वाक्यपदीयम् (सवृत्ति)/प्रथमः भागः (ब्रह्मकाण्डम्)

विकिस्रोतः तः


(ब्रह्मकाण्डम्)
हरिवृषभकृतया
स्वोपज्ञया वृत्त्या
श्रीरघुनाथशर्मविरचितया
अम्बाकर्त्र्या व्याख्यया च संवलितम्
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।। 1 ।।

सर्वपरिकल्पातीततत्त्वं३?भेदसंसर्गसमतिक्रमेण समाविष्टं सर्वाभिः शक्तिभिर्विद्याविद्याप्रविभागरूपमप्रविभागं कालभेददर्शनाभ्यासेन मूर्तिविभागभावनया च व्यवहारानुपातिभिर्धर्माधर्मैः सर्वास्ववस्थास्वनाश्रितादिनिधनं ब्रह्मेति प्रतिज्ञायते ।
नहि कार्यकारणात्मकस्य विभक्ताविभक्तस्यैकस्य ब्रह्मणः सर्वप्रवादेष्वपूर्वापरे प्रवृत्तिनिवृत्तिकोटी परिसंख्यायेते । न चास्योर्ध्वमधस्तिर्यग्वा मूर्तपरिवर्तप्रत्यङ्गानां क्वचिदवच्छेदोऽभ्युपगम्यते । तत्तु भिन्नरूपाभिमतानामपि विकाराणां प्रकृत्यन्वयित्वाच्छब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वमित्यभिधीयते । स्थितिप्रवृत्तिनिवृत्तिविभागा ही शब्देनक्रियन्ते । तच्चाक्षरनिमित्तत्वादक्षरमित्युच्यते । प्रत्यक्‌चैतन्येऽन्तः सन्निवेशितस्य परसम्बोधनार्था व्यक्तिरभिष्यन्दते । एवं ह्याह--
सूक्ष्मामर्थेनाप्रविभक्ततत्त्वामेकां वाचमनभिष्यन्दमानाम् ।
उतान्ये विदुरन्यामिव च एनां नानारूपामात्मनि सन्निनिष्टाम् ।। इति ।
विवर्ततेऽर्थभावेन । एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः । स्वप्नविषयप्रतिभासवत् ।
उक्तं च -- "मूर्तिक्रियाविवर्तौ अविद्याशक्तिप्रवृत्तिमात्रम्, तौ विद्यात्मनि तत्त्वान्यत्वाभ्यामनाख्येयौ । एतद्धि अविद्याया अविद्यात्वम्" इति ।
प्रक्रिया जगतो यतः । तत एव हि शब्दाख्यादुपसंहृतक्रमाद् ब्रह्मणः सर्वविकारप्रत्यस्तमये संवर्तादनाकृतात्पूवं विकारग्रन्थिरूपत्वेनाव्यपदेश्याज्जगदाख्या विकाराः प्रक्रियन्ते ।
तथा ह्यक्तम्--
यः सर्वपरिकल्पानामाभासेऽप्यनवस्थितः ।
तर्कागमानुमानेन बहुधा परिकल्पितः ।।
व्यतीतो भेदसंसर्गौ भावाभावौ क्रमाक्रमौ ।
सत्यानृते च विश्वात्मा प्रविवेकात् प्रकाशते ।।
अन्तर्यामी स भूतानामाराद् दूरे च दृश्यते ।
सोऽत्यन्तमुक्तो मोक्षाय मुमुक्षुभिरुपास्यते ।।
प्रकृतित्वमपि प्राप्तान् विकारानाकरोति सः ।
ऋतुधामेव ग्रीष्मान्ते महतो मेघसंप्लवान् ।।
तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते ।
अङ्गाराङ्किमुत्पाते वारिराशेरिवोदकम् ।।
तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः ।
मारुतादिव जायन्ते वृष्टिमन्तो बलाहकाः ।।
त्रयीरूपेण तज्ज्योतिः परमं परिवर्तते ।
पृथक्‌तीर्थप्रवादेषु दृष्टिभेदनिबन्धनम् ।।
शान्तविद्यात्मकं योंऽशस्तदु हैतदविद्यया ।
तया ग्रस्तमिवाजस्त्रं या निर्वक्तुं न शक्यते ।।
सर्वतः परिवर्तानां परिमाणं न विद्यते ।
तस्या या लब्धसंस्कारा न स्वात्मन्यवतिष्ठते ।।
यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः ।
संकीर्णमिवि मात्राभिश्चित्राभिरभिमन्यते ।।
तथेदममृतं ब्रह्म निर्विकारमविद्यया ।
कलुषत्वमिवापन्नं भेदरूपं विवर्तते ।।
ब्रह्मेदं शब्दनिर्माणं शब्दशक्तिनिबन्धनम् ।
विवृत्तं शब्दमात्राभ्यस्तास्वेव प्रविलीयते ।। 1 ।।

एकमेव यदाम्नातं भिन्नं शक्तिव्यपाश्रयात् ।
अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ।। 2 ।।

यावद्विकारविकारिविषयमेकत्वरूपं पृथक्त्वरूपं वा सर्व तत्प्रकृत्येकत्वानतिक्रमेणेत्येतदाम्नातम् । तद्यथा--`सलिल एवैको द्रष्टाऽद्वैत एक एवाभवत्'। तथा--`सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छाo उ 6/2/1) इति । पुनश्चाह--`प्रणव एवैकस्त्रेधा व्यभज्यत'इति । तथा--`असद्वा इदमग्र आसीत् । किं तदसदासीत् । ऋषयो तेऽग्रे वाव तदसदासीत् । य ऋषयः प्राणाः' इति ।
भिन्नं शक्तिव्यपाश्रयात् । एकत्वस्याविरोधेन शब्दतत्त्वे ब्रह्मणि समुच्चिता विरोधिन्य आत्मभूताः शक्तयः । तद्यथा भिन्नार्थप्रत्यवभासमात्रायामेकस्यामुपलब्धावर्थाकारकप्रत्यवभासमात्राः पृथिवीलोका इति । नहि ज्ञेयगतो वृक्षाद्याकारावग्रहो ज्ञानस्यैकत्वेन विरुध्यते । नास्याकारात् तदाकारस्यात्मभेदोऽस्ति, तेषामेकज्ञानतत्त्वानतिक्रमात् । तदेवमपृथक्त्वं पृथक्प्रत्यवभासानामपि मिथः सर्वशक्तीनाम् ।
अपृथक्त्वेऽपि शक्तिभ्य इति । न खलु जातिव्यक्तिव्यवहारवदन्याः काश्चिचच्छक्तयो ब्रह्मणो व्यतिरेकिण्यो विद्यन्ते । तत्तु प्रकाशवत्प्रकाश्यावग्रहाभ्यो बहिस्तत्त्वाभ्य इवात्ममात्राभ्यस्तादात्म्येऽपि सति पृथक्तत्त्वमिवावसीयति इति ।। 2 ।
अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः ।
जन्मादयो विकाराः षड्‌ भावभेदस्य योनयः ।। 3 ।

कालाख्येन हि स्वातन्त्र्येण सर्वाः परतन्त्रा जन्मवत्यः शक्तयः समाविष्टाःकालशक्तिवृत्तिमनुपतन्ति । ततश्च प्रतिभावं वैश्वरूप्यस्य प्रतिबन्धाभ्यनुज्ञाभ्यांशक्त्यवच्छेदेन क्रमवानिवावभासोपगमो लक्ष्यते । सर्वेषां हि विकाराणां कारणान्तरेष्वप्यपेक्षावतां प्रतिबन्धजन्मनोरभ्यनुज्ञया सहकारिकारणं कालः । तस्य क्रमवद्भिर्मात्रारूपैः कर्तृशक्तिः प्रविभज्यमाना विकारमात्रागतं भेदरुपं तत्राध्यारोपयति तुलासूत्र इव संयोगिद्रव्यान्तरगुरुत्वप्रतिबन्धकाले दण्डलेखावच्छेदम् ।
तत्रैवमभून्नाभूदित्यपूर्वापरस्य भावस्य पौर्वापर्यव्यवस्थाविकल्पे सति जन्मादयो विकाराः षट् परिणामानां सत्ताविकाराणां योनय उपप्लवन्ते । जातिसमुद्देशे तु सत्ताविभागे न्यक्षेण भावविकारा वक्ष्यन्ते ।। 3 ।

एकस्य सर्वबीजस्य यस्य चेयमनेकधा ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ।। 4 ।

एकस्य हि ब्रह्मणस्तत्त्वान्यत्वाभ्यां सत्त्वासत्त्वाभ्यां चानिरुक्ताविरोधिशक्त्युपग्राह्यस्यासत्यरूपप्रविभागस्य स्वप्नविज्ञानपुरुषवदबहिस्तत्त्वाः परस्परविलक्षणा भोक्तृभोक्तव्यभोगग्रन्थयो विवर्तन्ते । तस्य च ग्रन्थ्यन्तररूपसमतिक्रमेणविवृत्तग्रन्थिपरिच्छेदस्येयमनेकधा लोके व्यवहारव्यवस्था प्रकल्पते ।। 4 ।
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः ।
एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक् पृथक् ।। 5 ।
ममाहमित्यहङ्कारग्रन्थिसमतिक्रममात्रं ब्रह्मणः प्राप्तिः । विकाराणां प्रकृतिभावापत्तिरित्यपरे ।
वैकरण्यम्, असाधना परितृप्तिः, आत्मतत्त्वमात्मकामत्वमनागन्तुकार्थत्वम्, परिपूर्णशक्तित्वम्, कालवृत्तीनामात्ममात्रास्वसमावेशः सर्वात्मना नैरात्म्यमिति प्राप्तिविकल्पाः ।
प्राप्त्युपायो ब्रह्मराशिः । यथाभ्युदयस्य दानतपोब्रह्मचर्यादिः । एवं ह्याह -- "वेदाभ्यासात् परमान्तरं शुक्लमजरं ज्योतिरस्मिन्नेवापारे तमसि वीते विवर्तते" इति ।
अनुकार इति यां सूक्ष्मां नित्यामतीन्द्रियां वाचमृषयः साक्षात्कृतधर्माणो मन्त्रदृशः पश्यन्ति, तामसाक्षात्कृतधर्मभ्योऽपरेभ्यः प्रवेदयिष्यमाणा बिल्मं समामनन्ति स्वप्नवृत्तमिव दृष्टश्रुतानुभूतमाचिख्यासन्त इत्येष पुराकल्पः ।
आह खल्वपि---"साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽपरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः, उपदेशाय ग्लायन्तोऽपरे विल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च । "बिल्मं भिल्मं भासनं वा" इति । तस्य वेदो महर्षिभिः, एकोऽप्यनेकवर्त्मेव ।
एकोऽयं वेदाश्यो दर्शनात्मनि स्थितो दृश्योऽर्थः, स महर्षिभिर्भेदेनाभेदस्य प्रतिपादयितुमशक्यत्वादभिव्यक्तिनिमित्ताल्लब्धक्रमे वागात्मरूपे प्रापित एकत्वानतिक्रमेण संहितापदक्रमभागेन प्रविभक्तमार्गोऽध्ययननिमित्तमध्येतॄणां चरणसमाख्यां व्यवस्थापयद्भिः समाम्नातः ।
अपर आह--यथा वाग् देशभेदेन भिन्ना सत्यपि स्वरूपभेदे एकाभिधेयनिबन्धनत्वमव्यतिक्रान्ता । सैव च देशादिभेदप्रकल्पनव्यवस्थाहेतुः । एवं चरणभेदेऽप्येकार्थनिबन्धनत्वमव्यतिक्रान्तानि श्रुतिवाक्यानि । स्वरूपभेद एव चरणभेदप्रकल्पनव्यवस्थाहेतुरिति ।
अपरे मन्यन्ते--यथाष्टाङ्ग आयुर्वेदः पुराकल्प एक एव आसीत्, स एव हि कलौ शक्तिवैकल्यान्नॄणां प्रविभक्ताङ्गो दृश्यते । तथायमप्यपरिमाणमार्गशक्तिभेदो वेदो ब्रह्मराशिरिति ।। 5 ।।
भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता ।
शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते ।। 6 ।।

तत्र चतुर्धा भेदे सति एकशतमध्वर्युशाखाः, सहस्त्रवर्त्मा सामवेदः, एकविंशतिधा बाह्‌वृच्यम्, पञ्चदशधेत्येके, नवधाथर्वणो वेद इत्येवं प्रतिभागं बहवो मार्गाः । कर्मण्येकत्र चाङ्गता । सर्वशाखाप्रत्ययमेकं कर्म ।
तद्यथा--सर्वभिषक्‌शाखाप्रत्ययमेकं चिकित्सितम् । शब्दानां यतशक्तित्वम् । तथार्थप्रत्यायने सामर्थ्यात्, तथाभ्युदयहेतुत्वात् । तस्य शाखासु दृश्यत इति । "देवसुम्नयोर्यजुषि काठके" (पाo 7/4/38 ) "सिमस्याथर्वणेऽन्त उदात्त" (फिट्o 479 ) इत्येवमादि । येषां त्वयं शाखाप्रविभागो विच्छेदेन पुनः पुनर्भवतीत्यागमः, तेषां प्राक् प्रविभागादव्यभिचार एवं संहृतक्रमाया वाच इत्येतद्दर्शनम् ।। 6 ।।
स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः ।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ।। 7 ।।
तत्र काश्चिच्छब्दनिबन्धनाः स्मृतयः; काश्चिदशब्दनिबन्धनाः शिष्टेषु प्रसिद्धसमाचाराः । दृष्टप्रयोजनाश्चिकित्सितादिविषयाः । अदृष्टप्रयोजना भक्ष्याभक्ष्यगम्यागम्यवाच्या वाच्यविषयास्तुल्ये विषये प्रसक्तविरोधा दृष्टप्रयोजनाभावे विकल्पिन्यः । शिष्टानां तु विप्रतिपत्तौ यत्र दृष्टं प्रयोजनमस्ति, तासमप्रामाण्यम् ।
अविप्रतिपत्तौ तु दृष्टप्रयोजनसम्भवेऽपि विकल्प एव । तद्यथा मण्डूकवधे प्रायश्चित्तस्य ।
तमेवाश्रित्य लिङ्गेभ्य इति । श्रुत्याश्रितानि लिङ्गानि श्रुतिविहितानां स्मृतिविहितानां च कर्मणां कर्तृसामान्यं प्रवेदयन्ते । येषां हि श्रुतिविहितैर्दृष्टाप्रयोजनैः कर्मभिरधिकारस्ते श्रुत्यैव स्मृतिविहितानामपि कर्मणां कर्तृत्वेनाख्यायन्ते । तद्यथा--"यजमानोऽतिथय आगताय महाजं वा महोक्षं पचेत्" इति । क्वचिच्च विषयेलिङ्गानि दृष्टानि स्थालीपुलाकवच्छ्रत्यर्थाविरोधिन्याः स्मृतेः प्रामाण्यकल्पनायालम् ।। 7 ।।
तस्यार्थवादरूपाणि निश्चिताः स्वविकल्पजाः ।
एकत्विनां द्वैतिनां च प्रवादा बहुधा मताः ।। 8 ।।

अर्थवादानर्थवादप्रकाराणि श्रुतिवाक्यानि पौरुयेषाः प्रवादाः प्रायेणानुपतन्तो दृश्यन्ते ।
पुरुषबुद्धिविकल्पाच्च प्रवादभेदाः सम्भवन्ति । तद्यथा -- "असद्वा इदमग्र आसीत्" इत्यग्निचयनस्थानोपस्तुत्यर्थोऽर्थवादः, तद्रूपपरिकल्पननिश्रितश्चायमेकान्तत्वप्रवादः--- "असदसतो निराहान्निरीहमपदादपदमनुपाख्यादनुपाख्येयमवस्तुकादवस्तुकं जायते" इति । अपूर्वापरभ्यां तु सत्त्वासत्त्वाभ्यामेक आत्मा विभज्यते ।
तत्राद्वये कथं हि स्यात् सोपाख्यनिरुपाख्यता इति । तथा--"नासदासीन्नो सदासीत्", "तम एव खल्विदमग्र आसीत्" इति ।
इदं फेनो न कश्चिद् वा बुद्‌बुदो वान कश्चन ।
मायेयं बत दुष्पारा विपश्चिदिति पश्यति ।।
अन्धो मणिमविन्दध्यत् तमनङ्‌गुलिरावयत् ।
तमग्रीवः प्रत्यमुञ्चत् तमजिह्वोऽभ्यपूजयत् ।।
तथा "आपो वा इदमग्र आसीत्" इति दर्शपूर्णमासविषयोऽर्थवादः ।
ततश्चायं प्रवादः- "प्रज्ञानरूपपाकश्चासंप्रख्यानरूपपाकश्चापां प्राणो रसः । खल्वावर्तो चानावर्तो च" इति । तदेवं तदेकरूपं सर्वप्रबोधरूपं सर्वप्रभेदरूपतायां समवतिष्ठते ।
द्वैतिनः खल्वप्याहुः-- "नित्याश्चानित्याश्च मात्रायोनयः, यासु रूपि चारूपि च, सूक्ष्मं च स्थूलं चेदं भुवनं विषक्तम्" इति । तथा --
उभौ सखायौ सयुजौ सुपर्णौ समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।।
"इन्द्रियग्रामश्चान्तर्यामी च बुद्धिश्च क्षेत्रज्ञश्च" इति ।
अथापरे--"विवृत्ताविवृत्तं बहुधानकं चैतन्यम्" इत्याहुः ।
तदेजति तन्नैजति तद्‌दूरे तद्वदन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः । इति ।। 8 ।।

सत्या विशुद्धिस्तत्रोक्ता विद्यैवैकपदागमा ।
:युक्ता प्रणवरूपेण सर्ववादाविरोधिनी ।। 9 ।।

यतश्चैते सर्वविकल्पातीत एकस्मिन्नर्थे सर्वशक्तियोगाद् द्रष्टॄणां दर्शनविकल्पाः, तत एव खलु--
इहैवैकस्मिन् सर्वरूपे ब्रह्मणि यः परिकल्पः, स विरुद्धरूपाभिमतेभ्यः परिकल्पान्तरेभ्यो न भिद्यते ।
अपि खलु ब्रह्मविद आहुः-- "प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्पश्च" इति ।
तथा "सर्वं दर्शनमन्यूनमविकल्पं सविकल्पमिवायमत्रान्तरः पुरुषोऽभिमन्यते" इति । अत्र प्रणवः सर्वाभ्यनुज्ञाविषयः सर्वश्रुतिरूपः प्रकृतिसर्वनाम सर्वदर्शनोदयप्रत्यस्तमययोनिः सर्वविरुद्धार्थोपग्राही सर्वथेदं ब्रह्माभ्यनुजानाति सर्वथा च प्रतिषेधति । न च प्रतिषेधाभ्यनुज्ञयोरस्य प्रवृत्तितत्त्वं विकल्पते ।
तथा ह्याहुः---
तदेतदेकं नैकं च तथोभे नाप्युभे न च ।
कर्मस्था विषमं ब्रूयुः सत्तवस्थाः समर्शिनः । इति ।। 9 ।।
विधातुस्तस्य लोकानामङ्गपाङ्गोनिबन्धनाः ।
विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः ।। 10 ।।

वेदो हि लोकानां प्रकृतित्वेन चोपदेष्टृरूपत्वेन च विवर्तेषु व्यवस्थासु च विधाता ।
प्रणव एव वेद इत्येके । स हि सर्वशब्दार्थप्रकृतिरिति । एतस्मिंश्च दर्शने विद्याभेदाः प्रणवात्मतया वेदतत्त्वं नातिक्रामन्ति । तदाहुः--"सर्वा वाचो वेदमनुप्रविष्टा", "नावेदविन्मनुते ब्रह्म किञ्चित्" ।
तथा "विधिर्विधेयस्तर्कश्च वेदः" इति । प्रणवाङ्गोपाङ्गेभ्यश्च श्रुतिस्मृतित्रय्यन्तादिभ्यो विद्याभेदाः प्रभवन्ति सम्यग्ज्ञानहेतवः पुरुषसंस्कारहेतवश्च । ज्ञानात्मकत्वाद्वा पुरुषस्यैव संस्कारहेतवः ।
वेदाख्यस्य प्रसिद्धस्य ब्रह्मणोऽङ्गेभ्यो ज्यौतिषादिभ्यः शकुनज्ञानादय उपाङ्गेभ्यश्च स्वप्नविपाकयोनिज्ञानादयो विद्याभेदाः प्रसिद्धा लोके ।। 10 ।।
आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः ।
प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ।। 11 ।।

तस्य शब्दब्रह्मणो हि यतः स्वरूपसंस्कारः साधुत्वप्रतिपत्त्यर्थः, तदासन्नं साक्षादुपकारि । उपकारविशेषकृता ह्यासत्तिः समाख्याता । ऊह्यं चाम्नायान्तरम् ।
इदमूह्यमिदमनूह्यमिति न्यायादवस्थिते सम्यग् विपरिणतौ लिङ्गवचनादीनां व्याकरणं निबन्धनमिति, आम्नायान्तरप्रतिपत्तिहेतुत्वादासन्नमिति व्यपदिश्यते ।
तपसामुत्तमं तपः । यानि लोके तपस्त्वेनाख्यातानि ब्रह्मचर्याधः शयनोदवासचान्द्रायणादीनि, ये च पवित्रतमाः स्वाध्यायास्तेषामिदं दृष्टदृष्टविशेषफलहेतुत्वादभिख्याततमं तपः ।
यस्याक्षरसमाम्नायस्य ज्ञानमात्रेण सर्ववेदपुण्यफलावाप्तिरागमेन स्मर्यते, तच्छन्दसां प्रथममङ्गम्, प्रधानत्वात् । एवं ह्याह-- "प्रधानं च षट्‌स्वङ्गेषु व्याकरणम्, प्रधाने च कृतो यत्नः फलवान् भवति " इति ।। 11 ।।
प्राप्तरूपविभागाया यो वाचः परमो रसः ।
यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमाञ्जसः ।। 12 ।।

अभिन्नात् संहृतक्रमादन्तः सन्निवेशिनः शब्दतत्त्वाद्वर्णपदवाक्यलक्षणं रूपविभागं स्थानादिभेदेन प्राप्ताया वाचः, अभिधेयत्वेन वा गावादिरूपविभागोपग्रहं नित्येनार्थसम्बन्धेन प्राप्ताया वाचः । वाच एव वा विभागा गवादित्वेनावतिष्ठन्ते । गावादयश्च बाह्यार्थरूपा इव विभागाः पुनः श्रुतिरूपत्वेन परिणमन्ते । तथा एके कार्यकारणभावमेव शब्दार्थयोः सम्बन्धं मन्यन्ते । एवं ह्याह --
नामैवेदं रूपत्वेन ववृते रूपं चेदं नामभावेऽवतस्थे ।
एके तदेकमविभक्तं विभेजुः प्रागेवान्ये भेदरूपं वदन्ति ।।
परमो रस इति । वाचकत्वादभ्युदयहेतुत्वाच्च व्यवस्थितसाधुभावः शब्दसमूहोऽभिधीयते । एवं ह्याह-- "ऋजीषमेतद्वाचो यः संस्कारहीनः शब्दः" इति ।
यत्तत्पुण्यतमं ज्योतिः । इह त्रीणि ज्योतींषि त्रयः प्रकाशाः स्वरूपपररूपयोरवद्योतकाः । तद्यथा--"योऽयं जातवेदा यश्च पुरुषेष्वान्तरः प्रकाशो यश्च प्रकाशाप्रकाशयोः प्रकाशयिता शब्दाख्यः प्रकाशस्तत्रैतत् सर्वमुपनिबद्धं यावत् स्थास्नु चरिष्णु च" इति । तस्य मार्गेऽयमाञ्जसः ।
सामान्यविशेषवद्धि लक्षणं लक्षणप्रपञ्चाभ्यां शब्दब्रह्मणः कृत्स्नस्य लघुनोपायेन समधिगमनिमित्तम् । उपदेशं चान्तरेण संस्कारवति निरपभ्रंशे शब्दब्रह्मणि लब्धप्रतिष्ठानां शिष्टानामनुमानम् । शिष्टज्ञानाच्च पृषोदरप्रकाराणां शिष्टप्रयोगत्वात् साधुत्वप्रतिपादने निनित्तं व्याकरणम् । तथा चोक्तम् --
शब्दार्थसम्बन्धनिमित्ततत्त्वं वाच्याविशेषेऽपि च साध्वसाधून् ।
साधुप्रयोगानुमितांश्च शिष्टान्न वेद यो व्याकरणं न वेद ।। 12 ।।

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ।। 13 ।।

अर्थस्य प्रवृत्तितत्त्वं विवक्षा, न तु वस्तुस्वरूपतया सत्त्वमसत्त्वं वा । विवक्षा हि योग्यशब्दनिबन्धना । योग्यं हि शब्दं प्रयोक्ता विवक्षाप्रापितसन्निधानेष्वभिधेयेषु प्रत्यर्थमुपादत्ते । तद्यथोपलिप्समानः प्रतिविषयं योग्यमेवेन्द्रियमुपलब्धौ प्रणिधत्ते ।
अपर आह--अर्थस्य प्रवृत्तौ तत्त्वं व्यवहारे यन्निमित्तम् । यदे हि निमित्तान्निमित्तवत्स्वर्थेषु निमित्तस्वरूपः प्रत्यय उत्पद्यते, तदार्थेन व्यवहर्तु शक्यते, न तु संसर्गिरूपान्तरविवेके कैवल्यविषयो व्यवहारो विद्यते । तदेवं जातिषु प्राप्तस्वरूपत्वादभिधानानां सामान्यस्य शब्दनिबन्धनत्वमास्थीयते ।
व्यवहारे वा तत्त्वं संसर्गः । विच्छिन्नरूपेष्विवात्यन्तसंसृष्टेषु पदार्थेषु प्रत्यवभासमानेषु व्यवहारो वाक्यनिबन्धनः । नहि संसर्गदर्शनप्रत्यस्तमये कश्चिदपि पदार्थगातव्यवहारो व्यवतिष्ठते ।
अपरोऽर्थः-- केवलं वस्तु त्यदादीनां वस्तूलक्षणानां विषयमात्रम् । तस्य प्रवृत्तितत्त्वं संसर्गः । संसृष्टो हि क्रियासु गुणभावेन चोपादीयते ।
अथवा प्रवृत्तिर्जन्मादिक्रियाऽऽख्यातपदनिबन्धना । तस्याः प्रवृत्तिरिति समाख्यातायास्तत्त्वं साध्यत्वं साधनाकाङ्‌क्षता क्रमरूपोपग्रहः कालाभिव्यक्तिहेतुत्वम् ।
अपरस्त्वर्थः सत्त्वमात्रं त्रिष्वपि कालेषु स्वभावसिद्धमभिधेयत्वेन प्रत्यस्तमितक्रमरूपं नामपदनिबन्धनम् ।
अथवार्थप्रवृत्तेः किं तत्त्वम्--अर्थरूपाकारः प्रत्ययात्मा बाह्येषु वस्तुषु प्रत्यस्तः, स च शब्दनिबन्धनः ।
तत्त्वावबोधः शब्दानाम् । शब्दस्य तत्त्वमवैकल्यम् । अनपगतसंस्कारं साधुस्वरूपम् । तद्धयस्याविकलं रूपम् ।
अन्ये तु तत्प्रयुयुक्षया प्रयुज्यमाना विकलाः स्युरपभ्रंशा इति ।। 13 ।।
तद् द्वारमपवर्गस्य वाङ्‌मलानां चिकित्सित्म् ।
पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ।। 14 ।।

शब्दपूर्व हि शब्दस्वरूपस्याभेदतत्त्वज्ञः क्रमसंहारेण योगं लभते । साधुप्रयोगाच्चाभिव्यक्तधर्मविशेषो महान्तं शब्दात्मानमभिसम्भवन् वैकरण्यं प्राप्नोति । सोऽव्यतिकीर्णां वागवस्थामधिगम्य वाग्‌विकाराणां प्रकृतिं प्रतिभामनुपरैति । तस्माच्च सत्तागुण्यमात्रात् प्रतिभाख्याच्छब्दपूर्वयोगभावनाभ्यासाक्षेपात् प्रत्यस्तमितसर्वविकारोल्लेखमात्रां परां प्रकृतिं प्रतिपद्यते ।
वाङ्‌मलानां चिकित्सितम्‌ । आयुर्वेद इव शारीराणां दोषाणाम् । व्याकरणज्ञो हि प्रत्यवायहेतुभूतानपभ्रंशान्न प्रयुङ्‌क्ते । `ज्ञानं हि तस्य शरणम्' इत्युक्तम।उक्तं च --
यदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्जवलति कर्हिचित् ।।
तथायमप्रमत्तगीतश्लोकः--
आपः पवित्रं परमं पृथिव्यामपां पवित्रं परमं च मन्त्राः ।
तेषां च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निरहुः ।।
अधिवद्यं प्रकाशते । सर्वो हि प्रायेण स्वस्यां विद्यायां व्याकरणमनुगच्छति, अपभ्रंशप्रयोगेण च नियतमपत्रपते ।। 14 ।।
यथार्थजातयः सर्वाः शब्दाकृतिनिबन्धनाः ।
तथैव लोके विद्यानामेषा विद्या परायणम् ।। 15 ।।
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ।। 16 ।।
अत्रातीतविपर्यासः केवलामनुपश्यति ।
छन्दस्यश्छन्दसां योनिमात्मा च्छन्दोमयीं तनुम् ।। 17 ।।
प्रत्यस्तमितभेदाया यद्वाचो रूपमुत्तमम् ।
यदस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते ।। 18 ।।
वैकृतं समतिक्रान्ता मूर्तिव्यापारदर्शनम् ।
व्यतीत्यालोकतमसी प्रकाशं यमुपासते ।। 19 ।।
यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः ।
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ।। 20 ।।
अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च ।
यस्मिन्नुच्चावचा वर्णाः पृथक्‌स्थितिपरिग्रहाः ।। 21 ।।
यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते ।
तद् व्याकरणमागम्य परं ब्रह्माधिगम्यते ।। 22 ।।
नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ।। 23 ।।

नित्यः शब्दो नित्योऽर्थो नित्यः सम्बन्ध इत्येषा शास्त्रव्यवस्था । तत्र हि शब्द इत्यनेन शब्दकृतिरभिधीयते । एवं ह्याह--"आकृतिनित्यत्वान्नित्यः शब्दः" इति। आकृतिप्रयुक्तं चेदं शास्त्रम् । तथा हि "आकृत्युपदेशात् सिद्धम्" (भा वा o 1/1/21) इत्याह । सा चेयमाकृतिः शब्दत्वसामान्यविशेषादन्या । शब्दत्वं हि विरुद्धैकार्थसमवायिनीभिरकृतिभिः सर्वाभिरविरुद्धैकार्थसमवायम् ।
शब्दाकृतिविशेषा हि वृक्षशब्दत्वादयः सति वस्तुसम्प्रमोहे निमित्तसरूपतामापन्ना अभिव्यक्ताः शब्दा इत्यपदिश्यन्ते ।
यथा हि घटे द्रव्यत्वपृथिवीत्वघटत्वादीनामविरुद्धः समवायः, तथा वृक्षशब्देऽपि गुणत्वशब्दत्ववृक्षशब्दत्वादीनामाकृतिविशेषाणामविरुद्धः समवायः ।
ननु व्यवस्थितावयवेषु घटादिष्ववयवी सामान्यविशेषाभिव्यक्तिहेतुः । अनवस्थितावयवास्तु शब्दव्यक्तिविशेषाः । तैस्त्वसमजन्मभिरयुगपत्कालैरव्यपदेश्यरूपैरवयवैरविद्यमानानेकसमवायिकारणं शब्दन्तरमारब्धुं न शक्यते, यत्राकृतिविशेषाणां समवायः स्यात्। शब्दत्वं तु प्रत्यवयवं परिसमाप्यते ।
तद्वच्चाकृतिविशेषस्य प्रत्यवयवं परिसमाप्तिर्यदि प्रतिज्ञायते, अवयवमात्रोच्चारणे वृक्षदिशब्दविशेषाकारावग्रहा वकारादिष्ववयवेषूच्चरितेषु केवलेषवपि बुद्धिः प्राप्नोति । नैष दोषः, यथैवोत्क्षेपणभ्रमणरेचनादीनामुत्पन्नापवर्गिणां कर्मविशेषाणाम्, न च तावदवयवैः कर्मान्तरमवयविस्थानीयं किञ्चिदारभ्यते । न च कर्मत्वव्यतिरेकेणोत्क्षेपणत्वादीनां जातिविशेषाणां समवायो नाभ्युपगम्यते ।
न च कर्मावयवमात्रदर्शने भ्रमणादिकर्मविशेषाकारवग्रहाः प्रत्यया उत्पद्यन्ते। तानि ह्यवयवर्माणि विशिष्टप्रयत्नहेतुकानि प्रत्यवयवमुत्क्षेपणत्वादीनामाधारत्व
मपि प्रतिपद्यमानानि दुरवधारत्वाद्विशेषस्य विशिष्टजातिविषयां बुद्धिं न प्रकल्पयन्ति।
विशिष्टापि हि सा बुद्धिरनभिव्यक्तोपव्यञ्जनविशेषपरिग्रहा । तस्मात् तया व्यवहर्तुं न शक्यते ।
यदा तु दिग्विशेषावधिपरिच्छिन्नसंयोगविभागकार्य्याणां कर्मणां प्रबन्धः क्रमेणोपलब्धो भवति, अथ जातिविशेषोपाधियुक्ता व्यवहाराः प्रकल्पन्ते ।
तथा वृक्षादिष्वपि शब्देषु यत्नविशेषजनिता विशिष्ठा वकारादयो दुर्ज्ञानाविशेषा यद्यपि प्रत्यवयवं शब्दजातिविशेषाभिव्यक्तिं कुर्वन्ति, तथाप्यपरिगृहीतानेकोपव्यञ्जनविशेषाभिस्ताभिः शब्दाकृतिभिर्व्यवहर्तुं न शक्यते ।
यदा त्ववयवप्रबन्धः क्रमेणोपलब्धो भवति, अथ जातिविशेषोपाधियुक्ता व्यवहारा अवतिष्ठन्ते ।
न चावश्यं शास्त्रन्तरे परिदृष्टा जात्यभिव्यक्तिप्रक्रिया वैयाकरणैः परिगृह्यते । न ह्यभिव्यक्तिमतामभिव्यञ्जकैराश्रितानामेवाभिव्यक्तिर्नियमेन क्रियते । तत्रासत्यपि शब्दव्यक्तिसमवाये शब्दकृतेर्वर्णावयवावग्रहप्राप्तसंस्काराभिः क्रमोत्पन्नभिर्बुद्धिभिः पूर्वमगृहीता, अव्यक्तं गृहीता व संस्कृतेऽन्तः करणे चरमविज्ञानेनाकृतिः परिच्छिद्यते ।
तस्यास्तु शब्दकृतेरस्तित्वं शुकशारिकामनुष्यादिप्रयुक्तेषु वृक्षादिशब्दव्यक्तिविशेषेषु 'स एवायम्' इति प्रत्ययाभेदादनुमीयते ।
यैरप्ययमाकृतिव्यवहारो नाभ्युपगम्यते, तेऽप्यनेकध्वनिव्यङ्ग्यां नित्यां शब्दव्यक्तिमेव प्रतिजानते ।
शब्दव्यक्तिगतस्तु कैश्चिद्‌ वर्णभदोऽभ्युपगम्यते ।
केचित्तु प्रतिवर्णं प्रतिपदं प्रविवाक्यं चैक एव शब्दत्मा क्रमोत्पन्नावयवरूपप्रत्यवभासः प्रकाशत इति मन्यन्ते ।
अपर आहुः--पारम्पर्याविच्छेदान्नित्यप्रवृत्तेः प्रयोक्तृभिरुत्पत्तावलब्धप्राथम्या व्यवहारनित्यतया नित्याः शब्दा इति ।
अर्थानामपि नित्यत्वं कैश्चिदाकृतिनित्यत्वादेवाभ्युपगम्यते । तथा ह्याह---"कतरस्मिन् पदार्थे एष विग्रहो न्याय्यः । सिद्धे शब्देऽर्थे सम्बन्धे चेति । आकृतावित्याह ।" एतस्मिंश्च भाष्योद्देशे यावन्तः पक्षास्तेष्वर्थस्य नित्यता बहुधा व्याख्याता । सा यथाभाष्यमनुगन्तव्या ।
नित्यः सम्बन्ध इत्यस्येदंभावे सति शब्दर्थयोः सोऽयमिति यः सम्बन्धः, सोऽर्थादेशनस्य कर्तुमशक्यत्वादौत्पत्तिकः स्वभावसिद्धो न केनचित् कर्त्रा कञ्चित् प्रतिपत्तारं प्रत्यज्ञातपूर्वस्तत्प्रथमं कृत इति । तस्मादनादिर्नित्यं प्राप्ताविच्छेदः शब्दर्थयोः सम्बन्धः ।
इन्द्रियविषयवद् वा प्रकाश्यप्रकाशकभावेन समयोपाधिर्योग्यता शब्दर्थयोः सम्बन्धः ।
अर्थसरूपप्रत्यवभासानां वा प्रत्ययानां बाह्येष्वर्थेषु प्रत्यस्तानामक्षरनिमित्ताक्षरकल्पनावदर्थवदेवैकविषयत्वेऽभ्युपगम्यमाने नित्यमविच्छिन्नपारम्पर्यः कार्यकारणभावः शब्दार्थयोः सम्बन्धः । तथा ह्यक्तम्--`तेऽपि हि तेषामुत्पत्तिप्रभृत्यविनाशाद् बुद्धीर्व्याचक्षाणाः सतो बुद्धिविषयान् प्रकाशयन्ति' इति ।
तत्राम्नाता महर्षिभिः । सूत्रादीनां प्रणेतृभिः । व्याकरण एव ये सूत्रादीनां प्रणेतारस्ते व्यपदिश्यन्ते । तत्र सूत्राणामारम्भादेव शब्दानां नित्यत्वमभिमतम् । न ह्यनित्यत्वे शब्दादीनां शास्त्रारम्भे किञ्चिदपि प्रयोजनमस्ति । व्यवहारमात्रं ह्येतदनर्थकं न महान्तः शिष्टाः समनुगन्तुमर्हन्तीति । तस्माद् व्यवस्यितसाधुत्वेषु शब्देषु स्मृतिशास्त्रं प्रवृत्तमिति ।
अपरे तु "तदशिष्यं संज्ञाप्रमाणत्वात्" (पाo 1/2/53) इत्येवमादीनि सूत्राणिनित्यत्वं प्रति समर्थयन्ते । अनुतन्त्रेषु खल्वपि--`सिद्धे शब्दर्थसम्बन्धे' इति, `सिद्धं तु नित्यशब्दत्वात्' इति, `स्फोटः शब्दो ध्वनिस्तस्य व्यायाम उपजायते । सर्वे सर्वपदादेशा' इत्येवमादि ।
भाष्ये खल्वप्युक्तम्--'संग्रहे एतत् प्राधान्येन परीक्षितं नित्यः शब्दः' इति । अनुतन्त्रभाष्येऽप्युक्तम्--'नित्येषु कूटस्थैर्वर्णेरविचालिभिर्भवितव्यम्' इत्येवमादि ।
तथा व्यावहारिकेऽपि नित्यत्वे `खदिरबर्बुरौ सूक्ष्मपर्णौ गौरकाण्डौ ।' तत्र कण्टकवान् खदिरः । प्राचीनं ग्रामादाम्राः । क्षीरिणः प्ररोहवन्तः पृथुपर्णा न्यग्रोधा इति ।
अथवा यैः प्रत्यक्षधर्मभिस्तत्र तत्र प्रवचने सूत्रानुतन्त्रभाष्याणि प्रणीतानि, तैरेव शिष्टैर्व्याकरणेऽपि नित्याः शब्दार्थसम्बन्धा इत्याम्नातम् । तेषां च व्यवस्थितं लोके प्रामाण्यमिति ।। 23 ।।

अपोद्धारपदार्था ये ये चार्थाः स्थितलक्षणाः ।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः ।। 24 ।।
कार्यकारणभवेन योग्यभावेन च स्थिताः ।
धर्मे ये प्रत्यये चाङ्गं सम्बन्धाः साध्वसाधुषु ।। 25 ।।
ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः ।
स्मृत्यर्थमनुगम्यन्ते केचिदेव यथागमम् ।। 26 ।।

त्रिष्वप्येषु श्लोकेषु प्रस्तुतस्य परसमाप्तिः ।

तत्रापोद्धारपदोर्थो नामात्यन्तसंसृष्टः संसर्गादनुमेयेन परिकल्पितेन रूपेण प्रकृतप्रविवेकः सन्नपोद्‌ध्रियते । प्रविविक्तस्य हि तस्य वस्तुनो व्यवहारातीतं रूपम् ।
तत्तु स्वप्रत्ययानुकारेण यथागमं भावनाभ्यासवशादुत्प्रेक्षया प्रायेण व्यवस्थाप्यते ।
तथैव चाप्रविभागे शब्दात्मनि कार्यार्थमन्वयव्यतिरेकाभ्यां रूपसमनुगमकल्पनया समुदायादपोद्धृतानां शब्दानामभिधेयत्वेनाश्रीयते ।
सोऽयमपोद्धारपदार्थः शास्त्रव्यवहारमनुपतति, शास्त्रव्यवहारसदृशं च लौकिकंभेदव्यवहारम् । स चैकपदनिबन्धनः सत्यासत्यभावेनानुपाख्येयः वृक्षः, प्लक्षः, इत्यनुपसंहृते हि क्रियापदे शब्दोपग्रहाणामर्थात्मनां निरूपणं न विद्यते । यावच्चापवादभूताः क्रियाविशेषाः शब्दप्रवृत्तिकारणमस्तित्वं न निवर्तयन्ति, तावदस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽपि वृक्षादिभिः पदैराक्षिप्तः प्रतीयते ।
तानि चैकपदसरूपाण्याक्षिप्तक्रियापदानि वाक्यानीति व्याख्ययन्ते ।
तथा पूर्वपदार्थः, उत्तरपदार्थः, अन्यपदार्थः, प्रातिपदिकार्थः, धात्वर्थः, प्रत्ययार्थ इत्येकपदवाच्योऽप्यनियतावधिर्बहुधा प्रविभज्य कैश्चित् कथञ्चिदपोद्‌ध्रियते ।
स्यितलक्षणस्तु वाक्यरूपोपग्रहः कल्पितोद्देशविभागो विशिष्ट एकः क्रियात्माऽविच्छिन्नपदार्थग्रहणोपायप्रतिपाद्यः सत्यामपि विच्छेदप्रतिपत्तौ नमस्यति, संग्रामयते, मुण्डयति, कुट्टयति, चर्वयतीत्येवमादिभिरविशिष्टः प्रतिभोपसंहारकाले ।
यदुक्तम्--"न वा दपस्यार्थे प्रयोगात्" इति । उपसंहृतक्रियमत्र पदमाश्रीयते। संप्रत्ययानुगममात्रं वा परिगृह्यते ।
तथा हि पदस्यार्थे प्रयोगमभ्युपगम्य पुनरप्याह--`कुत्तद्धितान्तं चैव ह्यर्थवन्न केवलाः कृत्तद्धिता' इति ।
अन्वाख्येयाश्च ये शब्दाः केषाञ्चित्पदावधिकमन्वाख्यानम्, वाक्यावधिकमेकेषाम् । तत्र पदावधिकेऽन्वाख्याने श्रुत्यभेदादेकपदरूपोपग्रहे सामान्यमात्रे लब्धसंस्कारणि पदानि पदान्तरसम्बन्धप्राप्तसन्निधानेष्वर्थेषु सन्निपतितेष्वपि विशेषेषु सामान्ये प्रतिलब्धमन्तरङ्ग संस्कारमुपादायैव प्रवर्तेरन् ।
तत्रैकवचनान्तो नपुंसकलिङ्गश्च शुक्लशब्दो भिन्नलिङ्गसंख्यैराश्रयैः सम्बद्धः श्रूयेत । तदर्थम् 'विशेषणानां चाजातेः' (पाo 1/2/53) इत्यनेन योगेन भाविन्याश्रये बहिरङ्गे प्रकान्ते गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनान्यनुगम्यन्ते । वाक्यावधिके त्वन्वाख्याने नित्यसंसृष्टस्य गुणस्याश्रयविशेषेणात्यन्तमविवेकात् सर्वतो व्यवच्छेदे सामान्यार्थत्वमेव न विद्यते ।
तत्र चेदमुक्तम्--"स्वाभाविकमेतत्" (मo भाo 2/2/29) इति । तथा प्रत्यवयवं द्वन्द्वपदसंस्कारे "द्वन्द्वेऽबहुषु लुग्वचनम्" (मo भाo 2/4/62) उपन्यस्तम् । समुदायसंस्कारप्रक्रमे तु "न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात्" (मo भाo 2/1/62) इत्याह । तथा "विशेषणं विशेष्येण बहुलम्" (पाo 2/1/57), "उपमानानि सामान्यवचनैः" (पाo 2/1/55) इत्यादि सर्वं पदावधिक एवान्वाख्याने परिगृह्यते ।
पदस्य चान्वाख्येययत्वमभ्युपगम्य `भू, भूति, भू अति' इत्येवमादयः शब्दान्तरसमुदायप्रतिपत्तिहेतवः परिकल्पिताः प्रतिपादकाः शब्दा उपादीयन्ते ।
कार्यकारणभावेनार्थाकारनिर्भासमात्रानुगतस्य प्रत्ययस्यार्थेषु प्रत्यस्तरूपस्यार्थत्वेनाध्यवसाये तस्यार्थात्मनः शब्दो निमित्तम् । तथार्थावग्रहदर्शनं सोऽयमिति शब्दार्थयोः सम्बन्धप्रसिद्धेर्नादाभिव्यक्तस्यान्तः करणसंनिवेशिनः शब्दस्य प्रवृत्तौ कारणम् । इन्द्रियविषयवत् तु प्रकाश्यप्रकाशकभावेन विशिष्टानां शब्दानां विशिष्टेष्वर्थेषु नित्यमकर्तृव्यापारसाध्यमव्यभिचरितप्रसिद्धसाधुभावानां वाचकानां शब्दानां वाच्येषु योग्यत्वम्, अप्रसिद्धसम्बन्धानां प्रथमप्रतिपादने समयोपाधिकम् ।
तत्र साधोर्यः सम्बन्धोऽर्थेन स ज्ञाने शास्त्रपूर्वके वा प्रयोगे धर्माभिव्यक्तौ अङ्गत्वं प्रतिपद्यते । विशिष्टप्रत्ययोत्पत्तौ च प्रत्यक्षपक्षेण व्यवस्थां प्रकल्पयति ।
अनुमानपक्षेण तु सम्बन्धिसम्बन्धादक्षिनिकोचादिवदपभ्रंशाः (अपि) प्रत्ययविशेषेष्वङ्गभावमुपगच्छन्ति ।
ते लिङ्गैश्च । अपोद्धारे हि शास्त्रव्यवहारार्थं समुदायात् संसृष्टायाः कस्याश्चिदर्थमात्रायाः क्रियमाणे तं तमवधिं प्रति निमित्तत्वेनार्थानां पुरुषाधीनो विकल्पभेदः सम्भवति ।
कथमिदं विज्ञायते हेतुमत्यभिधेये णिज् भवति, आहोस्विद्धेतुमति यो धातुर्वर्तते इति (हेतुमति) वर्तमानादिति ।
तथा "स्त्रियाम्" (पाo 4/1/3) इति । किं स्त्र्यर्थाभिधाने टाबादयः, स्त्र्यर्थवृत्तेः प्रातिपदिकात् स्वार्थे वेति ?
तथा "नञ्" इति किं प्रधानोऽयं समास इति ? (किं पूर्वपदार्थप्रधानोऽथवोत्तरपदार्थप्रधान इति ) । न ह्येते विकल्पा लौकिकाः, समुदायार्थे हि लौकिके व्यभिचाराभावात् । पुरुषविकल्पेष्वनियतेषु यथा शास्त्रव्यवस्थाभेदो न भवति, स विकल्पः परिगृह्यते ।
तथैकत्वादयो विभक्त्यर्थाः, कर्मादयः पञ्चकः प्रातिपदिकार्थः, चतुष्कः, त्रिक इति पुरुषविकल्पाधीन एवंप्रकारः पक्षभेदः ।
क्रियासाधनकालादयोऽपि कैश्चित् कथञ्चिदभिधेयत्वेन प्रविभक्ताः ।
       `धातुः साधने दिशि पुरुषे चिति च तदाख्यातम् ।
लिङ्गे किमिति विभक्तौ ? एतन्नाम ।'
भावकर्मभ्यामात्मनेपदम्, कर्तुः परस्मैपदम् इत्यपोद्धारपरिकल्पनाव्यवस्थामाश्रित्य,`स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्' इति प्रतिपत्तिक्रमनियमानुगममात्रं क्रियते ।
नहि शब्दस्य क्रमवती विरम्य विरम्य स्वार्थादिषु वृत्तिः सम्भवति, सकृदुच्चारणात्, अर्थेन च नित्यमवियोगात् ।
प्रतिपत्तिक्रमो ह्ययं श्रोतुरभिधातुर्वा न व्यवस्थितः । सर्वविशेषणविशिष्टं हि वस्तु संसर्गिणीनां मात्राणां कलापं यौगपद्येनैकस्या बुद्धेर्विषयतामापन्नमुत्तरकालमिच्छन् बुद्ध्यन्तरैः प्रविभज्यते । प्रविभक्तस्यापि चानुसन्धानमन्तरेणार्थक्रियाविषया प्रतिभा नोत्पद्यत इति पुनः संसर्गरूपमेव प्रत्यवमृशति ।
योऽपि चाभिधाता श्रोता वा विभागेन मात्रासु प्रतिपत्तिं लभते, तस्यापि प्रत्यासत्त्या महाविषयत्वेनाभिव्यक्तिनिमित्तोपव्यञ्जनप्रकर्षेणोपलिप्सया बीजवृत्तिलाभानुगुण्येन वा ग्राह्यासु मात्रास्वनियमेन बुद्धिक्रमो व्यवतिष्ठते ।
तथा ह्याह--
एकोऽयं शक्तिभेदेन भावात्मा प्रविभज्यते ।
बुद्धिवृत्त्यनुकारेण बहुधा ज्ञानवादिभिः ।।
स्थितलक्षणस्तु शास्त्रे पदार्थो वाक्यार्थो वा ? तथा ह्युक्तम्--`न वा पदस्यार्थे प्रयोगात् । यदत्राधिक्यं वाक्यार्थः स' इति ।
संग्रहेऽप्युक्तम् --
नहि किञ्चित् पदं नामरूपेण नियतं क्वचित् ।
पदानां रूपमर्थो वा वाक्यार्थादेव जायते ।।
अन्वाख्येयस्य खल्वपि पदस्वरूपस्य कृतेऽपि रूपपरिग्रहे प्रकृतिप्रत्ययादीनां विभागे रूपपरिग्रहानियमो दृश्यते । मरुत्तेन्द्राण्यैकागारिकगिरिशश्रोत्रियक्षत्रियादिषु वाक्यावधिकेऽन्वाख्याने ।
तदुक्तम्‌--
अर्थात् पदं साभिधेयं पदाद् वाक्यार्थनिर्णयः ।
पदसङ्घातजं वाक्यं वर्णसङ्गातजं पदम् ।। इति ।
व्युत्पत्तौ वाक्यस्थं पदम्, वर्णसङ्घातजं पदमिति ।
कार्यकारणभावेन खल्वपि सम्बन्धो निदर्शितः । तद्यथा--'तेऽपि हि तेषामुत्पत्तिप्रभृत्याविनाशाद् बुद्धीर्व्याचक्षाणाः सतो बुद्धिविषयान् प्रकाशयन्ति' इति ।
योग्यभावेनापि सम्बन्ध उपवर्णितस्तत्र तत्र--`अभिधानं पुनः स्वाभाविकम् । समाने वर्णे शोणकर्क (र्ण) हेमा (हया) दीनामश्वविषयत्वं गवादिषु चाप्रवृत्तिः' । तथेदमुक्तम्--'समानमीहमानानामधीयानानां च केचिदर्थैर्युज्यन्तेऽपरे न' इत्येवमादि । तथाजातीयकाः खल्वप्याचार्येण स्वरितञ्तिः पठिताः, ये उभयवन्तः, येषां कर्त्रभप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति ।
संग्रहकारः पठति--
शब्दर्थयोरसम्भेदे व्यवहारे पृथक् क्रिया ।
यतः शब्दर्थयोस्तत्त्वमेकं तत् समवस्थितम् ।।
स एव पुनराह--
सम्बन्धस्य न कर्तास्ति शब्दानां लोकवेदयोः ।
शब्दैरेव हि शब्दानां सम्बन्धः स्यात् कृतः कथम् ।। 26 ।।
शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् ।
अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ।। 27 ।।

यथैवान्यानि धर्मासाधनानि शिष्टोपदेशपारम्पर्येणागमाविच्छेदेनागतानि अनभिशङ्कनीयानि व्यवस्थितानि, यथा च प्रतिषिद्धानि हिंसानृतस्तेयादीनि, अशिष्टाप्रतिषिद्धानि च हिक्कितश्वसितकण्डूयितादीनि व्यवस्थितानि, तथा साध्वसाधुव्यवस्थानमप्यनवच्छिन्नपारम्पर्यमनभिशङ्कनोयं यथागमादेव सिद्धमिति ।। 27 ।।

नित्यत्वे कृतकत्वे वा तेषामादिर्न विद्यते ।
प्राणिनामिव सा चैषा व्यवस्था नित्यतोच्यते ।। 28 ।।
यदि नित्यानां शब्दानामभिव्यक्तिर्जन्मादिविक्रियापत्तिर्वा सताम्, असतां वा सोपाख्यनिरुपाख्यत्वम्, सर्वथैषामप्रवृत्तशब्दव्यवहारा प्रथमा कोटिर्न विद्यते, न परा ।
ये चेश्वरकालपुरुषविद्यामाक्षेत्रज्ञान् विभक्ततत्तवानाहुः, ये चानीश्वरकमकालमपुरुषमविद्यक्षेत्रज्ञमविद्यामात्रमेव मन्यन्ते ।
ये यैकत्वानतिक्रमेण समुच्चिताविरुद्धापरिणामशक्तिरूपनिर्भासपरिग्रहमपूर्वापरं विश्वमाचक्षते, तेषां सर्वेषां नास्ति कश्चिदप्रवृत्तप्रणिव्यवहारः प्रथमो नाम कालाध्वा । सा चेयमनादिरविच्छिन्ना प्रवृत्तिनित्यता । तथा ह्युक्तम्--`तदपि नित्यंयस्मिंस्तत्त्वं न विहन्यते' इति ।। 28 ।।

नानर्थिकामिमां कश्चिद् व्यवस्थां कर्तुमर्हति ।
तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ।। 29 ।।

को हि शिष्टः संभिन्नबुद्धिरपि लोकं प्रत्यनभिनिविष्टो दुर्ज्ञानं दुरध्येयं च स्वरसंस्कारादिनियमं लौकिकवेदिकानां शब्दानां प्रयोजनं व्यवस्थापयितुमुत्सहते ?न चानर्थको नियमः । कृतोऽपि शिष्टैरपरैर्न परिगृह्यते । प्रमाणं वा विदुषां लोके न स्यादिति । तस्मादनादिर्गुरुपूर्वक्रमागता शिष्टानुमानहेतुव्यभिचारा लक्षणप्रपञ्चाभ्यां पर्यायैः शब्दवती चाशब्दा च स्मृतिर्निबध्यते ।। 29 ।।

न चागमादृते धर्मस्तर्केण व्यवतिष्ठते ।
ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ।। 30 ।।

सर्वेऽपि वातिनो दूरमपि गत्वा स्वभावं न व्यतिवर्तन्ते । अदृष्टार्थानां च कर्मणां फलनियमे स्वभावसंविदागमप्रतिबद्धा । को ह्यनवस्थितसाधर्म्यवैधर्म्येषु नित्यमलब्धनिश्चयेषु पुरुषतर्केषु विश्वासः, येष्वपि तर्कातीतः पृथग् विद्याचरणपरिग्रहेषु कश्चिदनुत्तरः पुरुषधर्मः श्रूयते, तेष्वपि तदर्थज्ञानमार्षमृषीणामागमिकेनैव धर्मेण संस्कृतात्मनामाविर्भवतीत्याख्यायते । स्वाभाविके हि तस्मिन् प्रयत्नः फलाद् व्यतिरिच्येत्, स्वभावतश्च प्रत्यवायोऽपि तथाभूतः स प्रसज्येत ।। 30 ।।

धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः ।
न ताँल्लोकप्रसिद्धत्वात् कश्चित् तर्केण बाधते ।। 31 ।।

बहुविकल्पेष्वपि शिष्टानां चरणेषु सन्ति साधारणाः प्रसिद्धाः पुरुषहितप्रतिपत्तिमार्गाः, येष्वन्यथा प्रवृत्तिर्लोकविरसा । न च ते तर्केण कदाचिदपि व्युदस्तपूर्वाः । काममागमोद्देशनिश्चयेणैव केचिद् विनिन्दितमपि लोकसमाचारविरुद्धाचरणं प्रतिपद्यन्ते ।। 31 ।।
अवस्थादेशकालानां भेदाद् भिनानसु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ।। 32 ।।

इहाव्यभिचरिताभिमतसाहचर्यस्य दृष्टस्य सम्बन्धिनस्तत्सदृशस्य वा दर्शनाददृष्टे सम्बन्धिनि यज्ज्ञानमुत्पद्यते, तेनाप्रत्यक्षस्यार्थस्य प्रसिद्धिर्दुरवसाना ।
तथा हि--अवस्थान्तरेषु विनिश्चितबलसत्त्वादीनां पुनरवस्थान्तरेषु पुरुषगम्येष्वपुरुषगम्येषु वा दृश्यन्ते स्वभावव्यभिचारिणः । बाह्यानामपि बीजौषधिप्रभृतीनामवस्थाभेदादुपलभ्यते शक्तिव्यभिचारः ।
तथा देशभेदादपि । अतिशीतो हैमवतीनामपां स्पर्शः । स तु बलाहकाग्निकुण्डादिषु तद्‌रूपाणामेवात्युष्ण उपलभ्यते । तत्र रूपसामान्यादपहृतबुद्धिः परोक्षविशेषो दुर्ज्ञानं भेदमर्वाग्दर्शनो दर्शनमात्रेणागम्यमागमेनैव प्रपद्यते ।
कालभेदादपि । ग्रीष्महेमन्तादिषु कूपजलादीनामत्यन्तभिन्नाः स्पर्शादयो दुश्यन्ते । तत्र सूक्ष्ममवस्थानविशेषं प्राकृतमप्राकृतगम्यमागमचक्षुरन्तरेणाप्रत्यक्षमनुमानमात्रेणानिश्चितं कः साधयितुमसंमूढः प्रयतते ।। 32 ।।

निर्ज्ञातशक्तेर्द्रव्यस्य तां तामर्थक्रियां प्रति ।
विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ।। 33 ।।

अग्यन्यादीनां काष्ठादिविकारोत्पादने दृष्टसामर्थ्यानामभ्रपटलादिषु द्रव्येषु तथाभूतं सामर्थ्यं प्रतिबध्यते । तथा मन्त्रौषधिरसादिभिर्योग्येष्वपि द्रव्येषु दाहादिकं प्रतिबध्यते । तथैकस्मिन् विषये दृष्टसामर्थ्यानां पुनर्विषयान्तरेषु द्रव्याणां दुरवसानाः शक्तयः ।। 33 ।।

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।। 34 ।।

अन्यद् द्रव्यं गुणेभ्यो व्यपदेशात् । तद्यथा--सति विशेषणविशेष्यभेदे राज्ञा राष्ट्रं विशेष्यते, न परिव्राजकेन । विशेष्यते वा चन्दनेन गन्धः, न रूपादिभिः । तस्मादन्यद् द्रव्यं गुणेभ्य इत्यनुमानेन द्रव्ये व्यवस्थापिते नायमपदेशो युक्त इत्याहुः ।
विशिष्टाविशिष्टाभिधेयनिबन्धनत्वात् शब्दानाम् । चन्दनशब्देन हि विशिष्टरूपादिवचनेन विशेषणमर्थवद्‌गन्धादीनाम् । रूपादिमात्रवचनत्वात्तु रूपादीनां तावतोऽर्थस्य निर्ज्ञातत्वादनर्थकं विशेषणम् । तथा हि--कस्यायं पुरुष इति प्रश्ने विशेषान्तरावच्छेदार्थं राज्ञ इति व्यपदिश्यते, न तु निर्ज्ञातत्वात् पुरुषस्येति ।
अपर आहुः--पदसमूहैकदेशभावेऽपि पदमृचा व्यपदिश्यते, न पदेन ऋक् ।
अपर आह--एकत्वाभ्युपगमेनैव चन्दनेन व्यपदेशो गन्धादीनाम्, रूपादिभिरव्यपदेशइति विरुद्धत्वादसिद्धमेतत् । श्रुतिविशेषसन्निधानासन्निधानकृतस्तु पूर्वपक्षोपन्यासः ।
तस्माद् दृष्टाददृष्टमनुगम्यत इत्यविरोधात् सिद्धमेतत् ।
तथा पाकाद्यनुमानार्थानि क्रियाविशेषेषु प्रतिनियतान्यङ्गानि विप्रलम्भार्थान्यपि कैश्चित् कथञ्चिदुपादीयन्ते ।। 34 ।।

परेषामसमाख्येयमभ्यासादेव जायते ।
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ।। 35 ।।

नहि रूपतर्कादयः सूक्ष्मानप्रसिद्धसंविज्ञानपदान् कार्षापणादीनां कल्पयित्वापि समधिगमहेतून् परेभ्य आख्यातुं शक्नुवन्ति ।
षड्‌जऋषभगान्धारधैवतादिभेदं वा प्रत्यक्षप्रमाणविषयमप्यभ्यासमन्तरेणाभियुक्ताः प्रणिधानवन्तोऽपि न प्रतिपद्यन्ते ।। 35 ।।

प्रत्यक्षमनुमानं च व्यतिक्रम्य व्यवस्थिताः ।
पितृरक्षः पिशाचानां कर्मजा एव सिद्धयः ।। 36 ।।

स्वप्ने हि बधिरादीनां शब्दादिप्रतिपादनम्, घनसन्निविष्टावयवानां च कुड्यादीनामवयवविभागमन्तरेणान्तर्वेश्मादिषु सूक्ष्माणामर्थानां दर्शनं यत् सर्वप्रवादेषु सिद्धम्, तत्र कथम्भूतानि साधनानीत्यदृष्टशक्तिमचिन्त्यां हित्वा नान्यानि साधनान्याख्यातुं शक्यन्ते ।। 36 ।।

आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ।। 37 ।।

तत्रोत्पत्तिपक्षे तावत् कथमपदमवस्तु निरात्मकमदृष्टाप्रतिनियतकारणशक्तिपरिग्रहमधिगन्तुं शक्यते । पक्षान्तरे च विशिष्टव्यक्तिरूपतिरोभावाद् व्यवहारं प्रति तदविज्ञेयं वस्तु निरुपाख्यैरेव तुल्यम् । अथ च तपसा निर्दग्धदोषा निरावरणख्यातयः शिष्टाः प्रतिबिम्बकल्पेन प्रत्यक्षमिव स्वासु ख्यातिषु संक्रान्ताकारपरिग्रहमव्यभिचरितं सर्वं पश्यन्ति ।। 37 ।।

अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाध्यते ।। 38 ।।

अन्तर्यामिणमणुग्राममभिजातिनिमित्तनिबन्धनमनभिव्यक्तं शब्दब्रह्म शक्त्यधिष्ठानं देवता कर्मणामनुबन्धपरिणामशक्तिवैकल्यानि सूक्ष्ममातिवाहिकं शरीरं पृथगन्यांश्च तीर्थप्रवादेषु प्रसिद्धानर्थान् रूपादिवदिन्द्रियैरग्राह्यान् सुखादिवत् प्रत्यात्ममसंवेद्यान् ये शिष्टा व्यावहारिकादन्येन चक्षुषा मुक्तसंशयमुपलभन्ते, तेषामनुमानविषयतातीतं वचनं व्यभिचारिभिरनुमानैरपाकर्तुमशक्यम् । जात्यन्धानां हि रूपग्रहणमेवमुत्पद्यत इति सावस्था नैवाभ्युपगतपूर्वा कदाचित् । तस्यां कथमनुमानं प्रवर्तेत ? ।। 38 ।।

यो यस्य स्वमि ज्ञानं नातिशङ्कते ।
स्थितं प्रत्यक्षपक्षे तं कथमन्यो निवर्तयेत् ।। 39 ।।

सन्ति प्रतिचरणं प्रतिपुरुषं चाप्ताः । येषां वचनमविचारितं स्वमिव दर्शनमत्यन्तमनतिशङ्कनीयम्, येषां चादृष्टमपि शिलाप्लवनादि प्रत्ययेन शक्यं श्रद्धातुम् ।
तथा हि--कर्मणामिह कृतानामूर्ध्वं देहादिष्टानिष्टफलप्राप्तिराप्तवचनपरिग्रहेणैव लोके प्रसिद्धा, विनापि शास्त्रोपदेशेन प्रायेण मनुष्यैरनुगम्यते ।। 39 ।।

इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।
आ चण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ।। 40 ।।


यस्मात् प्रत्यक्षमार्ष च ज्ञानं सत्यपि विरोधे बादकमनुमानम् ।। 40 ।।

चैतन्यमिव यश्चायमविच्छेदेन वर्तते ।
आगमस्तमुपासीनो हेतुवादैर्न बाध्यते ।। 41 ।।

यथा ह्यहमस्मीत्येवमादिप्रत्ययानुगतं सहजमनादी यच्चैतन्यं तन्नास्मि, न ममेत्येवमाप्तोपदेशे सत्यपि लोके रूढत्वाद् मुक्तात्मनामपि व्यवहारं प्रति न व्यवच्छिद्यते, तथैवायं श्रुतिस्मृतिलक्षणः सर्वैः शिष्टैः परिगृहीत आगमः । कार्याकार्यभक्ष्याभक्ष्यगम्यागम्यादिषु यो भिन्नानामपि प्रवादिनां प्रायेण नातिलङ्घनीयः, तमित्थम्भूतमुपसेवितं वृद्धैः सम्यगुपासीनो न तार्किकप्रवादैः कैश्चिन्न्याय्यादपनीयते वर्त्मनः । तत्रस्थश्चानिन्द्यो लोके भवति ।। 41 ।।

हस्तस्पर्शादिवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ।। 42 ।।

यस्य हि स्थालीपुलाकन्यायेनैकदेशं दृष्ट्‌वा शिष्टेऽर्थे प्रतिपत्तिः सोऽन्ध इव विषमे गिरिमार्गे चक्षुष्मन्तं नेतारमन्तरेण त्वरया परिपतन् कञ्चिदेव मार्गैकदेशं हस्तस्पर्शेनावगम्य समतिक्रान्तस्तत्प्रत्ययादपरमपि तथैव प्रतिपद्यमानो यथा विनाशं लभते, तद्वदागमचक्षुषा विना तर्कानुपाती केवलेनानुमानेन क्वचिदाहितप्रत्ययो दृष्टादृष्टफलेषु कर्मस्वागममुत्क्रम्य प्रवर्तमानो नियतं महता प्रत्यवायेन संयुज्यते ।। 42 ।।

तस्मादकृतकं शास्त्रं स्मतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः शब्दानामनुशासनम् ।। 43 ।।

तस्मादपौरुषेयमनतिशङ्कनीयं पुरुषहितोपदेशाय प्रवृत्तमाम्नायं प्रमाणीकृत्य, पृषोदरादिवच्च साधुशब्दप्रयोगेषु शिष्टचरितमविच्छिन्नपारम्पर्य्यं स्वचरणसमाचारं परिगृह्य, विरोधे च स्थितविकल्पान्युत्सर्गापवादवन्ति पूर्वेषामृषीणां स्मृतिशास्त्राणि प्रतिकालं दृष्टशब्दशक्तिस्वरूपव्यभिचाराणि प्रमाणीकृत्येदमाचार्यैः शब्दानुशासनं प्रक्रान्तमनुगम्यते ।। 43 ।।

द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः ।
एको निमित्तं शब्दानामपरोऽर्थे प्रयुज्यते ।। 44 ।।

उपादीयते येनार्थः, स्वरूपेऽध्यारोप्यते, तद्‌भावमिवापाद्यते, स उपादानशब्दः । एवं हि संग्रहे पठ्यते--"वाचक उपादानः स्वरूपवानव्युत्पत्तिपक्षे । व्युत्पत्तिपक्षे त्वर्थावहितं समाश्रितं निमित्तं शब्दव्युत्पत्तिकर्मणि प्रयोजकम् । उपादानो द्योतक इत्येके, सोऽयमिति व्यपदेशेन सम्बन्धोपयोगस्य शक्यत्वात्‌" इति । उपादेयो वा समुदाय उपादानः । तथा हि--स्वरूपपदार्थकेष्ववयवानामनुपादेयत्वाद् विभागानामप्रतिपत्तिः ।
एको निमित्तं शब्दानाम् । यदधिष्ठाना यदुपाश्रया यदाधाराः श्रुतयः प्रत्याय्यमर्थ प्रतिपद्यन्ते, तस्य निमित्तत्वम् ।
अपरोऽर्थे । कारणव्यापारात्तु प्रतिलब्धविक्रियाविशेषः श्रोत्रानुपाती प्रकाशकभावेन नित्यं प्रत्याय्यपरतन्त्रोऽर्थेषु प्रयुज्यते ।
(अ) लब्धानुसंहारो निमित्तम्, उपजनितक्रमस्तु प्रत्यायक इत्येके । तस्यापि क्रमरूपप्रत्यस्तमयेनैव प्रतिपत्तृषु प्राप्तसमावेशस्य प्रत्यायकत्वमाचक्षते ।
अपर आह--क्रमवानक्रमनिमित्तम् । अक्रमे तु वागात्मनि श्रुत्यर्थशक्ती संसृज्येते । एवं ह्याह--
अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः ।
शब्दस्तत्रार्थरूपात्मा सम्भेदमुपगच्छति ।। 44 ।।

आत्मभेदस्तयोः केचिदस्तीत्याहुः पुराणगाः ।
बुद्धिभेदादभिन्नस्य भेदमेके प्रचक्षते ।। 45 ।।

आत्मभेदस्य ब्रुविकर्मत्वे द्वितीया, वाक्यस्वरूपानुकरणे तु प्रथमा । तत्र कार्यकारणयोरन्यत्वपक्षे भेदः । पक्षान्तरे त्वेकस्यैवात्मनः शक्तिद्वयप्रविभागरूपपरिग्रहकृताद्‌बुद्ध्यवच्छेदान्नानात्वकल्पना । शब्दाकृतिव्यक्तिभेदाभेदव्यपाश्रयो वा पूर्वेषामाचार्याणां दर्शनभेद इति परस्तादेतद्वस्तुगत एव प्रपञ्चो भविष्यति ।। 45 ।।
अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।
तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ।। 46 ।।

एकत्वपक्षे नानात्वपक्षे वा बीजसत्तावस्थस्याविवृत्तस्य ज्योतिषो यथोत्तरेण प्रकाशात्मनाऽभिप्रज्वलितस्य स्वपररूपप्रतिपत्तिकारणत्वं प्रागसंवेद्यं पश्चादुपजायमानं दृश्यते, तथैव शब्दभेदभावनानुगते बुद्धितत्त्वे योऽयं शब्दः प्राप्त
परिपाके स्वबीजे लब्धाभिमुख्यः स्थानकरणाद्यनुगृहीतो विवर्तते, स व्यञ्जकध्वनिभेदानुपातेन व्यवच्छद्यमानोद्देशः पौर्वापर्यवानुपलभ्यमानः स्वरूपपररूपयोः प्रकाशको भवति ।। 46 ।।

वितर्कितः पुरा बुद्‌ध्या क्वचिदर्थे निवेशितः ।
करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ।। 47 ।।

इह शब्दार्थयोः सोऽयमिति सम्बन्धानुगमे क्रियमाणे यच्छब्दरूपमर्थे समारोपयितुमिष्यते, यस्मिंश्चार्थरूपमुपयोगेनानुप्रवेशं लभते, तत् पूर्व बुद्धिनिरूपणया कृतसंस्पर्शमभिधेयात्मनि प्राप्यमाणं यथाभिप्रायं रूपविपर्यासेनेव रूपान्तरोपग्राहि स्वरूपं निवेशयति ।
करणेभ्यो विवृत्तेनेति । अविक्रियाधर्मकं हि शब्दतत्त्वं ध्वनिं विक्रियाधर्माणमनु विक्रियते ।
तच्च सूक्ष्मे व्यापिनि ध्वनौ करणव्यापारेण प्रचीयमाने स्थूलेनाभ्रसङ्घातवदुपलभ्येन नादात्मना प्राप्तविवर्तेन तद्विवर्तानुकारेणात्यन्तमविवर्तमानं विवर्तमानमिव गृह्यते ।। 47 ।।

नादस्य क्रमजन्मत्वान्न पूर्वो न परश्च सः ।
अक्रमः क्रमरूपेण भेदवानिव जायते ।। 48 ।।

क्रमवता हि व्यापारेणेपसंह्रयमाणप्रचयरूपो नादः सप्रतिबन्धाभ्यनुज्ञया वृत्त्या स्फोटमवद्योतयति । स तदानीमेकोऽपि विभक्तोद्देशावच्छेद इव प्रत्यवभासते । तस्य तु क्रमयौगपद्ये नित्यत्वैकत्वाभ्यां विरोधान्न विद्येते तेनासावेकत्वमनतिक्रामन्संसर्गिणो नादस्य भेदरूपमुपसंगृह्णाति । संसर्गिधर्म एवायमित्थंभूतः । तथा ह्यत्यन्तमभिन्नात्मा भिन्नरूपावयवोऽवयवी नानादेशस्थिताधारो वैचित्र्येणोपलभ्यते ।। 48 ।।

प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।
तत्प्रवृत्तिमिवान्वेति स धर्मः स्फोटनादयोः ।। 49 ।।

तत्त्वपक्षेऽन्यत्वपक्षे वा चन्द्रादिप्रतिबिम्बं यत्राधारे संसृष्टमिवोपलभ्यते नहि तत्तथा । तत्तु निष्क्रियमपि तोयतरङ्गादिक्रियाधर्मोपग्रहेणैव तोयादीनां भिन्नां प्रवृत्तिमनुपतत्येव । प्राकृतस्य वैकृतस्य च नादस्य ह्रस्वदीघंप्लुतेषु द्रुतमघ्यमविलम्बितासु च वृत्तिषु तावानेव स्फोटो विचित्रां वृत्तिमनुविधत्ते ।। 49 ।

आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ।। 50 ।।

यथा ज्ञानं ज्ञेयपरतन्त्रम्, ज्ञेयरूपप्रत्यवभासत्वादनिर्देश्यस्वरूपमपि ज्ञानान्तरस्येव भिन्नं स्वस्यैवात्मनः स्वरूपमात्रं दर्शयति, तथा ह्यतीतमनुपलब्धमप्यन्येन ज्ञानेन स्मृतिविषयत्वं प्रतिपाद्यते । तद्वदयमर्थे शेषभावमापद्यमानः शब्दोऽभिधेयतन्त्रस्तद्‌रूपोपग्राही शेषिणीमिव स्वरूपमात्रां प्रत्यवभासयति । सा तु संनिहितप्रत्यवभासापि लोके भुज्यादिक्रियासम्बन्धविरोधान्नाश्रीयते । व्याकरणे त्वर्थस्यकार्यविरोधित्वात् तस्याश्चाभिधेयरूपेण व्यवस्थानादविरुद्धः कार्यैर्योगः ।। 50 ।।

आण्डभावमिवापन्नो यः क्रतुः शब्दसंज्ञकः
वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम् ।। 51 ।।

सर्वविभागोद्‌ग्राहप्रतिसंहारेण बाह्यो व्यावहारिकः शब्दोऽन्तः करणे मयूराद्यण्डरसवत् पूर्वविभागोद्‌ग्राहभावनामात्रामव्यतिक्रामन् प्रतिलीयते । यथा चैकस्य शब्दस्य प्रतिलयस्तथा दाशतयादीनामपि । स त्वेवं प्रतिलीनः प्रत्यस्तमितभागः प्राप्तविवक्षाप्रतिबोधायामन्तः शब्दवृत्तौ वाक्यपदविवर्तधर्ममुद्‌गृह्य प्रत्येकमवयवोद्‌ग्राहेण क्रमशक्तिं परिगृह्णाति । सा चास्योदयप्रत्यस्तमयनिर्भासमात्रा क्रियारूपेणावसीयते ।। 51 ।।

यथैकबुद्धिविषया मूर्तिरक्रियते पटे ।
सूर्त्यन्तरस्य त्रितयमेवं शब्देऽपि दृश्यते ।। 52 ।।

यथा सावयवा पुरुषादिमूर्तिराचिकीर्षिता क्रमोपलब्धावप्येकबुद्धिनिबन्धनत्वं प्राप्ता पटगुड्यादिषु क्रमेणाक्रियते, तथा व्यावहारिकोऽपि क्रमग्राह्यः शब्दः प्रतिसंहृतक्रम एकबुद्धिनिबन्धनो भूत्वा निरवयवक्रमं बुद्धिरूपं तस्यामात्मप्रत्यवभासमात्रायां पृथग्‌भूतायामिव प्रत्यस्य तद्‌भावमिवोपनीय करणवृत्तिक्रमध्वनिधर्मप्रतिपत्त्या पुनरपि व्यवहारमवतरति । तथा चासौ तिसृभिरवस्थाभिरविच्छेदेनावर्तमानो ग्राह्यग्राहकभावं नातिवर्तते ।। 52 ।।

यथा प्रयोक्तुः प्रग्बुद्धिः शब्देष्वेव प्रवर्तते ।
व्यवसायो ग्रहीतॄणमेवं तेष्वेव जायते ।। 53 ।।

यथैव प्रयोक्ता शब्दविशेषविषयं प्रयत्नमभिपद्यमानः प्रतिशब्दं परितः परिच्छिन्नान् शब्दात्मनः संस्पृशन्निव मनः प्रणिधत्ते, तथैव प्रतिपत्तापि शब्दरूपपरिच्छेदाधीनमर्थग्रहणं मन्यमानस्तं तं शब्दं सर्वेः सम्बन्धिभिर्विशेषणैराश्रितसंसर्गानुग्रहं निर्धारयति । अर्थप्रतिपत्तिभावनाभ्यासात् तु सा शब्दरूपपरिच्छेदावस्था न चित्रीक्रियते । तस्माच्छेषिभावकाष्ठामनुभूय सर्वार्थयोनयः सर्वे शब्दाः शेषभावमर्थेषु प्रतिपद्यन्ते ।। 53 ।।

अर्थेपसर्जनीभूतानभिधेयेषु केषुचित् ।
चरितार्थान् परार्थत्वान्न लोकः प्रतिद्यते ।। 54 ।।

यथैवायं शुक्ल इति सगुणे गुणिनि प्रतीयमाने क्रियाविशेषविषयमुपलक्षणत्वमपि गुणस्य क्वचिदेवान्यत्र विशिष्टत्वात् प्रतीयते, तथा यो गोशब्दः सोऽयं पिण्ड इत्यभिसम्बन्धे सति क्रियायोगविवक्षायामर्थस्योपलक्षणे चरितार्थं शब्दं शेषतां प्रतिपन्नमभिधेयमिव क्रियासाधनभावेन (न) लौकिकाः प्रतिपद्यन्ते ।। 54 ।।

ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानामेते पृथगवस्थिते ।। 55 ।।

घटादयो हि ग्राह्यत्वेनैव व्यवस्थिता इति घटादीनां ग्रहणकाले नैव काञ्चिदुपलब्धिसहकारित्वेनेन्द्रियस्य विषयस्य वा स्वल्पामप्यनुग्रहमात्रां कुर्वन्ति ।
तथा ग्राह्यत्वमप्रतिपद्यमानान्येव सर्वेन्द्रियाणि ग्राह्यस्य विषयस्य ग्रहणनिमित्तत्वाय कल्पन्ते । तेजस्तु तमोरूपविरोधिना रूपभेदेन युक्तमवधार्यमाणस्वरूपमनुग्राहकत्वेनोपलब्धौ कारणभावं प्रतिपद्यते ।
शब्दोऽपि भावान्तरविरोधिना शब्दान्तरविरोधिना च स्वरूपेणावध्रियमाणभेदः परिगृहीतविशेषशब्दस्वरूपः प्रत्याय्यमर्थं प्रकाशयति । ते चास्य प्रतिपाद्यप्रतिपादकशक्ती नित्यमात्मभूते पृथक्त्वेनेव प्रत्यवभासेते ।। 55 ।।

विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।
न सत्तयैव तेऽर्थानामगृहोताः प्रकाशकः ।। 56 ।।

यतश्चैतदेवं तस्मात्--
यदिग्राह्यत्वेन शेषिभावमप्रतिपन्नाः शब्दाः शेषत्वमर्थेषु प्रतिपद्येरन्, ते सत्तासम्बन्धमात्रेणोपलब्धा अनुपलब्धाश्च विषयत्वमनपेक्षमाणाः स्वं स्वमर्थं प्रत्याययेयुः, न तु प्रत्यायन्ति । तस्मादङ्गभूत एषामर्थेषु गुणभावापत्तौ प्राधान्यमात्रारूपेण संस्पर्श इति ।। 56 ।।

अतोऽनिर्ज्ञातरूपत्वात् किमाहेत्यभिधीयते ।
नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा ।। 57 ।।

शब्दस्वरूपसम्प्रत्ययाधीनमेवार्थप्रत्यायनं मन्यमाना लौकिकाः प्रयुक्तेष्वपि शब्देष्वप्रतीतस्वरूपषु शब्दस्वरूपविशेषप्रतिपत्त्यर्थं किं भवानाहेत्याहुः । इन्द्रियाणि तु शेषिभावमात्रासंस्पर्शेनासंसृष्टान्यपरिच्छिन्नस्वलक्षणानि विषयोपलब्धौशेषभावमुपगच्छन्ति ।। 57 ।।

भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ ।
भेदसार्येषु हेतुत्वमविरोधेन गच्छतः ।। 58 ।।

यथैव व्यपदेशिवद्‌भावविषयेष्वर्थात्मसु निमित्तभेदाद्‌ बुद्धिप्रकल्पनया व्यवस्थापितभेदेषु लोके शास्त्रे च मुख्यभेदविषयाणि सर्वाणि कार्याणि क्रियन्ते, तथा शब्देष्वपि बुद्ध्या परिगृहीतग्राह्यग्राहकशक्त्यपोद्धारेषु मुख्यार्थविषयाणीव शास्त्रे संज्ञासंज्ञिसम्बन्धादीनि भेदकार्याणि विधीयन्ते ।। 58 ।।

वृद्‌ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
आदैच्प्रत्यायितैः शब्दैः सम्बन्धं यान्ति संज्ञिभिः।। 59 ।।

इह हि भिन्नरूपसंज्ञाप्रतिपाद्येषु `इको यणचि" (पाo 6/1/77) इत्यादिषु नोच्चार्यामाण इक्‌शब्दः स्थानी, नापि यण्‌शब्द आदेशः, तत्प्रत्यायितानां तु रूपान्तरयुक्तानां संज्ञानां स्थान्यादेशभावः शास्त्रेऽन्वाख्यायते । तुल्यरूपसंज्ञेष्वपि संज्ञिषु तादृशो सम्बन्धप्रतिपत्तिरिति सिद्धमेतत् ।
अत्र वृद्ध्यादयः शब्दाः स्वरूपाधिष्ठानाः स्वेनार्थेनार्थवन्तः स्वरूपेण शब्दान्तरस्वरूपाण्युपजिघृक्षन्तः स्वरानुनासिक्यभिन्नैराकारादिभिरादैच्छब्दादिभिः प्रत्यायितैः सम्बन्धं येन प्रकारेण प्रतिपद्यन्ते, तेनैव प्रकारेण दुरवधारत्वेऽपि भेदस्य ।। 59 ।।

अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः ।
अग्निश्रुत्यैति सम्बन्धमग्निशब्दाभिधेयया ।। 60 ।।

`स्वं रूपं शब्दस्य' इति संज्ञासंज्ञिनौ भेदैनोपादीयेते । तत्र द्वौ शब्दौ श्रूयमाणौ प्रतिपादकौ, प्रतीयमानावपि द्वावेव सम्बन्धभाजौ कार्यिणौ ।
तस्मादग्निशब्दो येनार्थभूतेनाभिन्नरूपेणाग्निशब्देनार्थवान् तमग्निशब्दान्तराभिधेयस्य तुल्यश्रुतेरग्निशब्दस्य संज्ञाभावं प्रतिपादयतीति ।। 60 ।।

यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।
अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते ।। 61 ।।

प्रतिज्ञातस्यार्थस्योत्तरस्मिन् श्लोके हेतुं वक्ष्यति । प्रत्यायको हि परार्थमुच्चारितो यदर्थमुच्चारितस्तं कार्येषु नियुङ्‌क्ते, तत्र कार्याण्यासजति । तस्यापि प्रत्याय्यस्य यदा प्रदर्शनार्थमन्तः करणसंनिविष्टस्योच्चारणं क्रियते, तदा तुल्यरूपमन्यप्रतिपाद्यं शब्दान्तरं प्रति न तस्य प्रत्यायकत्वं प्रतिबध्यते । सर्वस्यैवायमुच्चार्यमाणस्यात्मधर्म इति ।। 61 ।।

उच्चरन् परतन्त्रत्वाद्‌ गुणः कार्यैर्न युज्यते ।
तस्मात् तदर्थैः कार्याणां सम्बन्धः परिकल्प्यते ।। 62 ।।

यथैव `गामानय, दध्यशान' इत्यर्थतन्त्रा श्रुतिः क्रियासु साधनत्वं न प्रतिलभते, तथा शब्दान्तरतन्त्रापि, पारार्थ्यस्याविशिष्टत्वात् । तस्मात् सर्वस्य प्रत्याय्यस्यार्थस्य चक्षुरादिग्राह्यस्य च क्रियासाधनत्वं विज्ञायते ।। 62 ।।

सामान्यमाश्रितं यद्यदुपमानोपमेययोः ।
तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ।। 63 ।।

इहोपमानमुपमेयं तयोश्च साधारणो धर्म इति त्रितयमेतत् सिद्धम् । तत्र `ब्राह्मणवदधीते क्षत्रियः' इत्युपमेय श्रूयमाणं सामान्यमुपमानेऽपि प्रतीयते । यदा तु `ब्राह्मणाध्ययनेन तुल्यं क्षत्रियाध्ययनम्' इत्यध्येतारौ उपमानोपमेययोः सम्बन्धत्वेनोपादीयेते, तदाध्ययनयोराश्रयविशेषभिन्नयोः सौष्ठवादयो धर्माः साधारणत्वेन प्रतीयन्ते । सौष्ठवादीनामप्यध्ययनसन्बन्धिनां परिनिष्पत्त्यादयो धर्मा इति नास्ति व्यतिरेकस्यावच्छेदः ।। 63 ।।

गुणः प्रकर्षंहेतुर्यः स्वातन्त्र्येणोपदिश्यते ।
तस्याश्रिताद्‌ गुणादेव प्रकृष्टत्वं प्रतीयते ।। 64 ।।

यावदिदं तदिति प्राधान्येनोपादीयते, तद्‌ द्रव्यम् । न च द्रव्यस्य प्रकर्षापकर्षौ स्त इत्याश्रितैर्भेदहेतुभिः परतन्त्रैः संसर्गिभिर्निमित्तैः प्रकर्षे सव्यापारैः प्रचिकीर्षितोऽर्थः प्रकृष्यते ।
तद्यथा---प्रकृष्टः शुक्ल इति शुक्लेन रूपेण सत्यप्युपलक्षणत्वे प्रकर्षं प्रति सव्यापारेण तद्वानप्रकृष्टाश्रयः प्रकृष्टव्यपदेशं लभते । `शुक्लतरं रूपमस्य' इत्यत्र तु रूपस्य द्रव्यत्वेनोपादाने क्रियमाणे रूपाश्रितनिमित्तात् प्रकृष्टव्यपदेशः प्रकल्पते ।
न च गुणसामान्यं श्वेतसमवायि श्वैत्यमेकत्वाद् भेदहेतुः संभवतीति संसर्गिधर्मान्तराश्रयोऽवान्तरस्यैकस्यापि भेदः परिकल्प्यते ।
संविज्ञानपदान्तराभावाद् वा भावप्रत्ययैरनिर्देश्यास्तुल्यश्रुत्युपगृहीताः शौक्ल्यवदेव रूपाश्रिता विशेषाः प्रकृष्टव्यपदेशहेतवो विज्ञायन्ते । यावच्चेदं तदिति व्यपदेश्यस्य प्राधान्येनाश्रितस्य प्रकृष्टव्यपदेशः क्रियते, तावद् विच्छिन्नोऽयं निमित्तान्तरपरिकल्पनाधर्मप्रसङ्ग इति ।। 64 ।।

तस्याभिधेयभावेन यः शब्दः समवस्थितः ।
तस्याप्युच्चारणे रूपमन्यत् तस्माद् विविच्येते ।। 65 ।।

एवं च कृत्वोच्चार्यमाणस्य---
हेतुदृष्टान्ताभ्यां व्यतिरेकव्यवस्थानिदर्शनं कृत्वा यथाप्रकृतं स्वरूपमेव पुनरनुसंह्रियते । तस्याभिधेयभूतस्य यदा यदा निदर्शनार्थमुच्चारणं प्रक्रम्यते, तदा तदा सर्वस्यैवोच्चार्यमाणस्यैवंधर्मत्वात् तस्यापि निबन्धनभूतं रूपान्तरमन्यद् विविच्यते ।
केचिदाहुः--"अभिधनमावर्तते, तदेव त्वभिधेयत्वान्न प्रच्यवते ।"
एवं हि संग्रह उक्तम्---"नहि स्वरूपं शब्दानां गोपिण्डादिवत् करणे संनिविशते । तत्तु नित्यमभिधेयमेवाभिधानसंनिवेशे सति तुल्यरूपत्वादसनिविष्टमपि समुच्चार्यमाणत्वेनावसीयते" इति ।। 65 ।।

प्राक्संज्ञिनाभिसम्बन्धात् संज्ञा रूपपदार्थिका ।
षष्ठ्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते ।। 66 ।।

आभिधेयान्तरप्रविवेकेऽप्यभिधानस्य स्वरूपेणाप्रविवेकं दर्शयति । स्वरूपाधिष्ठानं चोपसर्जनीभूतस्वरूपार्थः शब्दोऽर्थान्तरे वर्तते । यावत् संज्ञिना तु संज्ञा न सम्बद्धा, तावन्न संज्ञिपदार्थिकेत्यर्थान्तराभावे तस्याः प्रातिपदिकसंज्ञाभावाद् विभक्तियोगो न स्यात् । वाचकानां च व्यतिरेकहेतुत्वात् सम्बन्धिनि शब्दान्तरे प्रातिपदिकार्थव्यतिरेको न प्रकल्पते ।। 66 ।।

तत्रार्थवत्त्वात् प्रथमा संज्ञाशब्दाद् विधीयते ।
अस्येति व्यतिरेकश्च तदर्थादेव जायते ।। 67 ।।

स्वरूपाध्यारोपचिकीर्षायां बाह्येष्वर्थात्मसु शब्दार्थानां स्वरूपेणाधिष्ठानभूतेनार्थवत्त्वात् प्रथमा विधीयते । सोऽयमिति च संज्ञिना शक्त्यवच्छेदलक्षणः सम्बन्धो नियम्यते । तद्यथा---`गौर्वाहीकः, सिंहो माणवकः' इति । प्रातिपदिकार्थव्यतिरेकः षष्ठीप्रवृत्तिहेतु; स्वरूपाभिधेयेनार्थवता तद्वता संज्ञाशब्देन योगात् संज्ञिशब्दानामुपजायते ।
एवं ह्याह---
अर्थवता व्यपदेशः सोऽयं तस्येति वा यतो भवति ।
नानर्थकेन तस्मान्नित्यः शब्दार्थसम्बन्धः ।। इति ।। 67 ।।


स्वं रूपमिति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते ।
व्यक्तेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते ।। 68 ।।

सज्ञिनीं व्यक्तिमिच्छन्ति सूत्रे ग्राह्यमथापरे ।
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ।। 69 ।।

इह केचिद् वृत्तिकाराः पठन्ति--`स्वं रूपं शब्दस्य ग्राहकं भवति द्योतकं प्रत्यायकम्' इति । अपरे तु `स्वं रूपं शब्दस्य ग्राह्यं द्योत्यं प्रत्याय्यम्' इति । तदनेन श्लोकद्वयेनोपन्यस्तम् । जातावपि द्वयी प्रतिपत्तिराचार्य्याणाम् ।
केचिदाहुः--प्रतिनियतस्वरूपभेदा व्यक्तयः । न ह्यसंवेद्यव्यपदेश्यविद्यमानं वा व्यक्तीनां स्वरूपम् । व्यक्तिरेव हि गौः, नाकृतिः । गुण एव हि नीलः, न गुणसामान्यं नीलत्वं नीलमिति । आकृतेस्त्वकृतसमवायानामपि स एवायमिति बुद्ध्यनुवृत्तौ भेदवत्स्वर्थेषु निमित्तत्वम् । एतद्धि तस्याः सत्तायामनुमानम् ।
अन्ये तु मन्यन्ते--जातौ प्रतिलब्धस्वरूपाः शब्दास्तद्‌रूपतयैव व्यक्तिमव्यपदेश्यस्वरूपां प्रत्यायन्ति । सर्वत्रैव हि निमित्तान्निमित्तवत्यर्थे निमित्तस्वरूपः प्रत्यय उत्पद्यते । तत्र हि भेदेन दृष्टाभिधानान्यदृष्टाभिदानानि च निमित्तानि शब्दप्रत्ययावेकदेशसारूप्येणात्यन्तसारूप्येण च प्रवर्तयन्ति ।
तथा च स्वं रूपमिति जातिरेव कैश्चित् प्रतिज्ञायते । शब्दस्येति तु शब्दशब्देन व्यक्तिर्व्यपदिश्यते । केषाञ्चित् तु विपर्ययेणायं व्यपदेशः । तत्र जातेर्व्यक्तिः संज्ञा व्यक्तेर्वा जातिः । सा च प्रदेशेषूच्चारिता व्यक्तिं कार्ययोगेन प्रत्याययति । सा च जतिरसंसृष्टा व्यक्त्या नोच्चरति । व्यक्तिरप्यसंसृष्टा जात्या प्रयोगविषयं नावतरति । तात्पर्येण तु विवक्षा भिद्यते । किञ्चिदत्र प्रधानम्, किञ्चिन्नान्तरीयकमिति । तच्च प्रतिज्ञाभेदमात्रम् ।
जातिः शास्त्रे कार्ययोगिनी संचिकीर्षिता, व्यक्तिः शास्त्रे कार्ययोगिनी संचिकीर्षितेति ।
स्वं रूपं शब्दस्येत्यत्र बहुविकल्पो वैयाकरणाधिकरणेष्वागमः ।
तद्यथा--रूपमात्रमेकदेशोऽर्थवतो रूपार्थसमुदायस्य सामान्यविशेषादिशक्तियुक्तस्य शब्दस्य शब्दत्वेनाश्रितस्य संज्ञा ।
रूपवान् वा संसर्गिणीभिः शक्तिभिर्भिन्नः सार्थकः समुदायः श्रुतिमात्रस्य ग्राहकः । मात्राकलापो हि शब्दः । तदेकदेशाः स्वरूपादयो मात्राः । मात्राबिश्च मात्रावतामप्यस्ति भेदव्यपदेशव्यवहारः । वार्क्षो शाखेति यथा ।
अपर आह--यद्यपि वस्तुन भिन्नम्, शब्दार्थस्तु भिन्नः । शब्दो हयेकवस्तुविषयाणामपि शक्तीनामवच्छेदेनोपग्रहे वर्तते । तद्यथा--`अयं दण्डः' इति प्रत्यक्षरूपतया तदेव वस्तु सर्वनाम्नाभिधीयते, नोपलभ्यमानेनापि दण्दजातियोगेन । दण्डजातियोगाभिधाने हि तस्यासामर्थ्यं सर्वनाम्नः, दण्डशब्दस्य च विशिष्टजातीयार्थाभिधायिनः प्रत्यक्षत्वेऽपि सति तस्य वस्तुनः प्रत्यक्षरूपतया प्रत्यायने प्रतिबध्यते शक्तिः ।
तथा "स्वं रूपम्" इत्यनेनाग्न्यादिश्रुतयः सत्यपि शब्दजातियोगेऽग्न्यादिरूपतयैव प्रत्याय्यन्ते, (न) शब्दजातियोगित्वेन । शब्दशब्देन तु शब्दजातियोगित्वमेवाख्यायते, नाग्न्यादिश्रुतियोगः ।
तत्र शब्दान्तरार्थः शब्दान्तरार्थस्य प्रसिद्धभेदस्य संज्ञात्वेनोपादीयमानस्य संज्ञिभावं प्रतिपद्यत इति तदेतन्निदर्शनमात्रम्, प्रसक्तानुप्रसक्तविचारणाप्रसङ्गनिवृत्त्यर्थं तु सर्वे स्वं रूपसूत्रमतभेदा उदाह्रियन्ते ।। 68 - 69 ।।

कार्यत्वे नित्यतायां वा केचिदेकत्ववादिनः ।
कार्यत्वे नित्यतायां वा केचिन्नानात्ववादिनः ।। 70 ।।

येषामेकशब्दत्वं तेषामयं जातिव्यक्तिव्यवहारो न सम्भवतीति जात्युपन्यासादनन्तरमिदमुपन्यस्तम् । तत्र नित्यतायामत्यन्तमुख्यमेकत्वम् । कार्यत्वे तु सकृदुच्चरितस्य वर्णस्य पदस्य वा पुनरुच्चारणे स एवायमित्यव्यभिचारिप्रत्ययाभेद उत्पद्यमान एकत्वं प्रकल्पयति । एकत्वदर्शनं चाश्रित्योक्तम्--`एकत्वाकदारस्य सिद्धम्' इति ।
उपलब्धिव्यवधानं तु कालशब्दाभ्याम्, न वर्णरूपव्यवधानम् । देशपृथक्त्वदर्शनं च सत्ताकृतिजलबिम्बदर्शनवत् ।
अनेकत्वपक्षेऽपि कार्यष्वपि शब्देष्ववश्यं पुनरुच्चारणे व्यवहारार्थमौपचारिकमेकत्वमाश्रयणीयम् ।
भिन्नार्थानां तु पदानां भिन्नपदस्थानां च वर्णानामत्यन्तनानात्वं नित्यपक्षे कार्यपक्षे वा नानात्ववादिभिरभ्युपगम्यते ।। 70 ।।

पदभेदेऽपि वर्णानामेकत्वं न निवर्तते ।
वाक्येषु पदमेकञ्च भिन्नेष्वप्युपलभ्यते ।। 71 ।।

अर्कः, अश्वः, अर्थ इति भिन्नेष्वप्येतेषु पदेषु कालशब्दान्तराभ्यां व्यवहितोपलब्धिरभिव्यक्तिनिमित्तासंनिधानात् तिरोभूतरूपः, निमित्तभेदाद् भिन्नेषु प्रयोक्तृषु देशपृथक्त्वे भेदरूपेण प्रत्यवभासमान एक एवायमकारश्छायादर्शजलादिप्रतिबिम्बभेदकल्पेन लोके प्रयुज्यते । वाक्येषु च प्रविवेकि निर्ज्ञातार्थभेदं व यावत् तुल्यरूपं पदं गौरक्ष इति सर्वं तदेकम् । नामाख्यातभेदेऽपि चैकमेवाक्ष्यश्व इत्येवं प्रकारं पदम् ।। 71 ।।

न वर्णव्यतिरेकेण पदमन्यच्च विद्यते ।
वाक्यं वर्णपदाभ्यां च व्यतिरिक्तंन किञ्चन ।। 72 ।।

नहि क्रमजन्मभिरुच्चरितप्रध्वंसिभिरयुगपत्कालैः सावयवैर्वर्णैः शब्दान्तरारम्भः सम्भवतीति वर्णमात्रमेव पदम् । तेषामपि सावयवत्वात् क्रमप्रवृत्तावयवानामाव्यवहारविच्छेदात् तुरीयतुरीयकं किमप्यव्यपदेश्यं रूपं व्यवहारातीतमस्तीति न वर्णपदे विद्येति । वर्णपदाभावे कुतो वाक्यस्य व्यतिरेकः ?
तथा चोक्तम्--`अनित्यत्वमेवं सम्प्राप्नोति' इति । समुदायाभावादुपगृहीतार्थउपगृहीतो वा न कश्चिच्छब्दो विद्यत इति ।। 72 ।।

पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात् पदानामत्यन्तं प्रविवेको क कञ्चन ।। 73 ।।

अपर आह--
वर्णप्रतिपत्तिनिर्भासाभ्यो बह्वीभ्यः समुदायविषयस्य प्रयत्नस्य भेदात् सत्यपि पदाभिव्यक्तिविषयस्य ध्वनेर्भेदे सादृश्यानुगमाद् वर्णविभागप्रतिपत्त्युपाया पदे प्रतिपत्तिरुपद्यते ।
तत्त्वक्रममपूर्वापरमेकमेव नित्यमभेद्यं वर्णतुरीयोपपादित इवैकात्मा । वर्णानां त्वव्यपदेश्यानि व्यवहारातीतानि भिन्नरूपाभिमतान्यकारादीनां तुरीयाणि प्रतिपादकानि कल्पितानि । तेन तेषां सुज्ञानतरमेकत्वं प्रसिद्धं शास्त्रव्यवहारे । वाक्यस्य चैकानेकपदस्वरूपस्यार्थे प्रयोगाद् वाक्यप्रतिपत्त्युपायभूता पदे प्रतिपत्तिरुपद्यते । अतत्त्वभूतास्तस्मिन्नेव वाक्यात्मनि वर्णपदरूपनिर्भासाः क्रमवत्यो बुद्धय उत्पद्यन्ते ।
तस्मादेवंभूताद् वाक्यादभेद्यान्निर्भागाच्छब्दात्मनो वर्णानां पदानां चात्यन्तमविवेक इति ।। 73 ।।

भिन्नं दर्शनमाश्रित्य व्यवहारोऽनुगम्यते ।
तत्र यन्मुख्यमेकेषां तत्रान्येषां विपर्ययः ।। 74 ।।

आचार्या हि परिस्मिन्नक्रमेऽन्तः संनिवेशिनि शब्दतत्त्वे प्रत्यधिकरणमागमभेदपरिग्रहेण भिन्नानि दर्शनानि श्रिताः शास्त्रव्यवहारमनुगच्छन्ति ।
तद्यया--श्रुत्यभेदादनेकार्थत्वेऽप्येकशब्दत्वम्, अर्थभेदादेकश्रुतित्वेऽप्यनेकशब्दत्वमिति ।
तत्र चैकेषामौपचारिको भेदो मुख्यमेकत्वम् । अन्येषां तु पृथक्त्वं मुख्यं व्यावहारिकमेकत्वमिति ।
तथा हयुक्तम्--"एकश्च शब्दो बह्वर्थोऽक्षाः पादा माषाः" इति । `तथा ग्रामशब्दोऽयं बह्वर्थः' इत्युक्त्वा भेदेनोपसंहारं करोति--"तद्यः सारण्यके ससीमके सस्थण्डिलके वर्तते तस्येदं ग्रहणम्' इति ।। 74 ।।

स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ।। 75 ।।

इह नित्यत्वादात्मतत्त्वस्य स्फोटानां स्थितौ नास्ति कालपरिमाणवृत्तेः स्वल्पोऽपि व्यापारः । ध्वनिना तु संसृष्टं स्फोटस्य स्वरूपमुपलभ्यते यस्मात् तस्माद् ध्वनेः स्थितिकालः स्फोटोपलब्धिरूपः परिवर्तते । तेन च स्फोटविषयेण ग्रहणेनोपाधिना भिन्नकालेन प्रकल्पितभेदाः स्फोटस्य द्रुतमध्यमविलम्बिता वृत्तयास्त्रिभागोत्कर्षेणयुक्ताः समाख्यायन्ते ।। 75 ।।

स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ।। 76 ।।

यद्येवं ह्रस्वदीर्घप्लुतेष्वपि ध्वनिरेव कालभेदहेतुः । "तपरस्तत्कालस्य" (पाo 1/1/90) इति दीर्घप्लुतयोर्थथैव, वृत्तिभेदेऽपि तथैव तत्कालव्यपदेशप्रसङ्गः । "द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात्" इत्येतस्मिन् पर्यनुयोगेप्रसक्ते प्रविधीयते ।
इह द्विविधो ध्वनिः--प्राकृतो वैकृतश्च । तत्र प्राकृतो नाम येन विना स्फोटरूपमनभिव्यक्तं न परिच्छिद्यते । वैकृतस्तु येनाभिव्यक्तं स्फोटरूपं पुनरनिच्छेदेन प्रचिततरकालमुपभ्यते । एवं हि संग्रहकारः पठति---
शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ।।
तत्र तथा संनिवेशविशेषात् तुल्यमात्राविभागपरिमाणानि गार्गादिवाक्यानि कानिचिदुच्चारणावृत्तिप्रचयग्राह्याणि, कानिचिदपचितरूपावृत्तिग्राह्याणि । तथा स्वभावभेदादपचितध्वनिद्योत्यो ह्रस्वः । तावताऽभिव्यक्तिनिमित्तेन स्वरूपस्य ग्राहिका बुद्धिस्तत्रोत्पद्यते । प्रचितध्वनिद्योत्यस्तु दीर्घः । प्रचिततरघ्वानिप्रतिपाद्यस्तु प्लुतः । स च प्राकृतध्वनिकालो व्यतिरेकाग्रहणादध्यारोप्यमाणः स्फोटे स्फोटकाल इत्युपचर्यते शास्त्रे ।। 76 ।।

शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदं तु वैकृताः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ।। 77 ।।

तद्यथा प्रकाशो जन्मानन्तरमेव घटादीनां ग्रहणे हेतुः, अवतिष्ठमानस्तु ग्रहणप्रबन्धहेतुर्भवति, एवमभिव्यक्ते शब्दे ध्वनिरुत्तरकालमनुवर्तमानो बुद्ध्यनुवृत्तिंशब्दविषयां विषय (नाभि) व्यक्तिबलाधानादुपसंहरति । तस्मादुपलक्षितव्यतिरेकेण वैकृतेन ध्वनिना संसृज्यमानोऽपि स्फोटात्मा ताद्रूप्यस्यानध्यारोपात् शास्त्रे ह्रस्वादिवत् कालभेदव्यवहारं नावतरति ।। 77 ।।

इन्द्रियस्यैव संस्कारः शब्दस्यैवोभयस्य वा ।
क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ।। 78 ।।

कथं पुनर्ध्वनिः शब्दोपलब्धिनिसमत्तत्वं प्रतिपद्यते--
एतस्मिञ्श्लोके शब्दाभिव्यक्तिप्रक्रियामात्रं प्रतिज्ञायते । उत्तरौ तु दृष्टान्तप्रदर्शनविषयौ ।
तत्र केचिन्मन्यन्ते--ध्वनिरुत्पद्यमानः श्रोत्रं संस्करोति, तच्च संक्रियमाणं शब्दोपलब्धौ द्वारतां प्रतिपद्यते ।
अन्ये त्वभिव्यक्तिवादिनो मन्यन्ते--शब्द एव ध्वनिसंसर्गात् प्राप्तसंस्कारः श्रोत्रस्य विषयत्वमुपगच्छति । केषाञ्चिद् ध्वनिरुभयोः शब्दश्रोत्रयोरनुग्रहे वर्तते । ताभ्यामिन्द्रियविषयाभ्यां सहकारिणा निमित्तान्तरेणानुगृहीताभ्यां शब्दविषया बुद्धिरुत्पाद्यते । प्रदीपप्रकाशानुग्रहादिवद् दृश्येष्वर्थेषु सहकारिनिमित्तान्तरापेक्षया हि शक्तयो निमित्तानां समग्रतां नातिक्रामन्ति ।। 78 ।।

इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।
विषस्य तु संस्कारस्तद्‌गन्धप्रतिपत्तये ।। 79 ।।

समाधानं हि प्राकृतमलौकिकं वा न विषयात्मनि दृश्ये विशेषमादधाति । तथाञ्जनादिद्रव्यं चक्षुरेव संस्करोति, न बाह्यं विषयम् । अलौकिकमपि समाधानं सूक्ष्मव्यवहितविप्रकृष्टोपलब्धौ चक्षुरेवानुगृह्णाति । विषयानुग्रहे हि तस्यान्यैरपि ग्रहणं प्रसज्येत, विशेषाभावात् । विषयसंस्कारस्तु तैलादीनामातपादिभिः पृथिव्याश्चोदकेन गन्धप्रतिपत्तिकाले दृष्टः, न घ्राणेन्द्रियस्य । घ्राणेन्द्रियसंस्कारे तु संस्कृतासंस्कृतेषु विषयेषु प्रतिपत्तिभेदो न स्यात्, विशेषाभावात् ।। 79 ।।

चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि ।
विषयेन्द्रिययोरिष्टः संस्कारः स क्रमो ध्वनेः ।। 80 ।।

इहालोकानुगृहीतं घटादिविषयं सन्तमसेऽवस्थितोऽयं प्रतिपद्यते । तत्र येषामप्राप्यकारि चक्षुस्तेषामालोकेन विषयः प्रायेणानुगृह्यते । प्राप्यकारित्वे तु चक्षुषस्तुल्यजातीयेन तेजसा नयनरश्म्यनुग्रहः क्रियते ।। 80 ।।

स्फोटरूपाविभागेन ध्वनेर्ग्रहणमिष्यते ।
कैश्चिद् ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः ।। 81 ।।

अथापरेऽभिव्यक्तिवादिनां त्रयो दर्शनभेदाः । शब्देन संसृष्टो ध्वनिरुपाश्रयानुराग इव स्फटिकादीनामविभक्त उपलभ्यते ।
केषाञ्चित् तु यथेन्द्रियाणीन्द्रियगुणाश्चासंवेद्यस्वरूपा एव विषयोपलब्धिहेतवः, तथायं ध्वनिरगृह्यमाणरूपः शब्दग्रहे निमित्तं भवति ।
अन्ये त्वाहुः--दृष्टा केवलस्य ध्वनेः स्फोटरूपानवधारणे दूरादुपलब्धिः । शब्दोपलब्धिकल्प एवासावित्यपरे । तद्यथा--मरुष्वपचितपरिमाणानां द्रव्याणां परिमाणोपचयग्रहणं दृष्टम्, चन्द्रादीनां च परिमाणापचयग्रहणम्, वृभाद्यरूपग्रहणं च । शकलकोटरादीनां सामान्यविशेषाणां च धवखदिरादीनामप्रतिपत्तिः ।। 81 ।।

यथाऽनुवाकः श्लोको वा सोढत्वमुपगच्छति ।
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्तिः निरूप्यते ।। 82 ।।

वर्णपदवाक्यविषयाः प्रयत्नविशेषसाध्या ध्वनयो वर्णपदवाक्याख्यान् स्फोटान् पुनः पुनराविर्भावयन्तो बुद्धिष्वध्यारोपयन्ति । क्रमेण तु वर्णतुरीयग्रहणे सति समुदायाभावादविषयत्वमन्त्याया बुद्धेः प्राप्नोतीति संहितासूत्रभाष्यविवरणे बहुधा विचारितम् । कृत्स्नमपि शब्दरूपं प्रकाशीकृतं यावदस्वीकृताकारमनुपगृहीतविशेषं बुद्धावसंनिविष्टं तावदनुपलब्धेनैव तेन व्यवहारो न कश्चिदपि प्रकल्पते ।। 82 ।।

प्रत्ययैरनुपाख्येयैर्ग्रहणानुणैस्तथा ।
ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ।। 83 ।।

व्यक्तरूपग्रहणानुगुणा अनुपाख्येयाकारा बहव उपायभूताः प्रत्यया ध्वनिभिः प्रकाश्यमाने शब्दे समुत्पद्यमानाः शब्दस्वरूपावग्रहहेतवो भवन्ति ।। 83 ।।

नादैराहितबीजायामन्त्येन ध्वनिना सह ।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ।। 84 ।।

तत्र त्वयमाकारपरिग्रहक्रमः--
नादैः शब्दात्मानमवद्योतयद्भिर्यथोत्तरोत्कर्षेणाधीयन्ते व्यक्तपरिच्छेदानुगुणसंस्कारभावनाबीजानि । ततश्चान्त्यो ध्वनिविशेषः परिच्छेदसंस्कारभावनाबीजवृत्तिलाभप्राप्तयोग्यतापरिपाकायां बुद्धावुपग्रहेण शब्दस्वरूपाकारं सन्निवेशयति ।। 84 ।।

असतश्चान्तराले याञ्छब्दानस्तीति मन्यते ।
प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः ।। 85 ।।

इह निर्भागेष्वपूर्वापरेष्वभेद्येषु वर्णपदवाक्येषु ध्वनिनाभिव्यज्यमानेषु वर्णे तावद्वर्णावयवग्रहणसरूपा भागाभिनिवेशिन्य इव बुद्धय उपजायन्ते पदे वर्णग्रहणसरूपाः, वाक्ये पदग्रहणसरूपाः । ताभिश्च बुद्धिभिरुपलब्धारो भागभूतानसतः शब्दानस्तित्वेनाभिमन्यन्ते । सा खलु पराप्रदर्शितविषयग्रहिणामशक्तिः प्रतिपतॄणाम् । तथाभूतोपायक्रमवर्णान्तरसाध्यमेव हि तेषां शब्ददर्शनम् । निष्क्रमं तु दाशतयमप्युपायान्तरेणप्रतिपद्यन्ते प्रतिपादयन्ति च ।। 85 ।।

भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः ।
क्रमोपसृष्टरूपा वाग्‌ ज्ञानं ज्ञेयव्यपाश्रयम् ।। 86 ।।

अभिन्नमपि ज्ञानमरूपं सर्वज्ञेयरूपोपग्राहित्वाभ्देदरूपतया प्रत्यवभासते--पञ्च वृक्षाः, विंशतिर्गाव इति । संहृतसर्वबीजश्चायमान्तरः शब्दात्मा व्यञ्जकध्वनिभेदक्रमानुकारेणाविर्भावकाले प्रत्यवभासते । तेन चान्यभेदरूपोपग्रहेणोपप्लुतं शब्दतत्त्वमेवेदं वाङ्‌मनसाख्यमविभागमन्यथा प्रतीयत इति । एवं ह्याह--
ज्ञेयेन न विना ज्ञानं व्यवहारेऽवतिष्ठते ।
नालब्धक्रमया वाचा कश्चिदर्थोऽभिधीयते ।। 86 ।।

यथाद्यसंख्याग्रहणमुपायः प्रतिपत्तये ।
संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः ।। 87 ।।

यथा शतसंख्या सहस्त्रसंख्यां व भेदिकामाश्रयस्य प्रतिपित्समानस्तदुपायभूतानेकत्वादीन् भिन्नकार्यान् शतादीनामवयवानिव प्रतिपद्यते, तथा देवदत्तादिशब्दान्तरश्रुतिपरिच्छेदोपाया वाक्यरूपप्रतिपत्तिरिति नान्तरीयकं तासामुपादानम् ।। 87 ।।

प्रत्येकं व्यञ्जका भिन्ना वर्णवाक्यपदेषु ये ।
तेषामत्यन्तभेदेऽपि संकीर्णा इव शक्तयः ।। 88 ।।

वर्णपदवाक्यविषया हि विशिष्टाः प्रयत्नास्तत्प्रेरिताश्च वायवः स्थानान्यभिघ्नन्ति । स्थानामिघातप्रप्तसंस्काराश्च ध्वनयो यद्यपि परव्यावृत्तस्वभावाः, तथापि गोगवयजात्युपव्यञ्जनवद्, भ्रमणरेचनादिकर्मसामान्यविशेषाश्रयवच्च तेषामुपव्यञ्जनानां दुर्ज्ञानो भेदः । सामान्यमात्रया कयाचिदनुगतः प्रविभक्तकार्याणामपि शक्तीनामात्माकुतश्चित् कार्यविशेषात् संस्कारेणैवावस्थितः ततश्चायं निरवयवेषु वर्णेषु मात्राविभागाध्यवसायः, पदेषु च वर्णविभागाध्यवसायः, वाक्येषु च पदविभागाध्यवसाय इति ।। 88 ।

यथैव दशंनैः पूर्वैर्दूरात् सन्तमसेऽपि वा ।
अन्यथाकृत्य विषयमन्यथैवाध्यवस्यति ।। 89 ।।

यथा विषयेन्द्रियधर्म एवायं प्राकृतचक्षुषां दूरादाकृतिमात्रोपलब्धौ वृक्षादीन् हस्त्यादिवत् प्रतिपद्यन्ते । तद्देशावस्थिता एव प्रणिधानाभ्यासात् क्रमेण पुनर्यथावयवमुपलभन्ते । व्यक्तालोकाच्च देशात् सहसा मन्दसंनिविष्टप्रकाशात् अपवरकादीन्प्रविश्यरज्ज्वादीन् सर्पादिवत् प्रतिपद्य तथैव प्रणिधानाभ्यासात् चक्षुषि प्रकृतिस्थे यथावदुपलभन्ते ।। 89 ।।

व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ।। 90 ।।

वाक्ये हि निर्भागे तदभिव्यक्तिविषयैः प्रयत्नविशेषैः समुत्थाप्यमाना ध्वनयः सत्यपि भेदे सामान्यशक्तिसमन्वयाद् वर्णपदप्रत्यवभासभागावग्रहरूपां बुद्धिं प्रवर्तयन्ति ।। 90 ।।

यथानुपूर्वोनियमो विकारे क्षीरबीजयोः ।
तथैव प्रतिपतॄणां नियतो बुद्धिषु क्रमः ।। 91 ।।

यथा क्षीरमुत्पत्तिपक्षेऽभिव्यक्तिपक्षे वा सर्पिरादिविकारप्रयुक्तं नियतरूपैर्मण्डतकादिभिरवस्थाविशेषैर्विशिष्टसंविज्ञानपदनिबन्धनैरसंविज्ञानपदैश्च युज्यमानं यथायथं प्रकृतिधर्मप्रत्यासत्तिमनुवर्तमानमन्यतमानुपूर्वो नियमानतिक्रमेण प्रयोजिकां विकारशक्तिं प्रदर्शयति । शाल्यादिबीजं च तण्डुलादिप्रधानविकारप्रयुक्तं नान्तरीयकैर्नालाङ्‌कुरादिभिरवस्थाविशेषैर्युज्यमानं प्रयोजकेन प्रधानविकारधर्मेण प्रत्यवभासते । तथैषामर्वाग्‌दर्शनानां प्रतिपत्तॄणां वाक्यस्वरूपग्रहणपूर्वकेण वाक्यार्थग्रहणेन प्रधानेन प्रयुक्तानां नियतोपाये साघ्ये तस्मिन्नर्थे नियतक्रमपरिणामभागाकारप्रत्यवभासमात्रायुक्ता बुद्धयः प्रवर्तन्ते स्फोटेषु ।। 91 ।।

भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् ।
निर्भागेष्वभ्युपायो वा भागभेदप्रकल्पनम् ।। 92 ।।

येऽपि भेदवादिनो गौरिति गाकारौकारविसर्जनीयमात्रमेव प्रतिपन्नाः, नान्यस्तद्व्यतिरिक्तो वर्णरूपग्रहणोपायग्राह्यो निर्भागः शब्दात्मा विद्यते इति मन्यन्ते, नित्यत्वं च शब्दानामभ्युपगच्छन्ति, तेषां क्रमेणाव्यपदेश्यवर्णतुरीयांशाभिव्यक्तौ स्वारूपानवधारणमविषयत्वं चान्त्यस्य व्यक्तरूपोपग्राहिणः परिच्छेदस्य प्रसज्यते । यौगपद्येन तु सर्वावयवाभिव्यक्तौ श्रुत्यविशेषप्रसङ्गो गवे इति च , वेग इति च, तेन इति च, न ते इति च ।
तत्र शब्दान्तरेऽर्थान्तरसम्बन्धिनि नैवायं दोषः । तस्मिन्नपि तु शब्देऽभिव्यञ्जकध्वनिक्रमकृता भेदेन प्रतिपत्तिः । दृष्टो हि मण्डूकादिवसासम्बद्धप्रदीपाभिव्यक्तेषु रज्ज्वादिषु सर्पादिप्रतिपत्तिभेदः ।
निर्भागेषु वा भागभेदप्रकल्पनाकृतशक्तिविशेषपरिग्रहा बुद्धयो यथोपायत्वं प्रतिपद्यन्ते, तदनन्तरश्लोकेषु वर्णितम् ।। 92 ।।

अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
कैश्चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ।। 93 ।।

आकृतिनित्यत्वाच्छब्दनित्यत्वं केचिद् आचक्षाणाः `उभयतः स्फोटमात्रं निर्दिश्यते, रश्रुतेर्लश्रुतिर्भंवति' इत्येवमादिषु स्फोटशब्दवाच्यां शब्दत्वादन्यां क्रमजन्मभिरयुगपत्कालैराश्रयैः क्रमेण प्रकल्पितोपलब्धिनिमित्तसंस्कारां शब्दाकृतिमाचक्षते । उत्पत्तिमत्यस्तु शब्दव्यक्तयः सत्यव्यपदेश्यरूपत्वे स्फोटं व्यपदेश्यरूपमवद्योतयन्त्यो ध्वनिव्यपदेशं लभन्ते ।। 93 ।।

अविकारस्य शब्दस्य निमितैर्विकृतो ध्वनिः ।
उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् ।। 94 ।।

अन्ये त्वाकृतिव्यक्तिव्यवहारप्रक्रियावैधर्म्यादेकमेव शब्दतत्त्वं नित्यमलब्धपरिणामं स्वनिमित्तेभ्यः प्राप्तविकारैर्ध्वनिभिरनाश्रितं ध्वनिषु प्रदीपादिप्रकाशन्यायेनासति वस्तुसंप्रमोहे प्राप्तव्यञ्जकध्वनिविक्रियानुरागमुपलब्धरूपमिवाभिव्यज्यत इत्याहुः ।। 94 ।।

न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता ।
आश्रयैरपि नित्यानां जातीनां व्यक्तिरिष्यते ।। 95 ।।

इह केचिदभिव्यक्तिमेवानित्यत्वसमधिगमहेतुत्वेनापदिशन्ति । अनित्यः शब्दोऽभिव्यङ्‌ग्यत्वाद्‌ घटवत् । इहानित्यानां घटादीनां प्रदीपादिभिरभिव्यक्तिर्दृष्टा, शब्दश्चायं ध्वनिभिरभिव्यज्यत इत्युपगम्यते, तस्मादनित्यः । अथ नाभिव्यज्यते. प्राप्तमिदमुत्पद्यते इति, अतोऽप्यनित्य एव । तत्र येषां जातयः सन्ति, नित्याश्च, तान् प्रत्युच्यते--उभयथा दृष्टत्वादनपदेश इति ।
येषां तु नैव किञ्चिन्नित्यमस्ति तेष्वसिद्धत्वेन प्रत्यवतिष्ठमानेष्वनैकान्तिकत्वस्य नित्यशब्दवादिनः प्रथमतरमसिद्धत्वेनैव प्रत्यवतिष्ठन्ते । कथम् ? परं हि प्रत्यभिव्यङ्ग्यत्वादित्यनपदेशः, संदिग्धत्वाद् विकल्पप्रसङ्गो वानुषङ्गिणामित्यनवस्था स्यात् तर्कस्य ।। 95 ।।

देशादिभिश्च सम्बन्धो दृष्टः कायवतामपि ।
देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ।। 96 ।।

अथापरः पूर्वपक्ष इहोपादीयते--देशभेदान्नाभिव्यज्यते शब्दः । समानदेशस्था हि घटादयः प्रदीपादिभिर्व्यज्यन्ते । करणसंयोगविभागाभ्यां तु व्यञ्जकाभ्यामन्यत्र शब्दोपलब्धिरिति । स चायं ध्वनिषु व्यञ्जकेष्वप्रसङ्गः । तत्रापि ब्रुवते--कथमेकदेशस्थः शब्दो नानादेशैरतिविप्रकृष्टैर्ध्वनिभिर्व्यज्यते इति ।
तत्रेदं प्रतिविधीयते--देशैकत्वं देशनानात्वमिति कायवतामेष धर्मः । कायवन्तोऽपि तावदादित्यादयः परिच्छिन्नदेशा नानाधिकरणस्था इहोपलभ्यन्ते । अमूर्तयोस्तु ध्वनिशब्दयोर्देशदेशिव्यवहारातिक्रमात् सत्यपि देशभेदविकल्पाभिमाने नैवासौ तयोर्भेदो विद्यत इति ।। 96 ।।

ग्रहणग्रह्ययोः सिद्धा योग्यता नियता यथा ।
व्यङ्ग्यव्यञ्जकभावेन तथैव स्फोटनादयोः ।। 97 ।।

अथापरः पूर्वपक्षः--अभिव्यञ्जकनियमान्नाभिव्यजयते शब्दः । इहाभिव्यङ्‌क्तव्यं नाभिव्यञ्जकं नियतमपेक्षते । घटादीनां हि मणिप्रदीपौषधिग्रहनक्षत्रैः सर्वैः सर्वेषामभिव्यक्तिः क्रियते । नियतनादाभिव्यञ्जकाश्चाभ्युपगम्यन्ते शब्दाः, वर्णान्तराभिव्यक्तिहेतुभिर्नादैर्वर्णान्तराणामनभिव्यक्तेः तस्मान्नाभिव्यज्यन्त इति । तत्र प्रतिविधीयते--ग्रहणग्राह्ययोरिति ।
तद्यथा चक्षुः समवेतं रूपमेव बाह्यरूपस्याभिव्यक्तौ निमित्तम्, न गुणान्तरणि, नापीतराणोन्द्रियाणि, नेन्द्रियान्तरगुणाः, तथा बाह्यार्थाभिव्यक्तिहेतवो भवन्ति ।। 97 ।।

सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।
निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् ।। 98 ।।

तुल्येन्द्रियग्रह्येष्वयं नियमो न विद्यत इति पर्यनुयोगे प्रतिविधीयते --
तुल्येन्द्रियग्राह्येष्वप्येष धर्मो दृश्यते । तद्यथा नदीशैलेयादीनां द्रव्याणां किञ्चिदेव संयोगिद्रव्यान्तरं कस्यचिदेत्र द्रवयस्य गन्धविशेषाभिव्यक्तौ समर्थं भवति ।। 98 ।।

प्रकाशकानां भेदाँश्च प्रकाश्योऽर्थोऽनुवर्तते ।
तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ।। 99 ।।

अथापरः पूर्वपक्षः--नाभिव्यज्यते शब्दः, वृद्धिह्राससंख्याभेदेष्वभिव्यञ्जकानामभिव्यङ्ग्यस्य तद्धर्मसमन्वयात् । न ह्यभिव्यञ्जकानां वृद्धिह्रासयोरभिव्यङ्ग्यानामर्थानां वृद्धिह्रासावुपलभ्येते । तद्यथा--प्रदीपस्य वृद्धिह्रासौ न घटादीनाम् । न खल्वपि प्रदीपस्य संख्याभेदे संख्यान्तरयुक्तानां घटादीनां प्रदीपसंख्याभेदनिमित्तः संख्यान्तरयोगो दृश्यते । शब्दस्य त्वभिघातभेदे दृश्यते संख्यापरिमाणभेदः । तस्मान्नाभिव्यज्यत इति । तत्र प्रतिविधीयते--
दृष्टमभिव्यङ्ग्यानामभिव्यञ्जकभेदानुविधानम् । तद्यथा--निम्नेष्वादर्शतलादिषु मुखप्रतिबिम्बमुन्नतं दृश्यते, उन्नतेषु निम्नम्, खङ्गे दीर्घम्, प्रियङ्गुतैलेश्यामम्, चीनशस्त्रयवनकाचादिष्वादर्शप्रमाणभेदानुपातीत्यपरिमाणो भेदविकल्पः । संख्याभेदोऽप्यादर्शभेदे जलतरङ्गभेदे च दृश्यते सूर्य्यादिप्रतिबिम्बानाम् ।। 99 ।।

विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।
पर्वतादिसरूपाणां भावानां नास्ति संभवः ।। 100 ।।

तत्रैतत् स्यात्--प्रतिबिम्बमादर्शादिषु चन्द्रादिभ्यो भावान्तरमेव संनिविष्टमुपलभ्यत इति । तत्र प्रतिविधीयते --
नही वज्रादिष्वाधारेषु विरुद्धपरिमाणानामन्तः संनिवेशिनां पर्वतादिसरूपाणां भावानामुत्पत्तिः संभवतीति ।। 100 ।।

तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु ।
वृत्तिकालः स्वकालश्च नादभेदाद् विभज्यते ।। 101 ।।

नित्यानां हि स्थितौ सहकारिण्याः कालशक्तेर्व्यापारो न विद्यते । लोके व्यवहारेण तु बुद्ध्या पूर्वान्तापरान्तयोरनुगम्यमानात्मतत्त्वाः स्थितिं प्रति न भिद्यन्ते सर्व एव प्रचिताप्रचितरूपा वर्णपदवाक्याख्याः स्फोटाः । उपलब्धिविषयतापत्तौ तुतेषामभिन्नकालानामुपलब्धिस्थित्यभिमानः । वृत्तिकालः स्वकालश्चेति ।
नादो ही प्राकृतः शब्दत्मनि प्रत्यस्यमानस्थितिरूपो भेदस्याग्रहणार्थं ह्रस्वदीर्घप्लुतकालभेदव्यवहारव्यवस्थाहेतुः । वैकृतस्तु नादो बाह्यद्रुतादिवृत्तिकालव्यवस्यां प्रकल्पयति ।। 101 ।।

यः संयोगविभागाभ्यां करणैरुपजन्यते ।
स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ।। 102 ।।

अनित्यपक्षे स्थानकरणप्राप्तिविभागहेतुकः प्रथमाभिनिर्वृत्तो यः शब्दः, स स्फोट इत्युच्यते । तज्जातस्तु सर्वदिक्कालस्तद्रूपप्रतिबिम्बोपग्राहिणः सर्वद्रव्याणां स्वेनात्मना निरवयवत्वाद् आकाशस्यापि मुख्यसमवायिदेशवत् संयोगिद्रव्यान्तरदेशप्रविभागोपचारे सति, देशनैरन्तर्यप्रत्यासत्त्या कार्यकारणसन्तानाविच्छेदेन यथोत्तरमपचीयमानपूर्वप्रतिबिम्बोपग्रहशक्तयो मन्दप्रदीपप्रकाशितरूपकल्पाः क्रमेण प्रध्वंसमाना ये वर्णश्रुतिं विभजन्ति, ते ध्वनय इत्युच्यन्ते ।
नित्यपक्षे तु संयोगजविभागजध्वनिव्यङ्ग्यः स्फोटः । एकेषां संयोगविभागजध्वनिसंभूतनादाभिव्यङ्ग्यः । स्फोटरूपानुग्राहिणस्तु यथोत्तरमपचीयमानाभिव्यक्तिसामर्थ्या द्रुतादिवृत्तिभेदव्यवस्था हेतवोऽपचयात्मका ध्वनयः ।। 102 ।।

अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।
परस्तु शब्दसन्तानः प्रचयापचयात्मकः ।। 103 ।।

देशव्याप्तिसामान्यादल्पमहत्त्वे शब्दस्योपचर्येते । प्रसिद्धेर्वा । सर्वत्र हि प्रसिद्धिरे वार्थव्यवस्थाकारणम् ।
अनवस्थितैव हि तर्कागमाभ्यां भिन्नेषु प्रवादेषु वस्तुगता व्यवस्था । तत्राविशेषेण कार्यशब्दानां कारणशब्दानां चोत्पन्नापवर्गित्वान्नास्ति महतोऽल्पस्य वा शब्दस्य सूक्ष्मोऽपि कश्चित् कालभेदः, हस्तिमशकज्ञानवत् ।
निमित्तभेदात्तु कार्यारम्भे शब्दस्य सामर्थ्यं भिद्यते । कस्यचिद्धि भेरीदण्डाभिघातजस्येव कार्यपरम्परा दूरमनुपतति । कश्चित् तु लोहकंसाभिघात इव प्रत्यासन्नदेशग्राह्यं दीर्घकालं सन्तानमविच्छेदेनारभते ।। 103 ।।

दूरात् प्रभेद दीपस्य ध्वनिमात्रं तु लक्ष्यते ।
घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते ।। 104 ।।

इह केचिदाचार्या व्यक्तं स्फोटं सहजेन ध्वनिना सर्वतो दूरव्यापिना प्रकाशस्थानीयेन गन्धेन युक्तं द्रव्यविशेषमिवाविर्भावकाल एव संबद्धं मन्यन्ते ध्वनिना । यथैव प्रदीपे घनसंनिविष्टावयवं प्रत्युपादानं तेजोद्रव्यं तदाश्रितश्च तद्विक्रियानुपरवर्तो प्रकाशः, तथा घण्टायाश्चाभिघातेन व्यक्ततरौ स्फोटनादौ सर्वषां वर्णानामभिनिष्पत्तौ धर्म इति ।
स चायं श्लोकद्वयेनानन्तरेण प्राकृतवैकृतयोर्नादयोर्विशेष आख्यातः ।। 104 ।

द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुतावपि ।
कम्पे तूपरते जाता नादा वृत्तेर्विशेषकाः ।। 105 ।।

नित्यपक्षेऽपि नैव शब्दानां प्रचये दीर्घप्लुतौ प्रचीयेते । किं तर्हि द्रव्याभिघातप्रचयादेव । स्वरूपमेव हि तयोस्तावद्भिरभिघातैर्निष्पादयितुं शक्यते । तस्मादास्वरूपलाभात् तयोः करणानामभिघातविशेषादितरेतरावयवसंस्पर्शौ व्यक्तवायुप्रस्पन्दनानुगतः कम्पोऽनुवर्तते । कम्पे तूपरते ये नादजा नादास्ते द्रुतादिवृत्तिभेदव्यवस्थाहेतवो भवन्ति ।। 105 ।।

अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे ।
स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव ।। 106 ।।

कम्पेष्वप्यविच्छेदनानुवर्तमानेषु यावानभिघातजः शब्दो नासौ कदाचिदप्यनारब्धकार्यो निवर्तते । तत्र ये कम्पजाः शब्दाः समानकाला ध्वनयः स्फोटात्मानमभिसंस्कुर्वन्ति, तांश्चाभिमर्शिनोऽनुप्रकाशान् नादान्तरालाननुषङ्गानित्याचक्षते । तेषामपि च प्रत्यनुषङ्गं कार्यपरम्परा यावत्कम्पो न विच्छिद्यते , तावत् स्फोटानुग्रहमात्रयानुवर्तत इत्याहुः ।
सा चेयमुत्पत्तिरिन्धनज्वालाप्रवृत्तिप्रबन्धधर्मेणाख्यायते । तद्यथेन्धनाश्रिताभिर्ज्वालाभिर्ज्वालाकार्यसन्तानसमुद्भवा ज्वालाः संप्रवर्तन्ते । तत्प्रकाशनेन चार्थानामुपकुर्वन्ति, तथेमपि नादप्रवृत्तिरिति ।। 106 ।।

वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।
कैश्चिद् दर्शनभेदो हि प्रवादेष्वनवस्थितः ।। 107 ।।

लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना ।
स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते ।। 108 ।।

तत्र वायोस्तावच्छब्दभावापत्तिमाचक्षते --

तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः ।
सन्निपाताद् विभज्यन्ते सारवत्योऽपि मूर्तयः ।। 109 ।।

इत्येवमादिसर्वमनुगन्तव्यम् ।। 109 ।।

अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः ।
छायातपतमःशब्दभावेन परिणामिनः ।। 110 ।।

स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ।। 111 ।।

अणूनां शब्दत्वापत्तिमपरे प्रतिपन्नास्त एवमाहुः ।
इत्यादि सर्वमनुगन्तव्यम् ।। 110 - 111 ।।

अथायमान्तरो ज्ञाता सूक्ष्मे वागात्मनि स्थितः ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ।। 112 ।।

स मनोभावमापद्य तेजसा पाकमागतः ।
वायुमाविशति प्रणमथासौ समुदीर्यते ।। 113 ।।

अन्तः करणतत्त्वस्य वायुराश्रयतां गतः ।
तद्धर्मेण समाविष्टस्तेजसैव विवर्तते ।। 114 ।।

विभजन् स्वात्मनो ग्रन्थीन् श्रुतिरूपैः पृथग्विधैः ।
प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते ।। 115 ।।

ज्ञानस्य खल्वपि शब्दत्वापत्तिमपरे वर्णयन्ति--
इत्येवमादि सर्वमनुगन्तव्यम् । निदर्शनमात्रं चेदम् । बहुधा शिक्षासूत्रकारभाष्यकारमतानि दृश्यन्ते । तद्यथा--"अन्तर्वर्तिना प्रयत्नेनोर्ध्वमुदीरितन्तः प्राणो वायुस्तेजसानुगृहीतः शब्दवहाभ्यः शुषिभ्यः सूक्ष्मांशं धूमसन्तानवत् संहति ।
स स्थानेषु शब्दघनः संहन्यमानः प्रकाशमात्रया कयाचिदन्तः संनिवेशिनः शब्दस्याविभक्तं बिम्बमुपगृह्णाति" इत्येवमादि सर्वमनुगन्तव्यम् ।
तद्यथा--"नाभिप्रदेशात् प्रयत्नप्रेरितो वायुरूर्ध्वमाक्रामन्नुरस्यादीनां स्थानानामन्यतमं स्थानमभिहन्ति, ततः शब्दनिष्पत्तिः" इत्यादिशिक्षाकारमतभेदप्रबन्धोऽनुगन्तव्यः ।
आचार्यः खल्वप्याह--
आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।।
इत्येवमादि ।
तथापरः पठति--"वायुः कोष्ठस्थानमनुप्रदानमापद्यते । स कण्ठगतः श्वासतां नादतां वा" इत्यादि ।
अथापर आह--"मनोऽभिहतः कायाग्निः प्राणमुदीरयति । स नाभेरुद्यन् मूर्धन्यभिहतोऽन्येन पुनरुद्यता मरुताभिहन्यमानो ध्वनिः सम्पद्यते, क इति वा ख इति वा" इत्येवमादि प्रतिशाखं शिक्षासु भिन्नमागमदर्शनं दृश्यमानं सर्वं प्रपञ्चेन समर्थयितव्यम् ।। 112 - 115 ।।

अजस्त्रवृत्तिर्यः शब्द सूक्ष्मत्वान्नोपलभ्यते ।
व्यञ्जनाद् वायुरिव स स्वनिमित्तात् प्रतीयते ।। 116 ।।

अथापर आगमोऽनुगम्यते--सूक्ष्मो वायुसंनिचय इवान्तर्बहिश्च सर्वमूर्त्तोनां ध्वनिरवस्थितः । स चैकेषामाकाश इति प्रतिपद्यते । स यथैव तु सर्वत्र परमाणुसंभवे संहतत्वाद् व्यजनाभिघातेन वायुराश्रयस्थानात् प्रविभज्यमानः क्रियाभिराविश्यते, तथैव ध्वनिः स्वनिमित्तैरभिव्यक्तप्रचितविक्रियारूपः श्रोत्रप्रदेशं प्राप्त उपलभ्यते संस्करोति च ।। 116 ।।

तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता ।
विवर्तमाना स्थानेषु सैषा भेदं प्रपद्यते ।। 117 ।।

पक्षभेदा एवैते । नायमनन्तरः प्रचयधर्माध्वनिरिह श्लोके निर्दिश्यते । शब्दस्तु पूर्वप्रकृतः प्रवादभेदैरन्वाख्यायते । शब्दः खलु प्राणाधिष्ठानो बुद्ध्यधिष्ठानश्च ।
स तु द्वाभ्यां प्राणबुद्धिमात्राशक्तिभ्यां प्रतिलब्धाभिव्यक्तिरर्थं प्रत्याययति ।
तत्र प्राणो बुद्धितत्त्वेनान्तराविष्टः । स चोर्ध्वमभिप्रवृत्तो ज्वालावद् वर्णस्थानेष्वाक्षेपकप्रयत्नानुविधायी प्रतिविघातविवर्तेन नित्यशब्दोपग्राहिणा विवर्तते ।
स च संसृष्टप्राप्तशक्तिविवर्तः पृथिवीकललन्यग्रोधधानादिवद् भेपमुपगृह्णाति, भेदानुरागमात्रं च परस्मिन्नभेदे शब्दात्मनि संनिवेशयति ।। 117 ।।

शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी ।
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतीयते ।। 118 ।।

तत्र केषाञ्चिदाकृतयः सूक्ष्मशब्दाधिष्ठाननिबन्धनाः । ताः खल्वात्माभिव्यक्तिमधिष्ठानपरिणामेन प्रतिलभमाना वाच्यवाचकभावेन व्यवतिष्ठन्ते । यथापरेषामिन्द्रियेषु विषयमात्रशक्तयः प्रतिलयं गच्छन्ति, तथेन्द्रियमात्राशक्तयो बुद्धिषु, बुद्धिमात्राशक्तयः प्रतिसंह्रतक्रमे वागात्मनि ।
सा चेयं स्वप्नप्रबोधप्रवृत्तिः प्रविभक्तपुरुषानुकारा महत्यपि वाक्तत्त्वे कारणे नित्यमवस्थिता ।
तथाऽपरेऽप्याहुः--
वागेवार्थं पश्यति वाग् ब्रवीति वागेवार्थं निहितं सन्तनोति ।
वाच्येव विश्वं बहुरूपं निबद्धं तदेतदेकं प्रविभज्योपभुङ्‌क्ते ।। 118 ।।

षड्‌जादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।
तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ।। 119 ।।

संविज्ञानपदनिबन्धनो हि सर्वोऽर्थः स्मृतिनिरूपणयाऽभिजल्पनिरूपणयाकारनिरूपणया च निरूप्यमाणो व्यवहारमवतरति ।
षड्‌जऋषभगान्धारधैवतिनिषादपञ्जममध्यमानां चानवस्थितप्रसिद्धसंविज्ञानपदानांविशेषोऽवधारणनिबन्धनपदप्रत्ययमन्तरेण नावधार्यते । गोपालाविपालादयो हि निबन्धनपढानि प्रकल्प्य गवादिषु विशेषविषयं व्यवहारमारभन्ते ।
तस्मात् समाख्येयेष्वसमाख्येयेषु च सामान्यविशेषशब्देष्वध्यारूढो भेदवानर्थः शब्दशक्तिसंसृष्ट्या शब्दानुविद्धया शब्दात्मिकया बुद्ध्या प्रकाश्यत उपगृह्यते स्वीक्रियते ।। 119 ।।

शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः ।
छन्दोभ्य एव प्रथममेतद् विश्वं व्यवर्तत ।। 120 ।।

यथैवान्ये कार्यकारणभावमाचक्षाणाः कार्येषु कारणधर्मसमन्वयं दृष्ट्‌वा व्यावृत्तभेदं सूक्ष्ममसंवेद्यं सर्वविकारशक्त्यनुगतं प्रत्यस्तमितव्यक्तिरूपमणुग्रामं प्रधानशक्तिसमूहमविद्याकारणं जन्मपरिणामासंसर्गं विवर्तं व्यवस्थापयन्ति, तथैवाम्नाये संह्रतभोग्यभोक्तृशक्तेर्वागात्मनो बहुधा कारणत्वमाम्नातम्--"स उ एवैष ऋङ्‌मयो यजुर्मयः साममयो वैराजः पुरुषः । पुरुषो वै लोकः । पुरुषो यज्ञः । तस्यैता लोकम्पृणास्तिस्त्र आहुतयस्ता एव त्र्यालिखिता वै त्रयो लोकाः" इति ।
तथा--"एष वै छन्दस्यः साममयः प्रथमोऽक्षन् वैराजः पुरुषो योऽन्नमसृजत तस्मात् पशवोऽन्वजायन्त । पशुभ्यो वनस्पतयः , वनस्पतिभ्योऽग्निः । तस्मादाहुर्न दारुपात्रेण दुह्यादग्निर्वा एष दारुपात्रम् । तस्मान्न दारुपात्रेण दुह्यते" (इति) ।
ऋग्वर्णः खल्वपि--
इन्द्राच्छन्दः प्रथमं प्रास्यदन्नं तस्मादिमे नामरूपे विषूची ।
नाम प्राणाच्छन्दसोरूपमुत्पन्नमेकं छन्दो बुहुधा चाकशीति ।।
तथा पुनराह--
वागेव शिश्वा भुवनानि जज्ञे वाच इत्सर्वममृतं यच्च मर्त्यंम् ।
अथेद्वाग् बुभुजे वागुवाच पुरुत्रा वाचो न पदं यच्च नाह ।।
पुराकल्पोऽप्याह--
विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः ।
छन्दोमयीभिर्मात्राभिर्बहुधैव विवेश तम् ।।
साध्वी वाग्‌भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापते। ।।
प्राजापत्यं महत्तेजस्तत्पात्रैरिव संवृतम् ।
शरीरभेदे विदुषां स्वां योनिमुपधावति ।।
यदेतन्मण्डलं भास्वद् धाम चित्रस्य राधसः ।
तद्भावमभिसंभूय विद्यायां प्रविलीयते ।। 120 ।।

इतिकर्त्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ।। 121 ।।

सदपि वाग्‌व्यवहारेणानुपगृहीतमर्थंरूपमसता तुल्यम् । अत्यन्तासच्च प्रसिद्धं लोके शशविषाणादि, प्राप्ताविर्भावतिरोभावं च गन्थर्वनगरादि वाचा समुत्थाप्यमानं मुख्यसत्तायुक्तमिव तेषु कार्येषु प्रत्यवभासते ।
समाविष्टवाचां च स्वजातिषु बालानामपि पूर्वशब्दावेशभावनासंस्काराधानात् तासु तास्वर्थक्रियास्वनाख्येयशब्दनिबन्धना प्रतिपत्तिरुत्पद्यते ।। 121 ।।

आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानामभिघातश्च न विना शब्दभावनाम् ।। 122 ।।

अनादिश्चैषा शब्दभावना प्रतिपुरुषमवस्थितज्ञानबीजपरिग्रहा । न हयेतस्याः कथञ्चित् पौरुषेयत्वं संभवति ।
तथा ह्यनुपदेशसाध्याः प्रतिभागम्या एव करणविन्यासादयः । को ह्येतान् पुरुषधर्मानन्यत्र शब्दात्मिकताया कर्तुं प्रतिपादयितुं वा समर्थ इति ।। 122 ।।

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ।। 123 ।।

यथास्य संह्रतरूपा शब्दभावना तथा ज्ञेयेष्वर्थेषुत्पन्नेनाप्यविकल्पकेन कार्यं न क्रियते ।
तद्यथा त्वरितं गच्छतस्तृणलोष्टादिसंस्पर्शात् सत्यपि ज्ञाने काचिदेव सा ज्ञानावस्था, यस्यामभिमुखीभूतशब्दभावनाबीजायामाविर्भूतास्वर्थोपग्राहिणामाख्येयरूपाणामनाख्येयरूपाणां च शब्दानां प्रत्यर्थनियतासु शक्तिषु शब्दानुविद्धेन शक्त्यनुपातिना ज्ञानेनाक्रियमाण उपगृह्यमाणो वस्त्वात्मा ज्ञानानुगतो व्यक्तरूपप्रत्यवभासो ज्ञायत इत्यभिधीयते । स च निमित्तान्तरादाविर्भवात्सु श्रुतिबीजेषु स्मृतिहेतुर्भवति ।
तथैकेषामाचार्याणां सुप्तस्यापि जाग्रद्‌वृत्त्या सदृशो ज्ञानवृत्तिप्रबन्धः । केवलं तु शब्दभावनाबीजानि तदा सूक्ष्मां वृत्तिं प्रतिलभन्ते । तस्मात् तामसीं चेति तामवस्थामाहुः । तदेतत् संज्ञानं शब्दप्रकृतिविकारभावेनाविर्भावतिरोभावावजस्त्ंष प्रत्यनुभवति ।। 123 ।।

वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ।। 124 ।।

यथा प्रकाशकत्वमग्नेः स्वरूपं चैतन्यं वान्तर्यामिणः, तथा ज्ञानमपि सर्वं वाग्रूपमात्रानुगतम् । याप्यसञ्चेतितावस्था तस्यामपि सूक्ष्मो वाग्धर्मानुगमोऽभ्यावर्तते ।
योऽपि प्रथमोपनिपाती बाह्येष्वर्थेषु प्रकाशः स निमित्तानामपरिग्रहेण वस्तुस्वरूपमात्रमिदं तदित्यव्यपदेश्यया वृत्त्या प्रत्यवभासयति ।
स्मृतिकालेऽपि च तादृशानामुपलब्धिबीजानामाभिमुख्ये स्मर्तव्येषु श्लोकादिषु प्रकाशानुगममात्ररूपमिव बुद्धौ विपरिवर्तते । कोऽप्यसावनुवाकः श्लोको वा योऽयं मया श्रुतिमात्रेण प्रकान्त इति ।
वाग्रूपतायां चासत्यामुत्पन्नोऽपि प्रकाशः पररूपमनङ्गीकुर्वन् प्रकाशनक्रियासधनरूपतायां न व्यवतिष्ठते । भिन्नरूपाणां चानुपकारिणात्मान्तरात्मनामितरेतरस्य वस्तुमात्राज्ञाने प्रत्यवभासमाने यदुत्तरकालमनुसंधानं प्रत्यवमर्श एकार्थकारित्वविभागेन शक्तिसंसर्गयोगोपग्रहः, तद्‌ वाग्रूपतायां बद्धम् ।
सा ह्यनुसन्दधाना प्रत्यवमृशन्ती च सर्वविशेषणविशिष्टेऽप्यर्थक्रियाकारिणि प्रत्यये शक्त्यपोद्धारकल्पनया भेदसंसर्गमात्रां न विजहाति ।। 124 ।।

सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।
तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते ।। 125 ।।

विद्याशिल्पकलादिभिर्लौकिकेषु वैदिकेषु चार्थेषु मनुष्याणां प्रायेण व्यवहारः प्रतिबद्धः ।
मनुष्याधीनाश्चेतरस्य भूतग्रामस्य स्थावरजङ्गमस्य प्रतृत्तयः । विद्यादयश्च वाग्रूपायां बुद्धौ निबद्धाः ।
घटादीनां चाभिनिष्पादने प्रयोज्यप्रयोजकानामुपदेशसमीहादि सर्वं वाग्रूपतानुसारेण प्रकल्पते ।। 125 ।।

सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते ।
तन्मात्रामप्यतिक्रान्तं चैतन्यं सर्वजातिषु ।। 126 ।।

योऽयं चैतन्ये वाग्रूपतानुगमस्तेन लोके ससंज्ञो विसंज्ञ इति व्यपदेशः क्रियते । एवं ह्याह--
अर्थक्रियासु वाक्‌ सर्वान् समीहयति देहिनः ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् ।। इति ।

अन्तः संज्ञानामपि सुखदुः खसंविन्मात्रा यावद् वाग्रूपतानुवृत्तिस्तावदेव भवति । बहिः संज्ञेषु । तन्निबंधनो लोकव्यवहारस्तदभावान्नियतमुत्सीदेत् ।
नही सा चेतन्येनाविष्टा जातिरस्ति, यस्यां स्वपरसम्बोधो यो वाचा नानुगम्यते । तस्माच्चितिक्रियारूपमलब्धवाक्शाक्तिपरिग्रहं न विद्यते ।
वाक्तत्त्वरूपमेव चितिक्रियारूपमित्यन्ये । तथाह---
भेदोद्‌ग्राहविवर्तेन लब्धाकारपरिग्रहा ।
आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा ।।
एकत्वमनतिक्रान्ता वाङ्‌नेत्रा वाङ्‌निबंधनाः ।
पृथक् प्रत्यवभासन्ते वाग्विबाग गवादयः ।।
षड्‌द्वारां षडधिष्ठानां षट्‌प्रबोधां षडव्ययाम् ।
ते मृत्युमतिवर्तन्ते ये वै वाचमुपासते ।। 126 ।।

प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते ।। 127 ।।

प्रविभक्तसाध्यसाधनरूपो हि शब्दब्रह्मणो विवर्तः । प्राप्तजन्मादिविक्रिया वाग्विभागग्रन्थयो जागरणवृत्तिकाले वाग्रूपतामनुगच्छन्त्यो निवृत्तिविक्रियाप्राप्तिभिः कार्येषु यतन्ते । स्वप्नाद्यविभागे तु सैव वागविषया बाह्यवस्तुस्वरूपा सती निर्वृत्तिविक्रियाप्राप्तिषु कर्मभावं प्रतिपद्यते । आह च ---
प्रविभज्यात्मनात्मानं सृष्ट्‌वा भावान् पृथग्विधान् ।
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवत ते ।। 127 ।।

स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।
तथैव रूढतामेति तया ह्यर्थो विधीयते ।। 128 ।।

सर्वो हि विकार आत्ममात्रेति केषाञ्चिद् दर्शनम् । स तु प्रतिपुरुषमन्तः संनिविष्टो बाह्य इव प्रत्यवभासते । रूढत्वाच्च व्यवहारमात्रमिदमन्तर्बहिरिति । न ह्येतदेकत्वेऽमूर्तत्वे वा संभवति ।
अपरेषां सर्वप्रबोधरूपः सर्वप्रभेदरूपश्चैकस्य चितिक्रियातत्त्वस्यायं परिणाम इत्यादि स्वमात्रावादिनां दर्शनम् ।
चैतन्यं भूतयोनिस्तिलक्षोदरसवत् प्रविभज्यत इत्येके ।
अन्ये त्वाहुः-- तद्यथा महतोऽग्नेर्विस्फुलङ्गाः सूक्ष्माद् वायोरभ्रघनाश्चन्द्रकान्ताद् विभागिन्यस्तोयधाराः पृथिव्या वा सालादयो न्यग्रोधधानादिभ्यो वा सावरोहप्रसवा न्यग्रोधा इत्येवमादि परमात्रावदिनां दर्शनम् । स्वपरमात्रावादिनां दर्शनं विद्याभाष्येभ्यः प्रतिपत्तव्यम् ।
श्रुत्या प्रक्रम्यते । शब्देनान्तः संनिवेशिना सुखदुः खादिभावेन नानाप्राणिषु बहुधा प्रक्रम्यते,, लोष्टक्षेपपातादिषु च लोकभावनासमयेन प्रसिद्ध्या व्यवतिष्ठते । तया ह्यर्थो विधीयत इति । सैव हि श्रुतिरर्थं कल्पयति संस्करोति ।। 128 ।।

अत्यन्तमतथाभूते निमित्ते श्रुत्युपाश्रयात् ।
दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा ।। 129 ।।

श्रुतिरेव हि सर्वं शब्दर्थं स्वरूपपदात्मनि संनिविष्टं दर्शयति । सा तमर्थं जनयतीव । स हि तस्यां प्रत्याय्यात्मना नित्यमवस्थितः । न च बाह्यवस्तुगतं सदसत्त्वं श्रुतिरपेक्षते, नापि विपर्ययाविपर्ययौ ।
तथा ह्यलातचक्रेऽपि सर्वप्रदेशव्यापिरूपा च क्रियादिशब्दरूपभावनानुगता श्रुतिरवतिष्ठमानाऽलातचक्रादिशब्दानां व्यावहारिकाणामर्थवत्तां प्रकल्पयति । तच्छ्रुतिबीजाभिमुख्ये तथाभूतनिमित्तया श्रुत्या प्रकल्पितो वत्स्वाकारः सत्यप्यनुमानबलीयस्त्वे रूढीभवति ।
अत्यन्तासत्सु च निर्ज्ञातेषु शशविषाणादिषु श्रुतिरेवार्थं जनयति प्रकल्पयति स्वात्मन्यवरुणद्धि । तथैनान्यान् प्रत्यक्षानर्थान् ।
नित्यसंनिविष्टो हि सनिबन्धनश्चानिबन्धनश्च शब्देष्वभिधेयत्वेनार्थात्मा, प्रतिपुरुषं तु भावनानुविधायिनी सत्यसति वार्थे स्वप्रत्ययानुकारेण भिन्नरूपा शब्देभ्यः प्रतिपत्तिरुपपद्यते ।। 129 ।।

अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् ।
प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते ।। 130 ।।

इह द्वौ शब्दात्मानौ--नित्यः कार्यश्च । तत्र कार्यो व्यवहारिकः पुरुषस्य वागात्मनः प्रतिबिम्बोपग्राही ।
नित्यस्तु सर्वव्यवहारयोनिः संहृतक्रमः सर्वोषामन्तः संनिवेशी प्रभवो विकारणामाश्रयः कर्मणामधिष्ठानं सुखदुः खयोः, सर्वत्राप्रतिहतकार्यशक्तिर्घटादिर्निरुद्धइवं प्रकाशः परिगृहीतभोगक्षेत्रावधिः, सर्वमूर्तोनामपरिमाणा प्रकृतिः, सर्वप्रबोधरूपतया सर्वप्रभेदरूपतया च नित्यप्रवृत्तप्रत्यवभासस्वप्नप्रबोधानुकारी प्रवृत्तिनिवृत्तिपदाभ्यां पर्जंन्यवद् दवाग्निवच्च प्रसवोच्छेदशक्तियुक्तः सर्वेश्वरः सर्वशक्तिर्महान् शब्दवृषभः, तस्मिन, खलु वाग्योगविदो विच्छिद्यहङ्कारग्रन्थीनत्यन्तविनिर्भागेण संसृज्यन्ते ।
आह च--
चत्वारि श्रृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश ।। 130 ।।

तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।
तस्य प्रवृत्तितत्त्वज्ञस्तद् बह्मामृतमश्नुते ।। 131 ।।

व्यवस्थितसाधुभावेन हि रूपेण संस्क्रियमाणे शब्दतत्त्वेऽपभ्रंशोपघातापगमादाविर्भूते धर्मविशेषे नियतोऽभ्युदयः । तदभ्यासाच्च शब्दपूर्वकं योगमधिगम्य प्रतिभांतत्त्वप्रभवां भावविकारप्रकृतिं सत्तां साध्यसाधनशक्तियुक्तां सम्यगवबुद्ध्य नियता क्षेमप्राप्तिरिति ।
आह च--
प्राणवृत्तिमतिक्रान्ते वाचस्तत्त्वे व्यवस्थितः ।
क्रमसंहारयोगेन संहृत्यात्मानमात्मनि ।।
वाचः संस्कारमाधाय वाचं ज्ञाने निवेश्य च ।
विभज्य बन्धनान्यस्याः कृत्वा तां छिन्नबन्धनाम् ।।
ज्योतिरान्तरमासाद्य च्छिन्नग्रन्थिपरिग्रहः ।
परेण ज्योतिषेकत्वं छित्वा ग्रन्थीन् प्रपद्यते ।। 131 ।।

न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते ।
बोजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ।। 132 ।।

सर्वप्रवादेष्वागमवाक्यानां प्रणेतृपरिग्रहेण पौरुषेयत्वमभ्युपगम्यते । वेदवाक्यानि तु चैतन्यवदपौरुषेयाणि । तान्यागमान्तराणां प्रणेतृषु विच्छिन्नेष्वागमान्तरानुसन्धाने बीजवदवतिष्ठन्ते ।। 132 ।।

अस्तं यातेषु वादेषु कर्तृष्वन्यष्वसत्स्वपि ।
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ।। 133 ।।

इह प्रणेतृवदागमानामपि प्रवादेषु विच्छेदो (ना) भ्युपगम्यते । तेषु प्रत्यस्तमितेषु यावदन्ये प्रणेतारो नोत्पद्यन्ते, आगमन्तराणि च न प्रतायन्ते, तत्राप्यन्तराले श्रुतिविहितानि कर्माणि स्मृतिनिबन्धनांश्च भक्ष्याभक्ष्यादीन् नियमान्नातिक्रामन्ति शिष्टाः ।। 133 ।।

ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते ।
धर्मो ज्ञानस्य हेतुश्चेत् तस्याम्नायो निबन्धनम् ।। 134 ।।

अनुपदेशं हि कस्यचिज्ज्ञानमभ्युपगच्छतामहितप्रतिषेधार्थानां हितप्रतिपादनार्थानां चोपदेशशास्त्राणां वैयर्थ्यं प्रसज्यते ।
यदि हि धर्मविशेषात् कस्यचिदेव पुरुषस्योपदेशमन्तरेण ज्ञानमुत्पद्यते, केचित् तु पुरुषाः शास्त्रेण प्रतिपादयितव्याः, तदा तस्य पुरुषविशेषहेतोर्धर्मस्य व्यवस्थितेन निबन्धनेन भवितव्यम् । विच्छिद्यन्ते चान्यानि निबन्धनानि । तस्मादम्तायनिबन्धनं धर्ममासेवमानाः पृथक्प्रवादानां प्रणेतारस्तां तां बहुविकल्पां सिद्धिं लभन्ते ।। 134 ।।

वेदशास्त्राविरोधी च तर्कश्चक्षुरपश्यताम् ।
रूपमात्राद्धि वाक्यार्थः केवलान्नावतिष्ठते ।। 135 ।।

आगमवाक्यानामेव हि शब्दार्थप्रविभागव्यवस्था तर्केण क्रियते । स चायमर्वाग्दर्शनानामनुग्रहे वर्तत इति पूर्वैर्न्यायविद्यास्वित्थम्भूतस्तर्क आश्रितः ।
तत्र यावाननुगम्यमानस्तर्कः स्वशास्त्रं न बाधते, तावाननुगन्तव्यः । तर्कातीतमपि बहु श्रद्धानुगम्यं सर्वेषु शास्त्रेषु दृश्यते ।
अथ तर्काननुगमेन यः केवलमागमं प्रमाणं करोति, तस्य किं प्रयोजनम् ? आगमवाक्यानां सम्यक् प्रतिपत्तिः प्रयोजनम् । वाक्यानां हि तुल्यरूपत्वेऽपि सति निमित्तान्तराच्छक्तिर्भिद्यते ।
तत्र यो रूपादेव केवलाद् वाक्यार्थं प्रतिपद्यते, प्रकरणसामर्थ्यादि नापेक्षते, स विवक्षिताविवक्षितयोः संमोहमापद्यते ।। 135 ।।

सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी ।
इति न्यायो बहुविधस्तर्केण प्रविभज्यते ।। 136 ।।

कर्तुरीप्सिततमं कर्म, तस्यापत्यम्, ग्रहं संमार्ष्टि, कर्मणा यमभिप्रैति ससंप्रदानम् ।
"स्त्रियं ये चेपजीवन्ति प्राप्तास्ते मृतलक्षणम्" इति लिङ्गसंख्याकालानामविवक्षा क्वचिच्च विवक्षेति लक्षणव्यवस्थापनं तर्काधीनम् ।
तथा च--"नक्षत्रं दृष्ट्‌वा वाचं विसृजेत" इति कालोपलक्षणार्थ नक्षत्रदर्शनं तत् प्रधानस्यान्यथासिद्धौ परार्थत्वाद् दृश्यमानेषु ज्योतिः षु कालविशेषपरिच्छेदे सति तत् क्रियते ।
`काकेभ्यो दधि रक्ष्यताम्' इत्युपघातप्रतिषेधस्य चिकीर्षितत्वात् काकेष्वसत्स्वपि श्वादिभ्यो रक्ष्यते । `पात्राणि संमृज्यन्ताम्' इति भुजिक्रियाङ्गोपसंहारपरत्वात् पात्राभावेऽप्यङ्गान्तराण्युपसंह्रियन्ते ।
लैङ्गिकी खल्वपि व्यक्तिः । "अक्ताः शर्करा उपदधाति" इति सर्वाञ्जनद्रव्यप्रसङ्गे "तेजो वै घृतम्" इति लिङ्गाद्विशेषप्रतिपत्तिरित्येवंप्रकारो न्यायस्तर्केण प्रविभज्य लक्षणं व्यवस्थाप्यते ।। 136 ।।

शब्दानामेव सा शक्तिस्तर्को यः पुरुषाश्रयः ।
शब्दाननुगतो न्यायोऽनागमेष्वनिबन्धनः ।। 137 ।।

शब्द एवोपदेष्टा, तत्सामर्थ्यमेवानुगच्छन्तो वक्तारो योग्यशब्दनिबन्धनयैव विवक्षया प्रवर्तन्ते ।
नियतां तु शब्दशक्तिमर्थप्रकरणलिङ्गवाक्यादिभिरनुगच्छति पुरुषे शब्दाश्रितमेव सामर्थ्यं पुरुषाश्रयोऽयं तर्क इति मन्यन्ते, शब्दशक्तिरूपापरिगृहीतस्तु साधर्म्यवैधर्म्यमात्रानुसारी सर्वागमोपघातहेतुत्वादनिबन्धनः शुष्कस्तर्क इत्युच्यते ।
तद्यथा--
यदुदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ।।
शब्देन वाच्ममित्युक्ते द्रामिलकेन भवति वक्तव्यमिति ।। 137 ।।

रूपादयो यथा दृष्टाः प्रत्यर्थं यतशक्तयः ।
शब्दास्तथैव दृश्यन्ते विषापहरणादिषु ।। 138 ।।

ज्ञाने शास्त्रपूर्वके वा प्रयोगेऽभ्युदय इत्यागमात् प्रतिपन्नानामुपपत्तिमात्रमागमस्यैवोपोद्‌बलकमित्युच्यते । इहैषां रूपरसगन्धस्पर्शानां प्रत्येकं समुदितानां च दृष्टादृष्टफलाः प्रत्यर्थ यताः शक्तयः परिगृह्यन्ते । दृष्टफलास्तावद् विषौषध्ययस्कान्तवनस्पतिप्रभृतीनाम् ।
अदृष्टफला मद्यतीर्थोदकादीनाम् । शब्दानामपि केषाञ्चिदुच्चारणे विषापहरणादिदृष्टं फलमुपलभ्यते । तथा सूक्तादीनामभ्यासादभ्युपगम्यते विशिष्टमदृष्टं फलम् ।।138
  यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् ।
साधूनां साधुभिस्तस्माद् वाच्यमभ्युदयार्थिनाम् ।। 139 ।।

सन्ति चेह दृष्टफलाः काश्चित् प्रतिशब्दं शक्तय इत्यागमादेवावसीयते । सत्यागमे साधूनामपि तथैवावसीयतां धर्मसाधनत्वमित्यतोऽभ्युदयार्थिभिरनतिशङ्कनीयां स्मृतिमविच्छिन्नशिष्टसमाचारां परिगृह्य व्यवहारे साधव एव शब्दाः प्रयोक्तव्याः ।। 139 ।।

सर्वो।दृष्टफलानर्थानागमात् प्रतिपद्यते ।
विपरीतं च सर्वत्र शक्यते वक्तुमागमे ।। 140 ।।

तत्र केचिदाहुः--यथैषां विषापहरणादिषु सामर्थ्यमधर्मेऽप्येवं कस्मान्न प्रतीयते ? एतस्मादेव दृष्टान्तादस्तु शक्तिविपर्ययप्रतिपत्तिरिति । एतस्मिन् पर्यनुयोगे प्रतिविधीयते---सर्वेष्वागमेषु दृष्टादृष्टफलासु प्रतिपत्तिषु विपरीतफलप्राप्तिःशक्यते प्रसङ्‌क्तुम् । तस्मादागमं कञ्चित् प्रमाणीकृत्य व्यवस्थिते तस्मिन् या काचिदुपपत्तिरुच्यमाना प्रतिपत्तावुपोद्वलकत्वं लभते ।। 140 ।।

साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ।
अविच्छेदेन शिष्टानामिदं स्मृतिनिबन्धनम् ।। 141 ।।

यथैव भक्ष्याभक्ष्यगम्यागम्यवाच्यावाच्यादिविषया व्यवस्थिताः स्मृतयः, यासुनिबद्धं समाचारं शिष्टा न व्यतिक्रामन्ति, तथेयमपि वाच्यावाच्यविशेषविषया व्याकरणाख्या स्मृतिः । स्मृतो ह्यर्थः पारम्पर्यादविच्छेदेन पुनः पुनर्निबध्यते, प्रसिद्धसमाचारायां स्मृतावनिबन्धनशब्दायां शिष्टसमाचाराविच्छेदेनैव स्मर्यते ।। 141 ।।

वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्‌भुतम् ।
अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् ।। 142 ।।

परैः संवेद्यं यस्याः श्रोत्रविषयत्वेन प्रतिनियतं श्रुतिरूपं सा वैखरी । श्लिष्टा व्यक्तवर्णसमुच्चारणा प्रसिद्धसाधुभावा भ्रष्टसंस्कारा च । तथा याऽक्षे या दुन्दुभौ या वेणौ (या) वीणायामित्यपरिमाणभेदा ।
मध्यमा त्वन्तः संनिवेशिनी परिगृहीतक्रमेव बुद्धिमात्रोपादाना । सा तु सूक्ष्मप्राणवृत्त्यनुगता क्रमसंहारभावेऽपि व्यक्तक्रमपरिग्रहैव केषाञ्चित् ।
प्रतिसंहृतक्रमा सत्यप्यभेदे समाविष्टक्रमशक्तिः पश्यन्ती । सा चलाचला प्रतिलब्धसमाधाना चावृता विशुद्धा च, सन्निविष्टज्ञेयाकारा प्रतिलीनाकारा निराकारा च, परिछिन्नार्थंप्रत्यवभासा संसृष्टार्थप्रत्यवभासा प्रशान्तसर्वार्थप्रत्यवभासा चेत्यपरिमाणभेदा ।
तत्र व्यावहारिकीषु सर्वासु वागवस्थासु व्यवस्थितः साध्वसाधुप्रविभागः पुरुषसंस्कारहेतुरेकेषाम् । परन्तु पश्यन्तीरूपमनपभ्रंशमसंकीर्णं लोकव्यवहारातीतम् । तस्या एव वाचो व्याकरणेन साधुत्वज्ञानलभ्येन वा शब्दपूर्वेण योगेनाधिगम्यत इत्येकेषामागमः ।
तथेतिहासेषु निदर्शनान्युपलभ्यन्ते--
गौरिव प्रक्षरत्येका रसमुत्तमशालिनी ।
दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ।।
एतयोरन्तरं पश्य सूक्ष्यमयोः स्पन्दमानयोः ।
प्राणापानान्तरे नित्यमेका सर्वस्य तिष्ठति ।।
अन्या त्व (तु) प्रेर्यमाणैव विना प्राणेन वर्तते ।
जायते हि ततः प्राणो वाच्यमाप्याययन् पुनः ।।
प्राणेनाप्यायिता सेयं व्यवहारनिबन्धना ।
सर्वस्योच्छ्‌वासमासाद्य न वाग्‌ वदति कर्हिचित् ।
घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।।
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ।।
पुनश्चाह--
स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ।।
केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक्‌ प्रवर्तते ।।
अविभाग तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ।।
सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः ।
अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ।।
तस्यां दृष्टस्वरूपायामधिकारो निवर्तते ।
पुरुषे षोडशकले तामाहुरमृतां कलाम् ।।
प्राप्तोपरागरूपा सा विप्लवैरनुषङ्गिभिः ।
वैखरी सत्त्वमात्रेव गुणैर्न व्यवकीर्यते ।।
सैषा त्रयी वाक् चैतन्यग्रन्थिविवर्तवदनाख्येयपरिमाणा तुरीयेण मनुष्येषु प्रत्यवभासते । तत्रापि चास्याः किञ्चिदेव व्यावहारिकम्, अन्यत्तु सामान्यव्यवहारातीतम् ।
आह च--
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ।। इति ।
तस्याश्चासंकीर्णं वाचो रूपं कार्त्स्न्येन सामान्यविशेषवत्यस्मिंल्लक्षणे व्याकरणाख्ये निबद्धम् ।
अर्वाग्दर्शनानां तु पुरुषाणां प्रायेण सातिशयाः प्रतिघातिन्यः सापराधाः शक्तयः । निरपराधस्तु लक्षणप्रपञ्चवाननेकमार्गोऽयं शब्दानां प्रतिपत्युपायो दर्शितः ।। 142 ।।

तद्विभागाविभागभ्यां क्रियमाणमवस्थितम् ।
स्वभावज्ञैश्च भावानां दृश्यन्ते शब्दशक्तयः ।। 143 ।।

विभागो नाम परप्रतिपादनाय कल्पितः प्रकृतिप्रत्ययादिभेदः । तद्यथा--धातोस्तव्यदादय इति ।
तथा चोक्तम्--`यत्तावदयं सामान्येन शक्नोत्युपदेष्टु तत्तावदुपदिशति' इति । अविभागस्तु यत्र स्वरूपेणोच्चारणम् । तद्यथा--`दाधर्त्तिदर्धर्तिदाश्वान्साह्वान्'इति ।
कानिचिद् व्याकरणानि बह्वविभागानि बहून् प्रत्यक्षपक्षेण शब्दान् प्रतिपादयन्ति । कानिचित् तु विभज्यानुमानपक्षेण बहूनां समुदायानां प्रतिपादनं कुर्वन्ति । सैषा स्मृतिर्यथाकालं पुरुषाशक्त्यपेक्षया तथा तथा व्यवस्थाप्यते । सन्ति तु साधुप्रयोगानुमेया एव शिष्टाः । सर्वज्ञेयेष्वप्रतिबद्धान्तः प्रकाशास्ते विशिष्टाकलावधिप्रविभागां यथाकालं धर्मा धर्मसाधनभावेन समन्वितां शब्दशक्तिमव्यभिचारेण पश्यन्ति ।। 143 ।।

अनादिमव्यवच्छिन्नां श्रुतिमाहुरर्तृकाम् ।
शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ।। 144 ।।

ये शब्दप्रमाणका एव केवलं सर्वमेव शास्त्रप्रत्ययमदृष्टफलेष्वर्थेष्वभिशङ्कनीयत्वादप्रमाणं पुरुषस्य दर्शनमिति मन्यन्ते, तेषां श्रुतिस्मृत्योरविच्छेदाविशेषे तुल्ये चोभयोरर्थस्य नित्यत्वे श्रुतिरव्यभिचरितस्वरवर्णानुपूर्व्यदेशकालनियमा न केनचित्कर्त्रा प्रकारान्तरेणावस्थापितपूर्वा सर्वकालं सर्वप्रदेशेषु प्रतिचरणं विभागेन व्यवस्थापिता । स्मृतिस्तु नित्यमविच्छिद्यमानार्था गद्यश्लोकवाक्यादिभेदेन प्रतिकालमन्यथा शिष्टैरेव निबध्यते ।
तत्र केचिदाचार्या मन्यन्ते--न प्रकृत्या किञ्चित् कर्म दृष्टमदृष्टं वा (दृष्टार्थमदृष्टार्थं वा ) । शास्त्रानुष्ठानात् तु केवलाद् धर्माभिव्यक्तिः । शास्त्रातिक्रमाच्च प्रत्यवाययोगः । येषामेव हि ब्राह्मणवधादीनां विषयान्तरे पातकत्वम्, तेषामेव विषयान्तरे प्रकृष्टाभ्युदयहेतुत्वं शास्त्रेण विधीयत इति ।
अन्ये तु मन्यन्ते--भावशक्तिमेव प्रतिनियतविषयां शास्त्रमनुवदति । को हि शास्त्रस्य क्रीडत इव कारणस्य पुरुषानुग्रहोपघाताभ्यामर्थः । शास्त्रस्वभावाभ्युपगमाद् द्रव्यस्वभावाभ्युपगम एव युक्ततरो दृश्यते ।
तथा हि दृष्टार्थासु चिकित्सादिषु स्मृतिषु विषौषधादीनामिवार्थक्रियासु सामर्थ्यमुपलभ्यते,. न स्मृतिशास्त्राणाम् । तस्माच्छास्त्रस्वभाव इव पक्षान्तरे द्रव्यदिस्वभावोऽयं शास्त्रेणानुद्यते ।
यथैवोपघातनिमित्तान्यनुग्रहनिमित्तानि च लोके व्यवस्थितानि, तथैव तत्प्रतिपत्त्युपायानामप्यविच्छेदेन व्यवस्था विद्यते ।। 144 ।।

अविभागाद् विवृत्तानामभिख्या स्वप्नवच्छ्रुतौ ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ।। 145 ।।

येषां तावदियं नित्यैव लोकस्य विभागेन प्रवृत्तिर्नैव काचिद् युगमन्वन्तरव्यवस्था, नापि ब्रह्मणोऽसाधारणः कश्चिदहोरात्रविभागो विद्यत इति दर्शनम्, तेषामुक्तः श्रुतिस्मृतिप्रवृत्तिदर्मः पुरस्तादनन्तरे श्लोके ।
येषां तु स्वप्नप्रबोधवृत्त्या नित्यं विभक्तपुरुषानुकारितया कारणं प्रवर्तते, तेषा. मृषयः केचित् प्रतिभात्मनि विवर्तन्ते, सत्तालक्षणं महान्तमात्मानमविद्यायोनिं पश्यन्तः प्रतिबोधेनाभिसंभवन्ति ।
केचित् तु विद्यायां विवर्तन्ते । ते मनोग्रन्थिमात्मानमाकाशादिषु भूतेषु प्रत्येकं समुदितेषु वा विशुद्धमनिबद्धपरिकल्पं तथैवाभिसंभवन्ति । तेषां चागन्तुरविद्याव्यवहारः सर्व एवौपरारिकः, विद्यात्मकत्वं तु नित्यमनान्तुकं मुख्यम् । ते च स्वप्न इवाश्रोत्रगम्यं शब्दं प्रज्ञयैव सर्वमाम्नायं सर्वभेदशक्तियुक्तमभिन्नशक्तियुक्तं च पश्यन्ति ।
केचित् तु पुरुषानुग्रहोपघातविषयं तेषामर्थानां स्वभावमुपलभ्याम्नायेषु क्वचित् तद्विषयाणि लिङ्गानि दृष्ट्वा दृष्टादृष्टार्थां च स्मृतिमुपनिबध्नन्ति । श्रुतिं तु यथादर्शनमव्यभिचरितशब्दामेव प्रथममविभक्तां पुनः संगृहीतचरणविभागां समामनन्तीत्यागमः ।। 145 ।।

कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्मशास्त्रैस्तेषां विशुद्धयः ।।146 ।।

यथैव हि शरीरे दोषशक्तिं रत्नौषधादिषु च दोषप्रतीकारसामर्थ्यं दृष्ट्वा चिकित्साशास्त्रमाऱब्धम् । रागादींश्च बुद्धेरुपप्लवानवगम्य तदुपघातेहेतुज्ञानोपायभूतान्यध्यात्मशास्त्राणि उपनिबद्धानि । तथैदमपि साधूनां वाचः संस्काराणां ज्ञापनार्थमपभ्रंशाना चोपघातानां त्यागार्थं लक्षणमारब्धम् ।। 146 ।।

शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्षिते ।
तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ।। 147 ।।

कथंभूताः पुनरपभ्रंशाः--
शब्दप्रकृतिरपभ्रंश इति संग्रहकारः । नाप्रकृतिरपभ्रंशः स्वतन्त्रः कश्चिद्विद्यते । सर्वस्यैव हि साधुरेवापभ्रंशस्य प्रकृतिः । प्रसिद्धेस्तु रूढितामापद्यमानाः स्वातन्त्र्यमेव केचिदपभ्रंशा लभन्ते ।
तत्र गौरिति प्रयोक्तव्येऽशक्त्या प्रमादादिभिर्वा गाव्यादयस्तत्प्रकृतयोऽभ्रंशाः प्रयुज्यन्ते । ते च सास्नादिमत्येव लब्धस्वरूपाः साधुत्वं विजहति । अर्थान्तरे तु प्रयुज्यमानाः साधव एव विज्ञायन्ते । न ह्येतेषां रूपमात्रप्रतिबद्धमसाधुत्वम् ।। 147 ।।

अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।
निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ।। 148 ।।

आवपने गोणीति स्वविप्रयोगाभिधाने चास्व इत्येतयोरवस्थितं साधुत्वम् । तथा सास्नादिमति ह्रेषितादिलिङ्गे च निमित्तान्तरात् प्रवृत्तावेतयोरन्यत्र विषये लब्धसंस्कारयोः साधुत्वमेव विज्ञायते । गोणीवेयं गौर्गोणीति बहुक्षीरधारणादिविषयादावपनत्वसामान्यादभिधीयते । तथाऽविद्यमानं स्वमस्य सोऽयमस्व इति ।
तस्माद् वस्त्वपरिगृहीतकारणं न किञ्चिन्नियतमस्ति, यत्र साधुत्वमसाधुत्वं वा व्यवतिष्ठेत ।। 148 ।।

ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः ।
तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः ।। 149 ।।

अपभ्रंशा हि साधूनां शब्दानां विषये प्रयुज्यमाना यथैवाक्षिनिकोचादयः परिचयादुपगृहीतस्वरूपा प्रसिद्धाः, तथा साधुप्रनाडिकयार्थं प्रत्यायन्ति । तत्र साक्षादभिधानं नेति श्लोकान्तरोपन्यासः ।। 149 ।।

न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ।
ते यतः स्मृतिशस्त्रेण तस्मात् साक्षादवाचकाः ।। 150 ।।

अथ कस्मादेते गोशब्दस्य गाव्यादयः पर्याया न विज्ञायन्ते ? नहि शिष्टसमाचारप्रसिद्धेरन्यदेवंप्रकारेषु स्मृतिनिबन्धनेष्वर्थेषु निमित्तमभिधीयते । गाव्यादयश्चेत् पर्यायाः स्युरेतेऽपि शिष्टैर्लंक्षणैरनुगम्येरन् प्रयुज्येरंश्च । यश्च प्रत्यक्षपक्षेण प्रयोजकेष्वभिधेयेषु प्रवर्तते, स साधुः । साक्षात् प्रयोजकं वाच्यमर्थरूपं साधुभिः प्रत्याय्यते ।
इत्ययमुक्तार्थः श्लोकः ।। 150 ।।

अम्बाम्बेति यथा बालः शिक्षमाणः प्रभासते ।
अव्यक्तं तद्विदां तेन व्यक्ते भवति निश्चयः ।। 151 ।।

बालो हि करणमात्रशक्तिवैकल्याद् यत्नवानपि साधुप्रयुयुक्षायामव्यक्तां श्रुतिं प्रयुङ्‌क्ते, तदा प्रतिपत्तारस्तत्प्रकृतिं व्यक्तं शब्दमवधारयन्ति । तमेवार्थसंबन्धिनं मन्यन्ते, तस्मादाह--न बालप्रपयुक्तमपभ्रंशम् ।। 151 ।।

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ।। 152 ।।

सङ्कीर्णायां वाचि साधुविषयेऽपशब्दाः प्रयुज्यन्ते । तैः शिष्टा लक्षणविदःसाधून् प्रतिपद्यन्ते । तैरेव साधूभिस्तदर्थममिधीयमानं पश्यन्ति । अनुमानस्तु धूम इवाग्नेः, असाधुरितरेषाम् ।। 152 ।।

पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु ।
प्रसिद्धिमागता येषु तेषां साधुरवाचकः ।। 153 ।।

इहाभ्यासात् स्त्रीशूद्रचाण्डालादिभिरपभ्रंशाः प्रयुज्यमानास्तथा प्रमाद्यत्सु वक्तृषु रूढिमुपागताः, येन तैरेव प्रसिद्धतरो व्यवहारः । सति च साधुप्रयोगात् संशये यस्तस्यापभ्रंशस्तेन सम्पति निर्णयः क्रियते । तमेव चासाधुं वाचकं प्रत्यक्षपक्षे मन्यन्ते । साधुं चानुमानपक्षे व्यवस्थापयन्ति ।। 153 ।।

दैवी वाग् व्यतिकीर्णेयमशक्तैरभिधात्‌भिः ।
अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्ययः ।। 154 ।।

श्रुयते पुराकल्पे खशरीरज्योतिषां मनुष्याणां यथैवानृतादिभिरसङ्कीर्णा वागासीत्, तथा सर्वैरपभ्रंशैः । सा तु शङ्कीर्यमाणा पूर्वदोषाभ्यासभावनानुषङ्गात् कालेनप्रकृतिरेव तेषां प्रयोक्तॄणां रूढिमुपागता । अनित्यवादिनस्तु ये साधूनां धर्महेतुत्वं न प्रतिपद्यन्ते, मल्लसमयादिसदृशीं साधुव्यवस्थां मन्यन्ते, ते प्रकृतौ भवं प्राकृतं साधूनां शब्दानां समूहमाचक्षते । विकारस्तु पश्चाद् व्यवस्थापितिः, यः सभिन्नबुद्धिभिः पुरुषैः, स्वरसंस्कारादिभिर्निर्णोयत इति ।। 154 ।।

उभयेषामविच्छेदाद् अन्यशब्दविवक्षया ।
योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः ।। 155 ।।

येषामपि च नैव पुराकल्पः, न च दैवी वागसङ्कीर्णा कदाचिदासीत्, तेषामपि गम्यागम्यादिव्यवस्थावदियं साध्वसाधुव्यवस्था नित्यमविच्छेदेन शिष्टैः स्मर्यते । तत्रान्यशब्दविवक्षया बालप्रलापवदर्थेषु प्रयुज्यमानो यः शब्दो रूढः, यश्च न रूढः, तावुभावप्यर्थंस्य न वाचकौ भवतः । तत्र तु साधुव्यवहिता वा भवत्यर्थप्रतिपत्तिरभ्यासाद्‌वा प्रमत्तानामक्षिनिकोचादिवत् सम्प्रत्ययमात्रं जायते ।। 155 ।।

।। इति श्रिहरिवृषभमहावैयाकरणविरचिते वाक्यपदीये
आगमसमुच्चयो नाम ब्रह्मकाण्डं समाप्तम् ।।