वातुलनाथ-सूत्राणि

विकिस्रोतः तः
वातुलनाथ-सूत्राणि
[[लेखकः :|]]



महासाहसवृत्त्य स्वरूपलाभः ॥१॥

तल्लाभाद्युगपद्वृत्तिप्रवृत्तिः ॥२॥

तल्लाभाच्छुरिता युगपद्वृत्तिप्रवृत्तिः ॥२॥

उभयपट्टोद्ध्वट्टनान्महाशून्यताप्रवेशः ॥३॥

युग्मग्रासान्निरवकाशसंविन्निष्ठा ॥४॥

सिद्धयोगिनीसंघट्टान्महामेलापोदयः ॥५॥

त्रिकञ्चुकपरित्यागान्निराख्यपदावस्थितिः ॥६॥

वाक्चतुष्टयोदयविरामप्रथासु स्वरः प्रथते ॥७॥

रसत्रितयास्वादनेनानिच्छोच्छलितं विगतबन्धं परं ब्रह्म ॥८॥

देवीचतुष्टयोल्लासेन सदैव स्वविश्रान्त्यवस्थितिः ॥९॥

द्वादशवाहोदयेन महामरीचिविकासः ॥१०॥

चर्यापञ्चकोदये निस्तरङ्गसमावेशः ॥११॥

महाबोधसमावेशात्पुण्यपापासंबन्धः ॥१२॥

अकथनकथाबलेन महाविस्मयमुद्रा प्राप्त्या खस्वरता ॥१३॥

॥ इति शिवम् ॥

"https://sa.wikisource.org/w/index.php?title=वातुलनाथ-सूत्राणि&oldid=332726" इत्यस्माद् प्रतिप्राप्तम्