सामग्री पर जाएँ

वातुलनाथसूत्राणि (सव्याख्यानम्)

विकिस्रोतः तः
वातुलनाथसूत्राणि (सव्याख्यानम्)
[[लेखकः :|]]

अथ श्रीवातूलनाथसूत्राणि
श्रीमदनन्तशक्तिपादविरचितवृत्तिसमेतानि


१ संघट्टघट्टनबलोदितनिर्विकार- शून्यातिशून्यपदमव्ययबोधसारम्
१ सर्वत्र खेचरदृशा प्रविराजते यत् तन्नौमि साहसवरं गुरुवक्त्रगम्यम्

२ सर्वोल्लङ्घनवृत्त्येह निर्विकेतोऽक्रमाक्रमः
२ कोऽप्यनुत्तरचिद्व्योम- स्वभावो जयतादजः
३ श्रीमद्वातूलनाथस्य हृदयाम्भोधिसंभवम्
३ पूज्यपूजकपूजाभिः प्रोज्झितं यन्नमामि तत्
४ येनेह सर्ववृत्तीनां मध्यसंस्थोऽपि सर्वदा
४ महाव्योमसमाविष्टस् तिष्ठाम्यस्मिन्निरावलिः
५ तमपूर्वमनावेशम् अस्पर्शमनिकेतनम्
५ संविद्विकल्पसंकल्प- घट्टनं नौम्यनुत्तरम्
६ योगिनीवक्त्रसंभूत- सूत्राणां वृत्तिरुत्तमा
६ केनापि क्रियते सम्यक्- परतत्त्वोपबृंहिता

इह किल षड्दर्शनचतुराम्नायादिमेलापपर्यन्तसमस्तदर्शनोत्तीर्णमकथ्यमपि श्रीमद्वातूलनाथस्य पीठेश्वर्योच्छुष्मपादौघमुक्त्वा तदनु परमरहस्योपबृंहितत्रयोदशकथासाकात्कारदृशा क्रमाक्रमास्तिनास्तितथ्यातथ्यभेदाभेदसविकल्पनिर्विकल्पभवनिर्वाणकलङ्कोज्झितं किमप्यनवकाशं परं तत्त्वं सूत्रमुखेनादिशन्ति
यत्रेदमादिसूत्रम्

वसु१: महासाहसवृत्त्या स्वरूपलाभः ॥

अतितीव्रातितीव्रतरविशृङ्खलशक्तिपाताघ्रातस्य स्वस्वरूपसमाविष्टस्य कस्य चित्क्व चित्कदा चिदकस्मादेव "*महासाहसवृत्त्या*" घस्मरमहाघनतरपरनादोल्लासस्फारेण सविकल्पनिर्विकल्पात्मकसमस्तसंविन्निवहघट्टनान्निरावरणमहाशून्यतासमावेशनिष्ठया "*स्वरूपलाभः*" समस्तकल्पनोत्तीर्णत्वादकृतकनिरवकाशनिरुत्तरनिस्तरङ्गनिरवधिनिर्निकेतास्पर्शसंवित्प्राप्तिर्भवति इति रहस्यार्थः । महासाहसवृत्त्यानुप्रवेशश्च वक्ष्यमाणकथितक्रमेणाधिगन्तव्यः ॥

झटिति सर्वोल्लङ्घनक्रमेणानिकेतस्वरूपप्राप्तिसाक्षात्कारमहासाहसचर्चासंप्रदायं निरूप्य, इदानीं तत्रैव सर्ववृत्तिमहासामरस्यमेककाले प्रचक्षते

वसु२: तल्लाभाच्छुरिता [युद्?]युगपद्वृत्तिप्रवृत्तिः

वृत्तीनां दृगादिमरीचिरूपाणां तथा रागद्वेषाद्युन्मेषवतीनां "*युगपत्*" तुल्यकालं क्रमपरिपाट्युल्लङ्घनेनाक्रमप्रवृत्त्या "*तल्लाभाच्छुरिता*" तत्तेन प्रागुक्तमहासाहसदशासमावेशक्रमप्राप्येण स्वरूपलाभेन कालाकालकल्पनोत्तीर्णालंग्रासवपुषा महानिरीहेणाच्छुरिता स्पृष्ता स्वस्वरूपतां नीताळ्"*प्रवृत्तिर्*" प्रकर्षेण वर्तमाना वृत्तिर्सततमच्युततया तत्समावेशावस्थानमित्यर्थः । इत्यनयोक्तिभङ्ग्या सर्ववृत्तीनां समनन्तरमेव सर्वोत्तीर्णमहाशून्यताधाम्नि धामरूपे तन्मयतया परस्परविभेदविगलनेनोदयपदव्यामेव सततमवस्थितिर्स्थितेत्यर्थः ॥

इत्यनयोक्तिभङ्ग्या तुल्यकालकथनोपदेशमुक्त्वेदानीं पुस्तककथां निरूपयन्ति

वसु३: उभयपट्टोद्घट्टनान्महाशून्यताप्रवेशः

श्रीमन्निष्क्रियानन्दनाथानुग्रहसमये श्रीगन्धमादनसिद्धपादैरकृतकपुस्तकप्रदर्शनेन या परपदे प्राप्तिरुपदिष्टा सैव वितत्य निरूप्यते । सप्तरन्ध्रक्रमोदितसप्तशिखोल्लासात्मकः प्राणप्रवाहोदयः सैवोर्ध्वपट्टकः पूर्णवृत्त्युदयः, रन्ध्रद्वयसुषिरनालिकाप्रवाहप्रसृतोऽपानरूपोऽधःपट्टकः पञ्चेन्द्रियशक्तिवेष्टितः पञ्चफणधर्मानिबन्धकोऽधःस्थितः । तस्य वलयद्वयं जाग्रत्स्वप्नात्मकमुन्मुद्र्य ग्रन्थिनिबन्धनमपहृत्य "*उभयपट्टोद्घट्टनात्*" प्राणापानद्वयविदारणान्मध्यवर्ती यः प्राणरूपो महाशून्यतास्वभावः कुलाकुलविकल्पदशोज्झितोऽव्यपदेश्यमहानिरावरणनिरत्ययवेद्यवेदकनिर्मुक्तो वर्णावर्णनिवर्णोत्तीर्णः
स्पर्शास्पर्शप्रथापरिवर्जितोपचारात्परमाकाशाद्यभिधानैः
अभिधीयते । तत्र "*प्रवेशः*" तत्समावेशतया सामरस्यावस्थितिर्सैव प्राप्तमहोपदेशनामाविर्भवतीत्यर्थः ॥


इत्थं महानयोक्तदृशा सर्वशास्त्रप्रपञ्चोत्तीर्णात्वादवाच्यं किमपि महोपदेशसाक्षात्कारमुभयपट्टकाकारसदसद्रूपद्वयनिवारणेन निस्तरङ्गपरव्योमसमावेशविवर्जितमासूत्रितमहाशून्यतासमावेशमावेद्य, इदानीं युग्मोपसंहारात्कैवल्यफलं तन्मयतोपवर्ण्यते

वसु४: युग्मग्रासान्निरवकाशसंविन्निष्ठा ॥

पृथिव्यादिमहाभूतपञ्चकस्यैकैकस्मिन् ग्राह्यग्राहकतया "*युग्म*" वृत्त्युदयसंव्यवस्थितिः । तत्र गन्धप्राधान्याद्धरातत्त्वस्य पायुघ्राणरूपेण द्विप्रकारता । अप्तत्त्वस्य च रसप्रधानतयोपस्थरसनारूपेणद्वैविध्यम् । तेजस्तत्त्वस्य रूपप्राधान्यात्पादनेत्रभेदेन द्वयरूपता । वायुतत्त्वस्य स्पर्शप्राधान्यात्त्वक्पाणिस्वभावतो द्विधा गतिः । आकाशतत्त्वस्य शब्दप्राधान्याद्वाक्श्रोत्रभेदेन द्विप्रकारतयैव बहुधात्वम् । अथवा पृथिव्यप्स्वरूपौ भोग्यस्वरूपावस्थितौ । तेजोवाय्वाख्यौ भोक्तृस्वभावौ संस्थितौ । आकाशं चैतद्युग्मान्तरस्थं सत्सुषिरतया सर्वप्रनाडिकान्तरोदितं च बहुधा विभक्तम् । पृथिव्यादिवाय्वन्तं भूतचतुष्टयं भोग्यरूपमाकाशं च भोक्तृस्वभावमिति वा । भोग्ये
ऽपि भोक्ता सदैव तिष्ठति; भोक्तर्यपि भोगः
नित्यं विभाति । एवमुक्तयुक्त्या प्रत्येकं पृथिव्यादिमहाभूतपञ्चकं युग्मेन द्वयविभूत्यानारतं प्रोल्लसतीत्यभिप्रायः । अथवा प्रत्येकं व्यक्ताव्यक्ततया बहिरन्तरतया शान्तोद्रिक्ततया वा विभाति । एतत्पञ्चकस्थानसंथितयुग्मस्य ’’ग्रासात्"संहरणत्’’निरवकाशसंविन्निष्ठा"निरवकाशा येयं संवित्तस्या निष्ठा सम्यगविपर्यस्ततया संथितिः । निरवकाशसंवित्त्वेन नापि सविकल्पसंविदुन्मेषैरवकाशो लभ्यते, नापि निर्विकल्पसंवित्स्वभावेन प्रवेशोऽधिगम्यते । इत्थमप्रमेयत्वान्निरुत्तरपरमाद्वयस्वभावत्वाच्च निरवकाशसंविदिहोच्यते । तस्या निष्ठा वरगुरुप्रदर्शितदृशा सततम्
उच्यता गतिर्केषांचिद्भवतीत्यर्थः । एवं द्वयात्मककुलकौलकवलनेन निरुपाधिनीरूपनिःस्वरूपतादात्म्यं भवतीत्यर्थः ॥४॥

द्वयविगलनेन परतत्त्वावस्थितिं युग्मचर्चागमनिकयेहोक्त्वा, तदनु संघट्टकथासाक्षात्कारो निरूप्यते

वसु५: सिद्धयोगिनीसंघट्टान्महामेलापोदयः

सिद्धा च योगिन्यश्च ता सिद्धयोगिन्यो विषयकरणेश्वरीरूपा । तासां संघट्टः संगमो ग्राह्यग्राहकोभयसंश्लेषः परस्परागूरणक्रमेणालिङ्गनम् । तेनालिङ्गनेन सदैव ’’महामेलापोदयः"महामेलापस्याहंतेदंतात्मकद्वयविगलनान्निरुत्तरचिद्व्योम्नि सततं महासामरस्यात्मकस्य सर्वत्र प्रत्यक्षतयोदयः समुल्लासो भवतीत्यर्थः । वेद्यवेदकद्वयाप्रथनप्रवृत्त्या परमाद्वयसमावेशः सर्वत्रावस्थितेत्युक्तं भवति ॥५॥

उभयविगलनेन सदैव महामेलापोदयमुक्त्वा, तदनु कञ्चुकत्रयोल्लङ्घनेन निरुत्तरपदप्राप्तिं कटाक्षयन्ति

वसु६: त्रिकञ्चुकपरित्यागान्निराख्यपदावस्थितिः

त्रिकञ्चुकस्य भाविकभौतिकशून्यभेदभिन्नस्य । तत्र भाविकं शब्दाद्यहंकारपर्यन्तं तन्मात्ररूपं, भौतिकं पृथिव्यादिरूपं, शून्यं निरीहाख्यं वासनास्वरूपं च । अथवा भाविकं घटाकारं बाह्यं ग्राह्यविषयरूपं, भौतिकं पुनोऽअन्तरमिन्द्रियात्मकं ग्रहणरूपम्, शून्यं तदुभयमध्यमाकाशम् । अथवा भाविकं स्वप्नावस्था सृष्टिरुच्यते, भौतिकं जाग्रत्प्रथा स्थितिर्निगद्यते, शून्यं सुषुप्तदशा संहारोऽभिधीयते । इत्थंसंस्थितस्य त्रिकञ्चुकस्य ’’परित्यागात्"सन्न्यासात्’’निराख्यपदावस्थितिर्ऽऽनिर्गताख्याभिधानं
यस्यासौ निराख्योऽव्यपदेश्यमनुत्तरं वागुत्तीर्णं परं धाम, तस्मिन् सर्वोत्तीर्णानिकेतनपरमाकाशेऽवस्थितिर्सदैवापरिच्युतस्वभावनिष्ठा भवतीति संबन्धः ॥६॥

इत्थं कञ्चुकत्रयोल्लङ्घनेन तुर्यपदप्राप्तिं निरूप्य, इदानीं सर्ववाक्प्रथासु निरावरणासु स्वरभूतिविजृम्भैव प्रथते सदैव, इति निरूपयन्ति

वसु७: वाक्चतुष्टयोदयविरामप्रथासु स्वरः प्रथते

आदौ तावद्वाक्चतुष्टयं निर्णीयते । निरावरणनिरवकाशोदयनिरुत्तरनिस्तरङ्गपरमनभस्युच्छलत्किम्चिच्चलनात्मकप्रथमस्पन्दविकासस्वभावा वर्णरचनां मायूराण्डरसन्यायेनाद्वयमहासामरस्यतयान्तोधारयन्ती परेति प्रथिता । सैव चानाहतनादस्वरूपतामवाप्ता निर्विभागधर्मिणी समस्तवर्णोदयं वटधानिकावदन्तोधारयन्ती द्रष्टृस्वभावा पश्यन्तीति व्यपदेश्या । सैव च संकल्पविकल्पनिवहनिश्चयात्मबुद्धिभूमिं स्वीकृतवती वर्णपुञ्जं शिम्बिकाफलन्यायेनान्तोधारयन्ती मध्यमेत्यभिहिता । सैव हृत्कण्ठताल्वादिस्थानकरणक्रमेणाहता सती वर्णविभवमयश्लोकादिवद्भेदरूपं प्रकटयन्ती रूपादिसमस्तविश्वप्रथां च व्यक्ततामापादयन्ती वैखरीत्युक्ता । इत्थं निरवकाशात्संवित्पदात्
वाक्चतुष्टयमविरतमनिरोधतया प्रथते । एवमीदृक्स्वभाववाक्चतुष्टयस्योदयश्च विरामश्च तावदुदयविरामौ सृष्टिसंहारौ, तयोर्प्रथा व्यक्ताव्यक्ततया सदैवाविरतमुल्लसन्त्यः स्फुरन्त्यः, तासु ’’स्वरः"अनाहतहतोत्तीर्णमहानादोल्लासविकासस्वभावः ’’प्रथते"सविकल्पनिर्विकल्पसंविदुत्तीर्णपरवियदुदयमेव प्रकाशितं सततमकरणप्रवृत्त्या प्रयातीत्यर्थः । इत्थं नानाभेदोल्लासप्रकाशरूपेषु वर्णनिवहोद्वहोदयेषु मध्यात्प्रतिवर्णान्तरे वाक्चतुष्टयक्रमेणाखण्डितवृत्त्या स्वस्वरूपमपरित्यज्य यथामुखोपदिष्टनीत्या स्वरैव प्रथते, इत्युक्तं भवति ॥७॥

इति वाक्चतुष्टयोदयक्रमेण निरावरणस्वरोदयः सर्वत्र सर्वकालं स्फुरति, इति निरूप्य, इदानीं रसत्रितयाभोगे सति परं धामैव निरुत्तरं चकास्ति, इति निगद्यते

वसु८: रसत्रितयास्वादनेनानिच्छोच्छलितं विगतबन्धं परं ब्रह्म ॥

रसत्रयं गुरुमुखोदितदृशा मनागीषत्प्रकाश्यते । मूलाधारपयोधराधारप्रथिताकृत्रिमरसत्रितयाभोगे सति "*अनिच्छोच्छलितम्*" निष्कामतया प्रोल्लसितं "*विगतबन्धं*" विरहितभेदप्रथात्मकसंसारावग्रहं शान्तचित्रोभयविधब्रह्मस्वरूपसमुत्तीर्णं किमपि निरुत्तरप्रकृष्टतरामर्शसंवित्स्वभावं "*परं ब्रह्म*" एव सततमनस्तमितस्थित्या विजृम्भतेत्यर्थः । एतदेव रहस्यक्रमेणोच्यते । मूलाधारस्तु प्रथमप्रतिभोल्लासमहानादविशेषः सृष्टिस्वभावो भेदाभेदात्मकसंवित्पदार्थप्रथमाश्रयभित्तिमू<र्>तत्वात् । पयिधरस्तु पयः समस्ताप्यायकत्वात्सर्वाश्रयसंवित्स्वरूपं तद्
एव धारयति स्थितिप्ररोहमवलम्बयति यः स्पन्दोऽद्योन्मेषैव सर्वपदार्थावभासनात्स्थितिरूपः । आधारस्तु
जडाजडभावपदार्थोपसंहारकत्वात्प्रत्यावृत्तिसंवित्स्वभावः संहारः । एतत्त्रयोधूतं रसरूपं तत्तदनुभवचमत्कारसामरस्यमास्वाद्य स्वात्मन्यकृतकखमुद्रानुप्रवेशाद्विमृश्य, तुर्यस्वभावो महासंहाराख्योऽनवरतं परमाद्वयतया विभातीति रहस्यार्थः ॥८

एवं निरवकाशभङ्ग्या रसत्रितयचर्चासंप्रदायं निरूप्य, इदानीं देवीचतुष्टयकथासाक्षात्कारः प्रकाश्यते

वसु९: देवीचतुष्टयोल्लासेन सदैव स्वविश्रान्त्यचस्थितिः ॥

"*देवीचतुष्टयं*" क्षुत्तृडीर्ष्यामननाख्यम् । तत्र च सर्वग्रासनिरतत्वात्क्षुदेव महासंहारः । सर्वशोषकत्वात्तृडेव संहारः । ईर्ष्या द्वयप्रथापादिका ग्राह्यग्राहकपरिग्रहग्रथिता स्थितिरूपा । मनना च संकल्पविकल्पोल्लासरूपा सृष्टिः । एतद्रूपस्य देवीचतुष्टयस्य च "*उल्लासेन*" घस्मरसंवित्प्रवाहप्रवृत्त्या प्रथनेन "*सदैव*" सर्वकालं प्रत्येकं चातुरात्म्येनोद्योगाभासचर्वणालंग्रासवपुषा स्वस्वरूपावस्थितिर्पञ्चमपदातिशायिनी निरवकाशसंविन्निष्ठा स्थितेत्यर्थः । ।९

इत्यनेन सूत्रेण देवीचतुष्टयकथाक्रमं प्रकाश्य, इदानीं द्वादशवाहचक्ररहस्यं निरूप्यते

वसु: द्वादशवाहोदयेन महामरीचिविकासः ॥

मनःसंहितं श्रोत्रादिबुद्धीन्द्रियपञ्चकं, तथा बुद्धिसंहितं वागादिकर्मेन्द्रियपञ्चकं, एतदुभयसमूहः "*द्वादशवाहः*" । तस्योल्लासोऽहेतुकेन केनाप्यतिविशृङ्खलतरधामनिरुत्तरनिस्तरङ्गपरस्वातन्त्र्यवृत्त्या घस्मरसंवित्प्रवाहः । तेन "*महामरीचीनाम्*" निरावरणक्रमेण प्रत्येकस्मिन् प्रवाहोद्योगावभासचर्वणालंग्रासविश्रान्तिरूपाणां महासंविद्रश्मीनां "*विकासः*" नियतानियतचिदचित्प्रथाविगलनेन नित्यविकस्वरस्वभावो महाप्रबोधः सततमविनश्वरतया सर्वत्र सर्वतः सर्वदैव स्थितेति महावाक्यार्थः ॥

इत्यकरणसिद्धं सदैव निरावरणपदसमावेशं द्वादशवाहोदयदृशा प्रकाश्य, इदानीं चर्यापञ्चकसंप्रदायं निरूप्यन्ति

वसु१: चर्यापञ्चकोदये निस्तरङ्गसमावेशः ॥

"*चर्यापञ्चकं*" त्वनाश्रितावधूतोन्मत्तसर्वभक्ष्यमहाव्यापकस्वरूपम् । तस्योदयो नियतानियतशक्तिसमूहान्तरोदितो विकासस्वभावोल्लासः । तस्मिन् सति "*निस्तरङ्गसमावेशः*" आणवशाक्तशाम्भवोदयरूपसमस्ततरङ्गपरिवर्जितसमावेशलक्षणनिरुत्तरसमावेशधर्मैव प्रथतेत्यर्थः । चर्यापञ्चकक्रमं च वितत्य निरूपयामि । तत्रानाश्रिता निराधारत्वात्परमाकाशरूपा श्रोत्रसुषिरप्रदेशगमनेन स्वग्राह्यवस्तूपसंहरणायोद्गता । अवधूता चानियततया सर्वत्रविहरणदृक्शक्तिमार्गेण स्वसंहार्यस्वीकरणायोन्मिषिता । उन्मत्ता च विचित्तवत्स्वतन्त्रतया ग्राह्याग्राह्यसंबन्धाविवक्षया स्वविषयग्रहणाय प्रथिता । सर्वभक्ष्या
भक्ष्यसंस्कारनिखिलकवलनशीला स्वसंहार्यपदार्थग्रसनायोदिता । सर्वव्यापिका च
त्वग्वृत्तिगमनिकया निखिलव्यापकत्वादशेषस्पर्शस्वीकरणायोन्मिषिता; इति चर्यापञ्चकोदयः ॥

सततसिद्धचर्याक्रमं निरूप्य, इदानीं निर्निकेतपरज्ञानप्रकाशावलम्बनेन पुण्यपापनिवृत्तिकथां निरूपयन्ति

वसु: महाबोधसमावेशात्पुण्यपापसंबन्धः ॥

"*महाबोधः*" च ज्ञातृज्ञानज्ञेयविकल्पसंकल्पकालुष्यनिर्मुक्तो निःशमशमानिकेतनिर्धामधामप्रथात्मकः परतरज्ञानस्वभावः क्रमाक्रमोत्तीर्णत्वान्महागुरुभिर्साक्षात्कृतः । तस्य "*समावेशः*" अकरणक्रमेण यथास्थितसंनिवेशेन त्यागस्वीकारपरिहारतः सततमच्युतवृत्त्या तद्रूपेण स्फुरणम् । तस्मात्"*महाबोधसमावेशत्*" पुण्यपापयोर्शुभाशुभलक्षणकर्मणोर्द्वयोर्स्वफलद्वयवितरणशीलयोर्"*असंबन्धः*" असंश्लेषोऽसंयोगश्चानवरतं जीवत एव वीरवरस्यापश्चिमजन्मनः कस्य चित्सर्वकालमकृतकानुभवरसचर्वणसंतृप्तस्य भवभूमावेव बन्धमोक्षोभयोत्तीर्णमहामुक्तिर्
करतलामलकवत्स्थितेत्यर्थः ॥

स्वस्वरूपप्राप्तिपूर्वकं पुण्यपापतिरस्कारचर्चाक्रममुक्त्वा, इदानीं स्वरसिद्धमौनकथामुद्घाटयन्ति

वसु: अकथनकथाबलेन महाविस्मयमुद्राप्राप्त्या खस्वरता ॥

"*अकथनकथाबलं*" गुरुमुखोपदिष्टसंप्रदायक्रमेण मनागिह चर्च्यते । अस्य अकारस्य (१)हत(२)अनाहत(३)अनाहतहत(४)अनाहतहतोत्तीर्णतया चतुर्धोदितरूपस्य कथनं वक्त्राम्नायचर्चासंनिवेशनमित्यकथनम् । तत्र हतस्तावत्कथ्यते हृत्कण्ठताल्वादिस्थानकरणसंनिवेशैर्हतोऽकारादिहकारपर्यन्तनानापदार्थावभासकः । अनाहतश्चास्वरमूलोल्लसितपरनादविस्फारस्तन्त्रीमध्यमास्वरसंकेतकोऽअकण्ठकूपान्तादुपचारतः कृतप्रतिष्ठः । अनाहतहतश्चोभयाश्रितोन्मिषितोऽहतो विश्रान्तशष्कुलीश्रवणगोपनोद्भिन्नप्रथः श्रवणयुग्ममध्यवर्त्याकाशात्तत्त्वप्रतिबिम्बतत्त्वदेहतोऽपि हतोऽनाहतहतः । अनाहतहतोत्तीर्णश्च महानिरावरणधामसमुल्लसितो
ऽविकल्पः
ईषच्चलत्तात्मकमहास्पन्दप्रथमकोटिरूपः स्वरः संकोचविकासविरहात्परमविकासरूपोऽस्पर्शधर्मानुच्चार्यमहामन्त्रप्रथात्मकः । तथा चानाहतहतोत्तीर्णो यः स शृङ्गाटकाकारो रौद्रीस्वभावस्तुर्यः । अनाहतहतश्चानच्ककलात्मकवक्त्रसंस्थानो वामरूपः सुषुप्तः । अनाहतश्च बाहुरूपाम्बिकाशक्तिर्यागमे निरूपिता तत्स्वरूपः स्वप्नः । हतश्चायुधाकारो ज्येष्ठास्वभावो जाग्रत् । इत्येतच्चतुष्टयस्वभावस्याद्यवर्णस्य कथनं पारम्पर्यमुखयुक्तिविशेषः । तस्य बलं हतादिरूपत्रयोल्लसितानाहतहतोत्तीर्णरावस्फुरत्तारूपं वीर्यं तेन "*अकथनकथाबलेन*" । तत्रैवमकथनं
वाक्प्रपञ्चोत्तीर्णमकथनमेव कथनं संक्रमणक्रमेण निर्निकेतस्वरूपावधानं तदेव बलं
अकृतकस्फारसारम् । तेन संक्रमणं च मनागिह वितन्यते । प्राणपुर्यष्टकशून्यप्रमातृनिविनिष्टाभिमानविगलनेन निस्तरङ्गप्रविकचच्चिद्धामबद्धास्पदो दैशिकवरो निःस्पन्दानन्दसुन्दरपरमशून्यदृग्बलेन कार्यकरणकर्मनिरपेक्षतया यद्यत्किं चित्सर्वगतात्मस्वरूपप्रतिपत्ताववलोकयति तत्तत्परतरचिन्मयमेव सततं भवति, इति नास्त्यत्र सन्देहः । तथा चान्यद्व्याख्यान्तरमाह कथनं तावत्षड्दर्शनचतुराम्नायमेलापक्रमसमूहेषु पूजनक्रमोदितनियतानियतदेवताचक्रावलम्बनेन स्फुरति । इह पुनः पूज्यपूजकपूजनसंबन्धपरिहारेण श्रीमद्वातूलनाथादिसिद्धप्रवरवक्त्राम्नायदृशा सततसिद्धमहामरीचिविकासैव सर्वोत्तीर्णस्वरूपाविभिन्नः
सर्वदैव सर्वत्र विराजते, इत्यकथनकथाबलं तेन
महाविस्मयप्राप्तिर्भवतीति संबन्धः । "*महाविस्मयः*" च विगतो विनष्टः स्मयो मितामिताहङ्कारदर्पः सर्वोल्लङ्घनवृत्त्या स्वरूपानुप्रवेशः । अथ च महाविस्मयः स्वपरभेदविस्मरणाज्झटिति निरन्तरनिरर्गलखेचरवृत्तिसमावेशः । सैव सर्वमुद्राणां क्रोडीकरणात्"*मुद्रा*" तस्या मौनपदसमावेशमयता । तया हेतुभूतया "*खस्वरता*" त्रयोदशकथाकथनसामरस्यात्मकः खस्वरस्तस्य भावः सामरस्यप्रथनं भवतीत्यर्थः । खस्वरस्तु खमपि भावशून्यमपि स्वेन राति व्याप्नोति स्वीकरोतीत्यादत्ते, इति खस्वरः ॥

षड्दर्शनचातुराम्नायिकसर्वमेलापकथात्रयोदशकथासाक्षात्कारोपदेशभङ्ग्यानुत्तरपदाद्वयतया कस्यचिदवधूतस्य पीठेश्वरीभिर्महामेलापसमये सूत्रोपनिबद्धो वक्त्राम्नायः प्रकाशितः । तस्यैवेह मनाक्सतामवबोधार्थमस्माभिर्वृत्तिरियं कृतेति शिवम् ।

इति परमरहस्यं वाग्विकल्पौघमुक्तम् ।
भवविभवविभागभ्रान्तिमुक्तेन सम्यक् ।
कृतमनुपममुच्चैर्केन चिच्चिद्विकासात् ।
अकलितपरसत्तासाहसोल्लासवृत्त्या ॥

समाप्तोऽयं श्रीमद्वातूलनाथसूत्रवृत्तिः ।
कृतिर्श्रीमदनन्तशक्तिपादानाम् ॥

श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् ।
मधुसूदनकौलेन संपद्येयं प्रकाशिता ॥�