चेत् । न, मुष्टेरङ्गुलिविशेषत्वात् । अङ्गुल्य एव हि काश्चन मुष्टिः, न तु सर्वाः । न हि प्रसारिता अङ्गुल्यो निर्विवेकस्वभावाः मुष्ट्यङ्गुल्यः, अवस्थाद्वयेऽपि उभयप्रतिपत्तिप्रसङ्गात् ।
यत्र चहि खलु विवेकः स्वभाभूतः, स एअव वस्तुभेदलक्षणं सुखुदुःखवत् ।
परभूते च विवेकोत्पादेऽङ्गुल्यः प्रसारिता एवोपलभ्येरन् । न हि स्वयं स्वभावादप्रच्युतस्यार्थान्तरोत्पादेऽन्यथोपलब्धि रतिप्रसङ्गात् ।
ननूक्तं,ऽद्रव्यमेव निर्विवेकमवस्था, नापि द्रव्यादर्थान्तरम्ऽ; इति ।
उक्तमिदं, न पुनर्युक्तम् । न हि सतो वस्तुनस्तत्त्वान्यत्वे मुक्त्वा अन्यः प्रकारः सम्भवति, तयोर्वस्तुनि परस्पर परिहारस्थितिलक्षणत्वेनैकत्यागस्यापरोपादाननान्तरीयकत्वात् ।
अङ्गुलीषु पुनः प्रतिक्षणविनाशिनीष्वन्या एव प्रसरितः अन्या मुष्टिः ।
तत्र मुष्ट्यादिशब्दा विशेषविषयाः, अङ्गुलीशब्दः सामान्यविषयः, बीजाङ्कुरादिशब्दवत्, व्रीह्यादिशब्दवच्च । तेनाङ्गुल्यः प्रसारिता न मुष्टिः ।
२७. तद्यदि प्रागसदेव कारणे कार्यं भवेत्, किं न सर्वः सर्वस्मात् भब्वति, न ह्यसत्त्वे कश्चिद् विशेष इति?
ननु सर्वत्र सत्त्वेऽप्ययं तुल्यो दोषः न हि सत्त्वे कश्चिद् विशेषः, विशेषे वा स विशेष स्त्रैगुन्याद् भिन्नः स्यात्, तद्भावे विशेषस्यानन्वयात् ।
सतश्च सर्वात्मना निःस्वभावावस्थायामिव किं जायते? साधनवैफल्यं च, साध्यस्य कस्यचिदभावात् ।
यस्य कस्यचिदतिशयस्य तत्र कथञ्चिदसत उत्पत्तौ सोऽतिशयस्तत्र असन् कथं जायेत? जातो वा सर्वः सर्वस्माज्जायेत इति तुल्यः पर्यनुयोगः ।
नातिशयस्तत्र सर्वथा नास्ति, कथञ्चित्सत एव भावादिति चेत् । यथा नास्ति स प्रकारः, तत्र असन् कथं जायेत?
२८. न च सर्वथा सतः कश्चिज्जन्मार्थ इत्युक्तम् । असतोऽपि कार्यस्य कारणादुत्पादे यो यज्जननस्वभावस्तत एअव तस्य जन्म, नान्यस्मादिति नियमः ।
तस्यापि स स्वभावनियमः स्वहेतोरित्यनादिस्वभावनियमः ।
अपि च यदि मृत्पिण्डे घटोऽस्ति, कथं तदवस्थायां न पश्चाद्वदुपलब्धिः, तदर्थक्रिया वा?
व्यक्तेरप्रादुर्भावादिति चेत् । तस्या एव तदर्थक्रियादिभावे घत्वात् तद्रूपस्य च प्रागसत्त्वात् कथं घटोऽस्ति? न हि रूपान्तरस्य सत्त्वे रूपान्तरमस्ति ।
न च रूपप्रतिभासवेदे वस्त्वभेदो युक्तः, अतिप्रसङ्गात् ।
२९. तस्माद् यः उपलब्धिलक्षणप्राप्तस्वभावानुपलब्धिः स नास्त्येव । न हि तस्यतत्स्वभावस्थितावनुपलब्धितः, अस्थितिश्चातत्त्वम्, परस्परंतथास्थितयोरेव [तथास्थितयोरिव?] सुखदुःखयोरिति व्याप्तिः, असद्व्यवहारनिश्चयेन अनुपलब्धिविशेषस्य । तेनानुपलब्ध्या कस्यचिद् व्यवच्छेदं प्रसाधयता तस्य यथोक्तोपलब्धिलक्षणप्राप्तिरूपता दर्शनीया ।
उपदर्श्यानुपलब्धिनिर्देशासमर्थनं स्वभावानुपलब्धौ, व्यापकानुपलब्धावपि धर्मयोर्व्याप्यव्यापकभावं प्रसाध्य व्यापकस्य निवृत्तिप्रसाधनं समर्थनम् ।
कारणानुपलब्धावपि कार्यकारणभावं प्रसाध्य कारणस्य निवृत्ति प्रसाधनं समर्थनम् ।
तद्विरुद्धोपलब्धिष्वपि द्वयोर्विरुद्धयोरेकस्य विरुद्धस्योपरर्शनं समर्थनम् ।
एवमनुपलब्धौ साधनाङ्गस्यासमर्थनं साधनाङ्गावचनम् । तद् वादिनो निग्रहस्थानसमर्थने [? निग्रहस्थानम्, असमर्थने] तस्मिन् व्याप्यासिद्धेः ।
३०. अथवा साध्यते येन परेषामप्रतीतोऽर्थ इति साधनं, त्रिरूपहेतु वचनसमुदायः । तस्याङ्गं पक्षधर्मादिवचनम् । तस्यैक स्याप्यवचनमसाधनाङ्ग वचनं, तदपि वादिनो निग्रहस्थानम् । तदवचने हेतुरूपस्यैवावचनम्, अवचने सिद्धेरभावात् ।
३१. [प्रतिज्ञादीनामसाधनाङ्गत्वम्]
अथवा तस्यैव साधनस्य यन्नाङ्गं प्रतिज्ञोपनयनिगमनादि तस्यासाधनाङ्गस्य साधनवाक्ये उपादानं वादिनो निग्रहस्थानं, व्यर्थामिधानात् ।
अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति वैधर्म्यवति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धेर्भावाद् द्वितीयस्यासामर्थ्यमिति तस्याप्यसाधनाङ्गस्याभिधानं निग्रहस्थानं, व्यर्थाभिधानादेव ।
ननु च विषयोपदर्शनाय प्रतिज्ञावचनमसाधनाङ्गमप्युपादेयमेव । न, वैयर्थ्यात् । असत्यपि प्रतिज्ञावचने यथोक्तात् साधनवाक्याद् भवत्येवेष्टार्थसिद्धिरित्यपार्थकं तस्योपादानम् ।
यदि च विषयोपदर्शनमन्तरेण प्रतीतेरुत्पत्तिः, कथं न प्रतिज्ञा साधनादयः [सधनावयवः?]? न हि पक्षधर्मवचनस्यापि प्रतीतिहेतुभावादन्यः साधनार्थः, स प्रतिज्ञावचनेऽपि तुल्य इति कथं न साधनम्?
केवलस्यासामर्थ्यादसाधनत्वमिति चेत् । तत्तुल्यं पक्षधर्मवचनस्यापीति तदपि न साधनावयवः स्यात् ।
न हि पक्षधर्मवचनात् केवला [केवलात्?] प्रतिपत्तेरुत्पत्तिः ।
एतेन संशयोत्पत्तिः प्रत्युक्ता, पक्षधर्मवचनादपि केवलादप्रदर्शिते सम्बन्धे संशयोत्पत्तेः ।
तस्माद् व्यर्थमेव साधनवाक्ये प्रतिज्ञावचनोपादानं वादिनो निग्रस्थानम् ।
३२. अथवा साधनस्य सिद्धेर्यन्नाङ्गम् असिद्धः, विरुद्धः अनैकान्तिको वा हेत्वाभासः तस्यापि वचनं वादिनो निग्रहस्थानम्, असमर्थोपादानात् ।
तथा साध्यादिविकलस्य अन्वयाप्रदर्शितान्वया तैरपि [? अनन्वयाप्रदर्शितान्वयादेरपि] दृष्टान्ताभासस्य साधनाङ्गस्य [?असाधनाङ्गस्य] वचनमपि वादिनो निग्रहस्थानम् असमर्थोपादानादेव । न हि तैर्हेतोः सम्बन्धः शक्यते प्रदर्शयितुम् । अप्रदर्शनादसामर्थ्यम् ।
३३. अथवा सिद्धिः साधनं, तदङ्गं धर्मो यस्यार्थस्य विवादाश्रयस्य वादप्रस्तावहेतोः स साधनाङ्गः । तद्वयतिरेकेणापरस्याप्यजिज्ञासितस्य विशेषस्याशास्त्राश्रयव्याजादिभिः प्रक्षेपो मोषणं [घोषणं?] च परव्यामोहनानुभाषणशक्तिविघातादिहेतोः, तदप्यसाधनाङ्गवचनं वादिनो निग्रहस्थानम्, अप्रस्तुताभिधानात् ।
एभिः कथाविच्छेद एव; तथा विशेषसहितस्यार्थस्य प्रतिवादिनोऽजिज्ञासितत्वात् । जिज्ञासायामदोष्ः । जिज्ञासितं पुनरर्थस्यान्यस्य प्रसङ्गपरंपरया ये ष पन्नादिना (?) बहिः प्रतिवादिनः, प्राश्निकानां च न्यायदर्शिनामिति ।
एभिः कथाविच्छेद एव करणीयः । न हि कश्चिदर्थः क्वचित् क्रियमाणप्रसङ्गे न प्रयुज्यते, नैरात्म्यवादिनस्तु तत्साधने नृत्यगीत्यादेरपि तत्र प्रसङ्गात् ।
यथा प्रतिज्ञाभिधानपूर्वकं कश्चित् कुर्यात्ऽनास्त्यात्माऽ; इति वयं बौद्धा ब्रूमः । के बौद्धाः? ये बुद्धस्य भगवतः शासनमभ्युपगताः । को बुद्धो भगवान्? यस्य शासने भदन्ताश्वघोषः प्रव्रजितः । क ः पुनर्भदन्ताश्वघोषः? यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं राष्ट्रपालं नाम नाटकम्? इति प्रसङ्गं कृत्वाऽनान्द्यन्ते ततः प्रविशति सूत्रधारःऽ; इति पठेत्, नृत्येद्, गायेच्च । प्रतिवादी तं च सर्वप्रसङ्गं नानुकर्तुं समर्थ इति पराजितः स्यात् । इति सभ्यः साधुसम्मतानां विदुषां तत्त्वचिन्ताप्रकारः ।
३४. न चैवं प्रस्तुतस्य पर्यवसानं स भवति [? सम्भवति],ऽअनिश्चय फलत्वादनारम्भ एव वादस्य ।
कथं चैव जयपराजयौ? प्रतिवादिनोऽप्यननुभाषणस्यैवम्प्रकारस्य प्रसङ्गस्य विस्तरेणानुभाषणव्याजेन सम्भवाद्, अनिश्चितत्वाच्च ।
तस्मात् प्रतिज्ञावचनमेव तावन्न न्याय्यम् । कुतः पुनस्तत्राजिज्ञासितविशेषप्रसङ्गोपन्यासः, तद्व्याख्याप्रसङ्गवितथप्रलापश्च?
सर्वश्चायंप्रकारो दुर्मतिभिः शठैर्न्यायसामर्थ्येनार्थप्रतिपादनेऽसमर्थैः प्रवर्तितः ।
यथाऽपुरुषातिशयपूर्वकाणि तनुभुवनकरणादीनिऽ; इति प्रतिज्ञाय तनुकरणभुवनव्याख्याव्याजेन सकलवैशेषिकशास्त्रार्थघोषणम् ।
ऽनित्यः शब्दोऽनित्यो वाऽ; इति वादे द्वादशलक्षणप्रपञ्चप्रकाशनशास्त्र प्रणेतृ जैमिनिप्रतिज्ञाततत्त्वनित्यताधिकरणशब्दघटान्यतरसद्वितीयो घःट इति प्रतिज्ञामुपरचय्य द्वादशलक्षणादिव्याख्यानम् ।
सर्वोऽयं दुर्मतीनामसामर्थ्यप्रच्छादनोपायः, न तु सत्यैरस्त्युपेतः, तत्त्वपरीक्षायां फलादिप्रतिसरणदण्डप्रयोगादीनामयुक्तत्वात् ।
३५. भवत्येव नाटकादिघोषणेऽर्थान्तरगमनात् पराजय इति चेत्, अन्यस्याप्यजिज्ञासितस्य किं न भवति? न हि तस्यापि काचिद् विवक्षितसाध्यधर्मसिद्धौ नान्तरीयकता । यथा हेतुप्रत्ययपारतन्त्र्यलक्षणसंस्कारदुःखतादिसिद्धिमन्तरेण नानित्यतासिद्धिः ।
तथाविधस्तु धर्मः पृथगनुक्तोऽपि साध्यधर्मेऽन्तर्भावात् पक्षीकृत एवेति न पृथगस्योपन्यासः, व्याख्यानं वा । तस्मादेवंविधस्यापि तदानीं प्रतिवादिनो जिज्ञासितस्यार्थस्य प्रतिज्ञायामन्यत्रैवोपन्यासो व्याख्यानं वा अर्थान्तरगमनान्निग्रहस्थानमेव ।
तेन जिज्ञासितधर्ममात्रमेव साधनाङ्गं वाच्यं, न प्रसङ्ग उपक्षेप्तव्यः, तदुपक्षेपेऽतिप्रसङ्गात् ।
एवमसाधनाङ्गवचनं वादिनो निग्रहस्थानं प्रतिवादिना तथाभावे प्रतिपादिते, अन्यथा द्वयोरेकस्यापि न जयपराजयाविति ।
३६. [अदोषोद्भावनं निग्रहस्थानम्]
अदोषोद्भावनं प्रतिवादिनो निग्रहस्थानम् । वादिना साधने प्रत्युक्तेऽभ्युपगतोत्तरपक्षो यत्र विषये प्रतिवादी यदा न दोषमुद्भावयति, तदा पराजितो वक्तव्यः ।
साधनदोषाः पुनः न्यूनत्वम्, असिद्धिः, अनैकान्तिकता, वादिनः साधयितुमिष्टस्यार्थस्य विपर्ययसाधनम्, अष्टादश दृष्टान्ताभासाश्च । तेषामनुद्भावनमप्रतिपादनं प्रतिवादिनः पराजयाधिकरणम् ।
तत् पुनः साधनस्य निर्दोषत्वात्, सदोषत्वेऽपि प्रतिवादिनोऽज्ञानात्, प्रतिपादनासामर्थ्याद् वा ।
न हि दुष्ट साधनाभिधानेऽपि वादिनः प्रतिवादिनोऽप्रतिपादिते दोषे पराजयव्यवस्थापना युक्ता, तयोरेव परस्परसामर्थ्योपघातापेक्षया जयपराजयव्यवस्थापनात् ।
केवलं हेत्वाभासाद् भूतप्रतिपत्तेरभावाद प्रतिपादकस्य जयोऽपि नास्त्येव । न हि तत्त्वचिन्तायां कश्चिच्छलव्यवहारः ।
यद्येवं, किंनु पराजयः, तत्त्वसिद्धिभ्रंशात्? न अनिराकरणात् । निराकरणं हि तस्यान्येन पराजयः, न सिद्ध्यभावः, प्रतियोग्यपेक्षणात् । सिद्ध्यभावस्य साधनाभावेऽसत्यपि प्रतियोगिनि भावात् । प्रतियोगिनश्च तन्निराकरणेऽसामर्थ्यात् पराजयस्यानुत्पत्तेरपराजयः ।
तस्मादयमसमर्थसाधनाभिधाय्यपि परेण तथाभावेऽप्रतिपादितेऽपराजितो वक्तव्यः ।
३७. [वादे छलव्यवहारनिषेधः]
छलव्यवहारोऽपि विजिगीषुणं वाद इति चेत् । न, दुर्जनविप्रतिपत्त्यधिकारे सतां शास्त्राप्रवृत्तेः । न हि परानुग्रहप्रवृत्ता मिथ्याप्रलापारम्भात् सोत्कर्षपरपंसनादीन् [स्वोत्कर्षपरपंसनादीन्?] असद्व्यवहारान् उपदिशन्ति । न च परविपंसनेन लाभसत्कारश्लोकोपार्जनं सतामाचारः ।
नापि तथाप्रवृत्तेभ्यः स्वहस्तदानेन प्राणिनामुपतापनं सत्सम्मतानां शास्त्रकार सभासदां युक्तम् । न च न्यायशास्त्राणि सद्भिर्लाभाद्युपार्जनाय प्रणीयन्ते ।
तस्मान्न योगविहितः कश्चिद् विजिगीषुवादो नाम । परानुग्रहप्रवृत्तास्तु सन्तो विप्रतिपन्नं प्रतिपादयन्तो न्यायमनुसरेयुः सत्साधनाभिधानेन, भूतदोषोद्भावनेन वा ।
साक्षिप्रत्यक्षं तस्यैवानुप्रबोधाय । तदेव न्यायानुसरणं सतां । वादः उक्तन्याये तत्त्वार्थी चेत् प्रतिपद्येत, तदप्रतिपत्तावप्यन्यो न विप्रतिपद्येतेति ।
तत्त्वरक्षणार्थं सद्भिरुपहर्तव्यमेव छलादि विजिगीषुभिरिति चेत् । नखचपेटशस्त्रप्रहारादीपनादिभिरपीति वक्तव्यम्! तस्मान्न ज्यायानयं तत्त्वरक्षणोपायः ।
साधनप्रख्यापनं सतां तत्त्वरक्षणोपायः, साधनाभासदूषणं च । तदभावे मिथ्याप्रलापादत्र परोपतापविधानेऽपि तत्त्वाप्रतिष्टापनात् । अन्यथापि न्यायोपवर्णने विद्वत्प्रतिष्ठानात् ।
तस्मात् परानुग्रहाय तत्त्वख्यापनं वादिनो विजयः, भूतदोषदर्शनेन मिथ्याप्रतिपत्तिनिवर्तनं प्रतिवादिनः ।
३८. अथवा यो न दोषः साधनस्य, तद्भावेऽपि वादिना तदसाधयितुम् [तदा साधयितुम्?] इष्टस्यार्थस्य सिद्धेर्विघाताभावात्, तस्योद्भावनं प्रतिवादिनो निग्रहाधिकरणं, मिथ्योत्तराभिधानात् । यथा साध्यतयानिष्टोऽपि वादिनो धर्मः शास्त्रोपगमात् साध्य इति तद्विपर्यासेन न विरोधोद्भावनम् ।
ऽनास्त्यात्माऽ; इति तव प्रतिज्ञापदयोर्विरोध इति प्रतिज्ञादोषोद्भावनं,ऽप्रयत्नान्तरीयकः शब्दोऽनित्यः, प्रयत्नान्तरीयकत्वाद्ऽ; इति हेतोर्धर्मविशेषत्वात् प्रतिज्ञार्थैकदेश इत्यसिद्धोद्भावनं, सर्वाणि साधर्म्यवैधर्म्यसमादीनि जात्युत्तराणि इत्येवमादेर्दोषस्योद्भावनमदोषोद्भावनम् । तस्य वादिना दोषाभासत्वे प्रख्यापिते प्रतिवादी पराजितो वक्तव्यः, पूर्वपक्षे साधनस्य निर्दोषत्वात् ।
दोषवति पुनः साधने न द्वयोरेकस्यापि जयपराजयौ, तत्त्वाप्रख्यापनात्, अदोषोद्भावनं च । अप्रतिपक्षायां च पक्षसिद्धौ कृतायां जेता भवति ।
तस्माज्जिगीषता स्वपक्षश्च स्थापनीयः, परपक्षश्च निराकर्तव्यः ।
निर्दोषे साधनाभिधानेऽपि वादिनः प्रतिवादिना दोषाभास उद्भाविते दूषणाभावत्वख्यापने एव जयपराजयौ, नान्यथा, भावतस्तत्त्वाभिधानेऽपि प्रतिपक्षनिराकरणेन तत्त्वस्य प्रख्यापनासामर्थ्यात्, न प्रतिवादिन्नोऽप्यत्र, भावतो मिथ्याप्रतिपत्तेरिति ।
इदं न्याय्यं निग्रहस्थानलक्षणमुक्तमस्माभिः । न्यायमतखण्डनम्
३९. अन्यतु न युक्तमिति नेष्यते । यत्रेदं यथोक्तं निग्रहस्थानलक्षणं नास्ति, तस्य निग्रहस्थानत्वमयुक्तमिति नोक्तमस्माभिः ।
[१]ऽप्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः निग्रहस्थानम्ऽ; [न्या.सू. ५.२..२] इत्यत्र भाष्यकारमतं दूषयित्वा वार्तिककारो यं स्थितपक्षमाह, तत्रैवं ब्रूमः प्रतिदृष्टान्तस्य यो धर्मस्तं यदा स्वदृष्टान्तेऽभ्यनुजानाति निगृहीतो वेदितव्यः ।
तत्र दृष्टश्चासावन्ते च व्यवस्थित इति दृष्टान्तः । स्वदृष्टान्तःस्वपक्षः । प्रतिदृष्टान्तः प्रतिपक्षः । प्रतिपक्षस्य धर्मं स्वपक्षेऽभ्यनुजानन् पराजितः । यथाऽअनित्यः शब्द ऐन्द्रियकत्वाद्ऽ; इति ब्रुवन् प्रतिपक्षवादिनि सामान्येन प्रत्यवस्थिते आहऽयदि सामान्यमैन्द्रियकं नित्यं शब्दोऽप्येवमस्तुऽ; इत्येषा प्रतिज्ञाहानिः, प्राक्प्रतिज्ञातस्य शब्दानित्यत्वस्य त्यागादिति ।
४०. अत्रोपगतप्रतिज्ञात्यागात् प्रतिज्ञाहानौ विशेषप्रतिनियमः किंकृतोऽनेन प्रकारेण प्रतिज्ञां त्यजतः प्रतिज्ञाहानिरिति ।
सम्भवति ह्यनेनापि प्रकारेण हेतुदोषोद्भावनादिना प्रतिपक्षसाधनाभिधानेन च स्वपक्षपरित्यागः, परपक्षोपगमश्च ।
इदमेव च प्रतिज्ञाहानेः प्रधानं निमित्तम् । एवं प्रतिपादितेन प्रतिज्ञा हातव्या, हानौ च पराजय इति ।
४१. इदं पुनरसम्भद्धमेवऽसामान्यं नित्यमैन्द्रियकम्ऽ; इत्युक्तेऽशब्दोऽप्येवमस्तु; इति कः स्वस्थात्मास्वयमैन्द्रियकत्वादनित्यः शब्दो घतवदिति ब्रुवन् सामान्येनोपदर्शनमात्रेण नित्यं शब्दं प्रतिपद्येत?
सामान्यस्यापि नित्यस्यैन्द्रियकत्वे तस्यानित्ये घटे दर्शनात् संशयितः स्यात् । जात्या प्रतिपद्येतापीति चेत् । तथपि किं सामान्योपदर्शनेन?
एवमेव नित्यः शब्दः इति वक्तव्यम्, जडस्य प्रतिपत्तौ विचाराभावात् ।
न च नित्यसामान्योपदर्शनेन तद्धर्मं शब्दे प्रतिपद्यमानेन प्रतिपक्षधर्मोऽभ्यनुज्ञातो भवति ।ऽअनित्यः शब्दःऽ; इति च वदतो नित्यशब्द इत्याञ्जसः प्रतिपक्षः स्यात्, (Vन् ६८) न नित्यं सामान्यमिति ।
तस्मादैन्द्रियकत्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहार्हः, न प्रतिपक्षधर्मानुज्ञ्यानेन प्रकारेण प्रतिज्ञाहानेः ।
४२. [२]ऽप्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ।ऽ; [न्या. सू. ५.२.३] प्रतिज्ञातोऽर्थोऽनित्यः शब्द ऐन्द्रियकत्वादित्येव, तस्य हेतुव्यभिचारोपदर्शनेन प्रतिषेधे कृते धर्मभेदविकल्पात् सामान्यघटयो सर्वगतत्वासर्वगतत्वधर्मविकल्पेन प्रतिज्ञान्तरं करोति यथा घटोऽसर्वगतोऽनित्यः एवं शब्दोऽप्यसर्वगतोऽनित्य इति । एतत्प्रतिज्ञान्तरं नाम निग्रहस्थानं साधनसामर्थ्येऽप्यपरिज्ञानात् । स हि पूर्वस्याःऽअनित्यः शब्दऽ; इति प्रतिज्ञायाः साधनात्तदा याम्ऽअसर्वगतः शब्दऽ; इति प्रतिज्ञामाह, तद्दर्शनाय तद्दर्थनिर्देश इत्याह । तदर्थः पूर्वोक्तसाध्यसिद्ध्यर्थः । उत्तरप्रतिज्ञानिर्देशस्तदर्थनिर्देशः । न च प्रतिज्ञा प्रतिज्ञान्तरसाधने समर्था, इति निग्रहस्थानम्
४३. अत्रापि नैवं ब्रुवता प्रतिज्ञान्तरं पूर्वप्रतिज्ञासाधनायोक्तं भवति । किं तर्हि? विशेषणम् । ऐन्द्रियकत्वस्य हेतोः सामान्ये वृत्त्या व्यभिचार उद्भावितेऽसर्वगतत्वे सत्यैन्द्रियकत्वस्यहेतोर्विशेषणोपादाने व्याभिचारं परिहरति, न पुनः प्रतिज्ञान्तरमाह; असर्वगतत्वस्य शब्दे सिद्धत्वात्, प्रतिज्ञायाश्च साध्यनिर्देशलक्षणत्वात् ।
यदप्युक्तंऽपूर्व प्रतिज्ञासाधनायोत्तरां प्रतिज्ञामाहऽ; इति, तदप्युक्तम् । न हि प्रतिज्ञा प्रतिज्ञासाधनायोच्यमाना प्रतिज्ञान्तरं भवति । किं तर्हि? हेत्वादेरन्यतमः साध्यसाधनायोपादानात् । साधननिर्देशः स स्यात्, न साध्यनिर्देशः ।
उदाहरणसाधर्म्यादेश्च हेतुलक्षणस्यासर्वगतत्वे भावात्, प्रतिज्ञालक्ष्णस्य चाभावात् । हेतुत्वमसर्वगतत्वे प्रयुक्तं न प्रतिज्ञान्तरम् ।
४४. अत्यन्तासम्बद्धं चेदं प्रतिज्ञां प्रतिज्ञासाधनायाहेति । यो हि प्राक् प्रतिज्ञामुक्त्वा हेतूदाहरणादिकं वक्तुं जानाति, स किञ्चिदनुक्रमं [कञ्चिदनुक्रमं?] साधनस्य जानात्येव हि । जानन् कथमविकलान्तःकरणः प्रतिज्ञामेव प्रतिज्ञासाधनायोपाददीत?
उपाददता चानेन प्रतिज्ञामात्रेण सिद्धिरिष्टा भवति । ततश्च न प्रागपि हेतुं ब्रूयात् ।
एवंप्रकाराणामसम्बद्धानां परिसंख्यातुमशक्यत्वात् लक्षणनियमोऽप्यसम्बदद्ध एव प्रतिज्ञान्तराभिधाने प्रतिज्ञान्तरं नाम निग्रहस्थानमिति । एवम्प्रकाराणामेकमेव लक्षणं वाच्यं स्यात् ।
न चैवंविधः कश्चिद् विवादेषु दृष्टपूर्वो व्यवहारो येन तदर्थं यत्नः क्रियते । न च बालप्रलापानुद्दिश्य शास्त्रं प्रवर्तते । प्रवृत्तौ च का निष्टा, तेषामनिष्ठानात्?
४५. दृश्यते च विदुषामपि नातिनिरूपणादसिद्धाभिधानमिति व्यवहारदर्शनात् तादृशं पराजयाधिकरणं व्यवस्थाप्यते । तस्मादिहापि यदि निवृत्ताकंक्षे वादिनि परोऽनैकान्तिकतामुद्भावयेद्, असाधनाङ्गस्यानैकान्तिकस्याभिधानान्निग्रहस्थानं वादिनः ।
एवं यदि प्रतिवादी सत्सामान्यमैन्द्रियकं नित्यं च प्रमाणेन प्रतिपादयितुं शक्नुयात् अनुद्दिश्याप्रमाणकं शास्त्रोपगमं, प्रमाणेनैषामर्थानामप्रतिपादनेन भूतदोषोद्भावनमेतत् । न कश्चित्पराजयः, अभ्युपगममात्रेण वस्तुसिद्धेरभावात्, प्रतिवादिना दोषस्याप्रतिपादितत्वात् ।
प्रमाणैरसमर्थितसाधनाभिधानात् तु जेतापि न भवतीति ।
अनित्याकांक्षे [? अनिवृत्ताकांक्षे] पुनर्वादिनि न कश्चद् दोषोः, विशेषणाभिधानेन हेतोः समर्थनोपक्रमात् ।
४६. [३.] "प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ।" [न्या.सू.५ २. ४.] यथाऽगुणव्यतिरिक्तिं द्रव्यम्; इति प्रतिज्ञा,ऽरूपादिभ्योऽर्थान्तरस्यानुपलब्धेः इति हेतुः, सोऽयं प्रतिज्ञाहेत्वोर्विरोधः । एतेनैव प्रतिज्ञाविरोधोऽलप्युक्तः, यत्र प्रतिज्ञा वचनेन [स्ववचनेन? विरुध्यते । यथा श्रमणा गर्भिणी, नास्त्यात्मेति वा ।
हेतुविरोधोऽपि, यत्र प्रतिज्ञया हेतुर्विरुध्यते । यथाऽसर्वं पृथक्, समूहे भावशब्दप्रयोगाद्ऽ; इति ।
एतेन प्रतिज्ञया दृष्टान्तविरोधो व्याख्यातः ।
४७. हेतोश्च दृष्टान्तादिभिर्विरोधः, प्रमाणविरोधश्च प्रतिज्ञाहेत्वोर्वक्तव्यः ।
यः परपक्षं स्वसिद्धेन गोत्वादिना व्यभिचारयति, तद् विरुद्धमुत्तरं वेदितव्यम् ।
स्वपक्षानपेक्षं च । यं च स्वपक्षानपेक्षं हेतुं प्रयुङ्क्तेऽअनित्यः शब्दः ऐन्द्रियकत्वाद्ऽ; इति, तस्य स्वसिद्धस्य गोत्वादेरनित्यविरोधाद् विरुद्धः । इति परपक्षेष्वसिद्धेन गोत्वादिनानैकान्तिकचोदनाविरुद्धः ।
उभपक्षसम्प्रतिपन्नस्त्वनैकान्तिकः । यदुभयपक्षं [यदुभयपक्ष ?] प्रतिपन्नं वस्तु तेनानैकान्तिकचोदना इति ।
४८. अत्रापि प्रतिज्ञार्थः, साधनवाक्ये प्रयोगप्रतिषेधात् । तदाश्रयस्तत्कृतो वा हेतुदृश्टान्तयोर्न विरोध इति न प्रतिज्ञाविरोधो नाम किञ्चिन्निग्रहस्थानम् ।
स्यादेतत् । असत्यपि प्रतिज्ञाप्रयोगे गम्यमानोऽपि प्रतिज्ञाहेत्वोर्विरोधो भवति । यथा रूपादिभ्योऽर्थान्तरस्यानुपलब्धिस्तद् गुणव्यतिरिक्तम्, नोपलभ्यते च रूपादिभ्योऽर्थान्तरं द्रव्यम् । इत्युक्तेऽपि गम्यत एव साध्यसाधनयोर्विरोधः कथं ततोऽर्थान्तरस्यानुपलब्धिः, तद्व्यतिरेकश्चेति ।
सत्यं, स्यादयं विरोधः, यदि हेतुः साध्यधर्मविपर्ययं साधयेत् । यदि ह्युपलब्धिलक्षणव्याप्तत्वेन [ह्युपलब्धिलक्षणप्राप्तत्वेव?] उपगतस्य सतो (Vन् ७७) द्रव्यरूपादिप्रतिभासविवेकेन स्वप्रतिभासानुपलब्धिस्तस्य तद्व्यतिरेके नास्ति [तद्व्यतिरेकेणास्ति?] इति इष्टव्यतिरेकविपर्ययसाधनाद् विरुद्धो हेतुरस्माभिरुक्त एवेति । भवत्येवेदं निग्रहाधिकरणं, यद्येवंविधः प्रतिज्ञाहेतोः [? प्रतिज्ञाहेत्वोः] विरोध इष्टः । अथ पुनरस्योपलब्धिलक्षणप्राप्तिर्लुप्यते, तदा न कश्चित् प्रतिज्ञाहेतोः [? प्रतिज्ञाहेत्वोः] विरोधः, व्यतिरिक्तानामपि भावानां कुतश्चिद् विप्रकर्षिणां तद्व्यतिरेकेणानुपलब्धावपि व्यतिरेकस्य भावात् ।
४९. यदुक्तंऽस्ववचनप्रतिज्ञायाः [? प्रतिज्ञायाः] स्ववचनविरोधे प्रतिज्ञाविरोधःऽ; इति तत्रेदमेव निग्रहाधिकरणम्, असाधनाङ्गभूतायाः प्रतिज्ञायाः साधनवाक्ये प्रयोगः, न विरोधः, तदधिकरणत्वात् ।
यदि प्रतिज्ञानपेक्षोः विरोधः स्यात्, स्यात् पराजयाश्रयः । प्रतिज्ञाधिकरणत्वे पुनस्तत्प्रयोगकृत एव पराजयः, अस्य प्रस्तावोपसंहारावसानत्वाद् व्यर्थं विरोधोद्भावनम्, पराजितपराजयाभावाद् भस्मीकृतानलवत् ।
ये तु केचिद् विचारप्रसङ्गेषु एकत्र साध्ये बहवो हेतव उच्यन्ते, तेष । विकल्पेन तत्साध्यसाधनाय वृत्तेः सामर्थ्यम्, अन्यथा द्वितीयस्य वैयर्थ्यात् ।
यदि हि तत्राप्येकप्रयोगमन्तरेणापरस्य प्रयोगो न सम्भवेत्, न तदा द्वितीयस्य कश्चित् साधनार्थः, प्रतीतप्रतिपादनाभावात् ।
तस्मान्न प्रतिज्ञायाः स्ववचनविरोधो नाम किञ्चिन्निग्रहस्थानम् ।
न चऽनास्त्यात्माऽ; इत्यत्र कश्चित् प्रतिज्ञाविरोधः नास्त्यात्मशब्दार्थस्य भावोपादानत्वनिषेधात् । सब्दार्थनिषेधे हि विरोधः स्यात् । न च स्वलक्षणं शब्दार्थ इति ।
५०. यः पुनः प्रतिज्ञाया बाधनाद्धेतुविरोध उक्तः, यथाऽसर्वं पृथक् समूहे भावशब्दप्रयोगात्ऽ; इति । नात्र प्रतिज्ञाप्रयोगः, नापि हेतोः, येन विरोधः स्यात् । किं तर्हि? प्रतिपादितार्थोपदर्शनेनोपसंहारवचनमेतस्मात् [... वचनमेतत्स्यात्?] ।
अन्यैरेव हेतुभिः शब्दस्यैकविशेषानभिधानम्, अनेकार्थसामान्याभिधानं च प्रतिपाद्य सर्वस्य शब्दार्थस्य नानार्थरूपतयैकवस्तुविशेषस्वभावताभावमुपदर्शयन् शब्दार्थमधिकृत्य सर्वं पृथगिति ब्रूयात् ।
एतेन तद्विरोधः प्रत्युक्तः ।
५१. दृष्टान्तोपदर्शनं चैतद्ऽअनित्यः शब्दः कृतकानित्यत्वाद्ऽ; ।
यथा क्वचिद् अर्थे विप्रतिपत्तौ प्रसिद्धमनेकार्थसामान्ये शब्दप्रयोगमुपदर्श्य प्रतिपादितविप्रतिपत्तिस्थानः सामान्येनोपसंहरति सर्वं पृथगिति ।
यदि दृष्टान्तप्रयोगः, किमृजुनैवतत्प्रयोगक्रमेण न प्रयुक्तः, विप्रतिपत्तिविषयश्च किं न दर्शित इति चेत् ।
न, समासनिर्देशात् । एवमपि प्रयोगदर्शनाद्, असाधनवाक्यत्वाच्च ।
अत एव न प्रतिज्ञया हेतोर्बाधनम् । न चैकमेव किञ्चिन्नास्तीति ब्रुवाणः कश्चित् तत्समुच्चयरूपमेकं च समूहमिच्छति, येन विरोधः स्यात् ।
योऽपिऽयुगपत् कङ्केन योगाद्ऽ; इत्यादिना परमाणोर्भेदमाह, न तस्याप्येकः समुच्चयरूपः साधयितुमिष्टः । किं तर्हि? अभाव एव, एकानेकप्रतिषेधात् । अतः सोऽपि न समूहस्तस्येष्टो न तत्र शब्द इति न विरोधः ।
५२. न विरुद्धोऽयं पूर्वकात् प्रतिज्ञाहेतुविरोधात् भिद्यते, येन पृथगुच्येत ।
तत्र हेतुप्रतिज्ञयोर्बाधनम्, इह प्रितिज्ञया हेतोरित्यस्ति भेद इति चेत् । अर्थविरोधे हि हेतुप्रतिज्ञयोर्बाध्यबाधकभावः स्यात् ।ऽसर्वार्थविरोधो द्विषुऽ; इति यमपि (Vन् ८३) [यदपि?] परस्परं ब्बाधकम्, एकार्थसन्निधावपरार्थासम्भवात्, तत्र हेतुप्रतिज्ञयोः सहपृथग्वा बाधोदाहरणयोर्न कश्चिदर्थभेदः ।
५३. अपि चायं विरुद्धो वा सति हेतुप्रयोगे व्यधिकरणत्वादसिद्ध इत्यसिद्धता हेतोर्निग्रहस्थानम् । स खलूच्यमान एवातद्धर्मतया प्रतीतो वक्तुः पराजयमानयति । पराजिते तस्मिंस्तदर्थविरोधचिन्तया न किञ्चित् ।
अपि च सर्वत्रायं प्रतिज्ञाहेत्वोर्विरोधः सम्भवन् द्वयीं दोषजातिमभिपतति विरुद्धतामसिद्धतां चेति ।
विरुद्धता सिद्धे हेतोर्धर्मिणि भावे साध्यधर्मविपर्यय एव, भाव प्रतिज्ञाविरोधात् ।
असिद्धतापुनर्धर्र्मिणि प्रतिज्ञातार्थसिद्धौ, विरुद्धयोः स्वभावयोः एकत्रासम्भवात्, न चान्यथा विरोधः ।
असिद्धे धर्मस्वभावेऽभिहितयोर्हेतुप्रतिज्ञातार्थयोर्विरोधाद् विरोधसम्भव इति चेत् ।
अप्रमाणयोगे तूभयोर्धर्मिणि संशयः । तथा सति हेतोर्धर्मिणि भावसंशयेऽसिद्धतैव हेतुदोष इत्यसिद्धविरुद्धाभ्यामन्यो न प्रतिज्ञया विरोधो नाम पराजयहेतुः ।
असिद्धविरुद्धे च हेत्वाभासवचनादेवोक्ते इति न पृथक् प्रतिज्ञाविरोधो वक्तव्य इति ।
५४. उभयाश्रयत्वाद् विरोधस्य विवक्षातोऽन्यतरनिर्देश इति चेत् । स्यादेतत् । प्रतिज्ञाहेत्वोर्विरोध इति प्रतिज्ञाहेतू आश्रित्योभयाश्रयो भवति । तत्र यदा (Vन् ८६) प्रतिज्ञाविरोधो विवक्षितस्तदा प्रतिज्ञाविरोध इत्युच्यते, यदा प्रतिज्ञाया हेतोर्वा विरोधस्तदा विरुद्धो हेतुरिति । अतः प्रतिज्ञाविरोधः, हेतुविरोधो वा इत्यदोषोः ।
तत्र हेतोरुदाहरणम् नित्यः शब्दः उत्पत्तिधर्मकत्वादिति । प्रतिज्ञाविरोधस्य नास्त्यात्मेति । प्रतिज्ञाहेत्वोः परस्परविरुद्धोदाहरणम् गुणव्यतिरिक्तमित्यादि । प्रतिज्ञया हेतुविरोधोदाहरणम्ऽनास्त्येको भवऽ; इत्यादिकम् इति । न, सर्वहेत्वपेक्षस्य विरोधहेत्वाभासानतिक्रमात्, यथोक्तं प्राक् ।
अनपेक्षे च केवले स्वतः प्रतिविरोधे [प्रतिज्ञाविरोधे?] विवक्षिते प्रतिज्ञाहेत्वोर्विरोध इति हेतुग्रहणमसम्बद्धम् ।
न चोत्पत्तिधर्मत्वान्नित्यमित्यत्रापि हेतुविरोधो युक्तः । प्रतिज्ञया हि हेतोर्बाधने हेतुविरोधः, इह तु हेतुना प्रतिज्ञा बाध्यते इति प्रतिज्ञाविरोधो युक्तः ।
उभयाश्रयेऽपि विरोधे बाध्यमानविवक्षया तद्विरोधव्यवस्थापनात् ।
५५. यदप्युक्तम् एतेन प्रतिज्ञया दृष्टान्तविरोधादयोऽपि वक्तव्या भण्डालेख्यन्यायेनेति, तत्रापि पक्षीकृतधर्मविपर्यवति दृष्टान्ते विरोधः स्यात् । विरुद्धे च दृष्टान्ते यदि पक्षधर्मस्य वृत्तिरनन्यसाधारणा प्रसाध्यते विरुद्धस्तदा हेत्वाभासः ।
साधारणायामप्रसाधिते वा तद्वृत्तिनियमेऽनैकान्तिकः । अवृत्तौ वासाधारणः ।
विरुद्धदृष्टान्तावृत्तौ विपर्ययवृत्तौ च न कश्चिद् हेतुदोषः, दृष्टान्तविरोधश्च प्रतिज्ञाया इति चेत् ।
न, तदापि संशयहेतुत्वानतिवृत्तेः । दृष्टान्तविरोधो हि प्रतिज्ञायाः साधर्म्ये दोषो न वैधर्म्ये, अभिमतत्वात् ।
साधर्म्यदृष्टान्ते च विपरीतधर्मवति वस्तुतः साध्याव्यभिचारेऽपि हेतोर्नाव्यभिचारधर्मता शक्या दर्शयितुमिति नाप्रदर्शिताविनाभावसम्बन्धात् हेतोर्निश्चयः । तन्न प्रतिज्ञया दृष्टान्तविरोधो हेत्वाभासानतिवर्तते ।
५६. उभयथापि दोषोऽस्त्विति चेत् । न । न हेतुदोषस्य प्राक् प्रसङ्गेन पराजितस्य दोषान्तरान्पेक्षणात् ।
विशेषेण साधनावयवानुक्रमनियमवादिनः । उदाहरणसाधर्न्यं हेतुलक्षणं विरुद्धे दृष्टान्ते न सम्भवतीति प्राक्प्रयुक्तस्य हेतोर्दोषेण पराजय इति नोत्तरदृष्टान्तापेक्षया विरोधश्चिन्तामर्हति ।
हेतोरपि दृष्टान्तविरोधेऽसाधारणत्वं विरुद्धत्वं वा, वैधर्म्ये यदि वृत्तिः स्यात् ।
प्रमाणविरोधे तु हेतोर्यथाऽन दहनोऽग्निः सैत्यात्ऽ; इत्यादि ह्यसिद्धो हेत्वाभासः ।
प्रतिज्ञाया प्रमाणविरोधः स्ववचनविरोधेन व्याख्यातः इति सर्वे एवैते साधनविरोधे हेत्वाभासेष्वन्तर्भवन्तीति हेत्वाभासवचनेनैवोक्ताः ।
५७. यत्तु विरुद्धमुत्तरं परपक्षे स्वसिद्धेन गोत्वादिनानैकान्तिकचोदनेति, तदसम्बद्धमेव । यदि हि स्वसिद्धेन गोत्वादिना परस्य व्यभिचारसिद्धिमाकाङ्क्षेत, तस्य तत्स्वपक्षविरुद्धं नाभिमतमिति विरोधो युज्येत । स हि स्वयं प्रतिपन्ने गोत्वे हेतुवृत्तेः संशयानोऽप्रतिपत्तिमात्मनस्तथा ख्यापयति ।
स च हेतुः सत्यसति गोत्वेऽप्रसाधितसाधनसामर्थ्यः संशये हेतुत्वादनैकान्तिक एव ।
प्रसाधिते तु सामर्थ्ये गोत्वेऽवृत्त्या हेतौ न संशय एव, सर्वसंशयप्रकाराणां परिहारेण समर्थनात् ।
एतेन स्वपक्षानपेक्षहेतुप्रयोगस्यानैकान्तिकता व्याख्याता । सोऽपि स्वाभिमतनित्यगोत्ववृत्तिहेतुमनित्यत्वे ब्रुवाणोऽसमर्थतयासाधनाङ्गतया संशयहेतुमेवाहेति ।
यत्पुनरुक्तम् उभयपक्षसम्प्रतिपन्नेन वस्तुनानैकान्तिकचोदनेति, तत्राप्यवश्यं संशयहेतुत्वमुखेनैवानैकान्तिको वक्तव्यः । तदसमर्थितेऽन्यत्रापि तुल्यमिति नोभयसिद्धेतरयोरनैकान्तिकत्वविशेषः ।
५८. यदप्युक्तंऽदृष्टान्ताभासा हेत्वाभासपूर्वकत्वात् तदभिधानेनैवोक्ता इति न पृथग् निग्रहस्थानेषूक्ताःऽ; इति तदप्यवयवान्तरवादिनोऽयुक्तम् । योऽवयवान्तरं दृष्टान्तहेतोः [दृष्टान्तं हेतोः?] आह तस्य न हेत्वाभासोक्त्या दृष्टान्ताभासोक्तिर्व्याप्या, तद्वचनेन गम्यमान्स्य तस्मात् साधनान्तराभावप्रसङ्गात् ।
दृष्टान्ताभासानां हेत्वाभासेऽप्यन्तर्भावाद् दृष्टान्तस्यापि हेतावन्तर्भाव इष्टो भवति । तथा च न दृष्टान्तः पृथक्साधनावयवः स्याद्, अपृथग्वृत्तेः ।
यो दृष्टान्तसाध्योऽर्थस्तस्य हेतावन्तर्भावाद्धेतुनैव साधित इति न दृष्टान्तस्य पृथक् किञ्चित्सामर्थ्यम् ।
अपि च न किञ्चित् पूर्वपक्षवादिनो हेत्वाभासासंस्पर्शे न्याय्यं निग्रहस्थानमस्तीति तत्सम्भन्धीनि सर्वाण्येव हेत्वाभासतावचनेनैव उक्तानीति न पृथग्वाच्यानि स्युः ।
अर्थान्तरगमनादेरपि हेतोरशामर्थ्ये एव सम्भवात् । न हि समर्थे हेतौ साध्ये च सिद्धेऽर्थान्तरगमनं कञ्चिदारभते, असमर्थस्य मिथ्याप्रवृत्तेरिति ।
५९. [४] "पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः ।" [न्या. सू.५.२.५] यं प्रतिज्ञातमर्थम्ऽअनित्यः शब्दः एइन्द्रियकत्वाद्ऽ; इति सामान्यवृत्त्या हेतोर्व्यभिचारप्रदर्शनेन सः प्रतिषेधे कृते,ऽक एवमाह अनित्यः शब्दःऽ; इति परित्यजति, तस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानमिति ।
अत्रापि यद्युद्भावितेऽपि हेतोर्व्यभिचारे न सपक्षं [स्वपक्षं परित्यजति?[, किं न गृह्येत? अनिगृह त [?अनिगृहीत] एव हेत्वाभासाभिधानादिति चेत् ।
किमिदानीमुत्तरप्रतिज्ञासंन्यासापेक्षया तस्य तदेवाद्यं निग्रहस्थानमिति किमन्यैरशक्तपरिच्छेदैः क्लीबप्रलापप्रचेष्टितैरुपन्यस्तैः? एवं हि अतिप्रसङ्गः (Vन् ९५) स्यात् । पक्षप्रतिषेधे तूष्णीम्भवतस्तूष्णीम्भावो नाम निग्रहस्थानम्, प्रपलायमानस्य प्रपलायितं नामेति एवमाद्यपि वाच्यं स्यात् । तस्मादेतदपि असम्बद्धमिति ।
६०. [५.]ऽअविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् । "[न्य.सू.५.२.६.] निदर्शनम्ऽएकप्रकृतीदं व्यक्तं, परिमाणात्, मृत्पूर्वकाणां शरावप्रभृतीनं दृष्टं परिमाणम्ऽ; इति ।
अस्य व्यभिचारेण प्रत्यवस्थानम् नानाप्रकृतीनामेकप्रकृतीनां च दृष्टं परिमाणमिति ।
एवं प्रत्यवस्थित आह एकप्रकृतिसमन्वयप्रकाराणां परिणामदर्शनात् [परिमाणदर्शनात्?] सुखःदुःखमोहसमन्वितं हीदं सर्वं व्यक्तं परिगृह्यते [परिमितं गृह्यते?] । तस्य प्रकृत्यन्तररूपसमन्वयाभावोऽसति [? प्रकृत्यन्तररूपसमन्वयाभावे सति] एकप्रकृतिकत्वमिति तदविशेषोक्ते हेतौ प्रतिषेधं ब्रुवतो हेत्वन्तरं भवति । सति हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वान्निग्रहस्थानम् ।
अत्रापि पूर्वस्यैव हेतोरनैकान्तिकस्याभिधानान्निगृहीते हेत्वन्तरचिन्ता क्वोपयुज्यते? यदि प्राक्साधनवादी हेतुमनैकान्तिकमुक्त्वा दत्तोत्तरावसरः तेनैव निगृह्यते । अदत्तोत्तरावसरो हेत्वन्तराभिधानेऽपि न निग्रहमर्हति, अविरामात् ।
६१. [६.] "प्रकृतादर्थादप्रतिबद्धार्थमर्थान्तरम्" [न्या.सू. ५.२.७.] यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां कुर्यात् नित्यः शब्दोऽस्पर्शत्वादिति हेतुः । हेतुश्च नाम हिनोतेर्धातोस्तुशब्दे प्रत्यये कृदन्तं पदम् । पदं च नामाख्य्हातोपसर्गनिपाता इति प्रस्तुत्य नामादीनि व्याचष्टे । इदमर्थानन्तरं नाम निग्रहस्थानम्, अभ्युपगतार्थासङ्गतत्वादिति ।
न्याय्यमेतन्निग्रहस्थानं, पूर्वोत्तरपक्षवादिनोः प्रतिपादिते दोष प्रकृतं परित्यज्यासाधनाङ्गवचनमदोषोद्भावनं च । साधनवादिना ह्युपन्यस्तसाधनस्य समर्थने (Vन् ९८) कर्तव्ये तदकृत्वा परस्य प्रसङ्गेनाप्रसङ्गेन वातन्नान्तरीयकस्याभिधानमुत्तरवादिनोऽपि दोषोद्भावनमात्रादपरस्योपक्षेप इति ।
६२. [७.] "वर्णक्रमनिर्देशवन्निरर्थकम् । "[न्या. सू.५.२.८] यथाऽनित्यःशब्दो जबगडत्वात् झभघढवद्ऽ; इति । साधनानुपादानात् निगृह्यते इति ।
इदमप्यसम्बद्धम् । न हि वर्णक्रमनिर्देशसिद्धावानर्थक्यं यदेव किञ्चिदसाधनाङ्गस्य वचनं तदेवानर्थकं; साध्यसिद्ध्युपयोगिनोऽभिधेयस्याभावात्, निष्प्रयोजनत्वाच्वेति । प्रकारविशेषोपादानमसम्बद्धम् ।
वतेरुपादानाददोष इति चेत् । स्यादेतत् वर्णक्रमनिर्देशवदिति वतिरत्रोपात्तः सोऽन्यदापि [सोऽन्यदपि?] अननुरूपं गृण्हाति इत्यदोषः इति ।
न । अर्थान्तारादेर्निग्रहस्थानस्यावचनप्रसङ्गात् । एवं हि ता निरर्थका वाच्या निरर्थकेनैवाभिधानाहितम् [निरर्थकेनैवाभिधानात्?] ।
न साध्यसिद्धौ अनर्थकं निरर्थकं, यस्य नैव कश्चिदर्थस्तन्निरर्थकमिष्टमिति चेत् ।
यस्य कस्यचिदवादिनोऽपि हि निरर्थकाभिधाने किं न निग्रहः? निग्रहनिमित्ताविशेषात् । न; तस्येहाप्रस्तावादिति चेत् ।
आयातमिह यो निरर्थकं ब्रवीति, तस्य तेनैव निग्रह इति । तत्तुन्यं सर्वस्यासाधनाङ्गवादिन इति । स सर्वो निरर्थकाभिधानोऽप्यनेनैव निग्रहस्थानेन निग्रहार्हः ।
न च वर्णक्रमनिर्देशः सर्वत्र निरर्थकः; क्वचित्प्रकरणे तस्याप्यर्थवत्त्वात् । तस्मादत्रैवास्यानर्थक्यात् निग्रहस्थानत्वम् । अपि चान्यदिदमुच्यतेऽवर्णक्रमनिर्देशो निग्रहस्थानम्ऽ; इति; कपोलवादितकंक्ष्यघट्टितकमित्येवमादीनामपि वाच्यत्वात् ।
६३. [८.] "पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातार्थम् । "[न्य. सू. ५.२.९] यद्वाक्यं पर्षदा प्रतिवादिना च त्रिरभिहितं न विज्ञायते क्लिष्टशब्दमप्रतीत प्रयोगमतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थमसामर्थ्यसंवरणाय प्रयुक्तं निग्रहस्थानमिति ।
नेदं निरर्थकाद् भिद्यते; सपदिप्रकृतार्थसम्बद्धं गमकमेवकुर्यात्, नास्यासामर्थ्यं, न च जाड्यात् पर्षदादयो न प्रतिपद्यन्ते इति न विद्वान्निग्रहमर्हति ।
पर्षत्प्रतिभासपरिकल्प्यार्हवचनात् निग्रहार्ह एवेति चेत् । न्यायवादिनो जाड्यादुक्तमजानन् किं न प्रतिवादी निगृह्यते? जाड्यात् पर्षदादेः अविज्ञातप्रतिपादनसामर्थ्य इति विजेता न स्यान्न निग्रहार्हः । असम्बद्धाभिधाने निरर्थकमेवेति न पृथक् विवक्षितार्थं [विवक्षितम् अविज्ञातार्थं?] नाम निग्रहस्थानमिति ।
६४. [९.] "पौर्वापर्यायोगादप्रतिबद्धार्थमपार्थकम् ।" [न्या. सू. ५.२.१०] यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण योगो नास्तीत्यसम्बद्धार्थता गृह्यते, तत्समुदायार्थापायाद् अपार्थकं दशदाडिमादिवाक्यवत् । इदं किल पदानाम् असम्बद्धात् [असम्बन्धात्?] असम्बद्धवर्णात् निरर्थकात् पृथगुक्तम् ।
नन्वेवमसम्बद्धवाक्यमपि पृथग् वाच्यम्; नोभयसङ्ग्रहादपार्थकं युक्तम्; निरर्थकस्य संग्रहप्रसङ्गात् ।
एवंविधाच्च विशेषसमाश्रयात् पृथग् निग्रहस्थानलक्षणप्रलपनेऽतिप्रसङ्गोऽप्युक्तः । न च सङ्ग्रहनिर्देशे कञ्चिद्दोषं पश्यामः । प्रभेदे वा गुणान्तरमिति यत्किञ्चिदेतत् ।
६५. [१०] "अवयवविपर्यासवचनमप्राप्तकालम् ।" [न्या.सू. ५.२.११] प्रतिज्ञादीनां यथालक्षणमर्थवशात् क्रमः, तत्रावयवानां विपर्ययेणाभिधानं निग्रहस्थानम् ।
न; एवमपि सिद्धेरिति चेत् । न; प्रयोगापेतशब्दतुल्यत्वात् । यथा गौरित्यस्य पदस्यार्थे गोणीति प्रयुज्यमानं पदं ककुदादिमन्तमर्थं प्रतिपादयतीति न शब्दार्थाख्यानं व्यर्थम् । अनेन च पदेन गोशब्दमेव प्रतिपद्यते, गोशब्दत् (Vन् १०५) ककुदादिमन्तमर्थम्, तथा प्रतिज्ञाद्यवयवविपर्ययेणानुपूर्वीं प्रतिपद्यते, आनुपूर्व्या चार्थमिति । तथा हि पूर्वं कर्मोपादीयते मृत्पिण्डादिकं लोके, ततः करणम् इति ।
६६. तदेतदुन्मत्तकस्योन्मत्तकसंवर्णनमिव प्रयोगापेतशब्दवदेतदिति । यदि गोणीशब्दात् ककुदादिमत्यर्थे प्रतीतिशब्दान्वाख्यानप्रयत्नेन [? प्रतीतिः, शब्दान्वाख्यानप्रयत्ने न] अर्थं पश्यामः ।
गोणीशब्दस्यार्थप्रतिपादनेऽसामर्थ्यात् । सत्यं दृष्टा, न तु साक्षादित्युक्तम् ।
ननु गोणीशब्दादपि लोके प्रतीतिर्दृष्टा । सत्यं दृष्टा, न तु सक्षादित्युक्तम् ।
उक्तमेतन्न पुनर्युक्तं; स्त्रीशूद्राणामुभयप्रतीतेरभावात् । यः खलु उभयं वेत्ति, शब्दमपशब्दं च, स एव प्रतिपद्यते । यस्तु नक्कशब्दं मुक्कशब्दमेव वा वेत्ति, न नासाशब्दं, स कथमपशब्दाच्छब्दं प्रतिपदेतत्, ततोऽर्थं प्रतिपद्येत?
दृष्टा चानुभयवेदिनोऽपि प्रतीतिरिति ।
न परम्परया प्रतीतिः, अर्थेऽसमर्थस्य शब्दोऽपि प्रतीतिजननासामर्थ्याच्च ।
न ह्यर्थेऽपि वाचकत्वं नामान्यदेव, अन्यत्र तद्विषयप्रतीतिजननात् ।
अपशब्दश्चेच्छब्दे प्रतीतिं जनयेद्, अर्थ एव किं न जनयति? न ह्येतस्यार्थात् कञ्चिद् भेदं पश्यामः, येन तं परिहरेत् ।
अकृतसमयस्य शब्देऽप्यप्रतीतिजननाच्च ।
न ह्ययमपशब्दः शब्देऽपि स्वभावतः प्रतीतिं जनयति, अदर्शनात् समय एव तु जनयेत् । समयवशात् प्रवर्तते ।
एवं हि प्रतिपत्तिपरम्परापरिश्रमः परिहृतो भवति ।
६७. विपर्ययदर्शनाच्च । शब्दादर्थमप्रतिपद्यमाना अपशब्दैरेव ज्ञानं व्युत्पद्यमाना लोके दृस्यन्ते इति व्यर्थं शब्दानुशासनम् ।
न व्यर्थं, संस्कृतशब्दव्युत्पत्त्यर्थमिति चेत् । कोऽयं शब्दानां संस्कारः? न ह्येषां प्रज्ञाबाहुश्रुत्यादिकं संस्कारं पस्यामः ।
नाप्येषामेकान्तेन श्रव्यता । नाप्यर्थप्रत्यायने कश्चिदतिशयः ।
न धर्मसाधनता, मिथ्यावृत्तिचोदनेभ्यः संस्कृतेभ्योऽप्यधर्मोत्पत्तेः ।
अन्येभ्योऽपि विपर्ययेण धर्मोत्पत्तेः । शब्द्द्स्य सुप्रयोगादेव स्वर्गमोदनघोषणा वचनमात्रम् । न चैवंविधानागमानाद्रियन्ते युक्तिज्ञाः ।
न च दानादिधर्मसाधनचोदनाशून्यकेवलशब्दसुप्रयोगात् नगपातम् इति ब्रुवाणस्य कस्यचिन्मुखं वक्री भवति । तस्मान्न संस्कृतो नाम कश्चिच्छब्दः ।
शिष्टप्रयोगः संस्कार इति चेत् । के शिष्टाः? ये विदितवेद्यादिगुणयुक्ताः । कः पुनरेषां गुणोत्कर्षानपेक्षोऽलीकनिर्बन्धो यत्तेऽमूनेव शब्दान् प्रयुञ्जते नापरान्? न चात्र कश्चिच्छब्देऽपरोक्षः साक्षी, यत इदमेव प्रयुञ्जते नापरान् शिष्टा इति निश्चिनुमः ।
नन्वेवं [न त्वेवं?] वयं गुणातिशयमपस्यन्तः संस्कारं केषाञ्चिच्छब्दानामनुमन्यामहे, तदन्वाख्यानं [तदन्वाख्याने?] यत्नं वा; गुणातिशयाभावात् । वेदरक्षादिकं चाप्रयोजनमेव अतत्समयस्थायिनः । सत्यपि गुणातिशये न करणीय एवान्वाख्याने यत्नः, तत्स्वभावस्यान्यतोऽपि सिद्धेः । प्राकृतापभ्रंशद्रमिडान्ध्रादिभाषावत् । न हि प्रतिदेशं भाषाणां किञ्चिल्लक्षणमस्ति । अथ च सम्प्रदायसाम्याल्लोकस्तथैव प्रतिपद्यते, तासां च प्रयोगभ्रंशं, तथा संस्कृतानां शब्दानां प्रतीतिर्भविष्यति । इति जडप्रतिपत्तिरेवैषा, या शब्दानां लक्षणे प्रवृत्तिः ।
६८. अवयवविपर्ययेऽपि यदि तेषां वचनानां सम्बन्धप्रतीतिः, न विपर्ययः नापि अर्थाप्रतीतिः; सामर्थ्यात् । न ह्यत्र कश्चित् समयः प्रत्यायानाविशेषेऽपि एवमेव अवयवाः प्रयोक्तव्या इति ।
स एव तेषां क्रमो यथावस्तितेभ्योऽर्थप्रतीतिर्भवति । इति न विपर्ययात् प्रतीतिः, तत आनुपूर्वीप्रतिपत्त्या प्रतीतिरिति चेत् । नाप्रतीयमानसम्बन्धेभ्यः आनुपूर्वीप्रतिपत्तिः ।
येषां शब्दानां कश्चित् सम्बन्धो जायते [ज्ञायते?]ऽइदमिह सम्बध्यतेऽ; इति, तेषु विदितसम्बन्धेषु कः कस्य पूर्वोऽपरो वा क्रमः, यो यथावस्थितानां सम्बन्धः प्रतीयते । न हि वाक्येषु पदानां क्रमनियमः कश्चित्, यथा राज्ञः पुरुषः, पुरुषो रज्ञ इति ।
यावद्भिः पदैरर्थपरिसमाप्तिस्तदेकं वाक्यं, यथाऽदेवदत्त गामानय कृष्णाम्ऽ; इति । अत्र पदानां यथाकामं प्रयोगेऽपि नार्थप्रतीतौ विशेष इति कश्चित् क्रमाभिनिवेशः ।
प्रतिपादितं च प्रतिज्ञावचनान्तरेणापि यथा प्रतीतिर्भविष्यतीति । प्रतीयमानार्थस्य शब्दस्य प्रयोगेऽतिप्रसङ्गः । परिशिष्टेषु च सम्बन्धं प्रदर्श्य धर्मिणि भावः प्रदर्श्येत, धर्मिणि भावं प्रदर्श्य सम्बन्धः प्रदर्श्येत इति न नियमः कश्चिद्; उभयथापि प्रतीत्युत्पत्तेः इत्युक्तम् । अप्रतीयमानसम्बन्धेषु च पदेषु न तेभ्य आनुपूर्व्या अपि प्रतीतेरिति नेदमपार्थकाद् भिद्यते इति नाप्राप्तकालं पृथग् वाच्यं स्यादिति ।
६९. [११.] "हीनमन्यतमेनाप्यवयवेन न्यूनम् ।" [न्या.सू. ५.२.१२.] यस्मिन् वाक्ये प्रतिज्ञादीनामन्यतमोऽवयवो न भवति, तद्वाक्यं हीनं; साधनाभावे साध्यासिद्धेः ।
न प्रतिज्ञान्यूनं हीनं; तदभावे प्रतीतिभावादिति प्रतिपादितम् ।
हीनमेव तत्; न्यूनतायामपि निग्रहादित्यपरः ।
यः प्रतीयमानार्थमनर्थकं शब्दं प्रयुङ्क्ते, स निग्रहमर्हेत्, नार्थोपसंहितस्याभिधातेति असमीक्षिताभिदानमेतत् । अत एव प्रतिज्ञाया न साधनाङ्गभाव इति ।
७०. [१२] "हेतूदाहरणाधिकमधिकम् ।" [न्या.सू.५.२.१३.] एकेन कृतकत्वाद् इतरस्य आनर्थक्यमिति तदेतन्नियमाभ्युपगमे वेदितव्यम् । यत्रैकसाधनवाक्यप्रयोगपूर्वको विचारस्तत्राधिकाभिधानमनर्थकमिति निग्रहस्थानम् ।
प्रपञ्चकथायां तु न कश्चिदोषः, नियमाभावादिति ।
७१. [१३.] "शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।" [न्या.सू. ५.२.१४] शब्दपुनरुक्तम् अनित्यः शब्दोऽनित्यः शब्द इति । अर्थपुनरुक्तम् अनित्यः शब्दो निरोधधर्मको ध्वान इति ।
अत्र न शब्दपुनरुक्तं पृथग्वाच्यम्: अर्थपुनरुक्तवचनेनैव गतत्वात् । न ह्यर्थभेदे शब्दसाम्येऽपि कश्चिद् दोषः । यथा
हसति हसति स्वामिन्युच्चै रुदत्यभिरोदिति ।
कृतिपरिकरं स्वेदोऽङ्गारं [स्वेदोद्गारं?] पूर्धावति [प्रधावति?] धावति ॥
गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति ।
धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥
यथा वा यद्यस्मिन् सति भवति भवति, न भवति न भवति तत्तस्य कार्यमितरत् कारणमिति ।
७२. गम्यमानार्थं पुनर्वचनमपि पुनरुक्तम्; नियतप्रदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति अर्थपुनरुक्तेनैव गतार्थत्वान्न पृथग्वाच्यम् ।
अयमपि नियतसाधनवाक्ये एव दोषो वक्तव्यः; न विस्तरकथायाम् । व्याचक्षाणो हि कदाचिदसम्यक् श्रवणप्रतिपत्तिशङ्कया साक्षिप्रभृतीनां पुनः पुनर्ब्रूयादिति न तत्र किञ्चिच्छलम् ।
नाविषयत्वादिति चेत्; नायं गुरुर्न शिष्य इति न यत्नतः प्रतिपादनीयः, येन पुनः पुनरुच्यते, इति पुनर्वचने निग्रह एवेति चेत् । न; साक्षिणां यत्नेन प्रतिपाद्यत्वात्, तद्प्रतिपादने दोषाभिधानात्, प्रतिपाद्यस्य शिष्यत्वात्, विजिगीशुवादप्रतिषेधत्वात्, त्रिरभिधानवचनात्, पुनर्वचनप्रसङ्गे समयनियमाभावाच्च ।
७३. न चेदमधिकाद् भिद्यते इति न पृथग्वाच्यम् । विनियतप्रदप्रयोगे हि साधनवाक्ये आधिक्यदोष इति पुनर्वचनेऽपि गतार्थस्याधिक्यमेव पदस्येति ।
प्रपञ्चकथायाम् अनिरूपितै कार्थसाधनाधिकरणायां नानार्थसाधनेप्सायां नानासाधनेप्सायां वा श्रोतुः हेत्वादि बाहुल्यस्य पुनर्वचनस्य दोषत्वात् । प्रतीतप्रत्ययाभावाद् हेत्वादिबाहुल्यं वचनबाहुल्यं च साधनदोष इति ।
आधिक्यपुनर्वचनयोस्तुल्यदोष इति संग्रहवचनं न्याय्यम्; दोषाभावादेव गुणाभावात्, एवम्प्रकाराणां भेदानां वचने चातिप्रसङ्गादित्युक्तम् ।
पर्यायशब्दकल्पो ह्यपरो हेतुः प्रतिपादिते विषये प्रवर्तमानःऽ; प्रतिपाद्यस्य विशेषाभावात् ।
अर्थः पुनः प्रतिपादनान्न भिद्यते ।
७४. यत्पुनरुक्तम् "अनुवादे त्वपुनरुक्तं; शब्दाभ्यासादर्थविशेषोपपत्तेः" । यथा "हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्" [न्य. सू. १.१.३९] इति । प्रतिज्ञाया एवं [एव?] गम्यमानार्थाया वचनं पुनर्वचनं. किं पुनरस्याः पुनर्वचनम् इत्युयुक्तं निगमनम् । ७५. [१४.] "विज्ञातस्य पर्षदा त्रिरभिहितस्याप्रत्युच्चारणमननुभाषणम् ।" [न्या.सू. ५.२.१७] विज्ञातवाक्यार्थस्य पर्षदा त्रिरभिहितस्य यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानमप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेध कुर्यादिति ।
उत्तरेणावसानान्नेदं निग्रहस्थानमिति चेत् । स्यादेतत् । उत्तरेण गुणदोषवता मूढामूढत्वं गम्यते इति किमुच्चारितेन? अस्ति हि कश्चिद् उत्तरेण समर्थो न प्रत्युच्चारणेन, नासौ तावता निग्रहमर्हेदिति । न: उत्तरविषयापरिज्ञानात् । यद्ययं न प्रत्युच्चारयति, निर्विषयमुत्तरं प्रसज्येत । अथोत्तरं ब्रवीति, कथं नोच्चारयति? तदिदं व्याहतमुच्यतेऽनोच्चारयति, उत्तरं च ब्रवीतिऽ; इति । अप्रतिज्ञानाच्च । न चेदं न [? न चेदं] परिज्ञायते पूर्वं सर्वमुच्चारयितव्यं पश्चादुत्तरमभिधातव्यमिति । अपितु यथाकथञ्चिदुत्तरं वाच्यम् उत्तरं चाश्रयाभावेऽयुक्तमिति युक्तमप्रत्युच्चारणं निग्रहस्थानमिति ।
७६. यदि नाम वादी स्वस् आधनार्थविवरणव्याजेन प्रसङ्गादपरं घोषयेद्, विवादास्पदं च जिज्ञासितमर्थमात्रमुक्त्त्वा प्रतिज्ञादिष्वर्थविशेषपरम्परया अपरानर्थानुपक्षिप्य कथां विस्तारयेत्, तच्च सर्वं यदा नानुवक्तुं शक्नुयात्, कस्तस्य विवादाश्रयार्थमात्रोत्तरवचने सामर्थ्यविघातः येन वादिवचनानुभाषणं निग्रहस्थानमुच्यते । तस्मान्न सर्वं वादिकथामननुभाषमाणो नोत्तरे समर्थः ।
यद्वचनान्तरीयका जिज्ञासितार्थसिद्धिः, यथा पक्षधर्मताव्याप्तिप्रसाधनमात्रं, न तत्रापि प्रसङ्गान्तरोपक्षेपः, तदवश्यं साधनाङ्गविषयत्वाद् दूषणस्य उपदर्श्यत एव । तत्रापि न सर्वं प्रागनुक्रमेणोच्चारयितव्यं, पश्चाद् दूषणं वाच्यं; द्विरुच्चारणप्रसङ्गात् । दूषणविषयोपदर्शनार्थेऽनुभाषणे वादिवचनानुक्रमघोषणं व्यर्थमिति न कार्यमेव दूषयता ।ऽअस्यायं दोषोःऽ; इति नान्तरीयत्वात् प्रतिदोषवचनं विषयोपदर्शनं क्रियते एव ।
७७. न हि सर्वविषयोपदर्शनं कृत्वा युगपद् दोषः शक्यतेऽभिधातुम्; प्रत्यर्थं दोषभेदात् । तस्माद् यं पदार्थं दूषयति, स एव तद्दूषणविषयस्तदा प्रदर्शनीयः । (Vन् १२४) नापरस्तुः; दूष्णेऽपरोपदर्शनस्यासम्भवात् । तस्मिन् दूषिते पुनरन्योऽर्थोऽपरदोषविषय इत्ययमनुभाषणे दूषणे च न्यायः ।
सकृत् सर्वानुभाषणेऽपि दोषवचनकाले पुनर्विषयः प्रदर्शनीय एव; अप्रदर्शिते दोषस्य वक्तुमशक्यत्वात् । तथा च द्विरनुभाषणं कृतं स्यात् । तत्र प्रथमं सर्वानुक्रमानुभाषणं निष्प्रयोजनम् । दूषणवादिना दूषणे वक्तव्ये यन्न तत्रोपयुज्यते तस्याभिदानमदोषोद्भावनम् । द्विरुक्तिश्च । इति सकृत् सर्वानुभाषणं पराजयाधिकरणं वाच्यम् ।
तथास्त्विति चेत् । स्यादेतत् । उक्तमेतदर्थान्तरं निग्रहस्थानमिति । तत्र साधने यतः कुतश्चित् प्रसङ्गादिना नान्तरीयकाभिधान । [ऽनान्तरीयकाभिधानं?] वादिनोऽर्थान्तरगमनमेवेति स निग्रहार्हः । न कश्चित् क्वचित् क्रियमाणप्रसङ्गो न प्रयुज्यते, नापि तत् तस्यानुभाषणीयम् । न चेदमप्यस्माभिरनुज्ञायते सर्वं प्राक् सकृद्वक्तव्यं, पश्चाद्दूषणमिति । किन्तु दूषयतावश्यं विषयो दर्शनीयः, अन्यथा दूषणावृत्तेरिति ।
७८. एवं तर्हि नाननुभाषणं पृथग् निग्रहस्थानं वाच्यम्, अप्रतिभया गतत्वात् । उत्तरस्य ह्यप्रतिपत्तिरप्रतिभा [न्या.सू. ५.२.१८] । न चोत्तरविषयमप्रदर्शयन् उत्तरं प्रतिपत्तुं सरर्थः । न ह्यनाक्षिप्तानुत्तरप्रतिपत्तिकमननुभाषणम् । तेनाननुभाषणस्य व्यापिकायामप्रतिभायां विहितं निग्रहस्थानत्वम् अननुभाषणम् [अननुभाषणे?] । गव्यपरामृष्टतद्भेदायां विहितमिव सास्नादिमत्त्वं बाहुलेयेऽपि । तस्माद्प्रतिभैव निग्रहाधिकरणत्वेन वा [वाच्या?] नाननुभाषणम् ।
कश्चायंसमयनियमस्त्रिरभिहितस्याननुभाषणमिति? यदि तावत् परप्रत्यायनार्था प्रवृत्तिः, किं त्रिरभिधीयेत? तथा तथा स ग्राहणीयो यथास्य प्रतिपत्तिर्भवति । अथ परोपतापनार्था तदापि किं त्रिरभिधीयते? साक्षिणां कर्णे निवेद्य प्रतिवादी कष्टाप्रतीतद्रुतसंक्षिसादिभिरुपद्रोतव्यः, यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवति । न हि परोपतापनक्रमे कश्चिन्न्यायः, येन कष्टाप्रतीतप्रयोगद्रुतोच्चारिता निवार्यन्ते, त्रिरभिधानं वा विधीयते । न च परोपतापाय सन्तः प्रवर्तन्ते, शास्त्राणि वा प्रणीयन्ते इत्यदो वक्त्तव्यम् ! तस्मात्तावद्वक्तव्यं, यावदनेन न गृहीतम् । न त्रिरेव ।
अग्रहणसामर्थ्ये प्रागेव वा परिच्छिन्नसामर्थ्ये परिहर्तव्यः पुनरनुप्रतिबोध्येति ।
७९. [१५.] "अविज्ञातमज्ञानम् ।" [न्या.सू. ५.२.१७] विज्ञातं पर्षदा प्रतिवादिना यदविज्ञातं तदज्ञानं नाम निग्रहस्थानम् । अर्थे खल्वविज्ञाते न तस्य प्रतिषेधं ब्रूयादिति ।
एतदप्यननुभाषणवदत्रेति तत्रैव गम्यत्वादवाच्यम् । यथाननुभाषणेऽप्रदर्शितविषयत्वादुत्तरप्रतिपत्तिरशक्येति अनुत्तरप्रतिपत्त्यैव निग्रहस्थानत्वम्; उत्तरविषयप्रदर्शनप्रसङ्गमन्तरेणानुभाषणस्य वैयर्थ्यात् ।
तथाज्ञानेऽप्युत्तराप्रतिपत्त्यैव निग्रहस्थानत्वम् । अजानानः कथमुत्तरम् उत्तरविषयं च ब्रूयात्? इति विषयाज्ञानमुत्तराज्ञानं च निग्रहस्थानम् । अन्यथा एवं सति अप्रतिभया [? अप्रतिभाया] निर्विषयत्वात् ।
अनवधारितार्थो हि नानुभाषते, अननुभाषमाणो विषयमुपदर्श्योत्तरं प्रतिपत्तुं न शक्नुयादित्युत्तरं न प्रतिपद्येत; ज्ञातोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसम्भवात् । उभयमेतदुत्तराप्रतिपत्तेः कारणमिति ।
तदभावे प्रतिपत्तिर्भवत्येवेति तयोः पृथग्वचनेऽप्रतिभायाः को विषय इति वक्तव्यम् ! निर्विषयत्वादवाच्यैव स्यात् ।
८०. नोत्तरज्ञानम् [? नोत्तराज्ञानम्] अज्ञानम् । किं तर्हि? विषयाज्ञानम् । ज्ञाते हि विषये उत्तराज्ञानात् तन्न प्रतिपद्येतेति अस्ति विषयोऽप्रतिभाया इति चेत् । एवं तर्हि अननुभाषणं निर्विषयम्; अज्ञानेनाक्षेपात् । न हि विषयं सम्यक् प्रतिपद्यमानः कश्चिन्नानुभाषेतेति नाननुभाषणं पृथग् वाच्यम् ।
उत्तराज्ञानस्य चाक्षेपात् । विषयाज्ञानेनोत्तराज्ञानमप्याक्षिप्तमेव न हि विषयमजानन्नुत्तरं जानातीति नैवाप्रतिभाया विषयोऽस्ति ।
ज्ञातेऽपि विषये पुनरुत्तराज्ञानमप्रतिभाया विषय इति चेत् । एवं तर्हि विषयोत्तराज्ञानयोरपि प्रभेदात् निग्रहस्थानान्तरालवाच्यानि [निग्रहस्थानान्तराणि वाच्यानि?] । यथाज्ञानस्य विषयो ज्ञानम् [? विषयाज्ञानम्] उत्तराज्ञानमिति प्रभेदादसत्यपि गुणातिशये निग्रहस्थानान्तरव्यवस्था क्रियते, तथाज्ञानयोरपि सर्वोत्तराज्ञानमित्यादि प्रभेदान्निग्रहस्थानान्तराणि किं नोच्यन्ते? न चोभयस्याप्यज्ञानस्य (Vन् १३०) संग्रहवचने दोषः, गुणस्तु लाघवसंज्ञः स्यादिति संग्रहवचनं न्याय्यम् । तस्मादननुभाषणाज्ञानयोरप्रतिभाविषयत्वान्न पृथग्वचनम् ।
अपि च न पूर्वोत्तरपक्षवादिनो हेत्वाभासाप्रतिभाभ्यामन्यत् निग्रहस्थानं न्याय्यमस्ति, तदुभयवचनेनैव सर्वमुक्तमिति । तदुभयाक्षिसेषु प्रभेदेषु गुणातिशयमन्तरेण वचनादरेऽतिप्रसङ्गात् व्यर्थः प्रपञ्च इति ।
८१. [१६.] "उत्तरस्याप्रतिपत्तिरप्रतिभा ।" [न्या.सू. ५.२.१८] परपक्षप्रतिषेधे उत्तरं यदा न प्रतिपद्यते, तदा निगृहीतो वक्तव्यः ।
साधनवचनानन्तरं प्रतिविषयमुत्तरे व्यर्थं तदज्ञानक्रमघोषणश्लोकपाठादिना कालं गमयन् कर्तव्याप्रतिपत्त्या निग्रहार्ह इति न्याय्यं निग्रहस्थानमिति ।
८२. [१७.] "कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ।" [न्या. सू. ५.२.२०] यत्किञ्चित् कर्तव्यं व्यासज्य कथां विच्छिनत्ति ।ऽइदं मे करणीयं प्रहीयते, अस्मिन्नवसिते पश्चात् करिष्यामि । प्रतिश्याकलामे कण्ठं क्षिणोतिऽ; इत्येवमादिना कथां विच्छिनत्ति । स विक्षेपो नाम निग्रहस्थानमेकतरनिग्रहान्तायां कथायां स्वयमेव कथान्तं प्रतिपद्यते इति ।
इदमपि यदि पूर्वपक्षवादी कुर्याद् व्याजोपक्षेपमात्रेण, न पुनर्भूतस्य तथाविधकथोपरोधिनः कर्यस्य भावे, तस्य स्वसाधनासामर्थ्यपरिच्छेदादेव विक्षेपः स्यात् । तथा चेदमर्थान्तरगमने एवान्तर्भवेत्; असमर्थसाधनाभिधानात् (Vन् १३३) हेत्वाभासेषु वा । प्रकृतसाधनासम्बद्धप्रतिपत्तेश्च निरर्थकापार्थकाभ्यां च न भिद्यते । अतिप्रसङ्गश्चैवम्प्रकाराणामसम्बद्धसाधनवाक्यप्रतिपत्तिभेदानां पृथग् निग्रहस्थानव्यवस्थापने प्रोक्तः ।
अथोत्तरवादी एवं विक्षिपेत्, साधनानन्तरम् उत्तरे प्रतिपत्तव्ये तदप्रतिपत्त्या विक्षेपप्रतिपत्तिरप्रतिभायामर्थान्तरे वान्तर्भवति ।
८३. ननु नावश्यं साधनदूषणाभ्यामेव सर्वस्य प्रतिपत्तिः, येन सर्वा वादिप्रतिवादिनोर्न सम्यक् प्रतिपत्तेर्हेत्वाभासेऽर्थे प्रतिभायां वान्तर्भवात् । भवति हि अनिबद्धेनापि कथाप्रपञ्चेन विवाद इति । न; असम्भवात् । एकत्राधिकरणे विरुद्धाभ्युपगमयोर्विवादः स्यात्; अविरुद्धाभ्युपगमयोरनभ्युपगमयोर्वा विरोधाभावात् । तत्रावश्यमेकस्य वाग्वचनप्रवृत्तिः; युगपत्प्रवृत्तौ परस्परवचनग्रहणावधारणोत्तराणामसम्भवेन प्रवृत्तिवैफल्यात् स्वस्थात्मनामप्रवृत्तेः । तेन च स्वोपगमोपन्यासेऽवश्यं साधनं वक्तव्यं; अन्यथा परेषामप्रत्तिपत्तेः । अपरेण च तत्सम्बन्धि दूषणम् । उभयोरसम्यक्प्रतिपत्तौ हेत्वाभासाप्रतिभयोः प्रसङ्ग इति सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासो द्वयं नातिपतति ।
एतेनैव वितण्डा प्रत्युक्ता; अभ्युपगमाभावे विवादाभावात् ।
८४. यदा तर्ह्यभ्युपगम्य वादं विफलतया न किञ्चिद् वक्ति, अन्यद्वा यत्किञ्चित् प्रलपति, तदा कथं हेत्वाभासान्तर्भावः?
असमर्थितसाधनाभिधाने एवमुक्तम् । अनभिधानान्याभिधानयोरपि पराजय एवेत्युक्तम्; अभ्युपगम्य वादमसाधनाङ्गवचनात् ।
एतेनाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेर्वचनस्य न निग्रहस्थानत्वं व्याख्यातम् । तदपि हि प्रतिपादितार्थविपर्ययत्वात्साधनसामर्थ्यविधानमप्रतीतप्रत्ययतया न लक्षणात् साधनस्य । असाधनाङ्गवचनमिति निग्रहस्थानमिति ।
८५ [१८.] : "स्वपक्षदोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ।" [न्या. सू. ५.२.२१] यः परेण चोदितं दोषमनुद्धृत्य भवतोऽप्ययं दोष इति ब्रवीति, यथाऽभवांश्चौरः पुरुषत्वात्ऽ; इत्युक्ते स तं प्रति ब्रूयाद् भवानपीति । स स्वपक्षे दोषाभ्युपगमात् परपक्षे तं दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञा निग्रहस्थानमिति ।
अत्रापि यदि पुरुषत्वाच्चौरो भवानपि स्यात्, न च भवतात्मैवमिष्टः, तस्मान्नायं चौर्यहेतुरिति यद्ययमभिप्रायः, तदा न कश्चिद्दोषः, अनभिमते तदात्मनि चौरत्वेन हेतुदर्शने दूषणात् ।
प्रसङ्गमन्तरेणैवमृजुनैव क्रमेण किं न व्यभिचारित इति चेत् । यत्किञ्चिदेतत् । सन्ति ह्येवम्प्रकारा अपि व्यवहारा लोक इति ।
अथ तदुपक्षेपमभ्युपगच्छति, एतदपि उत्तराप्रतिपत्त्यैव तत्साधने निग्रहार्हः । नापरत्र; स्वदोषोपक्षेपात् । तत्साधननिर्दोषतायां हि तदभ्युपगम एवोत्तराप्रतिपत्तिरिति तावतैव पूर्वमापन्ननिग्रहस्य परदोषोपक्षेपस्यानपेक्षणीयत्वादिति ।
८६. [१९.] "निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपक्षणम् ।" [न्या.सू. ५.२.२२]पर्यनुयोज्यो गाम निग्रहोपपत्त्या चोदनीयः । तस्योपेक्षणं निग्रहप्राप्तौ सत्यननुयोगः । एतच्चऽकस्य पराजयःऽ; इत्यनुयुक्तया पर्षदा वक्तव्यं, न खलु निग्रहप्राप्तः स्वकौपीनं विवृणुयादिति ।
अत्रापि यदि साधनवादिनं निग्रहप्राप्तमुत्तरवादी न पर्यनुयुङ्क्ते, अप्रति भैवास्योत्तराप्रतिपत्तेरिति न पर्यनुयोज्योपेक्षणं पृथग् निग्रहस्थानम् । न्यायचिन्तायां पुनर्न द्वयोरेकस्याप्यत्र जयपरजाजयौ; साधनाभासेनार्थाप्रतिपादनात्, भूतदोषानभिधानाच्च ।
८७. अथ कञ्चिद्दोषमुद्भावयति, कञ्चिन्न, न तदा निग्रहमर्हति; उत्तरप्रतिपत्तेः ।
अर्हत्येव, सतो दोषस्यानुद्भावनादिति चेत् । न सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्याः ।
अवचने वा निग्रहः; एकेनापि तत्साधनविघातादेकसाधनवचनवत् ।
यथैकस्यार्थस्यानेकसाधनसद्भावेऽप्येकेनैव साधनेन तत्सिद्धेर्न सर्वोपादानम् इति न दोषमुद्भावयन्नेवापरस्यानुद्भावनान्निग्रहार्हः पूर्ववत् ।
अथ पूर्वपक्षवादी उत्तरपक्षवादिनं निग्रहप्राप्तं न निगृण्हाति, तदा तयोर्न्याये नैकस्यापि पूर्ववत् जयपराजयौ; दोषाभासं ब्रुवाणमुत्तरवादिनं स्वसाधनादनुत्सारयतोऽसमर्थितसाधनत्वान्न जयो वादिनः; सर्वदोषासम्भवप्रदर्शनेन साधनाङ्गासमर्थनात् । नाप्युत्तरवादिनः, उभयदोषाप्रतिपादनात् ।
तस्मादेवमपि न पर्यनुयोज्योपेक्षणं नाम पराजयाधिकरणमिति ।
८८. [२०.] "अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः ।" [न्या. सू. ५.२.२३] निग्रहस्थानलक्षणस्य मिथ्याव्यवसायादनिग्रहस्थाने निगृहीतोऽसीति परं ब्रुवन् निरनुयोज्यानुयोगान्निगृहीतो वक्तव्यः ।
अत्रापि यदि तत्साधनवादिनमभूतैस्तद्दोषैरुत्तरवाद्यभियुञ्जीत, सोऽस्थाने निर्दोषे निग्रहस्थानस्य नियोक्तोद्भावयिता न भवति तथा । भूतदोषोद्भावनलक्षणस्योत्तरस्या प्रतिपत्तेरितरेणोत्तराभासत्वे प्रतिपादितेऽप्रतिभयैव निगृहीत इति नेदमतो निग्रहस्थानान्तरम् ।
अथोत्तरवादिनं साधनदोषमुद्भावयन्तमपरो दोषाभासवचनेनाभियुञ्जीत, तस्य तेन भूतदोषत्वे प्रतिपादिते साधनाभासवचनेनैव निगृहीत इति ।
एवमपि नेदं हेत्वाभासेभ्यो भिद्यते । अवश्यं हि विषयान्तरप्राप्त्यर्थं हेत्वाभासा निग्रहस्थानत्वेन वक्तव्याः, तदुक्तावपरोक्तिरनर्थिकेति ।
८९. [२१.] "सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः ।" [न्या. सू. ५.२.२४] कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात् कथाप्रसङ्गं कुर्वतोऽपसिद्धान्तो विज्ञेयः । तथाऽन सतो विनाशः, नासदुत्पद्यतेऽ; इति सिद्धान्तमभ्युपेत्य पक्षमवस्थापयतिऽएकान्ता प्रकृतिः व्यक्तस्य अव्यक्तलक्षणा; विकाराणाम् अन्वयदर्शनात् । मृदन्वयानां शरावादीनां दृष्टमेकप्रकृतिकत्वम् । तथा चायं व्यक्तभेदः सुखदुःखमोहसमन्वितो गृह्यते, तत्सुखादिभिरेकप्रकृतिःऽ; इति ।
स एवमुक्तवान् पर्यनुयुज्यते अथ प्रकृतिर्विकार इति कथं लक्षयितव्यम्? यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः, यत् तद् धर्मान्तरं स विकार इति । सोऽयं प्रकृतार्थविपर्ययादनियमात् कथां प्रसञ्जयति । प्रतिज्ञातं चानेनऽनासदाविर्भवति, न सत् तिरोभवतिऽ; इति ।
९०. सदसतोश्च तिरोभावाविर्भावावन्तरण न कस्यचित् प्रवृत्त्युपरमः, प्रवृत्तिर्वा इत्येवं प्रत्यवस्थिते यदि स सत आत्महानमसतश्चात्मलाभमभ्युपैति, अपसिद्धान्तो भवति । अथ नाभ्युपैति, पक्षोऽस्य न सिध्यतीति ।
इतोऽपि न कश्चिदनियमात् कथाप्रसङ्गो यत्तेनोपगतं नासदुत्पद्यते न सद्विनश्यतिऽ; इति तस्य समर्थनायेदमुक्तम्ऽएकप्रकृतिकमिदं व्यक्तमन्वयदर्शनाद्ऽ; इति । तत्रैका प्रकृतिः सुखदुःखमोहास्तदविभक्तयोनिकम् इदं व्यक्तं, तदन्वयदर्शनात् । व्यक्तस्य तत्स्वभावताभेदोपलब्धेरिति ।
सुखादीनामुत्पत्तिविनाशाभ्युपगमाभावात् सर्वस्य तदात्मकस्य नोत्पत्ति विनाशाविति सिद्धं भवति ।
९१. अत्र तदुक्तस्य हेतोर्दोषमनुद्भाव्य विकारप्रकृतिलक्षणं पृच्छन् स्वयमयं प्रकृतासम्बन्धेन अनियमात् कथां प्रवर्तयति । तत्रेदं स्याद् वाच्यं व्यक्तं नाम प्रवृत्तिनिवृत्तिधर्मकं, न तथा सुखादयः, व्यक्तस्य सुखाद्यन्वये सुखादिस्वभावता प्रवृत्तिनिवृत्तिधर्मतालक्षणमवहीयत इति । न तद्रहितसुखादिस्वभावता, व्यक्तलक्षणविरोधादिति, सुखाद्यन्वयदर्शनादित्यसिद्धो हेतुरिति ।
एवं हि तस्य साधनदोषोद्भावनेन पक्षो दूषितो भवति । सोऽनुपसंहृत्य साधनदोषं, कथां प्रतानयन् स्वदोषं परत्रोपक्षिपति ।
अयमेव दोषोऽनेन प्रकारेणोच्यते इति चेत् ।
एष नैमित्तिकानां विषयः, न लोकः शब्दैरप्रतिपादितमर्थं प्रतिपत्तुं समर्थ इति, स एवायं भण्डालेख्यन्यायोऽत्रापि ।
यथोक्तेन न्यायेन पूर्वकस्यासाधनाङ्गस्यासिद्धस्य हेतोरभिधानादेव निग्रहः, नापि नियमात् [अनियमात्?] कथाप्रसङ्गात् इति इदमपि हेत्वाभासेष्वन्तर्भावात् न पृथग्वाच्यम् ।
९२. [२२.] "हेत्वाभासाश्चयथोक्ताः ।" [न्या.सू. ५.२.२५] हेत्वाभासाश्च नित्रहस्थानानि । किं पुनर्लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वमापद्यन्ते, यथा प्रमाणानि प्रमेयत्वम्? इत्यत आह यथोक्तहेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति ।
अत्रापि यथोक्तत्वाच्चिन्त्येमेव किं ते यथा लक्षितप्रभेदास्तथैव, आहोस्विदन्यथैवेति? तत्तु चिन्त्यमानमिहातिप्रसज्यते इति न प्रतन्यते । हेत्वाभासाश्च यथान्यायं निग्रहस्थानमिति, एतावन्मात्रमिष्टमिति ।
९३. लोकेऽविद्यातिमिरपटलोल्लेखनस्तत्त्वदृष्टेर्
वादन्यायः परहितरतैरेष सद्भिः प्रणीतः ।
तत्त्वालोकं तिमिरयति तं दुर्विदग्धो जनोऽयं,
तस्माद्यत्नः कृत इह मया तत्समुज्ज्वालनाय ॥
वादन्यायो नाम प्रकरणं समाप्तम् । [कृतिरियमाचार्यधर्मकीर्तिचरणानाम्]

स्रोतः[सम्पाद्यताम्]

इदमपि पश्यतु[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वादन्यायः&oldid=396770" इत्यस्माद् प्रतिप्राप्तम्