वाक्यपदीयम् (सवृत्ति)/तृतीयः भागः (पदकाण्डम्-३)
३,१४ वृत्तिसमुद्देशः
[सम्पाद्यताम्] ------
प्रकाशः
असमस्तपदगतानर्थान् विचार्य समस्तपदविषयान् विचारयितुं पञ्चप्रकारवृत्ति-
पदविचारः प्रस्ताव्यते ।
तत्र प्रथमं समानाधिकरणतध्दितवृत्तिविचारः । तथाहि--कुत्सितादीनामर्थे
र्चोल्लिङ्गवचनानुपपत्तिः। कुत्सितादिसमानाधिकरणादिति चेत्, अतिप्रसङ्गः, यथा
टाबादिष्विति प्रत्ययार्थपक्षं समानाधिकरणपक्षं च दोषवन्तमुभ्दाव्य 'सिध्दं तु येन कुत्सितादिवचनं तद्युक्तात् स्वार्थे प्रत्ययविधानात्" इति प्रकृत्यर्थविशेषणपक्षो
ऽवस्थापितः । येन धर्मेण कुत्सादयः प्रतिपाद्यन्ते तध्दर्मयुक्तार्थाभिधायिनः
प्रातिपदिकात् तेनैव कुत्सादेरुपादा(ना)त् तद्द्योतनाय स्वार्थे कनादयः प्रत्यया
विधेया इति वार्तिकार्थः ।
एवञ्च प्रकृत्यर्थो विशिष्टः प्रत्ययार्थो न कुत्सादिधर्ममात्रमिति लिङ्गवचनोपपत्तिः । उपात्तकुत्सादेरेव चशब्दात् प्रत्यय इति तत्समानाधिकरणादिदमादेः
स्वयमनुपात्तकुत्सादेस्तदभावः ।
एवं स्थिते केन धर्मेण कुत्सादय इत्युक्तम् । 'स्वार्थमभिधाय शब्दो
निरपेक्ष--'इत्यादि । स्वार्थादिपञ्चकाभिधायिनः प्रातिपदिकात् स्वार्थादिनिमित्तकु-त्सनादिद्यातनाय कनादयः प्रत्यया इति प्रकृत्यर्थविशेषणपक्षः । 'प्रियकुत्सानादिषु पुनः प्रवर्ततेऽसौ विभक्त्यन्तः' इति च न सुबन्तात् प्रत्ययविधानपरमेतद् वचनम्,
अपि तु पञ्चकार्थ निमित्तत्वात् कुत्सनादेः 'देवदत्तकः' इत्यादौ कुत्सादिमात्रे
प्रत्ययेन द्योतिते प्रकरणादेस्तध्देतुर्लिङ्गादीनामन्यतमोऽवधार्यते । स च
सुबन्तेन द्योत्यत इति विशिष्टकुत्साद्यर्थप्रतिपादनाय विभक्त्यन्तः प्रवर्तत
इत्युच्यते ।
तदेतद् व्याचष्टे--
कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।
पदं स्वार्थदयः सर्वे यस्मात् कुत्सादिहेतवः ।। 1 ।।
स्वार्थद्रव्यलिङ्गसङ्खयाकर्मादिलक्षणेनार्थेन परिपूर्णाभिधेयं पदं स्वार्थादि-
निमित्तेन विशिष्टेन कुत्साद्यर्थेन युक्तमवधार्यते । स्वार्थादयश्चान्यत्र
व्याख्याता नेह प्रपञ्च्यन्ते । तदत्र प्रातिपदिकार्थनिमित्तत्वात् कुत्सादेस्त-
द्विशिष्टार्थाभिधायिनः प्रातिपदिकादेवाधिकारात् प्रत्ययः । प्रत्ययान्ताद् विभक्तिपराच्च कुत्सादिहेतोर्विशिष्टस्याभिव्यक्तिरिति समाप्तार्थं तेन सम्बध्यत
इत्युच्यते ।
तत्र स्वार्थनिमित्ता कुत्सा यथा--पटुकः, पण्डितकः, मृदुक इति ।
पाटवादेरपरिपूर्णत्वाद् दुष्टत्वाद् वा कुत्स्यतेऽर्थः । एवं पटुरूपः पटुतर
इत्यादिप्रशंसातिशययोः स्वार्थनिमित्तयोरुदाहार्यम् । द्रव्यस्य विशेष्यत्वेन
प्राधान्याद् धर्मान्तरमुखेनैव तन्निमित्तः कुत्सादिर्बोध्दव्यः ।
लिङ्गनिमित्ता कुत्सा यथा--पुरुषे क्लीबत्वप्रतिपादनार्था स्त्रीत्वारोपेण
कुत्सा, निर्लज्जत्वाख्यानाय वा स्त्रियां पुंस्त्वारोपेण पुरुषोऽयं स्त्री,
स्त्रीयं पुरुष इति च । परार्थे शब्दप्रयोगादेव कुत्सावगतेः कप्रत्ययस्याय-
मविषयः । एवमेकत्रैव दुर्भरत्वाद् बहुत्वसमारोपादिदमेव मे सहस्रमिति
सङ्ख्यानिमित्ता कुत्सा । प्रत्ययोऽत्र पूर्ववन्न भवति । एवं प्रशंसादावपि यथायोगंप्रदर्शनीयम् ।। 1 ।।
तदत्र `कुत्सितकः, अनुकम्पितकः' इति को न प्राप्नोति,स्वशब्देनाभिहितत्वादिति ।
तद्भाष्ये चोदितं परिहर्तुमाह--
देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः ।
कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ।। 2 ।।
कुत्सां प्रवृत्तिनिमित्तामाश्रित्य देवदत्ते कुत्सितशब्दो वर्तते । स च कुत्सा-सम्बन्धोपलक्षितं लिङ्गसङ्ख्याकर्माद्युपाधिकं द्रव्यमभिधत्त इति स्वार्थमात्रे
विश्रान्त्यभावादर्थान्तरे लिङ्गादावपि तात्पर्याद् बाह्यकुत्साप्रतिपादने
सामर्थ्याभावात् तत्र प्रत्यय उत्पद्यते । स्वार्थभूता हि प्रातिपदिकवाच्या
देवदत्तादेः कुत्सा,तद्व्यतिरिक्ता तु बाह्या स्वार्थादिनिमित्ता प्रत्ययवाच्या ।
तद् यथा देवदत्तशब्दात् प्रियकुत्सनादिसाधारणार्थाभिधायिनः कप्रत्ययः कुत्सा-
सम्बन्धं प्रकाशयति, तथा कुत्सितशब्दादर्थान्तरनिमित्त प्रवृत्तिनिमित्तभूतकुत्सा-
भिधायिनः स्वार्थगतां बाह्यां कुत्सां प्रकाशयितुं कप्रत्यय इत्यर्थः ।। 2 ।।
एवमतिशायनेऽपि स्वशब्देनाभिहिते तत्प्रत्ययाप्रसङ्गः इति समानन्यायत्वात्चोदितंभवतीति तदपि प्रकृतसमाधानाय प्रतिविधत्ते--
प्रकृष्ट इति शुक्लादिप्रकर्षस्याभिधायकः ।
प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ।। 3 ।।
योऽतिशयेन शुक्लः शुक्लतरः,स प्रकृष्टः शुक्ल इत्युच्यते । निरतिशयापेक्षया हि सातिशयः शुक्लस्तरबन्तेन वा शुक्लशब्देनोच्यते, केवलेन वा प्रकृष्टशब्देन । तथा च
शुक्लादिगतस्य प्रकर्षस्य प्रकृष्टशब्दोऽभिधायक इति न तत्रैव ततस्तरप्प्रत्ययः ।
यस्त्वपरः प्रकृष्येभ्योऽपि तस्य प्रकर्षः, स नाभिहित इति तदभिधानाय तरप् क्रियते,प्रकृष्यतर इति । यथा ज्येष्टतमायेत्यतिशायनप्रत्ययान्तरम् । आदिग्रहणात् प्रशस्त-
रूपमिति प्रशंसोपाधेः प्रत्ययान्तरमुदाहार्यम् । एवं कुत्सितक इति कुत्सितस्थे
कुत्सान्तरे कः ।। 3 ।।
किं पुनः कुत्सितस्य कुत्सान्तरमित्यत आह--
कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्सितः ।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ।। 4 ।।
स्वशब्देन कुत्सित इत्यनेन सामान्यशब्देनाभिहितेऽर्थे विशेषो नावधार्यते--
किमस्याकार्यकरणान्निन्दार्हत्वेनैव कुत्सितत्वम्, उत युक्तकार्यपि शत्रुणा दुष्ट-
त्वारोपोण गर्ह्यत इति । उत्पन्ने तु प्रत्यये विशेषावधारणम् । तथा हि--कुत्सितमस्यकुत्सितत्वम्,न सम्यगिदं कुत्सितत्वम्, शत्रुणा तु द्वेषेणाध्यारोपितमिति प्रत्यया-न्तादनगम्यते कुत्सितशब्दात् ।
सा हि कुत्सितस्य कुत्सायां निर्दोषस्यैव क्रियते । यद्वा कुत्साया अपि निन्द्य-तरत्वेन कुत्साविशेषः । तथा चानिर्धारितधर्मविशेषनिबन्धना कुत्सा कुत्सितशब्द-
प्रवृत्तिनिमित्तम्,ब्रह्महत्यादिविशेषनिबन्धना तु कप्रत्ययहेतुरिति विशेषः । तदेवंकुत्सितार्थसमवेतां द्वितीयां कुत्सामाश्रित्य समर्थितम् ।। 4 ।।
यद्वा नास्त्येवात्र द्वितीया कुत्सा । यैव तु प्रातिरदिकेनोपात्ता, तत्रैव
प्रत्यय इत्याह--
न च साम्प्रतिकी कुत्सा भेदाभावात् प्रतीयते ।
पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ।। 5 ।।
कुत्सोपलक्षितस्य द्रव्यस्य कुत्सितशब्देन प्रियकुत्सनादिसाधारणस्याभिधानाद्
वर्तमानकुत्साभिसम्बन्धो नावधार्यतेऽस्मात् । तथाहि--तत् कुत्सयोपलक्षितं द्रव्यं
कदाचित् पूज्यते प्रशस्यतेऽपि कुत्सितरूप इति । यथा वृषलरूपो, दस्युरूप इति ।
तद्यथा प्रशस्तत्वेनोपलक्षितं निन्द्यते प्रशस्तक इति अपरिपूर्णप्रशंसोऽध्यारोपित-प्रशंसो वा । कस्यचिद्धि प्रशंसा न परिसमाप्ता, अंशेन खण्डितत्वात् ।
कस्याचित् प्रशंसा न विद्यते, अरिणाध्यारोपितत्वात् । कस्यचित्तु अरिणा
प्रशस्तस्याप्यप्रशस्तत्वमारोप्यते । एवं कुत्साव्यभिचारसम्भवात् कुत्सितशब्दाद्
वर्तमानकुत्सासाम्बन्धमनवगतं द्योतयितुमुपपद्यते कप्रत्ययः । एवम् अनुकम्पितक
इत्यनेनैव न्यायेनानुकम्पायां कप्रत्ययः समर्थनीय इति समानाधिकरणतद्धितवृत्तौ
किञ्चिद् विचारितम् ।। 5 ।।
यथा कुत्सादिभिः समाप्तार्थं पदं सम्बध्यते, तथा अवच्छेद्यावच्छेदकभावेना-
पीति समानाधिकरणसुब्वृत्तिं विचारयितुमाह--
विशेषणविशेष्यत्वं पदयोरुपजायते ।
व प्रातिपदिकार्थश्च तत्रैवं व्यतिरिच्यते ।। 6 ।।
इह `वीरः पुरुषः' इति वीरादिशब्दोऽनपेक्षितेतरेतरपदलमन्वयोऽव्यतिरिक्त-
स्वार्थमात्रवचनः । तथा च पदान्तरसंनिधानेऽपि तस्य तावत्येवाभिधा निश्चीयते,
तत्र च सम्बन्धे गुणप्रधानभावस्यावश्यंभावाद् विशेषणविशेष्यभावो वाक्यार्थः पदयोः
समन्वितयोरधिको जायते, न प्रातिपादिकार्थयोः । यथा `राज्ञः पुरुषः' इत्यत्र
व्यधिकरणपदविषये राजप्रातिपदिकार्थस्यैव विशेषणत्वमिति ततः षष्ठी न
विशेष्यादुपकार्यत्वेन स्वनिष्ठात् । तथा च "षष्ठी शेषे" (पा 2/3/50 )
इत्यत्रोक्तम्--`अर्थरूपमेवैवंजातीयकम् इति । विशेष्यलक्षणरूपमव्यतिरिक्तस्वार्थं
स्वनिष्ठमित्यर्थः ।
यदा च समानाधिकरणविषये विशेषणविशेष्यभावे पदार्थपृष्ठपातित्वेन वाक्यार्थता,
तदा तत्र प्रातिपदिकार्थो न व्यतिरिच्यते रूपान्तरेण न विपरिणमत इति प्रथमा
नोपसङ्खयेया । तथा चोक्तं `न वा वाक्यार्थवद् यदत्राधिक्यं वाक्यार्थछः सः' इति ।
व्यधिकरणविषये तु विशेषणस्य रूपान्तरापत्तिमवसाय भेदमबुद्ध्वा चोदितम्--`प्राति-
पदिकार्थमात्रे प्रथमाविधाने पदसमानाधिकरण उपसङ्खयानमधिकत्वाद्' इति ।
अवच्छेद्यावच्छेदकभावस्य चानियमशचोदितः । `विशेषणविशेष्ययोरुभय-
विशेषमत्वादुभय विशेष्यत्वाच्चोपसर्जनाप्रसिध्दिः' इति ।
विशेष्याभिमतेनापि विशेषणाभिमतस्य स्वात्मनि नियमनात् तस्यापि तं प्रति
विशेषणत्वमिति द्वयोरपि विशेषणत्वमिति समासशास्त्रे प्रथमानिर्देशादुपसर्जन-
संज्ञायां पूर्वनिपातः पर्यायेण स्यात् । अत्र समाधिरुक्तः `न वान्यतरस्य
प्रधानभावात् तद्विशेषणत्वाच्चेतरस्योपसर्जनस्य प्रसिध्दिः' इति ।। 6 ।।
तत्र नियमेन गुणप्रधानभावः किङ्कृत इति व्याचष्टे--
विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातार्थो विशेषणम् ।
परार्थत्वेन शेषत्वं सर्वेषामुपकारिणाम् ।। 7 ।।
इह विशेषणविशेष्ययोर्लक्षणमन्वर्थेन नाम्नैवावेदितम्, भेद्यं विशेष्यम्, भेदकम् विशेषणमिति । इदं तु गुणप्रधानताज्ञापनार्थम् । तत्रोच्यते--सम्बन्धान्यथानुपपत्त्यच सिध्दो गुणप्रधानभावः, द्वयोः समयोः सम्बन्धायोगादिति कुतः सङ्करः ?
प्रसिद्धयप्रसिद्धिभ्यां व्यवस्थापनात् ।
तथाहि--सामान्यात्मना क्रियासम्बन्धितायामुपक्रान्तं विशेष्यं ज्ञातमपि
स्वगतेनात्मभूतेन विशेषणानिश्चितमिति तन्निश्चयाय ज्ञापकत्वादेव निश्चितोऽर्थो
गुणादिः प्रवर्तमानो विशेषणम् । ततश्च ज्ञाप्यं प्रधानं विशेष्यम्, ज्ञापकं
परोपकारायोपादीयमानं शेषभूतमप्रधानं विशेषणम् । द्रव्यस्य च साक्षात्क्रिया-
सम्बन्धात् तदेव तत्र प्रधानम् ।
गुणस्तु तद्द्वारेण क्रियानम्बन्धमनुभवन् द्रव्यावच्छेदकोऽप्रधानभूतः ।
सर्वत्रैव सगुणस्य द्रव्यस्य क्रियासम्बन्धितया विधीयमानत्वम् । आधारद्वारको वा
गुणानां क्रियासम्बन्धः । न तु द्रव्यमनूद्य गुणस्य पृथक् क्रियायां विधानमिति
व्यवस्थितो गुणप्रधानभावः । तेन `कृष्णाजिनमुलूखलस्याधस्तादवस्तृणाति',
`कृष्णाजिनेन दीक्षयति'। `कृष्णाविषाणया कण्डूयति' इत्यादौ सर्वत्र गुणविशिष्टस्य
द्रव्यस्य विधानात् तस्यैव प्राधान्ये सति विशेष्यत्वमितस्य तु कृष्णगुणस्य
विशेषणत्वमित्युपसर्जनप्रसिध्दयर्थमवस्थितो गुणप्रधानयोर्नियमः । स च समानाधि-
करणसमासे षष्ठीसमासे च ।। 7 ।।
तथाहि--
विभक्तिभदो नियमाद् गुणगुण्यभिधायिनोः ।
सामानाधिकरणस्य प्रसिध्दिर्द्रव्यशब्दयोः ।। 8 ।।
पटस्य शुक्ल इति द्रव्यगुणाभिधायिपदप्रयोगे शाब्दो गुणप्रधानभावः । तथा ह्यत्रो-पसर्जनं प्रधानोपकारपरिणतं स्वार्थमाचष्ट इति गुणविभक्तिं षष्ठीमुपादत्ते । प्रधानंतु स्वात्मन्यवस्थितमपरोपकारीति प्रथमया युज्यत इति नियतो विभक्तिभेदो
व्यधिकरणे विषये । `वीरः पुरुषः' इत्यादौ तु समानाधिकरणे विषये द्वावपि द्रव्यशब्दौस्वनिष्ठं स्वार्थमाचक्षाते । तथा च तत्र प्रथमैव । सामर्थ्यनिबन्धनस्तु गुणप्रधान-भाव उक्तः `विशेष्यं स्यादनिर्ज्ञातम्' (का.7)इत्यादिना । एवञ्च सत्यपि गुणप्रधान-
भावे शब्दाशब्दत्वकृतो विशेषः सामानाधिकरण्यवैयधिकरणययोरिति षष्ठीसमानाधिकरणयोः
समासयोर्भेदः ।। 8 ।।
यदि तर्हि समानाधिकरणे विषये द्वावपि द्रव्यशब्दौ परस्परानुपकारकप्रधानार्थवाचकौ विशेषिशेष्यभावात्मकः, तदा कथमनयोः परस्परसम्बन्ध इत्यत आह--
द्रव्येऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते ।
अनिर्ज्ञातगुणे चैव तिलशब्दः प्रवर्तते ।। 9 ।।
अभेदोपचारान्मतुबलोपाद्वा कृष्णशब्दो द्रव्ये वर्तते । स च गुणनिमित्तक इति तत्र नियतजातीयतया निश्चयस्ततो नास्ति । अविनाभावात् तु जातिमात्रमवधार्यत एव ।
एवं तिलशब्दोऽपि जातिनिमित्तोऽनिश्चितनियतगुणसम्बन्धे द्रव्ये वर्तते । तथा च
द्वयोरपि विशेषाकाङ्क्षित्वम् ।। 9 ।।
एवमपि कथं परस्परेण सम्बन्ध इत्याह--
सामान्यानामसम्बन्धात् तौ विशेषेव्यवस्थितौ ।
रूपाभेदाद् विशेषं तमभिव्यङ्क्तुं न शक्नुतः ।। 10 ।।
अनिश्चितनियतजातिगुणानि कृष्णतिलशब्दाभिधेयानि द्रव्याणि सामान्यान्यत्र
विवक्षितानि । तेषामत्र स्वात्मव्यवस्थितानां परस्परोपकाराभावात् सम्बन्धो न
स्यादित्येकवाक्यतावशात् सम्बन्धान्यखानुपपत्त्या प्रथममेवात्र विशेषे कृष्णतिल-
शब्दौ व्यवस्थितौ । कृष्णशब्देन ह्यत्र तिलजातीयमेवाभिधित्सितम्, तिलशब्देन
च कृष्णगुणं द्रव्यम् । स च विशेषः प्रतिपत्तृभिः परस्परसम्बन्धात् प्रागवधारयितुं
न शक्यते । अन्यजातीयेऽपि कृष्णशब्दस्य प्रवृत्तेरन्यगुणेऽपि तिलशब्दस्यैवंविध-
स्येति प्रतिपत्त्रपेक्षया विशेष्टार्थाभिव्यक्तिहेतुत्वं कथ्यते । तक्त्रभि-
प्रायात् तु विशिष्ट एवोपक्रान्तोऽर्थः सम्बन्धः ।। 10 ।।
स एव वाक्यैकतावशादभिव्यज्यत इत्याह--
तावेवं सन्निपतितौ भेदेन प्रतिपादने ।
अवच्छेदमिवाधाय संशयं व्यपकर्षतः ।। 11 ।।
एवमिति रूपाभेदाद् विवक्षितविशेषप्रतिपादने प्रतिपत्तारं प्रत्यशक्तत्वेन
प्रवृत्तौ कृष्णतिलशब्दौ विशेषोपलक्षितस्य द्रव्यस्य प्रत्यायने प्रतिपत्तृगतं
तिलातिलविषयम्,कृष्णाकृष्णविषयं च सन्देहं निवारयतः, कृष्णशब्देऽन्य-
जातीयाद् व्यावृत्तिं तिलशब्दे चान्यगुणादाधाय । कृष्णशब्दो हि तिलजातीयमेव
तिलशब्देसन्निधानेऽर्थमाहेत्यजातीयात् तस्य निवृत्तिः । एवं तिलशब्दः कृष्णगुणमे- वेत्यन्यगुणादस्यावच्छेदः । स चात्र पूर्वमेव स्वीकृत इतीवशब्दः । प्रतिपत्ता हि
सति सम्बन्धेऽवच्छेदमेवैति ।
तदुक्तं भाष्ये--"कृष्णशब्दस्तिलशब्देनाभिसम्बध्यमानो विशेषवचनः सम्पद्यते ।
तथा तिलशब्दः कृष्मशब्देनाभिसम्बध्यमानो विशेषवचनः सम्पद्यते" इति । तदानीं
विशेषवचनत्वस्याभिव्यक्तिरित्यर्थः ।। 11 ।।
तदेवं स्म्बन्धः समर्थितः । स चात्र सामानाधिकरण्यस्वभावः । सामानाधिकरण्यं
च शब्दयोर्भिन्ननिमित्तप्रयुक्तयोरेकस्मिन्नर्थे वृत्तिरिति । यदि समानाभिधेयत्व-
लक्षणम्, तदा विशेषणविशेष्यभावोऽर्थद्वारकस्तयोर्नोपपन्नः, भेदाश्रयत्वात् ।
तस्यार्थैक्ये तदभावात् ।
अथार्थयोः समानाश्रयत्वं सामानाधिकरण्यम्, तदा गुणद्रव्ययोरधिकरणान्तराभावात्
कथमत्र तदुपपत्तिः ? विशेषणविशेष्यभावस्तु स्याद् द्रव्यगुणयोः ।
अथ गुणस्य द्रव्यजातेश्चैकाधिकरण्यमाश्रीयते, तदा विशेषणविशेष्यभावो न स्यात् ।
तयोर्द्रव्यावच्छेदप्रवृत्तयोन्योनानभिसम्बन्धादित्येतदाशङ्कय समर्थयितुमाह--
द्रव्यात्मा गुणसंसर्गभेदादाश्रीयते पृथक् ।
जातिस्म्बन्धभेदाच्च द्वितीय इव गुह्यते ।। 12 ।।
इह द्रव्यात्मा निरंशवस्तु तत्तदुपाधिभदारूपं व्यवहारयोग्यमिति कृष्णगुणसम-
वायोपहितभेदमन्यदिव कृष्णतिलाभिधेयमाक्षीयते । एकैकव्यावृत्तिनिष्ठत्वा-
च्छब्दानां तदभिदेयं भागशः खण्डरूपमेव नियतं प्रतीयते । ततश्च जातिसमवायोपलक्षितं
तिलशब्देन द्वितीयमिव द्रव्यं प्रत्याय्यते । एकस्यैव जातिगुणावाच्छिन्नस्य
प्रतिपादनादेकैकशब्दव्यापारापेक्षया विच्छिद्येव सम्प्रत्ययादिवशब्दः ।। 12 ।।
एतदेव समर्थयितुमाह--
निमित्तैरभिसम्बन्धाद् या निमित्तसरूपता ।
तयैकस्यापि नानात्वं रूपाभेदात् प्रकल्पते ।। 13 ।।
निमित्ताद् गुणजात्यादेर्निमित्तवत्यर्थे द्रव्ये निमित्तसरूपप्रतययो जायमानः
स्वप्रत्ययं विभक्तमेव दर्शयति ।। 13 ।।
तथा च जातिगुणोपरागाद् भिन्नं द्रव्यद्वयमाधेयम् । तस्य त्वाधारभूतं तृतीयं
द्रव्यमभिसम्बन्धकाले बुद्धया निर्भज्यत इत्याह--
द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरेवस्थयोर्भेदादाश्रयत्वे नियुज्यते ।। 14 ।।
जातिगुणोपाधिसंसर्गप्रविभक्तशरीरद्वयमाधेयं यत्र संसृज्यते सम्भेदमापद्यते, तत्
तृतीयं द्रव्यरूपमाधारभूतमवच्छेद्यम् । अवच्छेदकात् तस्माद् द्वयादन्यदाश्रयत्वे
तयोर्द्वयोर्नियुज्यते कल्प्यते ।। 14 ।।
कथमेकस्य वस्तुतो द्रव्यस्य भेदकल्पनेत्याह--
बुद्धयैकं भिद्यते भिन्नमेकत्वं चोपगच्छति ।
बुद्धयावस्था विभज्यन्ते सा ह्यर्थस्य विधायिका ।। 15 ।।
इह प्रत्ययरूढार्थाभिधायिनः शब्दा यथाप्रत्ययं भेदाभेदाभ्यां व्यवहारं वर्त-
यन्ति । प्रत्ययश्च स्वनिमित्तानुविधानेनार्थकारान् बहिर्निर्मिमीत इव ।
तथा च प्राक् समासादुपाधिभेदाच्छुरितस्य द्रव्यद्वयस्याभिधानम् । समासे तु
भेदस्तिरोहितः । सोऽर्थोऽन्तर्भूत इति पदसमुदायात्मकमेकं पदमभेदेन कृष्णातिला
इत्यर्थमभिधत्ते ।
तथा च `नीलमञ्जरी, मत्तमधुकरी ' इति पुंवद्भावः समानाधिकरणलक्षणः
सिद्धः ।। 15 ।।
बुद्धिप्रकल्पितश्च भेदाभेदव्यवहारः कात्यायनाचार्यस्याप्यभिमत इत्याह--
व्यपदेशिवदेकस्मिन् बुद्धया नानार्थकल्पना ।
तया कल्पितभेदः सन्नर्थात्मा व्यपदिश्यते ।। 16 ।।
तत्र `व्यपदेशिवयद्वचनम्, एकाचो द्वे प्रथमार्थम्' इति व्यपदेशिवद्भाववचनम्
`अवचनाल्लोकविज्ञा नात् सिद्धम्' इति प्रत्याचक्षाणो वार्तिककारो बुद्धिप्रतिभासिनंशब्दार्थमभ्युपगच्छति । तथा हि बुद्धिसमारोपितभेदाश्रयेण मुख्यवदेकस्मिन्नपि
द्विर्वचनादिकार्थं सिद्धम् । शब्दप्रयगाच्च प्रत्ययस्य गौणमुख्ययोरविशेषः,
विपर्ययो भेदेनोक्तः । विकल्पो हि पुरुषस्य चैतन्यं स्वरूपमित्यत्राभिन्नस्यापि
भदप्रदर्शने `राज्ञः पुरुषः' इतिवत् प्रतीतिसाम्यम् ।। 16 ।।
शिलापुत्रकस्य शरीरमित्यभेदेऽपि भेदो लौकिक व्यपदेशिवद्भावे
दृषटान्तितः, तं व्याचष्टे--
क्रियाभेदेन दृष्टानामश्मादिनां पुनः पुनः ।
किञ्चिद् दर्शनमन्येन दर्शनेनापदिश्यते ।। 17 ।।
अनेकशः प्रेषणादिक्रियाभेदोपधारितभेदानां शिलापुत्रकादीनां विवक्षितैक-
क्रियासम्बन्धित्वेन ज्ञानमनेकक्रियागतेन ज्ञानेन सम्बन्धितयावच्छिद्यते ।
नानाक्रियासम्बन्धिनः शिलापुत्रकस्येदमेकक्रियासम्बन्धि प्रतिनियतं
शरीरमिति ।। 17 ।।
एवमिणादिधातुविषयेऽप्येकाच्त्वं भेदकल्पनया--
प्रयोगभेदाद् धातूनां प्रकल्प्य बहुरूपताम् ।
भेदाभेदावुपादाय क्वचिदेकाच्त्वमुच्यते ।। 18 ।।
एकोऽच् यस्य सोऽयमेकाजिति बहुर्वीहावाश्रिते एकवर्णेष्वन्यपदार्थस्य
वर्तिपदार्थभिन्नस्याभावाद् द्विर्वचनाप्रसक्तावेकवर्णेषु च व्यपदेशिवद्वचनादित्यु-क्तम् । ततः `एति, अयनम्, इतः, एता, एतव्यम् , आयन्' इत्यादि-
बहुभेदप्रभिन्नप्रयोगगतनानारूपाश्रयेणान्यपदार्थं प्रति नियतप्रयोगगताभेदाश्रयेण
वर्तिपदार्थं च परिकल्प्य `इयाय' इत्यादौ द्विर्वचनसिद्धिरुक्ता ।। 18 ।।
यद्वा,
अन्वयव्यतिरेकाभ्यामर्थवान् परिकल्पितः ।
एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते ।। 19 ।।
इणो धातोरित्यादौ पदे प्रत्ययरूपभिन्नेऽप्यनुगमाद् योऽनुगतोऽर्थः
स वाच्यः । अन्यत्र तस्मिन्नेव प्रत्यये धात्वन्तरप्रयोगे तदप्रतीतेरित्यर्थ-
वतोऽस्य निरर्थकमिदं वर्णरूपमेकोऽजिति कल्पनया व्यवह्रियते । धातिशब्दो
हि क्रियावचनस्य संज्ञेति तोनार्थवानसावच्यते । अजिति त्वनपेक्षितार्थसम्बन्ध-
वर्णविशेषात्मकं रूपमभिधत्ते ।
तथा च कल्पते व्यपदेशः, एकोऽज् यस्य सोऽयमेकाजिति । प्रथमत्वम-
प्यसत्यप्रथमेऽपेक्षणीयेऽपूर्वत्वात् समारोपितं यथा प्रथमगर्भेण हतेति
निर्णीतम् ।। 19 ।।
तदेवं यथा बुद्धिप्रकल्पितभेदाश्रयेणात्र व्यपदेशसमर्थनम्, तथा सामानाधि-
करण्यमपि बौद्धभेदाश्रयमिति प्रकृतं निगमयति--
द्रव्यात्मानस्त्रयस्तस्माद् बद्धौ नाना व्यवस्थिताः ।
आश्रयाश्रयिधर्मेणत्ययं पूर्वेभ्य आगमः ।। 20 ।।
जातिगुणाच्छुरितमाधेयं द्रव्यद्वयम्, तदाधारभूतं तु तृतीयं गुणजाति-
विशिष्टबुद्धिभेदाद् भिन्नमिति विभक्तमात्मग्रहणं सर्वत्र निरंशवस्तुवाचकमित्यु-
पाधिभेदेनापि प्रतीतौ निरंशवस्तुविश्रान्तिः सूचिता, यथा सामानाधिकरण्यं वाक्येऽपिसिध्यति । तथा च तत्र पुंवद्भावोपपत्तिः । एष च वृद्धानामाम्नाय आदरणीयः,
न स्वमनीषिकाचर्चितः ।
तदेवम् `समानाधिकरणेषूपसङ्खयानमसमर्थत्वाद् द्रव्यं पदार्थ इति चेत्'
इति द्रव्यपदार्थपक्षे वारपुरुषशब्दाभ्यां द्वाभ्यामप्येकस्य द्रव्यस्य प्रति-
पादनाद् भिन्नाभिधेयाभावे भेदाधिष्ठानस्य संसर्गस्याभावात् समासाभावो
यश्चोदितः, स द्रव्येऽपि पदार्थे प्रतीयमानवीरत्वादिगुणभेदकृतं द्रव्यस्य
भेदमाश्रित्य समर्थितः । जातावपिहि पदार्थे प्रतीयमानैकद्रव्याश्रयं सामानाधि-
करण्यं वीरत्वपुरुषत्वयोराश्रयणीयम्, अन्यथानुपपत्तेः ।
एवमर्थयोः सामानादिकरण्यमधिकरणान्तरविभजनात् समर्थितम् । अत एव
विशेषणविशेष्यभावोऽपि सिद्धः । यो हि यमभेदेनोपश्लिष्यति स स्वरूपेण नियोगतः
तदुपरञ्जयतीति दृष्टम् ।। 20 ।।
तदित्थमर्थयोः सामानाधिकरण्यनुपपाद्य शब्दयोरप्युपपादयितुमाह--
सामानाधिकरण्यं च शब्दयोः कैश्चिदिष्यते ।
विशेषणविशेष्यत्वं संज्ञासंज्ञित्वमेव वा ।। 21 ।।
कृष्णतिलशब्दयोर्भिन्ननिमित्तप्रयुक्तयोरेकस्मिन् जातिगुणाविशिष्टे द्रव्ये
प्रवर्तमानयोः समानाभिधेयत्वं समानाधिकरण्यमुच्यते । एवं विशेषणविशेष्य-
भावोऽपि तयोरेव । कृष्णशब्दो हि तिलशब्दं स्वार्थविशिष्टेऽर्थऽवस्थापयति ।
तिलशब्दोऽप्यन्यविशेषप्रतिपादनादपावर्तमानोऽवच्छेद्यः । संज्ञासंज्ञिभावोऽपि
प्रत्यस्तयोस्तयोरेव ।
तथाहि--प्रदेशस्थो वृद्धिशब्दः संज्ञासंज्ञिवाक्यस्थेन वृद्धिशब्देन
प्रत्यायितः स्वरूपोपधानेन संज्ञिनं प्रतिपादयति `अदैच्' इत्यादैच्छब्दो-
पहितरूपम् । अतश्च स्वरूपोपधानेन प्रत्यायनात् सोऽयमित्यभिसम्बन्धात्
सामानाधिकरण्यमेकविभक्तित्वं च विशेषणविशेष्ययोः संज्ञासंज्ञिनोश्च
वृद्धिवाक्ये वर्णितम् । तदिह निदर्शनत्वमन्तर्भाव्य निर्दिष्टम् ।। 21 ।।
प्रकारान्तरेणार्थयोः सामानाधिकरण्यमाह--
केषाञ्चिज्जातिगुणयोरेकार्थसमवेतयोः ।
वृत्तिः कृष्णतिलेष्विष्टा शब्दे द्रव्याभिधायिनि ।। 22 ।।
कृष्णातिलेषु प्रतिपाद्येषु वृत्तिरेकार्थीभाव इष्टः । तथाहि--सति विशेषण-
विशेष्यभावे सा भवति । अस्ति चात्र सा, जातिगुणयोरेकत्राश्रये वृत्तेः । यदेव
द्रव्यं जातिनिष्ठं तिलशब्देन साकाङ्क्षमवगमितम्, तदेव कृष्णशब्देनावच्छिद्यते ।
अतस्तद्वाच्यो गुणो विशेषणम् । गुणनिमित्तो हि कृष्णशब्दो द्रव्य इति तस्य
तात्पर्यार्थो गुणः, द्रव्यस्य तिलशब्दोनाप्याक्षेपात् । शब्दे द्रव्याभिधायिनीति
सामानाधिकरण्यार्थमाह--
कृष्णशब्देन हि गुणमात्राभिधाने तिलस्य कृष्णः इति वैयाधिकरण्यं स्यात् ।
तथा च वृत्तिर्न भवेत्, षष्ठीसमासस्यापि गुणेन नेति निषेधात् ।
एवं तिलशब्देन जातिमात्राभिधान इति जातिविशिष्टद्रव्याभिधानमत्रापि पक्षे ।
गुणप्रधानभावकृतमस्तु पक्षभेदः । तथा च प्राधान्येन वाच्यस्य द्रव्यस्य
वस्तुतोऽधिकरणान्तराभावाद् द्रव्यपदार्थपक्षे पूर्वं बौद्धभेदाश्रयेण समर्थितम् ।
इदं तु जातिपदार्थपक्षे कथ्यते । न च जातिगुणौ निराश्रयावत्र
तिलकृष्णशब्दाभ्यां प्रत्याय्यौ, येन तयोरेकाधिकरणत्वं सामानाधिकरण्यं न
स्यात् । नापि तयोः स्वतो विशेष्यत्वम्, द्रव्याच्छेदे प्रवृत्तयोरन्योन्यसमन्वया-
भावात् ।
तस्माद् द्रव्यद्वारेणैवात्र विशेषणविशेष्यभावो विवक्षितः । तिलशब्देन जाति-
निष्ठस्य द्रव्यस्याभिधानात् कृष्णशब्दः प्रवृत्तिनिमित्तद्वारेण तत्र विशेषण-
मित्येव युक्तम् ।। 22 ।।
यत्र तु द्रव्याभिधानं नास्ति, केवलगुणाभिधानम्, तत्र नान्तरीयकद्रव्या-
क्षेपेऽपि विशेषणविशेष्यभावाभावात् समानाधिकरणसमासाभाव इत्याह--
संस्तु रूपरसादीनामाश्रयो नाभिधीयते ।
द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः ।। 23 ।।
रूपरसादिशब्दाः स्वभावात एव द्रव्यान्निष्कृष्टरूपं स्वार्थमाचक्षते ।
निराश्रयस्य तु गुणस्याभावात् सामर्थ्याक्षिप्तमत्र द्रव्यम् । तथा चाभिधाद्वारेण
द्रव्यस्याविषयीकरणाद् रूपरसयोः परस्परमसम्बन्धाद् विशेषणविशेष्यभावभाव इति
समानाधिकरणसमासो न भवत्यत्र । अपि तु द्वन्द्वं भावयन्ते प्राप्नुवन्ति, द्वन्द्वो
वा भावी एषामिति । द्वन्द्वपदवाच्या रूपरसादयः । ते वा रूपरसादिशब्दा
द्वन्द्वभाजः । तदेवं सामाधिकरण्यं विशेषणविशेष्यभावश्चेत्युभयं विचारितम् ।। 23 ।। इदं तु वक्तव्यम्--कृष्णतिलशब्दयोर्द्वन्द्वयोरपि द्रव्यशब्दत्वाद् गुणजाति-
निमित्ताश्रयेण द्रव्ये प्रवृत्तेः समवायतिरोहितभेदत्वस्य समानत्वेन द्रव्यव्यवधिनाक्रियायोगस्य तुल्यत्वाद् विशेषणविशेष्यत्वानियम इत्युपसर्जनाप्रसिद्धौ चोदितायां
द्रव्यं प्रधानमिति परिहृतं भाष्ये । तत् कथं जातिनित्तस्यैव द्रव्यशब्दत्वात्
प्राधान्यम्, न गुणनिमित्तस्यापीत्याह--
द्रव्याभिधायी कृष्णादिराकाङ्क्षावान् प्रवर्तते ।
निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते ।। 24 ।।
इह गुणगुणिनोरभेदोपचारात् कृष्णशब्दो द्रव्यशब्दो द्रव्यमभिद्यते । क्रियया गुणो न साक्षात्सम्बन्धमुपैति, अपि तु द्रव्यद्वारेण द्रव्यस्यैव शक्त्यधिकरणत्वादिति
द्रव्याकाङ्क्षो गुणः क्रियायां प्रवर्तते । द्रव्येण च नित्यमपि योगाभावात् ततो
भिन्नः स्वयमनर्ह एव सम्बन्धे ।
तथाहि--कदाचिद् द्रव्यान्निकृष्यापि गुणो व्यवह्रियते । उपजनापायौ हि गुणस्य
द्रव्ये । अत एव मतुप् षष्ठी च भवति । `अव्यतिरेकात् सिद्धिमिति चेद् दृष्टो
व्यतिरेकः' इति चोक्तम् । जातिस्तूत्पत्तिप्रभृत्याविनाशाद् द्रव्येणाव्यभिचरित-
सम्बन्धा, अरूपकत्वात् । अतश्च निमित्तं जातिमुत्पत्तिकाल एव प्राप्तसम्बन्धा-
मलक्षितविवेकामनुवर्तते, योऽभिधेयमुखेन तिलादिशब्दः, तत्र तत्साकाङ्क्ष-
प्रवृत्तित्वं नास्ति ।
यथा हि गुणो द्रव्याकाङ्क्षो भवन् क्रियया द्रव्यव्यवधिना समन्वयमेति, नैवं
जातिः, तद्रहितस्य द्रव्यस्याभावात् । आत्मकल्पैव हि सा तस्येति साक्षादेव
जातिमद् द्रव्यं क्रियायोगि । अतश्च जातिमद् द्रव्यं विशेष्यं प्रधानमुक्तम्, गुणो
विशेषणमिति तदभिधायिनोरपि शब्दयोः परस्परावच्छेदकत्वेऽपि नियतो
विशेषणविशेष्यभाव इत्यर्थः ।। 24 ।।
तदेतदाह--
एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति ।
गुणधर्म गुणाविष्ट द्रव्यं भेदाय कल्पते ।। 25 ।।
एवमिति । यथेदितान्निमित्तानुविधानात् तिलशब्देन जात्याच्छुरितस्य द्रव्यस्य
प्रतिपादनात् तस्यैव साक्षात् क्रियायोगः । कृष्णशब्देन तु गुणाच्छुरितं द्रव्यं न
जात्याविष्टमिव, अपि तु गुणस्येव स्वभावो यस्य तद् व्यवहितक्रियासम्बन्धं गुणभूत-
मुच्यत इति तद्विशेषणं विशेष्यावच्छेदादत्रेत्यर्थः । `नीलोत्पलं पश्यति, स्वादु
फलमास्वादयति, सुरभि कुसुममाजिघ्रति, समुदायार्थस्य द्रवयस्यैव विशेषणविशिष्टस्य
क्षुत्यावेदितकर्मभावस्य क्रियासमन्वयावगमात् । `उत्पलस्य रूपं पश्यति' त्यादावपि
वास्तवेन रूपेण गुमस्य द्रव्यद्वारेणैव क्रियायोगः संयुक्तसमवायात् । श्रौतेन तु
रूपेम रूपादिभिरिदं तदिति सर्वनाम(प्र,योगयोग्यस्य द्रव्यस्यैव प्रतिपादनम् ।
एवं `पटस्य रूपं जायते' इत्यादावपि शाब्देन रूपेण द्रव्यमेव क्रियायोगीति
गुणस्य द्रव्यव्यवधानेन क्रियासमन्वये नास्ति व्यभिचारः । एवं द्रव्याभिधायि-
त्वेऽपि कृष्णादेर्गुणशब्दस्य विशेषणत्वमुपपादितम् ।। 25 ।।
सम्प्रति तदभावेऽपि तत् प्रतिपादयितुमाह--
गुणमात्राभिधायित्वं केचिदिच्छन्ति वृत्तिषु ।
अताश्वादिषु सम्बन्धाद् रूढीनामिव रूढिभिः ।। 26 ।।
वाक्ये कृष्णशब्दो गुणावच्छिन्नद्रव्यवचनः । वृत्तौ तु तिक्तशब्देनैव द्रव्य-
स्याभिधानाद् गुणमात्रं तद्विशेषणभूतमाहेति युक्तम् । गुणविशिष्यस्य द्रव्यस्य
प्रतीतेर्गुणो विशेषको व्यवस्थाप्यते । यथा `राजपुरुषः' इत्यत्र षष्ठयभावेऽपि
राजार्थः ।
दृष्टं च द्रव्यशब्दस्यापि वृत्तौ गुणमात्राभिधायित्वम् , यथा `अजाश्वो
देवदत्तः' इत्यत्राजश्वशब्दयौ रूढया नियतजातीयद्रव्याभिधायित्वे विरोधात्
सम्बन्धो न स्यादित्यविद्यमानजन्मानोऽश्वा यस्येत्यजन्मलक्षणधर्ममात्रवचनत्वे-
ऽजशब्दस्य सम्बन्धोपपत्तिः । एवमिहापि भिन्नयोः कृष्णतिलद्रव्ययोः
सम्बन्धाभावाज्जातिशब्देनैव द्रव्यास्याख्यानात् तस्यैव पुनरभिधाने प्रयोजनाभावाद्
गुणमात्रवचनः कृष्णशब्दः सामर्थ्याद् वृत्तौ व्यवतिष्ठते ।
एकार्थीभावकृतश्चायं वृत्तौ विशेष इति वृत्तिष्वित्याह । तथा च व्यातिरेकविभक्-
त्यभावेऽप्यव्यतिरिच्यमानशरीर एव गुणो द्रव्यमत्रविशिनष्टि, यथा `राजपुरुषः'
इत्यत्र पुरुषार्थैकीभावमपन्नो राजार्थः पुरुषम् ।
मीमांसकास्तु--राजशब्दो वत्तौ लक्षणया पुरुषार्थमभिदधातीत्याहुः, तच्चायक्तम्;
मुख्यस्यैव राजार्थस्यैकार्थीभावाद् विशेषकत्वेन पुरुषार्थोपादानोपपत्तौ लक्षणाया
अभावात् । मुख्यसम्भवे हि साभ्युपगमनीया । लक्षणायां च `राजानं पुरुषमुपास्ते'
इत्यत्र वाक्येऽपि राजशब्दः पुरुषं लक्षयेत् । स्वस्वामिसम्बन्धश्च नियोगतो न
प्रतीयेत । लक्षणायाः सामीप्यादिनिमित्ताया अपि भावात्, पुरुषशब्देनैव च
पुरुषार्थस्य प्रतितत्वान्न लक्षणा ।
काष्र्णोत्तरासङ्गमाकर्षतीति च श्रुत्यर्थसम्भवे कथं लक्षणा ?
न चेदं नोपसर्जनमिति शक्यते वक्तुम्, पूर्वपदप्रकृतिस्वरावधारणाद् बहुर्वीहि-
त्वावसायात् ।। 26 ।।
प्रकारान्तरेणापि गुणवचनस्य कृष्णादेर्विशेषणत्वे नियममाह--
तिले पूर्वमुपात्ते वा तत्रैव मतुविष्यते ।
स च धर्मः समासेषु गुणस्तस्माद् विशेषणम् ।। 27 ।।
तिलजात्यवच्छिन्ने प्थममुपात्ते विशेष्ये सामान्यस्वभावेनावसिते विशिष्टगुण-
तयावसायार्थं कृष्णशब्दः प्रवर्तमानो गुणवचनो मतुब्लोपात् तत्रैव वर्तते । अत्र
हि कृष्णोऽस्यास्तीति मतुप् तिलद्रव्य एव हि सम्बन्धिनि सामार्थ्याद् गुणशब्दात्
कृतः । तस्य "गुणवचनेभ्यो लुक्" (वा.5/2/94) इति लुक् सामर्थ्यलभ्यो नोक्तः ।
स च सम्बन्धाख्यो धर्मो मतुपः प्रक्रमात् तदर्थत्वेन प्रत्यासत्तेरवतम्यमानः
समासेष्वन्तर्भवति । अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति
तस्मात् समासविषयात् सम्बन्धाख्याद् धर्माद्धेतोर्गिण एवावच्छेदकः, सम्बन्धे
द्रव्ये स्वरूपसमर्पणात् ।
जातिस्तु न गुणशब्देन पूर्वमुपात्तं द्रव्यमवच्छिनत्ति, गुणापेक्षया जातेरत्या-
सन्नत्वात् पूर्वं तदात्मनैव द्रव्यस्य निरूपणौचित्यात् । गतमेतत् ।। 27 ।।
एवं समानाधिकरणवृत्तिं विचार्य द्वन्द्वैकशेषवृत्तिं विचारयितुमाह--
अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते ।
यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ।। 28 ।।
इहकक्रियागुमनिवेशार्थमर्था बुद्धया निरूप्यमाणाः क्रियागुणद्वारेणेतरेतरस्या-
पेक्षया समुदायभावमापद्यमानाः साहभाव्येन वक्तुमभिप्रेता द्वन्द्वैकशेषलक्षणसमासपद-वाच्या भवन्ति । समुदायश्चात्र नावयवव्यातिरिक्तः, अपि तु त एवावयवाः
संहन्यन्ते । तथा चात्रावयवभेदाभासानुविद्धा प्रतीतिर्नैयमिकी । अवयवाभासाच्च
द्विवचनबहुवचने न विरुध्येते ।
न हि यथा समासान्तरेष्वेक एवान्यावच्छिन्नोऽर्थः प्रधानम्, तथात्र सर्वेषां
पदार्थानां समकक्ष्यत्वादवयवभेदानुगतैकप्रख्यावशाच्चोद्भूतावयवभेदः समुदयो
वृत्तिपदवाच्यः । स चावयवाव्यतिरिक्त इत्यवयवशब्दैरेव व्यपदिश्यते धवखादिर-
पलाशा इति । यस्त्ववयव्यतिरिक्तः स शब्दान्तरेणोच्यते, समुदायो वनं
यूथामित्यादि ।
एकप्रख्यान्यथानिपपत्तेश्चायं समुदायः परस्परापेक्षैः प्रत्येकमेव पदैरुच्यते ।
तत्रावधार्यमाणेन समुदायेन भेदरूपस्य तिरोधानादिवशब्दः । एकसमुदायाभिधा-
यित्वेऽपि च द्वन्द्वस्य पटवीमृद्व्याविति समानाधिकरणलक्षणः पुंवद्भावो न भवति,
वाक्ये व्यभिचारसम्भवात् तद्गतस्य समानाधिकरणत्वस्याश्रयणात् । वृत्तौ त्वेका-
र्थीभावात् तदव्यभिचारः । पट्वी च मृद्वी चेति तु वाक्ये भेदप्रतीतिप्राधान्यम् ।
अत एव भेदाधिष्ठानेन समुच्चयेन योग इति समानाभिधेयत्वाभावः ।। 28 ।।
भेदानुवेधस्य सहविवक्षायामविशेषात् समाहारेतरेतरयोः को भेद इत्यत आह--
इतरेतरयोगस्तु भिन्नसङ्घाभिधायिनाम् ।
प्रत्येकं च समृहोऽसौ समूहिषु समाप्यते ।। 29 ।।
सहविवक्षायामनेकानुस्यूदैकप्रख्यारूपायां द्वैतमवयवप्राधान्यं च । तत्रावयव-
प्राधान्यमितरेतरयोगस्य विषयः ।
तथाहि--भिन्नमुद्भूतमेदं सङ्घं समूहं येऽभिदधति, तेषामयं वाच्यो द्वन्द्वपदानां
प्रतिभागं ह्यसौ समूहः पर्यवस्यति । तत एकैकस्यापि वाच्यः । प्रत्यवयवपरि-
समाप्तो हि समुदाय एकावयवदृष्टावपि गृह्यते । एवमेकावयववाचकेनाप्यभिधीयते ।
यथा च भूयोऽवयवदृष्टौ स्फुटमवधार्यते, तथा समुदायादपि स्पष्टार्थाभिधायिनः स्फुटा प्रतीतिः । तथा च प्रत्यवयवं प्रतिपत्तावपि न शब्दान्तरवैयर्थ्यम् । सङ्घप्राधान्येतु समाहार इत्यर्थादुक्तम् ।
इत्थमनुस्यूतभेदत्वे समानेऽपि अयं विशेषस्तु शब्दद्योत्योऽवयवप्राधान्यलक्षणः ।अयमेव चैकशेषस्यापि द्वन्द्वापवादस्य विषयः ।। 29 ।।
उद्भूतावयवभेदः समुदायः प्रत्यवयवसमाप्तोऽभिधीयत इत्यत्र सदृशं
निदर्शनमाह--
व्यापारसमुदायस्य यथाधिश्रयणादिषु ।
प्रत्येकं जातिवद् वृत्तिस्तथा द्वन्द्वपदेष्वपि ।। 30 ।।
क्रमिकस्य पूर्वापरीभूतस्य क्रियाकलापस्य पच्यादेर्यथास्वमधिश्रयणादि-
व्यापाररुपे भावे जातेरिवाध्यासाद् वृत्तेः स एको दृश्यमानो वर्तमानः क्रियावयवः
पचतीति वर्तमानकालाभिधायिप्रत्ययान्तपदवाच्यो यथा समर्थितः प्राक्, एवं
द्वन्द्वपदवाच्योऽपि समुदायः प्रत्यवयववृत्तिरिति प्रतिपदमाभिधेयकमापद्यते ।
द्वन्द्वपदार्थेष्वेकैकस्यान्यापेक्षाप्रतीतिरवयवान्तकश्रवणे परिसमाप्यते ।
इयमेव चात्रावयवानुविद्धसमुदायप्रतीतिः । जातिरपि प्रतिव्यक्ति परिसमाप्ते-
त्येकैकव्यक्त्यभिधायिनापि गवादिशब्देन प्रत्याय्यते । प्रथमव्यक्तिदर्शने
स्पष्टावभासा व्यक्त्यन्तरग्रहणे स्फुटीभवति । एवमन्योन्यापेक्षिणामधिश्रय-
णादीनां पचिप्रत्ययः स्फुटः ।। 30 ।।
स्यादेतत् । तादर्थ्यादधिश्रयणादिरपि पचिरिति यक्तं तत्राभिधानं जातावपि
जातिशब्देन । इह पुनर्धवखदिरादिशब्दः पृथगर्थतया वाक्येषु ज्ञातः कथमेकर्था-
भिधायी वृत्तौ स्यादित्याशङ्कय दृष्टान्तेन व्युत्पादयति--
शौण्डार्धर्चपुरोडशच्छत्रिणोऽत्र निदर्शनम् ।
ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ।। 31 ।।
"सप्तमी शौण्डैः" (2/1/40), "अर्धर्चाः पुंसि च " (2/4/31) इत्यत्र गणपठितदूर्ता-दिशब्दभेदाश्रयं बहुवचनम् । तच्चैवमुपपद्यते, यदि धूर्तादयोऽपि शौण्डादिशब्द-
वाच्याः, कथं च ते तथा भवन्ति, यदि साहचर्यादध्यारेपितशोण्डादिभावाः ?
एवं पुरोडासा इति बहुवचनान्यथानुपपत्तेः सहचरिता अपि करम्भपरिवापधानापयस्या
अभिधीयन्ते । तथा `छत्रिणो यान्ति, ध्वजिनो यान्ति, ते विष्णुमित्राः' इति साह-
चर्यादध्यारोपितान्यथारूपास्तच्छब्दवाच्या दृष्टाः ।
एवं द्वन्द्वैकशेषयोर्द्विवचनबहुवचनान्यथानुपपत्त्या प्रतिपदमनेकार्थत्वमवस्था-
प्यते, एकक्रियागुणविषयत्वेन साहचर्यात् परस्पररूपापत्तेः ।। 31 ।।
तदाह--
अर्थान्तराभिदायित्वं तथार्थान्तरवर्त्तिनाम् ।
याभ्यां चैकमनेकार्थं ताभ्यामेवापरं पदम् ।। 32 ।।
यथा शौण्डादिषु साहचर्यादर्थान्तराभिधानम्, तथात्रेति दार्ष्टान्तिके योजितम् ।
सहचरितयोरेव परस्पररूपाध्यासेनाभिधानेऽन्यस्यासहचरितस्याभिधानाभावादुपात्ता-
भ्यामेव `धवखदिरौ' इत्यत्र प्रत्येतमनेकार्थता । तथा च बहुवचनाभाव इत्याशयः ।
क्रिया चार्थान्तरेऽध्यासहेतुरत्रोक्ता, यदि प्रक्षरतीति प्लक्षोः न्यग्रोधे-
ऽप्येतत् तुल्यमिति । तदेवं वार्तिककारोक्ता, युगपदधिकरणता व्याख्याता ।
स हि `चार्थे द्वन्द्ववचने असमासेऽपि चार्थसम्प्रत्ययादनिष्टप्रसङ्गः' इति
चोदयित्वा `सिद्धं तु युगपदधिकरणे द्वन्द्ववचनाद्' इति न्यासान्तरं पपाठ ।
युगपदेकेन शब्देन यदाधिकरणमभिधेयं द्वन्द्वपदवाच्यमभिधीयते, समुदायरूपं
परस्परारोपितस्वार्थम्, तदा द्वन्द्वो वक्तव्य इत्यर्थः । एवं सहविवक्षायां
द्वन्द्व इत्युक्तं भवति । तत्रैव युगपदधिकरणवचनतायाः समर्थितत्वात् ।
ननु चाभिधानक्रमादभिधेयक्रमोऽवश्यम्भावीति कथं हि युगपदधिकरणवचनता ?
नैतत्, प्लक्षन्यग्रोधौ, धवखदिरपलाशा इत्यत्र यदि न्यग्रोधार्थप्रतिपत्तिकाले
प्लक्षार्थस्य नावगतिः, पलाशार्थप्रतिपत्तिकाले च यदि धवाद्यर्थस्य नावगतिः, तदा
न्यग्रोधपलशशब्दयोरेकार्थत्वादेकवचनमेव स्याद्, न द्विवचनबहुवचने, अतो द्विवचन
बहुवचनान्यधानुपपत्त्यात्रैकैकोऽपि शब्दोऽनेकार्थाभिधायीत्यनुमानाद् युगपद्-
वाचिता निश्चीयते ।
तदुक्तम्--`शब्दपौर्वापर्यादर्थपौर्वापर्याभिधानमिति चेद्, द्विवचनबहुवचनानु-
पपत्तिरित्युद्भूतावयवभेदश्च समुदाय इति समुदायाश्रयमेकवचनं न चोदनीयम् ।
साहचर्यं चार्थान्तराभिधाने हेतुर्लोकप्रसिद्धयार्थान्तरत्वात् कथ्यते । प्रक्षरणं तु विस्तारेणावस्थानंन्यग्रोधेऽप्यस्तीति तस्यासौ स्वार्थ एव । तदुक्तम् `करणाद्
द्रव्ये शब्दनिवोश इति चेत्, तुल्यकारणत्वात् सिद्धम्' इति ।
न चैवमतिप्रसङ्गः, वाक्येऽपि न्यग्रोधशब्देन प्लक्षार्थस्य प्रतिपादनप्रसङ्-
गाद् । `यतस्तद्विषयं च' इत्युक्तम् ।
वृत्तिविषये शब्दानां शक्तिवैचित्र्यादर्थान्तराभिधानम्, न तु सर्वत्रेत्यर्थः।अत एव तत्र साहचर्यादेतदितीतरस्याप्रयोगे तदभाव उक्तः । एकेनोक्तत्वादपरस्य
प्रयोगोऽनुपपन्न इति चेद्, अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोग इति। एवं चेतरेतरसंनिधाने भारोद्यन्तृवत् परस्परशक्त्याविर्भावनाद् नियतविषयमेव
परस्पराभिधानं शब्दानामित्युक्तम् । अभिधानं पुनः स्वाभाविकमिति । तदेवं
समर्थिता युगपदधिकरणवचनता ।
भाष्यकारेण तु `दुःखा, दुरुपपाद चेयम्' (म.भा.2/2/29)इत्यक्त्वा
पाणिनीय एव सूत्रान्यासः समर्थितः किल । नेयं प्रतीतावुपारोहतीति दुःखा,
प्रमाणाभावाच्च दुरुपपादा ।। 32 ।।
तद् व्याचष्टे--
समुदायान्तरत्वाच्च तादृशोऽर्थ न लौकिकः ।
अन्वयव्यतिरेकाभ्यां शास्त्रार्थोऽपि न दृश्यते ।। 33 ।।
इह लोकाच्छब्दार्थवसायः । न चात्र स्थितलक्षणोऽलोकिकौ व्यवहारोपयोगी
प्रत्येकं पदवाच्योऽर्थो नैकोऽवधार्यते । न हि शब्दान्तरस्य शब्दान्तरार्थाभिधानंलोके दृश्यते । रूढत्वाच्च लौकिकस्यार्थस्य प्रक्षणमात्रान्नयग्रोधः प्लक्षो
नोच्यते । न हि गमनाद् गौरिति पुरुषोऽपि गच्छन् गौरित्याभिधीयते । तस्माद्
द्वन्द्वलक्षणेन समुदायेनायमन्य एवावयववाच्यात् समुदायादभिधीयमानः समुदायो
विज्ञेयोऽलौकिकः ।
अथ प्रकृतिप्रत्ययार्थवदापोद्धारिकोऽयमन्वयव्यतिरेकलभ्यः शास्त्रीयोऽत्र
प्रत्येकं द्वन्द्वपदवाच्योऽर्थः । तदपि न; यस्मादन्वयव्यतिरेकाभ्यामत्र स्वार्थ
एव प्रसिद्धः प्रत्येकं पदानामवधार्यते, न त्वार्थान्तराभिधानशक्तिरवधारयितुं
पार्यते । प्लक्षशब्दसन्निधाने हि न्यग्रोधस्य प्लक्षोऽप्यर्थ इत्युच्यते,
प्रतीतेः । सा च प्रतीतिस्तस्य स्वशब्दादेव सिद्धेति न स्तोऽन्वयव्यतिरेकौ ।
काममेकशेषे शब्दान्तरस्याप्रयोगाद् भारोद्यन्तृन्यायेन परस्परं शक्त्याविर्भावना-
देकस्यानेकार्थप्रत्यायनशक्तत्वमनेन न्यायेन व्युत्पाद्यते स्ववाचकस्यैवानुपहत-
शक्तेस्तु द्वन्द्वेसम्भवात् कुतोऽप्रतीता शब्दान्तरस्य तत्र शक्तिः कल्प्यते ?
उद्भूतावयवभेदस्य तु समुदायस्य समासवाच्यत्वाद् द्विवचनबहुवचनोपपत्तिः ।
समासाद्धि द्विवचनबहुवचने जायते । नोत्तरपदमात्राद्, येन तदर्थस्य द्वित्वादि-
योगसमर्थेन प्रयस्येत । एकक्रियागुणनिवेशापेक्षया चानेकोऽर्थः प्रख्ययैकया
विषयीक्रियमाणोऽशक्योऽभिधातुमेकेन शब्देनेति पदसमूहाख्येन समासेना-
भिधीयते । स च समासशब्दोऽन्वाख्येयो निरंशोऽपि भागकल्पनेन व्युत्पाद्यते ।
ते च भागाः पृथक् पदान्तरसदृशा इति तदर्था एवानुगम्यन्ते ।
तथा च प्रविभागेनानुशासने साकाङ्क्षमपि पदं स्वार्थ एव पर्यवस्यति ।
अपेक्षामात्रप्रभावितश्चायं समुदायः क्रमवतामर्थानामात्मभूतः । स कथं पदार्थमात्र
प्रतीतौ प्रतिभासेत, येनोत्तरपदार्थप्रतीतावेव वचनं शक्येत ? सङ्कलनाप्रत्यय-
विषयत्वात् समुदायस्य भूयोऽवयवावधारणकालेऽवधारणात् ।
न च विशेषणविशेष्यभावायोगाद् द्वन्द्वपदार्था न संहन्यन्त इति शङ्कनीयम्,
सर्वस्य नामपदार्थस्य क्रिययैव संसर्गः, कस्यचित् तु साक्षात्क्रियया सम्बन्धः,
अन्यस्य तु तद्विशेषणत्वेनेत्येतावान् समासान्तरेषु भेदः ।
द्वन्द्वे तु समुदायविभक्त्या समुदायार्थस्य क्रियासम्बन्धद्योतनादवयवार्थाः
क्रियार्थिनः समुदायात्मतामापद्यन्ते । एतच्च परस्यापि मतम् ।
कथमन्यथैकैकोऽपि द्वयर्थः स्यात् ? द्वयोरेवार्थयोरपेक्षावतोः समुदायत्वात् ।
अत एवान्योन्यापेक्षायाः समुदायादेवार्थानामवगतेश्चरितार्थत्वाच्चशब्दो निवर्तते ।
वाक्ये त्वर्थानां विच्छेतप्रति भासात् समुच्चयद्योतने चशब्दोऽपेक्ष्यते । तस्मात्समुदायादेवान्योन्यापेक्षाप्रभावितद्वित्वादियोगिनो द्विवचनबहुवचनयोरुपपत्तौ न
काचिद् बिप्रतिपत्तिः ।। 33 ।।
यत एवं--
दुःखा दुरुपपादा च तस्माद् भाष्येऽप्युदाहृता ।
युगपद्वाचिता सा तु व्यवहारार्थमाश्रिता ।। 34 ।।
`दुःखयति, न चेतः परितोषयति' इति दुःखा, प्रतीतावनुपारोहात्, प्रयोजनस्य
चान्यथासिद्धेः, अत एव प्रमाणाभावात् परस्य सुखेन प्रतिपादयितुं न पार्यत इति
दुरुपपादा । सङ्कलनाविषयाश्चार्था समासान्तरेऽपि समुदायभावमापद्यन्त इत्यस्ति
सहविवक्षा । एकजातीयविषयाश्चार्था भवन्त्येकशब्दवाच्या एकशेष इति सहविवक्षायामियं
व्याहृता युगपदधिकरणवचनता वदता भाष्यकारेण कृच्छोपपादनाय गर्भीकृता,
ततश्चेयमङ्गीकृतैवेति ।। 34 ।।
तत्सम्भावनाबीजमाह--
समुदायमुपक्रम्य पदं तस्यां प्रयुज्यते ।
विभागेन समाख्याने ततस्तद् द्वयर्थमुच्यते ।। 35 ।।
इह `प्लक्षन्यग्रोधौ, धवखदिरपलाशाः' इत्यादिः समुदायो लोकिकोऽन्वाक्येयः
शब्दोऽवयवविभागकल्पनया व्युत्पाद्यते । तत्र च यावानर्थस्तावानेव विभज्यमानस्या-
वयवस्यावस्थाप्यते ।
अत्र हि विषये यः प्लक्षादिशब्दोऽवयवः, स स्वार्थमात्रे न विश्रान्तः, अपि तु
परिसमाप्तार्थवचनः ।
तथा च समुदायोपक्रमे परस्परसंबन्धादन्विताभिदाननयेन प्रत्येकं पदमितर-
पदार्थानुगतार्थाभिधानादनेकार्थमेव ।९
तस्यां युगपद्विवक्षायां समुदायमभिधेयमुद्दिश्य प्रयुज्यत इति, तथैव
प्रक्रियायां प्लक्षौ च न्यग्रोधौ चेति द्वयर्थस्यैवापोद्धारवाक्यम् । एवं धरखदिर-
पलाशा इत्यत्र बह्वर्थस्यापीति बोद्धव्यम् ।
विवक्षोपारूढो ह्यर्थः शब्दानाम् । अत्र चैताविती विवक्षा । परमार्थतस्त्वभिन्न
एव समासोऽर्थसमुदायार्थाभिधायीति न वाक्येऽनेकार्थत्वं लौकिकेऽस्ति ।
प्रक्रियावाक्ये त्ववयवधर्मेण समुदायाभिधानात् प्लक्षावयत्वादुद्भूतावयवभेदोऽयं
समुदायः प्लक्षौ न्यग्रोधावयवत्वाच्च न्यग्रोधावित्युच्यते । तद् यथा समावया-
वत्वात् समं चूर्णमिति । वृत्तौ त्वेकार्थीभावाद् भेदस्य विगलनात् तदधिष्ठानसमु-
च्चयद्योतनचशब्दाप्रयोगात् समुदाये समप्राधान्येनावयवशब्दो वर्तते । अन्यथा
समप्राधान्याद् द्वन्द्वपदानां तदर्थस्य साक्षात्क्रियांसंबन्धसंभवादितरेतरोपश्लो-
षाभावे वाक्य इव विभक्तार्थाभिधायित्वाद् द्विवचनाद्यनुपपत्तिरेव स्यात् । समासा-
न्तरेषु हि प्रधानमुखेनोपसर्जनं क्रियया युज्यत इति तेन संसृज्येत, न तु
द्वन्द्वे, सर्वेषां समप्रधानत्वात् ।
तस्मात् तत्रैकैकेन पदेन समुदायार्थाभिधानमवश्यामभ्युपगन्तव्यम्, येन
परस्परार्थसमन्वयोपपत्तावुद्भूतभेदस्य समुदायस्याभिधानाद् द्विवचनबहुवचनोपपत्तिः ।
आश्रयतो हि लिङ्गवचनान्यत्र प्रतिपादयिष्यन्ते । वृत्तिवाक्ययोश्च शब्दशक्तिवैचि-त्र्यं सुप्रसिद्धमिति वाक्ये लौकिके दृष्टार्थान्तराभिधानशक्तिरपि शब्दो वृत्तौ
तदभिधायी युज्यते । अत एवोक्तम् `तद्विषयम् च' (भा. वा. 2/2/29) इति।
इति सिद्धा युगपदधिकरणवचनता द्वन्द्वैकशेषयोः ।। 35 ।।
एकमेव शब्दशक्तिवैचित्र्यकृतं विशेषं वृत्तिवाक्ययोः प्रतिपादयति--
वीक्येऽपि नियता धर्माः केचिद् वृत्तौ द्वयोस्तथा ।
ते त्वभेदेन सामर्थ्यमात्र एवोपवर्णिताः ।। 36 ।।
वाक्ये व्यपेक्षायां केचिदर्थभेदा नियताः, केचिद् वृत्तावेकार्थीभावे, केचिद्
वृत्तिवाक्ययोर्द्वयोः साधारण इति यद्यपि भेदः, तथापि नासाविदन्तया विषयभेदेन
शास्त्रे निर्दिष्टः, अपि तु `समर्थः पदविधिः" (पा.2/1/1)इति सामर्थ्यसामान्य
एव निरूपिता भिन्ना धर्माः । अनाश्रितविशेषे सामर्थ्येनिर्दिष्टे सति यथायथं ते
विभक्ताः । सामर्थ्यमात्रमेतन्नियतरूपमुक्तमित्यर्थः ।। 36 ।।
एवं सामान्येनाभिधाय विशेषेण निर्णेतुमाह--
वृत्तौ विशेषवृत्तित्वाद् भेदे सामान्यवाचिता ।
उपमानसमासादौ श्यामादीनमुदाहृता ।। 37 ।।
"उपमानानि सामान्यवचनैः" (पा.2/1/55) इत्यत्र `शस्त्री श्यामा'
इत्युदाहृतम् । तत्र च श्यामासब्दो विशिष्टायां शस्त्र्यामुपमानभूतायां तदुपमितायांवा देवदत्तायां वर्तत इति विशेषवृत्ति त्वात् कथं सामान्यवचन इति चोद्ये
`प्रागभिसंबन्धाद्यः सामान्यवचनः' (म. भा. 2/1/55) इति भाष्ये समर्थितम् ।
आभिमुख्येन स्वभावसंभेदेन यत्र पदार्थाः संबध्यन्ते, असौ समासोऽभिसंबन्धशब्देना-
त्रोक्तः । तस्मात् प्राग्भेदे वाक्ये पृथगर्थत्वात् सामान्यवचनाः श्यामादयः ।
`शस्त्री इव श्यामा' इत्यत्र हि श्यामत्वसामान्यमुपमानोपमेयगतमाश्रित्य
श्यामशब्दः प्रवृत्तः । वृत्तावेकार्थीभावादस्य विशेषावरोधः । एवमन्यत्रापि
बोद्धव्यमुपमितसमासादौ ।। 37 ।।
उदाहरणान्तरमाह--
वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः ।
चार्थे द्वन्द्वपदानां च भेदे वृत्तिर्न विद्यते ।। 38 ।।
`स्निग्धानि किसलयान्यस्य'इति वाक्ये पदानामन्यपदार्थे `स्निग्धकिसलयो
वनस्पतिः' इति वृत्तिवद् वृत्तिर्नास्ति, अस्येत्यन्यपदार्थस्य स्वशब्देनैव वाक्ये
गमितत्वात् । वृत्तौ तु मत्वर्थस्य संबन्धस्यान्तर्भावात् पदान्येकार्थीभूय
संबन्धिनं प्रतिपादयन्ति । तथा द्वन्द्वपदानां भेदे वाक्ये चार्थे समाहारेतरे-
तरयोगलक्षणे वृत्तिर्नास्तीति तत्र चशब्दो वाचकः प्रयुज्यते । वृत्तौ
त्वकक्रियावशात् समुदितार्थाभिधायीनि पदानीति तत्र समुच्चितप्रधाने चो न
प्रयुज्यते ।। 37 ।।
अन्यदप्याह--
भेदे सति निरादीनां क्रान्ताद्यर्थेष्वसंभवः ।
प्राग्वृत्तेर्जातिवाचित्वं न च गौरखरादिषु ।। 39 ।।
भिद्यन्तेऽस्मिन्नर्था इति भेदो वाक्यं तत्र निरादीनां निष्क्रान्तः कोशाम्ब्याइत्यादौ क्रान्ताद्यर्थवाचित्वं नास्तीति क्रान्तादेः साक्षात् तत्र प्रयोगः ।
वृत्तौ तु निष्कौशाम्बिरित्यादावस्ति क्रान्ताद्यर्थाभिधानम् । वाक्ये हि
निरादीनामसत्त्ववाचिनां क्रियायोगिनि क्रान्तादौ द्रव्ये वृत्तिर्न संभवति । समासे
तु पूर्वपदार्थस्य प्राधान्यादनेकक्रियायोगी द्रव्यभूतस्तदर्थोऽभिधीयते ।
सोऽयमेकार्थीभावकृतो विशेषः । तथा गौरखरः, कृष्णसर्पो, लोहितशालिरित्यादिवृत्ति-
पदात् प्राग्वाक्ये जातिविशेषप्रत्यायनसामर्थ्यं नास्ति ।
न हि `गौरः खरः, कृष्णः सर्पो, लोहितः शालिः' इत्यत्र जातिविशेषप्रतीतिः
पदसमुदायानभिधेयत्वाज्जातेर्वर्णविशेषावच्छिन्नस्यार्थस्य प्रतीतेः । जातिविशेष-
प्रतीतेः । जातिविशेषे तु वर्णविशेषानादरः । ऐकार्थ्यात् तु समासेनैकपदत्वाद्
विशिष्टा जातिरच्यते । तथा च जात्यभिसंबन्धे विवक्षित कर्मधारयान्मत्वर्थीयो
भवति गौरखरवदरण्यं,कृष्णसर्पवान् वल्मीकः, लोहितशालिनाम् ग्राम इति ।
तेनात्र कर्मधारयमत्वर्थीयाभ्यां बहुर्वीहिर्लघुत्वात प्रक्रमस्येत्येतन्नावतरति । लोहितशालिर्ग्राम इत्यिक्ते विशिष्टजातीयशालिसंबन्धे विवक्षितो न गम्यते ।
एवमुदाहरणान्तरेऽपि योज्यम् । तथा च भाष्यम्--`अस्त्यत्र विशेषो जात्यात्र
संबन्धः क्रियते' (म. भा.2/1/55) इति ।। 39 ।।
तदेकस्मिन् वृत्तिवाक्ययोः स्वाभाविके विशेषे संवादकमाचार्यमतमाह--
क्रीडायां जीविकायां च वाक्येनावचनात् तथा ।
न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ।। 40 ।।
वार्तिककारः पपाठ--`उत्तरयोर्विग्रहेण विशेषासम्प्रत्ययान्नित्यग्रहणार्थक्यमि'ति (भा. वा. 3/1/22 ) `नित्यं कौटिल्ये गतौ' (पा. 3-1-23) `लुपसद--'
(पा.3-1-24)इत्यनयोर्योगयोर्वाक्यनिवृत्त्यर्थं नित्यग्रहणं न कार्यम्, वाक्येन
गतिकोटिल्यस्य भावगर्हायाश्चाभिहितत्वात् । कुटिलं क्रानतीति चेतः कोटिल्ये-
नासदाचारस्यापि प्रतीतेः । चङ्क्रम्यत इति तु गतप्रत्यागतोपाधिः क्रियाविशेषः
प्रतीयते ।
एवं गर्हितं लुम्पतीति धात्वर्थगर्हा नियगतो न प्रतीयते । साधनगर्हाया अपि
प्रतिपत्तेः । लोलुप्यत इति तु वृत्तौ भावगर्हाप्रतिपत्तिः ।
अनेनैव न्यायेन `नित्यं क्रीडाजीविकयोः' (पा.2-2-17) इत्यत्र नित्यग्रहणं
प्रत्याख्येयमिति निदर्शनव्याजेन तदप्युदाहृतम् । यदि वा यथा `नित्यं कौटिल्ये--'
(3-1-23)इत्यत्र साक्षान्नित्यग्रहणस्य वार्त्तिके प्रत्याख्यानम्, तथा `नित्यं
क्रीडाजीविकयोः'(पा.2-2-17)इत्यस्येति । साध्यतयोपन्यासः । तदितरस्य
निदर्शनत्वेन, सिद्धस्य च निदर्शनत्वात् । तदेवाचार्यमतं संवादकमुपपद्यते ।
उद्दालपुष्पस्य भञ्जिका, दन्तानां लेखकः' इति वाक्यात् क्रीडाजीविकयोरप्रतिपत्तिः।
क्रीडानङ्गीभूतस्य जीवनानुपायरूपस्याप्यर्थस्य प्रतीतेः ।
एवं क्रियासमभिहारस्यापि चङ्क्रम्यते लोलुप्यते इत्यतोऽप्रतीतेर्नैतेभ्यस्तत्रयङ् भवति । तथाचोक्तं--`क्रियासमभिहारे नैतेभ्यः' इति (भा.वा.3/1/22)।
एतदर्थं केचिन्नत्यग्रहणं व्याचक्षते--`कुटिलायां गतौ नितयं' भावगर्हायां नित्यं, नक्रियासमभिहारे' इति ।
यथा च वाक्याद् विवक्षितार्थानवगमात् प्रत्याख्यातं नित्यग्रहणम्, तथा
क्रियासमभिहारानवगमादेव तत्र प्रत्ययाभावादेतदर्थमपि तद् प्रत्ययाभावादेतदर्थमपि न
नित्यग्रहणम् । वचनानुसारिणां तु प्रात वाक्यनिवृत्त्यर्थमपि तद् भवितुमर्हति । यथा
चैत वृत्तिविषया विशेषाः, तथा संख्याविशेष उपसर्जनविशेषणं च योगो व्यक्तभिधानमिति
वाक्यैकनियता विशेषाः प्रोक्ताः । विशेषणविशेष्यभावादस्तु द्वयोरप्यनु-
सर्तव्याः ।। 40 ।।
एवं वृत्तिवाक्यवैधर्म्ये सति--
निर्धारणादिविषये व्यपेक्षैव यतः स्थिता ।
समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ।। 41 ।।
व्यपेक्षालक्षमसामर्थ्यं वाक्यैकनियतनिर्धारणविषये व्यवस्थितं स्वभावतो नियतमितिगवां कृष्णा सम्पन्नक्षीरतमेति `न निर्धारणे' (पा. 2-2-10) इति समासप्रतिषेधो
नारम्भणीयः । न ह्यत्रैकार्थीभावे समासे कृते गोकृष्णा सम्पन्नक्षीरतमेति निर्धारणं प्रतीयते निर्धारणहेतोर्बाह्यस्यापेक्षणीयस्य भावादसामर्थ्यादत्र समासाभाव इति
तात्पर्यम् । एवं `पूरण-'(पा. 2-2-11) इत्यादिरपि प्रतिषेधोऽशिष्य
इत्यनुसरणीयम् ।। 41 ।।
ज्ञापकत्वात् शास्त्रस्य स्वभावसिद्धमेव शक्तिवैचित्र्यं शब्दानामनुगन्तुं
शास्त्रारम्भ इत्याह--
विधिभिः प्रतिषेधैश्च भेदाभेदनिदर्शनम् ।
कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ।। 42 ।।
समासविधिना अभेदः संसर्ग एकार्थीभावः स्वभावसिद्धो ज्ञाप्यते, प्रतिषेधेन तु
भेदोऽसंसर्गो व्यपेक्षालक्षणो मन्दमतीन् प्रति । तद् यथा--द्वन्द्वस्य प्राणितू-
र्याङ्गाजौ स्वाभाविकीसङ्घे समाहारे तिरोहितावयवभेदे वृत्तिः,`प्राणितूर्यसेनाङ्गा-नाम्(पा.2/4/2) इत्येकबद्भावशास्त्रेम समाहार एवेति नियमेनान्वाख्यायते ।
दधिपयःप्रभृतीनां तु स्वाभाविकी प्रोद्भूतावयवभेदे इतरेतरयोगे प्रवृत्तिः प्रतिषे-
धेन । विभाषावचनेन वृक्षमृगादीनामुभयत्रेति शास्त्रमनुवादकम् । न ह्यसती
शब्दानां शक्तिर्वचनशतेनापि कर्तुं पार्यते । `न वा समाहारैकत्वात्'-(भा.वा.2/4/1)
इत्येकवद्धावप्रत्याख्यानस्य साक्षादुक्तत्वात् सिद्धत्वे सति निदर्शनत्वनात्रो-
पन्यासः । न्यायस्तु समानः ।। 42 ।।
तदेवं वृत्तिवाक्ययोः `समर्थः पदविधिः' (पा.2-1-1)इत्यत्र सामान्येन यत्
सामर्थ्यं निर्दिष्टम्, तदेव व्यपेक्षैकार्थीभावलक्षणभेदेन शब्दशक्त्यनुसारिभि-
र्विभक्तमित्याह--
सामर्थ्यमविशेषोक्तमपि लोकव्यवस्थया ।
वृत्त्यवृत्त्योः प्रयोगज्ञैर्विभक्तं प्रतिपत्तृभिः ।। 43 ।।
समर्थपदेन सामान्यवाचिना सङ्गतार्थत्वं वृत्तिवाक्यगतमविशिष्टमुक्तम् ।
लक्ष्यज्ञैस्तु लक्ष्यमृलत्वात् स्मृतेः सूत्रकाराशयमनुसृत्या वृत्तावेकार्थीभावो
वाक्ये व्यपेक्षेति विभागः कृतः । तथाच परिभाषापक्षे षत्वादिविधावपि
व्यपेक्षासामर्थ्यसम्भावादस्यैव व्यापारः । नियतविषयत्वाच्च सामर्थ्यभेदस्य
`वा वतनानर्थक्यं च स्वभावसिद्धत्वात्ष'(भा.बा.2/2/1) इत्युक्तम् ।
एकार्थीभावप्रकृताश्च वृत्तौ क्रान्ताद्यर्थप्रतीत्यादयो विशेषा उक्ताः । वाक्ये
त्वेकार्थीभावाभावकृताः सङ्ख्याविशेषादयः ।। 43 ।।
कथमविशेषोक्तावयं प्रविभागः, विपर्ययोऽप्यत्र कस्मान्न सम्भाव्यत
इत्याशङ्कयाह--
अर्थस्य विनिवृत्तत्वाल्लुगादि न विरुध्यते ।
एकार्थीभाव एवातः समासाख्या विधीयते ।। 44 ।।
इह द्विविधा वृत्तिः, जहस्त्वार्था अजहत्स्वार्था च । जहन्ति
स्वार्थनुपसर्जनपदानि यस्यां सा जहत्स्वार्था, तद्विपरीता अजहत्स्वार्थेति
मतभेदाश्रयो विकल्पः । तत्र जहत्स्वार्थायामसन्नेवोपसर्जनार्थः । अजहत्स्वा-
र्थायामपि प्रधानेन सम्भेदापत्तेः पृथगसन्निति भेदाधिष्ठानस्य सम्बन्धस्य
निवृत्तत्वात् सङ्खयाविशेषतिरोधानाच्च विभक्तेः स्वाभाविकमर्थाभावाददर्शन-
मन्वाख्यायमानमुपपद्यते । तथाच समास एकार्थीभावे युक्तः ।
व्यपेक्षायां तु भेदस्य संख्याविशेषाणां च संभवाद् विभक्तिश्रवणे वाक्यमव-
तिष्ठते । लुगादीत्यादिग्रहणात् `स्तोकान्मुक्त' इत्यलुक एकवद्भाववचनं
गृह्यते । भेदतिरोधानाद्धि समासेऽभेदैकत्वसंख्याप्रादुर्भावात् स्वाभाविकमेवै-
कार्थाभिधानमनुगम्यते । तथाचोक्तम् । `एकवद्वचनग्रहणमनर्थकम्'
द्विबहुष्वसमास'(भा.वा.6/3/1) इति ।
तदेवमेकार्थोभावे समासविधानस्य लुगाद्यन्वाख्यानं लिङ्गमुक्तम् । तथाच
वाक्यसमासयोर्नियतविषयत्वात् परस्परविषयावरोधासामर्थ्याद् विकल्पशासन-
मनुपपन्नम् ।। 44 ।।
केचित् तु वाचनिकमेव विषयनियममाहुः, तद् दर्शयति--
व्यवस्थितविभाषा च सामान्ये कैश्चिदिष्यते ।
तथा वाक्यं व्यपेक्षायां समासोऽन्यत्र शिष्यते ।। 45 ।।
व्यपेक्षैकार्थीभावयोर्यत् सामान्यं संबन्जमात्रं सामर्थ्यमित्यविशेषेणोक्तम्,
तत्र विभाषया वाक्यसमासावभ्यनुज्ञायते । व्यवस्थितविभषाविज्ञानाच्च
व्यपेक्षायां सामर्थ्यभेदे वाक्यमेव, एकार्थीभावे तु वृत्तिरेवेति शब्दशक्त्यनु-
सारी विषयनियमः सूत्रकाराभिप्रायमनुसरद्भिरुक्तः । वाक्यकारो वावचनं
प्रत्याचख्याविति पूर्वोक्तनयेन व्यवस्थामाह । सूत्रकारस्य तु सामान्ये
व्यवस्थितविभाषा स्थिता ।। 45 ।।
तथाच सामान्यार्थाश्रये समानशब्दत्वेऽप्येकार्थीभावकृतोऽयमपरो विशेष
इत्याह--
तुल्यश्रुतित्वात् तत्त्वेऽपि राजादीनामुपाश्रिते ।
वृत्तौ विशेषणाकाङ्क्षाऽगमकत्वान्निवर्तते ।। 46 ।।
य एव राजादिशब्दा वाक्ये, त एव वृत्ताविति रूपसादृश्यादभेदे
वृत्तिवाक्ययोः समाश्रितेऽपि `ऋद्धस्य राज्ञः पुरुषः' इति वाक्यवद्
`ऋद्धस्य राजपुरुषः' इति वृत्तावपि विशेषणेनोपसर्जनार्थो न युज्यते
गमकत्वाभावात्, प्रधानसंसृष्टेन ह्यस्वन्त्रेण राज्ञा ऋद्धादेरभिसंबन्धा-
योगात् । एकार्थीभावाद्धि संबन्धस्यान्तर्भावे सति कथमुद्भूतव्यतिरेकेण
विशेषणेन योगः स्यादिति `सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न'
इति वक्तवयम् । कृते हि समासे विशेषणयोगो न प्रतीयते उपसर्जनार्थ-
स्येत्यगमकत्वात् प्रत्यायकत्वाभावात् तत्र विशेषणाकाङ्क्षा नास्ति । वाक्ये
त्वस्ति गमकत्वात् ।
अतश्च शब्दशक्तिभेदादर्थभेदे वृत्तिवाक्ययोरत्यन्तमेव भेदः ।
सारूप्यनिमित्तं त्वभेदावसानं भ्रान्तम् । येनापि वृत्तावेकार्थीभावादुपसर्जनार्थ-
स्य विवेकाभावात् सविशेषणयोगो न भवतीत्यादिरत्र युक्तिरुपन्यस्यते तेनाप्येका-
र्थीभावकृताद्विशेषणाद्भेद एव शब्दशक्तिनिमित्तो वृत्तिवाक्ययोरुक्तो नापूर्वः
कश्चित् ।। 46 ।।
तथाच यत्रास्ति गमकत्वं, तत्रैकार्थीभावेऽपि भवति विशेषणयोग इत्याह--
संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।
स्वार्थवत् सा व्यपेक्षास्य वृत्तावपि न हीयते ।। 47 ।।
इह केचिच्छब्दाः स्वार्थमितरापेक्षं नान्तरीयकमभिदधानाः संबन्धिशब्दाः कथ्यन्ते।तद्यथा--गुरुशिष्यपितृपुत्रमातृभ्रात्रादयः । अतश्च ते वृत्तावपि स्वार्थमर्थान्त-
रापेक्षायोगिनमेव प्रतिपादयन्तीति गमकत्वात् तत्र सविशेषणानामपि वृत्तिर्भवतीति
`सविशेषणानां वृत्तिर्न' इत्यत्र `अगुरुपुत्रादीनाम्' इत्यापि न वक्तव्यम् ।
देवदत्तस्य गुरुकुलं, देवदत्तस्य गुरुपुत्र इत्यादि ।
अत्र हि प्रातिपदिकमात्रेणापेक्षितं विशेषणं नोद्भूतव्यतिरेकेणेत्येकार्थीभावाद्व्यतिरेकस्यान्तर्भावऽप्युपसर्जनेन संबध्यते । गुर्वादेर्हि वाच्यं शिष्याद्यपे-
क्षमित्येकार्थीभावेऽपि तदाकाङ्क्षा न निवर्तते स्वार्थस्य निवृत्त्यभावात् ।।47।। अत्रैव प्रकारान्तरमाह--
समुदायेन संबन्धो येषां गुरुकुलादिना ।
संस्पृश्यावयवांस्ते च युज्यन्ते तद्वता सह ।। 48 ।।
दासीगृहवत् प्रसिद्धमेव गुरुकुलं देवदत्तेन प्रधानं विशेष्यते, न त्वत्रोपसर्ज-
नार्थस्य गुरोर्देवदत्तापेक्षेत्यपि समर्थने किं देवदत्तस्य समीपं गुरुकुलमुतान्य-
थेति सन्देहे अवश्यमिदं वक्तव्यं देवदत्तस्य यो गुरुस्तस्य कुलमित्येवमवयवान्
गुर्वादीन् संबन्धेन स्वीकृत्य ते देवदत्तादयस्तद्वतावयविना समुदायेन संबध्यन्त
इत्यवयवद्वारेणैव समुदायसंबन्धो `द्विमयमुदश्विद् यवानाम्' इत्यादिवत् ।
एवञ्च य एव देवदत्तेन साक्षाद् गुरोर्योगेऽर्थः, स एव संपन्न इति, नास्ति
प्रकारान्तरत्वमित्यत्र तात्पर्यम् ।। 48 ।।
प्रक्रियायां वाक्योपमर्देन वूत्तेरन्वाख्यानात् कथमत्यन्तभेद इत्याशङ्कयाह--
अबुधान् प्रत्युपायाश्च विचित्राः प्रतिपत्तये ।
शब्दान्तरत्वादत्यन्तभेदो वाक्यसमासयोः ।। 49 ।।
इह राजपुरुषादयो विशिष्टार्थवृत्तयः सङ्घाताः परमार्थतो निरंशा एव
परिकल्पितपूर्वोत्तरावयवप्रविभागेन व्युत्पाद्यन्त इति मन्दमतयः श्रुतिसारूप्या-
दुपायोपेययोरैक्यमध्यवस्यन्ति ।
भावतस्तु यथा रेखागवयेन सत्यगवयप्रतिपत्तावन्य एव रेखागवयोऽन्यश्च
सत्यगवयः, तथा धूलिप्रक्षेपगतं प्रक्रियावाक्यमन्यदेव समासात् । प्रयोगसमवायि
किल वाक्यमनेनोपायेन प्रदर्श्यते । तच्च व्यपेक्षैकनियतमेकार्थीभावविषयात्
समासादन्यदेव । अर्थभेदेन शब्दानां भेदात् । संख्याविशेषादिश्चार्थभेदः प्रदर्शितः। क्वचित् समासान्तादेश्चसंभवाद् रूपभेदोऽप्यस्ति । भेदसंसर्गलक्षणस्य प्रधान-
स्यार्थस्याभेदाद् दूरविप्रकर्षेण वाक्यप्रकृतिर्वृत्तिर्व्युत्पाद्यते । तथा
क्वचिद् वाक्यार्थे पदवचनमित्येवं विचित्रा व्युत्पादनोपायाः प्रक्रियायाम् । तत्र
च वाक्याविभक्तीनां दर्शनात् समासे लुगन्वाख्यानं नलोपादिप्रत्ययलक्षणकार्य-
सिद्धयर्थम् ।। 49 ।।
यद्येवं गोरथादिवृत्तिविषयेऽपि युक्तादीनां वाक्ये दृष्टानां कथं न लोपाख्यान-
मित्यत आह--
असमासे समासे च गोरथादिष्वदर्शनात् ।
युक्तादीनां न शास्त्रेण निवृत्त्यनुगमः कृतः ।। 50 ।।
विभक्तयोऽसमासे वाक्ये दृष्यप्रयोगा इति प्रक्रियायां तदभेदेन वृत्त्यनुशासने
तासां प्रसङ्गाद्युक्तं यदाचार्योऽर्थाभावात् स्वाभाविकीं निवृत्तिं प्रत्ययलक्षणंप्रार्थयमानोऽन्वाचक्षीत । `गोरथः, दधिघटः' इत्यादौ तु युक्तादयः प्रक्रियावाक्य-
गता न दृश्यन्ते, नापि तल्लोपलभ्यं किञ्चनापि कार्यमिति न तेषां
लुगन्वाख्यानाम् । तथाच दघ्ना ओदनो दध्योदनः गवां रथो गोरथ इति द्रव्याणां
क्रियामन्तरेणासामर्थ्यात् समासाभावे चोदिते, "सिद्धं तु समानाधिकरणाधिकारे
क्तस्तृतीयापूर्वपदोत्तरपदलोपश्च"(भा.वा.2/1/35)"षष्ठीसमासश्च युक्तापूर्णान्तः"
(भा.वा.2/1/35)इत्युक्ते दध्ना उपसिक्तो दध्युपसिक्तः, दध्युपासिक्त ओदनो
दध्योदनः, दध्नः पूर्णो दधिपूर्णः, दधिपूर्णो घटः दधिघटः, गवां युक्तो गोयुक्तः
गोयुक्तो रथो गोरथ इत्येवं समासे उत्तरपदलोपस्य वचने चोदिते "न वा
असमासेऽदर्शनाद्""युक्तार्थसम्प्रत्ययाच्च सामर्थ्यम्" "सम्प्रत्ययाच्च तदर्था-
ध्यवसानन्" (भा.वा.2/1/35), इति प्रत्याख्यातं लोपवचनम् । दध्योदनः,
गुडधाना इत्यन्नव्यञ्जनभावावगतेल्तद्धेतुभूतोपसेकमिश्रणक्रियासामर्थ्यात् प्रतीयत
इति तेन दध्ना ओदन इत्याद्येव वाक्यं क्रियते । नास्त्येवोपसिक्तादिरत्र शब्दः ।
एवं गवं रथः, दध्नो घट इत्येव वाक्यम् । सम्बन्धिसामर्थ्यात् तु युक्ताद्य-
र्थप्रतीतिः । तथाहि--गवां रथस्य वाह्यवाहनसम्बन्धो युक्तार्थमन्तर्भावयति । एवं
दधिघटयोराधाराधेयसम्बन्धः पूर्णार्थमिति यथायोगमनुसरणीयम् ।। 50 ।।
ननु च गोयक्तो रथो दध्युपसिक्त ओदनः दधिपूर्णो घट इति वाक्ये दृश्यन्त
एव युक्तादयः, तथा प्रगतपर्णः प्रपतितपर्णः इत्यादौ प्रपर्णादिवृत्तिविषये वाक्ये
गतादिशब्दः श्रूयत इति लोपोऽन्वाख्येय एवोत्यत आह--
शब्दान्तरत्वाद् युक्तादिः क्वचिद् वाक्ये प्रयुज्यते ।
प्रपर्णप्रपलाशादौ गतशब्दश्च वृत्तिषु ।। 51 ।।
इह द्विविधं वाक्यम् । प्रयोगसमवायि लोकिकं नित्यं, प्रक्रियावाक्यं चानित्यम-
लोकिकं समासप्रकृतिरेखागवयस्थानीयम् । तत्र च युक्तादिर्न दृश्यते । लौकिके
दृश्यते । तच्चान्यदेव गोरथादेः समासस्य पर्यायरूपमिति न पर्यायाणां गजो मतङ्गजो
वृषो वृषभ इत्यादीनां गुरुलाघवादरेण लोपान्वाख्यानमुपपद्यते । प्रपर्णादिविषये
वृत्तष्वेकार्थीभावेषु सत्सु क्वचिल्लौकिके वाक्ये प्रगर्तपर्ण इत्यादौ गतशब्दः
प्रयुज्यते शब्दान्तरभूत इति समन्वयः ।। 51 ।।
प्रयोगसमवायिना च लौकिकेन वाक्येन सत्यप्यवान्तरार्थभेदे प्रधानार्थापेक्षया
वृत्तिरभिन्नार्थेत्याह--
विशेषणविशेष्यत्वं कैश्चिदेकस्तथाश्रयः ।
उपाये तत्त्वदर्शित्वादिष्यते वृत्तिवाक्ययोः ।। 52 ।।
निरंशस्य समासस्यान्वाख्यातिमशक्यत्वाल्लौकिकवाक्यसदृशं प्रक्रियावाक्यमुपायः
कल्प्यते । यत्र चान्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययवदर्थापोद्धारः । अबुधास्तु-
पायोपेययोरैक्यमध्यवस्यन्तोऽर्थाभेदमत्रावयन्ति ।
तथाहि--य एव विशेषणविशेष्यभावो निलमुत्पलमित्यत्र वाक्ये, (अ)भेदनिष्टं
च समानाधिकरण्यं तदविलक्षमेव नीलोत्पलमित्यत्र वृत्तौ ।
एवं व्यधिकरणविषयेऽपि राज्ञः पुरुष इत्यादौ विशेषणविशेष्यभावः संसर्गात्मको
राजपुरुष इति वृत्त्या समान इति वृत्तिवाक्ये अभिन्ने च । तथा च `परस्परव्यपेक्षां
सामर्थ्यमेके,(म.भा.2/1/1)इत्येकीयं मतम् । समासेऽप्यत्र व्यपेक्षैव सामर्थ्यं,
वाक्योपमर्देन कार्यशब्ददर्शने समासप्रादुर्भावादर्थभेदायो गात् प्रातिपदिकेनैव च
पञ्चकदर्शनाश्रयेण विभक्त्यर्थाभिधानात् तल्लुगन्वाख्यानम्, न त्वर्थस्याभावात् ।
तथा च तावकीनादौ विशेषणप्रतिपत्तिनिबन्धने सति सङ्ख्याविशेषोऽवधार्यत एव ।
सर्वथा त्वेकार्थीभावाभावेन स्यादत्र प्रतीतिः । उपसर्जनविशेषणायोगस्तु `सविशेष-
णानां वृत्तिर्ने'ति वाचनिकः । द्वन्द्वे चशब्दस्याप्रयोगश्च तदर्थ एव । तस्यानुशा-
सनात्,न तु भेदविगमनात्, तन्निष्ठसमुच्चयाभावादिति कार्यशब्दवादिनो वृत्तिवाक्ययोः
प्रधानार्थाभेदेन पर्याययोः सर्वथैक्यं भ्रान्त्याध्यवस्यन्ति ।
नैकार्थीभावो नाम विशेषकरः कश्चिद्,व्यपेक्षैव, षत्वादिविषयेऽपि सम्भवात्
सर्वत्र सामर्थ्यमिति प्रतिपन्नाः ।
इत्थं च भिन्ननिमित्ताभ्यां शब्दाभ्यामेकस्यैवार्थस्य प्रत्यायनात् सामानाधि-
करण्यमवच्छेद्यावच्छेदकभावश्च भेदाश्रयो वृत्तावपि युज्यत इति न तत्
प्रयत्नसाध्यम् । एषां च मते वा वचनेन विकल्पो भिन्नविषये क्रियत इति
नानर्थकं तत् ।। 52 ।।
एतदपदर्शनं निराकर्तुमाह--
पदं यथैव वृक्षादि विशिष्टेऽर्थे व्यवस्थितम् ।
नीलोत्पलाद्यपि तथा भागाभ्यां वर्तते विना ।। 53 ।।
वर्णानामानर्थक्यस्य वृक्षादौ प्रतिपादितत्वान्निरंशमविभक्तार्थप्रतयायकं
स्फोट स्वभावं पदं स्वशक्त्या नियतार्थं यथा, एवं नीलोत्पलं सदृशभागप्रकल्पनया
प्रकृतिप्रत्यायदिवद् व्युत्पाद्यतेऽदूरविप्रकर्षेण वाक्येन । यथा वृक्षादावसन्नपिप्रकृतिप्रत्ययार्थविभागोऽन्वाख्यानार्थं कल्पितः, तथा वृत्तावप्यवयवार्थभेदः ।
वाक्ये हि भेदोऽर्थस्येति सम्बन्धविभक्तिः । वृत्तौ त्वविभागेन पांसूदकवदर्थस्या-
भेदापत्त्या सम्बन्धविगलनात् स्वाभाविकी निवृत्तिर्विभक्तेः, सङ्खयाविशेषोऽपि
नास्ति । पञ्चके प्रातिपदिकार्थे द्योतकाभावादप्रतीतेः । पयः पयो जरयतीत्यत्र
क्रियासम्बन्धान्यथानुपपत्त्या शक्तिप्रतीतिः ।
अभेदैकत्वसङ्खया च सर्वसङ्ख्याविशेषसामान्यभूता वृत्तावस्त्युपर्जनार्थस्य
द्रव्यस्य निस्सङ्खयत्वाभावादिति यथायोगं सति विशेषद्योतके तदवगमो न
विरुध्यते । प्रधानार्थसम्भेदादेव च स्वविशेषणेन न यज्यते उपसर्जनार्थः ।
वचनेन तु शब्दानां शक्त्याधानायोगाद् विषयविवेको दुरवसानः ।
द्वन्द्वेऽपि समुच्चितप्राधान्याच्च शब्दनिवृत्तिर्न तु चार्थेऽनुशासनात् ।
नाह्यत्रार्था विधेयतया शब्देषु निर्दिश्यन्ते, आनन्त्येनाशक्यत्वात् ।
तदुक्तम्--`अर्थानादेशानात्, तच्च लध्वर्थमि'ति(मा.भा.3/3/1)।
सिद्धस्य तु लौकिकस्यार्थस्यानुवादः सर्वत्र । परस्परव्यपेक्षा सामर्थ्यमिति
त्वेकीयमतम् । एकार्थीभावः सामर्थ्यं परिभाषा चेत्येत्रं सूत्रमभिन्नतरकं
भवतीति सिद्धान्तव्यवस्थापनात् । तदेवमेकार्थीभावकृतविशेषदर्शनादत्य-
न्तमेव वृत्तिवाक्ययोर्भेदः । केनचिदंशेन तु सादृश्याध्यवसायो भ्रमः ।। 53 ।।
न चापि सर्वत्र वृत्तिवाक्ययोः सादृश्यानुगम इत्याह--
श्रोत्रियक्षेत्रियादीनां न च वासिष्ठगार्ग्यवत् ।
भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ।। 54 ।।
वासिष्ठगार्ग्यादौ तद्धितवृत्तिविषये यथान्वाख्यानाय प्रकृतिप्रत्ययविभागेन
प्रतिपत्तिः, नैत्रं श्रोत्रियक्षेत्रियपारशवादेः । न ह्यत्र प्रकृतिरूपानुगमो
दृश्यते, छन्दःशब्दपरक्षेत्रशब्दस्त्रीशब्दानामननुगमात् । तथाच वाक्यादन्यदेव
वृत्तिपदम् । तथा सर्वत्रैव बोद्धव्यम् । एतदेव हि सामान्यतो दृष्टमत्र
लिङ्गमुपोद्बलकमर्थभोदादेव सिद्धेः ।। 54 ।।
वृत्तिवाक्ययोः शब्दभेदेऽर्थानुगमोऽपि कचिन्नास्तीत्याह--
सप्तपर्णादिवद् भेदो न वृत्तौ विद्यते क्वचित् ।
रूढयरूढिविभागोऽपि क्रियते प्रतिपत्तये ।। 55 ।।
पर्वणि पर्वणि सप्त पर्णान्यस्येत्येत्रं सप्तपर्णशब्दो व्युत्पाद्यते । न च
सर्व एवंविधो वृक्षः, अपि तु कश्चिदेव शीर्णपर्णोऽपि विशिष्टजातीयोऽभिधीयते ।
यद्येत्रं कथं सप्तपर्णादयो रूढिशब्दा इति प्रसिद्धाः न राजपुरुषादय इत्यत
आह--रूढयरूढीति ।
प्रतिपत्तये न्यायसिद्धार्थाभेदसम्प्रत्ययस्थिरीकरणार्थमयं विभागः । प्रतिपादनो-पायः । प्रधानार्थानुगमाद् राजपुरुषादौ तु वाक्यगतार्थानुगमव्यभिचाराद्
राजपुरुषादौ यौगिकत्वम्, सप्तपर्णादौ तु वाक्यगतार्थानुगमव्यभिचाराद्
रूढित्वमिति विभागेन व्यवहारः । क्रमेण हि परोऽवबोद्ध्यते ।
न चार्थानुगममात्रां विना रूढित्वम्, सप्तपर्णादावपि रूढिविषये क्वचित्
तत्सम्भवात् । तथाहि रूढीनामपि क्वचित् सप्तपर्णादावर्थानुगमोऽस्ति ।
न चैतावता यौगिकत्वम्, अतिप्रसङ्गात् । तदेवमनङ्गीकृतावयवार्था
एव नीलोत्पलादयः समासाः प्रकल्पितावयवभेदेन व्युत्पाद्यमाना भिन्ना एव तत्त्वतो
वाक्येभ्य इत्यत्यन्तभेदो वृत्तिवाक्ययोः सिद्धः ।। 55 ।।
यद्येकार्थीभावकृतो भेदो वृत्तिवाक्ययोः, तदा बहिर्वीहावनेकवर्त्तिपदसम्भवादन्य-
पदार्थे तेषामेकार्थीभावान्यथानुपपत्त्या परस्परसमन्वये समासान्तरमन्तरा कस्मान्न
भवतीत्याह--
या सामान्याश्रया संज्ञा विशेषविषया च या ।
बहुलग्रहणान्नास्ति प्रवृत्तिरुभयोस्तयोः ।। 56 ।।
सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि ।
स्यात्, स्यात् तन्त्रान्तरङ्गत्वात् बाधकोऽवयवस्वरः ।। 57 ।।
अतिशयेन सूक्ष्मा जटरूपाः केशा यस्य सोऽयं सुसूक्ष्मजटकेशः । अत्र सूक्ष्म-
जटशब्दयोः सति सम्बन्धे विशेषणसमासे समासान्तोदात्तत्वं स्यात् । बहुर्वीहिस्वरेण
हि त्रिपदसमासगतं समासान्तोदात्तत्वं बाधितमेकविषयत्वात् । अवयवयोस्तु
बहुव्रीह्यभावादप्रतिषिद्धं समासान्तोदात्तत्वमेव स्यात् ।
नच परत्वाद् बहुर्वीहिस्वरः अन्तरङ्गत्वादवयवस्वरश्च पूर्वशाला प्रिय इतिवत् ।
तस्मादत्रावयवस्वरनिवृत्त्यर्थं विशेषणं विशेष्येणे'--(पा.2-1-57) इति या
कर्मधारयसमाससंज्ञा, या च `सुप् सुपा'(पा.2/1/4)इति योगाविभागात् सामान्येन
समाससंज्ञा, सा बहुलग्रहणान्न प्रवर्तत इति वाच्यम् ।। 56,57 ।।
ननु च प्रकृतयैव महाविभाषयात्रावयवयोः समाससंज्ञा द्विविधापि न प्रवर्तत
इति कस्मान्नोच्यते, किं बहुलग्रहणात् तदभावः कथ्यत इत्याशङ्क्याह--
समुदायस्य वृत्तौ च नैकदेशो विभाष्यते ।
भेद एव विभाषायां नियतो विषयो यतः ।। 58 ।।
व्यवस्थितविभाषाविज्ञानादेकार्थीभावप्रक्रमे विकल्पो नास्ति । तस्य व्यपेक्षैक-
नियतत्वादित्यन्यपदार्थे वृत्तिमनुभवतामवयवानामन्योन्यसंसर्गस्याविनाभावादेकार्थी-
भाव एव न्याय्य इति प्राप्ता समाससंज्ञा बहुलग्रहणेन निवार्यते । यदा हि
वृत्तिस्तदावयवयोर्वृत्तिरेव । तद्यथा `पञ्चगवधनः, वाक्त्वचप्रियः'इत्यन्तरा
तत्पुरुषो द्वन्द्वश्च प्रवर्तत इति तदाश्रयटच्समासान्तसिद्धिः ।
तदेतद् भाष्ये--`द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्'(भा.वा.
2/1/51) इत्येतद्वार्तिककारवचनसमाधानार्थमुक्तम्--`यदा वृत्तिः, सर्वेषां तदा
प्रवृत्तिः'(म.भा.2/1/51)इति ।। 58 ।।
ननु चैकस्मिन् प्रयोगे बहुर्वीहिसंज्ञाया भावोऽवयवे तत्पुरुषसंज्ञायाश्चाभावो
विभाषयानया प्रतिपाद्यताम् । अयमेव ह्यस्या मुख्यो विषय इत्यत्राप्रवृत्ताव-
चरितार्थेयं स्यादित्याशङ्कयाह--
यतश्चाविषयः सोऽस्यास्तस्मान्नास्त्यकृतार्थता ।
अभेदप्रक्रमेऽत्यन्तं भेदानामपसारणात् ।। 59 ।।
एकार्थीभावविषये पृथगर्थताभावाद् विविधभाषणरूपाया व्यपेक्षानियताया
विभाषाया नास्ति प्रवृत्तिरित्यविषयेऽप्रवृत्तावस्याः कथमचरितार्थत्वम् । अन्यन्त-मिति । न केवलं समुदायगतो भेदो नास्ति, यावदवयवगतोऽपि । प्रधानार्थपर-
वशत्वेन पांसूदकवद् विभागापत्तेरवयवार्थानाम् ।
तदेवमत्र प्राप्तः समासो बहुलग्रहणेन निवार्यते अवयवयोरिष्टस्वरसिद्ध्यर्थं ।
सुसूक्ष्मजटकेशः. सुनताजिनवासा इत्येवमादौ हि बहुर्वीहिस्वर एवेष्यते ।। 59 ।।
क्वचित् त्ववयवस्वरेण समुदायस्वरो न भिद्यत इति भवत्येव तत्रावयवयोः
समास इत्याह--
महाकष्टश्रितेत्येवं न स्याद् भेदः पदत्रये ।
वृत्तावयवस्यात्त्वं यस्मान्न प्रतिषिध्यते ।। 60 ।।
एवमिति । समुदायस्य वृत्तावयवयोरप्येकार्थीभावाभ्युपगमे सति महत् कष्टं
श्रित इति त्रिपदसमासप्रक्रमेऽवयवयोः `सन्महत्--'(पा.2-1-61)इति समासे
विहिते भवत्यात्त्वमुत्तरपदे विधीयमानाम् । त्रिपदे चात्र समासे न स्यादात्त्वमु-
त्तरपदत्वस्य सर्वान्त्ये लोकविज्ञानान्मध्यपदे तदभावादित्यवयवसमास
आश्रयितव्यः । स्वरे त्वत्र भेदो नास्ति । द्विपदे समासे समासान्तोदात्तत्वस्य
बाधकस्थाथादिस्वरः, तस्यापि बाधकः `अहीने द्वितीया'(पा.6-2-47) इति
पूर्वपदप्रकृतिस्वरः, स एवावयवसमासान्तोदात्तः ।। 60 ।।
क्वचित् तु स्वरेऽत्र भेद इत्याह--
महारण्यमतीते तु त्रिपदाद् भिद्यते स्वरः ।
यस्मात् तत्रान्तरङ्गत्वाद् बाधकोऽवयवस्वरः ।। 61 ।।
महदरण्यमतीत इति त्रिपदे द्वितीयातत्पुरुषे समासान्तोदात्तत्वस्य बाधकं
थाथादिस्वरमवयवाश्रयोऽन्तरङ्गः समासान्तोदात्तो बाधेतेत्यत्र त्रिपदाद् द्विपदे
तत्पुरुषे भिद्यते स्वरः ।। 61 ।।
तथाहि--
सतिशिष्टबलीयस्त्वात् थाथादिस्वर एव तु ।
द्विपदे तेन युगपत् त्रितयं न समस्यते ।। 62 ।।
महदरण्यं महारण्यमिति पूर्वं `सन्महत्--'(पा.2-1-61) इति समासे पश्चान्म-
हारण्यशब्दस्यातीतशब्देन द्वितीयासमासे सतिशिष्टस्वरबलीयस्त्वात् `थाथादि--'
(पा.6-2-144)स्वरोऽन्तोदात्तो भवति । सत्यवयवान्तोदात्तत्वे शिष्टत्वात् कक्ष्या-
न्तरप्राप्त्योत्कृष्यबलत्वेन बाधकत्वात् । तदेवमत्र त्रिपदे समासे मध्योदात्तत्-
वम्, द्विपदे त्वन्तोदात्तत्वमिति भेदः । तथाच सुप् सुपेति संख्याविवक्षायां
त्रिपदसमासो न भवति । महाकष्टश्रिते तु स्वरभेदाभावात् सत्यपि त्रिपदे समासे
नास्ति कश्चिद् दोषः ।। 62 ।।
ननु च श्रितार्थे समन्वयात् परस्परसंसर्गाभावे महत्कष्टशब्दयोः कथं समासः ।
तथाचोत्तरपदे विधीयमानमात्वं न स्यादित्यत आह--
येषामपूज्यमानत्वं परार्थानुगमार्थके ।
विशेषणविशेष्यत्वमपि तेषां न कल्पते ।। 63 ।।
कष्टार्थस्य श्रितार्थानुगमे महता सम्बन्धाभावात् पूज्यमानत्वं नास्तीति वदताम-
वयवानां विशेशणविशेष्यभावोऽपि न स्यादसम्बन्धात् । तथाच पञ्चगवधन इत्यादाव-
वयवयोः समासाभावात् समासान्तोदात्तत्वं न स्यात् । स च सिद्धान्तितः--`नवावयव-
तत्पुरुषत्वात्, तस्यान्तोदात्तत्वं विप्रतिषेधादि'ति । `खादिरेतरशम्यः' इत्यत्र
चावयवसमासाश्रयः पुंवद्भावः । प्रधानानुग्रहाय चावयवाः परस्परेण सम्बध्यन्त एव ।
सगुणस्य हि द्रव्यस्य क्रिया समन्वयः । श्रौतेऽपि समन्वये द्रव्याश्रयत्वात्
तद्विशेषणद्वारेणैव क्रियायोगाद् गुणस्य ।
तस्मादस्त्येव समुदायप्रक्रमेऽप्यवयवयोः परस्परसमन्वय इति महाकष्टश्रिते
रूपस्वरविशेषाभावादभ्युपगम्यापि त्रिपदः समास उक्तः ।
सुप् सुपेति संख्याविशेषविवक्षैव तु सिद्धान्त इति त्रिपदो द्वितीयासमासो नास्ति।तथाच `महारण्यातीतः' इत्यत्र द्विपदे समासे सिध्यतीष्टस्वरः । बहुर्वीहौ द्वन्द्वे
चानेकग्रहणादविशेषेण समासः सिद्धान्तितः । तत्र च दिक्संख्यापूर्व एवावयवत-
त्पुरुषः `तद्धितार्थोत्तरपद--'(पा.2-1-51)इत्युत्तरपदे विहितो भवति । तथाच तत्रैव तदाश्रयोऽन्तरङ्गस्वरः । सुसूक्ष्मजटकेशादौ तु बहुलग्रहणादवयवयोर्विशेषणसमासाभावः।
समुदायपारतन्त्र्ये चावयवानां पृथक् स्वकार्याप्रयोजकत्वात् समुदायसमासेनैवैक-
पद्यस्य सिद्धत्वात् । तद्यथा समुदायद्विर्वचने त्ववयवद्विर्वचनं न भवति पपाचेति ।
`पूर्वशालाप्रियः' इत्यादौ तु उत्तरपदे स्वरसमासान्तसिद्ध्यर्थं द्विगुर्वाचनिकोभवति । `खादिरेतरशम्यः' इति इतरा शम्या इतरशम्येति पूर्वं विशेषणसमासे कृते
खादिरी इतरशम्या यस्येति द्विपदो बहुर्वीहिरित्युत्तरपदे पुंवद्भावः सिध्यतीति
सर्वेष्टसिद्धिः ।। 63 ।।
प्रस्तुतमेव वृत्तिवाक्ययोर्वैधर्म्यं विचारान्तरार्थं प्रतिपादयति--
विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा ।
शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते ।। 64 ।।
ऋद्धस्य राज्ञः पुरुष इति वाक्ये गुणस्य राज्ञो विशेषः श्रूयते समृद्धतालक्षणः ।
वृत्तौ तु `राजपुरुषः'इत्यत्र ऋद्धस्येति विशेषणं राज्ञो नास्ति, प्रधानार्थसंभि-
न्नस्य स्वविशेषणायोगात् । एतच्च वृत्तिवाक्ययोः शब्दान्तरत्वे सत्युपपद्यते ।
वाक्यप्रकृतौ तु वृत्तौ वाक्यगतधर्मानुषङ्गः ।
एवं चित्रा गावो यस्य देवदत्तस्येति प्रधानस्यान्यपदार्थस्य देवदत्तादिविशेषो
वाक्ये श्रुतोऽपि विवक्षितोऽपि वृत्तौ चित्रगुरित्यत्र नान्तर्भवतीति पदार्थाभि-
धानादनुप्रयोगानुपपत्तौ चोदितायां, `न वा अनभिहितत्वात्'(भा.वा.2/2/19)इति
त्यनुप्रयोगः समर्थितः । अन्यपदार्थसामान्यं ह्यन्तर्भवति, न तु तद्विशेषः ।। 64 ।। ननु च वृत्तौ गुणस्य स्वविशेषणेनासम्बन्धात् कृतपूर्वीं कटमित्यत्र कृतेन कटस्य
सामानाधिकरण्याभावादसति क्रियासम्बन्धे कर्मता न स्यादित्यासङ्कयाह--
विशेषकर्मसम्बन्धे निर्भुक्तेऽपि कृतादिभिः ।
विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते ।। 65 ।।
कृतः पूर्वं कटोऽनेन, भुक्तः पूर्वमोदनोऽनेनेति वाक्ये कटादीनां विशिष्टेन
कर्मणा समन्वय इति निष्ठया तस्य विशिष्टस्य कर्मणो निर्भुक्तत्वादभिहितत्वाद्
द्वितीया न भवति । वृत्तौ तु कृतपूर्वी कटमित्यत्र कृतार्थस्य प्राधानार्थानुगामि-
त्वादसति स्वातन्त्र्ये स्वकर्मणा कटादिना सामानाधिकरण्यं न स्यात् ।। 65 ।।
तस्मादन्य एव वाक्यस्थात् सकर्मकात् कृतशब्दात् वृत्तौ कृतशब्दोऽयमकर्मक
इति बाह्येन कर्मणा कटादिना सम्बध्यत इत्याह--
अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि यत् ।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ।। 66 ।।
वृत्तिवाक्ययोरत्यन्तभेदाद् वाक्ये विशिष्टकर्मसमन्वययोग्योऽपि कृतशब्दो
वृत्तौ विशेषस्याभिधानसम्भवात् सामान्यकर्मैव प्रतीयते । तच्च नान्तरीयकत्वाद-
विवक्षितमित्यकर्मकोऽयं कृतशब्दो भावाभिधायी सम्पद्यते । प्रसिद्धं हि नान्तरीयकं
सामान्यकर्मेति । यथा दीक्षितो न ददातीति प्रसिद्धेरकर्मिका क्रिया, तथेयमपीति
भावोऽत्र निष्ठा कथ्यते । तथाच क्रिययावच्छिन्नः तद्धितवाच्यः कर्ता `कृतपूर्वी-
देवदत्तः' इति । तस्य च बाह्येन कटादिना सम्बन्धो दृश्यते, कटमिति ।
कारकाणां च क्रियाव्यपेतः सम्बन्ध इत्यन्यस्या अत्र क्रियाया अभावात्
तद्धितार्थविशेषणबूतयैव क्रियया सम्बन्धो युक्त इति तदपेक्षमेव कटादेः कर्मत्वम्
कृतपूर्वी कटम्,भुक्तपूर्वी ओदनमित्यादि । भावेऽत्र निष्ठेति क्रियैव तदन्तवाच्या।
तदेतदुक्तं भाष्ये--"योऽसौ कृतकटयोरभिसम्बन्धः, च उत्पन्ने प्रत्यये निवर्तते ।
अस्ति च करोतेः कटेन सामर्थ्यमिति द्वितीया भविष्यती"ति । वाक्यो यो विशिष्टेन
कटादिना कृतस्याभिसम्बन्धः, स उत्पन्ने तद्धिते वृत्तौ निवर्तते । शब्दशक्ति-
स्वाभाव्याद् विशेषाभिधानं नास्ति वृत्तौ, सामान्यकर्मणैव सम्बन्धप्रतीतेः । तथाच
प्रसिद्धेः कर्मणोऽकर्मिकेयं क्रियेति भावाभिधायी क्त इति तत्रत्यया क्रियया
व्याप्यमानं कटादि कर्म भवतीति समन्वयोपपत्तिरित्यर्थः ।। 66 ।।
ननु च तद्धितार्थे कर्तरि गुणीभूता क्रिया वृत्तावभेदेन प्रतीयते, न तु
कर्तुर्भेदेन स्वरूपप्राधान्येनेति कथं तया कटादेः कर्मणो योग इत्याशङ्क्य
निदर्शनेनैतद् व्युत्पादयति--
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
सम्बध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ।। 67 ।।
ग्रामं गतो देवदत्तो, ग्रामं गच्छति चेत्यादौ गतादिशब्देन गमिक्रियाकर्तुरभिधा-
नाद् गमिक्रियायास्ततः कर्तुर्विविधं पृथक्त्वेन ग्रहणं नास्तीत्याविग्रहा सा ।
प्रत्ययार्थे हि सर्वत्र गुणभूतः प्रकृत्यर्थः, व्यापाराविष्टस्य साधनस्याख्यातात्
प्रतीतेः कारकमुखेनैव क्रिया प्राधान्यं भजते, न तु स्वतः, सर्वत्र प्रकृत्यर्थस्य
गुणत्वात् । एवञ्च क्रिया सर्वत्र कारकाद् भेदेन नावगृह्यते । कारकाणां हि
प्रवृत्तिविशेषरूपासौ तत्समवेतैव तदभिधायप्रत्ययानुगतप्रकृतिवाच्या न्याय्या ।
न च केवलस्य क्रिया वाचिनो धातोः प्रयोगोऽस्ति । इक्श्तिबादिना च सिद्धतया
प्रत्याय्यते, न तु साध्यमानावस्थेन स्वरूपेण ।
तस्मात् कारकसंसृष्टैव सर्वा क्रिया कर्मणा सम्बध्यत इति कृतपूर्व्यादावपि
तादृश्या एव समन्वयोपपत्तिः ।। 67 ।।
यदि कृतशब्दो वृत्तौ विशेषकर्मान्तर्भावयितुमसमर्थः, मुण्डं करोति मुण्डयति,
सूत्रयति, मिश्रयतीत्यादावपि वृत्तौ माणवकादेर्विशेषस्यानभिव्यक्तिः स्यात् । न च
कृतशब्दवद् मुण्ड्यादिशब्दः क्रियावाचीति तस्य क्रियाविशेषेऽन्तर्भावात् कथमत्र
बाह्येन माणवकादिकर्मणा योग इत्यत आह--
मुण्डिसूत्र्यादयोऽसद्भिर्भागैरनुगता इव ।
विभक्ताः कल्पितात्मनो धातवः कुट्टिचर्चिवत् ।। 68 ।।
मुण्डं करोतीत्यादि वाक्यं प्रकृतिप्रत्ययपरिकल्पनेनान्वाख्यानोपायमात्रमिति
तद्गतभेदवासनया भागानुगम इवात्र । सत्यतः पुनर्निरस्तोद्देशविभागा विशिष्ट-
क्रियावचना एते धातवं इत्थं व्युत्पाद्यन्ते, समुदायप्रतीत्यावयवप्रतीतेर्बाधनात् ।ततश्च यथायथं स्वकर्मणा सम्बन्धो न विरुध्यते । प्रकृतिवाच्यं हि मुण्डादि
गुणकर्म, प्रत्ययवाच्यस्तु करोत्यर्थ इत्यन्वाख्यानाय विभागः कल्पितः ।
केशच्छेदनवचनो हि मुण्डयतिः । तस्य साक्षादेव माणवकः कर्म ।
एवं सूत्रयत्यादौ व्याकरणादिः । गुमत्वेन नित्यसापेक्षा वा मुण्डादयो बाह्येन
गुणिना माणवकादिना युज्यन्ते । केशच्छेदनं वा क्रियाविशेषरूपं करोतेः कर्म ।
तद्विशिष्टस्य तु माणवकादि कर्म । कुट्टिचर्चिवदिति । साक्षाद् धातुषु
पाठादनयोर्निरंशत्वस्य प्रसिद्धेर्निदर्शनत्वं न्याय्यम् ।। 68 ।।
एवमन्यत्रापि प्रकृतिप्रत्ययभेदोऽन्वाख्यानोपाय इत्याह--
पुत्रीयतौ न पुत्रोऽस्ति विशेषेच्छा तु तादृशी ।
विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते ।। 69 ।।
पुत्रशब्दोऽत्रासत्यः कल्पितोऽवयवः । तथाच पुत्रविशिष्टेच्छा पुत्रीयतिनाभि-
धीयते ।। 69 ।।
यदि तर्हि पुत्रे व्यवतिष्ठते, तदा बाह्यैः पुत्रविशेषैः सम्बध्येतेयमिच्छेत्या-
शङ्कयाह--
प्राणैर्विना यथा धारिर्जीवतौ प्राणकर्मकः ।
न चात्र धारिर्न प्राणा जीवतिस्तु क्रियान्तरम् ।। 70 ।।
जीवतीत्यस्यार्थः प्राणान् धारयतीति । न चात्र जीवतौ प्राणशब्दोऽस्ति । नापि
धारयतिर्धातुः । अथ च विशिष्टकर्मिकैवंरूपा क्रिया प्रतीयत इत्यन्तर्भूतत्वात्
कर्मणोऽकर्मव्यपदेशमासादयति यथा ।। 70 ।।
तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् ।
अन्वाख्यानाय भेदास्तु सदृशाः प्रतिपादकाः ।। 71 ।।
इषिपुत्रानुगम उपायमात्रम्, परमार्थतस्तु पुत्रीयायां पुत्रीयाशब्दे क्रियान्तर-
मन्या विशिष्टा क्रिया प्रतीयते । पुत्रीयायां वा क्रियायां क्रियान्तरमिति भाव-
प्रधानो निर्देशः । तेन क्रियान्तरत्वमित्यर्थः ।
एवञ्च यथा जीवतेर्बाह्येन कर्मणाऽयोगः, तथा पुत्रीयतावित्यकर्मिकेयं क्रिया ।
तथा च भाष्यम्--`अथ क्यजन्तस्य कानि साधनानि ? भावः कर्ता च । अथ
कर्म ? नास्ति कर्म' इति । सुबन्तात् कर्मण इच्छायां क्यजिति तु प्रतिपादनोपायोऽ-
न्वाख्यानं भेदेनेति पृथग्भूतपुत्रादिशब्दसादृश्याद् विभागभ्रान्तिरत्र ।। 71 ।।
ननु `मण्डयति माणवकम्' इतिवत् `पुत्रीयति माणवकम्' इति बाह्येन कर्मणा
क्रियान्तरत्वेऽपि योगः कस्मान्न भवतीत्याशङ्कयाह--
आक्षेपाच्च प्रयोगेण विषयान्तरवर्तिना ।
सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ।। 72 ।।
पुत्रविशेषलक्षणं माणवकादिकर्म पुत्रेषणायां विद्यमानमपि वृत्तावर्थान्तरप्रती-
तेर्न प्रयुज्यते । `पुत्रीयति माणवकम्' इति ह्युक्ते विषयान्तरमाचारलक्षणम्,
तद्वाचिनोपमानक्यचः प्रयोगेणेच्छाविषया क्यजपह्रियते, आचारार्थप्रतीतेः । तस्मात्
`पुत्रमिच्छति माणवकम्' इति वाक्य एव विशेषकर्मप्रयोगः ।। 72 ।।
अनेन न्यायेनैतत्सदृशं प्रसङ्गेनान्यदप्युपपादयति--
प्रसिद्धेन कृतः शब्दो भावगर्हाभिधायिना ।
अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रयुज्यते ।। 73 ।।
`लोलुप्यते, चङ्क्रम्यते, जङ्गम्यते' इति यङि कृते गतिकोटिल्यस्य भाव-
गर्हायाश्च प्रतीतेः क्रियासमभिहारे यङन्तोऽयं सदृशोऽपि न प्रयुज्यते, यङन्ताद्,
अस्तदप्रतीतेः । भावगर्हाभिधायिनेत्यस्योपलक्षार्थत्वात् कौटिल्याभिधायिनेत्यपि
द्रष्टव्यम् ।
तदुक्तम्--"क्रियासमभिहारे च नैतेभ्यः"(भा.वा.3/1/22)इति । एतदर्थं च
नित्यग्रहणं केचिद् व्याचक्षते । अभ्यासः पौनःपुन्यं क्रियासमभिहारः । इत्थं च
वाक्यवाच्य एव क्रियासमभिहारोऽत्र । भृशं क्रामति, पुनः पुनः
क्रामतीत्यादि ।। 73 ।।
तदेवमन्वाख्यानोपायमात्रमवयवविभागपरिकल्पना समुदायार्थप्रतीत्या त्ववयवार्थ-
संविदां बाधादसत्या अवयवाः । तथाहि--
शब्दा यथा विभज्यन्ते भागैरिव विकल्पितैः ।
अन्वाख्येयास्तथा शास्त्रमतिदूरे व्यवस्थितम् ।। 74 ।।
यथेति वीप्साप्रधानम् । यथा विभज्यन्ते भागैरिव कल्पनाकल्पितैर्निरंशत्वात्
सत्यत इत्यन्वाख्येयाः, तथा अन्वाख्यानोपायो भागकल्पनेति यावत् । परमार्थतस्तु
शास्त्रमवयवविभागप्रकल्पनारूपमतिदूरे नित्यादन्वाख्येयान्निरंशाच्छब्दतत्त्वादव-
स्थितम् । प्रतिपादकशब्दनिष्ठं ह्यन्वाख्यानम् । तेन च रेखागवयस्थानीयेन
सत्यगवयवदवस्थितशब्दप्रतिपत्तिः । अत एव चोपायानां प्रक्रियाभेदः ।
केचित् किल भवतिशब्दम् `भवात् तिः' इति व्युत्पादयन्ति, केचिद् भूशब्दादति-
प्रत्ययेन, अन्ये मध्ये विकरणेन । एवमेकशब्दाञ्ञागारिकट्, एकागारशब्दाञ्ञिकट् ।
छन्दसः श्रोतभावो घश्च, तदधीते वाक्यार्थे पदवचनमित्यादिप्रक्रियाभेद उक्तः । एवं
पुत्रीयादिशब्देऽपि प्रक्रियाभेदोऽभ्यूह्यः । पुतो रीयणे वा पोस्त्रीयेण वा
पुत्राड्डीयेण वा व्युत्पत्तिः ।
इत्थं च व्युत्पत्तावपि पुत्रीयशब्दो विशिष्टक्रियावचन इत्यकर्मकत्वम् । यदा च
व्युत्पत्तौ नियमाभावः, तदौणादिका अपि केचिदष्टाध्याय्यां व्युत्पाद्यन्ते ।। 74 ।।
इत्थमवयवानामसत्यत्वं सार्वत्रिकं निगमयति--
अर्थस्यानुगमं कञ्चिद् दृष्ट्यैव परिकल्पितम् ।
पदं वाक्ये पदे धातुर्धातौ भागश्च मुण्डिवत् ।। 75 ।।
वाक्यार्था एव स्थितलक्षणः, वाक्यस्यैवाखण्डस्य वाचकत्वात् । तथा चापोद्धार-
बुद्ध्यार्थसामान्यं वाक्यार्थे विशेषेऽनुगतरूपमुद्धृत्य तावदर्थं पदं नाम पृथग-न्वाख्यातुमपोद्ध्रियते, निरंशस्य वाक्यस्यानेकरूपस्यान्वाक्यातुमशक्यत्वात् । पदं
हि सर्ववाक्येषु समानरूपमित्यर्थसामान्यवाचि शक्यते व्युत्पादयितुम् । तच्च
व्युत्पादितं यथायथं वाक्येषु सन्निपतितं तत्तद्वाक्यगताविशेषस्वीकाराद् विशिष्टा-
र्थव्यहारसाधनं जायते ।
न च पुर्वं सामान्यार्थं भूत्वा विशेषं स्वीकर्तुं समर्थम्,
"सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते ।
उपात्तस्य कुतस्त्यागो निवृत्तः कावतिष्ठताम् ।।"
इत्यादिदोषापातादिति सामान्यभूतमर्थरूपं परिकल्पितमुच्यते ।
यथैव हि पदेन व्यवहाराभावात् परिकल्पितरूपं तद्, एवं तदर्थोऽपि । तदापि च
पदं प्रकृतिप्रत्ययपरिकल्पनया व्युत्पाद्यत इति तत्राप्यपोद्धाराश्रयेण परिकल्पिता-न्वयव्यतिरेकवशेनार्थमात्रा प्रविभज्यते प्रकृतिप्रत्यययोः ।
धातुरित्युपलक्षणं प्रकृतिरूपस्य । प्रत्ययोऽपि च गृह्यते । तत्रापि च प्रकृति-
रूपं मुण्डिसूत्रिपुत्रीयाद्यवयवविभागेन प्रकृतिप्रत्ययकल्पनया व्युत्पाद्यते ।
एवमस्तिं सकारमातिष्ठन्ते । अकारस्त्वागमोऽत्रेति केचित् । तथा अतिप्रत्ययस्ति-
प्रत्ययो विकरणश्चेति वा ।
एवं `स्यति, स्यतः, स्यन्ति' प्रत्ययाः, स्यो वा विकरण इत्येवमन्यदप्यूह्यम् ।
एवञ्च भागपरिकल्पने वर्णेष्वेवावस्थानम् तेषां तुरीयादिभागानामव्यवहार्यत्वात् ।
तत्रापि वा परमाणुपर्यन्तभागपरिकल्पने न कश्चित् शब्दः स्यादित्यवश्यं भेदवादिना
वर्णेष्वभिन्नत्वमभ्युपगन्तव्यम्, अभिन्नत्वप्रतीतेः ।
इत्थं च प्रथममेव वाक्यगतया अभिन्नसंविदा भेदस्य बाधनाद् वितथत्वं कस्मा-
न्नोच्यते ? व्यवहारेऽपि वाक्यमेव प्रथमप्रतीतम् । तथा च तदेवाभिन्नबुद्धिप्रत्या-
यितमस्तु सत्यम् । एतच्च वाक्यकाण्गान्निश्चेतव्यम् ।। 75 ।।
तदेवं प्रक्रियाभेदेऽपि--
अविप्रयोगः साधुत्वे व्युत्पत्तिरनवस्थिता ।
उपायान् प्रतिपत्तॄणां नाभिमन्येत सत्यतः ।। 76 ।।
साधुत्वे विषये विविधप्रयोगो नानाविधं प्रतिपादनं नास्ति, स्थितलक्षणस्य शब्द-
स्योपेयस्योपायभेदेऽप्येकरूपत्वात् । उपाया हि प्रतिपादनाङ्गभूताः प्राप्तावुपेय-
स्य चरितार्थत्वात् तिरोभवन्तीति न तेषु सत्यताभिमानः कार्यः । विचित्रत्वाच्च
प्रतिपाद्यप्रतिपादकयोर्यथारुचि प्रवृत्तौ व्युत्पत्तिः परं भिद्यते । सर्वत्रैव
चायमेव क्रमः ।
अविद्यैव हि विद्योपायः । प्रतिपत्तिकाले गत्यन्तराभावाद् यथाकथञ्चित्
प्रातिपादनसम्भवादुपेयप्राप्तिश्च तया भवन्ती दृश्यते । तदुक्तम्--
"शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते ।
अनागमविकल्पा तु स्वयं विद्योपवर्तते ।।"
(वा.प.2/233)
इति ।। 76 ।।
सर्वत्रैव चोपायानामसत्यत्वे यदृच्छाशब्दवन्नैमित्तिकोऽपि शब्दो निरस्तावयवविभागइति नास्ति तत्त्वतो भेदः शब्दानामित्याह--
यथैव डित्थे डयतिः पाचके पचतिस्तथा ।
डयतिश्च पचिश्रैव द्वावप्येतावलौकिकौ ।। 77 ।।
यथैवेति । अस्यैव स्पष्टीकरणम्--द्वावप्येतावलौकिकौ लोकव्यवहारेऽप्रसिद्धौ ।
प्रकृत्यादिविभागस्य लोकेऽसंप्रत्ययान्निरंशस्य डित्थपचतिरूपस्य समुदायस्य लोके
प्रयोगादुभयत्रापि समानैवार्थगतिरभिन्नार्थसमुदायात् । कल्पनया तु डयतिधातुरसंभव-
दर्थो डित्थस्यान्वाख्यानायापोद्ध्रियते । पचतिस्तु सम्भवदर्थः पचतिशब्दस्येत्ये-
तावान् भेदः । तथा च चतुष्टयी शब्दानां प्रवत्तिरुद्धोष्यते साधुत्वस्य
सत्यत्वे ।। 77 ।।
तस्मादभिन्नादभेदपूर्वका भेदाः कल्पिताः शिष्टैरबुधान् प्रति व्युत्पत्त्यर्थमि-
त्याह--
प्रकृतिप्रत्ययावूह्यौ पदात् ताभ्यां पदं तथा ।
अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति ।। 78 ।।
शब्दानां शिष्टाः प्रमाणम् । ते हि भावतत्त्वसदृशो यद्यद् धर्मेऽङ्गतामेति
तत्तत् साधुत्वेनाभ्युपयन्तः प्रकृतिप्रत्ययावनुगुणावूहित्वा लौकिकं पदं तावद्
वाक्यादपोद्धृतं व्युत्पादयन्ति । तथा च ताभ्यां प्रतिपाद्यं पदमूहितमवयन्ति ।
डित्थादिवापदं प्रत्यक्षकल्पेनोपदिष्टमित्यनुगुणप्रकृतिप्रत्ययोहे कारणम् । पच-
त्यादि तु प्रकृतिप्रत्ययोपदेशेनानुमानकल्पने, शब्दानुशासने सङ्घातस्योहात् ।
द्विविधं हि शिष्टैरनुशासनं प्रारब्धम्--साक्षादुपेयनिर्देशेन, यथा निपातनम् ।
उपायनिर्देशानुसारेण वा, यथा विधिः । तत्र च प्रकृतीनामनुबन्धो ञकारादि-
रूपाग्रहदर्शनान्नियतः कल्पितः, प्रत्ययानां तु स्वरवृद्धयादिदर्शनात् तथैवानुबन्ध-
प्रक्लृप्तिः । शिष्टानां तु निरावरणख्यातित्वात् प्रतिभात्मनि विवृत्तानामेव यथा-
वत् सर्वभावगतत्वप्रख्यानात् संप्रत्युपदेशेन न कृत्यम्, अनादिशास्त्राभ्यासादेव
सिद्धेः । तथा च कचिदुपायानपेक्षापीत्यसत्या एव ते । अत एवोद्धुष्यते--
`शिष्टपरिज्ञानार्थाऽष्टाध्यायी' इति ।। 78 ।।
यस्तु शिष्टस्मरणमनादृत्य शास्त्रमात्रशरणः, सः --
शास्त्रदृष्टिस्तु शास्त्रस्य प्राप्तिमात्रेऽप्यनिश्चिते ।
युज्यते प्रत्यवायेन शास्त्रं चक्षुरपश्यताम् ।। 79 ।।
`बहुलमन्यतरस्यामेकेषाम्' इत्यादिसामान्यलक्षणात् प्राप्तिमात्रे कस्यचिद्
विधेर्विषयविभागेनानिश्चिते शिष्टप्रयोगमननुसृत्य स्वेच्छयैव शब्दान् प्रयुञ्जानो-
ऽसाधुशब्दप्रयोगादधर्मेण सम्बध्यते । प्रयोगमूलौ हि धर्माधर्मौ । तस्माच्छिष्ट-
प्रयोगानुसारेण लक्षणं विषयविभागेनावस्थापयितव्यम् ।
यद्येवम्, अस्तु शिष्टप्रयोग एव, किमनर्थकेन शास्त्रेणेत्याह--अपश्यतां
शिष्टप्रयोगं साक्षादकुर्वता शास्त्रमेव चक्षुरिव चक्षुः, शब्दतत्त्वनिदर्शननिबन्ध-नत्वात् ।
एवञ्च शास्त्रेण लक्षितान् शब्दान् ज्ञात्वा लक्षणनिरपेक्षमेव साधून् प्रयञ्जा-
नान् शिष्टाननुमिमते । तेभ्यश्च सामान्यलक्षणे भ्रान्तिमपनयन्तीति शास्त्रमपि
सफलम् ।
तथा च `लक्ष्यलक्षणे व्याकरणम्' इत्यक्तम् । `सैषा शिष्टपरिज्ञानार्था-
ष्टाध्यायी' इति च ।। 79 ।।
यदि तर्हि शास्त्रं चक्षुः, किमिति तत् क्वचिद् `न वानिष्टादर्शनात्'
(भा.वा.2/2/30) इति प्रत्याख्यायत इत्याशङ्कयाह--
अर्थान्तराभिधानाच्च पौर्वापर्यं न भिद्यते ।
राजदन्ताहिताग्न्यादिराजाश्वादिषु सर्वथा ।। 80 ।।
राजदन्तादौ लौकिकं यन्नियतं पौर्वापर्यम्, तन्न भिद्यते नान्यथा कदाचिदपि
भवतीति विप्रयोगादर्शनाच्छास्त्रमत्र प्रत्याख्यायते । प्रयोगो विप्रयोगश्च द्वयं
यत्रैकस्मिन्नर्थे दृश्यते, तत्र शास्त्रारम्भो विप्रयोकनिवारणेन सफलः । इह तु
`दन्ताराजः, अश्वराजः' इति प्रयोगविपर्यासे विवक्षितविपरीतोऽर्थो गम्यते, न तु
य एव राजदन्त इत्यादौ । समाने चार्थे शास्त्रान्वितोऽशास्त्रान्वितस्य निवर्तकः ।
आहिताग्न्यादौ तु प्रयोगानियमेऽप्यर्थाभेदो दृश्यत इति प्रत्याख्यानमेव युक्तम् ।
क्वचित् तु पाठः `पौर्वापर्यमुपेदश्यत्वेन नास्तीत्यर्थः ।। 80 ।।
यदि तर्हि विप्रयोगादर्शनाच्छास्त्रमत्र प्रत्याख्यायते, तदा `गर्गाः'इत्यादावपि
लुक्च्छास्त्रेण किं कार्यमित्यत आह--
विनैव प्रत्ययैर्वृत्तौ ये भिन्नार्थाभिधायिनः ।
गर्गादयो लुका तेषां साधुत्वमनुगम्यते ।। 81 ।।
शब्दानां स्वाभाविकमर्थाभिधानमिति वृत्तावेकार्थीभावे गर्गा वत्सा इत्यादयो-
ऽपत्यप्रत्ययमन्तरेण प्रकृत्यर्थभिन्नं प्रत्ययार्थमपत्यलक्षणमाचक्षते । गार्ग्य
इत्यादि च प्रत्ययसहितं तदभिधानं दृष्टम् । `न केवला प्रकृतिः प्रयोक्तव्यां
इति "परश्च"(पा.3/1/2)इति नियमेनावेदितम् । अतः शास्त्रप्रक्रियानुसारेण
केवलस्य प्रकृतिरूपास्यासाधुत्वे प्राप्ते लुगन्वाख्यानमुपपद्यते ।। 81 ।।
न चैवमपि सोऽयमित्यभिसंबन्धादपत्ये गर्गादीनां प्रयोगः सिध्यति । तद् यथा
भृगुश्चरति, अङ्गिराश्चरतीत्यपत्यवतोऽपत्ये प्रयोग इति किं लुगन्वाख्याने-
नेत्यत आह--
सोऽयमित्यभिसंबन्धात् प्रत्ययेन विना यदि ।
बभ्रूवादयः प्रयुज्येरन्नपत्ये नियमो भवेत् ।। 82 ।।
अपत्यापत्यवत्सम्बन्धपूर्वः (पूर्वकात्) सोऽयमित्यभेदेनोपचारादपत्यवताऽपत्य-
मित्युच्यते गर्गा इति । सोऽयमित्यभेदसंबन्धः कथ्यते । बहुवचनानुपपत्त्या हि
गर्गापत्यान्युच्यन्ते, मूलप्रकृतेरेकत्वाद् बहुवचनानुपपत्तेः । तत्र चाभेदसंबन्धे भेदसंबन्धस्याविवक्षितत्वाद् अपत्यप्रत्ययो नास्तीति शक्यते लुगवक्तुम्, किन्तु
अभेदसम्बन्धस्योपचरितस्य नियतभेद(संबन्ध)पूर्वकत्वाभावादन्तेवासिनोऽपि गर्गस्य
समारोपितगर्गरूपा बहुवचनेन प्रत्याय्यन्त इत्यपि शक्यते वक्तुमिति नियमेनापत्या-
दीनामभिधानं न प्रतीयते । तस्मादपत्ये नियमार्थमपत्यप्रत्ययस्य लुगुच्यते ।
स्वभावादेव तु प्रत्ययरहिता प्रकृतिस्तदर्थं ब्रूते । अन्यत्र प्रत्ययलक्षणार्थं
लुक्, इह त्वर्थनियमार्थम् ।। 82 ।।
`प्रष्ठेस्येयम्'इतीदमर्थप्रत्ययस्य तर्हि लुगारम्भणीयोः, अन्यथा नियमेन भार्या न प्रतीयतेत्याशङ्कयाह--
सोऽयमित्यभिसंबन्धे लिङ्गोपव्यञ्जनादृते ।
प्रष्ठादिषु न जायैव नियमेन प्रतीयते ।। 83 ।।
सत्यमत्रापि यत्नं विना भार्यायामभेदोरचारान्नियमो न स्यात् । अस्ति ह्यत्रापि
यत्नः, "पुंयोगादाख्यायाम्" (पा.4-1-47) इति स्त्रीप्रत्ययो लिङ्गोपव्यञ्जनो यतः ।
आख्याग्रहणाद्धि यादृशः पुंसि दृष्टप्रयोगः शब्दः, ताद्रूपादेव स्त्रीप्रत्ययोऽन्-वाख्यायत इति तद्धितान्तस्याख्यारूपत्वाभावात् तदनुत्पत्तावनुमितायां सत्यप्यभेद-
संबन्धे स्त्रीप्रत्ययसहायात् प्रष्ठादिशब्दाद् भार्यावगतिः ।
ननु र्भागन्यादावपि कथं न संप्रत्ययः ? मैवम्, प्रस्थानकर्तृत्वासङ्गाद्धि
स्त्रियामपि प्रस्थाने संविधानं संपादयन्त्यां पुंशब्दः प्रवर्तते । संविधातृत्वं चभार्याया एवोपपद्यते, नान्यस्याः ।। 83 ।।
`प्रस्थो र्वीहिः' इत्यादौ तर्हि प्रस्थेन प्रमित इति नियमप्रतिपत्त्यर्थं
प्रत्यस्य लुगन्वाख्येय इत्याशङ्कयाह--
मानमेयाभिसंबन्धविशेषेऽङ्गीकृते तथा ।
प्रस्थादीनामसाधुत्वं तद्धितेन विना भवेत् ।। 84 ।।
तद्धितो योगभेदेन वाक्यं वा स्याद् विभाषितम् ।
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ।। 85 ।।
अत्राप्यध्यारोपेणाभेदसंबन्धे मानमेययोगो नियमेन न प्रतीयते, समीप्यादेरपि
संभवादिति "तदस्य परिमाणम्" (पा.5/1/57)इति योगविभागेन तद्धितः स्यात् ।
वाक्यं वा महाविभाषया, प्रस्थः परिमाणमे वा र्वीहीणामिति । यत्नान्तरं
परिमाणाधिके प्रातिपदिकार्थे प्रथमालक्षणमारब्धम् । निमित्तिनः प्रस्थप्रमितस्य
र्वीह्यादेर्गौणस्याभिधाने प्रातिपदिकार्थग्रहणादेव सोऽयमिति संबन्धे सिद्धा
प्रथमा । प्रस्थः परिमाणमेषां र्वीहीणामिति (प्रस्थो र्वीहीरिति) ।
परिमाणातिरिक्ते प्रमेये भूयः परिमाणग्रहणेनोपदिश्यते । तेन प्रथमान्तात्
परिमाणशब्दान्मुख्यत एव प्रमेयं प्रतीयते । तद्धितोऽपि विभाषितो वचनसामर्थ्यान्न
बाध्यते `प्रास्थिकः' इति । वाक्यमपि भवति ।। 84,85 ।।
ननु च परिमाणवाचि प्रातिपदिकं कथं परिमिये वर्तत इत्याह--
व्यतिरिक्तस्य साधुत्वे तदेव च निदर्शनम् ।
युज्यतेऽङ्गीकृताधिक्यं तत् सर्वाभिर्विभक्तिभिः ।। 86 ।।
तदेव परिमाणात् पुनः प्रथमाविधानं ज्ञापकं मानमेयसंबन्धोपहितव्यति-
रेकार्थाभिधाने।
प्रस्थादेः स्वाभाविकं ह्यर्थाभिधानं ज्ञाप्यते । तथा च तद्धितेनेव भिन्नं
प्रमेयं प्रथमयाभिधीयते । तत्र चान्तरङ्गे मानमेयसंबन्धे चरितार्था प्रथमा
बाह्याक्रियाविभाविते कर्मादिके भेदे आधिक्येऽपेक्षिते संबन्धे विभक्त्यन्तरै-
र्द्विदीयादिभिर्बाध्यते ।
अतो बाह्यक्रियाविभावितकर्मादिशक्तिभेदलक्षणं प्रातिपदिकार्थाधिक्यमङ्गीकृतं
स्वीकृतं येन तत् परिमेयवाचि पदं यथायथं सकलाभिर्द्वितीयादिविभक्तिभिर्युज्यते
संबध्यते । `प्रस्थं पचति, प्रस्थेन क्रीतम्' इत्यादि । एवमभेदोपचारादभिधानेऽपि
नियमार्थं लुगादियत्नारम्भः ।। 86 ।।
गुणगुणिनोस्तु स्वभावादेव नियतो योग इति किमर्थं गुणवचनेभ्यो मतुपो
लुगन्वाख्यानमित्याह--
शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् ।
असाधुत्वनिवृत्त्यर्थं साधवस्ते बिदादिवत् ।। 87 ।।
`पटस्य शुक्लः' इति व्यतिरेको दृष्टः । तथा च `शुक्लः पटः' इत्यव्यातिरेके
मतुप् स्यादिति केवलायाः प्रकृतेरसाधुत्वशङ्का स्यादिति व्यतिरेकनिबन्धनस्योत्पन्न-स्य मतुप्प्रत्ययस्य युक्तं लुगन्वाख्यानम् । तथा `ह्यव्यतिरेकात् सिद्धमित्युक्-
त्वा'(भा.वा.5/2/94)`दृष्टो व्यतिरेकः'(भा.वा.5/2/94)इति पुनर्लुगेव
समर्थितः । लुगन्वाख्यानद्वारेण च `बिदाः, गर्गाः'इत्यादिशब्दवद्गुणिनि संबन्धाद्
वृत्तिराख्यायते ।
यथा हि स्वार्थविशिष्टापत्यार्थाभिधानाद् `बिदाः'इत्यादयः प्रयोगार्हाः, तथा
शुक्लादयोऽपि, न तु सोऽयमित्यभिसंबन्धादेवेत्यर्थः ।। 87।।
तदेवं समानाधिकरणवृत्तेः प्रस्तावेन विशेषणाविशेष्यभावसमर्थनपूर्वकं प्रसक्तानु-
प्रसक्तायातं विचारं परिसमाप्य प्रकृतमेव विशेषणविशेष्यभावं वृत्तावभेदप्रतीतेरनुप
पद्यमानमाशङ्कयैकीयमतेन तावदुपपादयितुमाह--
विशेषणाद् विशेष्येऽर्थे तद्भावाभ्युच्चये सति ।
पुनश्च प्रतिसंहारे वृत्तिमेके प्रचक्षते ।। 88 ।।
इहैकया प्रख्यया द्वयोर्विशेषणविशेष्ययोर्ग्रहणे परस्परोपकाराग्रहणात् किं भूतो
विशेषणविशेष्यभावः स्यात् ।
न हि वस्तुतो नियतजातीयं विशेषणं नाम किञ्चिदस्ति । न चाप्यत्र शाब्दी
प्रतीतिरेका युज्यते । अभिधानक्रमाद्धयभिधेये क्रमिकैव प्रतीतिर्न्याय्या । ततश्च
`नागृहीतविशेषणा विशेष्ये बुद्धिः' इति पूर्वं विशेषणग्रहणम्, ततो विशेषणाद्धेतोरव-
च्छेदकत्वेन गृहाताद् विशेष्ये तद्भावस्य विशेषणरूपस्याभ्युच्चये अतिरेके सति
पुनः प्रतिसंहारेऽसन्निधेस्तद्भावाभ्युच्चयस्यैवोपेक्षणे वृत्तिरेकार्थीभावः ।
विशेष्ये ह्यतिशयमाधाय कृतार्थं विशेषणं न स्वरूपेण विशेषमयमतिरेचयति, मा
भूद् व्यर्थावसाय इति । तथा च विशिष्टस्यैवार्थस्य वृत्ताववधारणमुपपद्यते ।। 88 ।।
तदेतन्मतं दूषयति--
निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना ।
निमित्तवति बुद्धेश्च न निमित्तसरूपता ।। 89 ।।
संस्कारसहिताद् ज्ञानान्नोपश्लेषः स्मृतेरपि ।
व्यापारे तन्निमित्तानां न ग्राह्यं स्याद् तथाविधम् ।। 90 ।।
भिन्नाज्ञानालम्बनवादे दूषणमिदम् । निमित्तेऽवच्छेदकाभिमते विशेषणे प्रथमः
प्रत्ययो निमित्तिना विशेष्याभिमतेन नासादितः । न हि विशेषणग्रहणकाले
विशेष्यग्रहणमत्र पक्षे, तस्य तदानीमस्तमयात् । निमित्तवति च विशेष्याभिमते या
बुद्धिर्ज्ञानम्, तत्र निमित्तस्य विशेषणस्याप्रतिभासनान्न तदाच्छुरितत्वम् ।
एवं च वस्तुस्वरूपमात्रग्रहणं ज्ञानं कथं तत्र विशेषणतां विशेष्यतां च
गृह्णीयात् । विशेष्यापेक्षं हि विशेषणत्वं विशेषणापेक्षं च विशेष्यत्वमिति परस्पर-ज्ञाने परस्परस्वरूपानाभासनादापेक्षिकं विशेषणविशेष्यत्वं न गृहीतं स्यात् ।
अथ पूर्वज्ञानाहितवासनासव्यपेक्षमुत्तरं ज्ञानमिति तस्मात् क्रमेण द्वयोरनु-
भवेऽपि पश्चात् संस्कारक्रमेणायता स्मृतिस्तत्रावच्छेद्यावच्छेदकभावमावेदयत
इत्युच्यते, तदपि न; यस्माद् यथानुभवं स्मृतिरुपजायत इत्यनुभवगृहीतार्थरूपा-
धिक्यमुपश्लेषं परस्परयोजनमवच्छेद्यावच्छेदकत्वेन सङ्घटनं कथं सावकल्पयेत् ।
एवं ह्यनुभूतार्थविषयत्वं तस्या विघटेतेत्यप्रमाणं स्यात् ।
अथ यथा स्मृतिर्बाह्यविषयानुसन्धानात् तद्विषया कथ्यते, तथा बाह्यस्य
तदानीमभावादान्तरस्यानुसन्धातुः प्रमातुर्या विचित्राः शक्तयः, ता अपि तस्या
निमित्तमिति तेषां तन्निमित्तानां व्यापारेऽत्रावच्छेद्यावच्छेदकभावं प्रत्युपयोगेकथ्यमानेऽनुभवग्राह्यं बाह्यं वस्तु विशेषणविशेष्यरूपं न स्यात् । प्रमातृशक्-
त्यैवासत्यपि संश्लेषेऽर्थानां घटनादिति न भाविको विशेषणविशेष्यभावः
समर्थितः ।। 89,90 ।।
मा भूद् भाविक इति चेदाह--
अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना ।
तस्मादनुपकारो वा ग्राह्यं वा न तथा स्थितम् ।। 91 ।।
अन्तः करणं क्रिया, यस्यासावनुसन्धाता प्रमातैवं कथ्यते । सार्वार्थग्राहकं वा
मनोऽन्तःकरणम्, तस्य वृत्तौ व्यापारेऽत्र विशेषणविशेष्यभावादिविषयेऽभ्युपगम्य-
माने सर्वत्रान्तः करणस्यैवाभासो बहीरूपतयाध्यस्तो भवत्यर्थः, तावतैव लौकयात्रा-
सिद्धेरिति किमनुपपद्यमानेन बाह्येन कल्पितेन प्रयोजनमिति बाह्यार्थवादिनं प्रतीद-
मुच्यते । तस्य हि विशेषणविशेष्यभावादिसम्बन्धो वस्तुसमवाय्यभिमतः ।
तथा च कल्पनानामनुभवमूलत्वमिति तदनुभवायातोऽयं विशेषणविशेष्यविकल्पः ।
तत्र च यथास्वं विषयोपक्षयत्वात् प्रत्ययस्य तट स्थस्यार्थस्य विशेष्यावच्छेदकत्व-
लक्षणो नास्त्युपकारः । अनुसन्धातृपमातृवशेन तु मानसे विकल्पेऽभ्युपगते ग्राह्यस्यतद्रूपशून्यत्वमित्युक्तार्थनिगमनम् ।। 91 ।।
एवं परमते भिन्नज्ञानावलम्बनपक्षेऽनुपपत्तिमुद्भाव्य स्वमतेनैकज्ञानावलम्बनवा-
देन वास्तवं विशेषणविशेष्यभावमवस्थापयितुमाह--
अनुस्यूतेव संसृष्टेरर्थे बुद्धिः प्रवर्तते ।
व्याख्यातारो विभज्याथ तां भेदेन प्रचक्षते ।। 92 ।।
तदात्मन्यविभक्ते च बुद्ध्यन्तरमुपाश्रिताः ।
विभागमिव मन्यन्ते विशेषणविशेष्ययोः ।। 93 ।।
इह यथावस्तु प्रत्ययाः प्रभवन्ति । वस्तु जातिगुणोपाधिविशिष्टमभिन्नमित्यभिन्न
एव प्रत्ययः । समवायतिरोहितभेदा हि जात्यादयो वस्तूनामनुरूपकाः । तत्र
समवायिनः श्वैत्यात् श्वैत्ये बुद्धे श्वेते बुद्धिः । ते कार्यकारणभूते इति पारमा-र्थिकपदार्थभेदावलम्बने, अनौचित्यात् क्रमस्योच्येते । प्रतिभासवेलायां तु क्रमो
नास्ति, विशिष्टस्यैव वस्तुनो झटित्येकप्रख्योपारोहात् । अत एव केचिद् जात्यादीन्
संसर्गिणोऽपन्हु वते ।
एवञ्च भेदावभासपूर्वकस्य संसर्गस्याभावादनुस्यूतेवेयं बुद्धिर्जात्यादिभिः
संसर्गिभिः कथ्यते । परमार्थतो भेदपूर्वकस्य संसर्गस्यार्थानामभावात् वस्तुस्थित्यात्वेवमुच्यते ।
एवमभिन्नबुद्धिप्रतिभासिनोर्नीलोत्पलादौ गुणद्रव्ययोर्भेदपूर्वकस्यावच्छेद्या-
च्छेदकभावस्याभावः, किन्तु निरंशस्य वस्तुनः परेभ्यः प्रतिपादयितुशक्यत्वात्
प्रतिपादनकाले प्रतिपादकास्तान् संसृष्टान् जात्यादीनर्थानपोद्धारबुद्ध्या पृथक्-
कृत्यायं गुणो जातिर्वा विशेषणम्, इदं द्रव्यं विशेष्यमिति बुद्ध्यन्तरविभागेन
पूर्वप्रतिपादितरीत्या प्रतिपादयन्ति । तथैव च प्रतिपद्यन्ते प्रतिपत्तारः ।
एवञ्च वस्तुबीजमनुसृत्य प्रतिपादनाद् बाह्येऽस्ति सद्भावो विशेषणविशेष्य-
त्वस्य। तदेव हि बाह्यं संसृष्टं व्याख्यानाय विभज्यते । तत्र चास्ति
गुणादिर्विशेषणं द्रव्योपरञ्जकम्, जात्यादिरहितस्य द्रव्यस्यायोगाच्च तदवच्छेद्यम्,सम्बन्धश्च समवाय इति सर्वं वास्तवम् ।
तथा च विभागकल्पनोपायेन तदात्माऽविभक्त एवार्थः प्रतिपादितो भवति । तयैव
च विभागबुद्धयाहितविशेषणविशेष्यरूपतया प्रतिपद्यन्ते व्यवहर्तारः ।
यद्यपि विभागावस्था वाक्यदशा, तथापि वाक्यावस्थागतज्ञानवासनया वृत्तावपि
विशेषमविशेष्यप्रतीतिरस्त्येव । परमार्थस्तु वृत्तौ निरंश एवार्थ इति सापि निरंशा
वाचिका सिद्धा । तदेवं धर्मभेदेन वृत्तिवाक्ययोरत्यन्तभेदः प्रतिपादितः ।। 92-93 ।। मतान्तरमप्युपक्षिप्तं भाष्ये--`अथ ये वृत्तिं वर्तयन्ति, किं त आहुः ?
परार्थाभाधानं वृत्तिरिति' । तद् व्याचष्टे--
अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् ।
आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ।। 94 ।।
निर्विभागं वृत्तिपदार्थरूपमवगन्तुमशक्ताः प्रतिपत्तारोऽबुधाः । ते हि यथाश्रु-तग्राहिणो यथावद्वचनं वाचनिकं मन्यन्ते । ततश्च तान् प्रति वाक्योपमर्देन
प्रक्रियायां वृत्तिर्व्युत्पाद्यमाना वाक्यप्रकृतिकैवावतिष्ठते । ततश्च वाक्यमपि
नित्यं स्वविषय इति तस्यान्नुच्छेद्यत्वात् तत्प्रकृतित्वेन समारोपिता कल्पिता
वृत्तिर्निर्वर्त्यते । तत्र कारणात् कार्यमधिकार्थक्रियाकारि दृष्टं पटादि ।
एवमिहापि वृत्तिलक्षणस्य कार्यस्य वाक्यगतपदार्थाधिक्यं न्याय्यमिति परार्था-
भिधानं वृत्तिलक्षणमारभ्यते । परस्यान्यस्य प्रधानस्य पदस्य योऽर्थः, तस्योप-
सर्जनपदेन प्रत्यायनम्, तत्र,
"एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः ।"
इति नये वाक्यावस्थायामुपसर्जनपदस्य परार्थाभिधानशक्तिप्रतिघातापेक्षया वृत्तौ
परार्थाभिधानमुच्यते । अनेकार्थप्रत्यायनसामर्थ्याद्धि स्वार्थ एव स तस्य तत्र
भवति परर्थः ।
यदा `अन्यायश्चानेकार्थत्वम्' इति नयस्तदा वृत्तावन्यदेवोपसर्जनपदमित्य-
र्थान्तरमुपादत्ते । एवं परार्थवचने सति द्वैतं भवति । वाक्यावस्थागतमर्थं
परित्यज्योपसर्जनं वृत्तौ परार्थमभिदधाति ।
तद्यथा कलशे दधि स्थितमपनीय क्षीरं निधीयते, नावस्थित एव दधनि निधातुं
शक्यते तत् । सेयं जहत्स्वार्था वृत्तिः ।
अपौरुषेये शब्दार्थसम्बन्धे कथं त्याग इति चेत्, न; अनुपादान एवात्र त्यागोपचा-
रात् । यथा ह्यग्निसंयोगः पाकजान् विशेषणानुत्पाद्य परमाणुषु निवर्तते, तथोपसर्ज-
नार्थः प्रधाने विशेषमाधाय तावन्मात्रप्रयोजनत्वान्निवर्तते ।
अत्र निदर्शनं भाष्येभाहितम् । तदा यथा--`तक्षा राजकर्मणि प्रवर्तमानः स्वं कर्म
जहाति' इति ।
कोशसमाहरणसन्निधानादौ राजकर्मणि व्याप्रियमाणस्तक्षा स्वं दारुच्छेदचतुर-
स्त्रीकरणादिव्यापारं जहाति, स्वव्यापारापरित्यागे राजकर्मणोऽनुष्ठातुमशक्यत्वात्।एवं स्वार्थानुपादानेन पदान्तरार्थोपादानमुपसर्जनानां वृत्तौ न्याय्यमनेन
निदर्शनेन ।
अन्ये तु मन्यन्ते--अवस्थित एव प्राच्येऽर्थेऽर्थान्तराभ्युच्चयोऽसावुपसर्जन-पदानामाधिक्यम् (अर्थाधिक्यम्)
तथा हि--सिकताकलशे जलं निहितमवतिष्ठते । लक्षादिहेतुजनितश्च रागाति-
शयस्तन्तूनां कार्येऽप्यनुवर्तते । एवमुपसर्जनपदस्य स्वार्थोऽऽर्थान्तरोपादाने-
ऽपि । युक्तं चैतत्, दृष्टस्यार्थस्य स्वरूपवच्छब्दैस्त्यागायोगात् ।
अत्रापि निदर्शनं भाष्येऽभिहितम्--`भिक्षुको द्वितीयां भिक्षामासाद्य पूर्वां न जहाति, सञ्चयायैव यतते'इति । तदियमजहत्स्वार्था वृत्तिः ।
एवञ्च राजार्थेन पुरुषार्थस्य विशेषणाद् विशिष्टार्थसंप्रत्ययः ।
यद्येवं राजार्थस्यापि सम्भवाद् वृत्तौ `राजपुरुषः' इत्यत्र द्विवचनं प्राप्नोतिधवखदिरादिवत् । नैवदस्ति, द्वन्द्वे समप्राधान्याद् द्वयोरुद्भूतावयवभेदत्वात्
समुदायस्य युक्तं द्विवचनम् ।
इह तु विशेषणविशेष्यभावावच्छिन्नमर्थान्तरमेवानभिधेयमवयवैः समुदायेनो-
पादीयते । यथा बहुर्वीहौ `लोहितवसनश्चित्रगुः' इत्यादि । ततश्चावयवार्थाहित-
भेदस्य परार्थस्य समुदायेनाभिधीयमानत्वात् ततः परा विभक्तिः समुदायार्थनिवेशिनीं
संख्यामुपादत्ते ।
तथा चार्थवत्त्वे समुदायस्यानेकवचनस्य परिहार उक्तः--`सङ्घातस्यैकार्थ्या-
न्नावयवसंख्यातः सुबुत्पत्तिः'(भा.वा.2/1/7) इति ।
तदेवं त्यागश्चाभ्युच्चयश्च यो धर्मः स्वभावोऽस्या वृत्तेः तद्भावस्तत्ता,
तामाहुः परार्थाभिधानलक्षणायां तस्याम् ।। 94 ।।
तत्र जहत्स्वार्थायां वृत्तौ चोदितम्--`राजपुरुषमानाय' इत्युक्ते पुरुषमात्रस्-
यानयनं प्राप्नोति,`औपगवमानयेत्युक्तेऽपत्यामात्रम्' इति ।
ननु चोपसर्जनपदानामर्थत्यागे प्रयोगः किमर्थं इति कथं न चोद्यते ? नास्तेयेतत्,
`यावो यावकः' इतिवत् पर्यायरूपेण `राजपुरुषः'इति प्रयोगोपपत्तेः । तथैकार्थीभाव-
लक्षणसामर्थ्यनिबन्धना समाससंज्ञापि यथा स्यादिति ।
अविशेषे तु समाधिरुक्ताः--`जहदप्यसौ स्वार्थं नात्यन्ताय जहाति । अथवान्वयाद्
विशेषणं भविष्यति' इति । एतद् विवृणोति--
अन्वयाद् गम्यते सोऽर्थो विरोधी वा निवर्तते ।
द्वयर्थमर्थान्तरे वापि तत्राहुरुपसर्जनम् ।। 95 ।।
उक्तमेतदग्निसंयोगाहिता विशेषाः परमाणूनां निवृत्तेऽप्यग्निसंयोगेऽनुवर्तन्त
इति । एवमुपसर्जनपदार्थः प्रधानार्थं विशेष्य निवर्तत इति तदाहितविशेषानुगमाद्
विशिष्टः पुरुषः प्रतीयते, न पुरुषमात्रम् ।
अत्र भाष्ये मल्लिकापुटो दृष्टान्तोऽभिहितः । कुसुमसंसर्गोपहितगन्धविशेषानु-
वृत्तेरपनीतकुसुमोऽपि पुटस्तद्व्यपदेश्यः ।
एवमर्थस्य त्यागे कथं नात्यन्ताय जहातीत्युच्युते--तदप्यंशेनार्थो निवर्ततेऽ-
शेनावतिष्ठत इत्याशङ्कय पक्षान्तरमाह--विरोधी वा निवर्तत इति ।
प्रधानार्थवच्छेदप्रतिद्वन्द्वी स्वभावोऽपैत्युप सर्जनार्थस्य । कश्च तस्य
प्रतिद्वन्द्वी, यः प्रधानभूतः ? अनयोर्हि प्राधान्ये परस्परसम्बन्धाभावाद् विशिष्-टोऽवच्छिन्नः प्रधानार्थो न प्रतीयेतीति स्वप्राधान्यमुपसर्जनार्थस्य निवर्तते ।
अत एव स्वविशेषणेन समृद्धादिना न युज्यते । प्रधानोपकाराय तु यद्रूपं
विशेषणतात्मकम्, तन्नापैत्यविरोधादिति नात्यन्ताय जहातीत्युक्तिः । सर्वथा हि
स्वार्थपरित्यागे स्वपदार्थेन प्रधानोपकाराभावादुपसर्जनपदं स्वरूपमेव जह्यात् ।
परोपकारप्रभावितं ह्यु पसर्जनत्वम् ।
असति च परोपकारे प्रयोगवैयर्थ्यम् । उत्तरपदादेव प्रधानार्थप्रतीतेः ।
अनर्थकस्य चापरेण सम्बन्धाभावात् सामर्थ्यनिबन्धना समाससंज्ञा न स्यादिति
न सकलार्थपरित्यागः । तक्षापि हिक्कितहसितादीनि प्राणित्वाव्यभिचारीणि राज-
कर्मम्यनुगुणानि न जहाति । स्वप्राधान्यमेव स्वस्य हीयत इति जहत्स्वार्था वृत्तिः ।
अजहत्स्वार्थायां तु वृत्तौ सर्वथैव सन्नुपसर्जनपदार्थः । स्वविशेषणविशिष्टं प्रधा-नार्थं हि तत्रोपसर्जनपदमभिदधातीति द्वयर्थमुच्यते । प्रधाने च पांसूदकवदभेदापत्ते-र्विवेकाभावात् स्वविशेषेणेन न युज्यते गुणपदार्थः । विषयभेदेन च शब्दानामर्थवैचि-
त्र्याद् वृत्तौ गुणप्रधानभूतार्थद्वयाभिधानमुपसर्जनपदानां युक्तम् । द्विवचनं तु नभवतीति पूर्वमेवोक्तम् ।
केचित्तु जहत्स्वार्थायां वृत्तावुपसर्जनपदस्य सर्वथैवार्थत्यागं प्रधानार्थवृ-त्तित्वं च मन्यन्ते । वर्णवदनर्थकं ह्यपसर्जनपदं वृत्तिपदस्यावयवभूतम् ।
पर्यायश्चायं पुरुष शब्दस्य राजपुरुषशब्दः । अत्र पुरुषविशेषप्रतिपत्तिर्न
स्यादिति चोद्यम् ।। 95 ।।
यदि तर्हि वाक्य इव वृत्तावपि विशिष्टार्थप्रतीतेर्नात्यन्ताय हानम्, तदा
जहत्स्वार्थत्वं वाङ्मात्रेण स्यादित्याशङ्कयाह--
उपायमात्रं नानात्वं समूहस्त्वेक एव सः ।
विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ।। 96 ।।
वाक्ये विच्छेदोपक्रमार्थाभिधानम्, वृत्तौ तु विशिष्टोऽर्थो भेदेन प्रतीयत इति निरंशमेव परमार्थतो वृत्तिपदम् । उपायमात्रं तु वाक्यगतपदार्थभेदेन व्युत्पादनमितिप्राधान्यस्य त्यागाज्जह्त्स्वार्थताभणितिः ।
अतोऽनन्तरं भाष्ये पठितम्--`अथवा वृत्तौ समर्थाधिकारः क्रियते, सामर्थ्यं
नाम भेदः संसर्गो वा, भेदसंसर्गोवा' इति ।
तद् व्याचष्टे--विकल्पेत्यादिना । वाक्यप्रकृतित्वं वृत्तिपदस्य मन्यमाना
वाक्यगतभेदसंसर्गकल्पनामत्र कुर्वन्ति ।
तथाहि--भेदो वाक्यार्थः संसर्गो वेति विकल्पः । द्वावपीत्यभ्युच्चयः समुच्चयः ।तत्र पुरुषशब्दस्य भृत्यवाचित्वे स्वामिनः सामान्येनावगतौ राजशब्दः स्वामिविशेषे-
भ्यो व्यावृत्तिं प्रतिपादयतीति भेदो वाक्यार्थः । अनुमीयमानश्चात्र संसर्गः ।
यदा तु जातिवाची पुरुषशब्दः, तदा राजशब्दाद् विशिष्टेनार्थेनैतदर्थस्य समन्व-
योऽवगम्यत इति संसर्गो वाक्यार्थः । विशिष्टत्वाच्च संसर्गस्यार्थान्तराद् भेदोऽ-नुमीयमानः । एवं गुणप्रधानभेदेन विकल्पः । उभयस्य वा शब्दात् प्रतीतेरविशेषेणोभयं
सामर्थ्यम् । तदेवं विशिष्टार्थवृत्ति वृत्तिपदमिति न पुरुषमात्रस्यानयनमवयवास्यान-र्थक्येऽपि ।। 96 ।।
अत एव चोपायत्वाद्विभागस्य मतभेदोऽविरिद्धोऽनवस्थितत्वाद् रुचिवैचित्र्येणो-
पायानामित्याह--
वृत्त वर्तयतामेवमबुधप्रतिपत्तये ।
भिन्नाः सम्बोधनोपायाः पुरुषेष्वनवस्थिताः ।। 97 ।।
वृत्तिवाक्ययोरभेददर्शिनां प्रकृतिविकारभावेन व्युत्पादयतां व्युत्पादकानां पुरु-
षेषु प्रतिपत्तृषु सम्बोधनोपायाः व्युत्पादने हेतवो रुचिवैचित्र्याद् भिन्नाः
विलक्षणाः ।
ये हि वृत्तिवाक्ययोः समानमर्थमध्यवस्यन्ति, तद्दर्शनेनाजहत्स्वार्थत्वमुच्यते ।
ये तु स्वाभाविकमर्थभेदमनयोः पश्यन्ति, तदर्शनेन जहत्स्वार्थत्वमित्यसत्यभूतभेद-
संसर्गाश्रयेण व्यवस्था भिद्यते ।। 97 ।।
तदेवं परमार्थतोऽत्यन्तभेदो वृत्तिवाक्ययोरिति सङ्खयाविशेषतिरोधानादयो वृत्तौ
विशेषाः प्रोक्ताः । तत्र च विभक्त्यभावादेव सङ्खयाविशेषतिरोधानमिति चोदिते
`न शब्दनिमित्तकेन नामार्थेन भवितव्यमर्थनिमित्तकेन नामशब्देन भवितव्यम् ।
तदेतदेवं दृश्यतामर्थरूपमेवैतदेवंजातीयकम्' इत्युक्तम् ।
एतद् व्याचष्टे--
वाचिका द्योतिका वापि सङ्खयानां या विभक्तयः ।
तद्रूपेऽवयवे वृत्तौ सङ्खयाभेदो निवर्तते ।। 98 ।।
त्रिके प्रातिपदिकार्थे सङ्खयाया वाचिका विभक्तयः, पञ्चके तु द्योतिकाः । ताश्च
राज्ञः पुरुषो, राज्ञो, राज्ञां पुरुष इति वाक्ये दृश्यन्ते स्वार्थप्रयुक्ताः ।
वृत्तापि राजपुरुष इत्यत्र वाक्यसदृश एव पूर्वपदभागः ।
तथाच तत्रापि सङ्खयाविशेषप्रयुक्ता विभक्तयः श्रूयेरन् । सचि ह्यर्थे तद्वचनः
शब्दः प्राप्नोति, न तु शब्दाभावे वाचनिके वृत्तावर्थाभावाविधानं युज्यते ।
सङ्खयाशब्दाभावाद् वृत्तौ सङ्खयाविशेषो नास्तीत्यनुमीयते ।
तथाहि--प्रधानार्थसम्भेदादुपसर्जनार्थस्य भेदाभावान्निवर्तते सङ्खयाविशेष इति
तदभावात् स्वाभाविक्येवानुत्पत्तिर्विभक्तीनां प्रत्ययलक्षणार्थं लुगन्वाख्यायते ।
इत्थं सादृश्यमात्रं भ्रान्तं वृत्तिवाक्ययोर्न तत्त्वत ऐक्यम्, वाक्ये सङ्खया-भेदसद्भावाद् वृत्तौ तदभावादित्यत्र तात्पर्यार्थः ।। 98 ।।
एवं तावदुपसर्जनार्थो निवृत्तसङ्खयाभेद इत्येकीयं मतम् । अन्ये तु मन्यन्ते--
अभेदैकत्वसङ्खया वा तत्रान्यैवोपजायते ।
संसर्ग(र्गि)रूपं सङ्खयानामविभक्तं तदुच्यते ।। 99 ।।
वृत्तावुपसर्जपदार्थानां सत्त्वभूतत्वादावश्यकः सङ्खयायोगः । न ह्यव्ययवन्नि-
स्सङ्खय एवोपसर्जनार्थो युक्तः, सत्त्वमात्रस्यासम्प्रत्ययात् ।
न च विशेषोऽवधार्यते । अतः सामान्यसङ्खयारूपं सर्वसङ्खयाविशेषाणां संसर्ग(र्गि)रूपं क्रोडीकारकं विद्यत इत्यनुमीयते ।
द्वित्वादिप्रतिपक्षं ह्येकत्वं द्वित्वाद्यपावर्तनान्न समस्तसङ्खयाभेदस्वीकारस-मर्थम् । इदं त्वभेदैकत्वं सर्वानुयायि ।
अत्र हि सर्वे सङ्खयाभेदाः संसर्गमविभागमनुप्राप्ता विद्यन्ते । तथाच सति
निमित्ते ते तत आविर्भवन्तो दृश्यन्ते प्रसेकादिव शाणादिविशेषाः (प्रसेकादिव
गन्धादिविशेषाः ) । अतश्च शौर्पिक(पार्पिक)तावकीनमासजातादौ भवति विशेष-
निश्चय इति वक्ष्यते ।
अविभक्तमेकस्वभावत्वात् किञ्चिद् भवति, न तु संसृष्टम् । संसर्गेऽपि च भेदः
स्यादित्युभयमुपात्तं संसर्ग(र्गि)रूपमविभक्तं चेति ।। 99 ।।
एतदेव निदर्शंनेन व्युत्पादयति--
यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां सङ्खयां तादृशीं विदुः ।। 100 ।।
मधुनि माक्षिके बहुपुष्परसाः प्रत्यर्पितस्वरूपास्तत्कार्यत्वादिति नानाजातीयौ-
षधिरससम्भेदेन मधुरससम्पादने विचित्रास्ते रसा विवेकेन न लक्ष्यन्ते ।
अथ च कारणभूतौषधिरसानुगुण्येन मधुनो रसवीर्यविपाका अवधार्यमाणा यथास्वं
कार्यदर्शनानुमीयमानसामर्थ्याः सन्निहितास्त इत्यवसीयन्ते । तथैव यथानिमित्तं
सङ्खयाभेदावसायादुपसर्जनपदार्थे सर्वसङ्खयाविशेषाणामविभागेनावस्थानादभेदैकत्व-
सङ्खयापि तथाभूतैव बोद्धव्या । सङ्खयाभेदानां हि ततोऽपोद्धारात् सङ्खयेति कथ्यते,
न तु तया यत् किञ्चिद् गण्यते द्वित्वादिकयेव । सङ्खयासंसर्गस्य च संसृष्ट-
विवेकेन रूपानवधारणात् सङ्खया विशेषसामान्यरूपेयम् ।। 100 ।।
प्रकारान्तरमत्रैवाह--
भेदानां वा परित्यागात् सङ्खयात्मा स तथाविधः
व्यापाराज्जतिभागस्य भेदापोहेन वर्तते ।। 101 ।।
परित्यक्तभेदा तान् भेदान् व्यावर्तयन्ती संखयाव्यपदेशमियमप्यासादयति । तथा च
तथाविधोऽभेदैकत्वस्वभावोऽसौ संखयात्मा व्यक्तिभेदतिरोधानेन जातिरूपाश्रयेण
वर्तते । भेदापोहलक्षणं हि सर्वसंखयानां जातिरूममनुगतम् । पूर्वत्र समस्तभेद-
संसर्गमात्रं समस्तभेदात्मकमभेदैकत्वमुक्तम् ।
इदानीं तु समस्तभेदानुगतरूपमन्यापोहरूपमिति विशेषः । यथा ह्येकत्वं
द्वित्वाद्यपावर्तयति, द्वित्वं च त्रित्वादि, एवमिदमभेदैकत्वं सर्वमेकत्वाद्यपाव-
र्तयतीत्यस्ति संखयात्वम् । सति च निबन्धने द्वित्वैकत्वादि प्रतीयत इति
सामान्यात्मकताभ्युपगताऽत्र ।। 101 ।।
ननु चाभिन्नप्रत्ययावेद्यं सामान्यं गोत्वादि । अत्र चाभेदैकत्वस्य न किञ्चित्
कार्यम् । भेदा एव हि शास्त्रकार्ययोगिन इति किं तत्सद्भावे लिङ्गमित्याशङ्कयाह--
अगृहीतविशेषेण यथा रूपेण रूपवान् ।
प्रख्यायते न शुक्लादिभेदरूपस्तु(रूपन्तु) गृह्यते ।। 102 ।।
भेदरूपसमावेशे तथा सत्यविवक्षिते ।
भागः प्रकाशितः कश्चिच्छास्त्रेऽङ्गत्वेन गृह्यते ।। 103 ।।
गुणैरविनाभावाद् द्रव्यमप्रतीतनीलादिगुणारूपमपि सामान्येन रूपवदिति प्रतीयते
यथा दूरात्, तथा सँखयाविशेषसमवाये प्रतिपाद्यत्वेनानिष्टे संखयावानित्ये-
तावतावगते सत्त्वभूतत्वादुपसर्जनार्थे योंऽशस्तत्संसृष्टो निमित्तविशेषात् तवका-
द्यादेशलक्षणादाविर्भूतः स तावकीनादिशब्दान्वाख्यानाय शास्त्रे निमित्ततयोपादीयते ।
तथाच संखयावत्त्वसम्प्रत्यय एवात्रोपसर्जनार्थस्याभेदैकत्वसंखयाकार्यम् ।।102,103।। यदि तर्हि सर्वसंखयासंसर्गरूपमभेदैकत्वं न तद्रव्यातिरिक्तं तदोपसर्जनपदैर्विशे-षात्मकमेव कथं न प्रतिपद्यत इत्याह--
सङ्खयासामान्यरूपेण तदा सोंऽशः प्रतीयते ।
अर्थस्यानेकशक्तित्वे शब्दैर्नियतशक्तिभिः ।। 104 ।।
सोंऽशः पूर्वपदार्थभाग उपसर्जनार्थः सत्त्वरूपत्वादनेकसंख्यासमाहारयोग-
योग्योऽपि संख्यावानित्येवमभेदेनैवोपसर्जनपदेन प्रतिपाद्यते । न तु विशेषरूपप्रति-पादने तस्य शक्तिरस्ति । वाक्यवद् वृत्तौ अनेकशक्तिरपि ह्यर्थो न शब्दैः साकल्येन
स्पृश्यते, नियतविषयत्वाच्छब्दशक्तीनामित्यर्थः ।। 104 ।।
ननु च यद्युपसर्जनार्थे संख्याया अभेदः, कथं भेदानुगमः, अथ भेदः, कथ-
मभेदात्मकत्वमित्याशङ्कयाह--
अव्ययानां च यो धर्मो यश्च भेदवतां क्रमः ।
अभिन्नव्यपदेशार्हमन्तरालं तदेतयोः ।। 105 ।।
अलिङ्गासंख्यमव्ययमित्यसंख्यत्वमव्ययानां स्वभावः । एतादृशी हि शब्दशक्ति-
र्यदव्ययानि सत्त्वस्वभावादतिवृत्तमतश्च निस्संख्यमर्थमाहुः । भेदवन्तो विभक्तिवि-
शेषावच्छिन्नाः शब्दाः, तेषामेकत्वादिसंख्याविशेषावच्छिन्नार्थप्रत्यायनं स्वभाव
इति तदर्थो विशिष्टसंख्यायुक्तः, तदेतामुभयीमवस्थामतीत्योपसर्जनपदानामर्था
३?पैन्ते ।
तदेवं वृत्तावभेदैकत्वसंख्यावगमे विशेषो वाक्यादित्यत्यन्तभेदः ।। 105 ।।
अत्र वार्त्तिककारीयं संवादकमाह--
अलुकश्चैकवद्भावस्तस्मिन् सति न शिष्यते ।
स च गोषुचरादीनां धर्मोऽस्ति वचनान्तरे ।। 106 ।।
इह `स्तोकाभ्यां मुक्तः, स्तोकेभ्योमुक्तः' इत्यापि वाक्ये `स्तोकान्मुक्तः'
इत्येवेष्यते वृत्तिः ।
तथा च "एकवद्भावो वक्तव्यः"(भा.वा.6/3/1)इति चोदिते परिहृतं वाक्य-
कारेण--"एकवद्वचनमनर्थकम्" (भा.वा.6/3/1), "द्विबहुष्वसमासः"
(भा.वा.6/3/1) इति । तदेतत् कथमुपपद्यते ?
यदि वृत्तावभेदैकत्वसंख्याप्रादुर्भावाद् द्वित्वबहुत्वावगत्यभावः । तथा च
तस्मिन्नभेदैकत्वे सति द्विवचनहुवचनयोरभावात् समासाभाव इति द्वित्वाद्यपक्रमेऽ-
प्येकवचनान्तानामेव समास इति नार्थ एकवद्भावानुशासनेन । "एकवचनं तत्सर्गतः
करिष्यते" इति भवति ।
अभेदैकत्वेऽपि वा तदविरोधः, सामान्येनैकत्वे विधानात् ।
कथं तर्हि गोषुचरो वर्षासुजोऽप्सुयोनिरिति बहुवचनान्तानां समास इति चेत्, अह
स चेति ।
सोऽभेदैकत्वाख्यो धर्मो वचनान्तरे एकवचनादन्यस्मिन् बहुवचनेऽप्यत्रास्ति ।
अत्र हि नेदं व्यक्तिबहुत्वे बहुवचनम्, अपि तु `जात्याख्यायामेकस्मिन्
बहुवचनम् । (पा.1-2-57) इति ।
तथाचैकस्यापि यो गवि चरति प्राणी, सोऽपि गोषुचर इन्द्रगोपोऽभिधीयते ।
एकोऽपि चाप्परमाणुरप्छब्देन बहुवचनान्तेनाभिधीयते । वर्षारात्रोऽपि चाभिन्नो
वर्षाशब्देन बहुवचनान्तेन शब्दशक्तिस्वाभाव्यादित्यत्राभेदैकत्वसंख्या वचनभेदप्रति-बन्धं न करोति । तथाप्यभेदैकत्वस्यैव प्रतीतेरित्यर्थः ।। 106 ।।
द्विवचनं तु नान्वाख्यातं जाताविति तत् सर्वथा वृत्तिषु संख्याभेदतिरोधानान्न
भवतीत्याह--
जातौ द्विवचनाभावात् तद् वृत्तिषु न विद्यते ।
प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ।। 107 ।।
तद् द्विवचनं जातावनुपदेशाद् व्यक्तिगतभेदतिरोधानाच्च वृत्तिषु नास्ति, बहुवचनं
तु "जात्याख्यायाम्" इत्युपदेशादस्ति । तथाच वृत्तावेकवचनबहुवचनयोर्भावेऽपि
द्विवतनाभावोऽभेदैकत्वफलमवतिष्ठते ।
यदा तु जातेराश्रयोपाधिक एव बहुत्वे बहुवचनोपपत्तेः "जात्याख्यायाम्" इति
सूत्रं प्रत्याख्यायाते, तदा गोषुचर इत्यत्र गोद्रव्यगतभेदाश्रयमेव बहुवचनं वृत्ता-वपि ।
अनवयवेन हि व्यक्तीः परामृशति गोषुचरशब्दः । `अप्सुयोनिः, वर्षासुजः'
इत्यत्राप्यवयवप्रचयाद् धर्मबहुत्वाद् वा व्यक्तेरेकत्वेऽपि बहुवचनम् । शब्दशक्ति-स्वाभाव्याद्धि किञ्चिद् बहुचनमवयवबहुत्वमाह किञ्चिद् द्रव्यगधर्मबहुत्वम् ।।107।।
तदेतदनिपपन्नमित्याह--
आश्रयाद् भेदवत्तायाः सर्वभेदसमन्वयः ।
द्रव्याभिधानपक्षोऽपि जात्याख्यायां न विद्यते ।। 108 ।।
सर्वद्रव्यगतिश्चैवमेकशेषश्च नोच्यते ।
प्रत्याख्यातेऽन्यथा सूत्रे भिन्नद्रव्यगतिर्भवेत् ।। 109 ।।
द्रव्यबहुत्वाश्रयेण गोषुचरादौ बहुवचनेऽङ्गीक्रियमाणे वृत्तौ संख्याविशेषयोगः
स्फुटोऽभ्युपगतः स्यात् ।
तथा च भेदवत्ताया आश्रयणात् सर्वैरेकत्वद्वित्वबहुत्वैरपि सम्बन्धः प्राप्त इति
कासावभेदैकत्वसंख्या ? एकस्यां द्वयोर्वापि चरतश्च भवत्यभिधानं गोषुचर इति ।
तथा च नेदं व्यक्तिभेदायत्तं बहुवचनम्, अपि तु जात्याख्यायामेवेति तत्र
द्रव्याभिधानपक्षस्याभावात् कथं द्रव्यभेदाश्रयमिदं बहुवचनं वर्ण्यते । एवम्
`अप्सुयोनिः' इत्यादावपि वाच्यम् ।
तस्माज्जात्याख्यायामेवेदं बहुवचनं न्याय्यम् ।
न च द्रव्यविवक्षश्रयेण योगस्य प्रत्याख्यानमुचितम् । एवं ह्येकशेष आरम्भणीयः
स्यात् , प्रत्यर्थं शब्दनिवेशान्नैकेनानेकार्थाभिधानमिति कृत्वा । जात्याभिधाने तुतत्रैव बहुवचने सर्वद्रव्यगतिर्बहुवचनान्तादेकस्मादपि शब्दाद् भवतीति प्रत्याख्या-
तमेकशेषसूत्रम्, "आकृत्यभिधानाद् वैकं विभक्तौ वाजप्यायनः" (भा.वा.1/2/64)
इति । "जात्ख्यायायाम्"(पा.1/2/58)इति सूत्रं समर्थितमेवम्,"जात्याख्यायां
सामान्याभिधानादैकार्थ्यम्" (भा.1/2/53)इति ।
ननु च कोऽतिशयो जात्याख्यायामित्यस्य. येनैतदारम्भः समर्थ्यत इत्याह--
प्रत्याख्यात इत्यादि । "जात्याख्यायाम्" इत्यस्मिन् योगेऽनारभ्यमाणे जातिपरायां
चोदनायां बहुवचनाभावाद् गोषुचर इत्यादौ द्रव्यबहुत्वे बहुवचनमिति व्यक्तिबहुत्वप्र-तीतिर्भवेतम । न चैवमिष्यते, एकस्यां गवि द्वयोर्वापि गवोश्चरति गोषुचर इत्यभि-
धानस्य गोषुचरे कुक्कुटाख्ये पक्षिविशेषे रूढिरित्यर्थः ।
तस्माज्जात्याख्यायामेवैतदुपपद्यत इति सत्यप्यभेदैकत्वे तत्रैवेदं वाचनिकं
बहुवचनं विज्ञेयम् ।। 108,109 ।।
इदानीमभेदैकत्वसंख्यायाः सर्वसंख्याविशेषात्मकत्वाद् भेदेन वृत्तौ स्वरूपोप
दर्शनमित्येतदभिधातुं चोद्यपूर्वकमुपक्रमते--
वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते ।
अभेदैकत्वसङ्खयायां गोदौ तत्र न सिध्यति ।। 110 ।।
"लुपि युक्तवद् व्यक्तिवचने"(पा.1-2-51) इत्यत्र पक्षद्वयं सम्भाव्यते । तथाहि
यदा व्यक्तिवचने लिङ्गसंख्ये कथ्येते, तदा लुबन्तलक्षणायां तद्धितवृत्तौ विभक्तिनि-वृत्तावप्यर्थनिवृत्तेरभावाद् वृत्तस्य ये व्यक्तिवचने तयोरतिदेश इत्ययं पक्षः ।
यदा पुनर्व्यक्तिद्योतनः शब्दो व्यक्तिः, वचनमप्येकदेशलोपादेकवचनादि
विवक्षितम्, तदा तस्य वृत्तावदर्शनाद् प्राग्वृत्तेर्व्यपेक्षावस्थायां ये व्यक्ति-वचने तयोर्लुबर्थेऽयमतिदेश इत्ययं पक्षः ।
तत्र पूर्वस्मिन् पक्षे गोदयोरदूरभावो ग्रामो गोदौग्राम इति न सिध्यति । यस्माद्
वृत्तावुपसर्जनस्याभेदैकत्वसंख्या प्रादुर्भावतीत्युक्तम् । तद्गतस्यैव च संख्याल-
क्षणस्यार्थस्यातिदेश इति द्वित्वस्यात्रातिदेशाभावाद् द्विवचनं न स्यात् । बहुवचनंतु पञ्चाला इत्यादौ जात्याश्रयं सिध्यति ।। 110 ।।
अथ द्वितीयः पक्षः, तत्रात्याह--
प्राग्वृत्तेर्युक्तवद्भावे षष्ठी भेदाश्रया भवेत् ।
वृत्तौ सङ्खयाविशेषाणां त्यागाद् भेदो निवर्तते ।। 111 ।।
गोदयोरदूरभावो ग्राम इत्यत्र वाक्ये दृष्टा व्यतिरेसनिबन्धना षष्ठीति सा
वृत्तावपि स्यात्, अतिदेशात् । भेदस्याभेदैकत्वेऽपि गोदावित्यत्र `षष्ठयपि हि
वचनम्' (भा. 1/2/53) इत्युक्तं भाष्ये ।
अत्र परिहारः पक्षान्तराश्रयेणोक्तः `वृत्तस्य ये लिङ्गसंख्ये ते अतिदिश्येते'
(भा.1/3/53) इति । तद् व्याचष्टे--वृत्तौ संख्येत्यादिना । युक्तस्य प्रत्ययार्थेन
सम्बद्धस्य प्रकृत्यर्थस्योपसर्जनस्य संख्याभेदानां हानाद् वृत्तावयं विभागो
नास्तीत्यभेदैकत्वसंख्यामात्राश्रयं कार्यमतिदिश्यते, न षष्ठी व्यतिरेक-
निबन्धनेत्यर्थः ।
एतदनन्तरं क्वचिद् भाष्यमस्ति `प्रागपि वृत्तेर्ये लिङ्गसंख्ये, ते अतिदिश्येते।षष्ठी न भवति सामान्यातिदेशे विशेषानतिदेशात्' इति ।
इह प्रकृत्यर्थसम्बन्धि यदेकवचनत्वादि सामान्यानुगतं वचनम्, तदतिदिश्यते
लुबर्थे संख्यान्तरयोगिन्यप्राप्तम् । तच्च यद्यपि विशेषद्वारेणैव प्रवर्तंते,
तथाप्यव्यभाचारा एकवचनादयो विशेषा अतिदेशात् प्राप्नुवन्ति, न तु षष्ठी ।
सा व्यतिरेकनिबन्धनेत्यसति तस्मिन्न भवन्ती व्यभिचारिणी वचनसामान्यस्य ।
यथा वसिष्ठादयो ब्राह्मणस्य ।। 111 ।।
एवञ्चात्र `वृत्तस्य ये लिङ्गसङ्खये, ते अतिदिश्येते' इत्यस्मिन् पक्षेऽभेदैक-
त्वसङ्खयायां गोदौ न सिध्यतीतीदमेव चोद्यमवशिष्यते । तत् समाधातुं
पूर्वोक्तमेवाभेदैकत्वसङ्खयालक्षणं तावदनुवदति --
विद्यमानसु सङ्खयासु केचित् सङ्खयान्तरं विदुः ।
अभेदाख्यमुपग्राहि वृत्तौ तच्चोपजायते ।। 112 ।।
केचिदिति । ये सर्वसङ्खयानां संसर्गरूपमभेदैकत्वं मन्यन्ते । अत्र हि दर्शनेऽ-
भेदैकत्वं सर्वसङ्खयाभेदान् स्वात्मनि स्वीकरोति ।
येषां तु `तद्रपेऽवयवे सङ्खयाभेदो वृत्तौ निवर्तते'(वा.प. 3 वृ.100) इति भेदा-
पोहलक्षणमभेदेकत्वम्, न तन्मते सङ्ख्याभेदस्वीकारो युज्जत इति सूचयति ।। 112 ।।
यतश्च विद्यमानासु संख्यास्वभेदैकत्वसङ्खया वृत्तौ प्रादुर्भवति, तदा गोदाविति
सिध्यतीत्याह--
व्यापारं याति भेदाख्यैस्तत् स्वैरवयवैः क्वचित् ।
आत्मा भेदानपेक्षोऽस्य क्वचिदेति निमित्तताम् ।। 113 ।।
तदित्यनुगतभेदमभेदैकत्वं क्वचिदन्तर्भूतद्वित्वादिमुखेनोपयुज्यते, यत्र भेदाना-
माविर्भावहेतुरस्ति ।
क्वचित् तु व्यपगतभेदमभिन्नेन स्वरूपेणोपयुज्यते, यत्र भेदहेतुर्नास्ति ।।113।।
अत्रैवोदाहरणमाह--
दास्याः पतिरिति व्यक्तो गोदाविति च दृश्यते ।
व्यापारभेदः सङ्खयायास्तस्यादेवं व्यवस्थितः ।। 114 ।।
पत्युराक्रोशप्रतिपादनाय दासी सम्बन्धितयोपात्तेति तावन्मात्रस्य विवक्षितत्वाद्द्वित्वबहुत्वानादर इत्यभेदैकत्वसङ्खयायाः स्वरूपेणात्र व्यापारो व्यक्तो निश्चितः।गोदाविति तु गोदद्वयसामीप्यं विवक्षितम्, ग्रामस्यैकत्वाद् गोदो ग्राम इति न प्रती-
यत इत्यन्तर्गतद्वित्वाश्रयेणाभेदैकत्वसङ्खयाया व्यापारोऽत्र निश्चितः । तथा च
वृत्त्यवस्थागतलिङ्गसङ्खयातिदेशेऽपि सम्भवन्ती द्वित्वादिका सङ्खया लुबर्थे युज्य-तेऽतिदेष्टम् ।
अन्यत्रापि चायं सङ्ख्याधर्मो दृष्टः । तद्यथा--विंशतिसंख्या दशद्वर्गद्वयारब्-धापि न द्वित्वेन सव्यापारा, अपि त्वभेदेनैव स्वधर्मेण-विंशतिर्गाव इति । विंशती
इति तु विंशतिप्रचये विवक्षिते एकशेषः । द्वौ त्रय इति तु द्वयादिका संख्या
स्वरूपाभेदेऽपि सङ्खयेयाश्रयभेदोपादानेन ।
एवमभेदैकत्वसङ्खयायामपि को विरोधो विषयभेदेन भेदाभेदोपादाने ? न च
संख्यासु सङ्खयान्तराभावादभेदैकत्वसङ्खयायामपि सङ्खयान्तरासम्भव इति
वाच्यम्, असत्यपि सङ्खयान्तरयोगे संख्यानां सङ्खयान्तर्भावस्य दर्शनात् ।
तद्यथा--कति भवतः पुत्रा इति । अत्रोत्तरसंख्यायां पूर्वसंख्यानुप्रवेशादेकत्व-
द्वित्वादावविशेषेण प्रश्नो भवति । तथा च प्रतिवचनं दृश्यते--एको द्वौ बहव इति ।
एवमभेदैकत्वसंख्यायामपि संख्यान्तराण्यन्तर्भवन्ति, तथा च निमित्तवशा-
दुद्भवन्ति ? अन्यथात्यन्तमसत्त्वे कथमुद्भवः ।
सा चेयं सर्वसंख्यासामान्यभूता `राजपुरुषः' इत्यादावपसर्जनपदोपादानैव
समवेतसंख्या । सामान्यं हि स्वार्थमुपसर्जनपदान्याहुः, स्वभावात् ।। 114 ।।
यद्येवं द्विपुत्र इत्यत्रं कथं द्वित्वावगमः उपसर्जनार्थस्येत्यत आह--
द्वयादीनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते ।
विभक्तिवाच्यः स्वार्थत्वान्निमित्तं त्ववतिष्ठते ।। 115 ।।
द्वयोः पुत्र इति विभक्तिवाक्यं द्वित्वं पूर्वमन्यदेव प्रातिपदिकार्थात्
समर्थितम् । तदेव च वृत्तावभेदैकत्वप्रादुर्भावान्निवर्ततं । प्रातिपदिकार्थभूतं तु
नापगच्छति । अन्यथा निरर्थकत्वे प्रयोग एव न स्याद् द्विशब्दस्य । अस्ति
च जहत्स्वार्थायामपि वृत्तावुपसर्जनार्थं इत्युक्तम् । एवं त्रिपुत्र इत्यादौ
वाच्यम् ।। 115 ।।
यदि तर्हि स्वार्थो द्वित्वं न निवर्तते, तदाभेदैकत्वसंख्यात्र नास्तीत्यासंक्-
याह--
द्वित्वोपसर्जने सङ्घे द्विशब्दस्तत्र वर्तते ।
सोऽयमित्यभिसम्बन्धादुभशब्दे न तत्तथा ।। 116 ।।
वाक्येऽवयवप्राधान्यादुद्भूतभेदौ द्वावुच्येते । वृत्तौ तु समुदायसमुदायिनो-
रभेदाध्यारोपाद् द्वित्वगुणावच्छिन्नः समुदाय एक इत्युपसर्जनार्थस्यात्रापि भेदो
व्यावर्तते अभेदैकत्वाप्रादुर्भावात् । तदेतत् समुदायवृत्तित्वमुभशब्दविषये तेन
प्रकारेण द्वित्वोपसर्जनत्वेन न सम्भवतीत्युभपुत्र इति न कदाचिदपि
भवति समासः ।
तथाहि--
"उभयस्तस्य तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।"
(वा. प. 3 वृत्ति. 117)
इत्यनन्तरमेव वक्ष्यति । उभाबाहुरित्यादिस्तु प्रयोगो द्विदण्डयादित्वात् साधुः ।
कथमुभशब्दो द्विपर्यायोऽपि तद्वद् वृत्तौ सङ्घ नाभिधत्त इति । चेत्,
शब्दशक्तिस्वाभाव्यादिति ब्रूमः । तथा च वार्त्तिकम्--"अन्याभावो द्विवचनटाब्वि-
षयत्वात्, उभयोऽन्यत्र" (भा. वा. 1/1/27) इति ।। 116 ।।
तदेतदाह--
उभयस्तस्य तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।
सूत्रेऽपि नित्यग्रहणं तदर्थमभिधीयते ।। 117 ।।
उभयपुत्रः, उभयथा, उभयत इत्यादौ वृत्तिपदे उभशब्दसमानार्थ उभयशब्दः
प्रयुज्यते । स हि द्वित्वोपसर्जनं सङ्घमभिधातुं समर्थो नोभशब्दः । तथा च
वस्त्वभेदाश्रयेण तुल्यार्थत्वम्, नाभिधाव्यापाराश्रयेण उभाविति भेदरूपेण प्रतिपा-
दनात्, उभय इत्यवयविरूपेण । "उभादुदात्तो नित्यम्" (पा.5-2-44) इत्यत्र
सूत्रे नित्यग्रहणमेतदर्थम्, द्वित्वोपसर्जनसमुदायाभिधानशक्तिविरहमुभशब्दस्य
ज्ञापयितुमित्यर्थः ।
उभशब्दो ह्यसंख्यावाची, प्रत्ययान्तरां चायजित्यत्र पक्षे तयपोऽप्राप्तौ तेन सहविकल्पनिवृत्त्यर्थं नित्यग्रहणं नोपयुज्यते । उभशब्दः संख्यावाची तयबादेशश्चायज्
इत्यत्रापि पक्षेऽस्वरितत्वादेव विकल्पनिवृत्तौ नित्यग्रहणं वृत्तिविषये नित्यमय-
जेवेत्युक्तप्रयोजनमेव ।
नचोभशब्देन द्वयवयवः सङ्घोऽभिधीयते, येनोभयशब्देनापि तथेति तुल्यार्थतायां
विकल्पः स्यादिति नित्यग्रहणम् । शब्दशक्तिस्वाभाव्यात् समुदायस्याभिधानं ह्यभय-
शब्देनेति न्यायानुवादः सूत्रे नित्यग्रहणम् ।। 117 ।।
सत्यां त्वभिधानशक्तौ द्विवचनटब्विषये प्रयुज्यत एवोभशब्द इत्याह--
आपि के चापरार्थत्वान्नाभेद उपजायते ।
उभे इति ततः स्वार्थे भेदवृत्तिः प्रयुज्यते ।। 118 ।।
स्त्रीवृत्तेः प्रातिपदिकात् स्वार्थे टाप्, एवं कुत्सितादिद्योतने स्वार्थे क
इति तत्र प्रत्ययार्थे गुणभावानापत्तेरभेदेऽनुपजाते स्वतन्त्रे स्वार्थे भेदे
वर्तमानः प्रयोगार्होऽयमुभशब्दः उभे उभक इति ।
अस्वार्थिके तु प्रत्यये उत्तरपदे च पारार्थ्यात् प्रधानार्थैकार्थीभावाद् उद्-
भूतभेदता (अनुद्भूतभेदता ) स्वार्थोऽस्य हीयते इति तत्रास्य प्रयोगोऽन्याय्यः
।। 118 ।।
यदा तर्हि "स्त्रियाम्" (पा.4/1/3)इत्यत्र प्रत्ययार्थविशेषपक्षः, तदा तत्र
प्रकृत्यर्थव्यतिरिक्तेऽर्थे विशेषणायोपादीयमानो न स्वार्थ प्रयुक्तः स्यादिति कथं तत्रोभशब्दप्रयोग इत्याशङ्कयाह--
स्त्रीत्वाभिधानपक्षेऽपि गुणभावविपर्ययः ।
स्वभवादपरार्थत्वात् तत्र भेदो न हीयते ।। 119 ।।
गार्ग्यादौ प्रकृत्यर्थो गुणभूतः, प्रत्ययार्थः प्रधानं प्रतीयते । स्त्रीप्रत्-ययान्तेषु तु प्रत्ययार्थपक्षेऽपि स्त्रीत्वविशिष्टं द्रव्यमत्राभिधीयते, शब्दश-
क्तिस्वाभाव्यात् । नहि शब्दानामर्थादेशनं शक्यते कर्तुम्, शास्त्रप्रक्रियाभेदेऽ-पि लौकिकस्य स्थितलक्षणस्यार्थस्याभेदात् । तस्मादुभे इत्यत्र भेदो न निवर्तते,
परार्थत्वाभावात् ।। 119 ।।
यत एवम्--
तस्माद् द्विवचनाट्टापश्चोभयोऽन्यत्र दृश्यते ।
प्रत्ययं तयपं हित्वा नास्त्युत्तरपदे पुनः ।। 120 ।।
द्विवचनटाब्विषय उभशब्दः उक्तः । टापि च नान्यत्र द्विवचनात् । अतोऽन्यत्र तु
प्रत्यये उत्तरपदे चोभशब्दो नास्ति । अपि तु तत्समानार्थ उभयशब्दः । तयापि तु
प्रकृतित्वेनोभादित्युपादानसामर्थ्यात् तत्रैकार्थीभावविषयेऽप्युभशब्दः प्रयुज्यत।उभाहस्त्यादयस्तु द्विदण्डयादयः । तत्र च शब्दशक्तिस्वाभाव्यादेवोभशब्दः समुदाय-
रूपेणार्थमाचष्टे द्विशब्दवत् ।। 120 ।।
तदेवमभेदैकत्वसंख्यायाः प्रसङ्गायातं किञ्चिन्निर्णीतम् । इदं त्वत्र चोद्यते--
"ईदूदेद् द्विवचनं प्रगृह्यम्"(पा.1-1-11) इत्यत्र वार्तिकेऽभिहितम्--`ईदाद्यन्तं द्विवचनान्तमिति चेल्लुकि प्रतिषेधः' इति । कुमारयोरगारं कुमार्यगारमिति,
श्रुत्येदाद्यन्तं प्रत्ययकक्षणेन च द्विवचनान्तमिति प्रगृह्यसंज्ञाप्रसङ्गश्चो-
दितः । स नोपपद्यते, वृत्तावभेदैकत्वसङ्ख्याभ्युपगमे द्विवचनान्तस्य
समासाभावादित्याह--
प्राप्तिः प्रगृह्यसंज्ञाया न स्यात् प्रत्ययलक्षणात् ।
कुमार्यगारे न ह्यस्ति समासो वचनान्तरे ।। 121 ।।
व्याख्यातार्थाः श्लोकः ।। 121 ।।
अन्यदपि चोदयितुमाह--
एकद्वयोर्यञादीनां विभाषा लुङ् न कल्पते ।
यौष्माकस्तावकश्चेति भेदाभावान्न सिध्यति ।। 122 ।।
`यञादीनामेकस्य द्वयोर्वा तत्पुरुषे षष्ठया उपसङ्खयानम्' (भा.वा.2/4/64)
इति पक्षे लुगुक्तो वाक्यकारेण । गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलमिति वा,
गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलमिति वेति प्रयोगसिद्धयर्थम् । स चाभेदैकत्वा-
भ्युपगमे द्विवतनान्तानां समासाभावादेकवचनस्यापि द्वयादिप्रतिपक्षस्याभावाद्
विरुध्यते । तथा सूत्रकारमतेनाप्यभेदैकत्वं विरुध्यते ।
तथाहि--"तवकममकावेवचने"(पा.4-3-3 इति युष्माकास्माकबाधकावेकवचने
विदधात्यादेशौ । ततश्च यौष्माक इति वृत्तौ द्वित्वादि मन्यते । तावक इत्येकत्वं
द्वित्वादिप्रतिपक्षमिति कथमभेदैकत्वं स्यात् ।। 122 ।।
किञ्च,
दृष्टो गार्ग्यतरे भेदस्तथा गर्गतरा इति ।
युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ।। 123 ।।
बहुषु "यञञोश्च"(पा.2-4-64) इति लुग्विधानाद् गार्ग्यतर इति प्रत्ययश्रुतौ
नियतं द्वित्वैकत्वे प्रतीयेते, गर्गतरा इति च बहुत्वमिति कथं वृत्तावभेदैकत्वा-
प्रादुर्भावः ? तथा प्रत्ययोत्तरपदयोः "त्वमावेकवचने"(पा. 7-2-97) इति वचनाद्
त्वत्पिता मत्पितेत्येकत्वं प्रतीयते । युष्मत्पिता अस्मत्पिता इति तु द्वित्वबहु-
त्वावगतिरिति । सर्वमेतद् वृत्तावभेदैकत्वाभ्युपगमे विरुध्यते ।। 123 ।।
अत्र प्रतिविधीयते--
उपाधिभूता या सङ्खया प्रकृतौ समवस्थिता ।
आदेशैः संज्ञया वापि विभक्त्याव्यज्यते विना ।। 124 ।।
विद्यमानासु सङ्खयासु तत्संसर्गमय्यभेदैकत्वसङ्ख्या प्रादुर्भवतीत्युक्तम् । तथाच यत्र सङ्ख्याविशेषनिबन्धनमस्ति, तत्रासौ प्रतीयत एवेत्युपसर्जनपदविषये या
प्रकृतिः प्रातिपदिकं तद्विशये तदर्थस्यावच्छेदकत्वेन या भेदसङ्ख्या समवेता, सा
प्रगृह्यसंज्ञाप्रवृत्त्या कुमार्यगारम्' इत्यत्र प्रतीयत एव ।
यदि ह्यत्र प्रगृह्यसंज्ञा स्यात्, तदा प्रकृतिभावे सति द्वित्वमुपसर्जनार्थस्-
यावगम्येत, द्विवचनान्तस्य प्रगृह्यसंज्ञाविधानात् । एवं `तावकः,त्वत्पिता'
इत्यादावप्यादेशादेकवचने विहिताद् विशेषाद् विशेषावगतिः । उपसर्जनस्य हि
प्रातिपदिकस्यापि चैकत्वसङ्ख्यास्वीकारसामर्थ्येऽपि विशेषाभिव्यक्तौ नास्ति
सामर्थ्यमिति तत्र विभक्तिं सहायपेक्षते । एवमादेशाद्यपीति ।
अत एव केचित् प्रकृतिरिव प्रकृतिर्विशेषसङ्ख्यायाः अभेदैकत्वसङ्ख्या,
ततोऽस्या उद्भवादिति तत्रैकात्म्येनावस्थिता सोपसर्जनपदेन शक्तिप्रतिघातादप्रका-
शिता विभक्त्येवादेशैः प्रकाश्यत इति व्याचक्षते । गर्गकुलादौ चैकद्वयोरपि लुगा-
देशे, प्रकरणाद् विशेषावसायो भविष्यति ।
अनारम्भे तु लुको बहुष्वेव लुग्विधानाद् `गर्गकुलम्' इत्येकत्वाद्वित्वप्रतीति-
र्नैव स्यात् । बहुषु तु लुगपत्ये नियमार्थमवश्यारम्भणीयः । एवं `युष्मत्पिता'
इत्यादौ प्रकरणाद् द्वित्वबहुत्वनियमावधारणम्,`गार्ग्यकुलम्' इत्यादौ च ।
इत्थं च कृत्वा `द्विवचनबहुवचनान्तानामसमासः' इति नेदं वचनं सम्भवति,
विशेषावगमे समासप्रवृत्तेः । राजपुरुषादौ तु विशेषावगमनिबन्धनाभावाद् वृत्तिपदमन्-
वाख्यातुं प्रक्रियायां सदृशस्य वाक्यस्य कल्पनादेकवचनान्तानामेव तद्युक्तमिति
न्यायसिद्धार्थानुवादोऽयमत्र ।
यत्र तु द्वित्वाद्यभिव्यक्तिसम्भवः, तत्र समासप्रकृतौ प्रक्रियावाक्ये कुमा-
र्योरगारमित्यादावुपादीयत एव द्विवचनादीति न कश्चिद् विरोधः ।। 124 ।।
अनेनैव च न्यायेनेदमपि सिद्धमित्याह--
शौर्पिके मासजाते च परिमाणं स्वभावतः ।
उपाधिभूतामाश्रित्य सङ्ख्यां भेदेन वर्तते ।। 125 ।।
शर्पेण क्रीतो, मासो जातस्य यस्य सः--शौर्पिको, मासजात इत्यत्र यद्यभेदैकत्व-
सङ्ख्या स्वात्मान्तर्गतसङ्ख्याविशेषानुपादनेन वर्तेत, तदा अनियतसङ्ख्यत्वे विशेषण-स्य क्रीतजातयोर्नियतमूल्यावगमो वयोविशेषावगतिश्च न स्यात् । परिच्छेदार्थं च
शौर्पिकादयः शब्दाः प्रयुज्यन्ते । तत्र च मूलबाधाया अन्याय्यत्वात्, प्रयोगस्वभा-
वादर्थानामात्मभूतं प्राथमकल्पिकं चैकत्वं सङ्ख्याभेदं प्रातिपदिकार्थावच्छेदकमुपा-
दाय परिमाणं वृत्तिमनुभवति ।। 125 ।।
एतदेवाह--
वयस्विनि परिच्छेदः क्रीते चापि न गम्यते ।
इष्टो भेदादृते तत्र परिमाणमनर्थकम् ।। 126 ।।
इष्टोऽभिमतः परिच्छेदो भेदमेकत्वसङ्ख्यालक्षणमन्तरेण क्रीतजातयोर्न गम्यत
इति तत्रैकत्वानुपादाने शूर्पमासयोः प्रयोगो निष्फलः स्यात् ।
ननु चात्र अशूर्पव्यावृत्तये सप्तरात्रादिव्यवच्छेदाय च प्रयोगस्य साफल्यं
स्यात् । नैतदस्ति । अनियतसङ्ख्यत्वे परिमाणस्य परिमेयविशेषो नावधार्यते ।
तद्विशेषावधारणायैव च प्रयोगः परिमाणशब्दानाम् । ते च स्वभावादेव परिच्छिन्न-
रूपार्थाभिधायिनः । ततश्च प्रयोगप्रामाण्यादुपसर्जनार्थस्यैकत्वविशिष्टस्यात्राव-
गतिः, परिमाणशब्दैरक्तपरिमाणस्यार्थस्याभिधानात् ।। 126 ।।
अत एव--
भिन्नस्याभेदवचनात् प्रस्थादिभ्यः शसो विधिः ।
तद्धर्मत्वादभेदात् तु घटादिभ्यो न दृश्यते ।। 127 ।।
सङेख्यैकवचनाद् वीप्सायां शसो विधानेऽन्वर्थत्वादेकवचनशब्दस्य प्रातिपदि-
कादेकत्वसङ्ख्यावच्छिन्नार्थाभिधायिनः शस् , न त्वेकवचनान्तात् । एवञ्च वृत्तौ
भिन्नस्य द्रव्यस्य, न तु जातेः;अभेदो यदेकत्वं तस्याभिधानात् परिमाणशब्देभ्यः
प्रस्थादिभ्यः शस्प्रत्ययो भवति । ते हि शब्दशक्तिस्वाभाव्यादेकत्वसङ्ख्यापरिच्छि-
न्नं स्वार्थमाचक्षत इति तद्धर्मत्वादुक्तपरिमाणार्थाभिधायित्वाद् वृत्तावभेदैकत्व-प्रादुर्भावेऽप्येकत्वावगमाच्छसुत्पत्तिः, प्रस्थशो ददाति, खारिशो ददातीति । घटा-
दिशब्देभ्यस्तु न भवति शस्, ते हि जातिशब्दः ।
तथा च जात्यभेदादभेदैकत्वसंख्यायोग इति न ते भिन्नस्य द्रव्यस्याभेदमभिदधति,
अपि तु जातेः । सा च व्यक्तिभेदेऽपि स्थितेत्यनियतसङ्ख्याश्रयजातिवाचित्वे
घटादिशब्दानां वृत्तौ नियमेन व्यक्त्योकत्वान्तर्भावनाशक्तत्वान्नैकार्थाभिधाननि-
मित्तः प्रत्ययः । दृशिग्रहणं चात्र प्रयोगानिसरणार्थम् । घटशे ददाति इति प्रयोगो नदृश्यते ।
यत्र तु जातिशब्दानामपि व्यक्तिविशेषप्रत्यायनपरतया प्रयोगः, तत्रैकत्वाद्यवगम-
दर्शनाद् भवत्येव शस् ।
तद् यथा--`यो वा इमां वाचं वर्णशः पदश अक्षरशो वापि दधाति, स आर्त्विजीनो
भवति' (म.भा.पस्पश.) इति । अत्र हि वर्णसमदायरूपत्वात् पदस्य वर्णेभ्यो भेदेन
निर्देशसामर्थ्यादेकव्यक्तिविवक्षा निश्चीयते । तदेवमभेदैकत्वसङ्ख्याभ्युपगमे यो
विरोध उद्भावितः, स निवारितः । सर्वसंङ्ख्याभेदसंसर्गस्वाभावायां तस्यां यथानि-
बन्धनं विशेषाविर्भावनस्योपपत्तेरिति युक्तिसिद्धत्वादेतदनुसारेण सूत्रवार्तिकवच-
नानि गमयितव्यानि ।। 127 ।।
इदानीम्`तद्रपेऽवयवे वृत्तौ संख्याभेदो निवर्तते' (वा.प.वृत्ति 100 ) इति ये
भेदापोहलक्षणामभेदैकत्वसंख्यां मन्यन्ते, तन्मतेऽपि विरोधपरिहारायोपक्रमते--
श्रूयते वचनं यत्र भावस्तत्र विशिष्यते ।
निवर्तते यद् वचनं तस्य भोवो न विद्यते ।। 128 ।।
यत्र वाक्ये एकवचनादि श्रूयते, तत्र भावः संख्यालक्षणो धर्मो विशिष्यते,
अन्यस्माद् व्यावृत्तौ विशिष्योऽवसीयते ।
यत्तु वृत्तावेकवचनादि निवर्ततेऽपैति, तस्य भावः स एव संख्यालक्षणो धर्मः
प्रत्याय्यो न विद्यते नास्ति । तदभावादेव हि तत्र तद्वचनस्य निवृत्तिः ।। 128 ।।
सैव तु स्वाभाविकी लुकान्वाख्यायते प्रत्ययलक्षणप्रसिद्धय इत्याह--
कार्यं सत्ताश्रयं शास्त्रदप्रवृत्तिरदर्शनम् ।
वाक्ये दृष्टं यदत्यन्तमभावस्तस्य वृत्तिषु ।। 129 ।।
इह वृत्तौ विभक्तीनामर्थाभावादेवाप्रवृत्तिरनुत्पत्तिः प्रागभाव एवा-
दर्शनम् । तदाश्रित्य प्रत्ययसत्ताश्रयं कार्यं शास्त्रात् `प्रत्ययलोपे प्रत्ययल-
क्षणम्'(पा.1-1-62)इत्यस्मात् प्रवर्तयितुं लुक्छास्त्रमारभ्यते । तवकादिरादेशः
प्रगृह्यसंज्ञा च सति प्रत्ययेऽनुशिष्टेर्वृत्तौ संख्याविशेषाभावादसति प्रत्यये न स्यादिति प्रक्रियायां प्रत्यय उत्पाद्यते । तस्य प्रसक्तस्यादर्शनं लुगिति प्रत्य-यलक्षणेन तत्सिद्धिः ।
कथमप्रवृत्तिः प्रागभावोऽदर्शनमिति चेद्, वाक्ये दृष्टस्य वृत्तावदर्शनाद् वचन-स्य । वृत्तिवाक्ययोर्हि शब्दान्तरत्वेनात्यन्तं भेदादर्थाभावादेवाप्रवर्तनं वृत्तौवचनस्य, न तु प्रध्वंसभाव इत्यर्थः ।। 129 ।।
यद्येवं सुपामनुत्पादनाद् वचनविशेषाक्श्रया विधयः प्रत्ययलक्षणेनापि कथं
लभ्यन्त इत्यत आह--
संज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् ।
क्षूयमाणं तु वचनं विशिष्टमुपलभ्यते ।। 130 ।।
सर्वस्य प्रत्ययस्य स्वविषयादन्यत्रात्यन्तादर्शनमित्यतिप्रसङ्गनिवारणाय लोप-
संज्ञाया विषयनियमार्थम् "सिद्धं तु प्रसक्तादर्शनस्य लोपसंज्ञित्वात्" इत्युक्तम्। यद्यपि चात्रार्थाभावाच्छास्त्रीयापि नास्ति प्राप्तिः, तथापि स्वाभाविक एवाप्र-योगो लुका ज्ञाप्यते । न हि संभवदर्थः शब्दः शक्यते वचनेन निवर्तयितुम् ।
अप्राप्त्यनुमानमेव हि बाधा ।
एवञ्च लुक्छास्त्रैणैवात्र प्रसक्तोराख्यानात् प्रक्रियायां सुप उत्पन्ना निव-
र्त्यन्ते । प्रयोगसमवायिनि हि वाक्ये श्रूयन्ते नियताः सुपः । तच्चान्यदेव
वृत्तेः । तत्सदृशं तु प्रक्रियावाक्यं वृत्तिप्रकृतिभूतं कल्प्यते ।
तत्र च सुपः प्रयोगसमवायिवाक्यानुसारेणैव कल्प्यन्ते तथा च तत्र प्रक्रिया-
वाक्ये विशिष्टमेव वचनं श्रूयते ।
तत्र हि यदुपलभ्यते वचनं तच्छतत्वादेव विशिष्टं विज्ञायते । ततश्च कारणानु-
रूपत्वात् कार्यस्य वृत्तावपि लुका ज्ञाप्यमानं विशिष्टमेव वचनं प्रत्ययलक्षणेन
स्वकार्यं प्रयुङ्क्त इति राजपुरुषादौ वचनविशेषकार्यस्याभावाद् वचनमात्राश्रयं
नलोपादिकार्यं प्रवर्तते ।
तथा च तत्र भूतपूर्वो वचनभेदो नावगम्यत इति संख्याविशेषावगमाभावः ।
तवकादयस्त्वादेशाः प्रगृह्यसंज्ञा च प्रत्ययलक्षणकार्यं वचनविशेषप्रतिबद्धमिति तत्रवचनभेदस्य भूतपूर्वस्यावगमाद् भवति तन्निबन्धनः संख्याविशेषावसायः ।
"श्रयते वचनं यत्र भावस्तत्र विशिष्यते"(वा.प. 3वृ.130)
इति वचनभेदनिबन्धनो हि संख्याभेदावगमः ।
स चात्रादेशादिनानुमितसन्निधान इति कथं स्ववाच्यं न प्रत्याययेदित्यर्थः ।
तदेवं पूर्वमादेशादेरेवाभेदैकत्वसंख्यान्तर्भूतस्य संख्याविशेषस्यावगम इति
समर्थितम् ।
इह त्वसत्यपि संख्याविशेषान्तर्भावेऽभेदैकत्वसंख्यामादेशादिना विशिष्ट-
प्रकृत्यानुमाने स्ववाचकद्वारेणैव संख्याभेदप्रतिपत्तिरिति भेदः ।। 130 ।।
अत्र तु दर्शने दोषमाह--
अभावो वा लुको यत्र रूपवान् वा विधीयते ।
व्यभिचारान्निमित्तस्य तत्रासाधुः प्रसज्यते ।। 131 ।।
प्रक्रियावाक्ये यादृशं विशिष्टं वचनम्, तादृश एव प्रसक्तस्य वृत्तौलुगित्युच्-
यते । तथा च यत्र लुकोऽभावः "पञ्चम्याः स्तोकादिभ्यः" (पा.6-3-2) इत्यादौ,
तत्र द्वित्वबहुत्वयोः `स्तोकाभ्यां मुक्तः'`स्तोकेभ्यो मुक्तः' इति प्राप्नोति ।
इष्यते च स्तोकान्मुक्त इत्येवेत्यलुक एकवद्भावो वक्तव्य एव स्यात् । स चाशिष्य
इत्युक्त इति विरोधः । एकत्वं हि वृत्तौ प्रतीयते । `स्तोकाभ्यां मुक्तः' इत्यादौ
चैकत्वाख्यस्य वृत्तिनिमित्तस्य वचनान्तरश्रुतौ परित्यागाद् द्वित्वादावपशब्दोऽयं
स्तोकान्मुक्त इति प्राप्नोति ।
तथा रूपवान् भावात्मकस्तवकाद्यादेशोऽप्येकार्थत्वे विधीयते । अन्वर्थो हि
तत्रैकवचनशब्दः । तत्र यदि वृत्तौ भेदापोहलक्षणाभेदैकत्वसंख्याभ्युपगम्यते,
ततो द्वयादिप्रतिपक्षभूतस्यैकत्वलक्षणस्यादेशनिबन्धनस्य वृत्तौ परित्यागात्
तवकादिस्तत्रासाधुरप्रयोगार्ह एव स्यात् ।। 131 ।।
तस्मादयमत्र मतद्वयेऽपि परमार्थरूपः सिद्धान्त इत्याह--
भेदः संख्या विशेषोवाव्याख्यातो वृत्तिवाक्ययोः ।
सर्वत्रैव विशेषस्तु नावश्यं तादृशो भवेत् ।। 132 ।।
किमनेन दुःसमर्थेनाभेदैकत्वेनाभ्युपगतेन ? शब्दानामभिधानशक्तयो हि विचित्राः ।
ता विशेषेणानुसर्तुमशक्याः किञ्चित् सामान्यमाश्रित्य ज्ञाप्यन्ते ।
तथा च वृत्तावेकार्थीभावकृतं वाक्याद् विशेषं दर्शयता भाष्यकारेण यः
संख्याभेदावगमलक्षणो विशेषो वृत्तौ व्याख्यातो वाक्ये च भेदः संख्याविशेष इति,
सोऽभेदेन वृत्तिपदानि प्रातिस्विकभेदानाश्रयेणोपादाय बोद्धव्यः ।
तथाहि--न सर्वत्र वत्तिपदे संख्याविशेषाप्रतीतिः, शौर्पिकमासजाततावकीनादौ
विशेषप्रतीतेः । अस्ति तु राजपुरुषादावविशेष इत्येतावता वाक्याद् भिन्ना वृत्तिर्ल-क्षिता भवत्येव । तद्यथा क्रियावद् गुणवत् समवायिकारणं द्रव्यमित्युक्ते गगनादीनां क्रियावत्त्वाभावेऽपि गुणादिभ्यो द्रव्यस्य भेदः सिध्यत्येव । तेषां कदाचिदपि
क्रियावत्त्वाभावात् । द्रव्यस्य तु कस्यचित् कदाचित् तथाभूतत्वात् ।
एवं वाक्ये सर्वत्रैव संख्याभेदप्रतीतेः क्वचित् तद्रूपापि वृत्तिस्ततोऽन्या
भवत्येव ज्ञापिता । सर्वं हि लक्षणं सामान्येनैव प्रवर्तते, प्रतिव्यक्तयशक्यत्वात्तत्प्रणयनस्य । देशकालस्वभावभेदेन विचित्रत्वान्मात्राणाम्, विशेषतः शब्दानामभिधान-शक्तिनियमस्यायोगादिति सति निबन्धने तावकीनादौ संख्याविशेषप्रतिपत्तिर्भवन्ती
लक्षणवयभिचाराय न प्रभवति, सामान्ये लक्षणस्य प्रवृत्तेः सकृत्प्रवृत्तावपि चरिता-
र्थत्वादित्यर्थः ।। 132 ।।
यथा च वृत्तौ संख्याविशेषः क्वचिन्न प्रतीयते, तथा लिङ्गविशेषोऽपि । ततश्च
कुक्कुटयादीनामण्डादिषु पुंवद्भावः "न वा अस्त्रीपूर्वपदस्य विवक्षितत्वात्"
(भा.वा.6-342) इति प्रत्याख्यातः ।
तद् व्याचष्टे--
जातेश्च भेदहेतुत्वान्न लिङ्गेन विशेष्यते ।
प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ।। 133 ।।
`मृग्दुग्धम्, कुक्कुटाण्डम्, छागमांसम्'त्यादौ दुग्धादेरुत्तरपदार्थस्य प्रधान-स्यावच्छेदाय मृगादिपूर्वपदार्थो विशेषणमुपादीयत इति जातिपरायां चोदनायां लिङ्ग-
विशेषस्याविवक्षेति `मृगस्य दुग्धम्' इत्यादिरेव विग्रहः । जात्यन्तरनिवृत्तिपरायांचोदनायां मृगादयः शब्दा नियतजातिवाचका निरस्तलिङ्गभेदा एव प्रभवन्ति
विवक्षितेनार्थेन प्रधानमवच्छेत्तुम् ।
तदेतदुच्यते--"अस्त्री पूर्वपदस्य विवक्षितत्वात् " इति । अस्त्र्यर्थत्वे हि
पूर्वपदस्य किमन्यज्जातिविवक्षायां स्यात् ? तत्राण्डादीनां स्त्रीपुंससाधारण्यात्
कुक्कुटस्याण्डम्,छागस्य मांसमिति कुक्कुटादिना विशेषणमनर्थकम्, अव्यभिचारात् ।
यदा त्वन्यजातिनिवृत्तिरेव विशेषणमभिसंहितम्, तदा वाक्यमेव भवति, न समासः ।
ततो विशेषस्यानिश्चयात् । निवृत्ते हि स्त्रीप्रत्यये स्त्रीत्वस्यानभिव्यक्तेः सैवसामान्यविवक्षा पुंवद्वचनेन सूच्यते ।
क्वचित् तु सर्वथैव लिङ्गविशेषयोगो भवत्युपसर्जनार्थस्य । तद् यथा गार्गीपुत्र-
छागलीमूत्रमहिषीमूवादिषु । पुत्रस्य हि निन्दाप्रशंषापरतया मूत्रविशेषस्य चार्थ-
क्रियाभेदकारित्वात् स्त्रियैव विशेषणं युज्यते ।
तथा चैवमादौ न सानुपूर्वी या कुक्कुटयादिषु (कुक्कुटाण्डादिषु) । तत्र हि
लिङ्गसामान्ययुक्तः पूर्वपदार्थः ।
अत एवादिशब्देनैवंभूता जातिपरा एव कुक्कुटीप्रकारा अभिमताः । न तु यत्र
व्यक्तिविवक्षा प्रयोजनवती गार्गीपुत्रादौ, तेऽपि गार्गीप्रभृतयोऽत्र गृह्यन्त
इति प्रत्युदाहरणमत्रैते भवन्ति । इत्थं च कृत्वा संख्याया इव लिङ्गस्यापि
विषयनियमेन विवक्षाऽविवक्षे विज्ञेये ।। 133 ।।
यतश्च जातिपरत्वे लिङ्गसंख्याभेदस्तिरोधीयते, अत एव--
अभेदे लिङ्गसंख्याभ्यां योगाच्छुक्लं पटाइति ।
प्रसक्ते शास्त्रमारब्धं सिद्धये लिङ्गसंख्ययोः ।। 134 ।।
इह पदावधिकेऽन्वाख्याने पदान्तरानपेक्षया पदे संस्क्रियमाणे नियतावाक्यगत-
विशेषानवधारणात् सामान्ये स्वार्थमात्रे लिङ्गसर्वनामनपुंसकयोगात् सङ्खयासर्वनामा-
भेदैकत्वयोगाच्च शुक्लमिति पदे स्थिते, पटा इति पदान्तरसमन्वयोपजनेऽप्यभि-
निर्वृत्तस्यान्तरङ्गस्य संस्कारस्यानिवृत्तेः पटा इत्यसमन्वितार्थात्वादसमानाधिक-
रणेऽपि प्रयोगे प्राप्ते "विशेषणानां चाजातेः" (पा.1-2-52) इति विशिष्टलिङ्गसङ्-
खयासिद्धयर्थमारभ्यते शास्त्रम् ।
लुबन्तविशेषणानां हि लुबर्थसमानाधिकरणत्वात् "लुपि युक्तवद्" (पा.1-2-51)
इत्यानेनैव लुबर्थगतलिङ्गसङ्खययोः सिद्धत्वाद् "गुणवचनानामाश्रयतो लिङ्गवचनानि"
(म.भा.1/2/51)इत्यस्मिन्नर्थे सूत्रमवस्थापितं भाष्ये । विशेषणानां तैर्युक्तस्येव व्यक्तिवचने भवत इति सूत्रार्थः ।। 134 ।।
तत्र विशेषणशब्देन सामान्यवाचिना गुण एव कथमभिधीयत इत्याह--
परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते ।
गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ।। 135 ।।
भेदकं विशेषणमिति यद्यपि प्रतीतम्, तथापीह परतन्त्रमात्रं विवक्षितम् ।
तथाहि--तद्धितग्रहणसंबद्धस्य युक्तवदित्यस्यानुवृत्तेस्तद्धितार्थयोग एकार्थीभावे
तद्धितवृत्तिषु यो भावः श्रूयते, अन्यं तद्धितार्थमात्मोपधानेनोपकुर्वन् स गुणोऽ-
त्र विशेषणमित्युक्तः । स हि मतुब्लोपात्, मत्वर्थीयाकारान्ततया वा द्रव्यसामान्ये प्रक्रान्तः, तदाश्रितत्वेनात्यपारतन्त्र्याद् विशेषणम् ।
यस्तु व्यधिकरणः पटस्य शुक्ल इति, स गुणमात्रप्रतिष्ठो द्रव्येण विशेष्य-
माणत्वाद् विशेषणमेव न भवति ।
पुंलिङ्गे च गुणे एकत्र तस्य प्रथमत एव प्राप्तसंस्कारत्वान्न लिङ्गसङ्खयाभेदा-
काङ्क्षा । द्रव्यसमानाधिकरणस्य तु द्रव्यसामान्ये नपुंसकैकत्वयोगिनि स्थितस्य
द्रव्यविशेषलक्षणाश्रयधर्माकाङ्क्षिणो युक्ता विशिष्टद्रव्यलिङ्गवचनप्रतिपत्तिः ।
तस्माद् गुणमुक्तवान् गुणवचनः शुक्लादिरत्र सूत्रे विशेषणमुच्यते ।
यद्यपि चास्य लुप्तप्रत्ययस्य विशेष्यवचनता, तथापि विशेष्यसामान्यवृत्तित्वाद्
विशेषाकाङ्क्षित्वात् तं प्रति विशेषणत्वं भवत्येव ।। 135 ।।
वाक्यावधिके तर्ह्यन्वाख्याने पदान्तरापेक्षया शुक्लो गुणोऽस्य पटस्यास्तीत्यु-क्रम एव विशिष्टलिङ्गसंख्यासिद्धौ किमर्थं सूत्रमित्याशङ्कयाह--
शब्दान्तरत्वाद् वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तेरभिन्नरूपत्वात् तेषु वृत्तिर्न विद्यते ।। 136 ।।
शुक्लो गुणोऽस्य पटस्यास्तीति यदिदं विशेषवाक्यम्, तन्मतुब्लोपात्, मत्वर्थीया-
कारान्ततया वा या वृत्तिस्तस्या भिन्नरूपमेवेति प्रागेव प्रतिपादितम् । ततश्च
वाक्यगता विशेषा वृत्तौ नान्तर्भवन्ति । अभिन्नरूपा हि वृत्तिः पटादिविशेषेष्विति
तस्य (तस्यां) नियतवाक्यगतविशेषाभिव्यक्तिर्नास्तीति सर्वथा सामान्यापेक्षमेव
वृत्तिपदानुशासनमिति विशेषलिङ्गसंख्यासिद्धयर्थमिदमारम्भणीयमेव
सूत्रम् ।। 136 ।।
नन्वेमपि नियतविशेषनिष्ठस्यैव सामान्यस्य प्रतिपाद्यत्वादनिर्धारितोऽपि विशेषो
भविष्यत्यन्वाख्याननिमित्तम्, समन्वयान्यथानुपपत्त्या वा बहिरङ्गमप्याश्रयलिङ्गसं-
ख्यं प्रतीक्षिष्यते । कथमन्यथा सत्यपि वचने तत् सिध्येदित्याशङ्कयाह--
रूपाच्च शब्दसंस्कारः सामान्यविषयो यतः ।
तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते ।। 137 ।।
सलिङ्गं च ससङ्ख्यं च ततो द्रव्याभिधायिना ।
सम्बध्यते पदं तत्र तयोर्भिन्ना श्रुतिर्भवेत् ।। 138 ।।
इह योऽर्थः शब्दात् प्रतीयते, स एव संस्कारनिमित्तम् । अस्माच्च वृत्तिपदाद-
भिन्नरूपात् सर्वविशेषसाधारणाच्छ्रु तिसामान्यस्वभावादर्थसामान्यं प्रतीयते, न तु
विशेषः ।
तथा च विवक्षितस्यापि विशेषस्याप्रतीतस्यासत्समत्वात् सामान्यनिबन्धनमेवा-
न्वाख्यानं युक्तमिति सामान्याश्रययोर्लिङ्गसङ्खयोः प्राप्तिः ।। 137,138 ।।
तयोश्चान्तरङ्गयोः कृतयोर्विशेषसन्निधानेऽपि त्यागाभावाद् व्यधिकरणत्वा-
दसंबन्धे वचनानुसारिणं प्रति प्राप्ते--
भाविनो बहिरङ्गस्य वचनादाश्रयस्य ये ।
लिङ्गसङ्ख्ये गुणानां ते सूत्रेण प्रतिपादिते ।। 139 ।।
वाक्ये पदानां प्रयोगयौगपद्याभावाद् भाविग्रहणमसमानकालताप्रतिपादनपरम्,
पूर्वप्रतिपादनेऽप्याश्रयस्य पदान्तरसंस्कारेऽनपेक्षणात् । अत एव बहिरङ्गत्वमनपे-
क्षणादाश्रयस्याश्रितसंस्कारे । एवमपि वचनसामर्थ्याद् बहिरङ्गोऽप्यर्थोऽपेक्ष्यत इति विशिष्टलिङ्गवचनसिद्धिः "विशेषणानां"(पा.1-2-52) इति
सूत्रारम्भात् ।। 139 ।।
यदा तर्हि प्रथमत एव तद्वितवाच्यत्वं विशेष्यस्याभिधित्सितम्, तदा किं
वचनेनेत्यत आह--
विशेषवृत्तेरपि च रूपाभेदादलक्षितः ।
यस्माद् विशेषस्तेनात्र भेदकार्यं न कल्पते ।। 140 ।।
विवक्षितेऽपि विशेषे वृत्तिपदस्य साधारण्याद् यदनवधारणं तस्य तत इत्यशब्दा-
र्थोऽन्वाख्याननिमित्तं न भवति विशेष इत्युक्तमेवैतत् ।। 140 ।।
ननु च सामान्यस्य विशेषेषु प्रतिष्ठानात् तन्निबन्धनं कार्यं सामान्योपक्रमेऽप्-
भिधानेऽनिवार्यं, निर्विशेषस्य सामान्यस्याभावादित्याशङ्कयाह--
विशेष एव सामान्यं विशेषाद् भिद्यते यतः ।
अभेदो हि विशेषाणामाश्रितो विनिवर्तकः ।। 141 ।।
इह व्यावृत्तिर्विशेषलक्षणम् । परस्परं व्यावर्तमाना हि विशेषाः कथ्यन्ते । तथा च
सामान्यमप्यभेदेनाश्रितं विशेषाणां निवर्तकत्वादविशेषो भवति । सामान्यविवक्षायां हिनियता विशेषा व्यावर्तिता भवन्ति ।
तत्र यथा नियतो विशेषः समाश्रितो विशेषान्तरं निवर्तयति, तथा सामान्यमपि
विशेषानिति सोऽपि विशेषः । तदुक्तम् "सामान्यमपि यथा विशेषस्तद्वत"
(म.भा.1/2/52) इति ।
एवञ्च पदान्तरानपेक्षेऽनुशासनेऽभेदः सामान्यमाश्रितं भेदानां निवर्तकमिति कथं
विशेषगतलिङ्गसङ्खयालाभः ।। 141 ।।
ननु चाभेदस्य भेदनिवारणे तैरसावुत्तरकालं न संपद्येत, स्वानुरूपप्रत्ययजननं
च तेषु, अतो न स्यादित्याशङ्कयाह--
यद् यदाश्रीयते तत् तदन्यस्य विनिवर्तकम् ।
भेदाभेदविभागस्तु सामान्ये न निरूप्यते ।। 142 ।।
अन्यव्यवच्छेदफलत्वाच्छब्दप्रयोगस्य विशेषवत् सामान्यमपि नियतविशेषव्यवच्छे-
दमाश्रितं सत् करोत्येवेति वीप्सया व्यवच्छेदकत्वं विशेषलक्षणं सामान्यस्यापि
योजितम् ।
एवमपि च सामान्यं भेद इति नोच्यते, सामान्यान्तराणामपाकरणेन
स्वाश्रयेष्वनुवृत्तेः ।
नाप्यभेद इति शक्यते निरूपयितुम्, नियतविशेषाणां सामान्यान्तराणां च
व्यावर्तकत्वात् ।
इत्थं च यथा गौरिति मुख्येऽर्थेऽन्वाख्यातं सामानाधिकरण्यान्यथानुपपत्त्या
वाहीकं गोत्वसमारोपेणाभिधत्ते, तथा शुक्लादिशब्दाः सामान्ये मुख्येऽर्थे संस्कृता
विशेषैः पदान्तरोपादानैः संयुज्येरन्निति तयोर्भिन्ना श्रुतिर्भवेदिति बहिरङ्गाश्र-
यगतलिङ्गसंख्यासिद्धयर्थं सूत्रमित्येव स्थितम् ।। 142 ।।
ननु च पदवाच्यानामर्थानां वस्तूनामिव न किञ्चिदन्वयि रूपं दृश्यते,
तत् किमेषां सामान्यमित्याशङ्कयाह--
अपोद्धारश्च सामान्यमिति तस्योरकारिणः ।
निमित्तावस्थमेवातस्तत् स्वधर्मेण गृह्यते ।। 143 ।।
यद्यपि स्थितलक्षणार्थविशेषविशयं वाक्यमेव वाचकम्, तथापि तस्मात्
संसर्गरूपात् पदानामपोद्ध्रियमाणानां किञ्चिदर्थलेशलक्षणं सामान्यमप्यपोद्धा-
रानुगुणं वाक्यार्थानुगुण्येनापोद्धारात् तदुपकारि व्यवतिषठते । अपोद्ध्रिते
संसर्गात् पृथक्क्रियते इत्यपोद्धारः सामान्यमिति ।
एवमपोद्ध्रियमाणत्वेन तस्य सामान्यस्योपकारिणो वाक्यार्थभूतविशेषा-
वगमोपायभूतस्येत्यर्थः । केवलाद्धयापोद्धृतात् पदादर्थसामान्यविषया प्रतिभा
जायत इति तद्विषयः सामान्यं न विशेषः ।
तथाहि निमित्ते साकाङ्क्षरूपेऽवस्थितिर्यस्य, न विशेषात्मनि, तत् स्वेनात्मीयेन
स्वभावेन निश्चीयते न भेदरूपेण, तस्यानियत्सयोपप्लवात् । अतश्च न
विशेषलिङ्गसंख्याभ्यां संबध्यते पदार्थः ।
ननु च नियतवाक्यगतत्वात् पदानामपोद्धारेऽपि पदाभिधेया विशेषा एवेति
किमन्यत् सामान्यं स्यादित्याशङ्कयाह--
अनिर्धारितधर्मत्वाद् भेदा एव विकल्पिताः ।
निमित्तैर्व्यपदिश्यन्ते सामान्याख्याविशेषिताः ।। 144 ।।
पदानां विशेषाभिधानासामार्थ्यादनवगतनियतविशेषरूपा भेदा एव तेभ्यः प्रतीयमानाः
सामान्यमित्यनया संज्ञया कल्पनया व्यवस्थापिताः, न विशेषसमाख्यया । यतश्च
जातिगुणक्रियालक्षणैर्निमित्तैरुपाधिभिरवच्छिन्ना `गौः शुक्लो गच्छति' इत्यादिरूपेणते व्यपदिश्यन्ते, ततो भेदा एवैवंरूपा इति निश्चीयन्ते ।
यद्यपि हि पदैर्व्यवृत्तरूपोऽर्थो नाभिधीयते, तथाप्युपाधिरूपोरधानेनार्थाभिधा-
नाद् भेदा एवाभिहिताः, निरुपाधेः सर्वतोऽव्यावृत्तस्याव्यवहार्यत्वात् ।
दूरादपि रूपमात्रेण व्यक्तौ नैवावसीयते । तस्मात् सर्वस्या वृत्तेः प्रतीतर्भेद-
निष्ठत्वात् पदार्थानां विशेषस्य पदान्तरगम्यस्यानासादनमात्रात् प्रतीतिः सामान्य
स्येति व्यवस्थाप्यते ।
तत्त्वदृष्टया तु तद्वाक्योपादानस्य विशेषस्यानासादनादाकाङ्क्षणाच्च विप्लुत-
रूपत्वादसत्यैव पदार्थानां प्रतीतिः । उपायमात्रं तु सा वाक्यार्थप्रतीताविति
निर्णीतचरमेतत् ।। 144 ।।
तदेवं `विशेषणानाम्' (पा.1/2/52) इत्यारम्भः समर्थितः । `स्वाभाविकमेतत्'
इत्येवं तस्य भाष्ये प्रत्याख्यानमुक्तम् । तदुपपादयितुमाह--
यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः ।
प्रयोगेष्वेव साधुत्वं वाक्ये प्रक्रम्यते तदा ।। 145 ।।
प्रयोगेष्वेव प्रयुज्यमानेष्वेव पदान्तरेषु वाक्यस्थानां वाक्यावधिकमन्वाख्यानं
यदा प्रस्तूयते, तदोपक्रम एवाश्रयविशेषसामानाधिकरण्यान्यथानुपपत्त्या सोऽयमित्यभि-संबन्धाच्छुक्लादीनां विशेषलिङ्गसंख्यायोग इति स्वाभाविकमेतादित्युच्यते ।
अत्र हि दर्शने नास्तयेतद्रूपाभेदादलक्षितो विशेषः । न चाप्यन्तरङ्गबहिरङ्गभावः
कश्चित्, उपक्रम एवाश्रयविशेषस्यापेक्षितत्वात् । तथाचान्तरङ्गेऽर्थसामान्ये
संस्कारो पर्यवस्यति ।
तदेवं पूर्वं विच्छेदोपक्रमेऽन्वाख्याने गुणगुणिनोर्भेदमाश्रित्य तद्धितप्रयोगेसत्याश्रयसामान्ये वृत्तेरन्तरङ्गो लिङ्गसंख्यासर्वनामयोग उक्तः ।
इदानीं तु सोऽयमित्यभिसंबन्धाश्रयेणाभेदमाश्रित्य प्रथमत एव नियत-
वाक्योपात्तविशेषवृत्तिता कथिता । तथा चात्र भेदसंबन्धाभावान्मतुपो लुगकारो
वा न विधायत इति नास्त्यभिन्नरूपत्वं वृत्तेः, भेदसंबन्धविवक्षायामेव
तद्विधानात् ।। 145 ।।
नन्वेवमभेदविवक्षव न्याय्या, अन्यथा यथा भेदसंबन्धे गुणवचनेभ्यो मतुपो
लुग् विधीयते, तथा जात्यापि योगे विवक्षिते जातिशब्देभ्योऽपि कस्मात् स न
विधीयत इत्याशङ्य जातिगुणयोर्द्रव्यसमवेतत्वाविशेषेऽप्यवान्तरविशेषप्रतिपादनायाह-- तत्र प्रयोगोऽनियतो गुणानामाश्रयैः सह ।
सामान्यं यत् तदत्यन्तं तत्रैव समवस्थितम् ।। 146 ।।
शुक्लादयो गुणाः समुपजाते द्रव्ये निमित्तवशादनियमेन समवयन्ति, यावदाश्रयं
च नावतिष्ठन्त इत्यनियतः प्रयोगो भेदेनाभेदेन च पटस्य शुक्ल, शुक्लः पट इति ।
जातिस्तूत्पत्तिप्रभृत्याविनादव्यभिचरितसंबन्धा द्रव्येणेति तदभेदेन सोऽयमिति
संबन्धाद् व्यवह्रियते सदैव, न तु कदाचिदपि भेदेन पटस्य शुक्ल इत्यादिवदिति
गुणशब्दा एव मतुब्लोपं भेदसंबन्धविवक्षायां प्रयोजयन्तीत्यर्थः ।
तथा च विच्छेदोपक्रमे सूत्रारम्भः समर्थितः ।। 146 ।।
एतदेव प्रकटयति--
न गोत्वं शाबलेयस्य गौरिति व्यपदिश्यते ।
शुक्लत्वं बाहुलेयस्य शुक्ल इत्यपदिश्यते ।। 147 ।।
भावप्रत्ययमन्तरेण व्यक्तेर्निष्कृष्टं सामान्यं नाभिधीयते जातावपि पदार्थ इति
सर्वथा व्यक्तिरूपतां प्राप्तमभेदेन तदभिधीयते । सोऽयमिति संबन्धाद्धि व्यक्तिरू-
पतां प्राप्तं सामान्यं तथैव निर्देशार्हम् ।
यदा तु व्यक्तेर्निष्कृष्टरूपं विवक्षितम्, तदा भानप्रत्ययान्तवाच्यं शाबलेयस्य
गोत्वमिति । जातावपि हि पदार्थे द्रव्याभेदं गताया जातेरभिधानाद् गोर्गोत्वमिति
प्रतीतिर्भिन्ना । गुणस्तु भेदेनापि कथ्यन्त इत्युक्तमेव । ततश्च तेभ्यो मतुपो
लुगुच्यते ।। 147 ।।
अन्यथा,
व्यतिरेके च सत्येवं मतुपः श्रवणं भवेत् ।
लुगन्वाख्यायते तस्माद् रसादिभ्यश्च नास्ति सः ।। 148 ।।
`पटस्य शुक्लः, इति भेदे सति संबन्धिवृत्तौ मत्वर्थीयप्रत्ययेनासावुच्येत इति
तत्रापि शुक्ल इत्येव यथा स्यादिति मतुपो लुगुच्यते । `अव्यतिरेकात् सिद्धमिति
चेद् दृष्टो व्यतिरेकः' इति हि भेदसंबन्ध एव लुक् समर्थितः । जातेस्तु नास्ति
भेदसंबन्ध इति तद्वचनाद् मतुब् नोत्पद्यते । अयमेव च विषयविभागो लुग्द्वारेणा-
ख्यायते अभिधानशक्तिनियमनिमित्तः । ततश्च यथा श्रूयमाणे प्रत्यये प्रकृत्यर्थाव-
च्छिन्नः प्रत्ययार्थोऽभिधीयते, तथा लुप्तेऽपि शुक्लादावित्युक्तं भवति । रसादि-
भ्यश्च स लुङ् नास्ति ।। 148 ।।
न हि ते मत्वर्थीयरहिताः स्वाश्रयमभिधातुं शक्नुवन्तीत्याह--
यत्सोऽयमिति संबन्धाद्रूपाभेदेन वर्तते ।
शुक्लादिवत् ततो लोपस्तद्रसादौ न विद्यते ।। 149 ।।
वचनग्रहणसामर्थ्याद् ये गुणमुक्त्वा तद्वति द्रव्ये सोऽयमिति संबन्धेन
यादृशा एव गुणमात्रे वृत्तास्तादृशा एव वर्तन्ते, तेभ्यो मतुपो लुग् विधीयते,
गुणमात्रवृत्तित्वस्य दर्शनाद् गुणिनि वृत्तिमाख्यातुम् ।
तत्र निमित्तरूपारोपेणाभेदविवक्षायां शुक्लादीनां द्रव्याभिधानपक्षे भेदनिमित्त-स्य मत्वर्थीयस्याप्राप्तौ किं लुका ? न च `शुक्लः पटो विद्यते यस्य' इत्यत्र
बाह्ये व्यतिरेके विवक्षिते मतुपो लुगिष्यत इति, श्रौतस्यार्थस्यायोगाल्लाक्षणि-
कोऽर्थोऽत्राश्रीयते ।
ये सोऽयमिति संबन्धेन गुणनिमित्तद्रव्यवचना अविशिष्टरूपा दृष्टाः, तेभ्यः
संप्रति गुणमात्रवृत्तिभ्यो भेदसंबन्धविवक्षायां मतुपः श्रवणं मा भूदिति लुगन्वा-
ख्यायते ।
एवञ्च रसादयो व्यावर्तिता भवन्ति, यतस्तद्रूपाभेदेन रसादिशब्दानां तद्वति
वर्तनं नास्ति । सदैव हि ते मत्वर्थीयान्ता एव स्वाश्रयमाचक्षते रसवान् गन्धवानिति। तथा च "रसादिभ्यश्च"(पा. 5-2-95) इति प्रतिपदमारभ्यते मत्वर्थीयः ।
इनिठनावेभ्यो न दृश्यते इति पुनर्मतुबेव विधीयते ।
तथा च वार्तिकम् `रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम्' इति । अन्यस्य प्रकृत-
स्य प्रत्ययस्य निवृत्त्यर्थमित्यर्थः । रूपिण्यप्सरा इति तु शोभासंबन्धो गम्यते, नचक्षुर्गाह्यरूपगुणसमवायः । `रसिको राजा' इत्यदौ तु श्रृङ्गारादिरससंबन्धो न रसने-
न्द्रियग्राह्यगुणयोगो विवक्षित इति `गुणात्' इति गणे विशेषणाद् गुणशब्देभ्य एव
रसादिभ्य इनिठनोर्निवर्तनादन्यतस्तो भवत एव । उक्तेन न्यायेन तु लुगप्रसङ्गादन्य-
शब्देन वार्त्तिके लुगुच्यत इत्यपव्याख्यानम् ।। 149 ।।
तदेवमुपक्रम एव विशिष्टद्रव्यविवक्षायां स्वाभाविकमेतदिति गुणानामाश्रयेण सह
सोऽयमित्यभेदसंबन्धे सिद्धे लिङ्गसंख्ये इति प्रातिपादितम् । अत्रापि च पक्षे
सूत्रस्योपयोगं प्रतिपादयितुमुपक्रमते--
आवेशो लिङ्गसंख्याभ्यां क्वचिन्मञ्चादिवत् स्थितः ।
सोऽयमित्यभिसंबन्धे स प्रष्ठादौ न विद्यते ।। 150 ।।
इह सोऽयमित्यभेदसंबन्धविषये समारोप्यमाणस्यार्थान्तरे द्वैतं दृश्यते, आविष्ट-
लिङ्गसंख्यतातदभावश्च । तत्र `मञ्चान् युवतीः पश्य,वसांसि वा' इत्यत्र मञ्चशब्दः
तात्स्थयात् समारोप्यमाणोऽजहत्स्वलिङ्गसंख्य एव वर्तते स्वाधेये । तथा गिरिप्रभ-
वासु नदीषु सामीप्याद् गिरिरूपसमावेशेन गिरिशब्दोऽजहत्स्वलिङ्गसंख्य एव प्रवर्त-
मानो दृष्टः, गिरीन् सरितः स्यन्दमानाः पश्येति । प्रष्ठप्रचरादिशब्दास्तु स्वाभा-
र्यायां प्रस्थानादिक्रियासङ्गात् प्रवर्तमानाः परित्यक्तस्वलिङ्गसंख्या एव समावेश-
विषयालिङ्गसंख्योपादायिनो दृश्यन्ते ।
तथा च प्रष्ठी प्रचरीति स्त्रीलिङ्गेनैव समाख्यायते स्त्री । तदत्र द्वे अपि
लिङ्गसंख्ये परित्यक्ते निमित्तिनि प्रवर्तमानेन प्रष्ठादिशब्देन । मञ्चादिशब्दस्तुकश्चित् स्वगतं लिङ्गमेवापादायोपचारतनिमित्ते निमित्तिनि प्रवर्तते, मञ्चान्
योषितो हरीतक्यः फलानीति ।
कश्चित् तु वचनमेवानुवर्तते स्वगतन्, खलतिकं वनानीति ।
कश्चित् पुनर्दे अपि लिङ्गसंख्ये स्वगते समाश्रित्य तद्वति निमित्तिनि वर्तते
शब्दः ।
तद् यथा विंशतिर्ब्राह्मणा इत्यादि । एष च शब्दशक्तिस्वाभाव्यान्नियमो
विषयविभागेन सिद्धः ।। 150 ।।
शास्त्रेऽप्यस्यैवार्थस्यास्ति ज्ञापकमित्याह--
लिङ्गं लिङ्गपरित्यागे सूत्रे प्रत्ययशासनम् ।
सोऽयमित्यभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनी ।। 151 ।।
"पुंयोगादाख्यायाम्" (पा.4/1/48) इति प्रष्ठादिभ्यः स्त्रीप्रत्ययानुशासनं सोऽ-यमित्यभिसंबन्धेन स्त्रियां तेषां परित्यक्तस्वलिङ्गसंख्यानां प्रवृत्तिरित्यस्या-
र्थस्य ज्ञापकम् ।
तथा ह्याख्याग्रहणादभेदसंबन्धात् पुंशब्दाः स्त्रियां यो वर्तन्ते, ते गृह्य-
न्ते, न तु भेदसंबन्धेन प्रष्ठस्येयमिति तद्धितान्ताः ।
तथा च भाष्यम् "नहि तद्धितान्तमाख्या भवति" इति । सति तद्धिते पुमा-
ख्यानामभिन्नरूपाणामेव नास्ति स्त्रियां वृत्तिरित्यर्थः ।। 151 ।।
तदेवं प्रष्ठादीनामेव शब्दशक्तिस्वाभाव्यालिङ्गाच्च स्वलिङ्गसंख्यापरित्यागे-
नार्थान्तरे वृत्तिः, नान्येषामिति मञ्चादिशब्दवच्छुक्लादिशब्दानामपि सोऽयमित्यभि-
सबन्धेन द्रव्ये स्वलिङ्गसंख्यानामेव प्रवृत्तिप्रसङ्गे "विशेषणानां'(पा.1/1/52)
इति सूत्रमाश्रयविशेषगतलिङ्गसंख्यासिद्धयर्थमारभ्यत इत्याह--
आश्रये लिङ्गसंख्याभ्यामाश्रितं व्यपदिश्यते ।
विशेषणानां चाजातेरिति शास्त्रव्यवस्थया ।। 152 ।।
शब्दशक्तिस्वाभाव्यात् प्रष्ठादिवदाश्रयलिङ्गसंख्योपादाने सिद्धे "पुंयोगादाख्-
यायाम्'(पा.4/1/48)इतिवद् `विशेषणानां' (पा.1/1/52)इत्यपि शास्त्रमनुवादकम् ।
ततश्चाश्रयविषयाभ्यां लिङ्गसंख्याभ्यामाश्रितं शुक्लादिगुणरूपमभिधीयते सामानाधि-
करण्यान्यथानुपपत्त्येति स्थितम् ।। 152 ।।
तथाहि--
निमित्तानुवाधायित्वाद् ये धर्मा भेदहेतुषु ।
त आश्रयेऽपि विद्यन्त इति बुद्धिर्निवर्त्यते ।। 153 ।।
निमित्ताद् निमित्तवत्यर्थे निमित्तसरूपः प्रत्ययो जायत इति निमित्ते शुक्लादिना
गुणेन निमित्ती द्रव्याविशेषस्तिरोहितरूपोऽभिधीयत इति तेषु भेदहेतुषु निमित्तेषु
ये धर्मास्ते तत्राश्रये निमित्तिनि सर्वे प्राप्ता इति यथा शुक्लादिशब्दस्तत्र
प्रवर्तते, तथा तद्गतलिङ्गसंख्याप्राप्तावपि सूत्रारम्भ इत्यर्थः ।
तथा च शुक्लादिगुणगतलिङ्गवचनप्रतिपत्तिः शास्त्रेण निवार्यते द्रव्यस्य
गुणशब्देनाप्याख्यायमानस्य स्वलिङ्गसंख्यामेव व्यपदेश इति ।
दृष्टो हि निमित्तगतलिङ्कसंख्यायोगो निमित्तिनि । तद्यथा पञ्चाला इति
क्षत्रियावच्छेदेन निवासस्याभिधीयमानस्य बहुत्वम् । गोदौ ग्राम इति गोदसामीप्ये-
नाभिधीयमानस्य ग्रामस्य द्वित्वम् ।। 153 ।।
ननु च पञ्चाला इत्यादौ "लुपि युक्तवद् व्यक्तिवचने"(पा.1/2/51)इति
शास्त्रान्निमित्तगतलिङ्गसंख्यायोग इत्याशङ्कयाह--
आख्यायते च शास्त्रेण लोकरूढा स्वभावतः ।
निमित्ततुल्या गोदादौ प्रवृत्तिर्लिङ्गसंख्ययोः ।। 154 ।।
"गोदौ ग्रामः, पञ्चाला जनपदः' इत्यादौ शब्दशक्तिस्वाभाव्यान्निमित्तानुविधानेन
निमित्तिनि शब्दप्रवृत्तिर्लोके सिद्धा वचनेन प्रकाश्यते, न तु वचनमेव शब्द-
शक्त्याधानक्षमम् ।
तथा च "तदशिष्यं संज्ञाप्रमाणत्वात्" (पा.1/1/53) इति प्रत्याख्यातमेतत् ।
संज्ञा हि संज्ञानं लौकिकसंप्रत्ययो रूढः ।
कश्चित् किल शब्दो निमित्तधर्मेण तद्वन्तमाचष्टे, यथा मञ्चादिरिति ।
शुक्लादावप्येवं सन्देहे प्रष्ठादिवन्निमित्तिधर्मेणार्थाभिधानम् `विशेषणानां'
(पा.1/2/52)इति वचनेन प्रकाश्यते ।। 154 ।।
यतश्च शब्दशक्तिरेव वचनेनानुगम्यते, ततो विषयविभागोऽत्र सिद्ध इत्याह--
हरीतक्यादिषु व्यक्तिः सङ्खया खलतिकादिषु ।
मनुष्यलुब्विशेषाणामभिधेयाश्रयं द्वयम् ।। 155 ।।
उक्तमिदं वार्त्तिके--"हरीतक्यादिषु व्यक्तिः खलतिकादिषु वचनं मनुष्यलुपि
प्रतिषेधः"(भा.वा.1/2/52) इति। तत्र वाचनिकत्वे लिङ्गसंख्ययोनिर्निबन्धनोऽयं
विषयविभागः ।
अनेन हि वचनेन स्वभावसिद्ध एवाख्यायतेऽर्थः, वचनस्यार्थप्रभावने शक्त्य-
भावादिति हरीतक्यः फलानि नखरजन्यः काशाः द्राक्षा इत्यादिषु लिङ्गमेव निमित्त-
तुल्यम्, संख्या त्वभिधेयनिमित्तिगतैवेति फलानां बहुत्वाद् बहुवचनमेव भवति ।
न हि पररूपसमारोपे तद्विषयस्य सर्वथैव स्वरूपं तिरोधीयत इति फलस्वरू-
पस्यातिरस्कारात् तदाश्रयं बहुत्वम् । निमित्तसङ्खयोपादाने तु नास्त्यस्य शब्दस्य
शक्तिः ।
तथा खलतिकस्य पर्वतस्यादूरभवानि विन्ध्यस्यादूरभवानीत्यादौ निमित्तगत-
सङ्खयोपादाने शब्दस्य शक्तिः, लिङ्गं तु निमित्तिगतमेव भवतीति वनस्य नपुंसकत्वा-
न्नपुंसकं खलतिकं वनानीत्यादि ।
तथा चञ्चेव मनुष्यश्चञ्चा मनुष्य इत्यत्र "लुम्मनुष्ये" (पा.5/3/98) इति
"इवे प्रतिकृतौ" (पा. 5/3/96) इति विहितस्य कनो लुपि यानि विशेषणान्युपादीयन्ते,
अभिरूपः स्वाकृतिर्दर्शनीय इत्यादीनि, तेषां विशेषणानामिति पञ्चाला बह्वन्ना
इत्यादिवन्निमित्तकतलिङ्गसङ्खयारूपं भवति ।
एवञ्च न्यायसिद्धेऽस्मिन् प्रकरणेऽजातेरित्येतदपि प्रत्याख्यातम् । आविष्ट-
लिङ्गत्वाज्जातेः पञ्चाला जनपद इति जनपदस्य निमित्तलिङ्गसङ्खयानुविधानं न
भविष्यति ।। 155 ।।
यदपि व्याख्यातमजातेरिति जातिप्रयोगं विना यावद्विशेषणानि तानि लुबन्तगत-
लिङ्गसङ्खयानुविधायीनि, जातिविशेषणानि तु न तथेति, तद् व्याचष्टे--
जातिप्रयोगे जात्या चेत् सम्बन्धमुपगच्छति ।
विशेषणं ततो धर्माञ् जातेस्तत् प्रतिपद्यते ।। 156 ।।
कामचाराद् विशेषणेनावच्छेदस्य यदा जातिमभिसन्धाय विशेषणं प्रयुज्यते,
तदा तद्गतलिङ्गसङ्खयासिद्धिः, तद्यथा--वरणा नगरं रम्योपवनं स्वच्छोदकं
सुगन्धिकुसुममिति ।। 156 ।।
यदा तु लुबन्ताभिसन्धानेन विशेषणप्रयोगः, तदा--
लुबन्ते सन्निपतितं जातेरन्यद् विशेषणम् ।
लुबन्तस्य प्रधानत्वात् तद्धर्मैर्व्यपदिश्यते ।। 157 ।।
जातिराविष्टलिङ्गसङ्खयेति ततोऽन्यद्विशेषणं लुबन्तसमानाधिकरणं तल्लिङ्ग-
सङ्खयमेव सिद्धम् । पञ्चालाः प्रियातिथयः स्पष्टाभिधाना विनीतवेषा बह्वन्नाः जनपदः,गोदौ सूक्ष्मकण्टकौ वृक्ष इति ।
एवञ्च कृत्वा नार्थ एतदर्थेन सूत्रेणेति `गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ति
इत्यात्रार्थे सूत्रं व्यापारितम् ।
अत्रापि यदाश्रितरूपमाश्रये प्रत्यस्यते, तदाश्रितरूपस्योद्भूतत्वात् तच्छब्द-
मिवाश्रयस्तलिङ्गवचनमपि प्रतिपद्येतेति सूत्रारम्भः ।
यदा त्वाश्रयरूपस्याश्रिते प्रत्यासः, तदाश्रयधर्मप्रतिपत्तिरेव युक्तेति स्वा-
भाविकमेतदिति प्रत्याख्यातं सूत्रम् । आश्रयधर्मरूपस्याश्रितेऽध्यासे हि पटशब्देन
शुक्लगुणोऽभिधीयत इति तद्गत एव लिङ्गसङ्खयायोगो मुख्यः ।
न चैवं स्वशब्देन गुणस्याभिधानं निवर्तत इति शुक्लशब्देन समानाधिकरणेन
तुल्यलिङ्गसङ्खयेनैव भवितव्यम् ।
अपरः कल्पो वात्रारमभप्रत्याख्यानयोर्विद्वद्भिरुक्तः । तथाहि -
निराश्रयस्य गुणस्याभावाद् यदाश्रयमात्रे तस्य निवेशः, तदा द्रव्यसामान्यगत-
लिङ्गवचनसर्वनामप्राप्तौ सूत्रारम्भः ।
यदा तु द्रव्यविशेषविवक्षा पूर्वमेवेति नियते द्रव्ये गुणस्य निवेशः, तदा स्वा-
भाविकमेतदिति प्रत्याख्यातम् । उपक्रम एव हि प्रयोगेष्वेव वाक्ये साधुत्वं
प्रक्रम्यत इत्यस्ति विशेषप्रत्यायने शब्दस्य सामर्थ्यम् ।
तृतीयोऽप्यत्र दर्शनभेदः कामचाराद् विशेषणविशेष्यभावस्य । यदा गुणो विशेष्यते,
तदा स्वगतलिङ्गसंख्याभ्यामेव प्राधान्याद् योगे प्राप्ते गुणिगतलिङ्गसंख्यासिद्धये
सूत्रारम्भः ।
यद्यपि च सूत्रे विशेषणानामित्युक्तम्, तथाप्यत्र गुणो विशेष्योऽपि प्राधान्ये-नाश्रयणात् स्वाधारं प्रत्याश्रितत्वाद्विशेषणं भवत्येवेति कथ्यते । अस्यामपि
प्रधानदशायां विशेषणशब्देन आश्रितमात्रं ह्यत्र विशेषणमभिप्रेतम्, न भेदकमेव,
अस्ति च विशेष्यतया प्राधान्येऽपि गुणस्याश्रितत्वमिति न कश्चिद् दोषः ।
यदा तु गुणो विशेषणम्, तदा तस्य प्रधानानुरोधित्वादाश्रयधर्मप्रतिपत्तिर्न्याय-
सिद्धेति स्वाभाविकमेतदिति प्रत्याख्यानशब्दः । ततश्च न्यायसिद्धार्थप्रदर्शनार्थ-
मिदं सूत्रं सकलशास्त्रव्यापकमिति ।। 157 ।।
येषु भाष्यवार्त्तिकप्रयोगेष्वस्योपयोगः, तानुदिश्य क्रमेण विचारयति--
नञ्समासबहुर्वीहिद्वन्द्वस्त्र्यतिशयेषु ये ।
भेदा भाष्यानुसारेण वाच्यास्ते लिङ्गसंङ्खययोः ।। 158 ।।
एतेषु भाष्यप्रदेशेष्वाश्रयतो लिङ्गलचनान्युक्तानि विचार्यन्ते । भेदा इति
निमित्तानुविधानेन प्राप्तानपोद्याश्रयतो लिङ्गसंख्याविशेषा भाष्ये प्रतिपादिता
इहानुगम्यन्ते ।। 158 ।।
तत्र प्रातिलोम्यक्रमेण लघुक्तव्यत्वादतिशायनसूत्रवार्त्तिकभाष्यं तावद्
व्याचष्टे--
यदि षष्ठीद्वितीयान्तान्निकृष्टात् तरबादयः ।
न्यक्कारिणी स्युरुत्कृष्टे प्रकृतेः स्यात् विलिङ्गता ।। 159 ।।
"अतिशायने तमबिष्ठनौ"(पा.5/3/55) इत्यत्र बहवः पक्षाः, अतिशायनशब्दः
कर्तृसाधनः, करणसाधनः, भावसोधनो वेति । अतिशेते इत्यतिशायनः । बहुलवचनात्
कर्तरि ल्युट् । निपातनाद् दीर्घः । अतिशेते इत्यातिशायनो गुणक्रियालक्षणो द्रव्या-श्रयो धर्मः । द्रव्यस्य हि स्वतः प्रकर्षाभावादाश्रितधर्मद्वारकः सोऽयवस्थापितः ।तत्र च धर्माश्रयो धर्मी यदाभिभावकत्वेन विवक्ष्यते, तदासावतिशेते इति कर्ता
प्रत्ययार्थः ।
यदा तु धर्ममात्रस्यात्र व्यापारः, तदा करणं धर्ममात्रं प्रत्ययार्थः । शुक्लेनहि गुणेन पटोऽन्यानतिशेत इति स एवातिशायनो मुख्यो गुणः ।
अत एव तस्य प्रयोजकत्वादतिशाययतीति ण्यर्थोपपत्तौ निर्देशो न्याय्यः ।
भावसाधनेऽप्यतिशयनमतिशयः प्रकर्षः, स चाश्रितगुणनिमित्त इति स एव गुणस्त-
मबादिप्रत्ययार्थोऽवतिष्ठते, क्रियालक्षणो वा धर्मः । एतेषु चार्थेषु प्रत्यये
विधीयमाने सामर्थ्यात् प्रतियोगिनो निकृष्टादसौ भवति ।
तत्र च विशिष्टा प्रकृतिर्नोपात्तेति ङ्याप्प्रातिपदिकसामान्यं निकृष्टवाचि
प्रकृतित्वेनावतिष्ठते । समर्थविभक्तिश्च सूत्रे नोपात्तेत्युक्तम्--`किमन्तात्
पुनरुत्पत्त्या भवितव्यम्' इति ।
तत्र `द्वितीयान्तादतिशय्यमानात्' इत्युक्तम् । शेतिरकर्मकोऽप्युपसर्गवशात्
सकर्मकेऽभिभवे वर्तत इत्यभिभविता प्रत्ययार्थः । तस्य न्यूनेनाभिभाव्येन प्रकृत्य-र्थेन योग इत्यपकृष्टवाचिनः प्रत्ययाः । सूत्रेषु च येन केनचिच्छब्देनार्थनिर्देश
इति । यदा तिङन्तेन वाक्यम् तदा कर्मणि न्यूने द्वितीया न्याय्येति
द्वितीयान्तादित्याह ।
यदा कृन्दन्तेनैव वाक्यम्, तदा कृत्प्रयोगे कर्मणि षष्ठीति षष्ठयन्तादपि
सम्भवोऽत्र व्याख्यातः । "षष्ठया रुप्य च" (पा. 5/3/54) इत्यतो वा षष्ठी
समर्थविभक्तिरनुवर्तत एव । अर्थाभेदश्चात्रोभयत्रापि समर्थविभक्तावित्येवं परमेतत्। भाष्ये तु कृद्योगषष्ठयाः कर्तर्यपि भावाजसन्देहेन कर्म द्वितीयाया एवावगम्यत
इति द्वितीयान्तादित्युक्तम् । एवमत्र प्रत्ययार्थाविशेषणपक्षे प्रकृतिप्रत्ययार्थ-योर्भेदात् प्रकृतेर्यल्लिङ्गं तद्विपरीतं प्रत्ययार्थस्य प्रसज्येत ।। 159 ।।
तामेव भिन्नलिङ्गतामुदाहरणेनाप्यभिव्यनक्ति--
काल्यां कालाद् द्वितीयान्तात् काले काल्यास्तरब् भवेत् ।
न्यक्कर्तरि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ।। 160 ।।
कालमतिशेते, तस्य वातिशायिनी कालीति द्वितीयान्तात् षष्ठयन्ताद् वातिशय्य-
मानादतिशयितरि प्रत्यये कालतरा कालीति प्राप्नोति । कालतिरेति चेष्यते । तथा
कालीमतिशेते, तस्या वातिशायनः काल इत्यत्र कालितर इति प्राप्नोति । कालतर
इति चेष्यते । विलिङ्गतेति चात्रोपलक्षणम् । विभिन्नसङ्खयता च प्रसज्यते ।
तथाहि--गर्गानतिशेते गार्ग्य इति । तत्र न्यक्कर्तरि गर्गतर इति प्राप्नोति ।
गार्ग्यतर इति साधुरिष्यते । गार्ग्यमतिशेरते गर्गा इति । तेष्वतिशायकेषु
गार्ग्याद् विधौ गार्ग्यतरा इति प्राप्नोति । गर्गतरा इति चेष्यते । अत्र च वृत्तौ
सङ्खयाविशेष प्रतीतिर्लुगलुग्भ्यामेव प्रतीयत इति भवत्येकवचनबहुवचनान्तात्
तरबिति पूर्वमेव निर्णीतम् ।
एवं प्रत्ययार्थविशेषणपक्षो दुष्टोऽभिहितो भाष्ये । तदनन्तरमेव `तर्हि प्रथमा-
न्तात् स्वार्थिको भविष्यति' इति प्रकृत्यर्थविशेषणपक्षोऽभ्युपगतः ।
तथा ह्यतिशेतेऽतिशायन इति "कुत्यल्युटो बहुलम्"(पा 3/3/114)इति
कर्तर्येवातिशायनशब्दः । तत्र प्रत्ययवाच्यस्य व्यतिरेकहेतोरभावादन्तरङ्गा
प्रातिपदिकार्थमात्रापेक्षा प्रथमा तदन्ताद् विधिः । अर्थान्तरानिर्देशाच्च स्वा-
र्थिरास्तरबादयः । अतिशायने यद् वर्तते, तस्मात् प्रत्ययः स्वार्थे । काली
अतिशेते कालितरा । कालोऽतिशेते कालतर इति विलिङ्गता न भवति, तथा
गार्ग्योऽतिशेते गार्ग्यतर इति । गर्गा अतिशेरते गर्गतरा इति विसङ्खयतापि न
भवति ।। 160 ।।
किन्त्विदमत्रानिष्टमुक्तं--यदि प्रथमान्तात् स्वार्थिकः, कुमारितरा । अव्यति-
रिक्तं वय इति कृत्वा "वयसि प्रथमे"(पा.4/1/20) इति ङीप् प्राप्नोति ।
तदेतद् व्याचष्टे--
न्यक्कर्तृषु च गर्गेषु गार्ग्यात् स्यात् तच्च नेष्यते ।
कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः ।। 161 ।।
कुमारी अतिशेते, किशोरी अतिशेत इति कुमारितरा, किशोरितरा इति "वयसि
प्रथमे'(पा.4/1/20)इति ङीप् स्यात्, स्वार्थिकत्वे तरपः प्रकृत्यर्थस्य प्रथमवयोऽ-वच्छिन्नस्त्रीलक्षणस्यानतिरेकात् । न हि प्रथमेन ङीपाभिव्यक्तातिशायनस्य
स्त्रीत्वे द्योतितम् ।
ननु च तरपा कुमार्यर्थस्यैव प्रकर्षप्रकाशनात् प्रकृष्टस्यार्थस्य स्त्रीत्वमवग-तमेव । तथा च भाष्यं--"तरपोक्तत्वात् तस्यार्थस्य न भविष्यति" इति । स्त्रीत्ववत
एव प्रकृष्यमाणत्वात् तरबन्तेनैव द्योतितमेव स्त्रीत्वमिति ङीब् न भविष्यतीत्यर्थः। अत्र चोदितम्--`टाबपि तर्हि न प्राप्नोति" इति । अभिहितार्थत्वं सर्वस्त्री-
प्रत्ययानुत्पत्तिनिमित्तं समानमित्यर्थः ।
अत्र परिहारोऽभिहितः--`उक्तेऽपि हि भवन्त्येते स्वार्थिकाष्टाबादयः' इति ।
अयमर्थः--स्त्रियां यद्वर्तते प्रातिपदिकम्, तस्मात् स्वार्थे टाबादयो विहिताः।एवञ्च यथा प्रातिपदिकार्थस्य सर्वलिङ्गसाधारण्यादुपात्तमपि प्रातिपदिकेन स्त्रीत्वंनियमेन न प्रतीयेतेति प्रथमेन स्त्रीप्रत्ययेन तद् द्योत्यते, तथा कुमारितरेत्यसति
टापि विपरीतार्थावगमप्रसङ्ग इति भवत्यसौ, न तु सर्वथैवोक्तेऽनवस्थाप्रसङ्गात्
स्वार्थीकेनापि भवितव्यम् । यद्येवं टाबपवादो ङीबपि प्राप्नोतीत्युक्तं भाष्य इति
चोद्यमेव ।
ननु च प्रथमेनैव ङीपा प्रथमवयोऽवच्छेदस्योक्तत्वात् स्त्रीत्वमात्राभिव्यक्-
त्यर्थं टाबेव न्याय्यः । नैतदस्ति, अर्थानुगुण्यात् ङीप् एव न्याय्यत्वम् ।
तद्यथा--एको द्वौ बहव इत्यत्रोक्तार्थापि प्रथमा समयाद् भविष्यतीत्युक्ते
चोदितम्--`यदि सामयिकी न नियोगतोऽन्या अपि कस्मान्न भवन्ति इति ।
तत्र परिहारोऽभिहितः--`अर्थतो व्यवस्था इति । न केवला प्रकृतिः प्रयोक्तव्येति
प्रयोगनियमानुपालनायां विभक्तौ यद्यपि न कश्चिदर्थानुरोधः, तथाप्यनुगतार्थत्वात्
प्रथमैव न्याय्येत्यर्थः ।
अत्र दर्शने तत्र यत्रे त्यादावपि सप्तम्येव न्याय्या ।
एवमिहापि प्रक्रमाभेदार्थं ङीबेव न्याय्य इति युक्तमुक्तं ङीबपि तर्हि प्राप्नो-तीति । अन्तरेणापि च तरबादीन् प्रकरणादिवशात् केवलापि प्रकृतिरतिशयमुपगमय-
तीति । प्रकरणाद्यभावेऽतिशयं द्योतयन्तो भवन्त्येव स्वार्थिकास्तरबादयो न वाचकाः । तथाहि-स्वतन्त्रमर्थन्यानपेक्षं गमयन्तो वाचकाः कथ्यन्ते शब्दाः । तदपेक्षास्तु
तद्गतमर्थं द्योतयन्तः स्वार्थिकाः । तत्रेव च (तस्यैव च ) द्योतनेऽत्रान्वयव्यति-रेकौ सव्यापारौ । `पटुतरो देवदत्तः पटुकल्पः पटुरूपः' इति च समानाधिकरण्यात्
प्रकृतिप्रत्ययार्थयोः प्रकृत्यर्थानुवादित्वेन स्वार्थिकत्वमेषां तरबादीनां
निश्चीयते । वाचकेषु तु यञादिषु गर्गस्यापत्यं गार्ग्य इति व्यधिकरणत्वम्, न
`यावत् काली तावत् कालितर' इत्यस्माद् भाष्यान्न वाचकत्वावसायः ।
अनभिव्यक्तप्रकर्षा हि काली, सैव प्रकृष्यमाणा कालितरेति प्रकर्षोपादनानु-
पादानलक्षणभेदाश्रयेण भाष्यप्रवृत्तेः । तस्माल्लौकिक एवार्थो नियतोऽवस्थितः
शाश्त्रे वाचकद्योतकप्रविभागेनानुविधीयते, न तु प्रक्रियागता एवामी विकल्पा
निरस्तार्थप्रविभागाः ।। 161 ।।
एवं स्वार्थिकत्वेऽपि दोषमुद्भाव्यानन्तरमभिहितम्--`एवं तर्हि गुणोऽभिधीयते,
अथवा क्रियाभिधीयत' इति । तदेतद् भाष्यं व्याख्यातुमाह--
षठ्यन्तादधिके तस्माद् गुणे स्वाश्रयवर्तिनि ।
उत्कृष्टसमवेतायां क्रियायां वा विधीयते ।। 162 ।।
करणसाधनेनातिशायनशब्देन गुण उच्यतेऽभिभावकः । अतिशयानमभिभवन्तं
स्वाश्रयं प्रयोजयत्यतिशययतीत्यतिशायन इति वा ण्यन्तात् कर्तरि ल्युटि
गुणोऽभिधीयते । प्रकृष्यमाणेन हि गुणेन द्रव्यस्य समानगुणात् प्रकर्षो भवति, स्वतःप्रकर्षाभावात् । तेन च गुणेन स्वाश्रयसमवायिना स्वाश्रयव्यतिरेकोपजनात् प्रकृति-
र्गुणाश्रयवाचिनी षठ्यन्ता भवति गुणः प्रत्ययार्थः । शुक्लस्यातिशायनो गुणः शुक्ल-
तरः । स्वाश्रयवर्तिनीति च वदन्नाश्रयान्तरवर्तिनि न भवति प्रत्यय इति विलिङ्गतादि-
पूर्वोक्तदोषो नावतरतीत्याह ।
यदा तु भावसाधनो ल्युट् अतिशयोऽतिशायनमिति, तदा क्रिया प्रकर्षाख्योच्यत
इत्येतस्यां वाच्यायां प्रत्ययः । क्रियोपजनिते च व्यतिरेके प्रकृतेः षष्ठी, शुक्ल-
स्यातिशायनं शुक्लतर इति । व्यतिरिक्तश्चात्र गुणक्रियालक्षणः प्रत्ययार्थ इति
वयस्विन्याः कुमार्या विशेषणत्वेनाप्राधान्यान्न भवति तदन्ताद् ङीप्-
प्रत्ययः ।। 162 ।।
अत्र पक्षे गुणक्रियालक्षणोऽर्थः प्रत्ययवाच्यः प्रधानमिति द्रव्याभिधायिभिः
पटादिभिः सामानाधिकरण्याभावो भाष्ये कथं न चोदित इत्याह--
उपात्तं च प्रकृत्यर्थो द्रव्यमेवाश्रयस्तयोः ।
सोऽयमित्यभिसंबन्धादभेदेन प्रतीयते ।। 163 ।।
यदेव प्रकृतेः प्रातिपदिकस्य वाच्यं द्रव्यमत्र सन्निहितम्, तदेवानयोर्गुणा-
क्रिययोः प्रत्ययवाच्ययोः सोऽयमितयभेदसम्बन्धेनाश्रयः प्रतीयत इति भवति सामानाधि-
करण्यम् । प्रकर्षप्रत्ययान्तस्य गुणक्रियामात्रे कदाचिदपि वृत्त्यदर्शनात् केवलं
ङीप्प्रतिसमाधानाय प्रक्रियायां व्यतिरेकार्थत्वं करबादेरुपेयते ।
स्वार्थिका एव त्विमेऽतिशयद्योतनात् । अत एवातिशयविशिष्टस्य द्रव्यस्याति-
शयप्रत्ययान्तेनोपादानाश्रयतो लिङ्गवचनानि भवन्ति ।। 163 ।।
ननु च शुक्लशब्देनात्र गुणोपसर्जनं द्रव्यमुच्यते । तरबन्तेनाप्यतिशयविशिष्टं
तदेव । तथा चाश्रितमात्रस्य कोनचिदनभिधानात् कस्याश्रितस्याश्रयवाल्लिङ्गवचने
स्यातामित्याशङ्कयाह--
रूपाभेदाच्च तद् द्रव्यमाकाङ्क्षावत् प्रतीयते ।
विशेषैर्भिन्नरूपैस्तदाश्रयैरिव युज्यते ।। 164 ।।
इह शुक्लशब्देन गुणोपसर्जनं द्रव्यमात्रमुच्यते । तदेवातिशयविशिष्टं तरबन्ते-
नेति विशेषेषु तस्मात् पटादिषु न प्रतिपत्तिः, साधारण्यात् सर्वविशेषेषु द्रव्यमा-
त्रस्य । तथा च तत् पटादीन् विशेषानपेक्षमाणं प्रतीयत इति ते तस्यापेक्ष्यमाणा
विशेषा विलक्षणा बहिरङ्गा पश्चात्संबध्यमानत्वादाश्रयत्वेन व्यवह्रियन्ते । तच्च
तदाश्रितत्वेन ।। 164 ।।
ततश्च--
भिन्नरूपेषु यल्लिङ्गं विशेषेषु व्यवस्थितम् ।
संख्या च ताभ्यां द्रव्यात्मा सोऽभिन्नो व्यपदिश्यते ।। 165 ।।
स निर्विशेषोऽर्थात्मा गणवचनशब्देनोच्यत इति तस्य संबध्यमानविशेषगत-
लिङ्गसंख्यातिदेशः सूत्रेण प्रतिपाद्यत इति ताभ्यामाश्रयलिङ्गसंख्याभ्यामुपलक्षितः
प्रतिपाद्यते । एवं गुणपक्षे तस्य स्वाश्रयवृत्तित्वात् तद्गतमेव वचनमुपपद्यते ।
क्रियापक्षे तु तस्य यश्चैवातिशेते यश्चातिशय्यते उभौ तावाश्रयौ भवत इत्येवमपि
द्विवचनं प्राप्नोती'ति चोदितं भाष्ये ।
अत्रोत्तरमभिहितम्--`शेतिरकर्मक' इति ।। 165 ।।
अत्र पर्युनुयोगः--`अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्ति इति ।
सिद्धान्तवादिना तु येनाभिप्रायेणाकर्मक इत्युक्तम्, तदाविष्करोति--`कर्मापदिष्टा
विधयः कर्मस्थभावकानां कर्मस्थक्रियाणाम्,' `कर्तृस्थभावकः शेतिः, इति किल
समवायिकारणमस्य कर्म नास्तीत्येवमकर्मकोऽभिहितः ।
तदेतद् व्याचष्टे--
आश्रयः समवायी च निमित्तं लिङ्गसंख्ययोः ।
कर्तृस्थभावकः शेतिरतो भाष्य उदाहृतः ।। 166 ।।
क्रिया यत्र समवैति, स तस्या आश्रयः । स चैक एवेत्येकवचनं भवति ।
अभिभवनं ह्यत्र शेत्यर्थः कर्तरि समवैति, न कर्मण्यभिभाव्ये । यत्किञ्चित्
कर्म निमित्ततयाभिहितं तत् कर्मण्यपदिष्टमिति द्विवचनमपि कर्मापदिष्टो भाष्य
उक्तः ।। 266 ।।
कर्मैकत्वापेक्षेण हि कर्तुरेकत्वेन द्वित्वस्यात्र जननं स्यात् । यदि कर्माप्य-समवायि गृह्येतेत्याह--
निमित्तमाश्रयत्वेन गृह्येत यदि साधनम् ।
कर्मापदिष्टयोः प्राप्तिस्तत्र स्याल्लिङ्गसंख्ययोः ।। 167 ।।
`गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ति' इत्यत्राश्रयशब्देन यदि निमित्त-
मात्रामुच्येत, तदा क्रियाया आत्मलाभे द्वयमपेक्ष्यते कर्तृकर्मरूपमत्र साधनमिति
स्यात् कर्मापेक्षयापि तद्गतं लिङ्गम् । तदपेक्ष्य द्वित्वोरजननाच्च द्विवचनम् ।
अभिभवोह्यभिभाव्यमपेक्षते । तत्र कर्तृकर्मस्थत्वेन च क्रियायाः प्रसिद्धत्वान्न
करणाद्यपेक्षया बहुवचनप्रसङ्गश्चोदितः । तदेवमतिशायनभाष्यं लिङ्गवचनातिदेश-
विचारप्रसङ्गेन व्याख्यातम् ।। 167 ।।
इदानीं तेनैव प्रातिलोम्यक्रमेण स्त्रीसूत्रवार्त्तिकभाष्यं लिङ्गवचनातिदेशावि-चारप्रसङ्गेन व्याख्यातुमाह--
शास्त्रे निर्मित्तभावेन समुदायादपोद्घृतः ।
स्त्र्यर्थस्तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ।। 168 ।।
स्थितलक्षणो लौकिकोऽर्थः स्त्रीत्वविशिष्टद्रव्यस्वभावो निरंशात् पदात् प्रती-यते । तस्य तु पदस्य प्रकृतिप्रत्ययपरिकल्पनयान्वाख्याने तयोः प्रकृतिप्रत्यययोरव-
यवरनुशासनाङ्गत्वेन प्रकृत्यर्थप्रत्ययार्थतया निरंशोऽप्यसावर्थो विभज्यते ।
तत्र समित्, दृषदित्यादौ प्रातिपजिकमात्रेणापि स्त्रीत्वप्रतिपादनं दृष्टम्,
गौरी, किशोरीत्यादौ प्रत्ययसहितेन, इत्यन्वयव्यतिरेकायोर्नियमाभावादन्वाख्यातु-
रिच्छया प्रयोगानुरोधिन्या प्रकृतिप्रत्ययार्थतया तद्विमर्शः ।। 168 ।।
तथाहि--
स्त्रीशब्दो गुणशब्दत्वात् तुल्यधर्मा सितादिभिः ।
गुणमात्रे प्रयुज्यते संस्त्यानवति वाश्रये ।। 169 ।।
संस्त्यानं रूपादीनां संहननं गुणः, तत्र वा स्त्रीशब्दो वर्तते, तद्वति वा
गुणिनीति शुक्लादिशब्दैस्तुल्यः । तेऽपि हि पटस्य शुक्लः पट इत्यादौ गुणमात्रे
गुणिनि च दृष्टप्रयोगाः ।
एवञ्च "स्त्रियाम्" इति निर्देशे यदा गुणमात्रवृत्तिः स्त्रीशब्दः, तदा प्राति-पदिकात् स्त्रीत्वे गुणे वर्तमानात् प्रत्यय इति प्रकृत्यर्थविशेषणपक्षे भवति ।
अभिधेये स्त्रीत्वे टाबादय इति तु प्रत्ययार्थपक्षो जायते ।
यदा तु तद्वति वृत्तिः, तदा संस्त्यानवति द्रव्ये वर्तमानात् प्रातिपदिकात्
स्वार्थे टाबादय इति प्रकृत्यर्थपक्षो भवति ।
अत्र तु पक्षे यथा शुकलादयो गुणं निमित्तीकृत्य तद्वति वर्तन्ते, नैवं
किञ्चित् प्रातिपदिकमस्ति, यस्य द्रव्ये वृत्तौ स्त्रीत्वं निमित्तम् । स्त्रीशब्द एव हि तथा । तत एव विधौ सर्वप्रकृतिसाधारण्येन "स्त्रियाम्" इत्यपार्थको
निर्देशः स्यात् । अतः स्त्रियां स्त्रीशब्दप्रत्यायितेऽर्थे यत् प्रातिपदिकं
वर्तत इति स्त्रीशब्देन प्रातिपदिकार्थ उपलक्ष्यते ।। 169 ।।
ततश्च कुमारः स्त्रीति स्त्रीशब्दसमानाधिकरणेऽर्थे वर्तमानात् प्रातिपदिकादि-
त्यये पक्षो(प्रत्ययो) जायते । स चानिष्ट इत्युक्तम्--`स्त्रीसमानाधिकरणादिति चेद्,
भूतादिष्वतिप्रसङ्गः । षट्संज्ञकेभ्यश्च प्रतिषेधः' इति ।
तदेतद् व्याचष्टे--
स्त्र्यर्थः संस्त्यानवद् द्रव्यं प्रकृत्यर्थश्च यद्यसौ ।
द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ।। 170 ।।
संस्त्यानेन निमित्तभूतेनावच्छिन्नं संस्त्यानवत् । तथा सतीति संस्त्याननिमि-
त्तस्यार्थस्य स्त्रीशब्देन निर्देश सति द्रव्यस्य शब्दान्तरोपादानस्य संस्त्यानमु-
पलक्षणं भवेत् । तन्निमित्तेऽर्थे कस्यचिदप्यप्रवृत्तेरित्यभिप्रायः ।। 170 ।।
एवं सति को दोष इत्याह--
संस्त्यानेन क्वचिद् द्रव्यं दृष्टं यदुपलक्षितम् ।
अनङ्गीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत् ।। 171 ।।
अनङ्गीकृतमनुपात्तं वाच्यत्वेन संस्त्यानं स्त्रीत्वं येन तद्वृत्तेः स्त्रीश-ब्दसन्निधापितेऽर्थे वर्तमानात् प्रातिपदाकात् प्रत्ययः प्रसज्येत । बहिरङ्गस्यैव
पदान्तरोपलक्षितार्थस्यान्वाख्याने निमित्तत्वेनापेक्षणात् ।। 171 ।।
अत्रोदहरणमाह--
भूतादयः षडाख्याश्च संस्त्यानेनोपलक्षिते ।
ब्राह्मण्यादौ यदा वृत्तास्तेभ्यः स्युः प्रत्ययास्तदा ।। 172 ।।
यथाकुमारः स्त्रीति स्त्रीशब्दप्रतयायितेऽर्थे कुमारशब्दो वृत्तः स्त्रीप्रत्-ययमस्मिन् पक्षे प्रतिपद्यते । तथा भूतमियम्, कारणमियम्, आवपनमियं
ब्राह्मणीत्यत्र भूतादिशब्देभ्यो ब्राह्मणीशब्दोपलक्षितस्त्रीत्वेऽर्थे वर्तमाने-
भ्यष्टाप् स्यात् । तथा पञ्च षट् सप्त नव दश ब्राह्मण्य इति पञ्चादिभ्यः
स्त्रीप्रत्ययप्रसङ्गे "न षट्स्वस्त्रादिभ्यः" (5/1/10)इति प्रतिषेधो वक्तव्यः
स्यात् । प्रकृत्यर्थविशेषणपक्षे स्त्रीत्ववचनाट्टाबादिरित्यनङ्गीकृतसंस्त्यानान्न
भवतीति स्त्रीसमानाधिकरणपक्ष एवायं दोषः ।। 172 ।।
तथाहि--
तद्वन्तो हि प्रधानत्वात् प्रत्ययानां प्रयोजकाः ।
सामानाधिकरण्येऽपि तस्माट्टाबादिसम्भवः ।। 173 ।।
अत्र पक्षे संस्त्यानाभिधानं प्रातिपदिकेन नाश्रीयते प्रत्ययोत्पत्तौ । अपि तु
संस्त्यानवन्तः स्त्रीशब्दोपलक्षिता अर्थाः प्रधानानि प्रत्ययानां प्रवर्तका इत्यु-पसर्जनत्वात् संस्त्यानस्य पदान्तरेण बाह्येन समानाधिकरणत्वेऽपि तथाभूतस्य
संस्त्यानस्य प्रतीतेष्टाबादयो भवेयुरेव ।
न ह्येतदत्र शक्यते वक्तुम्--कथं पदान्तरगम्योऽर्थः शब्दसंस्कारे निमित्तमिति ।तथाभूतस्यैव वचनेनाश्रयणात् ।। 173 ।।
एवं हि स्त्रीसमानाधिकरणपक्षं दूषयित्वा `सिद्धं तु स्त्रियाः प्रातिपदिकविशेषण-त्वात् स्वार्थे टाबादयः' इति प्रकृत्यर्थविशेषणपक्षोऽभिहितः ।
एतदुत्थानबीजमाह--
गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा ।
प्रकृत्यर्थश्च संस्त्यानं स्वार्थिकाः प्रत्ययास्तदा ।। 174 ।।
संस्त्यानमात्रं यदा स्त्रीशब्दवाच्यम्, तच्च प्रातिपदिकविशेषणमिति, तदा
स्त्रीत्वे वर्तमानात् प्रातिपदिकाट्टाबादय इत्यर्थस्य तेषामन्यस्यानिर्देशात्
स्वार्थिकत्वं भवति । यदा तु स्त्रीत्वेऽभिधेये इत्यर्थः, तदा प्रत्ययार्थविशेषण-
पक्षो जायते ।। 174 ।।
ननु च स्त्रीत्वमात्रे कस्यचित् प्रातिपदिकस्य वृत्त्यसम्भवात् कथं प्रकृत्यर्थ-विशेषमपक्षो भवतीत्याह--
संस्त्याने केवले वृत्तिः प्रकृतीनां न विद्यते ।
तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ।। 175 ।।
लौकिकोऽर्थः स्थितलक्षणोऽन्वाख्यानाङ्गमुपादीयमानो यथासम्भवमसौ गृह्यत
इति `स्त्रियाम्' इत्युक्तेऽपि स्त्रीत्वमात्रे प्रातिपदिकस्य वृत्त्यदर्शनात्
सामर्थ्यात् तद्विशिष्टार्थाभिधायिनः प्रातिपदिकाद् विधिर्विज्ञायते ।। 175 ।।
तथा च तेन स्त्रीत्वेनाविष्टे सम्भिन्ने द्रव्ये वर्तमानाः प्रत्ययमुत्पादयन्-
तीति पूर्वदोषानवतार इत्याह--
उपकारि च संस्त्यानं येषु शब्देष्वपेक्षितम् ।
तेभ्यष्टाबादयस्तच्च भूतादिष्वविवक्षितम् ।। 176 ।।
वाच्यत्वेनोपयोगि येषु शब्देषु. तेभ्यष्टाबादय इत्युपलक्षणभूतं येषु संस्त्यानं तेभ्यो भूतादिभ्यः प्रत्ययाभाव इत्यर्थः । तदुक्तं भाष्ये--`भूतमियं ब्राह्मणी'
इति । `नात्र स्त्रीत्वं विवक्षितम्, किं तर्हि पौतन्यम्' इति । स्त्रीत्वे वाच्ये विवक्षिते भवत्येव प्रत्ययः `भूता ब्राह्मणी' इति । सत्यवादिनी अतीता वेत्यर्थः,
न पौतन्यम् । तथा ` कारणमियं ब्राह्मणी' इति प्राधान्यं विवक्षितम् । `आवपनमि-
यमुष्ट्रिका' इति सम्भवनम् । आधेयप्रमाणादाधारस्य प्रमाणानतिरेको विवक्षितः ।
पञ्चादीनामपि भेदगणनात्मिका सङ्खया वाच्या, न स्त्रीत्वमिति तेभ्यः
स्त्रीप्रत्ययाप्रसङ्गात् ततः प्रतिषेधः प्रत्याख्यातः । एवं निर्दोषः प्रकृत्यर्थ-विशेषणपक्षोऽवस्थापितः ।। 176 ।।
तृतीयोऽपि पक्षोऽभिहितः `अथवा पुनरस्तु स्त्रियामभिधेयायाम्' इति प्रत्ययार्थ-त्वं स्त्रीत्वस्य । अत्र पक्षे सम्भावनाबीजमुपन्यस्य दोषमभिहितं व्याचष्टे--
संस्त्यानं प्रत्ययस्यार्थः शुद्धमाश्रीयते यदा ।
तदा द्विवचनानेकप्रत्ययत्वं न सिध्यति ।। 177 ।।
शुद्धं केवलं द्रव्यविशेषणभावमनापन्नं यदा संस्त्यानं स्त्रियामिति निर्दिष्टं
प्रत्ययार्थत्वेनाश्रीयते, तदा तस्यैकत्वात् कुमार्यौ कुमार्य इति द्विवचनबहुवचने नस्याताम् ।
एकस्य च संस्त्यानस्य प्रत्यायने स्त्रीप्रत्ययो भवन्नेक एव स्यादिति `गार्ग्या-
यणी, कारीषगन्ध्या, कालितर' इत्यादावनेकः स्त्रीप्रत्ययो न स्यात् ।
तदुक्तं वार्त्तिके--`स्त्रियामिति स्त्र्यर्थाभिधान इति चेद् द्विवचनबहुवचनाने-कप्रत्ययानुपपत्तिः' इति ।। 177 ।।
अथ `तिस्रो जातय एवैताः सर्वत्र समवस्थिताः'(वा.प.3लिङ्ग 4) इति दर्शने
स्त्रीत्वजातिरत्र निर्दिष्टा प्रत्ययार्थत्वेन । तस्याश्च व्यक्तिभेदेन `गावौ
गावः' इत्यादिवद् वचनभेदो योक्ष्यत इत्याशङ्कयाह--
जातिश्चेत् स्त्रीत्वमेवासौ भेदोऽन्यत्राविवक्षितः ।
यस्माद् भिन्नैरपि द्रव्यैस्तदेकं सद् विशिष्यते ।। 178 ।।
स्त्रियामिति प्रत्ययार्थत्वेन जातिनिर्देशे `प्रकृतिप्रत्ययौ प्रत्ययार्थं सह
ब्रूत' इति तस्या एव प्राधान्येन विवक्षितत्वादन्यत्र व्यक्तौ यो द्वित्वबहुत्वा-
ख्यो भेदो विशेषः, स नात्र प्रतिपाद्यत्वेन विवक्षितः । यतस्तत् स्त्रीत्वमेकं सद्
भिन्नैर्बहुभिः प्रकृतिवाच्यैराश्रयभूतैर्द्रव्यैः सङ्खयाभेदवद्भिरवच्छिद्यत इति
प्रधानभूतप्रत्ययावाच्यस्त्रीत्वैकत्वाश्रयमेकवचनमेव न्याय्यम् ।
`गावौ गावः' इत्यादौ तु जात्यावेशेन व्यक्तीनामभिधानाद् युक्तो वचनभेदः ।।178।।
अथ गुणावस्था लिङ्गमित्यस्मिन् दर्शने अवस्थानां भेदाद् वचनभेदो भविष्य-
तीत्यत आह--
मात्राणां हि तिरोभावे परिमाणं न विद्यते ।
कुमार्य इति तेन स्यात् कुमार्यां भेदसम्भवात् ।। 179 ।।
मात्राणां सत्त्वादिगुणमयानां रूपरसादीना तिरोभावे प्रतिलयेऽपचयेऽत्र संस्त्-
यानलक्षणे स्त्रीत्वे विवक्षितेऽवस्थाभेदाश्रयेण वचनभेदे कथ्यमानेऽवस्थाभेदानामे-कत्रापीयत्तानवधारणात् सदैव कुमार्य इति बहुवचनान्त एव प्रयोगः स्यात् ।
तदर्थस्य संस्त्यानस्य बहुत्वसम्भवात् ।
चलं हि गुणवृत्तमिति परिणामस्य क्षणिकत्वादवस्थाभेदः सदातनः ।
अवस्थाभेदानादरेण प्रत्ययानुवृत्तिकार्य मेकं चेत् स्त्रीत्वं, तदा जातिपक्षादस्या-भेद इति नियोगत एकवचनं स्यात् ।
अत एव चात्रापि जातेरेषणीयत्वात् फलत एकपक्षीभावं मन्यमानः पूर्वोक्तार्थो-
पपादनहेतुद्योतनं हिशब्दं पठति, न समुच्चयार्थं चकारम् । यथा चात्र पक्षे द्विवचन-
बहुवचनानेकप्रत्ययानुत्पत्तिदोषः, तथा द्रव्येण सामानाधिकरण्याभावोऽपि । तथा
चास्याः कुमारीति स्यात् । संस्त्यानस्य च धर्ममात्रत्वात् क्रियायोगो न कल्पते,
अलङ्क्रियायां कुमारीति ।। 179 ।।
तदत्र प्रतिसमाधानमुक्तं वार्त्तिककृता--`गुणस्य चाश्रयतो लिङ्गवचनभावाद्'
इति । तदेतद् व्याख्यातुमुपक्रमते--
जातिसङ्खयासमाहारैर्याथैव सहचारिणि ।
द्रव्ये क्रियाः प्रवर्तन्ते एकात्मत्वेऽप्यपेक्षिते ।। 180 ।।
मूर्तिभ्यो मूर्तिधर्माणां तथाऽभेदस्य दर्शनात् ।
सामानाधिकरण्यं च क्रियायोगश्च कल्पते ।। 181 ।।
`गौर्दुह्यताम्, ब्राह्मणशतं भोज्यताम्, पञ्चपूली समानीयताम्' इत्यादौ जाति-
सङ्खयासमाहारैः शब्दोपादानात् करणभूतैः स्वात्मन्यसम्भवादविनाभाविनि द्रव्ये
क्रियाः क्रियन्ते, जातितद्वतोः समवायाद् भेदस्य प्रच्छादनेऽभेदे निरूपिते, धर्मध-र्मिणोरपि तथैव विवेकानवसायात् तत्त्वतो भेदेऽप्येकात्मत्वे बुद्धया निरूपिते सति।एवं मूर्तिभ्यो वस्तुभ्यस्तद्धर्माणां संस्त्यानादीनामभेदस्य द्रव्यादव्यतिरेकस्य
प्रतिभासनात् सामानाधिकरण्यम्, द्रव्येण क्रियायोगश्च कल्पते ।
स्वभावाद्धि प्रत्ययेन द्रव्याद् व्यतिरेकेण स्त्रीत्वं न प्रत्याय्यते ।
प्रक्रियायां तु प्रत्ययार्थपक्षापोद्धारः । `सर्वाश्च पुनर्मूर्तय एवमात्मिकाः
संस्त्यानप्रसवगुणाः' इति भाष्ये मूर्तिशब्देन वस्तुमात्रस्याभिधानादिहापि मूर्ति-
शब्देन वस्तुमात्रं लक्ष्यते । दिगादीनाममूर्तानामपि स्त्रीत्वाख्यस्य धर्मस्य
सम्भवात् ।। 180,181 ।।
केचिदाहुः--`लुप्तमत्वर्थीयाः कुमार्यादयो द्रव्यवचनैः समानाधिकरणा
भवन्ति' इति । तन्मतमपाकरोति--
सामानाधिकरण्ये तु मतुब्लोपादपेक्षिते ।
लुक् तद्धितलुकीति स्याल्लुक् तत्राप्युपलक्षणम् ।। 182 ।।
संस्त्यानलक्षणधर्ममात्रवचनः स्त्रीप्रत्ययान्त इति गुणवचनत्वान्मतुपो लुका
शुक्लदिवद् द्रव्यसामानाधिकरण्येऽङ्गीक्रियमाणे "लुक् तद्धितलुकि"(1/2/49)
इति स्त्रीप्रत्ययस्य लुक्प्रसङ्गः ।
अथ सर्वदा द्रव्यस्यैव स्त्रीप्रत्ययान्तैः प्रत्यायनात् स्त्रीप्रत्ययस्यालुग् भविष्यति, न तु मतुप एव ।
एवं हि स्त्रीप्रत्ययस्य लुग् नैव प्राप्नोति । तस्माद् विनापि मतुपं स्वभावादेवद्रव्यस्य स्त्रीत्वाभेदेन प्रत्यायनम् । तथा च यत्रापि मतुपो लुगारब्दः शक्लादौ,
तत्रापि स्वार्थावच्छिन्नप्रत्यायनशक्तिं प्रकृतेरेव ज्ञापयितुमित्युपलक्षणं तत्र
लुक् । असति तु तथार्थाभिधाने लुकापि किं कृत्यम् ।
एवं प्रत्ययार्थपक्षे गुणवचनत्वादभेदोपचारादाश्रयेण सह तत्सामानाधिकरण्यं
वचनभेदश्चोपपादितः। अनेकश्च प्रत्ययो भवति स्वभावाद् द्रव्योपसर्जनस्य स्त्रीत्वस्य क्वचिदनेकप्रत्ययेन प्रतिपादनात्।।182।।
प्रत्ययार्थपक्ष एव सामानाधिकरण्याद्यपरेण प्रकारेण समर्थयितुमाह-
केषाञ्चित् त्यक्तभेदेषु द्रव्येष्वेव विधीयते।
संस्त्यानवत्सु टाबादिरभेदेन समन्वयात्।।183।।
संस्त्यानवत्सु द्रव्येषु "स्त्रियाम्" (4.1.3) इति स्त्रीशब्दस्य तद्वति वृत्तिमा-
श्रित्य प्रत्ययार्थपक्षेऽपि टाबादिर्विधीयते। स्त्रीप्रत्ययान्ताद्धि नियोगतों
द्रव्यं प्रतीयत इतितदेव प्रत्ययवाच्यं न्याय्यं कल्पयितुम्। यद्येवमेकं प्रकृत्य-
र्थभूतं द्रव्यमपरं प्रत्यार्थभूतमिति द्रव्यद्वयप्रतीतिप्रसङ्गः। न च भेदेन द्रव्यद्वयं प्रतीयते।
प्रकृतिप्रत्ययार्थ द्वयोः परस्परमनभिसम्बन्धप्रसङ्ग इत्याशङ्क्योक्तम्-
यक्तभेदेष्विति।
यस्मादविद्यामनविशेषेणार्थेनाविरोधाद् भवति प्रकृतिवाच्यस्य विशेषस्याभि-
सम्बन्धोऽभेदेन, सर्वत्र स्त्रीत्येवमाकारसंविन्निबन्धनेन सामान्येनावगमात्। तस्मात् प्रकृतिप्रत्ययवाच्यतया सामान्यविशेषकल्पनया द्रव्येभेदः। प्रकृतिवाच्यं हि विशिष्टं द्रव्यम्, प्रत्ययवाच्यं तु द्रव्यसामानन्यम्। तदेव च प्रकृत्यर्थावच्छिन्नं
विशेषमासादयति।
तथाहि- प्रकृतिवाच्यानां द्रव्यविशेषाणां स्त्रीत्येवमभेदोऽनुगतः प्रतीतयत इति
प्रातीकिकोऽयं भेदः प्रकृतिप्रत्ययार्थयोः, न तु परस्परासंबद्धौ द्वौ द्रव्यात्मा-
नौ।।183।।
तथाहि-
सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः।
क्रियाभिर्युज्यते भेदैर्भागश्चावतिष्ठते।।184।।
प्रकृतिवाच्येन द्रव्यविशेषेणावच्छेदाद् बुद्ध्या परिकल्पितः प्रत्ययवाच्यो द्रव्यात्मा सामान्यमिव, न तु सामान्यमेव। एकपदनिबन्धनेन हि विशेषेणोपरागान्न
सामान्यत्मनि द्रव्यमत्रावतिष्ठते। अपि तु परिच्छिन्नपरिग्रहः।
एव?ञ्च कृत्वा क्रियायोगोऽस्य न विरूद्धः। तैश्च प्रकृतिवाच्यैर्भेदैर्वि-
शेषैस्तस्य समूहरूपस्य सर्वत्रानुगतत्वात् सामान्यस्य भागैरिवावच्छेदात् तद्रूपतयावस्थानमिति सामानाधिकरण्यमपि युज्यते।
अयमत्राशयः- प्रकृतिप्रत्ययसुदायाद् विशिष्टं द्रव्यं प्रतीयत इति तत्रापोद्धारे
प्रक्रियायां कल्पनया सामान्यविशेषभावेन भेदमाश्रित्य प्रकृत्यर्थप्रत्ययार्थत्वमव-स्थाप्यते। तदेव द्रव्यं प्रकृतेरर्थादन्यस्माद् भेदेनावधार्यमाणं विशेषष्टाबादेर-
र्थस्य- स्त्रीत्यनुयायिना स्वभावेनानुगम्यमानं सामान्यमिति। लौकिके तु प्रयोगे
विशेषपर्यवसानैव प्रतिपत्तिरिति सर्वमुपपद्यते।।184।।
तदेवं प्रत्ययार्थपक्षे प्रकारद्वयेन स्वाश्रयतो वचनमुपपादितम्। एतदाक्षिपति-
शुक्लादिष्वाश्रयद्रव्यं प्राधान्येनाभिधीयते।
स्त्रीत्वं तु प्रत्ययार्थ्तवादभिधाविषयो यतः।।185।।
गुणोपसर्जनद्रव्यवचनाः शुक्लादयो युक्तं यदाश्रयगतलिङ्गसङ्ख्यानुवर्तिनः, प्रा-
धान्यादाश्रयस्य। स्त्रीत्वं तु प्रत्ययस्य टाबादर्वाच्यं प्राधान्येन। प्रकृत्य-
र्थस्तु द्रव्यमत्र गुणभूतमिति कथमत्र गुणधर्मान् प्रधानं प्रतिपद्येत। "विशेषणा-
नाम" (1.2.52) इत्यपि सूत्रेण विशेष्यवद् विशेषणानां व्यक्तिवचने
अतिदिश्येते, न तु विशेषणवद् विशेष्याणाम्। अभिधाविषय इति। सत्यपि वास्तवे
द्रव्यस्य प्राधान्ये न शब्दास्तदनुरुध्यन्ते, अपि तु स्वसामर्थ्यानुरुपमेषामभिधान-मित्यर्थः।।185।।
एतत् परिहरति-
सोऽयमित्यभिसम्बन्धादाश्रयं प्रतिपद्यते।
स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः।।186।।
यद्यपि प्रक्रियायां स्त्रीत्वं प्रत्ययार्थ इति व्यवस्थाप्यते, तथापि शब्दशक्तस्व-भावाद् गुणभावस्येह विपर्ययो वैपरीत्यं दृश्यते। स्त्रीत्वस्याप्राधान्यम्,
द्रव्यस्य तु प्राधान्यमिति।
न हि सर्वत्र प्रत्ययार्थः प्रधानम्। तद्यथा- साधने विधीयमानास्तिङो
नाख्याते साधनं प्राधान्येनाचक्षते, अपि तु क्रियोपसर्जनम्। संख्यायां विधीयमानाश्चविभक्तयः संख्येयोपसर्जनं तामाचक्षते। दीव्यत्यादिषु च विधीयमानाष्ठगादयः क्रिया-
वन्तमभिदधति प्राधान्येनेति सर्वत शब्दशक्तिरेवानुसरणीया।
एवञ्चाश्रयस्यैव प्राधान्यात् तत्संख्यात्रोपपद्यते।
यद्वा यद्यपि संस्त्यानमात्रमभिधेयं प्रत्यस्य, तथापि तेनोपचरिता भेदाः प्रकृत्यर्थ व्यक्तीः प्रत्ययान्तोऽभिधत्त इति सिद्धं वचनम्। तदेवं सामानाधिकरण्ये त्रयः
प्रकाराः।
द्रव्यादनतिरिक्तस्य स्त्रीत्वस्य प्रत्यायनम्, तद्यथा- `मूर्तिभ्यो मूर्तिधर्माणाम्'(वा.प.3वृ.181) इत्युक्तम्।अभेदोपचारो द्रव्यस्य वा प्राधान्यमितीहोक्तम्।।186।।
इदानीं संस्त्यानवद् द्रवयसमान्याभिधानपक्षेऽप्यत्र प्रत्ययार्थभूतस्यापि
सामान्यस्य वास्तवगुणत्वसंभवाद् गुणवचनत्वादाश्रयतो लिङ्गवचनातिदेशं योजयितुमाह-
साकाङ्क्षत्वाद् गुणत्वेन सामान्यं वोपदिश्यते।
व्यक्तीनामात्मधर्मोऽसावेकप्रख्यानिबन्धनः।।187।।
यदभेदन संस्त्यानवद् द्रव्यं प्रत्ययवाच्यं सामान्यभूतमुक्तम्,तत् सूत्रे विशेषणश-
ब्देन गुणपर्यायेणोक्तम्। यस्मात् प्रत्ययार्थत्वेन प्रधानमपि द्रव्यसामान्यं प्रकृत्यर्थगतद्रव्यविशेषापेक्षत्वाद् गुणशब्देनार्हत्यभिधानम्, द्रव्याकाङ्क्षस्यार्थ-
स्य गुणत्वेन प्रसिद्धेः।
न च विशेषेभ्यो विलक्षणं तत्। यस्माद् व्यक्तीनां द्रव्यविशेषाणामसौ गुणस्वभावतां
प्राप्तः। एकप्रख्यानिबन्धनो हि व्यक्तीनां स्वभावः सामान्यं कथ्यते। व्यतिरेकदर्श-
नेऽपि समवायात् स्वरूपतिरोधानात् स्वभावाताप्राप्तिरेव।।187।।
ननु साकाङ्क्षत्वाद् भवतु गुणत्वं द्रवयसामान्यस्य बुद्ध्या परिकल्पितस्य, तत्त्वतस्तु संस्त्यानविशिष्टस्य द्रव्यस्यैकत्वादाश्रयाश्रयिभावः कथमित्याह-
एवम्भूता च सावस्था भागभेदपरिग्रहे।
कृते बुद्ध्यैव भेदानामाश्रयत्वेऽवकल्पिते।।188।।
निष्कृष्टेष्वपि भेदेषु व्यक्तिरूपाश्रये ततः।
लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते।।189।।
सा सामान्यविशेषरूपाभ्यां शबलावस्था लिङ्गसंख्ये व्यक्तिरूपाश्रये कविशिष्टद्रव्या
श्रये ये प्रतिपद्यत इति समन्वयः।
तथाहि- अपोद्धारबुद्ध्या प्रकृतिप्रत्यभागपरिकल्पने कृते तयैव समुदायवाच्यमर्थं प्रकृतिप्रत्ययोर्विभज्य किञ्चिदस्य भेदरूपं प्रातिपदिकोपादानमपरं प्रत्ययवाच्यं
संस्त्यानानुविद्धमंशप्रख्यं प्रकल्पितम्।
भेदे च परिकल्पिते, प्रकृतिवाच्यानां विशेषणानामाश्रयत्वे समारोपिते तेषु
प्रृथक्कृतेष्वपि स्वतन्त्रेष्वपि निरूप्यमाणेषु विशेषेषु लिङ्गप्रत्यवमर्शेन
स्त्रीत्येवं निरूपणेन स्त्रीत्ववद् आश्रितत्वादाश्रयगतलिङ्गसंख्याप्रतिलम्भः।
अन्यत्र लिङ्गसंख्ययोः साहचर्येण दृष्टत्वादिह लिङ्गग्रहणम्, न त्वत्र
स्त्रीत्ववतो लिङ्गान्तरस्य विरोधिनोऽतिदेशः संभवति। तदेवं द्विवचनानुपपत्तिः
प्रतिविहिता। अनेकप्रत्ययानुपपत्तिस्त्वत्र न प्रतिविहिता। लिङ्गवचनविचारप्रस्तावेनहीदमिह कथ्यत इत्यत्राप्रस्तुतानेकप्रत्ययानुपपत्तिः। सुप्रतिविधाना चेयम्।
क्वचित् किल स्वभावाद् द्रव्योपसर्जनस्य स्त्रीत्वस्यानेकेन प्रत्ययेनाभि-
व्यङ्गयत्वात् । न हि व्यञ्जकानां नियमः ।
एतामेव च शब्दशक्तिमनुसर्तुं ष्फस्य षित्वं ङीषर्थं कृतम् । ष्यङश्च ङित्-
करणं "यङश्चाप्" (पा.4-1-74) इत्यत्र सामान्यग्रहणार्थम् ।
भाष्ये त्वन्यथा परिहारोऽभिहितः--`भवस्य च भावयुक्तत्वात्" इति हि
वार्तिकम् । गुणपरिणामरूपत्वात् स्त्रीत्वस्यापि स्त्रीत्वेन योग उपपन्न इत्यर्थः ।विस्तरव्याख्यात्र वार्त्तिकोन्मेषे ।
एतच्च शब्दशक्तिमननुसृत्य प्रत्ययार्थपक्षे संस्त्यानस्य प्राधान्यं
प्रक्रियागतमाश्रित्योक्तम् ।
यथा तु शब्दशक्त्यनुसारेणेह द्रव्यप्राधान्यं विवक्षितम्, तथा अनेकेनापि
व्यञ्जकेन व्यङ्गयप्रतीतिर्द्दष्टेति यथासमर्थितमेव ज्यायः ।
तथा ह्यभिधानभेदात् स्त्रीत्वस्य स्त्रीत्वयोग उच्यते । प्रातिपदिकेन
द्रव्यरूपस्याभिधानात् प्रत्ययेन धर्मरूपस्येति प्रत्ययद्वयोपपत्तिः । यथा तदेव
कर्मादिविभक्तिभिः शक्तिरूपं प्रत्याय्यते । प्रातिपदिकेन तु वस्तुभूतम् । अयं
ह्येकत्वादर्थस्य शब्दभेदात् प्रतीतिभेद उपपन्नः ।। 188,189 ।।
क्रमप्राप्त्या द्वन्द्वे लिङ्गवचनातिदेशस्योपयोगो विचार्यते । तत्र चार्थेद्वन्द्वविधानादलिङ्गसंख्यत्वे चोदिते `स्वाभाविकत्वात्' इति परिहारोऽभिहितः । स
कथमुपपद्यते । यतश्चार्थस्य द्वन्द्वेनोपग्रहाद् मा भूच्चास्य तत्र प्रयोगः ।
चशब्दवत् तु द्वन्द्वस्याप्यर्थोऽभिहित इति अलिङ्गसंख्यत्वं केन न स्यादि-त्याशङ्कय क्रमेणैतदुपपादयितुमाह--
अन्तरेण चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् ।
अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते ।। 190 ।।
धवखदिरादिशब्दा द्वन्द्वं भावयन्ते प्राप्नुवन्ति, द्वन्द्वो वा भावी
येषाम्, तेषां चशब्दप्रयोगं विना अविशिष्टार्थवृत्तित्वमवगम्यते । समुच्चयाख्य-
विशेषानपेक्षया धवादिजातीयस्यार्थस्य चशब्देनाविशेषितरूपा अविशिष्टरूपा धवादयः
शब्दा वाचका इति समुच्चयद्योतनाय वाक्ये चशब्दमपेक्षन्ते ।। 190 ।।
यतः--
विकल्पवति वा वृत्तिर्निवर्त्येऽर्थे समुच्चिते ।
तेषामज्ञातशक्तीनां द्योतकेन नियम्यते ।। 191 ।।
असति चादिपदप्रयोगे समुच्चयादिविशिष्टेऽर्थे द्वन्द्वभाविनां पदानां
वाक्यावस्थानां वाचकशक्तिर्नावर्धायते । सन्देहो हि स्याद् विकल्पादौ । ततश्च
यथा विकल्प्यमानेऽर्थे वाशब्देन पदानां वाचकशक्तिर्ज्ञाप्यते, नञा च निवर्त्ये
प्रतिषिध्यमाने, तथा चशब्देन समुच्चीयमाने । द्योतकेनेति न वदन् परपदनिष्ठस्य
शब्दस्य वाचकत्वाभावात् द्योतकलक्षणं ज्ञापयति । अकेवलपदप्रयोगो द्योतक इति
निर्णीतं वाक्यकाण्डे ।। 191 ।।
एवं वाक्ये चशब्दप्रयोगः समर्थितः समासे तु द्वन्द्वे नास्ति तस्य प्रयोग
इत्याह--
वृत्तौ विशिष्टरूपत्वाच्चशब्दो विनिवर्तते ।
अर्थमेदेऽपि सारूप्यात् तच्चार्थेनापदिश्यते ।। 192 ।।
एकार्थीभावकृताद् वृत्तिवाक्ययोर्विशेषाद् वाक्यगतधर्मवैलक्षण्येन वृत्तिप-
दानामर्थाभिधानादन्तरेणापि चशब्दं समुच्चयोपाधिकं विशिष्टार्थाभिधानं द्वन्द्वे
स्वाभाविकम्, न तु चार्थे द्वन्द्ववचनात् । न ह्यर्था आदिश्यन्ते । सहविवक्षायां
हि वृत्तावनुस्यूतभेदः प्रत्येकं पदैकन्योन्यापक्षैः समुदायोऽभिधीयत इति तत्र
भेदस्य विगलनात् तदधिष्ठानः समुच्चयो न द्योत्यः ।
वाक्ये तु भेदप्राधान्याच् चशब्देन भेदाधिष्ठानः समुच्चयो द्योत्यते ।
तदेवमत्यन्तार्थभेदेऽपि चार्थेन द्वन्द्वार्थो निर्दिश्यते, क्रियायामितरेतरापे-
क्षासाम्यमात्रात् । अन्वाख्यानाय ह्यर्थो लोकसिद्ध एव सर्वतो व्यावृत्तस्वभावः
कथञ्चित् सादृश्यलेशानुगमनेन शब्देषु निर्दिश्यते । सर्वतो व्यावृत्तस्य प्रतिशब्द-मर्थस्यानन्त्यान्निर्देषुमशक्यत्वात् प्रक्रियागौरवप्रसङ्गाच्चेति लाघवेनार्थनि-
र्देशो न्याय्यः ।। 192 ।।
तत्र च तद्धितार्थनिर्देशवन्नैर्देशिकस्यार्थस्याप्राधान्यात् स्वभावसिद्ध एवार्थविशेषोऽनुगम्यते ।
यदि तु यथानिर्देशमर्थाः स्युः, तदा--
चस्य चासत्त्वभूतोऽर्थः स एवाश्रीयते यदि ।
तद्धर्मत्वं ततो द्वन्द्वे चादिष्वर्थकृतं हि तत् ।। 193 ।।
`अलिङ्गमसंख्यमव्ययम्' इत्यर्थनिबद्धाव्ययसंज्ञेति चार्थे द्वन्द्वविधानात्तस्य चार्थस्येव धर्मो लिङ्गसंख्यारहितत्वं द्वन्द्वेऽप्यनुषज्येत । द्वन्द्वस्य
चादिष्वपाठादव्ययसंज्ञा न प्राप्नोतीत्याशङ्कयोक्तम्--`चोदिष्वर्थकृतं हि तत्' इति। अलिङ्गसंख्यत्वे चादीनामव्ययत्वं स्वभावसिद्धं पाठेनानूद्यते, न तु पाठ
एव विधायकः, उदाहरणार्थत्वात् तस्येति च समानार्थत्वे द्वन्द्वेऽप्यव्ययत्वं
स्यादेव ।
मा भूद् वाव्ययसंज्ञा पाठनिबद्धा, अलिङ्गासंख्यत्वं त्वर्थाश्रयं केन
निवार्येतेत्यर्थः । अन्वर्थत्वाद् वाव्ययसंज्ञायाः सापि भवेत् ।। 193 ।।
तस्मान्न वचनानुरोधी स्वार्थः शब्दानामित्यभिधानवैचित्र्यादर्थवैचित्र्य-
मुदाहरति--
चार्थः शक्तेः क्वचिद् भेदात् कथञ्चित् समवस्थितः ।
द्योतकाश्चादयस्तस्य वक्ता द्वन्द्वस्तु तद्वताम् ।। 194 ।।
शब्दशक्तिभेदाद् यथा समुच्चयशब्दो लिङ्गसंख्यायुक्तं चार्थमाह, तथा
द्वन्द्व इति समुच्चयोपाधिकार्थाभिधायकोऽसौ । पदान्तरोपादानार्थनिष्ठास्तु
द्योतकाः चादय इति वाचकत्वद्योतकत्वकृत एवायं विशेषो व्यक्तिवचनाभ्यामयोगो
योगश्च ।। 194 ।।
तथाहि--
विकल्पाद्यभिघेयस्य चार्थस्यान्यपदार्थता ।
द्योतकत्वान्न कल्पेत तस्मात् सदुपलक्ष्यते ।। 195 ।।
विकल्पः समुच्चयः प्रतिषेध इत्येवमादिभिः शब्दैरभिधीयमानस्यार्थस्यान्येन
रूपेण लिङ्गसंख्यायोगिना पदप्रत्याय्यता वाप्रभृतिर्विकल्पादिशब्दानामर्थाभेदे
वाशब्दादिद्योतकत्वान्न घटेत ।
अस्ति तु लिङ्गसंख्यायोगिनोऽर्थस्य विकल्पादिशब्दैरभिधानात् सान्यपदार्थ-
तेत्येकस्यैव वस्तुनः शब्दशक्तिभेदान्नानाकारस्य प्रकाशनमिति शब्दार्थोऽर्थ इति
नये स्वाभाविक एवायमर्थभेद इति सत् सत्त्वभूतं वस्तु द्वन्द्वविषयत्वेन (विषयकेण)
चशब्देनोपलक्ष्यते कुतश्चित् सामान्यात् । न त्वसौ तत्त्वतश्चशब्देनेव द्वन्द्वेन
प्रत्याय्यत इत्यर्थः ।
तदेतदुक्तं भाष्ये--"नेदं वाचनिकमलिङ्गता असङ्खयता वा । किं तर्हि,
स्वाभाविकमेतत्"इति ।। 195 ।।
एतदेवाह--
तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते ।
शब्दः कश्चित् तमेवार्थं कथञ्चित् प्रतिपद्यते ।। 196 ।।
शब्दधर्मे शब्दस्वभावेऽभिसंहिते भाष्य एतदुक्तमित्यर्थः । तथाहि--वस्तुन
ऐक्येऽपि शब्दभेदादर्थवैचित्र्यम् ।
तद्यथा - कार्श्यम्, क्रशिमा, कृशतेति प्रकृतिप्रत्ययार्थयोः प्रकृतिरूपस्-याभेदेऽपि प्रत्ययश्रुतिभेदनिबन्धनः स्थितिप्रसवसंस्त्यानभेदः । जलम्, आपः, दारा,
भार्येति च शब्दशक्तिभेदाल्लिङ्गवचनभेदः । तथा द्वैधमित्यलिङ्गोऽसंख्यः स
एवमतिद्वैधानीति सलिङ्गसंख्योऽर्थः प्रतिपाद्यते ।
अत्र हि "धमुञन्तात् स्वार्थे डदर्शनम्" (वा.5/3/45)इति प्रत्ययान्तरत्वे
शब्दान्तरत्वम् । एवं द्वन्द्वोऽपि सलिङ्गसंख्यार्थाभिधायी ।। 196 ।।
स्यादेतत् वक्तुरभिप्रायादर्थानां व्यवस्था, न शब्दधर्मत इत्याशङ्कयाह--
शब्दादर्थाः प्रतायन्ते स भेदानां विधायकः ।
अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते ।। 197 ।।
जातावेकवचनं शब्दादिति । यथाभिप्रेतमर्थं प्रतिपादयितुं वक्ता योग्यान्
शब्दानुदाहरतीति तेभ्यः शब्देभ्यो वक्तृनिनक्षानुमानाद् व्यवहारे शब्दा एवार्थ-
व्यवस्थापने प्रभवः । अक्षिनिकोचादीनामपि शब्दैनैवानुमापकत्वं, सङ्केतितत्वात् ।
तथाहि--शब्देभ्यो वस्त्वर्था एकस्वभावा अपि विस्तारं भजन्ते, तेभ्यो
नानारूपाणां प्रकाशनात् ।
तथा च दारशब्दः स्त्रियं पुंस्त्वविशेषणामाचष्टे, भार्याशब्दः स्त्रीत्ववि-
शिष्टाम्, अप्शब्दोऽवयवात्मकं तमेवार्थं बहुत्वावच्छिन्नमाह ।
उदकशब्दस्तु समूहरूपमेकमित्यादिशब्दधर्मोऽनुगन्तव्यः । अतश्च सशब्दः
स्वशक्तिवशाद् भेदानां वाच्यविशेषणां विधायको निर्माता । भागभेदस्य वस्तुनि
समारोपणमिवार्थस्य स्वभावात् तत्कृतं नानात्वमित्यर्थः ।। 197 ।।
तदेवं स्वाभाविको लिङ्गसंख्यायोगो द्वन्द्वे समर्थितः । `अथवाश्रयतो लिङ्ग-वचनानि भविष्यन्ति' इति पक्षान्तरं वाचनिकं भाष्ये उक्तं विचारयितुमाह--
समुच्चितः स्याद् द्वन्द्वार्थो गुणभूतसमुच्चयः ।
समुच्चयो वापि भवेद् गुणभूतसमुच्चितः ।। 198 ।।
समुच्चयोपाधिकाः समुच्चिता वा अर्था द्वन्द्वेनोच्येरन्, समुच्चितोपसर्जनो वा समुच्चय इति द्वैतम् ।। 198 ।।
तत्र,
समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः ।
समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम् ।। 199 ।।
समुच्चयेपसर्जनस्य सत्त्वभूतस्यार्थस्य द्वन्द्ववाच्यत्वे स्वाभाविके लिङ्-गसंख्ये इत्युक्तम् ।
यदा तु वचनेनार्थनिर्देशे समुच्चयः प्राधान्येन द्वन्द्ववाच्यः, तदा वचने-
नैव "विशेषणानाम्"(पा.1/2/52)इत्याश्रयतो लिङ्गवचने विधीयते । धर्मरूपत्वात्
समुच्चयस्याप्राप्तयोरिष्टयोर्लिङ्गसंख्ययोः शास्त्रं विधायकम् । तत्र समुच्चयस्य
प्राधान्येऽप्याश्रितमात्रस्य विशेषणशब्देनाभिधानाद् युज्यतेऽतिदेशः ।। 199 ।।
समुच्चितप्राधान्येऽपि शास्त्रस्योपयोगमेकीयमतेनाह--
समुच्चयवतोऽर्थस्य प्राधान्येऽप्यपरे विदुः ।
निमित्तानुविधायित्वादसिद्धिं लिङ्गसंख्ययोः ।। 200 ।।
निमित्तरूपेण निमित्तिनोऽवधार्यमाणस्य तदावेशाद् रूपतिरोधानमितीहापि समु-
च्चयाख्यानिमित्तावच्छादितस्य समुच्चितस्य स्वधर्मप्रतिपत्त्ययोग्यत्वात् तदीययो-
र्लिङ्गसंख्ययोरप्राप्तावतिदेश इति पक्षद्वयेऽपि शास्त्रमुपयोगि ।। 200 ।।
एतदयुक्तमित्याह--
समुच्चयो निमित्तं चेत् स्यान्निमित्तानुवर्तनम् ।
अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ।। 201 ।।
समुच्चयोपाधिरर्थो न द्वन्द्ववाच्यः, येन निमित्तानुविधानं स्यात् । अपि तु योऽर्थोऽन्वयव्यतिरेकाभ्यां द्वन्द्वस्य वाच्य इत्यवधारितः, स चार्थ इत्येवं
द्वन्द्वस्यान्वाख्यानायानुभाष्यते ।
स च क्रियायां समकक्ष्याणामर्थानां समूह उद्भूतकारकशक्तिः । तस्य
च कथञ्चित् समुच्चितशब्देनाभिधानदर्शनाद् भ्रान्त्या समुच्चयो निमित्तत्वेनाध्या-
रोप्यते ।। 201 ।।
परमार्थस्त्वयमत्रेत्याह--
समुच्चितनिमित्तत्वे चार्थस्यापगमेऽपि वा ।
स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ।। 202 ।।
यदा समुच्चितो द्वन्द्वस्य निबन्धनम्, तदा प्रधानधर्मानुविधानाद् न्याय-
प्राप्ते तदीये लिङ्गसङ्खये ।
यद्वात्यन्तवैलक्षण्याच्चार्थ एवार्थसमुच्चयो नास्ति, यस्य द्रव्येण सह
गुणप्रधानभावाश्चिन्त्येत । सादृश्यलेशानुगममात्रेण तु शब्दानुशासने यथाकथञ्चि-
दर्थो निर्दिश्यते द्वन्द्वनिमित्तत्वेन चार्थ इति ।
सत्त्वभूत एव तु स्वभावतो द्वन्द्वार्थ इति समुच्चयस्यासत्त्वादेव
निमित्तभावो नास्ति ।। 202 ।।
अन्योन्यापेक्षा द्वन्द्वान्तर्वर्तिपदार्था द्वन्द्ववाच्याः,स एव च
समुच्चयः । तत् किमुच्यते चार्थस्यापगम इत्याशङ्कय पूर्वोक्तमर्थभेदं स्मारयति--
पदान्तरस्थस्यार्थस्य द्योतकत्वान्न युज्यते ।
निपातो लिङ्गसङ्खयाभ्यां द्वन्द्वस्त्वर्थस्य वाचकः ।। 203 ।।
वस्त्वर्थस्याभेदेऽप्यभिधाव्यापारभेदाच्छब्दार्थो भिद्यत इति द्वन्द्वे
सत्त्वभूतार्थाभिधानाच्चार्थस्य वाक्येऽसत्त्वभूतस्य दृष्टस्यापगमो वर्णित
इत्यर्थः । वाचकद्योतकशक्तिविलसितं चैतत् प्रागेवोक्तम् ।। 203 ।।
पुनरपि निमित्तानुविधानदर्शनमुपालभते--
निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् ।
गुणप्रधानभावेन क्रियायोगो न कल्पते ।। 204 ।।
निमित्तानुविधाने निमित्तरूपाच्छुरितस्य निमित्तिनो द्रव्यस्याभिधानात्
तस्य धर्मः शक्तिर्बुद्धया नावधार्यत इति क्रियाभिः प्राधान्येन गुणत्वेन वास्य
योगो न स्यात् । द्रव्यं हि साधनम् । तस्य चानवधारितस्वशक्तेः कथं
क्रियाभिसम्बन्धः ?
न च निमित्तस्य क्रियायोगोऽसत्त्वभूतत्वात् । तत्र गुणभावेन करणादिरूपतया
क्रियासम्बन्धः, प्रधानभावेन कर्मरूपतया च तस्य क्रियाभिरुत्पत्तिसंस्कारप्रतिप-
त्तिविषयस्य समन्वयात् ।। 204 ।।
मा भूत् क्रियायोग इति चेदाह--
यस्य नास्ति क्रियायोगः स्वतन्त्रोऽसौ न विद्यते ।
अर्थो द्वन्द्वस्य तत्र स्यादुपादानमनर्थकम् ।। 205 ।।
"क्रियानुषङ्गेण विना न पदार्थः प्रतीयते" (वा.प.2/425)इति स्वतन्त्रः
स्वनिष्ठः क्रियाभिरसम्बध्यमानः पदार्थो नास्ति । ततश्च तस्मिन्नर्थे निमित्तानुर-
क्ते क्रियायोगाभावा द्द्वन्द्वस्य वाचकत्वेन परिग्रहो निष्प्रयोजन इति नान्वाख्-
येयोऽसौ भवेदव्यवहार्यः । तस्मादन्वाख्यानादेवावसीयते निमित्ताननुविधानमत्र।।205।।
नचापि सर्वत्र निमित्तानुविधानमित्याह--
समुच्चयवतोऽर्थस्य वाचको नानुवर्तते ।
निमित्तमपि चास्यार्थः स्वधर्मैर्युज्यते ततः ।। 206 ।।
येऽप्येते समुच्चितादयः शब्दाः समुच्चयोपाधिकार्थाभिधायकत्वेन प्रसिद्धाः, तेऽपि निमित्तं नानुरुध्यन्ते । प्रागेव तु द्वन्द्वः, यत्र समुच्चयोपाधित्वे
भ्रान्तिः, यत्र हि निमित्तरूपेण निमित्तिनि तिरोहितस्वरूपे प्रतिपत्तिः, तत्र निमित्तानुविधानम्, यथा शुक्लादौ ।
इह पुनर्निमित्तेन भिन्नेनावच्छिन्नस्याख्यानमिति नास्ति तत् । अत एव
समुच्चयवत इति मतुबुपात्तः । भिन्नेन निमित्तेनावच्छिन्नस्यात्राख्यानमिति मतुपा
दर्शयति ।
यत्र तु निमित्तरूपेणाभिधानम्, तत्र शुक्लादौ मतुब् नोत्पद्यते ।
तस्मान्निमित्तानुविधानाभावादत्र समुच्चितशब्दः स्वार्थं स्वलिङ्गसंख्यायोगिनमभि-
धत्ते, तद्वद् द्वन्द्वोऽपीति न कश्चिद् दोषः ।
तदेवम् `समुच्चितः स्याद् द्वन्द्वार्थ' (वा. प. 3 वृ. 20 ) इत्यत्र पक्षे
स्वभावत एव लिङ्गसंख्ये इत्येतदेव युक्तम् । समुच्चयप्राधान्ये तु "विशेषणानाम्"
(पा.1/2/52)इति शास्त्रेण लिङ्गसंख्याविधानं तत्रैव तद् वक्तव्यम् ।। 206 ।।
समकक्ष्यानर्थानभिदधतो द्वन्द्वस्य कः समानाधिकरणपदवाच्य आश्रयः,
यस्य व्यक्तिवचने प्रतिपद्येतेत्याशङ्कयाह--
बाह्यो नास्त्याश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ ।
समुच्चयस्तदाधारस्तद्धर्मैर्व्यपदिश्यते ।। 207 ।।
`शुक्लाः पटाः' इत्यत्र यथा पटशब्दोपादानो गुणवचनस्याश्रयोऽस्ति, नैवं
पदान्तरोपादानो द्वन्द्वे विद्यते । श्रुत्यैव द्वन्द्वपदाभ्यां विशेषयोर्भेदयोरुपादानात्तदन्तरङ्गयोः । धवखदिराविति तावेव विशेषौ समुच्चीयमानौ समुच्चयस्याधार
आश्रय इति तल्लिङ्गसंख्ये समुच्चयवाचिनौ द्वन्द्वस्य भवतः ।
तत्र च पूर्वोत्तरपदगताभ्यां विरुद्धाभ्यां लिङ्गाभ्यां युगपद् व्यपदेशास-
म्भवात् पर्याये प्राप्ते परवल्लिङ्गं नियम्यते । संख्याप्यवयवगतैकत्वसमाहारात्मिकाद्वित्वबहुत्वलक्षणावयवलक्षणाश्रयवद् द्वन्द्वस्य भवति ।। 207 ।।
एवं परस्परापेक्षा अवयवार्था एव द्वन्द्वार्थ इत्यत्र दर्शने प्रतिपादितमि-दम् । इदानीं युगपदधिकरणवचनतायाश्चार्थस्यासम्भवपक्षे प्रतिपादयितुमाह--
यो वावयवभेदाभ्यां भेदवद्भ्यामिवान्वितः ।
एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ।। 208 ।।
अवयवभेदानुगतः समुदायः सहविवक्षायां द्वन्द्ववाच्यः, अभिधानं पुनः
स्वाभाविकम् `याभ्यां चैकमनेकार्थं ताभ्यामेवापरं पदम्' (वा.प.3 वृ. 32 )
इति प्रत्येकं पदैरभिधीयमानोऽर्थ इत्यत्र दर्शने व्यक्तिवचने अवयवाश्रये समुदायः
प्रतिलभत इति स्पष्टमेतत् । अनुस्यूतभेदस्य च समुदायस्य द्वन्द्वेनप्रतिपाद्यत्वाद्भेदवद्भयामिवेत्याह । न त्वत्यन्तभिन्नाभ्यामित्यर्थः ।
अभेदानुगमाच्च तयोर्भागयोराश्रयभूतयोः समुदायो लिङ्गसंख्ये अनुवर्तते ।
अन्यथा निरस्तभेदस्य वनयूथादिवदभिधाने भेदयोराश्रयभूतयोरनुपादानाद् वर्तिपदाभ्यां
कस्य लिंङ्गसंख्ये भजेत द्वन्द्व इत्यभिप्रायः ।। 208 ।।
नन्वेवमप्यवयवव्यतिरेकेण समुदायानुपलक्षणात् क्व आश्रयाश्रयिभाव
इत्याह--
एकश्च द्वयात्मकोऽर्थोऽसौ भेदाभेदसमन्वितः ।
यौ भेदावाश्रितस्तत्स्थे लिङ्गसङ्खये प्रपद्यते ।। 209 ।।
अवयवात्मतया गृह्यमाणः समुदायो भिन्नः, स्वतस्त्वेकप्रश्यानिबन्ध-
नतयाऽभिन्न इति द्विरूपः ।
तथाच प्रत्येकं पदैर्भेदात्मना प्रत्याय्यमान आश्रयः, समूहात्मना त्वर्था-
श्रितः (त्वाश्रितः) इत्याश्रयभूतवर्तिपदार्थसमवेते लिङ्गसंख्ये समवलम्बत इति
स्थितम् ।। 209 ।।
इदानीं बहुर्वीहौ व्यक्तिवचनातिदेशोपयोगं क्रमेण व्युतपादयितुमाह--
यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते ।
चैत्रशब्दो बहुर्वीहावप्रयोगस्तथा भवेत् ।। 210 ।।
इहान्यपदार्थे बहुर्वीहिरन्वाख्यायते । ततश्च तेनैवान्यपदार्थस्योक्तत्वाद्
द्वन्द्व इव चशब्दस्य तदभिधायिनश्चैत्रादेः प्रयोगो न प्राप्नोति ।
तद्यथा--चैत्रशब्देनोक्ते स्वार्थे पुनश्चैत्रशब्दो न प्रयुज्यते । उक्ता-
र्थानां ह्यप्रयोगः । तदुक्तं वार्त्तिके--"पदार्थाभिधानेऽनुप्रयोगानुपपत्तिरभिहि-
तत्वात्" इति ।
अत्र परिहारोऽभिहितः "न वानभिहितत्वात्, सामान्याभिधाने हि
विशेषानभिधानम्" इति ।। 210 ।।
एतद् व्याचष्टे--
यथा गौरिति शुक्लादेरभिधानं न विद्यते ।
एवं यस्याभिसम्बन्धो गोभिस्तावत् प्रतीयते ।। 211 ।।
सम्बन्धिसामान्ये बहुर्वीहिरिति तद्विशेषप्रतिपत्तिरतो न भवति । तद्यथा--
सामान्यवाची गोशब्दो विशेषाभिदानायासमर्थ इति प्रयुज्यते विशेषप्रतिपत्तये शब्दः,
तत्र `गौः शुक्लः कृष्णो वेत्यादिः । एवं `चित्रगुश्चैत्रो मैत्रो वा' इति प्रयोगो विशेषप्रति पत्तये न्याय्यः । चित्रा गावो यस्येति स्वामिमात्रस्य प्रतीतेः।।211।।
यत्र तु शब्दशक्तिस्वाभावाद् बहुर्वीहिणैव विशेषोऽङ्गीकृतः, तत्र तदभिधायीन प्रयुज्यत इत्याह--
सम्बन्धी नियतो रूढश्चित्राणां न च विद्यते ।
गवां यथा वज्रपाणिस्त्र्यक्षो वापि व्यवस्थितः ।। 212 ।।
वज्रं पाणौ यस्य, त्रीण्यक्षीणि यस्येति नियतः प्रसिद्धोऽव्यभिचारी रूढः
शक्रः शिवश्च सम्बन्धी वृत्तावन्तरेण विशेपदप्रयोगमवगम्यत इति भवति तत्र सम्बन्ध
विशेषेऽन्यपदार्थे बहुव्रीहिः। चित्रगुरित्यत्र विशेषो नावधार्यते, चित्रैर्गोभिर-
विशेषेणं स्वामिमात्रस्य समन्वयसम्भवादिति विशेष्यस्यानुप्रयोगोऽत्राविरुद्धः।
प्रकरणादेस्तु विशेषावगमेऽत्रापि तत्प्रयोगो नास्ति।।212।।
एवं वार्त्तिककृता विसेषाबिधानायानुप्रयोगे समर्थिते चोदितं भाष्ये
"भवेत् सिद्धम्, यदा सामान्ये वृत्तिः। यदा तु विशेषे वृत्तिः, तदा न सिध्यति
। चित्रा गावोऽस्य देवदत्तस्य" इति।
अत्र सरमाधिः `नेदमुभयं युगपद् भवति वाक्यं समासश्च। यदा वाक्यं
, न तदा समासः, यदा समासः, सामान्ये तदा वृत्तिः। तत्रावश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। चित्रगुः कः, देवदत्तः इति।
तदेतद् व्याचष्टे--
शब्दान्तरत्वाद् वाक्येषु विशेषा यद्यपि श्रुताः।
वृत्तिशब्दोऽन्य एवायं सामान्यस्याभिधायकः।।213।।
निर्णीतचरमेतद् वृत्तिवाक्ययोरर्थरूपभेदेन शब्दान्तरत्वमिति। विशेषप्रक्रमेऽपि वाक्ये वृत्तिशब्दो विशेषाभिधानप्रहतशक्तिरिति युक्त एवानुप्रयोगः। न हि वाक्यमेव
वृत्त्यावनन्तरर्भावात् सामान्यमेवासावाचष्टे। अदूरविप्रकर्षेण तु वृत्त्यर्थो
वाक्येनोपदर्श्यते। न तु सर्वतः परिच्छिन्ने वाक्यार्थे वृत्तिपदस्याभिधानशक्तिः,
संख्याविशेषादेरतोऽप्रतीते।।213।।
यद्येवं किमनेनानवगमितविशेषेण साकाङ्क्षेण सामान्याभिधानायिना बहुव्रीहि
समासेन प्रयुक्तेनेत्याशङ्क्याह-
अगोरचित्रगोश्चैव रूपभेदान्निवर्तकः।
एवं चित्रगुविशेषाणां रूपाभेदात्तु वाचकः।।214।।
चित्रगुशब्देनाविद्यमानगोसम्बन्धाद् व्यावृत्तोऽर्थाभिधीयते। चित्रत्वेन विशेषणाद-चित्रगोर्व्यावृत्तिः।
एवञ्च न सर्वथा सामान्यशब्दोऽयम्, अपि त्वन्यव्यावृत्तिविशेषस्या-
प्यभिधातेत्यर्हति प्रयोगम्।
एतावतीं विवक्षां पुरस्कृत्य चित्रगवीसम्बन्धे हि प्रतिपाद्ये भिन्नरूप एवायं शब्दः। तन्निष्ठापरविशेषप्रतिपादने तु रूपसामान्यादशक्त इति सामान्यस्याभिधायकः कथ्यते। चैत्रोऽपि हि स्याच्चित्रगुर्मैत्रोऽपीत्यत्राविशेषः।।214।।५
एवं विशेषशब्दानामनुप्रयोगे साधिते पुनश्चोदितम्- `सामान्यस्यैव तर्ह्नुप्रयोगगो न प्राप्नोति। चित्रगु तत्, चित्रगु किम्, चित्रगु सर्वम्' इति।
अत्र समाधिः- `सामान्यमपि यथा विशेषः, तद्वत् चित्रगु इत्युक्ते सन्देहः
स्यात्, सर्वं वा विश्वं वेति, तत्रावश्यं विशेषोऽनुप्रयोक्तव्यः'इति।
अत्र सामान्यस्य कथं विशेषसादृश्यमिति व्याचष्टे--
यथा चित्रगुरित्येतत्प्रयुक्ते न प्रयुज्यते।
एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः।।215।।
चित्रगुरित्येवं चित्रगवीस्वामिन्याख्याते न तदर्थ एव शब्दोऽनाकाङ्क्षितार्थः
प्रयोगमर्हति। एवंभूतं यदि सर्वादिपदोपादानं सामान्यमनाकाङ्क्ष्यमाणं स्यात्, तदा
अन्यव्यावृत्ताभिधानाच्च विशेषपदमेवैतदित्याह-
सर्वादयो विशेषास्तु प्रदेशानां निवर्तकाः।
यथा प्रदेशाः सामान्यप्रदेशान्तरबाधकाः।।216।।
इह भेदकत्वं विशेषलक्षणमिति यथा चैत्र इत्युक्ते मैत्रादिविशेषान्तरव्यव-
च्छेदः प्रतीयते, सामान्यस्य च निवृत्तिः, तथा `सर्वं विश्वम्' इत्यादिसामान्यपद-
प्रयोगेऽपि विशेषनिवृत्तिप्रतीतेरन्यव्यवच्छेदकमिदं सामान्यमपि विशेषो भवत्यपेक्षावशादित्यर्थः।।216।।
एवं पदार्थाभिधानपक्षेऽनुप्रयोगानुपपत्तिचोद्यं समाहितम्।
यदा तु चित्रा गावो यस्येति विभक्त्यर्थेऽन्यपदार्थे सम्बन्धलक्षणे
बहुव्रीहिः, तदा सम्बन्धवाचिका विभक्तिः षष्ठी मानुप्रयोजि, द्रव्यं तु सम्बन्धन-
भिहितमिति तदभिधानायानुप्रयोग उपपद्यत एव।
तदुक्तं भाष्ये-" अथवा विभक्त्यर्थोऽभिधीयते। एतच्चात्र युक्तम्। अत्र हि सर्वपश्चात्पदं वर्तते' इति।
चित्रा गावो देवदत्तस्येति यथैतत् षष्ठ्यन्तं पदं तदभिधाव्यापारेण प्रातिप-
दिकार्थोपसर्जनं विभक्त्यर्थं प्राधानयेनाचष्टे। तथा च समबन्ध्युपसर्जनस्य सम्बन्ध-
स्यान्यपदार्थता न्याय्येति सर्वपश्चाच्छब्देन षष्ठ्यन्तस्य पदस्य तत्र विभक्त्य-
र्थे व्यतिरेके सम्बन्धलक्षणे वृत्तिमाह अभिधाव्यापारेण। `नागृहीतविशेषणा विशेष्ये बुद्धिः' इति न्यायात् पूर्वमवच्छेदके प्रातिपदिकार्थे सम्बन्धिनि वृत्तिः, पश्चात् तदुपहितविशेषे सम्बन्ध इति स एवान्यपदार्थः प्रधानभूतो न्याय्यः।
तदेतदाह--
विभक्त्यर्थाभिधानाद् वा षष्ठी नानुप्रयुज्यते।
द्रव्यस्यानभिधानात्तु तच्छब्दोऽनुप्रयुज्यते।।217।।
गतार्थोऽयं श्लोकः।।217।।
अत्र पक्षे चोदितम्- " विभक्त्यर्थाभिधाने द्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः" इति विभक्त्यर्थस्यासत्त्वभूतत्वात् सत्त्वस्य द्रव्यस्य ये लिङ्गसङ्ख्ये
तदुपचारो व्यवहारोऽत्र समासवात्त्यस्य न स्यादित्यर्थः।
अत्र समाधिरूक्तः- "सिद्धं तु यता गुणवचनेषु"इत। तत्र गुणवचनानामाश्रयतो
लिङ्गवचनानि भवन्ति। शुक्लादीनामाश्रयैर्मतुब्लोपेन सामानाधिकरण्यात्।
इह तु सम्बन्धमात्रवचनस्य बहुव्रीहेः सम्बन्धिवचनैर्मतुब्लोपात् सामानाधिकरण्यं न युज्यत इत्याह--
सामानाधिकरण्यं चेन्मतुब्लोपात् प्रकल्पते।
मतुपोऽपि तदर्थत्वादनवस्था प्रसज्यते।।218।।
बहुर्वीहिवन्मतुपापि सम्बन्धस्यैव प्रतिपादनात् सम्बन्धिनोऽनभिधाने पुनर-
परो मतुब् विधेयः, तेनापि सम्बन्धिनोऽप्रत्यायने पुनरपर इत्यनवस्था अनिष्टा
मतुपामत्र स्यात् । मतुपा तु सम्बन्ध्यभिधाने मत्वर्थे बहुर्वीहेर्विधानात् तेनापि तथैवार्थाभिधाने विभक्त्यर्थाभिधानपक्षो न भवेत् ।। 218 ।।
न केवलमनवस्था, यावत्--
सम्बन्धस्य च सम्बन्धी सम्बन्धोऽन्यः प्रसज्यते ।
विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ।। 219 ।।
बहुर्वीहिवाच्यः सम्बन्धः प्रकृत्यर्थः । तेनावच्छिन्नोऽपरो मतुब्वाच्यः
सम्बन्धः । प्रकृत्यर्थोपरक्तत्वाच्च प्रत्ययार्थस्य प्रकृत्यर्थसम्बन्धावच्छिन्नः प्रत्ययार्थः प्रकृत्यर्थस्य सम्बन्धी स्यात् ।
तथा च प्रकृत्यर्थस्य सम्बन्धरूपता हीयते । उपाधिमत्त्वात् सम्बन्धिरूपता
प्राप्तेत्यभिप्रायः । षष्ठयर्थप्रधाने च बहुर्वीहौ चित्रगुरानीयतामित्यादिः
क्रियायोगो न स्यात्, सम्बन्धस्यासत्त्वभूतत्वेन कारकशक्त्याविर्भावायोगात्।।219।।
अथ `तत्र पश्य, ततः पश्य' इति विभक्त्यर्थप्रधानेऽपि दृष्टः क्रियायोगः,
नेत्याह--
विभक्त्यर्थप्रधानत्वात् ततस्तत्रेति न क्रिया ।
दृश्यादिः कर्मकर्त्रादिनिमित्तत्वाय कल्पते ।। 220 ।।
अपादानाधिकरणशक्तिप्रधानयोस्ततस्तत्रेत्यनयोर्दृशितिष्ठतीत्यादिका क्रिया
कर्तृकर्मशक्ती नाविर्भावयति, विभक्त्यन्तरार्थविरोधात् ।
किन्त्वत्रावधिमतत आधेयस्य च क्रियायोगः प्रतीयते । ततः पश्य, तत्र
तिष्ठतीति ।। 220 ।।
एवं विभक्त्यर्थाभिधानपक्षे दोषः ।
किञ्च विभक्त्यर्थाभिधाने चित्रगुर्देवदत्तस्येति षष्ठी स्यात् ? न भविष्-
यति । "अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः" इति ।
अत एव क्रियायोगो भविष्यतीत्याशङ्क्याह--
अन्तर्भवेच्च सम्बन्धः प्राधान्याभिहितः कथम् ।
स प्रातिपदिकार्थश्च तथाभूतः कथं भवेत् ।। 221 ।।
चैत्रस्येति यथा षष्ठया सम्बन्धः प्राधान्येनोद्भूतरूपोऽभिधीयते, तथा च
बहुर्वीहिणेति स कथमत्रान्तर्भवेत् ? यो हि सम्बन्ध्युपसर्जनः सम्बन्धोऽभिधीयते,
सोऽन्तर्भवति समासे ।
तद्यथा--`राजपुरुषः' इत्यत्र राजविशिष्टस्य पुरुषार्थस्य प्राधान्यात् सम्बन्धो गुणभूत इति भवत्वसौ प्रातिपदिकार्थः, इह तु व्यतिरेकेणोच्यमानः कथं प्रातिपदि-
कार्थः स्यात् ।। 221 ।।
इदानीं क्रियायोगं तावदुपपादयति--
असम्भवात्तु सम्बन्धे सम्बन्धसहचारिणि ।
जातिसङ्ख्यासमाहारकार्याणामिव सम्भवः ।। 222 ।।
`गामालभेत' ब्राह्मणानां शतमानय, पञ्चपूली बध्यताम्' इति जात्यादिषु
शब्दचोदितेषु क्रियायोगानुपपत्तेस्तत्सहचारिण्यविनाभाविनि द्रव्ये क्रिया यथानुष्ठीयन्ते, तथा `चित्रगुरानीयताम्' इति सम्बन्धमात्रे क्रियानुपपत्तेः, तदविनाभूते
सम्बन्धिनि तन्निवेशः ।। 222 ।।
स्यादेतत् । जातिशब्दैः स्वारूपाच्छुरितोऽभिधीयतेऽभेदेन सहचारीति युज्यतेतत्र क्रियायोगः । इह तु सम्बन्धस्य प्राधान्यात् कथमेतदित्याशङ्क्यात्रापि सामाना-धिकरण्यमुपपादयितुमाह--
सोऽयमित्यभिसम्बन्धाद् विशिष्टाश्रयवाचिनाम् ।
शुक्लादिवल्लिङ्गसङ्ख्ये शास्त्रारम्भाद् भविष्यतः ।। 223 ।।
मा भून्मतुब्लोपदत्र सामानाधिकरण्यम्, सोऽयमित्यभिसम्बन्धाश्रयेण तु
शुक्लादिवत् सम्बन्धेनोपचरिताभेदः सम्बन्धी वृत्तिपादवाच्यः सम्बन्धमात्रेऽपि
वृत्तिविधाने, शब्दशक्तिस्वाभाव्यादिति मञ्चादिवन्निमित्तानुविधानपरिहारार्थम्
`विशेषणानाम्"(3/1/52)इति सूत्रेण सम्बन्धिगतलिङ्गसङ्ख्यासिद्धिः । निमित्तानुविधा-
नेतु सम्बन्धस्य दिष्ठत्वाद् द्विवचनं स्यात् । शास्त्रारम्भात्तु प्रधानभूतान्यप-
दार्थाश्रये व्यक्तिवचने सिध्यतः ।। 223 ।।
यद्येवं कथमिदमुक्तं भाष्ये--"यदि तर्हि विभक्त्यर्थोऽभिधीयते, कृत्स्नः
पदार्थः कथमभिहितो भवति सद्रव्यः, सलिङ्गः,ससङ्ख्यश्च" इति ।
यावता सोऽयमित्यभिसम्बन्धाल्लिङ्गः सङ्ख्योपपत्तिरित्याशङ्खय भाष्यकारा-
भिप्रायं व्याचष्टे--
भेदेन तु विवक्षायां सामान्ये वा विवक्षिते ।
सलिङ्गस्य ससङ्ख्यस्य पदार्थस्यागतिर्भवेत् ।।
सम्बन्धिनो व्यतिरेकेण यदा सम्बन्धस्य बहुर्वीहिणा प्रतिपादनमिष्टम्, तदा
द्रव्येणासामानाधिकरण्यात् तल्लिङ्गसंख्योरयोगात् कृत्स्नस्य पदार्थस्यागतिरुक्ता ।
सोऽयमिति सम्बन्धिविवक्षायामेव वा निर्विशेषस्य सामान्यस्य चित्रगोरिद-
मुचितमित्यचित्रगुव्यावृत्तिमात्रपरेऽभिधाने बहिरङ्स्य चैत्रादिपदान्तरगम्यस्या-
श्रयस्याभावाल्लिङ्गसंख्यासर्वनामनपुंसकैकवचनप्रसङ्गात् कृत्स्नः पदार्थः कथमभिहितोभवतीत्युक्तम् । अतश्चात्र सोऽयमित्यभिसम्बन्धेऽपि कृत्स्नपदार्थाभिधानाभावाद्
विभक्त्यर्थाभिधानपक्षस्त्याज्यः, द्रव्याभिधानपक्ष एवाश्रयितव्यः ।। 224 ।।
स कथमुपपद्यत इत्याह--
साधुत्वं न विभक्त्यर्थमात्रे वृत्त्स्य दृश्यते ।
कृत्स्नार्थवृत्तेः साधुत्वमित्यर्थग्रहणं कृतम् ।। 225 ।।
प्रयुक्तानां शब्दानामन्वाख्यानात् षष्ठ्यर्थमात्रे द्रव्यादिरहिते वृत्त-
स्यैकार्थीभावापन्नस्य बहुर्वीहैः समासस्य प्रयोगो यतो न दृश्यते, द्रव्यप्रधानस्यैवान्यपदार्थस्यस्मात् प्रतीतेः । अतोऽर्थग्रहणं सकलार्थवाचिनः प्रयोगज्ञापनार्थं
कृतम् ।
तदुक्तं भाष्ये-"अन्यपद इत्येतावता सिद्धे यदर्थग्रहणं करोति, तस्यैतत्
प्रयोजनं कृत्स्नः पदार्थो यथा विज्ञायेत सद्रव्यः सलिङ्गः ससंख्यश्च" इति ।
सद्रव्य इत्येवमपि निर्देशे द्रव्यमेव प्रधानमभिसंहितम्, न गुणादयोऽपि समकक्ष्याः,द्रव्यस्यैव तात्पर्यदृशा गुणाद्युपरक्तस्य प्रतीतेः ।
तत्र पद इत्युक्ते सामर्थ्याद् विभक्त्यर्थः सन्निहितः प्रतीयते, शब्दे
शब्दस्य वृत्त्यभावात् । अर्थशब्दोपादाने तु पदेनार्थो विशेष्यमाणः सर्वपदावधिको
विज्ञायेत ।
यथा ह्याधिक्याद् वाक्यार्थोऽत्रैव व्यावर्त्यते, तथा न्यूनत्वाद् विभक्-
त्यर्थमात्रमिति लिङ्गसंख्यावत् पदार्थभूतं द्रव्यमेवान्यपदार्थ इति पदार्थाभिधान-
पक्ष एव ज्यायान् । ततश्चानुप्रयोगः समर्थितः ।। 225 ।।
अत्र च पक्षे व्यक्तिवचनातिदेशस्य नास्त्युपयोग इति तस्य पक्षान्तरे
सप्रयोजनत्वमाह--
सोऽयमित्यभिसम्बन्धाद् द्रव्यवृत्तिरयं यदा ।
सलिङ्गस्य ससङ्ख्यस्य तदा साधुत्वमुच्यते ।। 226 ।।
विभक्त्यर्थप्रधानपक्षे द्रव्यसामान्येन सम्बन्धस्योपचरिताभेदस्याभिधानेऽपि विशेषगतलिङ्गसंख्यासिद्ध्यर्थम् `यथा गुणवचनेषु"इति वार्त्तिककारेण व्यक्तिवचना-तिदेशस्योपयोग उक्तः, न त्वर्थपक्षे । अर्थग्रहणात् कृत्स्नद्रव्याभिधाने स्वाभावि-कत्वाल्लिङ्गवचनयोरत्रेत्यर्थः ।। 226 ।।
अत्र त्वयमुपालम्भः--"यदि तर्हि कृत्स्नः पदार्थोऽभिधीयते, लैङ्गाः
सांख्याश्च विषयो न सिध्यन्ति" इति भाष्य उक्तः । तमेव व्याचष्टे --
अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा ।
तथाऽश्रुतिः प्रसज्यते लिङ्गसङ्ख्याभिधायिनाम् ।। 227 ।।
अर्थग्रहणात् सलिङ्गसंख्यस्य द्रव्यस्य प्राधान्येनाभिधाने तद्गुणाभूतस्य
विभक्त्यर्थस्य सम्बन्धस्यान्तर्भावात् प्रातिपदिकार्थत्वे यथा षष्ठीविभक्तिर्न
भवति, तथा लिङ्गे स्त्रीत्वे भवा लैङ्गष्टाबादयः, संख्यायामेकत्वादिकायां भवाः
साङ्खयाः स्वादयस्तेषामप्यश्रुतिरश्रवणमप्रयोगः प्रसज्येतापद्येत ।। 227 ।।
स्वाद्यभावे केवला प्रकृतिः कथं प्रयोगार्हेत्याशङ्क्याह--
साधर्म्यमव्ययेन स्याद् बहुर्वीहेस्तथा सति ।
लिङ्गसङ्ख्यानिमित्तस्य संस्कारस्यापवर्तनात् ।। 228 ।।
लिङ्गसङ्खाप्रापितस्य संस्कारस्य टाबादिस्वाद्युत्पत्तिलक्षणस्याभावादलिङ्-गसङ्खयैख्ययैर्बहुर्वीहिपदानामेकयोगक्षेमता स्यात् । यथैवाव्ययस्य स्त्रीप्रत्ययवि-भक्तिरहितस्य प्रयोगनियमापवादात् केवलस्य प्रयोगः साधुः, एवं बहुर्वीहेर्भवेदित्य-
र्थः ।। 228 ।।
चैत्रादिना सत्त्ववचनेन पदान्तरेण तर्हि कथं सामानाधिकरण्यमित्यत आह--
प्रयुक्तेन च सम्बन्धाच्चैत्रादिश्रवणं भवेत् ।
विना विभक्त्या सम्बन्धो विभक्त्या विद्यते विना ।। 229 ।।
बहुर्वीहिपदेन द्रव्यसामान्यवाचिना विभक्तिरहितेनोच्चरितेन चित्रग्वित्या-
दिना विशेषप्रतिपादकानां चैत्रादीनां तत्समानाभिधेयत्वात् तद्वदेव विभक्तिरहितानां प्रयोगो भवेत् । विभक्तिरहितस्य विभक्तिसून्येनैव सह सम्बन्धो न्याय्यः, न तु
सविभक्तिकेनात्यन्तवैधर्म्यांत् । तथा चासम्बद्धे द्रव्यसामान्यनिष्ठद्रव्यविशेषा-
भिधानं न स्यात् ।। 229 ।।
एवमत्र पदार्थाभिधानपक्षे चोद्यभाष्यं व्याख्यातम् ।
अत्रैव परिहारभाष्यम्--"लैङ्गेषु तावदुक्तम्--सिद्धं तु स्त्रियाः प्रातिप-
दिकविशेषणत्वात् स्वार्थे टाबादयः" इति ।
यथान्यत्र टाबादयो द्योतकाः, तथा बहुर्वीहेरपि भविष्यन्तीत्यर्थः ।
साङ्ख्येष्वप्युक्तम्--"कर्मादीनामनुक्ता एकत्वादयः" इति द्वितीयादयो
भविष्यन्तीत्यादि ।
तदेतद् विवृणोति--
अभिधानेऽपि सङ्खयायाः संख्यात्वं न निवर्तते ।
षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता ।। 230 ।।
बहुर्वीहिपदैरभिहितापि संख्या स्वकार्यं स्वादिलक्षणं प्रापयत्येव । तद्य-
था-`एकः,द्वौ, बहवः ; इत्यत्र ।
नह्यभिहितापि संख्या स्वरूपं जहाति । ततश्च कर्मादिविशेषणायाः संख्याया
अभिधानाय द्वितीयादयस्तावदुत्पद्यन्ते । प्रथमापि `न केवला प्रकृतिः प्रयोक्तव्या'
इति समयपालनायोत्पत्स्यते । अव्ययात्तु लुग्वचनेनायं प्रयोगनियमो बाधितः । न चैवं
बहुर्वीहिपदेभ्यो लुगन्वाख्यातः ।
तुल्ये समयपालने द्वितीयादयः कस्मान्न भवन्तीति चेन्न, अर्थाभावात् ।
कर्मादिषु हि द्वितीयादयः, तदभावे कथं भवेयुः ? तस्मादेकादिशब्देभ्य इवार्थानुगु-
ण्यात् प्रथमैकवचनादीन्येव भविष्यन्ति प्रातिपदिकार्थमात्रे । तदुक्तम्--`अर्थतो
व्यवस्था' इति ।
वचनग्रहणाद्वा प्रथमा भविष्यत्युक्तार्थापि । षष्ठ्यर्थस्य तु सम्बन्धस्य
द्रव्ये गुणभतस्याभिधाने प्रातिपदिकार्थत्वादभिहितः सोऽर्थोऽन्तर्भूत इति षष्ठी नभवति ।
यत्र हि प्राधान्येनोद्भूतः सम्बन्धः, स विषयः षष्ठयाः । तदेवं
पदार्थाभिधानेऽनुप्रयोगापपत्तिचोद्यप्रतिसमाधानाय विभक्त्यर्थाभिधानपक्ष
समाश्रितः । तत्र च सामानाधिकरण्यं क्रियायोगश्चोपपादितः ।
किञ्चार्थग्रहणात् कृत्स्नार्थवृत्ते साधुत्वं प्रयोगप्रामाण्यादवस्था-
पितम् ।। 230 ।।
केचित् पुनर्मतान्तरमाहुरित्याह--
अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना ।
वस्त्वन्तरमुपक्षिप्तमिति केचित् प्रचक्षते ।। 231 ।।
`पदार्थाभिधानेऽनुप्रयोगानुपपत्तिरभिहितत्वात्' इत्यस्य प्रतिसमाधानाय
विभक्त्यर्थाभिधानपक्षो नाश्रितः `न वानभिहितत्वात् । सामान्यभिधाने हि विशेषान-
भिधानम्' इत्येवमनुप्रयोगस्योपपादित्वात् ।
किन्तु दर्शनान्तरमेवेदं युक्तायुक्तविचारविषयतयोपन्यस्तमित्यन्येषां मतम्। तथा ह्यत्रापि सोऽयमित्यभिसम्बन्धाद् द्रव्यस्याभिधानमिष्यते । तथा
चानुप्रयोगानुपपत्तिरिति तदवस्थो दोषः । तत्र पुनस्तथैव प्रतिविधेयम् `न वानभिहितत्वात्' इति । तत् कथं परिहारान्तरमिदं भवेदिति ।
कोचिदिति वचनादत्रारुचिं सूचयति ।
तथा हि भाष्ये।?थवेति समाधानान्तरत्वेनैवास्योपक्षेपः । `एवच्चात्र
युक्तम्, अत्र हि सर्वपश्चात्पदं वर्तत' इति चास्य पक्षस्योत्कर्षोऽभिहितः ।
यद्यपि चात्रापि पक्षे सोऽयमिति सम्बन्धाद् द्रव्याभिधानम्, तथापि
प्रक्रियायामनुप्रयोगसिद्ध्यर्थं विभक्त्यर्थप्राधान्यमेव । अनुप्रयोगप्रामाण्-
यात्तु कृत्स्नाभिधानमर्थग्रहणात् सिद्धान्त इति प्रागुक्तमेव ज्यायः । तत्र च
स्वाभाविके (स्वाभाविक्यौ) लिङ्गसंख्ये । पक्षान्तरे तु शास्त्रादिति निर्णी-
तम् ।। 231 ।।
वस्त्वन्तरोपक्षेपदर्शने पक्षद्वयसङ्कलनायाह--
सम्बन्धिभिर्विशिष्टानां सम्बन्धाना निमित्तता ।
सम्बन्धैर्वा विशिष्टानां तद्वतां स्यान्निमित्तता ।। 232 ।।
वर्तिपदोपादानैः सम्बन्धिभिरवच्छिन्नानां सम्बन्धानां बहुर्वीहिप्रवृत्तौ
निमित्तत्वं विभक्त्यर्थाभिधानेपक्षे । बहुर्वीहिप्रवृत्तौ निमित्तत्वम् । बहुवचन-मत्रापि पूर्ववत् ।। 232 ।।
एतदेवैकयोगक्षेममत्वर्थीयदर्शनेन व्युत्पादयति--
केचित् संयोगिनो दण्डाद् विषाणात् समवायिनः ।
तद्वति प्रत्ययानाहुर्बहुर्वीहिं तथैव च ।। 233 ।।
संयोगाख्येन सम्बन्धेन विशिष्टाद् दण्डात् सम्बन्धिनि प्रवृत्तिनिमित्तात्
समवायाख्यसम्बन्धोपकृताच्च विषाणात् तद्वति संयोगिदण्डसम्बन्धिनि समवायि-
विषाणसम्बन्धिनि च प्रत्ययान्मत्वर्थीयान् इनिठन्मतुब्लक्षणान् वर्णयन्ति दण्डी
विषाणीत्यादौ ।
तथैव तेनैव प्रकारेण द्रव्याभिधानपक्षावलम्बिनो बहुर्वीहिं सम्बन्धोपकृत-
सम्बन्धिनिमित्तमाचक्षते । यथा दण्डविषाणसम्बन्धोपकृतौ सम्बन्धीनौ मत्वर्थीय-
निमित्तमेवं यथास्वं सम्बन्धोपकृतो वर्तिपदार्थलक्षणः सम्बन्धी बहुर्वीहिसमासस्य
प्रवृत्तिमनिमित्तम् ।
अन्यपदार्थलक्षणस्तु सम्बन्धी वाच्य इति पदार्थाभिधानपक्ष इत्यर्थः ।
पालाशदण्डथ इति संयोगोपकृतः सम्बन्धी निमित्तम् । तिग्मविषाण इति समवायो-
पकृतः ।। 233 ।।
पक्षान्तरमाह--
भिन्नं सम्बन्धिभेदेन सम्बन्धमपरे विदुः ।
निमित्तं सविभक्त्यर्थः समासेनाभिधीयते ।। 234 ।।
वर्तिपदार्थलक्षमसम्बन्धिविशेषोपकृतः सम्बन्धो वा यथायथं भिन्नोऽत्र
मत्वर्थीयनिमित्तम् । तथाहि-दम्डी विषाणीत्युक्ते सम्बन्धिनः सम्बन्धस्य च सन्निधा-नाच्छब्दप्रवृत्तावविशेषेण द्वयोरपि निमित्तत्वमवधार्यते, द्वाभ्यामपि प्रतीतावनु-
रागजननात् । प्रक्रियाभेदस्तु कल्पनाकल्पितः ।
एवं बहुर्वीहिणापि समासेन स विभक्त्यर्थः सम्बन्धिविशेषोपकृतः
सम्बन्धः प्रतिपाद्यत इत्युक्तमेव । सम्बन्धमात्रे चात्र विश्रान्त्यभावादुभयत्र
सोऽयमिति सम्बन्धेन तद्वदभिधानम् ।। 234 ।।
तदेवं बहुर्वीहेरन्यपदार्थविषयत्वे सम्बन्धस्य यदा निमित्तमात्रत्वम्,
तदवच्छिन्नस्तु सम्बन्धी वाच्योऽर्थग्रहणसामर्थ्यात्, तदा पूर्वः पक्षः ।
यदा तु सम्बन्ध एव प्रधानमन्यपदार्थतया स्वैरुपाधिभिर्गुण-
भूतैरवच्छिन्नोऽभिधेयो वाच्यः, तदा द्वितीयः पक्ष इति निगमयितुमाह--
प्रधानमन्यार्थतया भिन्नं स्वैरुपसर्जनैः ।
निमित्तमभिधेयं वा सर्वपश्चादपेक्ष्यते ।। 235 ।।
प्रधानमन्यपदार्थतया सम्बन्धो वर्तिपदार्थगुणभूतैरवच्छिन्नः सम्बन्धिनि
प्रवर्तमानस्य बहुर्वीहेर्निबन्धनमिति पूर्वस्य पक्षस्य निगमनम् । स एव वा
सम्बन्धो वाच्यः । तथाहि सर्वपश्चादपेक्ष्यत इति सम्बन्धाभिधानपक्षं भाष्येण
संवादयति ।
अत्र हि `सर्वपश्चात्पदं वर्तते' इति भाष्ये उक्तम् । अभिधानव्यापारेण
षष्ठ्यन्तस्य पदस्य सम्बन्ध्ययवच्छिन्नसम्बन्धप्रधानत्वादस्य पक्षस्योत्कर्षः
प्रतिपादितः ।। 235 ।।
ननु च चित्रा गावो यस्येति व्यतिरिच्यमानेन तत्र गुणभूतेन स्वामिना
स्वपदार्थभूता गाव एव विशेष्यमाणाः प्रधानमिति कथं सम्बन्धविशिष्टः सम्बन्धी,
सम्बन्धिविशिष्टो वा सम्बन्धो बहुर्वीहिवाच्यः स्यादित्याशङ्क्याह--
स्वामिनि व्यतिरेकश्च वाक्ये यद्यपि दृश्यते ।
प्राधान्य एव तस्येष्टो बहुर्वीहिर्विवक्षिते ।। 236 ।।
वृत्तिवाक्ययोरत्यन्तभेदादर्थभेदोऽविनाभावीति वाक्येऽन्यपदार्थस्योपसर्ज-नत्वेऽपि वृत्तौ प्राधान्यं तस्याभिमतम् ।। 236 ।।
एवं च नेदमनुगुणं वाक्यमित्याह--
गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते ।
अस्यैता इति तत्रार्थे बहुर्वीहिर्न विद्यते ।। 237 ।।
कस्यैताश्चित्रगव्य इति जिज्ञासायां चित्रा गावोऽस्योति यदा वाक्यं प्रयु-
ज्यते, तदोपसर्जनत्वे तद्वतो गोस्वामिनो वाक्यादस्मादवगते वृत्त्यर्थो न प्रदर्शितःस्यात् परिपूर्णः ।। 237 ।।
इदं त्वनुगुणं वाक्यमित्याह--
यदा प्रत्यवमर्शस्तु तासां स्वामी गवामिति ।
गोभिस्तदाभिसम्बन्धो निमित्तत्वाय कल्पते ।। 238 ।।
आसां चित्रगवीनां कः स्वामीति जिज्ञासायां यदा स्वमिविशेषप्रतिपत्त्यर्थं
चित्रगव्य उपलक्षणत्वेनाश्रीयन्ते, तदान्यपदार्थस्य वर्तिपदार्थर्गोभिरभिसम्बन्धो
बहुव्रीहिसमासस्य निमित्तं जायते । ततश्च चित्रा गावो यस्य सोऽयं चित्रगुरित्येव-
मत्रान्यपदार्थप्राधान्ये वाक्यमुचितमित्यर्थः ।। 238 ।।
यदा तर्हि सम्बन्धान्निमित्तात् सम्बन्धी समासावाच्यः, तदा लिङ्गसंख्याति-
देशस्योपयोगो न वेत्याह--
अपेक्षमाणः सम्बन्धं रूढित्वस्य निवृत्तये ।
निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते ।। 239 ।।
सम्बन्धावच्छिन्नः सम्बन्धी वाच्य इति निमित्तस्य सम्बन्धस्यानुविधानमनु-
प्रवृत्तिरिति तस्यैव सम्बन्धस्य धर्मो लिङ्गसंख्यारहितत्वं यस्य तथाभूतो बहुर्वी-
हिवाच्यः प्राप्नोति । सम्बन्धो हि निमित्तम् । असत्त्वभूतः स च नानुविधीयतेऽत्र
निमित्तमिति न वाच्यम्, यस्मान्निमित्तेऽननुविधीयमाने रूढिशब्दो बहुर्वीहिः
स्यात् । रूढिष्ववयवार्थानुसरणाभावात् । `चित्रगुः'त्यादौ चावयवार्थोऽनुस्त्रियत
एव ।। 239 ।।
एतदेव निदर्शनेन द्रढयति--
नानाचित्रा इति यथा निमित्तमनुरुध्यते (वर्तते) ।
नानाभूतेऽपि वृत्तः सन् बहुर्वीहिस्तथा भवेत् ।। 240 ।।
नानाशब्दोऽसहभावमात्रवचनोऽव्ययः । स सदाऽसहभावं निमित्तमुपादाय
तद्वति सत्त्वरूपे वर्तते, तदापि निमित्तानुविधानादसत्त्वभूत एव ।
एवं बहुर्वीहिरपि स्यात् । निमित्तान्निमित्तवत्यर्थे निमित्तसरूपः
प्रत्ययो जायत इति निमित्तिनः स्वरूपस्य शुद्धस्याप्रतिभासनात् स्वकार्ययोगाभावे
निमित्तकार्यमेव न्याय्यमित्यत्र युक्तिर्गर्भीकृता, न तु दृष्टान्तमात्रादर्थ-
सिद्धिः ।। 240 ।।
तदेवं निमित्तानुविधानेऽत्र प्राप्ते व्यक्तिवचनातिदेशः सफरः ।
यदा तु वर्त्तिपदार्थभूताः सम्बन्धिनो निमित्तमन्यपदार्थस्य द्रव्यस्य, तदानार्थोऽतिदेशेनेत्याह--
सम्बन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते ।
लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ।। 241 ।।
प्रवृत्तिनिमित्तं सम्बन्धी वाच्योऽपि सम्बन्धी लिङ्गसंख्यासमन्वययोग्य
इत्यत्र पक्षे स्वाभाविके लिङ्गसंख्ये, नार्थोऽतिदेशेन ।
न ह्यत्र निमित्तानुविधानेऽपि द्रव्यधर्मस्य लिङ्गसंख्ययोगित्वस्य हानिः,
निमित्तस्यापि लिङ्गसंख्यायोगित्वात् ।
यद्यपि चान्यलिङ्गसंख्याश्चित्रा गावश्च सम्बन्धिन्यो निमित्तभूताः,देवद-
त्तश्चान्यपदार्थो वाच्यः अन्यलिङ्गसंख्यः, तथापि सम्बन्धिनामवयवार्थानामत्र
प्रवृत्तिनिमित्तानां निमित्तिरूपातिरोधायकत्वम्, भेदेन वृत्तिहेतुत्वात् ।
तथा चातिरस्कृतात्मान्यपदार्थः सम्बन्धी प्रतीयमानः स्वलिङ्गसंख्यायोगार्ह
एवेति नास्ति विरोधः । सम्बन्धस्य तु प्रवृत्तिनिमित्तत्वे स्वशब्दोपादानोऽसौ
स्वरूपाविरोधेन सम्बन्धिनं गमयेत् । तथा च तेन निमित्तेनालिङ्गसंख्येन तिरो-
हितरूपः सम्बन्धी स्वलिङ्गसंख्याकार्यं नासादयति । लिङ्गभोवो लिङ्गविरोधी,
नान्यलिङ्गता ।। 241 ।।
तथाहि--
संख्यावाँल्लिङ्गश्चार्थोऽभिन्नधर्मा निमित्ततः ।
आसन्न एव द्रव्यत्वात् तद्धर्मैर्न विरुध्यते ।। 242 ।।
यदा सम्बन्धी निमित्तं, स एव च लिङ्गसंख्यावानन्यपदार्थः, तदासावभिन्न-
धर्मा तुल्यधर्मा । केनाभिन्नधर्मेत्याह--निमित्तत इति । ल्यब्लोपो पञ्चमी । निमि-
त्तमपेक्ष्येत्यर्थः । निमित्तेन तुल्यधर्मेति यावत् । द्वयोरपि सम्बन्धिनोः सत्त्वरूपत्वात् । एवञ्चासन्न एवान्यपदार्थो निमित्तस्य तुल्यधर्मत्वान्निकटः, नातिदूरः
सम्बन्धनिमित्तपक्षवत् । अतश्च निमित्तधर्मैर्लिङ्गसंख्याभेदैरन्यपदार्थो न विरुध्-यते । अतिरोहितात्मा ह्यभिधीयमानः स्वलिङ्गसंख्याभ्यां योक्ष्यत इत्यर्थः ।
क्वचित् तु विरोधे सति निमित्तधर्मानुवृत्तिर्भत्येव ।
तद्यथा--हरीतक्यः फलानि, खलतिकं वनानीति । इत्थं च व्यतिरेकेण
प्रतीय-मानस्य निमित्तस्य द्वयी गतिः तद्धर्मानुविधानं हरीतक्यादिषु । तदभावोयथा
बहुव्रीहौ । स्वरूपावेशेन त्वभेदेन प्रतीयमानस्य निमित्तस्य निमित्तिना
धर्मोऽनुविधीयत एव । गतमेतत् ।। 242 ।।
इदं तु वक्तव्यम्--विभक्त्यर्थपक्षेऽपि सोऽयमिति सम्बन्धात् सम्बन्धीनि-ष्ठत्वे, कः पदार्थाभिधानपक्षाद् भेद इत्यत आह--
विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् ।
द्रव्यं शुद्धस्य यो धर्मः स न स्यादन्यधर्मणः ।। 243 ।।
षष्ठीलक्षणविभक्तिवाच्येन सम्बन्धेनापादिताभेदं द्रव्यं विभक्त्यर्थाभिधा-नपक्षे वाच्यम्, अनन्योपहितं शुद्धं च पदार्थाभिधानपक्षे वाच्यमिति प्रकारद्वयेन
द्रव्यस्य प्रवर्तनात् पक्षभेदः ।
तत्र शुद्धस्य स्वेनाच्मनाभिधीयमानस्य यो धर्मो लिङ्गसङ्ख्ये, स न भवति
सम्बन्धेनाविष्टस्याख्यायमानस्य, पररूपोपरागादिति लिङ्गसङ्ख्यातिदेशोऽत्र सफलः ।
पदार्थाभिधानपक्षे तु शुद्धस्य द्रव्यस्यान्यपदार्थस्य वर्तिपदार्थविशिष्टस्याभिधा-नाद् वर्तिपदार्थलक्षणाः सम्बन्धिनः प्रवृत्तिनिमित्तमिति द्रव्यधर्माहानि-
रुक्ता ।। 243 ।।
एतदोव वाच्यस्य प्रकारद्वयेन वर्तनं पक्षयोर्विभजति--
द्रव्यमात्रस्य निर्देशे भेदोऽयमविवक्षितः ।
ग्रन्थे पूर्वत्र भेदस्तु द्वितीयेऽनुप्रदर्शितः ।। 244 ।।
विभक्त्यर्थावेशलक्षणो यो विशेषः, द्रव्यमात्रस्य शुद्धस्य सम्बन्धानुपहितस्य निर्देशे प्रतिपादने पूर्वस्मिन् ग्रन्थे यत्रानुप्रयोगानुपपत्तिश्चोदिता `न
वाऽनभिहितत्वात्' इत्यादिना च प्रतिसमाहिता भाष्ये, तत्र पदार्थाभिधानपक्षे
नामिधातुमिष्टः ।
`अथवा विभक्त्यर्थोऽभिधीयते' इत्यत्र तु द्वितीये भाष्यग्रन्थेऽयं
विशेषः साक्षादेवोक्तः ।
अत्रापि च विभक्त्यर्थाविष्टं द्रव्यमेवोच्यते, अन्यथा द्रव्यानभिधाने
सर्वेथवासद्व्यक्तिवचनं कथमतिदेशादपि प्राप्येत । प्रधानं तु सम्बन्धोऽत्र
विवक्षितः ।। 244 ।।
यद्येवं तेन संवृतस्वरूपत्वाद् द्रव्यस्याभिधानाभाव इति कथमिदमुक्तम्--
`सद्रव्यः सलिङ्गः ससंख्यः' इत्यत आह--
द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् ।
द्रव्याश्रितत्वं हि तयोस्ततोऽन्यस्य न सिध्यतः ।। 245 ।।
यद्यपि लिङ्गसङ्ख्ययोर्द्रव्यं विशेष्यम्, तथापि तयोर्विशेषणमत्र द्रव्य-
ग्रहणं बोद्धव्यम् । अन्यस्य गुणादेस्ताभ्यामयोगप्रतिपादनार्थं द्रव्याश्रितत्वमेवानयोरिति सम्बन्धाभिधानेऽपि लिङ्गसङ्ख्यासिद्ध्यर्थं सद्रव्य इत्युक्तम् ।
सम्बन्धो हि षष्ठीवाच्यमुद्भूतमत्र रूपं हित्वा द्रव्याभेदेनाभिधीयमानः
सद्रव्योऽभिहितो भवति । न तु द्रव्यस्यात्र गुणभावादनभिधानम् । आर्थेन हि रूपेण
प्राधान्यं द्रव्यस्यैव । पक्षमेदार्थं तु सम्बन्धल्य शाब्दं प्राधान्यमाश्रि-
तम् ।। 245 ।।
तथाहि--
सम्बन्धिभिन्नसम्बन्धपरिच्छिन्ने प्रवर्तते ।
समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ।। 246 ।।
वर्तिपदार्थभूतैः सम्बन्धिभिर्विशेषितो यः सम्बन्धस्तेन परिच्छिन्ने स्वरू-
पसम्भेदेनावच्छिन्ने सम्बन्धिनि द्रव्यसामान्ये विभक्त्यर्थाभिधानपक्षे बहुर्वीहि-र्वाचकत्वेन प्रवर्तते । सामान्य इति पदार्थविशेषाणामनभिहितानामनुप्रयोगोपपत्तिम-
त्रापि दर्शने पक्षान्तरवदाह ।। 246 ।।
अतश्च विशेषैः सामानाधिकरण्यात् तदनुपातित्वे फलमाह--
द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्ववस्थितः (ष्वशक्तितः) ।
भविष्यदाश्रयापेक्षे लिङ्गसङ्ख्ये प्रपद्यते ।। 247 ।।
द्रव्यसामान्यवृत्तित्वाद् योग्यतामात्राद् द्रव्यधर्मं लिङ्गसङ्ख्यालक्षण-मनतिक्रान्तः समासो द्रव्यविशेषगतं च रूपाभेदादसमर्थो लिङ्गवचनं प्रतिपत्तुमिति
"विशेषणानां" (पा.1/2/52) इति शास्त्रसामर्थ्यात् पदान्तरप्रयोगावधृतद्रव्यविशेषा-
श्रयगते यथायथं लिङ्गसङ्ख्ये समवलम्बते । इत्यवसितविचारो बहुर्वीहिः ।। 247 ।।
क्रमप्राप्ते नञ्समासे लिङ्गवचनातिदेशं विचारयितुं भाष्योपक्षिप्तं पश्र-
त्रयं समर्थयते--
शास्त्रप्रवृत्तिभेदेऽपि लौकिकार्थो न भिद्यते ।
नञ्समासे यतस्तत्र त्रयः पक्षा विचारिताः ।। 248 ।।
एकत्र गुणप्राधानभावस्यानवस्थानात् कथं पक्षत्रयोपपत्तिः ? अब्राह्मणादे-
र्ह्यन्यपदार्थस्यैव क्षत्रियादेरवधारणात् तत्प्रधानत्वमेव न्याय्यमि त चोदितं
सतीदं समर्थयते--`अर्थानादेशनात् तच्च लघ्वर्थम्' इति वदता स्थितलक्षणोऽर्थः
प्रक्रियाभेदेऽप्यव्यभिचारी लौकिकः उक्तः ।
तथाहि--यदान्यपदार्थः प्रधानम्, तदा व्यक्तिवचनमुत्तरपदम्, अविद्यमाना
ब्राह्मणव्यक्तिराश्रयभूतास्मिन् क्षत्रिये क्षत्रियजाताविति ।
यदा तु पूर्वपदार्थो नञर्थो निवृत्तिरूपः प्रधानम्, तदा तस्यासतः क्रियायो-गाभावान्निषेधस्य प्रसङ्गपूर्वकत्वादुत्तरपदार्थसदृशमेव प्रतीयते ।
एवमुत्तरपदार्थप्राधान्येऽपि ब्राह्मण्येनावसितः क्षत्रियादिरेवावगम्यत
इति नास्ति भेदः स्थितलक्षणस्यार्थस्य । अपोद्धारपदार्थस्त्वन्वाख्यानाङ्गमिति
प्रक्रियायां स भिद्यते ।
तथा च `किंप्रधानोऽयं समासः, उत्तरपदार्थप्रधानः, पूर्वपदार्थप्रधानः,
अन्यपदार्थप्रधानो वा' इति पक्षत्रयमुपन्यस्य भाष्ये यस्मिन् पक्षे शास्त्रप्र-
क्रिया न विलुप्यते, तमवस्थापयितुं विचारो न विरुध्यते ।। 248 ।।
यद्यपि नारोद्धारपदार्थः प्रतिपादकशब्दनिष्ठः, तथापि--
शब्दान्तरेऽपि चैकत्वमाश्रित्यैव विचारणा ।
अब्राह्मणादिषु नञः प्रयोगो न हि विद्यते ।। 249 ।।
न ब्राह्मणोऽब्राह्मण इत्यादिपरिकल्पितावयवविभागप्रतिपादकशब्दनिष्ठं
पूर्वपदोत्तरपदगतार्थविभागपरिकल्पनयान्वाख्येयस्थितक्षणार्थशब्दानुशासनं क्रियते
लाघवार्थम् ।
यथाहि--प्रक्रियायामपि वाक्याद् वृत्तेः शब्दान्यत्वेऽपि वाक्येन सहाभेदं
परिकल्प्य परीक्षा विधीयते ।
तथा चाब्राह्मणादिषु समासेषु यद्यपि नञ् नाम न कश्चिद् दृश्यते,
तथापि वाक्ये नञो दृष्टेस्तदभेदेन व्युत्पादनम् । सर्व एव हि वृत्तेः संसृष्टा-
र्थाया विशेषणविशेष्यादिभेदोऽर्थानां वाक्याभेदसमाश्रयः, वाक्यार्थस्या वृत्तौ
सम्प्रत्ययात् ।
ततश्च निवृत्तिलक्षणस्य नञर्थस्य संप्रत्ययादब्राह्मणादिष्वकाररूपमिदं
नञ्सम्बन्धीति निश्चीयते । अधिकापनयादिषु त्वकाररूपमेवानुवर्तते, न
नञर्थः ।
परमार्थतस्त्वब्राह्मणादिर्निरस्तावयवविभागो मुण्डिसूत्र्यादिवदिति
`ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्ब कम्बले, (वा.प.2/14)
इत्यादिना निर्णीतमेव ।। 249 ।।
एवं पक्षत्रयविचारोपपत्तिमुक्त्वा कीदृगर्थो वाक्ये नञो दृश्यते, तस्य
तदभेदेन वृत्तौ व्युत्पाद्यमानायामनुगम इत्याह--
प्राक् समासात् पदार्थानां निवृत्तिर्द्योत्यते नञा ।
स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ।। 250 ।।
वाक्ये नञ्प्रयोगे निवृत्तिरवसीयते । सा च न स्वतन्त्रा, निर्विशेषणस्या-
भावस्याप्रतीतेरिति पदार्थनिष्ठासौ । तत्र सन् पदार्थो नञ्प्रयोगमात्रान्निवर्तितुं नोत्सहते । शब्दान्तरप्रयोगेऽपनि च पदानां वाच्यस्य न्यूनतातिरेकयोरनुपपत्तिः ।
तस्मात् स्वभावेनैव निवृत्तानां नञ् द्योतको निवृत्तेः । निवृत्तास्तर्हि कथं
शब्देनोच्यन्त इति चेद् , न वस्त्वर्थः शब्दार्थः । उपचारसत्ताश्रयस्तु
भावाभावसाधारणः प्रतीतिप्रतिभासी शब्दवाच्य इति `व्यपदेशे पदार्थानामन्या
सत्तौपचारिकी' (वा.प. 3 सं.39) इति । कृतनिर्णयम् ।
तथा च भावाभावसाधारण्यात् प्रयोगस्यानभिव्यक्ता निवृत्तिर्नञापि (वि)
द्योत्यत इति परपदार्थनिष्ठस्यार्थस्यावेदनाद् द्योतकत्वमुच्यते ।। 250 ।।
यद्येवं नञः स्वतन्त्रः पदार्थ एव नास्ति, यः प्राधानं स्यात् ।
सति वा तस्मिन्नभावात्मना तेन विशेष्यमाण उत्तरपदार्थः स्वभावात् प्रच्युतःकथमसत्त्वात् प्राधान्यं प्रतिपद्यते ?
सति च वर्तिपदार्थयोरभिसम्बन्धे तदवच्छिन्नन्यपदार्थाभिधानमपि न
कल्पेतेति कथं पक्षत्रयोपपत्तिः ।
अथोत्तरपदार्थगता क्रिया प्रतिषिध्यते, तदा समास एव नास्तीत्याह--
ब्राह्मणादिस्थया वाक्येष्वाख्यातपदवाच्यया ।
क्रियया यस्य सम्बन्धो वृत्तिस्तस्य न विद्यते ।। 251 ।।
क्रिया प्रतिषिध्यमाना पदान्तरोपादाना वा स्याद्, वृत्तिपदवाच्या वा ।
प्रथमे कल्पे `ब्राह्मणो न भुङ्क्ते, ब्राह्मणो नाधीते' इति तिङ्न्तपदप्रतिपाद्ययाब्राह्मणादिसमवायिन्या यस्य नञः क्रियया योगः, तस्योत्तरपदेनासामर्थ्यात् समासो
नास्ति । क्रियया हि नञोऽत्र सम्बन्धः, न ब्राह्मणादिभिरुत्तरपदैः । ततश्च
समासस्यैवात्राभावाद् गुणप्रधानभावविकल्पो वर्तिपदार्थानां निरालम्बनः । पदार्थात्मभूतया त्वस्तिक्रियया नञो योगे समासो भवत्येव । तदानीं ह्युत्तरपदार्थनैव
सामर्थ्यम्, ब्राह्मणो नास्तीति ।
अव्यभिचारा हि सत्ता पदार्थस्याप्रयुज्यमानेऽपि क्रियापदे प्रतीयत इति
सामर्थ्यलभ्यायास्तस्या निषेधे निवृत्तपदार्थकैरेवोत्तरपदैरूपात्तेऽर्थद्योतकस्य
नञः प्रयोगात् सिद्धान्तयिष्यते समासः ।। 251 ।।
नन्वनेन न्यायेनोत्तरपदस्वीकृतयान्ययापि क्रियया नञः सामर्थ्ये
भवतु समास इत्यत आह--
पाचकादिपदस्था चेन्नञा सम्बन्ध्यते क्रिया ।
तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते ।। 252 ।।
उत्तरपदेन पाचकादिना या गुणभावेन रच्यादिक्रियापात्ता, सा यदि
नञा द्योतकेन वाक्य इव युज्यते, तदा स्वार्थावच्छिन्नाया वाच्यत्वेन नञा
सत्ताया परिग्रहात् पक्षत्रयं न घटते । द्योत्यार्थनोत्तरपदेनैव सम्बन्धादुत्तरपदा-र्थप्राधान्यमेवैकं भवेत् ।
नहि नञः स्वतन्त्रः कश्चित् पदार्थः, यः प्रधानं, गुण इति वा निरूप्यते
द्योतकत्वाद् द्योत्यार्थनिष्ठत्वात् ।
तथा च यत्र द्योत्येन क्रियालक्षणेनार्थेनास्ति सम्बन्धः, तत्र समासो न
पाचकोऽपाचक इत्यादि । अत्र हि गुणभूत्तोत्तरपदेन क्रियाभिधीयत इति नञा निषेध्यतया
तस्याः सम्बन्धः । ब्राह्मणादेस्तूत्तरपदस्य गुणभूतापि क्रिया न वाच्येति तेन नञः
सम्बन्धाभावात् पूर्वोक्तपक्षत्रयानुपपत्तिः । तस्माद् द्योतकत्वं नञऽनुपपन्नम्
पक्षभेदानुपपत्तिप्रसङ्गादिति वृत्तिविषये वाचकत्वमभ्युपगमनीयम् ।
तथा चासत्तावचनत्वान्नञो निवृत्तपदार्थकैरुत्तरपदैर्ब्राह्मणादिभिरसम्बन्-
धात् पक्षत्रयमुपपद्यते । असत्तासामान्यवचनो हि नञ् तद्विशेषवचनैर्योगमनुभवन्
यथाविवक्षं पूर्वोत्तरान्यपदार्थप्रधानेतरेतरभावसमाश्रयेण वृत्तिमापद्यते ।। 252 ।।
यद्येवम्--
सत्तयैवाभिसम्बन्धो यदि सर्वत्र कल्प्यते ।
असन्निति समासेऽस्मिन् सत्तान्या परिकल्प्यताम् ।। 253 ।।
सर्वपदार्थानां सत्तायोगस्याव्यभिचारात् सत्तयैव पदार्थात्मभूतया न क्रिया-न्तरेण व्यभिचारिणा यदि नञो योगः कल्प्यते, तदा असन्नित्यत्रापि नञ्समासे सत्ताया
उत्तरपदनिबन्धनायाः सम्बन्धि सत्तान्तरं नञा प्रत्याय्यमानं न कल्पनीयमापतति ।
चैवं सत्ताभेदः प्रतीयते, एकस्या एवात्र निषिध्यमानायाः सत्ताया अवगमात् ।। 253 ।।
अत्रैवापरं दोषमाह--
क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते ।
विशेषणविशेष्यत्वं नञा (नञः) सत्ताभिधायिनां ।। 254 ।।
अकृत्वा अकर्तुमित्यत्राख्यातेनेव कृत्वसुजादिसम्बन्धयोग्यतया साध्यसयैवा-
र्थस्य प्रधानत्वेनाख्यायमानस्यासन्नित्येवमर्थेन नञा करोतेरभिसम्बन्धोऽवच्छेद्या-वच्छेदकभावो नोपपद्यते । न हि सत्तां निषेधता नञा करोतेः सम्बन्धो युज्यते,
प्रतिषेध्येनैव भवेदिति कथमभिसम्बन्धः ।
तस्मादसत्तावाचित्वे नञः उभयत्राप्यत्र नोपपत्तिरिति निषेधमात्रवचनोऽत्र
नञ् ।
तथा चासिन्नित्यत्रोत्तरपदार्थभूतां सत्तां निषेधतीति सम्बन्धोपपत्तिः ।
किंत्वब्राह्मणादावनुपपत्तिः, ब्राह्मणार्थस्य सतो निषेद्धुमशक्यत्वात् । अत्रापि
सन्नन्तः करोत्यर्थश्च भावात्मकः कथं निषेद्धुं शक्यते ?
एवं तर्हि स्वभावतो निवृत्तस्यार्थस्य द्योतको नञ् वाक्य इव वृत्तौ
प्रयुज्यते, तत्रापि द्वयी गतिः । क्रियायोगमन्तरेण पदार्थस्य केवलस्यानुपपत्ते-
र्विशिष्टक्रियाश्रयो वार्थात्मा स्वभावतो निवृत्तो द्योत्यताम्, क्रियासामान्या-
श्रयो वा ।
पूर्वत्र कल्पे सामर्थ्याभावाद् वृत्तिर्नास्ति । सति वा सामर्थ्ये
पक्षत्रयानुपपत्तिरित्युक्तम् ।
द्वितीये पक्षे सत्तालक्षणस्य क्रियासामान्यस्य नञ्द्योत्यस्य सामान्वयवा-चिनैवोत्तरपदेन सम्बन्धेऽनवस्थोक्ता । विशेषवाचिना त्वसम्बन्ध इति द्योतकत्वमत्र
नोपपद्यते । द्योतकत्वे हि द्योत्यार्थनिष्ठत्वात् सत्यपि सम्बन्धे उत्तरपदार्थ-
प्राधान्यमेवैकं स्यात् ।
तस्माद् वाचकत्वमभ्युपेयम् । तथा च नञः स्वतन्त्रोऽर्थ इति यथायोगं
तस्य गुणप्रधानभावोपपत्तौ पक्षत्रयविचारः ।। 254 ।।
तत्रासत्तावचनो नञिति, यथा द्वितीया सत्ता नापतति, यथा चाकृत्वेत्यादौ
संबन्धो युज्यते, तथोपपादयति--
क्रियायाः साधनाधारसामान्ये नञ् व्यवस्थितः ।
ततो विशिष्टैराधारैर्युज्यते ब्राह्मणादिभिः ।। 255 ।।
सामान्याभिधानेऽपि नञोऽसत्तावचनत्वेन प्रस्तावत् सत्तालक्षणात्र क्रिया ।
तथा ह्यभावात्मको नञोऽर्थो भावस्य सत्तायानिषेधरूपः, तस्याः साधनमकर्मक-
त्वात् कर्तृशक्तिः । निराश्रयायाः साधनभावानुपपत्तेः सामर्थ्यलभ्यस्तदाधार आश्रयो-ऽनाश्रितविशेषः सामान्यमस्तीत्येवंरूपोऽत्र निर्दिष्टः । तत्र वाचकत्वेन नञ्
व्यवस्थितः प्रवृत्तः ।
किं विद्यमानोऽर्थोऽस्तीत्येवंरूपो नञो वाच्यः । नेति ब्रूमः ।
कथं तर्हि `क्रियायाः साधनाधारसामान्ये नञ् व्यवस्थितः' इत्युच्यते ?
स्वार्थमभावात्मकं तत्र निवेशयतीत्येवमेतदुच्यते । ततश्चाभावोपरक्तमस्ति-
क्रियासाधनाधारसामान्यं वृत्तिविषये नञ् वाच्यमिति नास्तीत्येवंरूपो नञोऽर्थः ।
तत्र किं नास्तीति विशेषाकाङ्क्षा तदुत्तरपदैः पूर्यते ।
तथा च ततः सामान्यावस्थानाद्धेतोर्विलक्षणैः सत्ताविशेषसाधनाधारविशेष-
वचनैर्ब्राह्मणादिशब्दैः सम्बध्यते नञिति तदर्थयोः सामान्यविशेषभावेन विशेषणविशेष्-
यभावोपपत्तिः । सामान्यरूपं ह्यविद्यमानं विशिष्टैरविद्यमानैर्युज्यते, गोत्वं शाब-लेयादिभिरिव । तत्र ब्राह्मणस्यासत्त्वमिति यदा कामचाराद् विशेषणाविशेष्ययोर्वि-
वक्षा, तदा पूर्वपदार्थप्रधानता । असद् ब्राह्मण्यमस्येत्येवमन्यार्थगामित्वे
वर्तिपदार्थयोरन्यपदार्थप्राधान्योपपत्तिः ।
एवं विशेषे सामान्यस्याव्यभिचारात् पाचकादौ पच्यादिक्रियाविशेषानुगत-
सत्तात्मकक्रियासामान्याश्रयपक्षभेदोपपत्तिः ।
एवं विशेषे सामान्यस्याव्यभिचारात् पाचकादौ पच्यादिक्रियाविशेषानुगत-
सत्तात्मकक्रियासामान्याश्रयपक्षभेदोपपत्तिः ।
एवं करोतिना सत्तात्मनैव युज्यते, न विशेषरूपेणेति विशेषे सत्तामेव समवा-
यिनीं नञर्थोऽसत्सामान्यं निषेधयोग्यतयाकृत्वा कर्तुमित्यादावास्कन्दति ।
असन्नित्यत्रापि प्रकरणाद् विशेषनिवेशिनीमेव सत्तामसत्तासामान्यं निषेध्यत-यावलम्बते । अनच्छिन्नविषयस्यासत्त्वस्य प्रयोजनाभावेनाप्रतिपाद्यत्वात् । ब्राह्म-णादिरेव हि कश्चित् सन् निषेद्धमात्रोपादीयते, न सन् ब्राह्मण इति । प्रकरणात्तु
विशेषावसाये ब्राह्मणादिपदप्रयोगानादरः ।
तथा च ब्राह्मणादिरित्येवात्राप्यर्थ इति सामान्यविशेषयोरेवायं विशेषणविशे-ष्यभावः । न हि द्वयोः सामान्ययोः प्रयोगोऽस्ति, नैपाकाङ्क्ष्यानुपपत्तेरिति
सत्तान्तरपरिकल्पनादोषानवतारः । सर्वत्र चात्रोत्तरपदार्थसदृशप्रतिपत्तिः । अन्य-
त्राध्यारोपितस्य हि स्वतो निवृत्तस्य निषेधः सुवचः ।
तदित्थं वाचकत्वमभ्युपगम्य सर्वमुपपद्यते ।। 255 ।।
द्योतकस्य तर्हि वाक्ये नञो वृत्तौ वाचकत्वं कथमुपपद्यत इति चेदाह--
वृत्तौ यथा गताद्यर्थमुपादाय निरादयः ।
युज्यन्ते साधनाधारैर्नञ्समासेऽपि स क्रमः ।। 256 ।।
निष्कौशाम्बिः अतिखट्वः प्रपर्ण इत्यादिवृत्तिपदेषु पूर्वपदभूता निरतिप्र-भृतयोऽसत्त्ववचना अपि वाक्ये दृष्टाः सत्त्वभूतार्थाभिधायिनः ।
तथाहि--गतक्रान्तादिससाधनक्रियावचनाः कौशाम्ब्यादिभिरपादानादिसाधन-
शक्त्याधारैर्द्रव्यैः सम्बध्यन्ते । यदि चासत्त्ववचना एव स्युः, तदा तैः
सत्त्ववचनैः सम्बन्धो न स्यादिति तदन्यथानुपपत्त्या निष्क्रमणादिक्रियोपसर्जने साध-नशक्त्याधारे द्रव्ये वृत्तिरेषामनुमीयते । वाक्यपरदृष्ट एव च तत्र वृत्तिरभिधानश-
क्तिनियमादिति नातिप्रसङ्गः । यदाह वाक्यकारः--`तदर्थगतेर्वा' इति । येनार्थेन
निरादेर्भवति कौशाम्ब्यादिना सामर्थ्यम्, तदन्यथानुपपत्त्या तस्यैव प्रतीतेरित-
यर्थः ।
एवं यथात्र वृत्तौ पूर्वपदं पदान्तरसम्भिन्नार्थतया वाक्यपरिदृष्टं विशेषम-
न्तर्भावयति, तथैवाब्राह्मणादाविति साम्यम् ।
अत्रापि ह्युत्तरपदार्थसम्बन्धान्यथानुपपत्त्या नञोऽसत्सामान्यवाचकत्वं
परिकल्प्यत इति वाचकत्वोपाया सैवानुपूर्वी ।। 256 ।।
एवमप्यसत्सामान्याभिधायित्वे कथं पक्षत्रयोपपत्तिः, पूर्वोत्तरपदार्थयो-
र्गुणप्रधानभावानियमे सति हि त्रयः पक्षा उपपद्येरन् । स तु कथमत्रानियम
इत्याह--
तत्रासति नञो वृत्तेर्ब्राह्मणक्षत्रियादिभिः ।
विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ।। 257 ।।
द्वयोरपि खञ्जकुब्जशब्दयोर्गुणनिमित्तत्वाद् विशेषमविशेष्यभावं प्रत्यनियम
उक्तो भाष्ये--खञ्जकुब्जः कुब्जखञ्ज इति ।
एवमसत्सामान्ये नञो वाचकत्वेन वर्तनात् तद्विशेषवचनैर्ब्राह्मणादिभिर्य-
थारुचि विशेषणविशेष्यत्वं गुणप्रधानभावः पर्यायेण घटते ।। 257 ।।
तथा चाब्राह्मणोऽक्षत्रिय इत्यादौ किं सिद्धमित्याह--
कामचारे च सत्येवमसतः स्यात् प्रधानता ।
गुणत्वमितरेषां च तेषां वा स्यात् प्रधानत् ।। 258 ।।
`सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात्' इति खञ्जकुब्जादिवदनियमे यदास-
त्सामान्यं नञर्थः प्राधान्येन विशेष्यतया विवक्ष्यते, तदा पूर्वपदार्थप्रधानता इत-रेषामुत्तरपदार्थानां ब्राह्मणादीनां गुणत्वविवक्षायां सत्याम् । यदा तु तेषामुत्त-पदार्थानां प्राधान्यं विवक्ष्यते, तदोत्तरपदार्थप्रधानो नञ् समासः ।
अत एव च पूर्वोत्तरपदयोरभिसम्बन्धेऽर्थान्तरविषये विवक्षिते अन्यपदार्थ-
प्राधान्यमप्युक्तं भवति । वाक्ये तु निषेध्यनिष्ठतया निषेधस्यानवगतेर्न स्वतन्त्रोनञः पदार्थ इत्यवाचकत्वाद् द्योतकत्वम् ।
अतश्च गुणप्रधानभावे विवक्षानियमाभावात् तत्र पक्षत्रयानुत्थानम् ।
अत एव चादिवदलिङ्गासङ्ख्यत्वमव्ययधर्मो नञर्थस्य वाक्ये, न तु वृत्तौ,
सत्त्वभूतार्थवाचित्वात् ।। 258 ।।
इत्थं पक्षत्रयोपपत्तौ समर्थितायां प्रथमं भाष्य उपक्षिप्तमुत्तरपदार्थ-
प्राधान्यं परीक्ष्यम् । तथाहि--विरोधादसता कथं ब्राह्मणादिर्विशेष्येतेत्यत आह--
प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः ।
विशेष एव प्राकान्ता ब्राह्मणक्षत्रियादयः ।। 259 ।।
सतो निषेद्धुमशक्यत्वान्निवृत्तिविशिष्ट एव विशिष्टेऽर्थे ब्राह्मणादयः
शक्ता वाचकत्वेनात्रोरक्रम एव प्रवृत्ताः ।
यदा तु तेषां भावरूपेऽप्यर्थे श्रुतेः शब्दस्य रूपमीदृशमेव, तदासौ स्वा-
र्थरूपा निवृत्तिर्द्योत्यते नञा । नञ्पदप्रयोगे हि स विशेषः प्रकाशत इति विरोधाभा-वात् कल्पते विशेषणविशेष्यभावः ।। 259 ।।
`प्राधान्येनाश्रिता' (259)इत्युत्तरपदार्थप्राधान्यपक्षमवलम्बते । एतदेव
निदर्शनेन व्युत्पादयति--
यथा गौरादिभिस्तेषामवच्छेदो विधीयते ।
असताप्यनभिव्यक्तं तादात्म्यं व्यज्यते तथा ।। 260 ।।
गौरः शुक्लः कृष्णो ब्राह्मणः इत्यादौ यथा गौरादिभिर्विशेषणैरवच्छिद्यन्ते
सामान्यभूता ब्राह्मणादयः, तथाऽसद्विशेषवचनाः श्रुतिसारूप्यादनवगतविशेषा नञा
विशेष्यन्ते ।। 260 ।।
ननु गौरादयो विद्यमानार्थगतमेव विशेषमादधाना युक्तं यद्विशेषणं स्युः ।
नञा उत्तरपदार्थोन्मूलकेन कथं विशेषणविशेष्यभावः ? नञप्रयोगो ह्युत्तरपदार्थोऽस-
न्नित्यवधार्यते । तथा चासत्त्वादुत्तरपदार्थस्याप्रयोग एव ब्राह्मणादिशब्दानां
प्राप्नोतीत्याशङ्क्याह--
यथा सत्ताभिधानाय सन्नर्थः परिकल्प्यते ।
तथा सत्ताभिधानाय निरुपाख्यो विकल्प्यते ।। 261 ।।
इह पदादुच्चरिताद् भावाभावसाधारणोऽर्थः प्रतायते । न चासौ तथाविधो बाह्यः,
तस्य भावैकनिष्ठत्वात् । स एव चेच्छब्दैरुच्यते, तदा तस्य सत्ताऽव्यभिचारात् तां
प्रत्याकाङ्क्षानुपपत्तेः सन् ब्राह्मण इति नावकल्पेत विशेषणविशेष्यभावः । अवकल्पतेच ।
तस्मादुपचारसत्तारूढोऽर्थः पदवाच्यत्वेन कल्प्यते सामान्येन भावाभावसम्बन्-धस्य इत्यसन् ब्राह्मण इत्यत्रापि परिकल्पितार्थनिष्ठत्वेन नञप्रयोगो न विरुध्यते । बुद्धिर्ह्यस्य बहिः सदसत्त्वमनपेक्ष्याकारं निरूपयन्ती विरोध्यवि-
रोधिविशेषणसमन्वयक्षमं तं पदार्थीकरोतीति प्रागेव निर्णीतम् ।
तत्र यथा नीलोत्पलमिति बुद्ध्या भागभोदकल्पनया सामान्यात्मना वस्तु
निरूपितं नीलविशेषणेन सम्बध्यते, तथा भावाभावसाधारण्येन बुद्धया गृहीतस्य
निवृत्तिर्विशेषणं युज्यते । न ह्युत्पलं नाम किञ्चित् सामान्यं जगत्यस्ति वस्तु,
यन्नीलसम्बन्धाद् विशेषमाश्रयेत । एकमेव हि तदपि निर्भागं नीलोत्पलमिति बुद्धयैव
भागभेदोपपत्तिः ।
एवमिहाप्यब्राह्मण इति निर्विषयस्य प्रतिषेधस्याप्रवृत्तेः सत्ता निषेध्य-
त्वेनोपचर्यते । बुद्धिस्थायाश्च सत्ताया बाह्यत्वेनारोपाद् बाह्यसत्ताविषयः प्रति-
षेधोऽवतिष्ठते ।
तेनैतदचोद्यं बुद्धिप्रतिभासस्यापि ब्राह्मणशब्दस्य प्रयोग उपपादिते तत्स-
दृशाधिकरणप्रतिपत्तिं नञ्समासे प्रतिपादयितुमाह--
क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया ।
जात्या भिन्नां ततः सत्तां प्रसक्तामपकर्षति ।। 262 ।।
ब्राह्मणसत्ताविषया बुद्धिर्यदा कुतश्चिद् भ्रान्तिकारणात् क्षत्रिये प्रव-र्तते, तदा ब्राह्मणशब्दस्तत्र प्रयुज्यते । सोऽयं मिथ्याध्यवसायो यदा तत्त्वज्ञा-नान्निवर्तते, तदा नञः प्रयोग इत्ययं विषयो नञ्समासस्य ।
अब्राह्मणोऽयं क्षत्रिय इति क्षत्रियसामानाधिकरण्यात् तदवगतिः । एवञ्च
नञ्प्रयोगादुपजाता सम्यग्बुद्धिर्ब्राह्मणकत्वैकार्थसमावायिनीं सत्तां क्षत्रिये
ब्राह्मणशब्दप्रयोगात् प्रसक्तामपकर्षति ततो निवारयति ।
नायं ब्राह्मणो मिथ्या त्वेवमवसितस्तत्सदृशोऽब्राह्मणोऽयमिति, सदृशः
क्षत्रियादिरेव समासार्थः सम्पद्यते न लोष्टादि, समारोपनिबन्धनस्य सादृश्यादेर-
भावात् ।
तथा चोक्तम् `नञिव युक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः' इति ।। 262 ।।
इह कथं नञ् समासः अभाव इति । न ह्यत्रोत्तरपदार्थसदृशार्थसंप्रत्ययः, अपि
तु निषेधः प्रतीयते भावस्योत्तरपदार्थस्य, तस्य चासतः कथं भावशब्दविषयतेत्यत आह--
अभाव इति भावस्य प्रतिषेधे विवक्षिते ।
सोपाख्यत्वमनाश्रित्य प्रतिषेधो न कल्पते ।। 263 ।।
प्रतिषेधविषयप्रक्लृप्त्यर्थमत्रापि बुद्धया निरूपितमाकारमवलम्ब्य भावशब्द-प्रयोगात् तस्य श्रुतिसाम्यादसद्विषयतानवगमात् तदवगमाय नञ्प्रयोग उपपद्यते । निरू-
पाख्ये हि व्यामोहाद् भावतच्वसमारोपे तत्त्वाध्यवसायान्नञ्प्रयोग इत्यर्थः ।।263।।
एवं चैतत् । "अथवा सर्व इमे शब्दा गुणसमुदाये वर्तन्ते' इति दर्शनमुपक्षि-
प्तमत्र भाष्ये । तदवलम्बनेनाप्याह--
अनेकधर्मवचनैः शब्दैः सङ्घाभिधायिभिः ।
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ।। 264 ।।
जातिगुणक्रियालक्षणो धर्मोऽत्र गुणशब्देन विवक्ष्यत इति धर्मपदेनाह ।
समुदायस्य शब्दात् प्रतीतेः स एव शब्दार्थो न्याय्यः ।
तच्च `तपः श्रुतं च योनिश्चेत्येतद् ब्राह्मणकारकम्' इत्युक्तम् । यस्य परिपूर्णा धर्मा जात्यादयः श्रुतादयश्च स मुख्यो ब्राह्मणः । तदभिधायी ब्राह्मणशब्दो
रूढः । तेन तुल्यश्रुतिरवयवे वर्तते ।
समुदायोषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तते । तद् यथा--`तैलं भुक्तम्
घृतं भुक्तम्' इत्युक्तम् । यद्यपि च सङ्घाभिधाय्येकदेशाभिधायी चार्थभेदात् स्वभाव-तोऽत्यन्तभिन्न एव शब्दः, तथापि श्रुतिसाम्यादर्वाग्दर्शना भेदं नावगच्छन्तीत्यभे-दमाश्रित्य समुदायावयववृत्तित्वं कथ्यते ।
तथा च ब्राह्मणजातिरहिते क्षत्रिये विद्याविनयलक्षणैकदेशाश्रयो ब्राह्मणश-
ब्दप्रयोग इति तस्यैकदेशवृत्तिता श्रुतिसारूप्यादनवगता नञ् प्रयोगादवधार्यते ।
`तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः'
इति वा ब्राह्मणक उच्यते, यो गुणहीनो जातिमात्रेण तु ब्राह्मणः ।
इत्थं चात्र गुणसमुदायविषयत्वात् पूर्वोत्तरपदयोः सामानाधिकरण्यमुपपद्यते । अत्र हि नञा यस्यैव गुणस्य स्वाभाविकी निवृत्तिः, सैव द्योत्यत इत्यवशिष्टानां गुणानामर्थात् सद्भावोऽवगम्यते । तत्र पूर्वमुपचारसत्ताश्रयेणोक्तम् ।
इदानीं तु पारमार्थीकस्यैव कस्यचिद् धर्मस्य नञा निवर्तनेऽपि परिशिष्टमात्राकलापे समुदायाध्यासेन शब्दप्रवृत्तिर्न निर्विषयेत्येतदाख्यायते । उभयोरपि च तयोरवयवयोः समुदायात्मनाध्यासात् तस्यैव निषेधः, तत्रैव च शब्दप्रवृत्तिरिति ।। 264 ।।
नेदं चोद्यम्, उत्तरपदार्थानुपादानांशनिषेधात् कथमुत्तरपदेन समन्वय इति ।
तथाहि--
यथैकदेशकरणात् कृत इत्यभिधीयते ।
अकृतश्चेति सङ्घातः स एवाब्राह्मणे क्रमः ।। 265 ।।
यथा एकदेशस्य निष्पत्तेस्तदपरस्य चैकदेशस्यानिष्पत्तेः कृताकृतः सङ्घातोऽभिधीयते । अवयवात्मकत्वात् समुदायस्यावयवधर्मोपचारो न विरुध्यते ।
एवं गुणसमुदायस्यैकदेशे प्रवृत्तिनिवृत्तिभ्यां ब्राह्मणाब्राह्मणशब्दवाच्यता ।। 265 ।।
अत्र दोषमाह--
ब्राह्मणोऽब्राह्मणस्तस्मादुपन्यासात् प्रसज्यते ।
अकृते वा कृतासङ्गादविशिष्टं कृताकृतात् ।। 266 ।।
एकदेशं सङ्घातात्मनावसाय ब्राह्मणोऽयमिति कथ्यते । एकदेशान्तरस्यासत्त्वात् पुनः स एवाब्राह्मण इति प्राप्नोतीति विरोधापत्तिः ।
यदि वा सर्वथैवाकृते समुदाये समर्थसाधनसन्निधेर्निर्वृत्तिसम्भावनया कृतशब्दो यथा प्रयुज्यते, तद्वत् क्षत्रियादौ ब्राह्मणसमानधर्मदर्शनाद् ब्राह्मणशब्दवाच्यमात्राकलापं प्रत्यस्य ब्राह्मणत्वसम्भावनया ब्राह्मणशब्दप्रयोगे सति यदा नञा मुख्यार्थता निवर्तनेन गौणार्थतेदृशी प्रकाश्यते, तदा कृताकृतशब्देन तुल्योऽयं नञ् समासइति द्वितीयार्धेन चोद्यं निवारितम् ।। 266 ।।
एकदेशे च ब्राह्मणशब्दोऽमुख्य इति सादृश्यान्मुख्यभ्रान्तिः स्यात् । तामपाकर्तुं नञ् प्रयुज्यमानो भवति विशेषणमित्याह--
अमुख्यसम्भवे तत्र मुख्यस्य विनिवृत्तये ।
शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ।। 267 ।।
उपक्रम एवामुख्येऽर्थे ब्राह्मणशब्दः प्रयुक्तोऽनधिहतविवक्षितार्थ इत्यब्राह्मण शब्दस्य लौकिकस्याखण्टस्यान्वाख्यानार्थमेवं विभागे विवक्षितार्थसिद्ध्यर्थमुपपद्यते नञ् प्रयोग इत्यर्थः ।। 267 ।।
अत्रोत्तरपदार्थप्राधान्ये भाष्ये चोदितम्--`अब्राह्मणमानयेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति' इति । तत् कथम् ? यावता राजपुरुषादिवत् पूर्वपदार्थोपहितविशेषस्योत्तरपदार्थस्य प्रतीतेरित्याशङ्क्य भाष्यकाराभिप्रयामाचष्टे--
पदार्थानुपघातेन दृश्यते च विशेषणम् ।
अथ जातिमतोऽर्थस्य कश्चिद् धर्मो निवर्तितः ।। 268 ।।
राजपुरुषादौ राजाद्यर्थः पुरुषाद्यर्थस्यानुच्छेदेन विशेषोपसंहाराद् युक्तंविशेषणम् ।
इह तु नञर्थ उत्तरपदार्थोच्छेदकः कथं विशेषणं स्यात् ? अनर्थक एवात्र नञ् । तथा च ब्राह्मणमात्रस्यानयनं स्यादिति भाष्यकाराभिप्राय इत्यर्थः ।।
अथ न सर्वथोत्तरपदार्थनिवृत्तिरत्र, अपि तु--
नञोति शेषः । गुणसमुदाये जातेः प्रवृत्तिहेतुत्वात् । तद्वतः समुदायस्य प्रदेशमात्रस्य निवृत्तिर्नञा द्योत्यते । तदपरस्य तु प्रदेशस्य स्थितिरिति भवति विशेषावसायः ।। 268 ।।
यद्येवम्--
अवश्यं ब्राह्मणे कश्चित् क्वचिद् धर्मो न विद्यते ।
विशेषावचनात् तत्र नञः श्रुतिरनर्थिका ।। 269 ।।
नहि सर्वो ब्राह्मणः परिपूर्णगुणो लभ्यत इति ब्राह्मणशब्दः प्रदेशवृत्तिरेवसर्वः, पूर्णेगुणेऽपि जातिमात्रसंस्पर्शेन प्रवृत्तेः । तथा च नञ् प्रयोगेऽपीत्यनर्थको नञ् ।। 269 ।।
किञ्चास्मिन् पक्षे--
अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते ।
अन्वाख्यानाद्धि साधुत्वमेवम्भूते प्रतीयते ।। 270 ।।
य एवार्थो ब्राह्मणशब्दस्य निवृत्तैकदेशः स एवाब्राह्मणशब्दस्येति नञ्समासनचनेन प्रज्ञापितसाधुभावोऽब्राह्मणशब्दो ब्राह्मणशब्दस्य पर्यायः प्राप्नोति।।270।। एतत् समाधत्ते--
पदार्थानुपघातेन यद्यप्यत्र विशेषणम् ।
उपचारसतोऽर्थस्य सावस्था द्योत्यते नञा ।। 271 ।।
एकदोशोऽप्यत्र न मुख्यो ब्राह्मणजातीय इति बुद्ध्या तमुपचर्य तच्छब्दप्रयोगः । तथा चास्य सोपचरितलक्षणावस्था नञा प्रकाश्यत इति पदार्थानुपघातेनैवेदमपि विशेषणं युज्यत इत्यर्थः ।। 271 ।।
तथाहि--
विशेष्येषु यथाभूतः पदार्थः समवस्थितः ।
तथाभूते तथाभावो गम्यते भेदहेतुभिः ।। 272 ।।
राजपुरुषनीलोत्पलादावपि यथावस्थिविशेष्यपदार्थनिष्ठो विशेषणपदार्थ इति भेदहेतुभिर्विशेषणैर्यथायथमर्थोऽवगम्यते; एवमिहापि ब्राह्मणपदार्थो बुद्ध्योपचरितरूप इत्येवं नञपदप्रयोगादवगम्यत इति युक्तं विशेषणम् । तदुक्तं भाष्ये--
"अथेह `राजपुरुषमानय' इत्युक्ते पुरुषमात्रस्यानयनं कस्मान्न भवति ?
अस्त्यत्र विशेषः । राजात्र विशेषकः प्रयुज्यते । तेन राजविशिष्टस्यानयनं भवति । इहापि तर्हि नञ् विशेषकः प्रयुज्यते । तेन नञ्विशिष्टस्यानयनं भविष्यति" इति ।।272।।
अत्र चोदितम्--`कः पुनरसौ'? तत्रोक्तम्--`निवृत्तपदार्थकः' इति । एतदाक्षिपति--
निवृत्तेऽवयवस्तस्मिन् पदार्थे वर्तते कथम् ।
नानिमित्ता हि शब्दस्य प्रवृत्तिरुपपद्यते ।। 273 ।।
बुद्धिपरिगृहीताकारेऽपि शब्दः प्रवर्तमानो बाह्यगतं बीजमवलम्बत एव । तथा च दृश्यविकल्पयोरेकत्वाध्यवसायाद् बाह्यमेव शब्दार्थं मन्यन्त इति क्षत्रियादौ ब्राह्मणादेरेकदेशवाचित्वादवयवशब्दस्य कथमसति निमित्ते प्रवृत्तिः । येन सावस्था नञा द्योत्यत इत्युच्यते ।। 273 ।।
अथ स्वाभाविकी निवृत्तिरिति क्षत्रियेऽपि ब्राह्मणशब्दः, तदा--
आराच्छब्दवदेकस्य विरुद्धेऽर्थे स्वभावतः ।
शब्दस्य वृत्तिर्यद्यस्ति नञः श्रुतिरनर्थिका ।। 274 ।।
यथा दूरान्तिकार्थवृत्तिराराच्छब्दः, तथा ब्राह्मणक्षत्रियवृत्तिः स्वभावतो ब्राह्मणशब्दो रूढ इत्युपगमे विनापि नञ्प्रयोगं प्रकरणादिवशात् क्षत्रियावगतिर्ब्राह्मणशब्दाद् भविष्यतीति किं नञा कृत्यम्, येन नञ्समासोऽन्वाख्यायते । नह्यवश्यमनेकार्थानां पदान्तरप्रयोगाभिव्यङ्ग्यविशेषत्वमुपलब्धम् । तदुक्तं भाष्ये--"यदि स्वाभाविकी निवृत्तिः, किं नञ् प्रयुज्यमानः करोति " इति ।। 274 ।।
अतोऽनन्तरमुक्तम्--`अथ वाचनिकी । तद् वक्तव्यं नञ् प्रयुज्यमानः पदार्थं निवर्तयति' इति । एतद् व्याचष्टे--
अथ स्वभावो वचनादन्वाख्येयत्वमर्हति ।
तद्वाच्यमप्रसिद्धत्वान्नञार्थो विनिवर्त्यते ।। 275 ।।
स्वभावोऽपि दुरवधारणत्वान्नञित्यनेन यदि शब्देन ज्ञाप्यते; तदेदमपि वचनेनान्वाख्येयं नञ्प्रयोगे पदानां प्रसिद्धोऽर्थो विनिवर्तत इति ।
अथास्यायं स्वभावः प्रयोगपारम्पर्यावसेयः, तदा सर्वस्यैव व्यापारे शब्दान्तरानपेक्षणादुत्तरपदेनापि निवृत्त्याभिधाने नञ् नापेक्षितव्य इत्यर्थः ।। 275 ।।
अतोऽनन्तरं `कीलप्रतिकीलवद् वाचनिकी निवृत्तिः । यद्येवं नञो माहात्म्यम्,न जातुचिद् राजानो हस्त्यश्वं बिभृयुः' इति दूषयित्वा स्वाभाविकी निवृत्तिः सिद्धान्तिता । तत्र च नञ् निमित्ता तूपलब्धिः । तद्यथा--समन्धकारे द्रव्याणां प्रदीपनिमित्तं दर्शनम् इत्युक्तम् । एतद् व्याचष्टे--
यद्यप्युभयवृत्तित्वं प्रधानं तु प्रतीयते ।
प्रस्थानं गम्यते शुद्धे तदर्थेऽपि न तिष्ठतौ ।। 276 ।।
गतिनिवृत्तिवचनस्तिष्ठतिः प्रसिद्ध इत्यन्तरेण प्रशब्दमुपसर्गम् (स्थाधातुः) प्रस्थानार्थोऽपि तमर्थमवगमयितुमपर्याप्तो यथा, एवं क्षत्रियवचनोऽपि ब्राह्मणशब्दो नञमन्तरेण न तदर्थनिश्चयाधायीत्यर्थः । न हि प्रशब्दस्य प्रस्थानमर्थः तिष्ठतेर्निरर्थकत्वप्रसङ्गादित्यसौ तिष्ठत्यर्थः । प्रशब्दस्तु द्योतकः । एवमत्रापि विज्ञेयम् ।। 276 ।।
ननु च यदि क्षत्रिये मुख्यो ब्राह्मणार्थो नास्ति, तदा किमर्थं सन्दिग्धार्थो ब्राह्मणशब्दस्तत्र वाचकोऽभ्युपगम्यते । तस्य चायममुख्योऽर्थो नञ् प्रयोगादवधार्यत इति । `यदि पुनरयं निवृत्तपदार्थकः, किमर्थं ब्राह्मणशब्दः प्रयुज्यत' इत्युक्तं भाष्ये । तदाह--
किमर्थमतथाभूते सति मुख्यार्थसम्भवे ।
भेदे ब्राह्मणशब्दस्य वृत्तिरभ्युपगम्यते ।। 277 ।।
व्याख्यातार्थोऽयं श्लोकः ।। 277 ।।
अत्र परिहारभाष्यम्--"एवं यथा विज्ञायेत अस्य पदार्थो निवृत्त इति । नेति
ह्युक्ते सन्देहः स्यात्--कस्य पदार्थो निवृत्त इति । तत्रासन्देहार्थं ब्राह्मणशब्दः प्रयुज्यते" इति । एतद् व्याचष्टे--
अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते ।
इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ।। 278 ।।
अयमर्थः--अज्ञानाद् दुरुपदेशाद् वा केनचिद् ब्राह्मणार्थः क्षत्रियेऽध्यवसितः । स एवं बोध्यते--नायं ब्राह्मणोऽब्राह्मणोऽयमिति । क्षत्रिय इति तूक्ते ब्राह्मणार्थस्य तत्र निषेधो न कृतः स्यादिति विवक्षितार्थो न प्रतीयते ।
तस्माद् बुद्धया तत्र ब्राह्मणार्थमाश्रित्य नञो विषयप्रक्लृप्तौ तदर्थनिवृत्तिः कथ्यत इति युक्तम् ।। 278 ।।
बोद्धुश्च शब्दार्थः समारोपितरूपः सर्वत्र युज्यत एवेत्याह--
बुद्धेर्विषयतां प्राप्ते शब्दादर्थे प्रतीयते ।
प्रवृत्तिर्वा निवृत्तिर्वा श्रुत्या ह्यर्थोऽनुषज्यते ।। 279 ।।
इह यः शब्दादर्थः प्रतीयते, स व्यवहाराङ्गं बहिः सदसत्त्वमनपेक्ष्येति `शब्दादर्थाः प्रतायन्त' इत्यादिना पूर्वं निर्णीतम् । तथा च भावाभावसाधारणशब्दैः स्वार्थः समुल्लिख्यत इति तत्र-तत्र पदार्थेऽनवस्थिते यथायोगं भावरूपमभावरूपं वा विशेषणमुपकल्पत एव ।। 279 ।।
तत्रोत्तरपदार्थप्रधाने नञ् समासे `नञिव युक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः" इत्युक्तत्वाद् यत्रैव ब्राह्मणशब्दस्य भ्रान्त्या प्रयोगस्तत्रैव तदर्थनिषेधे तदधिकरणसम्प्रत्ययो न सर्वत्रेत्यतिप्रसङ्गाभावार्थं `सन्देहाद् दुरुपदेशाच्च ब्राह्मणशब्दो वर्तते' इत्यादि भाष्यम् । तद् व्याचष्टे--
असम्यगुपदेशाद् वा निमित्तात् संशयस्य वा ।
शब्दप्रवृत्तिर्न त्वस्ति लोष्टादिषु विपर्ययम् ।। 280 ।।
दुरुपदेशात् क्षत्रिये ब्राह्मणशब्दप्रवृत्तिः । पङ्गलकेशादेरुपदिष्टस्य विषयविवेचनावधारणात् कस्यचिद् भवति । सन्देहनिमित्तं गुणः सन्देहशब्देनात्रोक्तः ।
तथाहि--सादृश्यलक्षणात् संशयनिमित्तात् तत्र शब्दप्रवृत्तिरित्यत्यन्तविसदृशेषु लोष्टादिषु ब्राह्मणशब्दप्रवृत्त्यभावादब्राह्मणशब्दादुत्तरपदार्थसदृश एव क्षत्रियोऽवगम्यते, न लोष्टादि । भ्रान्तिनिवारणाय हि नञः प्रयोगः । भ्रान्तिश्च सति
निमित्ते, निर्बीजभ्रान्त्ययोगादिति सदृश एव तस्य (नियमः) विषयः ।
अत एव च नञा ब्राह्मणार्थे मुख्ये क्षत्रिये निवारिते तदधिकरणभूतः क्षत्रियोऽवस्थित एवेति प्रतिपद्यतेऽसौ क्रियासु साधनभावमब्राह्मणमानयेत्यादौ । प्रतिषेधमात्रोपक्षयत्वे तु नञ्समासस्यात्रासाधनः समासार्थः स्यादिति न समारोपितरूपप्रतिषेधमात्रोऽस्य व्यापारः ।
समारोपस्य च प्रतिपत्तॄणां विपर्यासितदर्शनान्नियमाभाव इत्यसत्यपि सादृश्ये कुतश्चिद् भ्रान्तिकारणात् सर्वत्र प्रसिद्धे नञ्समासे समारोपोऽनुगन्तव्यः ।
उपचरितोत्तरपदार्थप्रतिषेधेन ह्युत्तरपदार्थप्रधानो नञ्समास इत्यप्राणिनामस्त्रीविषयादयोपधादचित्तवत् कर्तृकादिति प्रयोगदर्शनात् समारोपनिमित्तानुसरणेनोत्तरपदार्थसदृशप्रतिपत्तिर्विज्ञेया ।। 280 ।।
`इदं खल्वपि भूय उत्तरपदार्थप्राधान्ये सङ्गृहीतं भवति । किम्, अनेकम्' इति भाष्यम् । तद् व्याचष्टे--
अनेकस्मादस इति प्राधान्ये सति सिध्यति ।
सापेक्षत्वं प्रधानानामेवं युक्तं त्वतल्विधौ ।। 281 ।।
एकशब्दार्थस्यात्र प्रधानत्वे तदाश्रयमेकसङ्ख्यत्वादेकवचनमनुपसर्जनत्वात् सर्वनामसंज्ञाकार्यं स्मायादि च भवति ।
यदि तु पूर्वपदार्थस्यान्यपदार्थस्य वा प्राधान्यं स्यात्, तदैकार्थस्योपसर्जनत्वात् `संज्ञोपसर्जनप्रतिषेधः' इति सर्वनामसंज्ञा न स्याति । तथा अस इत्यत्रान्तर्गणकार्यम्, "त्यादादीनामः" (पा.7/2/102) इत्येवमादि तदर्थस्य प्राधान्ये सिध्यति। गणपाठो हि सार्वार्थ्येन प्राधान्येन विशेष्यत इत्युक्तम्--`पाठात् पर्युदासः, पठितानां संज्ञाकरणं सर्वाद्यानन्तर्यकार्यार्थम्' इति ।
तथा `त्वतल्भ्यां नञ्समासः पूर्वप्रतिषिद्धः त्वतलोः स्वरसिद्ध्यर्थम्' इत्यस्य परिहारार्थं यदुक्तं भाष्ये--
`नात्र त्वतलौ प्राप्नुतः । किं कारणम् ? असामर्थ्यात्' इति ।
तदुत्तरपदार्थप्राधान्ये युज्यते ।
तथाहि--अब्राह्मणत्वमित्यस्य निरस्तावयवविभागस्य लौकिकस्य शब्दस्यान्वाख्यानाय यदा विभागः क्रियते, तदा नञर्थस्य प्रतिषेधस्य भावस्य चापोद्धृतस्य ब्राह्मणादन्यस्य भाव इति, यदा युगपद्विवक्षा, तदा परत्वात् त्वतलौ स्याताम् । तयोः कृतयोः पुनः प्रसङ्गविज्ञानान्नञ्समासे समासस्वरः स्यात् । सति शिष्टत्वादव्ययपूर्वपदप्रकृतिस्वरः, प्रत्ययस्वरश्चेष्यत इति पूर्वविप्रतिषेधेनात्र नञ्समासे चोदिते परिहारोऽयंभाष्येऽभिहितः--नात्रेत्यादि ।
ब्राह्मणादन्यस्य भाव इति प्रतिषेधमपेक्षमाणो ब्राह्मणार्थस्तद्धितेनैकार्थीभावमनुभवितुं पूर्वसमर्थ इति प्रथममत्र नञ्समासः क्रियते ।
ननु च भावार्थमपेक्षमाणोऽपि ब्राह्मणार्थः सापेक्ष एवेति नञ्समासोऽपि न स्यात् । नैतदस्ति । प्रधानमिदानीं सापेक्षमिति भवति वृत्तिः ।
तद्धिते तु प्रकृत्यर्थस्योपसर्जनस्य सापेक्षत्वम् । तदेतत् कथमुपपद्यते, यद्युत्तरपदार्थप्रधानो नञ्समासः । पूर्वपदार्थान्यपदार्थप्राधान्ये तु अभावप्रत्यययोरेकयोगक्षेमो नञ्समासः स्यात् । उभयत्रापि गुणस्य सापेक्षत्वादिति परिहारभाष्यं नोपपद्येतेत्युत्तरपदार्थप्रधानताया उत्कर्षः ।
ननु च नित्यशब्ददर्शने विभज्यान्वाख्याननयेऽपि "वाह ऊठ" (पा.6-4-32)
इति लिङ्गाद् युगपत्सन्निधानेऽप्यन्तरङ्गयोरन्तारङ्गं बलवदिति नञ्सम्बन्धमात्राश्रयो नञ्समास एव पूर्वं भवति । सत्यमेतत् । भावार्थं त्वपेक्षमाणो ब्राह्मण उद्भूतव्यतिरेको नञा सम्बध्यत इति प्रधानमत्र सापेक्षमित्येतदेव युक्तम् । पूर्वविप्रतिषेधवचनं तु ज्ञापकमुक्तम्--`अतोऽन्यो भावप्रत्ययो नञ्समासात् प्राग् भवति' इति । तथा च
तत्रोत्तरपदवृद्धिर्नञ्स्वरश्च भवति ।। 281 ।।
अतोऽनन्तरं भाष्यम्--`किमत्र सङ्गृहीतम्, एकवचनम्' इति । तद् व्याचष्टे--
एकस्य च प्रधानत्वात् तद्विशेषणसन्निधौ ।
प्रधानधर्माप्यावृत्तिरतो न वचनान्तरम् ।। 282 ।।
एकार्थस्य प्रधानत्वात् तन्निषेधेनानेक इत्यत्र बहुष्वपि प्रतिपाद्येषु प्रधानार्थानुयाय्येकवचनमेव भवति, न तु बहुवचनमित्यर्थः ।। 282 ।।
ननु च द्व्यादयोऽत्रैकशब्दवाच्याः समारोपितैकत्वा इति नञा तत्रैकार्थप्रतिषेधे तदाधाकस्य द्व्यादेः सम्प्रत्ययात् । तद्गतमेव वचनं न्याय्यमित्याशङ्क्याह--
प्रधानमत्र भेद्यत्वादेकार्थो विकृतो नञा ।
हित्वा स्वधर्मान् वर्तन्ते द्व्यादयोऽप्येकतां गताः ।। 283 ।।
नञ्विशिष्टोऽनेक इत्यत्रैकार्थः प्रधानम् विशेष्यत्वादिति तदाच्छुरितरूपाःपरित्यक्तस्वभावधर्माः द्व्यादयो निमित्तसरूपतामापन्ना निमित्तानुविधानादेकत्वेनैव प्रतीयन्त इत्येकवचमेव न्याय्यम् ।। 283 ।।
विरुद्धेषु द्वित्वादिषु कथमेकत्वयोग इति चेदाह--
ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः ।
द्वित्वादिषु तथैकत्वं नञ्योगादुपचर्यते ।। 284 ।।
नञ्प्रयोगाद् ब्राह्णशब्दो यथाऽब्राह्मण इत्यत्र क्षत्रियवृत्तिरवधार्यते, तथानेक इत्यत्रापि द्व्यादिवृत्तिरेकशब्दः । प्रतीयते ह्युत्तरपदार्थसदृशोऽर्थः । तत्र चाध्यारोपितो दुरुपदेशादिना निमित्तेनोत्तरपदार्थ इति सर्वत्र समानम् ।। 284 ।।
तथाहि--
एकत्वयोगमासज्य स धर्मः प्रतिषिध्यते ।
द्व्यादिभ्यस्तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ।। 285 ।।
भ्रान्त्या द्व्यादावेकत्वमारोपितं नञा निवार्यते, न त्वेकशब्दः । तथाहि भ्रान्तिनिवारणं विवक्षितं न प्रतीयोतेति क्षत्रियादौ ब्राह्मणादिशब्दगवदेकशब्दोऽत्रप्रयोगार्हः । असति ह्येकशब्दे द्वयादिष्वेकत्वारोपाभावात् किं बाधितुं नञ् प्रयुज्येत ।। 285 ।।
तस्मान्नञो विषयप्रक्लृप्त्यर्थमेकशब्दः प्रयुज्यमानः प्रधानार्थ इति स्वधर्माननुवर्तते वृत्तिवाक्ययोरविशेषेणेत्याह--
आविष्टसङ्ख्यो वाक्येऽसौ यथा द्वयादौ प्रयुज्यते ।
वृत्तौ तस्य प्रधानत्वात् सा सङ्ख्या न निवर्तते ।। 286 ।।
एकं चेन्नङित्कितौ, नैकं द्वयादय इति यथा वाक्ये सङ्ख्यान्तरेऽप्येकशब्दोऽपरित्यक्तस्वसङ्ख्य एव प्रयुज्यते, तथा समासेऽपि तदर्थस्य प्रधानत्वादनेक इत्यत्र स्वसङ्ख्यापरित्यागो नास्ति ।। 286 ।।
तत्परित्यागे तु विवक्षितार्थाप्रतीतिरित्याह--
प्रतिषेध्यो यथाभूतस्तथाभूतोऽनुषज्यते ।
वचनान्तरयोगे हि न सोऽर्थः प्रतिषिध्यते ।। 287 ।।
प्रतिषेधाविषयप्रक्लृप्त्यर्थमसदर्थमप्युत्तरपदं प्रयुज्यत इति यादृशोऽध्यस्तः प्रतिषेध्यः, तादृशार्थाभिधानायोत्तरपदमुपादीयते । द्वयादौ चैकत्वं प्रतिषेध्यमित्युत्तरपदस्यैकवचने सत्ययं विवक्षितः प्रतिषेधोऽवगम्यते । द्विवचनाद्युपादने त्वेकत्वं प्रतिषिध्यमानं न प्रतीयते । तस्माद् विवक्षितार्थौपयिकत्वादेकवचनमेव न्याय्यम् ।। 287 ।।
`कथं पुनरेकस्य प्रतिषेधे द्विबहूनां सम्प्रत्ययः' इति भाष्यमेकत्वनिवृत्तिमात्रं प्रसज्यप्रतिषेधरूपमभिप्रेत्य प्रवृत्तं पर्युदासाश्रयणेन समर्थयते--
अशुक्ल इति कृष्णादिर्यथार्थः सम्प्रतीयते ।
सङ्ख्यान्तरं तथानेक इत्यत्राप्यभिधीयते ।। 288 ।।
पर्युदासे शुक्लनिवृत्त्या नीलादयोऽविशेषेणाशुक्लशब्दाद् यथा प्रतीयन्ते, तथा द्व्याद्योऽप्येकसङ्ख्यानिवृत्त्याऽविशेषेणानेकपदादवगम्यन्ते ।। 288 ।।
एतदेव समर्थयितुं भाष्यम्--`प्रसज्यायं क्रियां गुणं वा ततः पश्चान्निवृत्तिं करोति । तद्यथा--आसय भोजय शाययानेकम्' इति । तद्व्याचष्टे--
क्रियाप्रसङ्गात् सर्वेषु कर्मस्वङ्गीकृतेषु च ।
एकस्मिन् प्रतिषिद्धेऽपि प्राप्तमन्यत् प्रतीयते ।। 289 ।।
क्रियापदमर्थसामर्थ्यात् साधनान्याक्षिपत्यविशेषेण । तथासयेत्युक्ते कर्मसामान्यमवगम्यते । तत्र विधिपूर्वकत्वान्निवृत्तेः क्रियासामर्थ्याक्षिप्तनानासङ्ख्याश्रयकर्मप्रसङ्गे सत्येकप्रतिषेधादप्रतिषिद्धस्य सङ्ख्यान्तरयोगिन एव साधनत्वमवबुध्यते ।। 289 ।।
एवच्च कस्मिन् पक्षे कथ्यत इत्याह--
क्रिया श्रुतिश्च प्रक्रान्ते प्रसज्यप्रतिषेधेन ।
पर्युदासे तु नियतं सङ्ख्येयान्तरमुच्यते ।। 290 ।।
प्रसज्यप्रतिषेधे प्रतिषेधोपक्षयत्वाच्छब्दस्य क्रियासामर्थ्यात् प्रतिषिद्धवर्जं साधनोपादानम् । पर्युदासे तु शब्दादेवानेकमित्यस्मादुत्तरपदार्थसदृशनियतसाधनोपादानमित्युक्तमेव ।। 290 ।।
`आसय शायय भोजय' इति प्रयोज्यप्रयोजकप्रैषोपादानेन विरुद्धक्रियानिर्देशस्योपादाने भाष्यकारस्याभिप्रायं व्याचष्टे--
धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः ।
अर्थात् सर्वाणि कर्माणि प्रागाक्षिप्यावतिष्ठते ।। 291 ।।
सकर्मको धात्वर्थ आसनादिभेदभिन्नः पूर्वं यदा निर्दिष्टः प्रयोज्यप्रयोजकादिस्वसाधनावच्छिन्नो विरुद्धक्रियास्वभावः, तदा तस्य विरुद्धानेकस्वभावस्यैकेन साधनेन साध्यत्वायोगात् पूर्वमेवानेकं साधनमुपात्तमित्येकनिषेधेन तस्यैव सम्प्रत्ययः ।। 291 ।।
अनन्तरं भाष्यम्--"यद्यपि तावदत्रैतच्छक्यते वक्तुम्, यत्र क्रियागुणौ प्रसज्येते । यत्र तु खलु न प्रसज्येते तत्र कथमनेकं तिष्ठति" इति ।
तत्र परिहारः--`भवत्येवंजातीयकेष्वप्येकस्य प्रतिषेधे बहूनां सम्प्रत्ययः' इति ।
अत्र चोद्यभाष्ये प्रसज्यप्रतिषेधे निषेधमात्रोपक्षयाद् द्वयादीनामप्रतिपत्तिः स्यादित्यर्थः ।
पर्युदासे समानजातीयस्य सङ्ख्यान्तरस्यैकत्वसमारोपास्पदत्वात् सिद्धः सम्प्रत्यय इति परिहाराभिप्रायः ।
एतद् व्याचष्टे--
निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते ।
अनेक इति पश्चाच्च तिष्ठतीत्यनुषज्यते ।। 292 ।।
साध्यत्वात् तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते ।
प्रागेवाङ्गीकृतं द्रव्यमतः पूर्वेण भिद्यते ।। 293 ।।
यत्र कुतश्चिद्धेतोरेकतयावधृतः साधनशक्त्यधिकरणभूतो द्रव्यात्मा आख्याते, तद्वाच्यायां क्रियायां पुनरयथार्थतावसायादनेक इति प्रतिषिध्य पश्चात् क्रियापदं तिष्ठतीति प्रयुज्यते । तत्र प्रागवधृतस्य शक्तिमतो द्रव्यस्य परार्थमुपादीयमानत्वात्तदात्मानुरूपां साध्यामाक्षिपति क्रियां, न क्रियासामर्थ्येनाक्षिप्यते द्रव्यमिति पूर्वस्मादस्य भेदः ।
अत्रापि च ज्ञातसाधनविषयोपनिपातादेकप्रतिषेधस्य प्रतिषिद्धपरिहारेण प्रतीयते साधनम् ।
तदेवमश्रुतेऽपि पूर्वं क्रियापदे नैकनिषेधमात्र एव वाक्यं पर्यवस्यति, क्रियाकाङ्क्षणादिति तत्राप्येकनिषेधे सङ्ख्यान्तरस्य साधनत्वमवगम्यते ।। 292,293 ।।
एवं यत्रापि हि क्रियापदेशे नास्ति तात्पर्यम्, तत्रापि तावत्सङ्ख्यान्तरं प्रतीयत एवेति दृष्टान्तितं भाष्ये । `तद्यथा न न एकं प्रियं, न न एकं सुखम्' इति ।तद् व्याचष्टे--
सङ्ख्यैव प्रतिषेधेन सङ्ख्यान्तरमपेक्षते ।
वाक्येऽपि तेन नैकत्वमात्रमेव निवर्त्यते ।। 294 ।।
"न न एकं प्रियं, न न एकं सुखम्" इत्येतद् वाक्यम् । "आबाधे च"
(पा. 8/1/10) इत्यत्र द्विर्वचनम्, शत्रोः सुखेन प्रियेण च प्रयोक्तुराबाधः ।
अत्र च क्रियापदस्याश्रवणात् सुखप्रियप्रतिषेधमात्रव्यापारेऽपि वाक्ये सङ्ख्यान्तराध्यासितानि सुखानि प्रियाणि च प्रतीयन्ते । एकं शत्रोर्न सुखम्, अपि तु बहूनि । एवं प्रियाणीति ।
अयं ह्यत्र वाक्यार्थः--विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् । सर्वसुखप्रियनिषेध एकपदोपादानमनर्थकं स्यात् । एवञ्च यत्र वाक्येऽप्येतत्सामर्थ्यम्, तत्र वृत्तावुत्तरपदार्थसदृशस्यार्थस्य पर्युदासे प्रतीतो का विचिकित्सा ? तत्र ह्येकपदमेव द्विबहूनाहेति नैकत्वमात्रे निवृत्तिः, अपि तु तन्निवृत्तिविशिष्ठस्य द्व्यादेः प्रतिपत्तिः सिद्धा ।। 294 ।।
ननु कथं द्व्यादिरेव नियमेन प्रतीयते । एकप्रतिषेधेऽन्यदेव शेषरूपं प्रतीयतामित्याशङ्क्याह--
स्नेहान्तरादवच्छेदा यस्तथासत्तेः प्रतीयते ।
तैलेन भोजने प्राप्ते न त्वन्यदुपसेचनम् ।। 295 ।।
यथा भोजनमतैलेन विधेयमिति चोदिते तैलप्रतिषेधसामर्थ्यात् सर्पिरादिस्नेहान्तराद्धेतोरवच्छेदो विशेषणं भोजनस्य प्रत्यासत्तेरेकजातीयत्वात्, प्रतीयते, न दध्ना पयसा वा, तथेहाप्येकप्रतिषेधे समानकार्यं सङ्ख्यान्तरमेव सङ्ख्याजात्या प्रत्यासन्नं प्रतीयते, न त्वविशेषेण यत्किञ्चिदेवान्यदिति स्थितमुत्तरपदार्थप्रधानतायां नञ्समासस्यानेकमित्यस्योपपत्तिरिति । कथं तर्हि "वृत्तिभेदप्रयोजकं चित्तमेकनेकेषाम्" इति भगवतः पतञ्जलेः प्रयोगः ?
एकशेषाश्रयेणेति ब्रमः । एकनिषेधेऽपि हि कुतश्चिन्निमित्तान्नियतामेव व्यक्तिं सम्भावयोदिति सम्प्रत्येकशेषो न्याय्यः । भाष्यकृता त्वेकवचनं समर्थितम्, न तुबहुवचनं निवारितम् ।। 295 ।।
इदानीमन्यपदार्थप्रधानपक्षविचारायाह--
एकार्थे वर्तमानाभ्यामसता ब्राह्मणेन च ।
यदा जात्यन्तरं बाह्यं क्षत्रियाद्यपदिश्यते ।। 296 ।।
तदावकल्पतेऽन्यपदार्थप्रधानो नञ्समास इति प्रकरणादवसेयम् । इहाब्राह्मणादिभिर्नञ्समासैरुत्तरपदार्थविपरीतवस्तुप्रत्यायनं दृश्यते । तत्र चान्वाख्यानप्रक्रियायां यदोत्तरपदोपादानाः समारोपितब्राह्मणाद्यर्थाः क्षत्रियादय इति नयः, तदोत्तपदार्थप्राधान्यं निर्णीतम् `प्राधान्येनाश्रिताः पूर्वम्' इत्यादिना ।
यदा त्वसत्सामान्यवृत्तिरप्ययं नञ् सद्विशेषानिबन्धनया ब्राह्मणश्रुत्या सामान्यविशेषभावेनैकाधिकरण्येन संबन्धमनुभूय तत्संबन्धप्रापितार्थातिशयं बाह्यं पदान्तरोपादानं क्षत्रियाद्यनुपतति, न तावत्येव विश्राम्यति तदान्यपदार्थप्रधानो नञ्समासः ।
तथा ह्यविद्यमानो ब्राह्मणो ब्राह्मणव्यक्तिराश्रयभूता यस्य क्षत्रियस्य क्षत्रियजातेरित्यस्य अन्यपदार्थभूताया वर्त्तिपदार्थाभ्यामभावब्राह्मणाभ्यामवच्छेद इति जात्यन्तरं बाह्यं भवति ।। 296 ।।
उत्तरपदार्थप्राधान्ये तु क्षत्रियादौ समारोपिताया ब्राह्मणजातेः प्रतिषेधात्, सदृशं क्षत्रियादिजात्यन्तरमुत्तरपदवाच्यमेव न बाह्यं भवति, बहुर्वीहाविवान्यपदार्थ इत्यस्याश्रुतेरन्तरङ्गे स्वपदार्थ एव युक्ता वृत्तिरित्याशयैतत्सदृशतत्पुरुषान्तरनिदार्शनेन व्युत्पादयति--
श्यामेव शस्त्री कन्येति यथान्यद् व्यपदिश्यते ।
असन् ब्राह्मण इत्याभ्यां तथान्यं क्षत्रियादयः ।। 297 ।।
शस्त्रीव श्यामा शस्त्रीश्यामा कन्येति श्यामाशब्दस्य शस्त्र्यं वृत्तौ समासवाच्यमुपमेयमुक्तमिति तत्र यथा वर्त्तिपदाभ्यामनभिधायमानापि कन्या समासेनाभिधीयते। यतः कन्याशब्देन समामानाधिकरण्यं प्रतिपद्यते समासः, तथासन्निति नञाऽसदर्थेन ब्राह्मण इति च तद्विशेषवचनेनानभिधीयमानोऽपि क्षत्रियः समासेनाभिधीयते । तथा च यथोपमानसमासो विशेषविहितः सामान्यविहितेन बहुर्वीहिणा न बाध्यते, तथा नञ् समासोऽपीति वचनादन्यपदार्थेऽप्ययं तत्पुरुष इत्यर्थः ।। 297 ।।
अत्रैव निदर्शनान्तरमाह--
असास्नो गौरिति यथा गवयो व्यपदिश्यते ।
जात्यन्तरं न गोरेव सास्नाऽभावः प्रतीयते ।। 298 ।।
गौरवश्यं सास्नासंबद्ध इत्यसास्न इत्युक्ते यदि परं सास्नामात्रमस्य नास्ति, परिशिष्टावयवसंनिवेशसाम्यमिति गोसदृशस्य गवयस्य प्रतिपत्तिः, न गोरेव प्रतिषिद्धसास्नायोगस्य, अतो वाक्यात् प्रतीतिर्गवयसामानाधिकरण्याद् । एवब्राह्मण इत्युक्ते जात्यन्तरं क्षत्रियोऽवगम्यते । ब्राह्मणजातिमात्रनिषेधे परिशिष्टतद्धर्मसाम्यप्रतिपत्तेः ।। 298 ।।
तथा--
तुल्यरूपं यथाख्यातं कण्टकै(कङ्कटै)र्भेदहेतुभिः ।
खदिरं जातिभेदेन खर्जूरात्(बर्बुरात्) प्रतिपद्यते ।। 299 ।।
खदिरखर्जूरौ (खदिरबर्बुरौ) गौरकाण्डौ सूक्ष्मपर्णावित्यभेदेन पूर्वमाख्याते सदृशौ खदिरखर्जूरौ (खदिरबर्बुरौ) प्रतिपद्य पश्चात् कणटकवान् (कङ्कटवान्) खदिर ित्यभिधाने कङ्कटानां खर्जूरेऽभावात् (कङ्कटानां बर्बुरेऽभावात् ) ततः खदिरस्य भेदहेतुभ्यस्तेभ्यो विशेषः प्रतिपद्यते । तथा च खदिरः खर्जूरादन्यः (बर्बुरादन्यः) एव, नतु कण्टरादि (कङ्कटादि) संबन्धमाधिकं तस्यैव प्रतिपद्यते, तथा ब्राह्मणधर्मैः सादृश्यमवधार्य क्षत्रिये ब्राह्मणत्वावसायाद् ब्राह्मणशब्दे प्राप्ते कथ्यते नायं ब्राह्मण इति जातिभेदमात्रम्, अन्यत् सर्वं सदृशमिति जात्यन्तरमिति प्रतीयत इति ।।299।।
दार्ष्टान्तिकमाह--
अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् ।
अङ्गीकृतोपमानेन तथान्यार्थोभिऽधीयते ।। 300 ।।
शस्त्री श्यामा कन्येति यथा वर्तिपदाभ्यामनुपात्ता कन्याभिधीयमानोपमानोपमेयभावमवगमयति, असास्नो गौरिति च सास्नावर्जमवयवसादृश्यं गोगवययोरर्थान्तराभिधाननिबन्धनम्, कङ्कटवर्जं च गौरकाण्डादिसादृश्यमेव विवक्षितमिति सर्वत्रोपमानगर्भमन्यार्थाभिधानम्, तथाऽब्राह्मण इत्यत्रापि । तथा च ब्राह्मणजातिवर्जमन्यैर्धर्मैः सादृश्यात् क्षत्रियादिरेवान्योऽर्थोऽभिधीयते ।
तथाहि--वैश्यः क्षत्रियो वा ब्राह्मण इवायमब्राह्मणः । तत्र सर्वथा भेदेऽभेदे वा नास्ति सादृश्यमिति गोगवयवत् कथञ्चिद्भेदाभेदावनुसर्तव्यौ ।
यथा हि ब्राह्मणः कुतश्चिन्निमित्तादपोद्धृतब्राह्मण्यसामान्यस्तथाजातीयकोऽयमित्यर्थः । ब्राह्मण्यस्यापि हि संबन्ध इत्यब्राह्मण इत्यभिधानं कथमिव क्षत्रियादेर्न स्यादित्यतिशयोक्तिगर्भमेतदुक्तम् । तदेवमुपमानोपमेयभावमङ्गीकृत्य नञ्समासः क्षत्रियादिजातिभेदोपादानमर्थमासादयति । दृष्टश्च सादृश्यान्तर्भावो नञ्समासे । तद्यथा--`अवर्षा हेमन्त' इति । अत्र हि नञ्समासे वर्षासदृशो हेमन्तोऽभिधीयते ।।300।।
कथमत्र सादृश्यमित्याह--
अवृष्टयो यथावर्षा नीहाराभ्रसमावृताः ।
तद्रूपत्वात् स हेमन्त इत्यभिन्नः प्रतीयते ।। 301 ।।
न वर्षा अवर्षा हेमन्तो वर्षासदृश इत्यर्थः । अविद्यमानवर्षणक्रिया यथा वर्षाः प्रक्रीयमामनीहारनिकराः प्रलम्बमाननीलघनाच्छादितदिगन्तराः । तथायं हेमन्तस्तमः-सन्ततितिरस्कृतालोक इत्येवंविधवर्षासादृश्याद् वर्षा इत्यभिधीयते । ताद्रूप्येण स्वपदार्थेऽपि ह्यं तत्पुरुषो व्युत्पादितो गर्भीकृत्योपमामन्यपदार्थे वर्तते।
न त्वविद्यमाना वर्षा वर्षात्वमस्येत्युपक्रम एवान्यपदार्थे व्युत्पाद्यते । उपसर्जनह्रस्वत्वप्रसङ्गात् । एवं गर्भीकृतोपमा नञसमासाः प्रक्रियायामन्यपदार्थप्रधानविषया इत्येकेषां दर्शनम् ।। 301 ।।
अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् ।
द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ।। 302 ।।
जातिपदार्थपक्षे ब्राह्मणादयः शब्दा जातिमेवाधारविविक्तां प्राधान्येनाचक्षत इति वर्तिपदेन द्रव्यस्यनुपादानात् तदभिधायी समासोऽन्यपदार्थप्रधानो भवति ।
असन् ब्राह्मणोऽविद्यमानं ब्राह्मण्यं क्षत्रियद्रव्यलक्षणेऽर्थेऽसावब्राह्मण इति जातिवाचिना ब्राह्मणशब्देन सह तत्पुरुषः ।
तत्र ब्राह्मणजातेर्यत्राश्रयान्तरे संभाव्यते समवायस्तत्रैव निषेधः समुचितः, नात्यन्तविजातीय इति क्षत्रियादिद्रव्यमेवान्यपदार्थ उक्तः ।। 302 ।।
अस्मिन् दर्शने बहुर्वीहिनञ्समासयोर्विषयविवेकोऽपि कल्पत इत्याह--
न चैवंविषयः कश्चिद् बहुर्वीहिः प्रकल्पते ।
अगुरश्व इति व्याप्तिर्नञ्समासेन यस्य न ।। 303 ।।
एवंविषयो जात्यवच्छिन्नान्यपदार्थद्रव्याभिधायी नञ्समासवन्न कल्पते बहुर्वीहिः, मत्वर्थे भूमादौ बहुर्वीहिविधानात् । अविद्यमाना गावो यस्येत्यगुरयमश्व इत्ययंबहुर्वीहिर्यस्य नञ्समासेनानेन गोचरो नाक्रान्तः, स कल्पत इत्यर्थादुक्तं भवति । अविद्यमानो गौर्गोत्वमस्याश्वस्य सोऽयमगौरश्व इति हि नञ्समासप्रतिपत्तिः । उत्तरपदार्थविजातीयस्य नञ्समासेन स्वभावादभिधानात् । अविद्यमाना गावो यस्येति तु मत्वर्थे बहुर्वीहिरित्यनयोर्विष्यविवेकः सिद्धः ।
यदा तु `नञोऽस्त्यर्थानां बहुर्वीहिर्वा चोत्तरपदलोपश्च' इति प्रतिपदविहितो नञाश्रयो बहुर्वीहिस्तदैवं व्याख्यायते नञ्समासेन यस्य न व्याप्तिरवकाशदनं स एवं भूतविषयो न कश्चिद् बहिर्वीहिः प्रकल्पते । ततोऽनयोः समाने विषये प्राप्ते स्वाभाविको यथापवर्णितो विषयविवेक इत्येतत् सामर्थ्याज्ज्ञेयम् । इत्थमर्थानुगुण्येऽप्यन्यपदार्थप्रधानतापक्षेऽत्र प्रक्रियायां दोष उक्तः ।। 303 ।।
"यद्यन्यपदार्थप्रधानः अवर्षा हेमन्त इति हेमन्तस्य यल्लिङ्गं वचनं च तत् समासस्य प्राप्नोति" इति भाष्येऽभिहितम् । एतद् व्याचष्टे--
द्वन्द्वैकदेशिनोरुक्ता परवल्लिङ्गता यतः ।
अवर्षासु ततोऽसिद्धिरिष्टयोर्लिङ्गसंख्ययो ।। 304 ।।
अवर्षा हेमन्त इत्यन्यपदार्थप्राधान्ये हेमन्तगतलिङ्गसंख्याप्रसङ्ग इतीष्टं बहुत्व स्त्रीत्वं च न स्यात् ।
न चापि "परवल्लिङ्गं द्वन्द्वितत्पुरुषयोः" (पा.2/4/26)इति परवल्लिङ्गता भवति । एकदेशिसमास एव तत्पुरुषे परवल्लिङ्गता नियमिता, यतः तत्पुरुषमात्रे हि परल्लिङ्गतायां प्राप्तजीविकादावतिप्रसङ्गः स्यात् ।
तथा च वार्त्तिकम्' "प्राप्तादिषु चैकदेशिग्रहणात् सिद्धम् " इति ।
`उपसर्जनह्रस्वत्वमप्यत्र प्राप्नोति' इति । अवर्षा इति अगौरिति च, अन्यपदार्थप्रधानत्वाविशेषाद् बहुर्वीहिवत् ।
न चापि `परवल्लिङ्गमिति शब्दशब्दार्थौ' इत्यतः परिहर्तुं शक्यते । विशिष्टेतत्पुरुषेऽस्य वचनादित्यन्यपदार्थप्रधानपक्षो दुष्टः ।। 304 ।।
इदानीं पूर्वपदार्थुप्राधान्यमधिकृत्य--
विशेषणं ब्राह्मणादि क्रियासंबन्धिनोऽसतः ।
यदा विषयभिन्नं तत् तदाऽसत्त्व प्रतीयते ।। 305 ।।
यदा नञ्पदोपादानोऽसदर्थः क्रियासंबन्धितया प्रक्रान्तः, तदोत्तरपदार्थेन ब्रह्मणेन स एवावच्छिद्यमानो विशिष्टः प्रतीयते । ब्राह्ममलक्षणेन विशेषणेन भिन्नमवच्छिन्नमसत्त्वं नञर्थः प्रतीयमानं प्रधानं भवतीति पूर्वपदार्थप्रधानतापक्षो जायते ।। 305 ।।
ननु चासतः कथं क्रियासंबन्धत्वमित्याशङ्क्याह--
ब्राह्मणत्वेन चासत्त्वादुच्यतेऽसत्तदन्यथा ।
असदित्यपि सत्त्वेन सतः सत्ता निवर्त्यते ।। 306 ।।
क्षत्रियादिरूपेण सन्नेवार्थो ब्राह्मण्येनासन्नित्येवं विशिष्टविषयमसत्त्वं नञुपादत्ते, न सर्वथासत्त्वमिति नास्ति क्रियासंबन्धविरोधः । अत एव सादृशार्थासंप्रत्ययोऽपि सिद्धः । असदित्यपि नञसमासे सत्त्वेनेति । अत्राप्यन्यथेति संबध्यते । भावविशेषानुपहितस्याभावस्याव्यवहार्यत्वात् प्रकारान्तरेण वस्तुत्वेनोपलक्षितस्य सतउत्तरपदार्थस्य विद्यमानता निषिध्यते । तथा चास्य भावरूपानुपातिना क्रियाविशेषेण योगोऽस्त्येव ।। 306 ।।
तदेतस्मिन् पूर्वपदार्थप्रधानपक्षे भाष्ये चोदितम्--`अव्ययसंज्ञा प्राप्नोति । अव्ययं ह्यस्य पूर्वपदम्' इति । तद् व्याचष्टे-- सामान्यद्रव्यवृत्तित्वान्निमित्तानुविधायिनः ।
अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता ।। 307 ।।
उत्तरपदार्थविशिष्टो नञर्थः प्राधान्येनाभिधीयत इति तस्यात्र द्रव्यसामान्यरूपे क्षत्रियादौ शब्दप्रवृत्तिनिमित्तस्यालिङ्गसंख्यत्वान्निमित्तानुविधानान्निमित्तवतः स्वेन तत्त्वेनाव्यपदेशात् सत्यपि सत्त्वरूपत्वेऽव्ययधर्मोपपत्तिरित्यर्थमात्रलक्षणाव्ययसंज्ञाप्रसङ्गात् समासार्थोऽलिङ्गसंख्यः स्यात् । नञो हि वाक्येऽभावसामान्यमर्थोऽसत्त्वभूतो दृष्टः । स एवात्र वृत्तावृत्तरपदार्थविशिष्टः प्राधान्येनाभिधीयत इति कृतो लिङ्गसंख्ये स्याताम् ।
अथ समासस्याव्ययेषु पाठाभावादव्ययसंज्ञाभावाद् विभक्तेर्लुङ् नास्तीत्युच्यते, तथापि व्यपदेशनिवृत्तावपि वस्तवर्थो न निवर्तत इत्यव्ययधर्मा भवेयुरेव । तथा च भाष्यम् `पाठेनाव्ययसंज्ञायां सत्यामभिधेयवल्लिङ्गवचनानि भवन्ति' इति । `यश्चेहार्थोऽभिधीयते, न तस्य लिङ्गसंख्याभ्यां योगोऽस्ति' इति ।
अननुविधीयमानेऽपि वा निमित्ते सत्त्वसामान्यगतं लिङ्गसर्वनाम स्यादेकत्वसंख्या चेत्यब्राह्मणमित्येव प्रयोगः स्यात्, न त्वब्राह्मणावब्राह्मणा इत्यादि । व्यक्तिविशेषनिबन्धनो हि लिङ्गसंख्याभेदः । अत्र च व्यक्तिविशेषो न वाच्यः, क्रियायोग्ये सत्त्वमात्रे नञ्समासस्याभिधाव्यापारादविशेषस्याप्रतीतेः ।। 307 ।।
अत्र परिहारो भाष्येऽभिहितः--`नेदं वाचनिकमलिङ्गता असंख्यता वा । किं तर्हि स्वाभाविकमेतत्' इत्यादि । ` तत्र किमस्माभिः शक्यं वक्तुम्, यन्नञः प्राक् समासाल्लिङ्गसंख्याभ्यां योगो नास्ति, समासे तु भवति' इति । तद् व्याचष्टे--
प्रागसत्त्वाभिधायित्वं समासे द्रव्यवाचिता ।
निमित्तानुविधानं च न सर्वत्र स्वभावतः ।। 308 ।।
इहापौरुषेयी शब्दानामर्थप्रत्यायनशक्तिर्नियतविषया योग्यताभिधाना प्रयोगप्रामाण्यावसेयसतत्त्वा । तत्र वृत्तिवाक्ययोः शब्दभेदाद् भिन्नशक्तित्वे वाक्ये नञर्थोऽसत्त्वभूतोऽपि वृत्त्या सत्त्वभूतोऽभिधीयते । तथा च क्रियायोगो दृश्यते ।
तथाहि--वाक्ये नञ्प्रतिषेध्याद् व्यतिरेकेण प्रतिषेधमाचष्ट इति प्राधान्येनाव्ययार्थस्याभिहितत्वाल्लिङ्गसङ्यायोगो नास्ति। वृत्तौ तु प्रतिषेधोपसर्जनस्य प्रतिषेध्यस्य नञर्थत्वात् प्रतिषेध्यप्राधान्याल्लिङ्गसङ्ख्यायोग उपपद्यते ।
न चावश्यकमन्यत्रापि निमित्तानुविधानम्, हरीतक्यादिषु व्यक्तिवचनयोर्व्यवस्तानदर्शनात् । ततश्च नञ्समासे लिङ्गसङ्ख्यायोगस्य दर्शनाच्छुक्लादिवन्निमित्तानुविधानं नास्तीत्यर्थः ।। 308 ।।
तथाहि--
निमित्तानुविधाने च क्रियायोगो न कल्पते ।
तथाचाव्यपदेश्यत्वादुपादानमनर्थकम् ।। 309 ।।
नञर्थस्यासत्त्वरूपस्य निमित्तस्यानुविधाने समासार्थस्य लिङ्गसङ्ख्यायोगवद्`अब्राह्मणमानय, पश्य वा' इत्यादिदर्शनादिक्रियासाधनभावो न स्यादित्याक्रियाङ्गस्य नामपदार्थस्य कीर्तनमफलमित्यनन्वाख्येयो नञ्समासः स्यात् । दृश्यते चास्य क्रियाङ्गभाव इति प्रयोगप्रामाण्यादननुविहितनिमित्तः सत्त्वभूतार्थाभिधायी युज्यते लिङ्गसङ्ख्याभ्या नञ्समासः ।। 309 ।।
इयता च लिङ्गसङ्ख्यासम्बन्धमात्रं स्वाभाविकताभिधानेन स्यात्, प्रयोगानुपाती तु यथायथं लिङ्गसङ्ख्याविशेषो विवक्षित इति तत्सिद्ध्यर्थं पक्षान्तरमत्र भाष्ये प्रतिपादितम्--`अथवा गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति' इति । तद् व्याचष्टे--
असत्सामान्यवृत्तिर्वा विशेषैः क्षत्रियादिभिः ।
प्रयुक्तैराश्रयैर्भिन्नो याति तल्लिङ्गसङ्ख्यताम् ।। 310 ।।
उत्तरपदार्थविशिष्टमसत्सामान्यं समासार्थोऽनिर्ज्ञातविशेष इति तज्जिज्ञासायां विशेषप्रयोगे, तैर्विशेषैराश्रयैरसौ समासार्थो विशिष्टः प्रयोगयोग्य इति तल्लिङ्गसङ्ख्य एव न्याय्यः । अर्थानामितरेतराभावाव्यभिचाराद् ब्राह्मणादिनिवृत्तेः क्षत्रियादय एवाश्रय इति तद्गते एव लिङ्गसङ्ख्ये युक्ते ।
सर्वमूर्तीनां च सर्वलिङ्त्वाच्छब्दशक्तेर्लिङ्गप्रतिनियमे क्षत्रियः क्षत्रमिति यथा स एवार्थो भिन्नलिङ्गाभ्यां शब्दाभ्यामभिधीयते, एवमब्राह्मणः क्षत्रमित्यब्राह्मणशब्देन पुंस्त्वविशिष्टः सोऽर्थः प्रतिपाद्यते । निवृत्तिवचनेनाभेदोपचारात् तद्वत एवोपादानात् ।
यथा चान्ये जातिशब्दा आविष्टलिङ्गसङ्ख्याः, तथा नञ्समासोऽपीति क्षत्रादिनाभिन्नलिङ्गेनापि सामानाधिकरण्यमस्योपपन्नम् । एवमनापः पृथिवी' इत्याद्युपपत्तिः ।
अत एव चात्रापि स्वाभाविकत्वमेव लिङ्गसङ्ख्याव्यवस्थाहेतुः । पूर्वत्र तु परिहारे द्रव्यवचनत्वे स्वाभाविकत्वं हेतुरित्येतावता विशेषः ।। 310 ।।
ननु निर्विशेषस्य सामान्यस्याभावात् सामान्यशब्देनैवोपगृहीतो विशेष इति कथंतद्वाचिनः प्रयोग इत्याह--
प्रागाश्रयो हि भेदाय प्रधानेऽभ्यन्तरीकृतः ।
पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ।। 311 ।।
असत्सामान्ये समासवाच्ये प्रथमत एव यद्यपि विशेषः स्वाश्रयो गर्भीकृतः तथापि सामान्यश्रुतेर्विशेषस्यावधारणाभावाद् विशेषशब्देन पुनरसौ प्रत्यवमृश्यत एव । तथाच सामान्याद् विशेषस्य विभाग इव शब्दनिबन्धन इत्याश्रयाश्रयिभावप्रतीतावाश्रयगतसङ्ख्यायोग उच्यते ।। 311 ।।
तथाहि--
समासे श्रूयते स्वार्थो येन तद्वास्तदाश्रयः ।
द्रव्यं तु लिङ्गसङ्ख्यावदसताभ्यन्तरीकृतम् ।। 312 ।।
वृत्तौ नञः सत्त्प्रधानार्थत्वाल्लिङ्गसङ्ख्यायोगि द्रव्यसामान्यमभावानुरक्तम्, तेनासतासद्वचनेनाभ्यन्तरीकृतं प्रतिपादितमिति पूर्वस्य परिहारस्य स्वाभाविकत्वदर्शनस्यार्थो निगमितः । गुणवचनदर्शने तु द्वितीये परिहारे समासे स्ववाच्योऽर्थः प्रतीयते, योनासत्सामान्येन क्षत्रियादिस्तद्वान् निवृत्तिविशिष्टोऽवधार्यते तस्याधार इति ।। 312 ।।
निमित्तनो निमित्तानुविधाने गुणवचनवल्लिङ्गसंख्यायोगः कथितः, स्वपदार्थः अन्यपदार्थो वा क्षत्रियादिः कथम्, येन पक्षद्वयोपपत्तिरित्याह--
एकार्थविषयौ शब्दौ तस्मिन्नन्यार्थवर्तिनौ ।
असतैव तु भेदानां सर्वेषामुपसंग्रहः ।। 313 ।।
प्राक् समासान्नञ् वाक्ये निवृत्तिद्योतकः, ब्राह्मणशब्दश्च निवृत्तिविशिष्टार्थाभिधायी । एवमन्यार्थवर्तिनावेतौ शब्दौ । तस्मिन् समासे उत्तरपदार्थेनावच्छिन्नो नञर्थ एकः प्रतिपाद्यः, ययोस्तावेकार्थविषयौ, उपसर्जनसम्भिन्नस्यैकस्यैव नञर्थस्य वाच्यत्वात् । सर्वैषां तु भेदानां क्षत्रियादीनामभावेन नञर्थेनैव स्वीकारादुत्तरपदस्य तद्द्योतनमात्रे व्यापारात् पूर्वपदार्थप्राधान्यम् ।। 313 ।।
यदा त्वन्यपदार्थप्राधान्यम्, तदाह--
ते क्षत्रियादिभिर्वाच्या वाच्या वा सर्वनामभिः ।
यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ।। 314 ।।
क्षत्रियो वैश्य इत्येवमादयः शब्दा अब्राह्मण इत्यत्रत्यान् विशेषान् स्फुटमितरेतरविवेकेन गमयन्ति प्रयुक्ताः सन्तः । तदप्रयोगे तु सर्वनामपदं सामान्यरूपेण तदर्थमाह ।
एवञ्च कृत्वा वर्तिपदाभ्यामुपगृहीतोऽप्ययमर्थो न शक्यतेऽवधारयितुं पदान्तप्रयोगमन्तरेणेति शब्दशक्तिमनवधारयन्तोऽन्यपदार्थत्वम्, क्षत्रियादेरवगच्छन्तोऽन्यपदार्थप्रधानत्वं नञ्समासस्याहुः ।
नञ्पदं हि प्रतिषेधमाह, ब्राह्मणपदं तु स्वजातीयमर्थमिति क्षत्रियोऽन्यपदार्थ इति भ्रान्ताः । शब्दशक्त्यनुसारिणां तु स्वपदार्थ एवात्र सदृशलक्षणोऽर्थ इतीवशब्दः ।
तथाहि--नञो रूपमीदृशमत्र न विकल्प्यते न विशेषेणानुगम्यते यैः, यदुतोत्तरपदार्थभावविशिष्टमसत्सामान्यं क्षत्रियाद्याश्रयभेदोपकल्पितविशेषं नञर्थ इति तेषां भ्रान्तिः । पूर्वपदार्थप्रधानतायां लिङ्गवचनातिदेशस्योपयोगः ।। 314 ।।
अत्र पक्षे दोषमुद्भावयति--
विशेषस्याप्रयोगे तु लिङ्गसङ्ख्ये न सिध्यतः ।
अवर्षादिषु दोषश्च हेमन्तोऽन्याश्रयो यतः ।। 315 ।।
असत्सामान्यस्योत्तरपदार्थोपकृतस्य समासवाच्यत्वेऽत्र यदा क्षत्रियादयो विशेषाः प्रयुज्यन्ते, तदा तैः प्रयुक्तैपाश्रयैर्विशिष्टलिङ्गसंख्यासिद्धिरस्तु । तदप्रयोगे तु व्यक्तिविशेषनिबन्धने लिङ्गसङ्ख्ये न सिध्यत इति सामान्याश्रये एव नपुंसकैकत्वलक्षण ते स्याताम् । अवर्षा हेमन्तः, अनापः पृथिवी, अपञ्चाला जनपदः, अगोदौ ग्रामः, अतेजः सिकता, अनर्थो गृहाः, अनिदाघो वर्षा इत्यादिषु चेष्टलिङ्गसङ्ख्या सिद्धिर्न स्यात् । यस्माद्वर्षाभ्योऽन्यो हेमन्तोऽत्राश्रयः समासार्थस्येत्यवर्षा इतिहेमन्तगतलिङ्गसङ्ख्याप्रसङ्गः ।
एवमन्यत्र योज्यम् । हेमन्तग्रहणस्योपलक्षणार्थत्वात्, पूर्वपदार्थप्राधान्याच्च वर्षार्थस्योपसर्जनत्वाद्ध्रस्वप्रसङ्ग इति पूर्वपदार्थप्रधानपक्षोऽपि दुष्टः ।
उत्तरपदार्थप्राधान्यमेव त्वत्र सिद्धान्तः । तथा च यथायथमुत्तरपदार्थगतलिङ्गसङ्ख्यासिद्धिः । अतिदेशस्य तु नायं विषयः । ये हि बाह्यपदार्थसम्बन्धे भेदे विपरिवर्तन्ते, ते गुणवचनाः स्वाश्रयतो लिङ्गसङ्ख्ये प्रतिपाद्यन्ते । तद्यथा शुक्लादयः, यथा बहुर्वीहिः समासः । नञ्समासस्तूपात्तलिङ्गसङ्ख्याभेदापरित्यागेनात्यन्तमनुवर्तते वर्षादिष्विति जातिशब्दानामिवाविष्टलिङ्गत्वान्नाश्रयतो लिङ्गानुगमोऽत्र क्रियते । तथाह्यब्राह्मणः क्षत्रम्, अब्राह्मणः क्षत्रिय इत्युत्तरपदार्थसमवाय्येव लिङ्गं दृश्यते । अत एव स्वाभाविकमेतदित्युक्तम् ।
सङ्ख्याप्यवर्षादिषूत्तरपदार्थसमवेतैवेति सापि स्वाभाविकी । अब्राह्मणावित्यादौ तु क्वचिद् बाह्यपदार्थापेक्षा सङ्ख्या । यद्येवं शब्दशक्तिप्रतिनियमादप्रयोगेऽपि विशेषस्य विशिष्टे लिङ्गसङ्ख्ये सिध्यत एवेति पूर्वपदार्थप्रधानपक्षोऽपि न त्याज्यः ।
अत एव भाष्ये चोद्यप्रतिसमाधानेन समर्थित एवायम् । असः असर्वस्मा इति च सर्वनामकार्यं भवत्येव, नञर्थस्याव्यतिरेककरत्वात् समानाधिकरणत्वात् । अतिसर्वायेत्यादावेव हि व्यधिकरणविशेषणविषये सर्वाद्यर्थस्याप्राधान्यम्, न तु समानाधिकरणे, नञ्समासे ।
वाक्य इव स्वार्थापरित्यागेनैव हि नञ्समासे सर्वादयो नञर्थविशेषणं भवतीति प्रवर्तत एव सर्वनामकार्यम् । अत एव प्रधानसामानाधिकरण्यान्नानाविभक्तित्वादप्रथमानिर्देशाच्चासत्युपसर्जनत्वे ह्रस्वत्वमपि न प्राप्नोति ।
न चोपसर्जनकार्येषु पारिभाषिकसम्भवे लौकिकमुपसर्जनमुपादेयम् ।
तस्मादुपपन्नं पूर्वपदार्थप्राधान्यदर्शनम् । तदेवं नञ्समासादौ लिङ्गसङ्ख्यातिदेशो यथाभाष्यमनुसृतः ।। 315 ।।
यथा नञ्समासादौ, एवम् `आकृत्यभिधानद्वैकं विभक्तौ वाजप्यायनः' इति जातिपदार्थश्रयेणैकशेषप्रत्याख्याने `लिङग्वचनसिद्धिर्गुणस्यानित्यत्वात्' इत्युक्तम् । गुणो द्वित्वस्त्रीत्वादिकः । स चैकार्थसावायाज्जातेरवच्छेदकः । नियतलिङ्गसंख्यैश्च जातिशब्दैर्जातिः प्रत्याय्यत इति शब्दशक्तिस्वभावापेक्षयाऽनित्यत्वं तस्य कथ्यते ।
काचित् किल जातिः स्त्रीत्वयुक्तेन शब्देन प्रत्याय्यते, काचित् पुस्त्वयुक्तेनेत्यादि । तथा काचिदेकत्वयुक्तेनेत्याद्यपीत्यनित्यत्वम् । अत एव `गुणविवक्षानित्यत्वाद्' इति भाष्ये पाठः । अत्रैव पक्षान्तरमभिहितम् `गुणवचनवद् वा' इति । लिङ्गवचनसिद्धिरित्येव ।
तदेतद् व्याख्यातुमुपक्रमते--
आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते ।
एकत्वादेकशब्दत्वं न्याय्यं तस्यां च वर्ण्यते ।। 316 ।।
`प्रख्याऽऽविशेषादाकृतिसद्भावे चोदनासु च तस्यारम्भाद् ज्ञायते चैकोपदिष्टम्' इति तस्या एव शब्दार्थत्वं निर्णीतम् । तथाचैकशब्दत्वे तदाश्रये सिद्धे प्रत्याख्यात एकशेषः । आकृतेरेकत्वात् तत्र सम्बन्धग्रहणोपपत्तेः सैव शब्दवाच्या । न च प्रितिनियतो विशेषः शब्दात् प्रतीयत इति सामान्याभिधानमेव । आश्रयभेदापायोपजनेष्वपि चैकप्रख्यानिबन्धनाया जातेर्भेदापायोपजनाभावात् तत्प्रयुक्तः शब्द एक एव न्याय्यः ।
अर्थभेद हि शब्दानां भेदः । अर्थश्च प्रधानभूतो जातिरेकेत्येक एव शब्दः ।। 316 ।।
एवमुपक्षिप्य लिङ्गं तावद् विचार्यते । तथाहि--इयमाकृतिः शब्दैरभिधीयमाना आविष्टलिङ्गोक्ता । आविष्टं लिङ्गं यया सा आविष्टलिङ्गा नियतलिङ्गेत्यर्थः । सर्वत्रसर्वेषां लिङ्गानां सद्भावेऽपि केनचिच्छब्देन किञ्चिल्लिङ्गं प्रत्याय्यत इति शब्दविशेषापेक्षया आविष्टलिङ्गत्वमुच्यते । तदेतदाह--
आविष्टलिङ्गता तस्यां स्याद् ग्राम्यपशुसङ्घवत् ।
द्रव्येभेदेऽपि चैकत्वात् तत्रैकवचनं भवेत् ।। 317 ।।
"ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री" (पा. 1/2/73) इति जातिपदार्थे प्रत्याख्याते सूत्रे स्वभावात् प्रतिनियतलिङ्गभेदोपग्रहः । तथाहि--तत्र मूलोदाहरणविषयेषु स्त्रीत्वमेव गाव इमा इति । प्रत्युदाहरणविषयेषु तु पुंस्त्वमेव तरुणेष्विति । एवं जातिशब्दानां नियतलिङ्गता स्वभावात् ।
जातिपदार्थदर्शनाश्रयेण हि सूत्रप्रत्याख्याने शब्दशक्तिभेदाश्रयो लिङ्गनियमः । तथा च ब्राह्मणो ब्राह्मणीत्यादावपि जात्यभिधाने शब्दशक्तिनिमित्तमेवोभयलिङ्गाभिधानम् । वृक्ष इत्यादौ तु पुंस्त्वमेव नियतम्, जातेरेव चाभिधीयमानत्वात् । अनुमीयमानद्रव्यभेदेऽपि तस्य शब्देनानुपादानागभिधीयमानजातिबन्धनमेकवचनमेव भवेदिति जात्याख्यायामेकस्मिन् बहुवचनमारभ्यते । पूर्वश्लोके यद् यदेति, तत्सम्बन्धादिह तदेति योज्यमिति समन्वयोपपत्तिः ।। 317 ।।
यदि तर्हि लिङ्गभेदेन योगः, कथमाविष्टलिङ्गता जातेरित्यत आह--
आश्रयाणां हि लिङ्गैः सा नियतैरेव युज्यते ।
तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ।। 318 ।।
एकार्थसमवायादाश्रयगतलिङ्गोपादना जातिः शब्दशक्त्यनुसारेण नियममङ्गीकृतवती।
तथाहि--वृक्षः पादपस्तरुरिति वृक्षत्वजातिराश्रयगतं पुंस्त्वमेवोपादत्ते, न कदाचिदत्र स्त्रीत्वनपुसकत्वे दृश्यते । शिंशपादयः स्त्रीत्वमेनाश्रयन्ते । पनसमित्यादयस्तु नपुंसकत्वमेव । इष्वशनिप्रभृतयो द्विलिङ्गाः, पद्मशङ्खादयश्च । तटादयस्त्रिलिङ्गाः । ब्राह्मणो ब्राह्मणीति च द्विलिङ्गः ।
न ह्यत्र लिङ्गव्यतिकरः कदाचिदपि दृश्यत इति शब्दशक्तिभेदापेक्षो लिङ्गनियमोऽयमाविष्टलिङ्गता जातेर्विवक्षिता । अत एव च "विशेषणानां चाजातेः" (पा. 1/2/22) इति जातिप्रतिषेधो निष्फलः । जातिशब्दा हि स्वसामर्थ्यानुरोधेन लिङ्गोपादायिनो च युक्तस्य लिङ्गमनुरुध्यन्ते ।। 318 ।।
नन्वेवं गुणवचनवदाश्रयगतलिङ्गपरिग्रहे न जातेः स्वतो लिङ्गयोगः कश्चिद्, द्रव्यधर्मत्वाल्लिङ्गस्य । सत्यमेतत् । प्रभूतोऽयं प्रयोग इति तु शब्दसंस्कारमात्रमत्र लिङ्गम् । आविष्टलिङ्गो वा पादपशब्दोऽनुभवति भिन्नलिङ्गेन सामानाधिकरण्यम् । तद्यथा--ब्राह्मणोऽयं नपुंसकमिति । प्रवृत्तिमन्तो हि सर्वेऽर्थास्तिसृभिः प्रवृत्तिभिरवियुक्ता इति यथायथं शब्दैरनुगम्यन्ते । अत एव चैतदाविष्टलिङ्गत्वं जातेः स्तनकेशादिव्यञ्जनलौकिकलिङ्गपरिग्रहे नोपपद्यत इत्याह--
सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे ।
विरोधित्वात् प्रसज्येत नाश्रितं तच्च लौकिकम् ।। 319 ।।
लोकव्यवहारनिरूढे लिङ्गे समाश्रीयमाणे स्तनादीनां व्यञ्जकानां प्रतिनियमात् तद्व्यङ्ग्यस्य स्त्रीत्वादेरेकार्थसमवायविरोधात् सर्वस्मिन्नर्थे नियतलिङ्गत्वमेतच्छब्दानां प्राप्नुयात् । स्तनकेशयोगाभिव्यक्तस्त्रीत्वा योषित् स्त्रीलिङ्गेनैव शब्देन व्यपदिश्येत, न दारकलत्रशब्दाभ्यां पुंनपुंसकलिङ्गाभ्याम् । अस्वादयश्च नपुंसकेन वाहनशब्देन नोच्येरन् । तस्मादात्मीयः सिद्धान्तः शब्दार्थोऽर्थो यथा नानालिङ्ग उपपद्यते, स प्रतिज्ञेयः । अर्थव्यक्तिवस्तुशब्दैः सर्वार्थानां व्यवहाराद् यथा त्रिलिङ्गता सम्पद्यते, तथा परिभाषणीयम् ।
तथा च भाष्यम्--`तस्मान्न वैयाकरणैः शक्यं लौकिकं लिङ्गमास्थातुम् । अवश्यं कश्चित् स्वकृतान्तः आस्थेयः' इति ।। 319 ।।
तथाहि--
सामान्यमाकृतिर्भावो जातिरित्यत्र लौकिकम् ।
लिङ्गं न सम्भवत्येव तेनान्यत् परिगृह्यते ।। 320 ।।
सामान्यादयः शब्दाः पदार्थमेकमाचक्षते भिन्नलिङ्गा । न च तस्य पदार्थस्य लौकिकमस्ति लिङ्गमित्यलिङ्गास्तदाश्रयणे प्रसज्यन्त एते शब्दाः । तस्मादन्यत् व्यापकं शस्त्रीयं लिङ्गमाश्रीयते ।। 320 ।।
किं तदित्युक्तं भाष्ये `संस्त्यानप्रसवौ लिङ्गम्' इति । तद् व्याख्यातुमाह--
प्रवृत्तिरिति सामान्यं लक्षणं तस्य कथ्यते ।
आविर्भावस्तिरोभावः स्थितिश्चेत्यथ भिद्यते ।। 321 ।।
अजस्रपरिमाणिनां गुणानां परिणामविशेषानादरेण प्रवृत्तिः परिणाम इत्येव सामान्यं लिङ्गलक्षणम् । तथाहि `कस्य पुनः संस्त्यानां स्त्री प्रवृत्तिर्वा पुमान्' इति चोदयित्वा `गुणानां रूपादीनाम्' इति भाष्यम् । सत्त्वरजस्तमस्संनिवेशानां रूपादीनां संस्त्यानं संहननं विवेकेनावस्थाय धर्माणां केषाञ्चित् प्रकृतौ प्रविलयस्ति रोधानं स्त्रीत्वम् । अपरेषां प्रसवो धर्मिणि उद्भव अविर्भावः पुंस्त्वम् । रजसः प्रवृत्तिधर्मणोऽङ्गितायां प्रादुर्भावः । गुणानां चात्यन्तमितरेतरसाहचर्यात् तमस उद्भूतस्याङ्गभूतरजोधर्मप्रवृत्त्यनुरोधे तिरोभावः । धर्मिरूपस्यापि तिरोभूतधर्मावस्थायामनुवृत्तिः, तमसः सत्त्वधर्मोपरागात् स्थितिर्नपुंसकं स्त्रीपुंसनिषेधरूपतयैव गम्यमान्तावन्न भेदेन लक्षितम् । अत एव संस्त्यानप्रसवावस्थाव्यापित्वात् स्थितेर्लिङ्गसर्वनाम नपुंसकम् । स्थितिरोभावावस्थयो रजोधर्मस्य प्रवृत्तेर्गुणान्तरेऽप्यनुवेधादन्वयित्वे सति लिङ्गानां सामान्यमेतत् ।। 321 ।।
अनेन लिङ्गेन सर्वे पदार्था व्याप्ता इत्युक्तं भाष्ये `प्रवृत्तिः खल्वपि नित्या । नहि कश्चित् स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते' इत्यादि । तद् व्याचष्टे--
प्रवृत्तिमन्तः सर्वेऽर्थास्तिसुभिश्च प्रवृत्तिभिः ।
सततं न वियुज्यन्ते वाचश्चैवात्र सम्भवः ।। 322 ।।
`वर्धते यावदनेन वर्धितव्यमपायेन वा युज्यते' इत्यनुग्रहोपघातनिमित्तसन्निध्ये भावानां परिणाममनुभवतामाविर्भावादिलक्षणाभिर्विशेषप्रवृतिभिरजस्रमवियोगः । तथाहि--प्रतिकलमवस्थान्तरावधारणान्यथानुपपत्त्या समुन्नीयते परिणामः ।
तदुक्तं भाष्ये--`सर्वाश्च पुनर्मूर्तय एवमात्मिकाः संस्त्यानप्रसवगुणाः' इति । एवंरूपाश्च पदार्थाः शब्दैरनुगम्यन्ते । न हि शुद्धं परिणामि वस्तुतत्त्वमभिधानविषयः, आकारोपग्रहेण शब्दवाच्यत्वादिति सर्वशब्दानां स्वशक्त्यनुसारी लिङ्गनियमः समञ्जसः ।। 322 ।।
तत्र प्रकृतेस्त्रिगुणाया रजसानवरतमस्तु प्रवृत्तिशीलता, तद्विकाराणां च भोग्यात्मकानाम् । यस्तु भोक्ता पुरुषश्चेतनः, सोऽत्यन्तविधर्मा भोग्यजातान्निर्गुमःप्रवृत्तिमननुभवन् कथमात्मा चैतन्यं चितिरिति लिङ्गविशेषनियताभिधानविषयतामनुभवतीत्याशङ्क्याह--
यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते ।
अनुयातीव सोऽन्येषां प्रवृत्तीविष्वगाश्रयाः ।। 323 ।।
बुद्धिदर्पणे चिच्छायासङ्क्रान्त्या भोगनिष्पत्तेर्भोग्यभावशबलितमेव चैतन्यं व्यवहारेऽध्यक्ष्यते । तदेव च शब्दगोचरोऽत्यन्ताज्ञातस्याभिधानयोगात् । तथा चान्येषां भोग्यानां पृथगपरिमितपदार्थरूपानुगताः प्रवृत्तीः परिणामविशेषाननुगच्छतीत्याभासगतलिङ्गभेदोपचारो निराभासेऽपि चैतन्ये ।। 323 ।।
तथाहि--
तेनास्य चितिरूपं च चितिकालश्च भिद्यते ।
तस्य स्वरूपभेदस्तु न कश्चिदपि विद्यते ।। 324 ।।
तेन बुद्धिदर्पणसंक्रान्तेन भोग्यजातेनास्य भोक्तुश्चितिक्रिया भिद्यते प्रतिभोग्यं विवेकेन गृह्यते । विषरूपानुकारेण हि ज्ञानमन्यथा प्रविभज्यते । अत एवावच्छिन्नापीयं चितिक्रिया चेत्यगतकालभेदोपचारात् प्रविभक्तकालेवावधार्यते ।
परमाथतः पुनश्चैतन्यमात्ररूपस्य भोक्तुर्न कश्चन स्वरूपतो देशतः कालतो वा भेदः । चितिक्रियापि न ततो भिन्ना, निराभाससंविन्मात्ररूपत्वात् तस्य ।
पुरुषस्य चैतन्यमिति तु विकल्पकल्पिताकारो भेदो राहोः शिर इत्यादिवत् । अनुत्पन्नविवेकख्यातयोऽर्वाग्दर्शना गुणपुरुषयोः स्वरूपमेलनेन व्यवहरन्ति ।। 324 ।।
इत्थञ्च कृत्वा पारमार्थिकेन चैतन्यरूपेण व्यवहाराभाव इत्याह--
अचेतनेषु संक्रान्तं चैतन्यमिव दृश्यते ।
प्रतिबिम्बकधर्मेण यत्तच्छब्दनिबन्धनम् ।। 325 ।।
बुद्ध्याकारसंनिविष्टेषु सत्त्वादिगुणेषु जडेषु सत्त्वधर्मस्वच्छत्वातिशयशवशेन चैतन्योपराग िति तत्रादर्शतलप्रख्ये प्रतिसङ्क्रान्तं बिम्बं व्यावहारिकं चैतन्यमभिधानविषय इति तदन्येषां प्रवृत्तीरनुविदधदनुभवति लिङ्गयोगमित्यर्थः ।
यत्तु पत्रं स्वयं ज्योतिरपेतविकारग्रन्थि तद्परिणामि नावतरति व्यवहारम् ।तदुक्तम् `चितिशक्तिरपरिणामिनी' इत्यादि ।। 325 ।।
तदेवं व्यवहारे चैतन्येऽपि लिङ्गयोगाद्--
अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते ।
क्वचित्तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ।। 326 ।।
भोकतृभोग्ययोर्लिङ्गभेदानुगमस्य साधित्वात् तद्व्यतिरेकेम पदार्थान्तराभावान्न काचिदसौ पदार्थावस्था, यस्या लिङ्गसम्बन्धो नास्तीति व्यापकमिदं लिङ्गलक्षणं जातावप्यन्वयि । अवस्थात्रयस्यावियोगात् सर्वभावानां नित्याया अपि जातेस्तदनपायात् । सम्भवदपि चेदं लिङ्गं क्वचिदविवक्षयापाकीर्यते ।
तदाह भाष्यकारः--`तच्चोभयं सर्वत्र । यद्युभयं सर्वत्र, कृतो व्यवस्था । विवक्षातः । स्त्यानविवक्षायां स्त्री, प्रसवविवक्षायां पुमान्, उभयोरविवक्षायां नपुंसकम्' इति ।
तथा च शब्दसंस्कारमात्रम् `न केवला प्रकृतिः प्रयोक्तव्या' इति लिङ्गप्रत्ययस्तत्र । यथोच्यते `तद्धितार्थानिर्देशे लिङ्गवचनमप्रमाणं तस्याविवक्षितत्वात्' इति ।। 326 ।।
यदुक्तम्--`अवस्था तादृशी नास्ति या लिङ्गेन न युज्यत'(326) इति । तदेव व्यक्तयति--
कृत्तद्धिताभिधेयानां भावानां न विरुध्यते ।
शस्त्रे लिङ्गं गुणावस्था तथा चाकृतिरिष्यते ।। 327 ।।
पाकः पक्तिः पचनमिति कृदभिहितो भावोऽवस्थाभेदेन भिद्यमानस्तदनुगतं लिङ्गभेदमनुभवन्नियतलिङ्गैः शब्दैर्विषयीक्रियते । एवं गरिमा गुरुता गुरुत्वमित्यादिस्तद्धिताभिधेयः ।
एकापि हि यावदवस्थावस्थान्तरमनुभवत्येव । न हि कश्चित् स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते यतः । तथा च संस्त्यानं संस्त्यायः संस्त्येति धातूपादानैकाप्यवस्था लिङ्गभेदनिबन्धनैः शब्दैः प्रत्याय्यते । तदेवं गुणावस्थालक्षणं शास्त्रे परिभाषितं लिङ्गं न विरुध्यते कृत्ताद्धिताभिधेयानां भावानां भिन्नमपि । अन्यथैकत्वाद् भावस्य किञ्चिदेकमेव लिङ्गं युज्येत ।
तदित्थं सिद्धेऽस्य लिङ्गलक्षणस्य व्यापित्वे, उपसंहरति--तथा चाकृतिरिष्यतइति ।
तथा च एवं सति गुणानां रूपादीनां सत्त्वादिगुणपरिणामरूपाणामाविर्भावाद्यवस्था प्रवृत्तिसामान्यरूपा लिङ्गजातिरभ्युपगम्यत इत्युपसंहारः कृतः ।। 327 ।।
इत्थञ्च जातिशब्दानां लिङ्गव्याप्तिसिद्धेर्द्रव्यपदार्थकेन यत्र लिङ्गासिद्धिः प्रसञ्जिता, सा प्रतिसमाहिता भवतीत्याह--
लिङ्गं प्रति न भेदोऽस्ति द्रव्यपक्षेऽपि कश्चन ।
तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ।। 328 ।।
द्रव्यपदार्थपक्षेऽपि गुणावस्था लिङ्गम् । आकृतिपदार्थनयेऽपि ता एव त्यक्तभेदाव्यक्तयो जातिरिति गुणावस्थासम्भवाद् यथायथं स्वशक्त्यनुसारेण शब्दैर्नियतलिङ्गा जातिर्द्रव्यं वा नियतलिङ्गं प्रतिपाद्यत इति दर्शनद्वयेऽपि लिङ्गं प्रति भेदभावः ।
कथं न भेदो यावता जातिराविष्टलिङ्गा, द्रव्यं पुनरनियतलिङ्गमित्याशङ्क्य निगमयति--तस्मादिति ।
द्वित्र्येकलिङ्गतया `उपादानविकल्पाश्च लिङ्गानां सप्त दर्शिताः' इति जातिशब्दैस्तदुपग्रहे नियतैरेवासङ्करेण लिङ्गोपादानादाविष्टलिङ्गता जातेः कथिता । न त्वेकलिङ्गपरिग्रह एवेति पक्षद्वयसाम्यम् ।
वैयाकरणैर्हि न वस्तुधर्मो लिङ्गमिष्यते । अपि तु शब्दार्थस्य लिङ्गयोगः । प्रतीयते च शब्देभ्यो जातिरुपगृहीतलिङ्गसम्बन्धा । तेन जातेः स्वमेव लिङ्गम् । अत आश्रयलिङ्गेन लिङ्गवत्त्वे नाभिनिविश्यते ।
अत एव गुणविवक्षानित्यत्वादित्येतदभ्युपपद्यते, द्रव्यव्यभिचारेण जातेरपि गुणस्य स्त्रीत्वादेर्विवक्षाप्रक्लृप्तेः ।। 328 ।।
एवं स्वपक्षे द्रव्यपक्षसाम्यं लिङ्गं प्रति समर्थितं जातिपदार्थकेन, सम्प्रति वचनं समर्थयितुमाह--
वचने नियमः शास्त्राद् द्रव्यस्याभ्युपगम्यते ।
यतस्तदाकृतौ शास्त्रमन्यथैव समर्थ्यते ।। 329 ।।
द्रव्यपदार्थदर्शनेऽपि "बहुषु बहुवचनम्" (पा.1/4/21)इत्यादिशास्त्रसामर्थ्याद् वचननियमः, न तु द्रव्यस्य सङ्ख्यास्तीत्येव, साङ्कर्यपरिहारार्थं ह्यवश्यं वचनमारम्भणीयम् । एवञ्चेच्छास्त्रशरणा व्यवस्था तदा जातावपि पदार्थे तच्छास्त्रमन्यथा वर्ण्यते ।। 329 ।।
कथमित्याह--
वर्तते यो बहुष्वर्थो भेदे तस्य विवक्षिते ।
स्वाश्रयैर्व्युपदिष्टस्य शास्त्रे वचनमुच्यते ।। 330 ।।
यो जातिलक्षणो बहुषु वर्तते, तस्य भेदे भिन्नाधारसमवाये विवक्षिते, बहुष्विति स्वाश्रयैः शास्त्रे कथितस्य बहुवचनं विधीयते । एवं द्वयोरिति व्यपदिष्टस्य द्विवचनमित्यादि वाच्यम् ।
तदयमर्थः--द्वित्वसङ्ख्यावच्छिन्नव्यक्तिविशेषाधिकरणा जातिर्द्विवचनान्तेन शब्देन प्रत्याय्यते, बहुत्वसङ्ख्यावच्छिन्नाधारसमवेता तु बहुवचनान्तेन, एकसङ्ख्याधारावच्छिन्ना त्वेकवचनान्तेन । तदेतदुक्तं भाष्ये--
"अथ यस्य द्रव्यं पदार्थः, कथं तस्यैकवचनद्विवचनबहुवचनानि । एवं स वक्ष्यति`एकस्मिन्नेकवचनम्, द्वयोर्दिवचनम्, बहुषु बहुवचनम्' इति । यदि तर्हि, तस्यापि वाचनिकानि, न स्वाभाविकानि । अहमप्येवं वक्ष्यामि--एकस्मिन्नेकवचनम्, द्वयोर्द्विवचमून,बहुषु बहुवचनमिति ।" एकस्मिन् या वर्तते जातिरित्याद्यर्थः ।
केचिदकारप्रश्लेषेणाभेदे तस्येति पठन्तस्तस्यैकशब्दतार्थमेकत्वे सहजे शब्देन प्रतिपादयितुमिष्ट इति व्याचक्षते ।
एवमनधिगतभेदायामेव जातावाश्रयतो वचनमुपपद्यते ।। 330 ।।
यदा त्वाश्रयभेदेन भेद एव प्रतीयते ।
आकृतेर्द्रव्यपक्षेण तदा भेदो न विद्यते ।। 331 ।।
आश्रयभेदेन जातेर्भेदानुविधाने वचनभेदः स्वगत एव । तथा चानेकशब्दत्वमपीति एकशेष आरभ्यत एवेति द्रव्यपदार्थपक्षेण जातिपदार्थपक्षस्य भेदो नास्ति । उभयत्रापि प्रत्यर्थं शब्दनिवेशात् । एतच्च दर्शनं भाष्ये हेयत्वेनोक्तम् । "यदि कदाचिदाकृतिरेकत्वेन विवक्षिता, कदाचिद् द्वित्वेन, कदाचिद् बहुत्वेन एका आकृतिरिति प्रतिज्ञा हीयते । यच्चास्य पक्षस्योपादाने प्रयोजनमुक्तम्--एकशेषो न वक्तव्य इति,स इदानीं वक्तव्यो भवति" इति ।। 331 ।।
तस्मात् प्रागुक्तमेव युक्तमित्यपसंहरति--
अभेदे त्वेकशब्दत्वाच्छास्त्राच्च वचने सति ।
एकशेषो न वक्तव्यो वचनानां त सम्भवः ।। 332 ।।
व्यक्तिनिबन्धनभेदानुविधानाभावेऽपिस्वाश्रयभेदनिबन्धनम् "बहुषु बहुवचनम्" (पा. 1/4/21)इत्यादिशास्त्राद् यथोक्तेन न्यायेन यदा जातिर्वचनभेदं प्रतिपद्यते, तदा प्रयोजकस्यार्थस्यैकत्वादेकशब्दत्वे सिद्धे प्रत्याख्यायते सूत्रमेकशेषलक्षणम् ।। 332 ।।
अत्र चोदयति--
ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः ।
आकृतेरुपकारोऽयं द्रव्याभावान्न कल्पते ।। 333 ।।
आकृतेः शब्दार्थत्वे द्रव्यस्यानभिधीयमानत्वात् तदाश्रयलिङ्गसंख्यासिद्धिः कथम् ? शब्दार्थनिमित्तो हि शब्दसंस्कारः । अनभिधीयमानस्य च वस्तुतः सत्त्वेऽपि संस्कारं प्रत्यसत्त्वमेव ।। 333 ।।
एतत् परिहर्तुमाह--
व्यपदेशोऽभिधेयेन न शास्त्रे कश्चिदाश्रितः ।
द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ।। 334 ।।
"बहुषु बहुवचनम्" (पा.1/4/21)इत्यादिशास्त्रेऽभिधीयमानाश्रयभेदनिबन्धनानि वचनानीति न वचनमस्ति । किन्तु सामान्येनैतदुच्यते । तथा च भिन्नाधारा जातिर्वचनभेदंप्रतिपद्यत एव ।
न च जातिपदार्थदर्शने द्रव्यं नाम पदार्थो नास्ति । तथा च भाष्यम्--`न ह्याकृतिपदार्थसकस्य द्रव्यं न पदार्थो, द्रव्यपदार्थकस्य वाकृतिर्न पदार्थः' इति । आकृतिपदार्थवादिनो द्रव्यं नाम यः पदार्थो न स नास्ति । अपि तु विद्यमान एवेति भिन्नद्रव्यसम्बद्धाया जातेराश्रयगतो वचनभेदोऽविरुद्धः ।। 334 ।।
अतोऽनन्तरं भाष्यम्--`कस्याचित्तु किञ्चित् प्रधानभूतम्, किञ्चिद् गुणभूतम्' इत्यादि । तद् व्याचष्टे--
गुणभावोऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः ।
उपकारी गुणः शेषः पदार्थ इति कल्पना ।। 335 ।।
जातिपदार्थकस्य जातिः प्रधानं शब्दवाच्या, द्रव्यं तु गुणत्वेन शब्दवाच्यमिति न विवक्षितमत्र । अपि त्वनभिधीयमानस्यापि द्रव्यस्योपकारित्वाज्जातिं प्रति गुणमुच्यते ।
तथाहि--लोके यो यस्योपकारी, स तदर्थः शेषभूतो गुण इति कल्प्यते । तथाच द्रव्यं जाताविति तत्सम्बन्धेन तद्गतवचनभेदप्रतिपत्तिरित्युक्तं भवति ।। 335 ।।
कथधमभिधेयत्वं प्रति गुणभावो द्रव्यस्यात्र भाष्ये स्पष्टो न व्याख्यायत इत्यत आह--
द्रव्ये न गुणभावोऽस्ति विना द्रव्याभिधायिताम् ।
आकृतौ वा प्रधानत्वमत एवं समर्थ्यते ।। 336 ।।
द्रव्याभिधायितां विनेति। अत्रासति द्रव्याभिधाने यस्माद् द्रव्ये गुणभावो नास्ति, जातेर्वा प्राधान्यम्, तस्मादेवमेतद् भाष्यं व्याख्यायते--गुणत्वमुपकारित्वेन द्रव्यस्य नाभिधीयमानत्वेनेति । अभिधीयमानतायां हि द्रव्यस्याकृतिरवच्छेदिका स्यादिति तदेव प्रधानमभिधीयमानं स्यात् । आकृतिस्त्वच्छेदोपयोगिनी गुण एव स्यात्, न प्रधानम् ।
तथा च यथा राजपुरुष इत्यत्र राजार्थो न संख्याभेदं प्रधानगतमवलम्बते, तथा जातिरपि नावलम्बेत । सत्यपि तु गुणत्वे तदनुवृत्तौ वचनभेदापत्तेरेकशेषप्रत्याख्यानमयुक्तं स्यात् ।
यदा तु नाभिधीयते द्रव्यम्, तदानभिधीयमानमभिधीयमानाया जातेर्गुडशब्द इव (गुड इव ) माधुर्यादेर्भेदकमित्यात्माधारलिङ्गसंख्योपहारेणोपकारित्वाद् गुण इति युज्यते वक्तुम् ।। 336 ।।
केचिदभिधीयमानयोरपि जातिद्रव्ययोर्गुणप्रधानभावं समर्थयन्त इत्याह--
कैश्चिद् गुणप्रधानत्वं नामाख्यातवदिष्यते ।
न वृत्तिवत् परार्थस्य गुणभावस्तु वर्ण्यते ।। 337 ।।
पाचकः पचतीति यथाभिधीयमानयोरेव क्रियाकारकयोर्गुणप्रधानभावः, तथात्रापि । तथाहि--नामपदेन क्रियाकारकसम्बन्धोपसर्जनः साधनाश्रयः प्राधान्येनाभिधीयते, धात्वर्थस्यात्र प्रत्ययार्थविशेषणत्वात् । तेन चात्र भूतेन भाविनापि च स विशेष्यत इति न क्रिया प्रधानम्, भाव्यावस्थायामेव तथात्वात् । अत एवात्र सम्बन्धे भावप्रत्ययः, तस्यैव प्रवृत्तिनिमित्तत्वात् ।
क्रिया त्वत्र गुणभूतापि भेदेनावसीयते । आख्यातपदेन तु साधनविशेषप्रतिलब्धानुग्रहा क्रिया प्राधान्येनोच्यते । भाव्यामानावस्था ह्यत्र क्रिया व्याप्रियमाणेन साधनेन विशेष्यते प्रत्ययार्थेनापि सता । कर्तृव्यापाररूपा हि भावना भाव्यरूपधात्वर्थनिष्ठेति प्रधानभूतव्यापारावेशेन कर्तुर्य एवावगमः, स एव परार्थस्यापि प्राधान्यावगमहेतुः । तदेवं गुणभूतमप्यत्र साधनं भेदेनावधार्यते । तथा च विशेषणैर्युज्यते देवदत्तः पचतीति ।
अत एव स्वसंख्यया क्रियामुपकरोति पचतः पचन्तीति ।
एवं जातिपदार्थकानां जातिः प्राधान्येन शब्दवाच्या । द्रव्यपदार्थकानां जातिरप्राधान्येन शब्दवाच्या । द्रव्यपदार्थकानां तु द्रव्यम्, विवक्षानियमेन हि युज्यते गुणप्रधानभावः । यथा तु राजपुरुषादौ वृत्तिपदे परार्थस्योपसर्जनपदार्थस्य गुणभावोऽप्रधानत्वम्, नैवं नामाख्यातयोः साध्यसाधनभावस्य कथ्यते ।
तथाहि--वृत्तावुपसर्जनार्थस्य प्रधानेन सम्भेदापत्तेर्विवेकाग्रहणात् स्वप्रयुक्तसंस्कारनिमित्तता नोपपद्यते । शाब्द एव हि गुणभावस्तस्य ।
तथा च ऋद्धादि विशेषणं न युज्यते । पाचकः पचतीति तूभयत्रापि साध्यसाधनभावावच्छेदेनोभयमपि क्रियाकारकरूपं प्रतीयत एव । केवलं सामर्थ्याद् गुणप्रधानभावः प्रतीयते यथायोगम् ।
तथाहि भूतं भव्यायेति परिनिष्ठितरूपं साधनं परार्थम्, परिनिष्ठितत्वादेवान्यस्योपकारायोपादीयमानत्वात् । यदुद्धिश्य च तत्प्रवृत्तिस्तत् साध्यं प्रधानमाख्यातपदे । नामपदे तु कारकशक्तिः प्रवृत्तिनिमित्तमिति तदाधारः प्राधान्येनाभिधीयते । एवमिह दर्शनभेदेऽपि द्वयोरपि शब्दार्थत्वेन यदाकृतेराधारप्रकल्पितातिशयसम्पादनाय द्रव्योपादानम्, तदाकृतिः प्रधानं विशेष्यत्वेनोपक्रमात् । यदा तु व्यक्तिविशेषावच्छेदपरमाकृत्युपादानम्, तदा विपर्ययः ।। 337 ।।
यद्येवमाकृतिपक्षेऽपि द्रव्यस्याभिधीयमानत्वात् तद्गतवचनभेदवच्छब्दभेदप्रसङ्ग इत्यारब्धव्योऽत्राप्येकशेष इत्याशङ्कयाह--
गुणभूतस्य नानात्वादाकृतेरेकशब्दता ।
सिद्धो वचनभेदश्च द्रव्यभेदसमन्वयात् ।। 338 ।।
आकृतिपदार्थकानां द्रव्यं गुणभूतं भिन्नमिति न गुणभूतशब्दार्थभेदापेक्षमनेकशब्दत्वम् । अपि तु प्रधानभूतशब्दार्थाभेदापेक्षमेकशब्दत्वमेव न्याय्यमिति नार्थ एकशेषेण । वचनभेदस्तत्र सुतरां सिद्धोऽभिधेयेन द्रव्येण भिन्नेन योगात् ।
अयमभिप्रायः--भेदाभेदयोर्गुणप्रधानभूतयोर्विरोधात् प्रधाने युक्तमेवैकशब्दत्वम् । नहि प्रधानमनादृत्य गुणविधानं युक्तम् । स्वनिमित्तं तु संस्कारं प्रधानानुग्रहाय गुणो वचनभेदलक्षणं प्रधानानुपरोधिनं प्रापयतु, कोऽत्र विरोधः ।। 338 ।।
तथाहि--
साधनं गुणभावेन क्रियाया भेदकं यथा ।
आख्यातेष्वेकशब्दाया जातेर्द्रव्यं तथोच्यते ।। 339 ।।
क्रियाप्राधान्येऽप्याख्यातस्य यथा गुणभूतसाधनाश्रयो वचनभेदः पचतः पचन्तीति, तथैकशब्दवाच्यायाः प्रधानभूताया जातेस्तेनैव शब्देन द्रव्यस्याभिधाने सन्निहितोऽभिधीयमानो गुणोऽसावात्माधारं संख्याभेदं तत्र कल्पयति । येन हि गुणधर्मेण प्रधानस्योपरोधो न भवति, तं प्रधानोपकारायोपस्थापयत्येव गुणः ।
अन्यथा गुणत्वमेवास्य हीयते । यत उपकारप्रभावितत्वात् तस्य । इत्थं च नामाख्यातवदिति निदर्शनं सुसदृशमुक्तम्, न वृत्तिवदिति । नहि राजपुरुषे राजार्थनिमित्तः कश्चिद् वचनभेदादिः संस्कारोऽत्यन्तमभेदापत्तेः प्रधानार्थेनोपसर्जनार्थस्य ।
अत्र च साधनं क्रियायां न भिन्नां संख्यामुपहरति । अपि त्वविद्यमानभेदापि स्वतः क्रियाश्रयगतवचनभेदापेक्षया पचतः पचन्तीति तिङन्तेनाभिधीयत इत्युच्यते । तथा च गुणभूतसाधनभेदादेव निर्ज्ञातभेदत्वान्न तिङ्न्तान्येकशेषारम्भं प्रयोजयन्तीति भाष्येऽभिहितम् ।। 339 ।।
तदेवं जातिविशिष्टस्य द्रव्यस्याभिधानेऽपि प्रधान्याज्जातिपदार्थाभ्युपगमेलिङ्गवचनसिद्धिरूपपादिता लिङ्गवचनासिद्धिर्गुणस्यानित्यत्वादिति । गुणोऽत्र द्रव्यं विवक्षितम् । यदा तु जातिमात्राभिधानमेव, तदा गुणवचनवदाश्रयतो लिङ्गवचनानि व्याख्यातुमाह--
एकत्वे तुल्यरूत्वाच्छब्दानां प्रतिपादने ।
निमित्तात् तद्वतोऽर्थस्य विशिष्टग्रहणे सति ।। 340 ।।
सोऽयमित्यभिसम्बन्धादाश्रयैराकृतेः सह ।
प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ।। 341 ।।
आधारैः सह जातेरभेदे सति शब्दैः प्रत्यायने क्रियमाणे ये जातिविशिष्टद्रव्याभिधायिनः, ये च जातिमात्राभिधायिनः शब्दास्ते तुल्यरूपत्वादभेदेनाध्यावसीयन्ते ।
तथाहि, स्वार्थप्रतिपादने जातिशब्दैर्जातिलक्षणं निमित्तं तद्वति द्रव्येऽध्यारोपितमाश्रित्य जातिविशिष्टस्य द्रव्यस्यभेदेन प्रत्यायनमिति तैराश्रयभूतैर्द्रव्यैः सह जातेः सोऽयमित्यभेदप्राप्तौ निमित्तानुविधानेन निमित्तिनोऽप्यभिधानात् तद्गतलिङ्गसंख्योपादानं शुक्लदिवदविरुद्धं भिन्नशब्दायामपि प्रवृत्तौ । यदा हि जातितद्वन्तौ द्वावप्येकशब्दवाच्यौ, तदैकशब्दा प्रवृत्तिर्व्याख्याता ।
इह तु जातिमात्रस्य शब्देन प्रतिपादने भिन्नशब्दा प्रवृत्तिः । अत्रापि च निमित्तसरूपप्रत्ययोपजनाद् यथाप्रत्ययं च शब्देनाभिधानान्निमित्तसंक्रान्तैव शब्दप्रवृत्तिः ।
तथा ह्यस्य गौरिति व्यतिरेको न दृष्ट इत्यभेदोपचारादाश्रयलिङ्गवचनसिद्धिः ।एवञ्च फलतः पक्षयोरभेदः । पूर्वत्र तु गुणप्रधानभावेन द्वयोरभिधानम्, इह त्वभेदोपचारादित्येतावान् विशेषः ।। 340, 341 ।।
यद्वा पूर्वत्रानभिधीयमानमपि द्रव्यमुपकारकं विवक्षितम् । तथा च चोदितम् --`ननु चानभिधेयत्व' इत्यादि । जातिलक्षमनिमित्तानुविधानमन्तरेण च न व्यक्तयो यथास्वं विशेषेण व्यवहारमवतरन्तीत्याह--
प्राक् च जात्यभिसंबन्धात् सर्वनामाभिधेयता ।
वस्तूपलक्षणाः सत्त्वे प्रयुज्यन्ते त्यदादयः ।। 342 ।।
यावज्जातिरूपमाधारे न प्रत्यस्यते, तावद्व्यक्तीनां रूपानवसायादनिरूपणमेव विशेषणम् । आरूपिका हि जातिराधारं निरूपयन्ती व्यवहारयति यथास्वं विशेषशब्दैर्विशिष्टजातिरूपणाभावे तु विशेषशब्दानामगोचरः पदार्थ इति सत्त्वे द्रव्ये सिद्धस्वाभावे वस्तुमात्रोपलक्षणाः सर्वनामशब्दास्त्यदादयः प्रयुज्यन्ते । ते हि वस्तु किञ्चिदिति सामान्यमात्रतया पदार्थमवगमयन्ति ।
तस्माद् विशेप्रत्यायनाय जातिरूपाध्यासेन निमित्तरूपतां प्राप्ताः पदार्था यथायथं जातिशब्दैरभिधीयन्ते गवादिभिरित्याभेदोपचाराज्जातिशब्दानां द्रव्याभिधानं न गौणम्, अपि तु मुख्यमेवेत्याश्रयलिङ्गवचनसिद्धिरुक्ता ।। 342 ।।
अत्रैव मतान्तरमाह--
पाकौ पाका इति यथा मेदकः कैश्चिदाश्रयः ।
इष्यते चानुपादानो धर्मोऽसौ गुणवाचिनाम् ।। 343 ।।
पाकशब्दः क्रियाधर्मवचनो नोपादत्ते तदाश्रयम् । अनुपादानोऽपि चात्र क्रियाश्रयो भेदकः । तथाहि द्विवचनबहुवचने भवतः कर्मस्थावात् पचिक्रियायास्तद्भेदे पाकभेदाभिधानमत्र ।
एवं गुणवाचिनां शब्दानां सोऽयमिति सम्बन्धाश्रयानुपादानेऽप्यनुपादानोऽसावाश्रयो भेदक इति जातिशब्दानां गुणवचनत्वादनुपात्तद्रव्याणामपि वचनभेदः सेत्स्यतीतिकैश्चिदभ्युपगम्यते ।
एतत्तु न युक्तम् । पाकौ पाका इति सोऽयमित्यभिसम्बन्धेनाश्रयोपादानस्यादृष्टेः युक्तं यदाश्रयभेदेन पाकभेदाद् भिन्नशब्दभिधेयत्वे स्वत एव वचनभेदः । न ह्ययमाश्रयगतः । आश्रयभेदेनाश्रितस्य भेदादश्रितभेदोऽनुयाय्येव ।
तथा च गुडतिलतण्डुलौदानानां पाक इत्याश्रयभेदावगमादेवाश्रितभेदप्रतीतेर्न बहुवचनम् । शुक्लादिशब्दानां तु सोऽयमिति सम्बन्धेन दृष्टमाश्रयोपादानम् । त एव च जातिशब्दानां भाष्ये निदर्शनत्वेनोपन्यस्ता `गुणवचनवद्' इति ।
तथाहि--जातिशब्दा अप्याश्रयमभेदोपचारादुपाददत एव । आश्रितमात्रश्च गुणो विवक्षित इति जातिरपि तथा प्रसिद्धवस्तु । गुणवचनत्वेन शुक्लादिरित्युपमानम् ।
न चाधारभेदेऽपि जातिभेदः पाकादिवदित्यभिन्नशब्दत्वे प्रत्याख्याते एकशेषेऽभेदोपचारेण तद्वृत्तिवृत्ते लिङ्गवचनसिद्धिरत्र विवक्षिता, न त्वाश्रयानुपादानेन ।। 343 ।।
तथाहि--
आश्रयस्यानुपादाने केवलं लभते यदि ।
आधारधर्मान् सामान्यं पुरस्तात् तद्विचारितम् ।। 344 ।।
अनुपात्ताधारं शुद्धमेव जातिशब्देन सामान्यमभिहितमित्याधारगताल्लिङ्गसंख्यालक्षणान् धर्मान् प्रतिपद्यत इति नेदं गुणवचनवदित्यत्र परिहारे व्याख्यातु युज्यते । एतद्धि पूर्वत्र परिहारे `लिङ्गवचनसिद्धिर्गुणस्यानित्यत्वात्' इत्यत्र पक्षान्तरं व्याख्यातम् ।
तथाहि--तत्र `ननु चानभिधेयत्वे' इत्यादिना चोदयित्वा `व्यपदेशोऽभिधेयेन न शास्त्रे कश्चिदाश्रित' इति परिहृतम् ।
द्वितीयश्चापि पक्षोऽत्र व्याख्यातः `कैश्चिद् गुणप्रधानत्वमि' त्यादिना द्वयोरप्यभिधीयमानत्वलक्षणो गुणप्रधानभावेन । अस्मिंस्तु परिहारे जातेरेवाभिधीयता । अभेदोपचारात्तु तदाश्रयोपादाने तद्धर्मसिद्धिः ।। 344 ।।
तत्र कथमभेदोपचार इत्युक्तं भाष्ये--`सामान्ये वृत्तस्या वृत्तिरूपजायते' इति । तदुपपादयितुमाह--
जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् ।
अशब्दवाच्यात् सम्बन्धाद् व्यक्तिरप्युपजायते ।। 345 ।।
निमित्तपुरस्सरा निमित्तिनो वृत्तिरिति पूर्वं निमित्तभूतायां जातौ शब्दप्रवृत्तिः ।
सा च जातिर्निराश्रया न सम्भवतीति शब्देनाभिधायकेनाविषयीकृतादपि तद्वत्सम्बन्धलक्षणात् सामर्थ्याद् व्यक्तिस्तद्वान् प्रत्ययपथमुपारोहति । तथा चाह--`अधिकरगतिः साहचर्यात्' इति ।। 345 ।।
प्रत्ययानुसारेण च शब्दाः प्रवर्तन्त इति क्रमोऽप्यत्रोपपन्न इत्याह--
सोऽयमित्यभिसम्बन्धाज्जातिधर्मोपचर्यते ।
द्रव्यं तदाश्रयो भेदो जातेश्चाभ्युपगम्यते ।। 346 ।।
अभेदाध्यासाज्जातेरिव धर्मोऽस्येति द्रव्यं जातिशब्देनोच्यते । जात्यात्मकत्वापत्तेः । निमित्तरूपाच्छुरितस्य पदार्थस्यावगमात् तथैवाभिधानप्रवृत्तिरिति जातिलक्षणनिमित्तं व्यक्तावध्यस्य तदभेदेन शब्दस्तत्र वर्तते ।
तथा च द्रव्यास्यापि निमित्ताच्छुरितस्य निमित्तनिबन्धनेन शब्देनाभिधानमर्थतो जायत इति तदाश्रयः संख्याभेदो निमित्तेऽपि प्रतिज्ञायते, न हि जातिशब्देन द्रव्यं स्वेन रूपेणाभिधीयते, अपि तु निमित्तस्य तत्र सन्निधानान्निमित्तमभिदधता शब्देन सामर्थ्यान्निमित्त्युपादानम्, निमित्तिनो निमित्तस्य निष्कृष्टस्याभावात् । उपात्तनिमित्तिगतस्तु धर्मप्रतिलम्भः । विरम्य व्यापारायोगाच्च शब्दस्य नायमभिधायां क्रमः।
प्रतिपत्तारस्तु--तमेकमेव संसृष्टमर्थं स्वकल्पनाभिर्विभजन्त इति तदभिप्रायेण सामान्ये वृत्तेस्येति भाष्ये क्रम उक्तः ।। 346 ।।
एतदेव निदर्शनेन साधयति--
मञ्चशब्दो यथाऽऽधेयं मञ्चेष्वेव व्यवस्थितः ।
तत्त्वेनाह तथा जातिशब्दो द्रव्येषु वर्तते ।। 347 ।।
मञ्चाः क्रोशन्तीति क्रियासम्बन्धस्याधेये मञ्चस्थे प्राणिन्युपपत्तेराधाररूपाभेदेनाधारवचनोऽपि मञ्चशब्दस्तदाधेयवचन इति निश्चीयते । एवमानीयन्तां गाव इति क्रियासम्बन्धस्य जातावनुपपत्तेस्तदभेदापन्ना व्यक्तयः क्रियासमन्वयसमर्था जातिनिबन्धनेन शब्देनोपादीयन्त इत्यवगमः ।। 347 ।।
यद्येवं कथं जातिरेव पदार्थ इत्यत आह--
तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते ।
जातिरुत्सङ्ख्या तु द्रव्यात्मन्यनुषज्यते ।। 348 ।।
यथाधेयाभिधानेऽपि मञ्चशब्दस्तदाधारवचन इत्युच्यते, तथैव सत्यप्याश्रयद्रव्योपादाने जातिशब्दो जातिपदार्थ एव व्यवस्थाप्यते । द्रव्यमपि हि नासौ स्वरूपेणाचष्टे, अपि तु जातिरूपाध्यासेनेत्युपचरितं जातिरूपसमावेशाद् द्रव्याभिधानं वाहीकाभिधानवत् । मुख्यं तु जात्यभिधानमेव । निरूढत्वाच्च नोपचारप्रतीतिः ।
यद्येवं निमित्ताभिधानं मञ्चादिवदेव स्यात् । तथा चैकजात्याच्छुरिता व्यक्तयः सर्वा ऐक्येनाभिधीयेरन्निति वचनभेदो न स्यादित्याशङ्क्योक्तं--जातिरुत्सृष्टसङ्ख्येत्यादि ।
जातेः स्वतः सङ्ख्यारहितत्वान्निरस्तसङ्ख्यास्वरूपेण केवलमसौ द्रव्येऽध्यस्यत इति न तदाश्रया काचिदत्र सङ्ख्या प्राप्नोति । नापि लिङ्गमलिङ्गत्वात् तस्या इत्याधारगतलिङ्गसङ्ख्योपग्रह एव न्याय्यः ।। 348 ।।
तदेवमुपपन्नो जातिशब्दानां लिङ्गवचनयोगः, शुक्लादिशब्दवत् । तत्र शुक्लादिशब्दानां मतुब्लोपादभेदोपचाराद् वा तद्वति वृत्तिः । जातिशब्दानां तु व्यतिरेकस्य कदाचिदप्यदर्शनान्मतुब्लोपेन नार्थोऽभेदोपचाराद् वा तद्वति वृत्तिः । जातिशब्दानां तु व्यतिरेकस्य कदाचिदप्यदर्शनान्मतुब्लोपेन नार्थोऽभेदोपचारादेव तद्वति वृत्तिः । तथापि च तद्वदभिधानमात्रं समानमाश्रित्य उपायभेदानादरेण शुक्लादीनां दृष्टान्ततोपपत्तिरत्रेत्याह--
अस्येदमिति वा यत्र सोऽयमित्यपि वा श्रुतिः ।
वर्तते परधर्मेण तदन्यदभिधीयते ।। 349 ।।
मत्वर्थीयवशेनाभेदोपचारेण वा शब्दोऽन्यत्र वर्तताम् । निमित्तरूपाध्यासेन तु निमित्तिनोऽभिधानं तुल्यम् । इयता चेह प्रयोजनमित्यर्थः ।
इत्थञ्च यथा गुणशब्दत्वं द्रव्यवाच्यत्वेऽपि शुक्लादीनामुच्यते, तथागवादीनां जातिशब्दत्वेऽपि न कापि हानिः ।। 349 ।।
तथाहि--
यत् प्रधानं न तस्यास्ति स्वरूपमनिरूपणात् ।
गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ।। 350 ।।
निरुपाधेरर्थस्य द्रव्यात्मनः क्रियासम्बन्धक्षमस्य शुद्धं रूपं व्यवहारे नास्ति शाब्दे वैकल्पिके वा निरूपणपूर्वको हि व्यवहारः ।
तच्च निरूपणमर्थस्योपाधिरूपाच्छुरणेनैव । ततश्च गुणस्य यथायथं शुक्लजात्यादेर्विशेषमस्यात्मना स्वरूपेण द्रव्यं व्यवहारे तद्भावं गुणात्मतामिवोपगतमुपलक्ष्यते । निमित्तसरूपतां प्राप्तं निमित्तीत्यर्थः ।। 350 ।।
एवमपि च जातिप्राधान्यं न त्रुट्यतीत्याह--
गुणस्य भेदकाले तु प्राधान्यमुपजायते ।
संसर्गश्रुतिरर्थेषु साक्षादेव न वर्तते ।। 351 ।।
यदा द्रव्यं प्राधान्येन विवक्षितं भवति, तदा जात्युपधीयमानं तदभिधीयते । यदा तु गुणस्यान्यस्माद् भेदेनाख्यानं प्रधानतया, तदा स्वसामान्यावेशेन तदभेदप्राप्तस्य तस्य प्रत्यायनम् । यदा तु जातिरेव प्राधान्येनाभिमता, तदा तस्याः शब्दस्वरूपाध्यासेनाभिधानम् ।
तथाहि--धर्मान्तसंसर्गोपहितविशेषं वस्तु शब्दाः शक्नुवन्त्यभिधातुं, न शुद्धम् । अत एव संसर्गनिमित्ता श्रुतिः शब्दः संसर्गश्रितिरित्युच्यते ।
सा च धर्मान्तरमुखेनार्थोषु निविशते, नोपधान्तयागेन साक्षान्निरूपाधेरनिरूपणान्निरूपणपूर्वकाणां शब्दानामविषयत्वात् ।। 351 ।।
एवं तावज्जातिपदार्थताप्रसङ्गाद् द्रव्यपदार्थतापि कथं भवतीत्याह । यदि वा सोऽयमिति सम्बन्धाद् द्रव्याभिधानेऽपि यदि जातिपदार्थता, कथं तर्हि द्रव्यपदार्थतेत्याह--
जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः ।
जातेरेव पदार्थत्वं न तदाभ्युपगम्यते ।। 352 ।।
जातौ वर्तित्वा तद्विशिष्टं यदा द्रव्यमप्याह, न जातावेवाभिधाविरामः शब्दस्य, तदा जातेरेव केवलाया न पदार्थत्वम् । अभेदोपचाराच्च सोऽयमिति सम्बन्धेन यथा समर्थितं न द्रव्योपादानमभ्युपगम्यते । अपि तु तद्वत्यक्षोऽयं पूर्वत्र परिहारेऽभिहित इत्यर्थः ।। 352 ।।
ननु च विरम्भ व्यापारानुपपत्तेः शब्दानां कथं जातौ वर्तित्वा स एव शब्दो द्रव्ये वर्तते । दर्शनभेदेन हि भिन्ना एव शब्दा जातिमात्रवचनास्तद्वचनाश्चेत्यत आह--
प्रवृत्तानां पुनर्वृत्तिरेकत्वेनोपवर्ण्यते ।
प्रतिपत्तेरुपायेषु न तत्त्वमनुगम्यते ।। 353 ।।
सादृश्यादभेदावसायेनैवमेकत्वेन व्यवहारः प्रतिपादनोपायः । संसृष्टार्थाभिधानं ह्यक्रममप्येवं कल्पनया क्रमेण प्रतिपाद्यते ।
न च परप्रतिपत्त्युपायानां परमार्थानुगमो न्याय्यो हेयत्वात् तेषाम् । तथा च तद्वदभिधाननयेऽक्रममेवोभयाभिधानम् ।। 353 ।।
अत्रापि चोभयाभिधाने प्राधान्याप्राधान्यविवक्षावशेन जातिपदार्थता द्रव्यपदार्थता च दर्शनभेदेन समुतिष्ठत इत्याह--
अपृथक्।छब्दवाच्यस्य जातिराश्रीयते यदा ।
द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ।। 354 ।।
एकशब्दोरादानत्वेऽपि जातिद्रव्ययोर्यदा जातिराधारभेदप्रकल्पितभेदा कार्यंप्रवृत्तौ प्राधान्येनाश्रीयते, ब्राह्मणाः शुश्रूषितव्याः, योऽयं पानीयं पिबति स गौः पदा न स्प्रष्टव्यः, गौरनुबन्ध्य इत्यादौ, तदा सत्यपि द्रव्यस्य शब्देन संस्पर्शे जातिपदार्थपक्ष एव, जातिभेदप्रतिपादनमात्रोपक्षयत्वाद् द्रव्यस्य ।। 354 ।।
द्रव्यस्य सति संस्पर्शे द्रव्यमाश्रीयते यदा ।
वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ।। 355 ।।
जात्युपादायिनैव शब्देन द्रव्योपादाने सत्यपि तस्याभिधेयतयैव सम्बन्धे संस्पर्शे यदा द्रव्यं प्राधान्येन कार्यसम्बन्धितयाश्रीयते, जातिस्तद्विशेषणमात्रोपक्षया, ब्राह्मणमिमं भोजयेत्यादौ, द्रव्यपरायां चोदनायां, तदा द्रव्यपदार्थपक्षः ।
तदेतदुक्तं `कस्यचित् तु किञ्चित् प्रधानम्' इति ।। 355 ।।
जातिपरायामपि चोदनायां क्रियासम्बन्धक्षमत्वाद् द्रव्यमेव तात्पर्यदृशा पदार्थोऽवतिष्ठत इत्याह--
अपृथक्च्छब्दवाच्यापि भेदमात्रे प्रवर्तते ।
यदा सम्बन्धवज्जातिः सापि द्रव्यपदार्थता ।। 356 ।।
द्वयोरपि शब्दोपादानत्वे कार्यप्रतिपत्त्योग्यत्वादनादृत्य जातिं द्रव्यमेवपदार्थमातिष्ठन्ते व्यालिप्रभृतयः । यदाहुः--`चोदनासु च तस्यारम्भाद्' इति ।
जातिस्तु भेदमात्रे स्वाश्रयव्यवच्छेदमात्र एव तत्र प्रवर्तते शब्दाभिधेयापि । तद्यथा--राजपुरुष इत्यत्र समासवाच्योऽपि सम्बन्धः सम्बन्धिस्वरूपावच्छेदमात्रोपयोगीत्युत्तरपदार्थप्रधान एव समासः, न सम्बन्धप्रधानः ।
एवं गवादिशब्दा जात्यभिधायिनोऽपि तद्वत्प्रधानाः । यथा च राजपुरुषादयः शब्दाः सम्बन्धोपाधिमर्थं सकृदेवाभिधानम् । एवं दर्शनभेदेन पदार्थद्वयं विभक्तम् ।। 356 ।।
केषाञ्चित्तु शुद्धैव जाति शब्दवाच्येति जातिपदार्थपक्षे, शुद्धं च द्रव्यं शब्दवाच्यमिति द्रव्यपदार्थपक्ष इतीदमपरं पक्षद्वयमित्याह--
अत्यन्तभिन्नयोरेव जातिद्रव्याभिधायिनोः ।
अवाच्यस्योलपकारित्व आश्रिते तूभयार्थता ।। 357 ।।
केवलजात्यभिधायी शब्दोऽन्य एव । अन्यश्च केवलद्व्याभिधायी । उभयत्रापि चानभिधीयमाना जातिर्द्रव्यं वा यथायोगमाधारभेदप्रकल्पेन स्वगतलिङ्गसङ्ख्यादिधर्मप्रकल्पेन चोपकरोतीति भगवतः पाणिनेराचार्यस्यायं पक्षः सर्वपश्चान्निर्दिष्टः । तथा च विषयभेदेन क्वचिज्जातिपदार्थता मद्रह्रदादिसिद्ध्यर्थमाश्रिता ।
क्वचिद् द्रव्यपदार्थता दध्युकादिसिद्ध्यर्थमाश्रिता । अत एव "जात्याख्यायां" (पा. 1/2/58) "सरूपाणाम्"(1-2-64) इति च योगद्वमारब्धवानाचार्यः ।। 357 ।।
तदेवं प्रसङ्गाद् दर्शनभेदोपक्षेपः । प्रकृतमुपसंहरति--
आश्रिते त्वाश्रयकृतं भेदमभ्युपगच्छता ।
पुनश्चाप्येकशब्दत्वं जातिशब्देऽनुवर्णितम् ।। 358 ।।
व्यक्तिविशेषाश्रितायां जातौ शब्देनाभिधोयमानायां संनिहिताश्रयनिबन्धनं शब्दसंस्कारनिमित्तं लिङ्गवचनभेदमङ्गीकुर्वता प्रयोजकस्य शब्दार्थस्याभेदादेकशब्दत्वं जातिपदार्थवादेऽत्र पूर्वस्मिन् पक्षे भाष्यकारेण `यदि तस्यापि वचनानि नाचनिकान्य हमप्येवं वक्ष्ये बहुषु योऽर्थो वर्तते तत्र बहुवचनम्' इति ब्रुवता वर्णितमभिहितम्। तथा चैकशेषः प्रत्याख्यायते । प्राधान्येन जातिः शब्देनाभिधीयत इति सिद्ध एकस्तदभिधायी शब्दो व्यक्तिभेदेऽपि ।
ये तु सम्बन्धिनो जातेस्ते भेदनिबन्धनं संस्कारं शब्दस्यैकस्य निर्वर्त्तयन्ति । द्वितीयस्मिन्नपि पक्षेऽत्र `गुणवचनवदाश्रयतो लिङ्गवचनानि' इति गुणभूतस्याभिधीयमानस्यापि द्रव्यस्य शब्दभेदप्रयोजकत्वाभावात् तदेवैकशब्दत्वमुपपादितम् । सम्बन्धिनो हि जातेः सामर्थ्याद् वा सन्निहिता निमित्तरूपाच्छुरिता वोपादीयन्त इति परिहारद्वयतात्पर्यं व्याख्तातम् ।। 358 ।।
तदेवं वृत्तिविचारप्रसङ्गातं गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनसिद्धिविचारं भाष्यप्रदेशानुवादेन यथायथं परिसमाप्योपमानसमासविचारायोपक्रमते । तत्र प्रथमं तावदुपमानलक्षणोपयोगि भाष्यम्--`मानं हि नामानिर्ज्ञातज्ञानार्थमुपादीयते । अनिर्ज्ञातमर्थं ज्ञास्यामि' इति । एतद् व्याचष्टे--
अनिर्ज्ञातस्य निर्ज्ञानं येन तन्मानमुच्यते ।
प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ।। 359 ।।
मीयते परिच्छिद्यते येन तन्मानमिति सामान्येनावधारितस्य पदार्थस्य निश्चयेन विशेषरूपेणावधारणनिबन्धनं साकल्येन परिच्छेदकं प्रस्थः खारी आढकमित्यादि मानं कथ्यते । एतच्च मानसामान्यलक्षणमिति । प्रस्थादीत्यादिग्रहणात् प्रमाणोन्मानादयोऽपि गृह्यन्ते । मानस्य ह्युत्प्रपरिभिर्विशेषणम् । तत्र प्रस्थादि परिमाणम्, दिष्ट्यादि प्रमाणम्, पलाद्युन्मानम् ।। 359 ।।
मानसमीपमुपमानं व्याख्यातुमाह--
अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते ।
साकल्येनापरिज्ञानादुपमानं तदुच्यते ।। 360 ।।
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् । तथा ह्यप्रसिद्धमनिर्ज्ञातं गवयादि प्रसिद्धेन गवा सादृश्यस्तद्धर्म तस्येव धर्मो यस्य तदिवेति परिच्छिद्यते । सादृश्यमात्रेण परिच्छेदो नारोहपरिणाहतः साकल्येन विशेषात्मनापि । अत एव सादृश्यं प्रत्यक्षेण स्फुटमत्रावधार्यत इति तदपेक्षोपमानस्येति नेदं मानम्, अपितु तस्य समीपम्, किञ्चिद्रूपतया परिच्छेदात् । अत एवोपमानस्य प्रामाण्येऽपि विवदन्ते किल ।
प्रत्यायितार्थकं वाक्यमेव प्रमाणम् । सादृश्यकथनं तूपाय इति । उपमीयतेऽनेनेति च करणव्युत्पत्त्या सदृशज्ञानमुपमानम् । साक्षात् तेनोपमेयपरिच्छेदात् । संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः फलं केषाञ्चित् ।
अन्येषामनेन सदृशी मदीया गौरिति फलम् । गवादिस्तूपमानं परम्परयोपयोगाद् व्यवह्रियते, चक्षुरादीव प्रमाणशब्देन ।। 360 ।।
एवमुपमाने व्याख्याते सामर्थ्यादुपमेयमपि व्याख्यातं भवति, उपमितिक्रियाया उपमेयविषयत्वात् । ततश्च सामान्यधर्मव्याख्यानोपक्रमं सूत्रार्थं व्याचष्टे--
द्वयोः समानो यो धर्म उरमानोपमेययोः ।
समास उपमानानां शब्दैस्तदभिधायिभिः ।। 361 ।।
येन निमित्तेनोपमानोपमेयभावोऽर्थयोरसाववश्यसन्निधिरत्र धर्मः सादृश्यं सामान्यमुच्यते । द्विवृत्तित्वात् सामान्यं ब्रुवन्ति सामान्यवचनाः । तैः शब्दैरूपमानवचनानां समास इति सूत्रार्थः । शस्त्रीश्यामा । शरकाण्डगौरिति ।। 361 ।।
ननु चात्र श्यामत्वादिगुणः प्रत्याश्रयसमवेतत्वाद् भिन्न एवेति कथं सामान्यमित्याशङ्क्याह--
आधारभेदाद् भेदो यः श्यामत्वे सोऽविवक्षितः ।
गुणोऽसावाश्रितैकत्वो भिन्नाधारः प्रतीयते ।। 362 ।।
आश्रयभेदाच्छ्यामत्वागुणस्य यो भेदः, सोऽत्र सामान्यवचनैरिति वदतो नाभिधित्सितः । आश्रयविशेषसमवेतोऽप्यपेक्षितमेकत्वं येन स तथाभूतः सामान्यवचनसामर्थ्यादेवावगम्यते गुणः । भिन्नाश्रयत्वेऽपि हि गुणस्यान्वयि रूपमस्त्येव । यद्वशाच्छ्याम इत्यभिन्नाभिधानप्रत्ययसम्भवः । न चात्राभेद एव विवक्षितः ।। 362 ।।
अपि तु--
गुणयोर्नियतो भेदः गुणजातेस्तथैकता ।
एकत्वेऽत्यन्तभेदे वा नोरमानस्य सम्भवः ।। 363 ।।
अत्यन्तैकत्वे भेदाधिष्ठानस्य सादृश्यस्याभावान्नोपमानोपमेयभावः । न हि भवति गौरिव गौरिति । नात्यन्तभेदेऽन्वयिनो रूपस्याभावे हिमवानिव लोष्ट इत्युपमास्ति । तस्माद् भेदाभेदविमर्शेनोपमायामाधारभेदाद् भेदं स्वालक्षण्येनान्वयिरूपवशेन चाभेदमाश्रित्य गुणोऽत्र सव्यापारः ।
एवंविध एव चार्थात्मा शब्दवाच्यः । न हि शब्दाः स्वालक्षण्येन भेदमर्थानामावेदयन्ते । सामान्य एव सम्बन्धग्रहणात् ।। 363 ।।
मा भूदत्यन्तभेदे उपमा । अभेदे तु कथं न भवति । गुणो ह्येको द्वयोरुपमानोपमेयभावं वर्तयत्येवेत्याशङ्क्याह--
जातिमात्रव्यपेक्षायामुपमार्थो न कश्चन ।
श्यामत्वमेकं गुणयोरुभयोरपि वर्तते ।। 364 ।।
अनाश्रिताधारभेदस्य श्यामतामात्रस्य विवक्षायां शस्त्रीदेवदत्तयोः श्यामगुणसमवेतमेकं श्यामत्वं सामान्यमित्येव वचनव्यक्तिः । तथा च सादृश्येन परिच्छेदाभावः ।। 364 ।।
तथाहि--
येनैव हेतुना श्यामा शस्त्री तत्र प्रवर्तते(प्रतीयते) ।
स हेतुर्देवदत्तायाः प्रत्यये न विशिष्यते ।। 365 ।।
येनैव अभिन्नसामान्यानुगतेन श्यामगुणेन समवेतेन शस्त्री श्यामेति समधिगम्यते । तेनैव चाभिन्नसामान्याधारेण गुणेन देवदत्तापि श्यामेति प्रत्ययमुपारोहतीत्युभयोः श्यामत्वमेकमित्येव प्रतीतिर्नोपमार्थः कश्चिदत्र ।। 365 ।।
तस्मात्,
आश्रयाद् यो गुणे भेदो जातेर्या चाविशिष्टता ।
ताभ्यामुभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ।। 366 ।।
आधारभेदनिमित्तो यो गुणे विवेकोऽन्वायिरूपहेतुकश्चाविवेकस्ताभ्यां गणगताभ्यां भेदाभेदाभ्यां कारणभूताभ्यां द्रव्यस्वभाव उपमानाख्यः परिच्छेदकरणे उपमेयस्य व्यापृतोऽवधार्यते । ततश्चोपमानोपमेयप्रक्लृप्तौ तयोरुपमानोपमेयलक्षणः सम्बन्धोऽवतिष्ठते ।। 366 ।।
ननु भेदाभेदौ विरुद्धौ कथमेकत्र व्यापृतौ स्यातामित्याशङ्क्याह--
सोऽयमेकत्वनानात्वे व्यवहारः समाश्रितः ।
भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ।। 367 ।।
सोऽयमित्यनुभवसिद्धत्वेनाप्रत्याख्येयत्वमाह किल । भेदाभेदावयमाश्रितः सादृश्यव्यवहारः सङ्कीर्णेनैकत्वनानात्वरूपेण हेतुनावतिष्ठमानो बुद्धावुपारोहतीति को विशेषः । तथाह्यत्यन्ताभेदे स एवायमिति बुद्धिः । अत्यन्तभेदे त्वन्यदेवेदमिति । सदृश इति तु बुद्धिर्भेदाभेदोभयरूपसम्भिन्ना जायते । तथा च जातिसमुद्देशेऽभिहितम्--
"सकृतत्प्रवृत्तावेकत्वामावृत्तौ सदृशात्मताम् ।
भिन्नात्मिकानां व्यक्तीनां भेदापोहात् प्रपद्यते ।।"इति ।। 367 ।।
एतदेव व्यतिरेकमुखेनोपपादयति--
श्यामेत्येवाभिधीयते जातिमात्रे विवक्षिते ।
शस्त्र्यादीनामुपादाने तत्र नास्ति प्रयोजनम् ।। 368 ।।
श्यामत्वसामान्यनुगतस्य गुणमात्रस्याधारविशेषणत्वेऽभिधित्सिते श्यामेयं देवदत्तेत्येव वक्तव्यं स्याद्, एतावताविशिष्टजातीयेन सम्बन्धस्य प्रतिपादनात् । तत्रकिमर्थं शस्त्रीवेत्युच्यते । अविशिष्टगुणयोगस्य गुमपदादेव प्रतीतेर्न कञ्चनातिशयमुपमानशब्दाः प्रत्याययन्तीति निष्प्रयोजनमेषामुपादानम् ।। 368 ।।
नन्वेवं भेदाभेदविमर्शेनोपमानोपमेयभावेऽतिप्रसङ्गः । तथाहि--श्यामगुणः सकलाश्रयवर्त्यप्याधारभेदाद् भिन्नो जात्येकत्वाच्चैक इति कथं शस्त्र्येवोपमानमित्याशह्क्य स्वालक्षण्येन गुणयोरुपमाविषययोस्तावद् विशेषमाह--
अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते ।
श्यामेषु केषुचिद् वृत्तिर्यस्यसोऽत्र व्यपेक्ष्यते ।। 369 ।।
प्रत्याधारं सूक्ष्माणां भेदानामसाधरणः=भेदानामाधारः स्ववाचकासम्भवादसंविज्ञानपदः श्यामगुणविशेषो वाचकाभावेऽपि वाच्यानपायादस्ति स सर्वस्मिन्ननन्वयी क्वचिदेव वर्तमानोऽस्मिन्नुपमानोपमेयसम्बन्धे व्यपेक्ष्यते-सव्यापारत्वेनाश्रीयते ।
तथाहि शस्त्रीश्यामेति वृत्तिपदादेवोपमानोपमेययोः श्यामगुणो विलक्षणः प्रतीयते । योऽन्यत्रासम्भवीति नातिप्रसङ्गः ।
इत्थं चाधारभेदादन्योऽपि कयाचित् स्वरूपप्रतिपत्त्यानवसितविवेकत्वाद् गुण एन सामान्यं भेदाभेदरूपाभ्यामौपम्यमवस्थापयतीत्युक्तं भवतीति ।। 369 ।।
गुणजातेरपि न सर्वस्या अत्र व्यापार इत्याह--
श्यामेषु केषुचित् किञ्चित् किञ्चित् सर्वत्र वर्तते ।
सामान्यं कश्चिदेकस्मिन् श्यामे भेदो व्यवस्थितः ।। 370 ।।
किञ्चिदपरसामान्यं केषुचिच्छ्यामगुणेषु वर्तते तदुपमायां सव्यापारम् ।
किञ्चित् तु सर्वत्र वर्तते महासामान्यम् । तदविशेषादुपमानिमित्तं न भवति । कश्चित् तु श्यामे गुणे प्रतिनियते भेदो विशेषो वर्तते । सोऽप्यतिशयप्रख्यापनायोपमाननिमित्तं भवत्येव । तद्यथा--चन्द्रमसः कान्तिविशेषः कन्यावदनस्योपमानिमित्तमतिशयाध्यारोपात् । उत्कृष्टगुणेन हि न्यूनगुणस्योपमानादुत्कर्षसमारोपात् प्रशंसाजायते । पूर्वं तु निरतिशयो भेदो नोपमानाङ्गमित्युक्तम् ।। 370 ।।
गुणसामान्यव्यतिरेकेणापरा जातिरत्र नावधार्यत इत्याशङ्क्या तामुपपादयितुमाह--
तथाहि सति सौरभ्ये भेदो जात्युत्पलादिषु ।
गन्धानां सति भेदे तु सादृश्यमुपलभ्यते ।। 371 ।।
जात्युत्पलादिगन्धानां गन्धत्वमहासामान्यव्यतिरेकेण सौरभ्ये शोभनामोदत्वलक्षणेऽपरसामान्ये सति भेदोऽवधार्यते । येषां सौरभ्यं नास्ति, ततो व्यतिरेको लक्ष्यते ।
तथाह्युत्पलगन्धमाघ्राया सन्तमसेऽपि प्रत्यभिजानात्युत्पलमिदमिति । एवं ज्ञातिगन्धाद्यपि । ततश्च सुरभित्वमपरसामान्यमाधारविशेषनियतमस्तीति निश्चयो यत्सम्बन्धात् सुरभीणि सुगन्धीनीमानि द्रव्याणीति निरूपणा । सत्यपि चैवं सौरभ्येण गन्धानां विशेषे केषाञ्चित् सादृश्यमप्यस्ति ।
तथाहि--गन्धयुक्तद्रव्यैर्नखशैलेयादिभिर्गन्धद्रव्ययुक्तैर्न शैलेयादिभिरवान्तरभेदभिन्नसुरभिगन्धैरपि कयाचित् स्वभावप्रत्यासत्त्या पद्मादिसुरभिसदृशगन्धं द्रव्यान्तरं निर्वर्त्यते, पद्मगन्धि किञ्जल्कगन्धि मालतीगन्धि इत्यादि । एवं गन्धवद्रूपस्याप्यवान्तरजातिभेदो न्याय्य इति श्यामेषु केषुचित् वर्तमानं सिद्धं प्रतिनियतगुणवृत्त्यपरसामान्यमिति ।। 371 ।।
गुणानां प्रतिनियमः किंकृत इत्याह--
गुणानामाश्रयाद् भेदः स्वतो वार्यनुगम्यते ।
अनिर्देश्याद् विशेषाद् वा सङ्कराद्वा गुणान्तरैः ।। 372 ।।
स्वकारणादासादितभेदाद् द्रव्यलक्षणादाधारात् कश्चिद् गुणानां विशेषः । तद्यथा--उत्पलमालादिगतस्य श्यामत्वस्य । तथा चात्र स्वभावसाम्यादुपमाप्रवृत्तिः--
"रोलम्बगरलव्यालतमालश्यामलं नभः ।
नभोनिर्मलनिस्त्रिंशव्यग्रपाणय आहवे ।।" इति ।
एकजातीयाधारसमवायेऽपि कश्चित् स्वरूपादेचिन्त्यैवभवाद् गुणानां विशिष्टानामेवोत्पत्तेर्विशेषोऽद्यक्ष्यत एव धूसरत्वादिः ।
कश्चित् पुनरसंविज्ञानपदः कारणमात्रादनुत्पन्नः कालपरिवासहेतुको विशेषो गुणानाम् । तद्यथा--सुरादीनां परिणामविशेषासादनेन रसगन्धवैचित्र्योत्पत्तिः ।
तथाहि तत्र सामग्रया खण्डशः कार्यानुत्पादात् सामग्रयन्तर्गतात् कारणादयमतिशय इति निर्देष्टुं न शक्यते । द्रव्यान्तरगतगुणसम्मिश्रणाद् वा विशेषो गुणानाम् ।
तद्यथा--सहकारगन्धाधिवासस्यासवस्य मालतीकुसुमाधिवासितस्य च तैलस्य । तदेवमुपात्तभेदानां गुणानां कयाचित् प्रत्यासत्त्या केषाञ्चिदपरसामान्यसद्भावे सामान्यवचनेनोरमानवचनस्य समाससिद्धिः ।। 372 ।।
न च नियोगतो गुणानां साम्यमेवेपमाहेतुः । अपितूत्कृष्टगुणमुपमानामित्याह--
उपमानं प्रसिद्धत्वात् सर्वत्र व्यतिरिच्यते ।
उपमेयत्वमाधिक्ये साम्ये वा न निवर्तते ।। 373 ।।
व्यतिरेकोऽत्राधिक्यं विवक्षितम्, तेनादिकगुणमुपमानमित्यर्थः । तच्चाधिक्यं वास्तवेन रूपेण भवतु मा वा भूत् । किन्तु प्रसिद्धत्वात् प्रतीतत्वाद् ज्ञापकत्वेनोपमेयं प्रत्याश्रीयमाणं प्रसिद्धमेव न्याय्यमिति तद्गुणस्योत्कर्षः प्रसिद्धतैव।
तथा च न्यूनगुणमपि श्रृङ्गाररसपरिपोषणपरतया नारीमुखं शशिबिम्बस्योपमानत्वेन निर्दिशन्ति । कामिनां हि प्रेयसीमुखमुत्कृष्टगुणत्वेन प्रसिद्धम् । यथा--
"ईर्ष्यावशेन कलुषत्वमुपागतस्य
दूरान्मुखस्य तव सुन्दरी ! साम्यमेत्य ।
चेतःप्रहर्षभरपूरितपूर्णदेहः
स्वाङ्गेष्वपि प्रसभमद्य न माति चन्द्रः ।। "
इत्थञ्च कृत्वा परिपूर्णगुणेन न्यूनगुणमुपमीयत इति यथाप्रसिद्धि परिपूर्णगुणता व्याख्येया । अत एवाह--सर्वत्रेति ।
न केवलं वस्तुतो यत्रोत्कृष्टो गुणस्तदुपमानं यावन्न्यूनगुणमपि स्वप्रसिद्ध्याश्रयेणोपमानं व्यतिरिच्यते गुणाधिक्येन व्यवतिष्ठते ।
उपमेयभावस्तु गुणस्य वस्तुत आधिक्येऽतिरेके साम्ये तुल्यत्वे वा न निवर्तते नापैति । उपमानं नियोगतोऽधिकगुणमेव विवक्षितम् । उपमेये त्वनियम इत्यर्थः ।। 373।।
इदानीं प्रकारान्तरेणोपमानं लक्षयितु मानलक्षणभाष्यमन्यथा व्याचष्टे--
अन्यैस्तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते ।
अनिर्ज्ञातस्वरूपो हि ज्ञेयोऽर्थस्तेन मीयते ।। 374 ।।
भेद्यस्यावच्छेद्यस्य द्रव्यस्योपाधिविवक्तस्य प्रतीत्यनुपारोहात् प्रतीयते जातिगुणक्रियाः समाश्रीयमाणा मानव्यपदेशमासादयन्ति ।। 374 ।।
मितस्तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः ।
ऐश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ।। 375 ।।
रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् ।
भिन्नेन यस्य भेद्यानामुपमानं तदुच्यते ।। 376 ।।
स्वेनात्मीयेन जात्यादिमानेन परिच्छिन्नो यो गुणविशेषाधारः प्रसिद्धः--प्रतीतः सोऽप्रतीतगुणान्तरप्रज्ञापनाय स्वसमवेतेनैव गुणेन यदा व्याप्रियते, तदा तेन रूपान्तरेण भिन्नेन रूपान्तरवता भिन्नानामरि भेद्यानां--परिच्छेद्यानां परिच्छेदकं तदुपमानमुच्यते ।
तत्र संस्पर्शः सम्बन्धोऽत्यन्तभिन्नानां नोपपद्यत इत्यर्थादन्वयिधर्माक्षेपः । ततश्च भेदाभेदविमर्शेनैतदप्युपमानम् । सादृश्यमात्रेण च परिच्छेदान्नात्यन्ताय मानमुपमानमिति लक्षणमवस्थापितम् । तत्र शस्त्रीदेवदत्तयोर्गुणः श्यामत्वमुपमानोपमेयभावनिबन्धनं शस्त्रीश्यामेति ।। 375, 376 ।।
यदा तु श्यामत्वामिदमनेन सदृशमित्युच्यते तदा--
धर्मः समानः श्यामादिरुपमानोपमेययोः ।
आश्रीयमाणप्राधान्यो धर्मेणान्येन भिद्यते ।। 377 ।।
उपमानोपमेयभावव्यवस्थापको यः श्यामादिर्धर्मः स यदोपकारित्वव्युदासेनाश्रयभिन्नः प्रादान्येनोपमेयतयोपादीयते, तदाद्रव्यायमाणत्वात् तस्यापरेण स्वगतेन धर्मेण विशेष्यमामत्वमित्यन्यो धर्मोऽत्रोपमानोपमेयभावनिबन्धनम् ।। 377 ।।
एतदेवोदाहरति--
शस्त्रीकुमार्योः सदृशः श्याम इत्येवमाश्रिते ।
व्यपदेश्यमनेनेति निमित्तं गुणयोः स्थितम् ।। 378 ।।
अनेन करणभूतेन धर्मेण दीप्त्यादिना श्यामगुणगतेन तुल्योऽयं श्यामगुण इति निरूपणीयम् । तत्रापि च श्यामगुणयोरयं दीप्त्याख्यो धर्मः समान इति प्राधान्ये धर्मस्य धर्मान्तरमुपमायां सव्यापारमन्वेष्यमित्यनवस्थैवात्र ब्रह्मकाण्डे प्रतिपादिता--
"सामान्यमाश्रितं यद्यदुपमानोपमेययोः ।
तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ।।" इति ।। 378 ।।
यावच्चात्र विवक्षा तावदपर्यवसाना धर्माणां विवक्षा, विरामे तु विरतिः, एतच्चोपमानमुपमेयाद् भेदेन यदा विवक्ष्यते, तदोपमानोपमेयभावः शाब्द इत्याह--
यदा निमित्तैस्तद्वन्तो गच्छन्तीव तदात्मताम् ।
भेदाश्रयं तदाख्यानमुपमानोपमेययोः ।। 379 ।।
उपमानोपमेयभावे यन्निमित्तं गुणः श्यामादिस्तेन यदा तौ निमित्तिनावुपमानोपमेयावैकात्म्यमिव प्रतिपद्यते गुणगुणिनोरभेदोपचारात्, तदा भेदाधीनो व्यपदेशो विवेकेनोपमानस्योपमेयस्य च । तथा च तत्रोपमानोपमेयभावलक्षणसम्बन्धद्योतकमिवादिपदमुपादीयत इति परिपूर्णेयमुपमा । देवदत्ता शस्त्री यथा श्यामा । गौरिव गवयः । शैला इव वलाहका इति ।
अत्र ह्युपमानोपमेयभावसम्बन्धहेतोर्गुणस्य तद्वताऽभेदेन निर्देशे सम्बन्धश्चाभिहित इति प्रथमा । अभिहितः--सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति न्यायात् तद्वाचिकाया विभक्तेरभावात् प्रथमान्तयोः समन्वयो न स्यादिति द्योतकमिवाद्युपादीयते समन्वयार्थमित्युपमानोपमेयतद्भावद्योतकपदसाधारणधर्मवाचकपदप्रयोगात् परिपूर्णत्वम् ।। 379 ।।
यदा तु सादृश्यहेतुकोऽभेदाध्यारोपः, तदोपमानोपमेयभावस्य गर्भीकार इत्याह-- तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते ।
लुप्तोपमानि तान्याहुस्तद्धर्मेण समाश्रयात् ।। 380 ।।
उपमानोपमेययोस्तत्त्वासङ्गोऽभेदाध्यारोपो यदा विवक्ष्यते, तदा भेदस्य निवृत्तत्वात् तदधीन उपमानोपमेयभावोऽपि तिरोधीयते । गौर्बाहीकः, सिंहो माणवक इति । परार्थे शब्दप्रयोगान्यथानुपपत्त्या चात्र कार्यात् कारणानुमानेन यास्कप्रभृतय आचार्याः समानधर्मान्तर्भावनेन लुप्तोपमानीमान्युपमानान्याचक्षते । लुप्ता साक्षादनवधार्यमाणा उपमा येषाम् । तद्धर्मेण समाश्रयादिति । तेन समानेन धर्मेण गर्भीकृतेन सता उपमानशब्देनोपमेयस्य परिग्हहादित्यर्थः ।। 380 ।।
एवञ्च कार्यस्य नियतकारणपूर्वकत्वमुक्तम् । `अन्यैस्तु मानं जात्यादीत्यनेन प्रकारेण यन्नात्यन्ताय मिमीते तदुपमानम्' इति भाष्यं तात्पर्येण व्याचष्टे--
शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते ।
अन्याश्यामातु तद्रूपा (त्वतद्रूपा) तेनात्यन्तं न मीयते ।। 381 ।। साकल्येन परिच्छेदकं मानम् । तच्च शस्त्रीगतं श्यामत्वम् । तद्धि तत्र प्रसिद्धं परिच्छेदकम् । अन्या तु देवदत्ता श्यामापि न प्रसिद्धेति तेन श्यामत्वेन करणभूतेन परिच्छिद्यते । एवमपि परिच्छिद्यमाना नात्यर्थं सर्वतः परिमीयते । नहि धर्मसामान्यानुगममात्रात् सर्वात्मनार्थोऽवधारयितुं पार्यते ।। 381 ।।
तदेवं शस्त्रीगतेन श्यामत्वेन देवदत्ता यदा नात्यन्ताय परिच्छिद्यते, तदा न्त्यन्ताय मानमुपमानं शस्त्री सम्पद्यत इत्याह--
शस्त्रीं स्वेन गुणेनातो मिमानामाश्रयमान्तरम् ।
असमाप्तगुणं सिद्धेरुपमानं प्रचक्षते ।। 382 ।।
निजेन समाप्तकालेन श्यामगुणेनासमाप्तगुणमाधारान्तरं देवदत्तालक्षणं परिच्छिन्दतीं शस्त्रीमुपमानमाहुः--सिद्धेरिति । परिपूर्णगुणत्वादित्यर्थः ।। 382 ।।
एवं प्रकारद्वयेनोपमानोपमेयौ व्याख्याय सामान्यवचनत्वं विचार्यते । तथा हि निमित्ताभेदापन्नस्य निमित्तिनोऽभिधानादुपमानगतं वा तदभेदापन्नं निमित्तमुच्यते, तदुपमेयगतं वा, न तूभयगतं सकृदभिधातुं शक्यत इत्यनन्वयात् कथं सामान्यववचनत्वमित्याशङ्क्याह--
उपमेये स्थितो धर्मः श्रुतोऽन्यत्रानुमीयते ।
श्रुतोऽथवोपमानस्थ उपमेयेऽनुमीयते ।। 383 ।।
इह साधारणधर्मप्रयुक्त उपमानोपमेयभावः । तत्र च युगपदुभयगतत्वेन साधारणधर्मस्याभिधानं न सम्भवतीति शस्त्रीश्यामा देवदत्तेत्युक्ते श्रुतेनैव श्यामत्वेन समन्वयादश्रुतकल्पनायोगादेकत्रोपक्षयेऽपि शब्दस्यार्थान्तरेऽप्यनुमानाद् गुणसम्बन्धावसाय इति यो दृष्टः समानो गुमस्तस्यैकतरोपक्षयेऽप्यभिधाने सामान्यवचनत्वोपपत्तिः ।। 383 ।।
तत्रोपमेये श्रुतेर्निदर्शनमाह--
अधीयते ब्राह्मणवत् क्षत्रिया दृश्यते ।
उपमेयस्य भिन्नत्वाद् वचनं क्षत्रियाश्रयम् ।। 384 ।।
उपमेयानां क्षत्रियाणां बहुत्वाद् बहुवचनमत्र श्रूयमाणमध्ययनस्य साधारणस्य धर्मस्योपमेयगतत्वमावेदयते । सामर्थ्यात् पुनरुपमानैर्ब्राह्मणैरस्य सम्बन्धः प्रतीयते । उपमानस्य पुनरुपकारित्वात् तद्गतः श्रतो धर्म उपमेये नियोगतोऽवगन्तव्य इति न तत्रोदाहृतम् ।। 384 ।।
इत्थं चोभयगतत्वेनानभिधानेऽपि सामान्यवचनत्वमुपपद्यत इत्याह--
साधारणं ब्रुवन् धर्मं क्वचिदेव व्यवस्थितम् ।
सामान्यवचनः शब्द इति सूत्रेऽपदिश्यते ।। 385 ।।
अन्यतरगतत्वेनापि शब्देनाभिधीयमानो धर्मो वास्तवेन रूपेण भेदापरमर्शात् सामान्यमिति तमभिदधद् भवति सामान्यवचनः शब्दः । नहि यतः शब्दो वक्त्युभयगतत्वेनातः साधारणो धर्मो भवति । विशेषस्य ब्राह्मणादेः शब्देन सामान्येनाभिधानेऽपि साधारणत्वाभावात् । तस्माद् वास्तवेन रूपेण साधारणं श्यामत्वसामान्यमेकगतत्वेनाप्यभिधीयमानमन्यत्रानुमानात् साधारणमेवाभिहितं भवति ।। 385 ।।
तदेवं गुणजातौ वृत्तः सामान्यवचनः । यदापि गुणः श्यामादिस्तत्रापि वर्तमानः श्यामादिः शब्दः सामान्यवचन एवेत्याह--
नाभेदेन न भेदेन गुणो द्विष्ठोऽभिधीयते ।
भिन्नयोर्धर्मयोरेकः श्रूयतेऽन्यः प्रतीयते ।। 386 ।।
द्वयोरुपमानोपमेययोर्वर्तमानो गुणः श्यामलक्षणो नाभेदेनान्वयिरूपावेशेनाभिधीयते शब्देन । यस्मादुपमानेनावच्छिद्यते उपमेयेन वा । तथा चैकगतत्वेन विशिष्ट इति नाभेदेनाभिधानम्, नापि सहजेन व्यावृत्तेनात्मनाभिधीयते ।
न हि स्वालक्षण्येन भेदं शब्दाः स्पृशन्ति, सामान्यवचनत्वात् ।
नापि व्यावृत्तेनात्मना उपमायामुपयोगः ।
तस्माच्छ्यामशब्देव तावद् गुणोऽविशेषेण कथ्यते, अन्यतरसम्बन्धाद् अवच्छिद्यमानोऽपि सामर्थ्यादितरगतत्वेनावधार्यत इति भवति तच्छब्दः सामान्यवचनः ।। 386 ।।
एवं तात्पर्यतो भाष्यं व्याख्याय पाठपूर्वकं साक्षाद् व्याचष्टे--
नात्यन्ताय मिमीते यत् सामान्ये समवस्थितम् ।
सादृश्यादुपमेयार्थः समीपे परिकल्प्यते ।। 387 ।।
यदत्यन्ताय मेयशरीरं परिच्छिनत्ति तन्मानं प्रस्थादि जात्यादि वा व्याख्याताम् । तत्समीपे यत् तदुपमानम्, अत्र च तदित्यनेन प्रज्ञापनीयत्वेनाधिकृतत्वात् प्रधानमुपमेयं प्रत्यवमृश्यते । तस्योपमेयस्य यत् समीपे, तदुपमानम् । सामीप्यं च धर्मप्रत्यासत्तिकृतम् । तथा च सादृश्येन परिच्छेदकत्वात् सामान्ये साधारणे धर्मे सम्बन्धहेताववस्थितं तदपेक्षमुपमानं नात्यर्थं परिच्छिनत्ति ।
यो हि साधारणो धर्मस्तावतोपमेयस्यात्र परिच्छेदो विधीयते उपमानेन, न त्वन्येन धर्मेण । शस्त्र्या हि श्यामगुणतयावच्छिद्यते देवदत्ता, न तु संस्त्यानादिरूपेणेत्यपरिपूर्णमिदं मानमुपमेयसमीपवति ।। 387 ।।
तत्समीप इत्यस्य भाष्यस्य व्याख्यानान्तरमाह--
मानं प्रति समीपं वा सादृश्येन प्रतीयते ।
परिच्छेदाद्धि सादृश्यमिह मानोपमानयोः ।। 388 ।।
इह यदा प्रधानानुग्रहाय गुणो व्याप्रियते, तदास्योपसर्जनत्वात् परामर्शो मा भूत्, इह तु मेयं प्रति परिच्छेदोपयोग्यपि मानं स्वरूपे लक्ष्यमाणे प्रधानमिति तदेव तच्छब्देन परामृश्यते ।
तथा च मानस्य यत्समीपं तदुपमानम् । सामीप्यं च समानधर्मयोगात् । अस्ति चेह सादृश्यं परिच्छेदहेतुत्वं नाम मानोपमानयोः । एकमत्यन्ताय परिच्छेदकम् । अपरं नात्यन्तायेति भेदः ।। 388 ।।
एवमुपमानलक्षणार्थं `मानं हि नामानिर्ज्ञातज्ञानार्थामुपादीयते--अनिर्ज्ञातमर्थं ज्ञास्यामीति । तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानम्' इति भाष्यं व्याख्यातम् । अतः पूर्वं तूपमानलक्षणप्रस्तावहेतुः प्रश्नभाष्यम्,`किं यदेवोपमेयम्, आहोस्विदन्यदुपमानमन्यदुपमेयम्' इत्यस्ति ।
तद् व्याचष्टे--
एकजातिव्यपेक्षायां तदेवेत्यवसीयते ।
भेदस्यैव व्यपेक्षायामन्यदेवेति गम्यते ।। 389 ।।
इह यथाप्रत्ययमर्थाव्यवहार्यतामापद्यन्ते । तत्र यदोपमानोरमेययोरभिन्नमन्वयिरूपं व्यक्तिभेदतिरोधानेनैकगुणजात्यात्मकमभिसंहितम्, तदा तदेकरूपाध्यासादनयोरभेदो निश्चीयत इति तदेवेत्युच्यते ।
यदा तु निजो भेदो व्यावृत्तिर्व्यक्तिरूपनिरूपणेनाभिसंहिता, तदार्थान्तरत्वस्यैव प्रसिद्धस्यावधारणादन्यदेवेति भणितिः । किमुपमानत्वेऽत्यन्ताभेद उपयुज्यते, किं वात्यन्तभेद इत्यभिप्रायः ।। 389 ।।
ननु चोपमानमुपमेयमिति साधनविभागानुरोधी व्यपदेश एवानयोर्भेदं दर्शयति । कर्मकरणसाधनौ हि प्रत्ययौ भिन्नार्थाविति कथमभेदाशङ्केति ।
एतदभ्युपगच्छति--
कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः ।
अत्यन्तैकत्वविषयान्न स्यात् तेनात्र संशयः ।। 390 ।।
प्रत्ययाभ्यां विभागेन यस्मात् कर्मत्वं करणत्वं चोपात्तम्, तस्मादत्र निरस्ताशेषभेदनिबन्धनं वास्तवं यदेकत्वं तत् संशयस्य पक्षो विषयो नोपपद्यत इति भिन्नयोरेव सामान्यधर्मोराधिकमेकत्वं संशयविषयो न विरुध्यते ।। 390 ।।
दृश्यते चैवंविधेन भिन्नानामपि काल्पनिकेनाभेदेन व्यवहार इत्याह--
भेदेन तुल्यरूपत्वाच्छालींस्तानिति दृश्यते ।
जात्यभेदात् स एवायमिति भिन्नोऽभिधीयते ।। 391 ।।
अवधृतात्मभेदा अपि शालयो रूपसामान्यापहृतभेदैः प्रत्ययैरभेदेनावसाय त एव भुज्यन्त इति व्यपदिश्यते ।
एवम् `तान्येव वासांसि परिधीयन्त' इति च । एतच्च साददृश्यपर्यायं रूपसामान्यमभेदनिबन्धनमुक्तं शास्त्रे, `रूपसामान्याद् वा' इत्याकरवार्त्तिके । तदेवोपपादयितुं `तानेव शालीन् भुञ्ज्महे ये मधुरायां दृष्टाः' इति दृष्टान्तितम् । न केवलं च सादृश्यमात्रनिमित्तोऽभेदावसायो यावज्जात्यभेदनिबन्धनोऽपि । तथा ह्येकसामान्याध्यासिता व्यक्तयोऽभेदेन व्यपदिश्यन्ते । `चत्वारो ब्राह्मणा उदकुम्भानाहरेयुः' इत्यादो ।
अत्र हि माठरादिभेदेऽपि ब्राह्मण्येनाभेद उपात्तः । एवामिहाप्युपमानोपमेययोः सदृशधर्मनिमित्ताया प्रत्यासत्त्या तद्गतैकचातिसमावेशनाद् वाऽभेदस्य युज्यते संशयविषयता ।। 391 ।।
भेदस्यापि युज्यत इत्याह--
कथं ह्यवयवोऽन्यस्य स्यादन्य इत् चोच्यते ।
अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ।। 392 ।।
हलन्ताच्च् (पा.1/2/10)इत्यत्रान्तशब्दामवयवमाश्रित्य हल् अन्ते यस्येकः तस्मादिति व्याख्यायमाने चोदितमिदम् । `कथं हि इको नाम हल् अन्तः स्यादन्यस्यान्यः' इति । अत्र चावयवावयविनोरन्यत्व एवोपपत्तिरित्यत्यन्तभेदोऽयं विवक्षितः ।
तथा ह्यत्यर्थेन ययोर्भेदो यत्र न कथञ्चित् तत्त्वमभेदः सम्भवति । तस्मिन् सति यन्नानात्वमत्यन्तं तदभिसन्धायैतदुक्तमन्यस्यान्य इति ।
उभाभ्यामन्यशब्दाभ्यामैकान्तिकमन्यत्वं निर्दिशति । अवयवस्त्ववयविनः कथञ्चिदनन्यः, समवायेन तिरोहितभेदत्वात् । वर्णस्तु वर्णान्तरस्यानारम्भकत्वात् सर्वथैव भिन्नो नावयवो युज्यते ।
तदेवमत्र यथाकथञ्चिदनन्त्वेऽप्यवयवस्यात्यन्तभेदभिप्रायमनुपपत्तिरुक्ता । एवमिहाप्युपमानोपमेययोर्जात्यभेदाद् रूपसामान्याद्वा कथञ्चिदभेदेऽपि तदानादरेणात्यन्तभेदमाश्रित्यान्यदेवेति संशयविषयता कथिता ।। 392 ।।
तत्रावयवावयविनोरेवाभेदसम्भवो भिन्नयोरपि, न तु वर्णयोः परस्परमनारम्भकयोरित्याह--
अभेदस्य विवक्षायामेकत्वं सङ्घसङ्घिनोः ।
सङ्घिनोर्न त्वभेदोऽस्ति तथान्यत्वमुदाहृतम् ।। 393 ।।
सङ्घोऽवयवी, सङ्घिनोऽवयवाः, तेषां समावायादपोदितभेदानां यदा विवक्षा, तदाऽभेद एवाभिमतः । सङ्घः समुदायो वा वनादिः । तद्वन्तः समुदायिनो वृक्षादयः, तेषां समुदायेन सहाभेदेन अव्यतिरेकेऽभिधित्सिते वनं वृक्षा ब्राह्मणाः सङ्घ इत्येकत्वमभेदो भवति । तथाहि--वनादिशब्दाः सङ्घात्मना तान् समुदायिनः प्रतिपादयन्ति । वृक्षादयस्तु जातिभेदानुरागेण तानेवेत्यस्ति भिन्ननिमित्तप्रयुक्तयोः शब्दयोरेकत्र वृत्तिः सामानाधिकरण्यम् ।
यदा तु भेदविवक्षात्र, तदा वनादिशब्दाः सङ्घलक्षणधर्ममात्रवचना इति तदुपजनितव्यतिरेकाणां सङ्घिनामभिधानम्--वृक्षाणां वनम्, ब्राह्मणानां सङ्घ इति । एवं सङ्घसङ्घिनोर्भेदाभेदौ । सङ्घिनोः--समुदायिनोस्तु न कदाचिदभेदो भवति,असम्बन्धात् ।
तथा हि शिंशपायाः पलाशस्य वा नाभेदप्रतिपत्तिः । माहरस्य कौण्डिन्यस्य च । एवं वर्णा अपि परस्परमनारम्भात् सङ्घिनोऽत्यन्तभिन्नाः परस्परेणाभेदं न योग्याः प्रतिपत्तुमित्यन्यत्वमेव कथितम् । तथा च भेदाभेदावन्योन्यानुविद्धौ शुद्धौ च सम्भवत इतीह शुद्धौ विहायेतरौ विवक्षिताविति भेदाश्रयः प्रत्ययभेदोऽभेदाश्रयश्चैकत्वेन प्रश्न उपपद्यत एव ।
अथवोपमानमुपमेयमिति यत् प्रसिद्धं लोके तत् किमेकमुतानेकमिति विचारविषयत्वेन प्रसिद्धभेदानुवादः ।। 393 ।।
एतदनन्तरम् `किञ्च भोः' इत्युपक्रम्येदं भाष्यम् "यदि यदेवोपमानं तदेवोपमेयं क इहोपमार्थो गौरिव गौः, अथाप्यन्यदुपमानमन्यदुपमेयं क इहोपमार्थो गौरिवाश्वः" इति ।।
एतत् क्रमेण व्याचष्टे--
तत्राभिन्नव्यपेक्षायामुपमार्थो न विद्यते ।
यो हि गोरिति विज्ञाने हेतुः सोऽस्ति गवान्तरे ।। 394 ।।
इह येन धर्मेण यः प्रसिद्धः, तेनाप्रसिद्धं ज्ञापयन्नौपम्यमनुभवति । अभिन्नस्य तु सामान्यस्योपमाहेतुत्वेनापेक्षायां न किञ्चित् फलमुत्पश्यामः ।
तथा हि--गौरिव गौरिति यदेव जातिरूपमुपमानावसाये निबन्धनम्, तदेवोपमेयाभिमतेऽपीत्यज्ञातस्योपमेयस्य ज्ञापनाभावान्नोपमानोपमेयभावः ।
एवञ्च गोगवययोरप्यन्वयिधर्ममात्रापेक्षायां नोपमार्थं इत्युक्तं भवति ।। 394 ।।
अत्यन्तभेदेऽपि नोपमार्थं इति विवृणोति--
व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते ।
न कश्चिदुपकारोऽस्ति बुद्धेर्बुद्ध्यन्तरं प्रति ।। 395 ।।
अन्वयिना धर्मेणाननुगतानामप्यत्यन्तव्यावृत्तानां भेदानामपेक्षणे नोपकारः कश्चिदुपमानप्रतीतेरुपमेयप्रतीतौ धर्मसामान्यमन्तरेण समन्वयाभावाद् गोऽश्वयोः ।। 395 ।।
अत्र हि परिहारभाष्यम्--`एवं तर्हि यत्र किञ्चित् सामान्यं कश्चिच्च विशेषस्तत्रोपमानोपमेयभावः' इति ।
एतद् व्याचष्टे--
किञ्चिद् यत्रास्ति सामान्यं यदि भेदाश्च केचन ।
गोत्वं गोष्वस्ति सामान्यं भेदाश्च शबलादयः ।। 396 ।।
तत्रोपमानोपमेयभाव इति शेषः ।
तथा च प्रागेव व्याख्यातम् ।
एवञ्च कृत्वा द्वयोरपि गवोः सामान्यविशेषापेक्षो भवत्येवोपमानोपमेयभाव इत्याह--
ततश्च शाबलेय इव च बाहुलेय इति शाबलेयत्वाद्यवान्तरजातिभिन्नयोरप्येकार्थकारित्वादिनैकजातीयत्वेन प्रत्यासत्तौ भवत्येवोपमानोपमेयभाव इत्यर्थः ।। 396 ।।
यद्वा यत्र किञ्चित् सामान्यमत्यादिभाष्यस्यायमाक्षेपः--सर्वत्र पदार्थेषु सामान्यविशेषयोगादौपम्यं स्यादित्यातिप्रसङ्गो मेरुरिव सर्षप इत्यपि स्यात्, गौरिव गौरिति चेति श्लोकार्धस्यार्थः । अत एवैतच्चोद्यप्रतिसमाधानत्वेन वक्ष्यमाणोऽयं ग्रन्थ उपपद्यते । तथा हि--न महासामान्यमत्र विवक्षितं, किन्तर्हि--
सामान्यं श्यामताद्येव तद्धि साधारणं द्वयोः ।
तदेव सिद्ध्यसिद्धिभ्यां भेद इत्यपदिश्ते ।। 397 ।।
`यत्र किञ्चित् सामान्यम्' इत्यत्र भाष्ये सामान्यशब्देन न जातिरभिधित्सिता, अपि तु ततोऽर्थान्तरं श्यामत्वादि । तच्च द्वयोरुपमानोपमेययोरन्वयि साधारणमिति सामान्यमुच्यते ।
तथा ह्युत्तरत्र भाष्यमस्ति--`न चावश्यं स एव सामान्यवचनो यो बहूनां सामान्यमाह सोऽपि सामान्यवचनः' इति ।
एवञ्च द्विवृत्तिः श्यामत्वादिरत्र सामान्यमिति गम्यते । तदेव च सामान्यमपि व्यावृत्तेरपि भावाद् विशेष इत्युच्यते `कश्चिच्च विशेषः' इत्यत्र भाष्ये ।
तथा हि--यथोपमाने तत्प्रसिद्धं न तथोपमेये, न्यूनत्वादित्यास्ति भेदः । एवञ्च जातेरन्यत् सादृश्यं भेदाभेदानुस्यूतमिह सामान्यशब्देन साधारमपर्यायेण कथितमिति, ययोः साधारणो धर्मः प्रसिद्धाप्रसिद्धदर्शनः, तयोरुपमानोपमेयभावस्तदुपनिबन्धन इत्युक्तं भवति ।
एवञ्च कृत्वा सजातीययोरपि संस्थानादिधर्मसादृश्यकृतः शाबलेयबाहुलेययोरुपमानोरमेयभावो नैकजातिनिबन्धनो द्वयोर्गौरिव गौरिति ।। 397 ।।
अत्रैव मतान्तरमाह--
श्यामत्वमेव सामान्यमन्येषामुभयोः स्थितम् ।
सम्पूर्णत्वात् तदन्यस्माद् विशेष इति गम्यते ।। 398 ।।
पूर्वं प्रसिद्ध्यप्रसिद्धिभ्यां भेद उक्तः । इदानीं सम्पूर्णासम्पूर्णतयेति विशेषः ।
तथाहि--श्यामत्वलक्षणो गुण एव द्विवृत्तिराश्रयभेदाद् भिन्नोऽपि सौक्ष्म्यादलक्षितविवेकः सामान्यमित्युक्तः । स एवोपमाने सर्वात्मना परिसमाप्तत्वाद् उपमेये तु केनचिदंशेन न्यूनत्वादनाश्रितेऽप्याधारभेदोपाधौ भेदे विशेष्यमाणो विशेष इत्युक्तः । तथाच भेदाभेदाभ्यामवधार्यमाणो गुण एव सादृश्यं न ततोऽर्थान्तरम् ।। 398 ।।
यद्वा जातिरप्यस्तु उपमायां सव्यापारा, न त्वभेदेनैवावसीयमाना, किन्तु भेदेनापीत्याह--
आकृतौ वापि सामान्ये क्वचिदेव व्यवस्थिताः ।
श्यामादयोऽवसीयन्ते विशेषास्त इहाश्रिताः ।। 399 ।।
जात्येकार्थसमवायिनो ये सूक्ष्मा विशेषाः प्रतिनियते क्वचिदेव जात्याधारेऽवस्थिताः, ते जातेर्भेदहेतवो यदा समाश्रीयन्ते, तदा तैर्विशिष्टा जाति क्वचिदेव समवेता सव्यापारा भवत्युपमानोपमेयभावलक्षणे सम्बन्धे ।
तथा हि--शस्त्रीदेवदत्तागतयोः श्यामगुणयोर्या गुणजातिः, साश्रयविशेषगतकान्तिमत्त्वादिधर्मविशेषैरनुज्यमाना भेदानुवेधात् सादृश्यप्रत्ययं प्रसूयते । गौरिव गोरित्यत्र विद्यमानो हि विशेषो जातेर्भेदकः शब्दान्नावधार्यत इति न भवत्युपमा । शस्त्रीश्यामा देवदत्ता, शाबलेय इव बाहुलेय इत्यादौ तु गुणाधारभेदादेवावधार्यते विशेषः ।। 399 ।।
इत्थं भाष्यग्रन्थं व्याख्याय पिण्डितार्थमाह--
जातेरभेदे भेदे वा सादृश्यं तत् प्रचक्षते ।
कश्चित् तदाचिदर्थात्मा तथाभूतोऽपदिश्यते ।। 400 ।।
जातेरभेदेऽनन्यत्वेऽप्येकार्थसमवेताविशेषाहिते च भेद इत्यनन्तरोक्तार्थानुवादः । भेदे वेति `सामान्यं श्यामताद्येवे'ति पूर्वोक्तार्थानुवादः ।
एवं यत् सामान्यमुक्तं तत् सादृश्यमित्याहुः । तेन च सादृश्येन कश्चिदेव न सर्वोऽर्थात्मोरमेयस्तथाभूतः सदृश इति कथ्यते निरूप्यते चाभिधानस्य निरूपणपूर्वकत्वात् ।
इत्थं च सत्त्वज्ञेयत्वादि न सादृश्यम्, ततः सदृशप्रत्ययाभावादिति सामान्यधर्मयोगादेवौपम्ये नातिप्रसङ्गः ।। 400 ।।
इदानीं सदृशप्रत्ययस्य विषयं व्यवस्थापयितुं तत्प्रत्यनीकभूतं प्रत्ययान्तरमुदाहरति--
यत्रार्थे प्रत्ययाभेदो न कदाचिद् विकल्पते ।
अविद्यमानभेदत्वात् स एक इति गम्यते ।। 401 ।।
यस्मिन् वस्तुनि प्रत्यस्याकाराभेदो न कदाचिद्विकल्पेन भेदप्रत्ययेन सह पर्यायं नापद्यते, सदैवाभेदाकारेणोत्पत्तेः, तद्वस्तु धर्मिरूपमवल्थानानात्वेऽपि तत्कृतस्य भेदस्यासंविदितत्वाद् व्यवहारे प्रतिभातस्य सत्कल्पत्वादविद्यमानभेदमेक इति प्रत्ययविषयः ।। 401 ।।
प्रतियभिज्ञाप्रत्ययमुदाहरति--
योऽर्थ आश्रितनानात्वः स एवेत्यपदिश्यते ।
व्यापारं जातिभागस्य तत्रापि प्रतिजानते ।। 402 ।।
प्रसिद्धभेदोऽपि यः पदार्थः स एवेति प्रत्यभिज्ञायते, तत्र जात्यंशस्य व्यापार इत्याहुः । जातेर्व्यक्तिभिरैकात्म्यापत्तौ भागवाचोयुक्तिः । एवञ्च केवलाया जातेः प्रत्यभिज्ञाप्रत्यये व्यापारः, न सदृशप्रत्यये ।
यत्र च सादृश्यनिबन्धात् तत्त्वसमारोपात् प्रत्यभिज्ञा, भ्रान्तिरसौ लूनपुनर्जातकेशेष्विव जात्यापादिता । भेदानां तु तत्त्वनिबन्धनैव प्रत्यभिज्ञा ।। 402 ।। वस्तुनि हि संविदा भेदाभेदसंस्पर्शः कथमित्याह--
जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते ।
व्यक्तिभागाश्रया बुद्धिस्तत्र भेदेन जायते ।। 403 ।।
जात्यंशस्य व्यापारादभेदेनैकजातीयः परामृश्यते, गौरेवायमिति । व्यक्तिरूपाश्रया तु तत्र संविद्भे दोपलक्षिता प्रभवति ।। 403 ।।
इदानीं सदृशप्रत्ययं लक्षयति--
अन्यत्र वर्तमानं सद् भेदाभेदसमन्वितम् ।
निमित्तं पुनरन्यत्र नानात्वेनेव गृह्यते ।। 404 ।।
आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् ।
स सादृश्यस्य विषय इत्यन्यैरपदिश्यते ।। 405 ।।
निमित्तं प्रकृतत्वात् सदृशप्रत्ययस्य श्यामत्वाख्यमन्यत्राधारे शस्त्रीगते गुणे वर्तमानं सद् भूय आश्रयान्तरे देवदत्तागुणे वर्तमानं नानात्वेनेव भेदेनेव परिच्छिद्यते, तेनाश्रयान्तरेणावच्छेदात् । अभेदेनापि तु समन्वयादिवशब्दः ।
अत एव भेदाभदसमन्वितं सामान्यविशेषरूपसम्बद्धिमित्यर्थः । तदेवंविधनिमित्तमाधारेषु स्वाश्रयेषु गुणेषु पदन्यासं विधाय तदालम्बनं सादृश्यप्रत्ययमुत्पाद्य तस्यगुणस्य य आधारो द्रव्यं तत् प्राप्नोति, समवेतसमवायात् तत्र सदृशप्रत्ययं जनयति ।
तथा च स गुणाश्रयः सादृश्यस्य विषयः । तत्र सादृश्यनिमित्त उपमानोपमेयभाव इत्यर्थः ।
इत्थंञ्चेदं सादृश्यं भेदाभेदसमन्वयाज्जातेरन्यदभेदात्मिकायाः । जातिश्चान्यत्र नानात्वेन न गृह्यते । अपि त्वेकत्वेनैव । अनेन च ग्रन्थेनैकीयमतेन `यत्र किञ्चित् सामान्यं कश्चित् विशेषः' इति भाष्यमन्यथा व्याख्यातम् ।
तथा हि--पूर्वं यत्राधारे किञ्चित् सामान्यं कश्चित् विशेषस्तत्रोपमानोपमेये भवत इति भवितृभ्यां भावस्योपलक्षणात् तत्रोपमानोपमेयभाव इत्यर्थोऽभीष्टः ।
इह तु यत्र निमित्ते भेदाभेदसमन्विते सति सामान्यविशेषावभासप्रत्ययो द्रव्ये भवति, तत्र निमित्ते सत्युपमानोपमेये द्वे द्रव्ये भवतः । तन्निमित्तरूपस्य सादृश्यस्य तत्र पारम्पर्येण समवायादित्यर्थः ।
अत्रापरं भाष्यम्--`किं वक्तव्यमेतत् । नहि । कथमनुच्यमानं गंस्यते । मानं हि नाम' इत्यादि । तत् प्रागेव सूत्रार्थौपयिकत्वेनोपमानलक्षणरूपं व्याख्यातम् ।। 404, 405 ।।
अतोऽनन्तरं भाष्यम्--`कामं तर्ह्येतेनैव हेतुना यस्य गवयो निर्ज्ञातः गौरनिर्ज्ञातः' तत्कर्तव्यं स्याद् गवय इव गौरिति । बाढं कर्तव्यमि'त्यनेनोपमानोपमेययोरव्यवस्थाभ्युपगता ।
तां निदर्शनेन व्युत्पादयितुमाह--
परापेक्षे यथा भावे कारणाख्या प्रवर्तते ।
तथान्याधिगमापेक्षमुपमानं प्रचक्षते ।। 406 ।।
कार्यापेक्षं कारणत्वमित्यन्यापेक्षत्वेऽपि न कार्यकारणभावसङ्करः । नहि यमेव प्रति कार्यं तमेव प्रति कारणम् ।
एवमप्रसिद्धमुपमेयं प्रसिद्धमुपमानं तदपेक्षया यद्यपि व्यवह्रियते, तथापि पिरसिद्ध्यप्रसिद्ध्योः सङ्कराभावान्नोपमानोपमेयभावविपर्यास इत्यर्थः ।। 406 ।।
अत्रैव निदर्शनान्तरम्--
गुरुशिष्यपितापुत्रक्रियाकालादयो यथा ।
व्यवहारास्तथौपम्यमप्यपेक्षानिबन्धनम् ।। 407 ।।
न गुरुर्गुर्वन्तरापेक्षया । शिष्योऽपि न स्वशिष्यापेक्षया शिष्यः । पिता न पित्रन्तरापेक्षया । पुत्रोऽपि न स्वपुत्रं प्रति पुत्रः । क्रिया स्वासाधानापेक्षया साध्या न हि क्रियान्तरं प्रति । साधनमपि न तु स्वसाधनापेक्षयैव ।
यथोक्तं--
"तत्र यं प्रति साध्यत्वमसिद्धा तं प्रति क्रिया ।
सिद्धा तु यस्मिन् साध्यत्वं न तमेव पुनः प्रति" ।। इति ।।
(वा.प. 3 क्रिया 50 )
प्रसिद्धपरिमाणा क्रिया परिच्छेद्यक्रियान्तरं प्रति कालः, परिच्छेदकत्वात् । न तु परिच्छेद्याया एव परिच्छेद्या । आदिग्रहणात् विशेषणविशेष्यभावादेरापेक्षिकस्य सङग्रहः ।
एवं यस्य गवयः प्रसिद्धस्तस्यासावुपमानं वनेचरस्य, गौरप्रसिद्ध उपमेयः । नागरकस्य तु विपर्ययः । अत एव कामिनः श्रृङ्गाररसपरिपोषणपरतया नारीमुखमुत्कृष्टगुणत्वेन प्रसिद्धमिति शशिबिम्बस्योपमानं भवतीत्युक्तम् ।। 407 ।।
अतः परमिदं भाष्यं `किं पुनरिहोदाहरणम् । शस्त्रीश्यामा । क्व पुनरयं श्यामाशब्दो वर्तते । शस्त्र्यामित्याह । केनेदानीं देवदत्ताभिधीयते । समासेने'ति ।
एतद् व्याचष्टे--
श्यामत्वमुपमाने चेद् वृत्तं वृत्तौ प्रयुज्यते ।
उपमेयं समासेन बाह्यं तत्राभिधीयते ।। 408 ।।
पक्षान्तरस्यापि वक्ष्यमाणत्वाच्चेदित्यस्य पक्षस्याभ्युपगमं द्योतयति । उपमाने शस्त्र्यां यदि श्यामत्वं वृत्तौ समासे स्थितमभ्युपगम्यते, तदा वर्तिपदयोरुपमानवृत्तित्वात् ततो बाह्यं ताभ्यामनुपगृहीतमुपमेयं समासेनाभिधीयत इत्यायातम् । तथाचान्यपदार्थप्रधानोऽयं समासस्तत्पुरुषोऽपि ।
नहि तस्योत्तरपदार्थप्राधान्यनियमः, नञ्समासे पक्षत्रयविचारानुपपत्तिप्रसङ्गात् । न चार्थादेशनं वचनानुसारि, लोकप्रसिद्धार्थस्यानुवादात् ।
तथाचेह समानाधिकरणसमासानुरोधाद् वृत्तौ शस्त्रीशब्दसमानाधिकरणत्वेनापि श्यामाशब्दस्य प्रयोगे भवत्युपमेयस्य सम्प्रत्यय इत्यन्यपदार्थप्रधानत्वेन व्यवस्था ।
यद्येवमनेनैव न्यायेन बहुर्वीहावन्यपदार्थप्राधान्यसिद्धेः किमन्यपदार्थग्रहणेन । सत्यम् । किन्तु न सर्वं प्रत्याख्येयं प्रयोगानुसारेणेत्यन्तरङ्गे स्वपदार्थे सम्प्रत्ययाशङ्कापनोदाय युक्तमन्यपदार्थग्रहणम् । तत्र शेषाधिकारविहितत्वाच्च बहुव्रीहेर्न तेनास्य बाधः ।
अन्यथा बहुव्रीहिसंज्ञायां गुमवचनस्या श्यामाशब्दस्य विशेषणत्वात् पूर्वनिपातः स्यात् । क्लृप्तव्यवस्थितविभाषाविज्ञानादपि परिह्रियते । स्वरस्त्वभिन्नः, तत्पुरुषेऽप्यत्रोपमानाश्रय एव पूर्वपदप्रकृतिस्वरो भवति ।
ननु च बहुव्रीहौ शस्त्री श्यामा यस्येत्येवं सम्बन्धे न भवेदौपम्यप्रतीतिः । नैतदस्ति । शस्त्री श्यामा यस्या देवदत्ताया इति सम्बन्धसामान्ये बहुव्रीहिः । सामान्यं च विशेषनिष्ठम् । कश्चात्र सम्बन्धविशेष इत्युपमानोपमेयभाव एव प्रतीयेतान्यस्यायोगात् । तस्माच्छेषवचनाद् बहुव्रीहेरयं न विषयः ।
अथ `सङ्ख्यासमानाधिकरणनञ्समासेषु दोषः' इति यदा शेषवचनं प्रत्याख्यायते, तदा कथम् । तदापि `प्राक्वडारात् परं कार्यम्' इत्यत्र दर्शने वचनसामर्थ्यादयं तत्पुरुषो भवति । अनवकाशोऽयमिति परमेवेति नियमानुपपत्तिः ।
यदापि `प्राक् कडारादेका संज्ञे'ति दर्शनं तदाप्यनेन विशेषविधिनोपमानानि सामान्यवचनं च विशेषमाश्रित्य प्रवृत्तेरुपमेयलक्षणान्यथानुपपत्त्या सादृश्यमन्तर्भाव्योपमेयमाचष्टे, यथा शस्त्री श्यामा तथा देवदत्तेति शस्त्रीश्यामा कथ्यते । शस्त्रीव श्यामा देवदत्तेति वाक्ये श्यामाशब्दस्योरमेयाभ्यां सम्बन्धयोग्यत्वादेकतरोपक्षयत्वे तदितरो वाक्यार्थः ।
समासे तु समानाधिकरणप्रस्तावादुपमान एव सामान्यवचनः सकृदुच्चरित इत्युपमेयः समासार्थो वर्ण्यत इति विशिष्यवृत्तावित्याह ।। 408 ।।
अतोऽनन्तरमिदं भाष्यं `यद्येवं शस्त्रीश्यामो देवदत्त इति केन टाप्न श्रूयते' इति ।
एतद् विवृणोति--
टाबन्त एव चैत्रादौ श्यामाशब्दस्तथा भवेत् ।
सूत्रे च प्रथमाभावान्न श्यामाद्युपसर्जनम् ।। 409 ।।
शस्त्र्यां वर्तमानः श्यामाशब्दो गुणवचनानामाश्रयतो लिङ्गवचनभावात् स्त्रीवृत्तिष्टाबन्त इति समासवाच्यत्वे चैत्रोदेरुपमेयस्य शस्त्रीश्यामा चैत्र इति स्यात् । सामान्यवचनैरिति च तृतीयानिर्देशात् प्रथमानिर्दिष्टमित्युपसर्जनसंज्ञाऽभावे ह्रस्वत्वमत्र नास्ति । उपमेयवृत्तित्वे तु तल्लिङ्गं सिध्यति ।
अतोऽनन्तरं भाष्यम् `उपसर्जनह्रस्वत्वमत्र भविष्यती'ति तत्र प्रथमानिर्देशाभावे `एकविभक्ति--'(पा. 1/2/44)इत्युपसर्जनत्वं स्यात् । अन्वर्थत्वेन वाऽप्रधानत्वात् । तथाचानन्तरं चोद्यभाष्यं--`यदि तर्ह्युपसर्जनान्येवञ्जातीयकानि भवन्ति, तित्तिरिकल्माषी, कुम्भकपाललोहिनीत्यनुपसर्जनलक्षम ईकारो न प्राप्नोतीति ।
तदेतद् व्याचष्टे
अथवैकविभक्तित्वाद् गुणत्वाद् वोपसर्जनम् ।
नैव तित्तिरिकल्माष्यामिष्टः स्त्रीप्रत्ययो भवेत् ।। 410 ।।
प्रतियोगिनः पदस्य नानाविभक्तियोगेऽपि यदभिन्नविभक्ति तदुपसर्जनमुक्तं कौशाम्ब्यादि । इहापि समासे कर्तव्यत्वेन विषयभूते यत् प्रक्रियावाक्यं, तत्र प्रधानमन्यपदार्थं पदं नानाक्रियावेशादनेकविभक्तीति तदपेक्षया गुणवचनं भवत्येवैकविभक्ति। प्रधानस्य नानाक्रियावेशेऽपि हि न गुणः स्वरूपादपैति । तथाच `बहुव्रीहावनेकवचनमुपसर्जनार्थं नवैकविभक्तित्वादिति प्रत्याख्यातम् । तत्र च प्रधानस्यान्यपदार्थस्म पदस्य नानाविभक्तित्वमाश्रित्यैकविभक्ति वर्त्तिपदम् । एवमिहापि भविष्यतीत्ययस्त्येकविभक्तित्वादुपसर्जनत्वम् । अन्यत्र तु समानाधिकरणसमासेऽनिष्टप्रसङ्गो नास्त्युत्तरपदार्थप्राधान्याच्चोत्तरपदार्थो गुणः ।
न चैवं लौकिकेऽर्थे समाश्रीयमाणे संज्ञाकरणमफलम्, प्रधानस्यापि कस्यचित् पूर्वनिपातार्थं संज्ञाविषयत्वात् । तद्यथा--पुरुषव्याघ्रः, पाचकवृन्दारिका, पूर्वकायः, अर्धपिप्पलीति । अत्र पूर्वपदार्थः प्रधानमिति समासशास्त्रे प्रथमानिर्देशादुपसर्जनसंज्ञा सफला । विषयभेदेन च कृत्रिमाकृत्रिमयोः शास्त्रे समाश्रयणान्नात्र लौकिकमुपसर्जनमाश्रीयते ।
तथाच पूर्वनिपाताव्यवस्थाभावः, राज्ञो गोः क्षीरमिति समासशास्त्रे द्वयोः षष्ठीति प्रथमानिर्देशादुपसर्जनत्वेऽन्वर्थत्वाश्रयमेकस्यैव तद्व्यवस्थानम् ।
एवञ्च कौशाम्ब्यादीनां समासे परार्थत्वादेवोपसर्जनत्वे सिद्धेऽप्येकविभक्तेः कृत्रिमतासिद्ध्यर्थमुपसर्जनसंज्ञा अपूर्वनिपातार्थं युज्यत एव । कृत्रिमाकृत्रिमत्वेऽप्युपसर्जनस्य पूर्वनिपाते कृत्रिमस्यैवाश्रयणम् । उभयोः कृत्रिमत्वेऽन्वर्थत्वेन व्यवस्था । ह्रस्वविधौ तु व्याप्तेर्न्यायादुभयोराश्रयणम् । `लुक् तद्धितलुकि' (पा. 1/2/49) इति स्त्रीप्रत्ययान्तरस्योत्तरपदत्वेन प्रथमानिर्देशाभावेऽपि तद्धितार्थविशेषणत्वादन्वार्थमुपसर्जनत्वम् ।
तदेवमत्र श्यामादेरुपसर्जनत्वमुपपद्यत इति ह्रस्वः सिध्यति । उपमेयस्यान्यपदार्थस्य नानाविभक्तित्वेऽप्येकविभक्तित्वं तदपेक्षम्, उपमानस्य चोपमेयार्थत्वाद् गुणभाव इत्युपमानापेक्षमत्र श्यामादेर्गुणत्वमिति विकल्पः समर्थनीयः । अन्यथोपमेयापेक्ष एव गुणत्वे तेनैवैकविभक्तिरिति विकल्पो नोपपद्येत ।
एवमनेन प्रकारेण ह्रस्वसिद्धावपि तित्तिरिकल्माषीत्यत्र `अन्यतो ङीप्' (पा.4/1/40) इति स्त्रीप्रत्ययोऽभिमतो न स्यात् ।
तथाह्यत्र पूरव स्त्रीप्रत्यये तित्तिरिणोपमानेन पुल्लिङ्गेन कल्माषीशब्दस्य सामानाधिकरण्यं न स्यादिति पूर्वमकृत्वैव स्त्रीप्रत्ययं सामानाधिकरण्यादुपमानवृत्तित्वे वर्तिपदयोः समासः क्रियते । समासवाच्या चोपमेया स्त्रीति स्त्रियामनुपसर्जनाधिकारान्ङीष् न स्यात् । कल्माषस्योपमेये गुणत्वात् । ततश्च टाबत्र स्त्रीप्रत्ययःप्रसज्येत ।
एवं कुम्भकपाललोहिनीति `वर्णादनुदात्तात्--'(पा. 4/1/39) इति ङीप् न स्यादित्यर्थः । एवं सत्युपसर्जनत्वेऽनिष्टमिदमभ्युपगम्योक्तम् । न त्वत्रोपसर्जनत्वं न्याय्यम् ।
कृत्रिमे हि सम्भवति ह्रस्वविधौ तस्यैव सम्प्रत्ययो युक्तः । `लुक् तद्धितलुकि' (पा. 1/2/49) इत्यत्र प्रकृतस्य कृत्रिमस्यासम्भवादनुवृत्तिसामर्थ्याल्लौकिकमन्वर्थमाश्रीयते । ततोऽन्यत्र त्वकृत्रिमाश्रयमेव युक्तम् । अत्र च कृत्रिमत्वं नास्ति ।
`एकविभक्ति' (पा. 1/2/48)इति ह्येवं व्याख्यायते--समास इत्याधारसप्तमी, न विषयसप्तमी । तेन समासाधारं यदेकविभक्ति तत्रैव प्रतियोगिनो नानाविभक्तित्वे तदुपसर्जनसंज्ञमिति ।
अत्र स समासस्थस्य प्रतियोगिनः पदस्य विभिन्नविभक्तियोगाभावः समानाधिकरमसमासो ह्यमिति कथं भिन्नविभक्तियोगः स्यात् ।
अत एव भाष्यकारेणारुचिरत्र सूचिता `यदि पुनरुपसर्जनान्येवञ्जातीयकानि भवन्ती'ति । नैवंविधेषूपसर्जनसंज्ञावकल्पत इत्यर्थः । तस्मादुपसर्जनत्वाभावाद्ध्रस्वत्वमत्र न स्यादिति स्थितमेतत्--
`टाबन्त एव चैत्रादौ श्यामाशब्दस्तथा भवेत्' (वा.प.वृ 409) इति ।
यत्तु चोदितं कैश्चित्--सत्यपि चोपसर्जनह्रस्वत्वे `परवल्लिङ्गं--' (पा. 2/4/26) इति शब्दार्थातिदेशात् पुनराकारप्रसङ्ग इति ।
तदनुपपन्नम् । दत्ता यवतीत्यत्र शब्दातिदेशे द्वितीयस्य तिशब्दस्य प्रसङ्गात् । प्रत्याख्यातं तदिति, कुतः पुनराकारप्रसङ्गः ।। 410 ।।
अभ्युपगम्योपसर्जनत्वं स्त्रीप्रत्यये दोष उक्तः । तत्र समाधानं शङ्कित्वादोषान्तरप्रसङ्गेन निराकरोति--
सति शिष्टबलीयस्त्वाद् बाह्ये ङीषि च सत्यपि ।
उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्तः समस्यते ।। 411 ।।
कृते समासे तस्योपमेयार्थवृत्तेरनुपसर्जनत्वात् तस्मात् समासाद् बहुर्भूतः स्त्रीप्रत्ययोऽत्र भविष्यति । तित्तिरिकल्माषकुम्भकपाललोहितादयो हि समुदाया एव वर्णविशेषवाचिनो रूढाः । कल्माषादीनामेव तु वर्णवाचित्वे ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधात्, समुदायादत्र स्त्रीप्रत्ययोऽभ्युपपगम्याप्युच्यते । अत एवाह--सत्यपि ङीषि चेति ।
यद्वा `अनुपसर्जनात् (पा. 4/1/14) इति प्रधानेन तदन्तविध्यर्थो योगो व्याख्यातः । अत्र च नैवञ्जातीयकान्युपसर्जनानीति भाष्याभिप्रायाद् वर्णवाचिना प्रधानेन तदन्तविधेः समासात् स्त्रीप्रत्ययो जायते । एवमप्युपमानपूर्वपदप्रकृतिस्वरोऽत्रेष्टो न स्यात् ।
तथाहि--कृते समासे पूर्वपदप्रकृतिस्वरस्तावत्येव प्रवर्तते । पदग्रहणं हि परिमाणार्थमित्युक्तं न सुबन्ततिङन्तपरिग्रहार्थम् । तत्र स्त्रीप्रत्यये प्रत्ययस्वरः सतिशिष्टत्वादुपमानपूर्वपदप्रकृतिस्वरं बाधेत । ङीषि चायं दोषः । तत्र स्वरस्य प्रत्ययोदात्तस्यभावात् । ङीषि त्वनुदात्तत्वादुपमानस्वर एवावशिष्यत इति विशेष्य ङीषीत्युक्तम् ।
यत एवं स्वरदोषस्तस्मात् पूर्वमकृते समासे स्त्रीप्रत्यये कृते तदन्तस्य सामान्यवचनस्योपमानेन समासः कार्यः ।
तथा च सतिशिष्टत्वादुपमानस्वर एवेष्ट सिध्यति । एतच्चोपमाने सामान्यवचनस्य वृत्तौ न लभ्यते, तित्तिरिणा पुंसा कुम्भकपालेन नपुंसकेन च सामानाधिकरण्यात् स्त्रीप्रत्ययानुत्पत्तेरिति सामान्यवचनस्योपमाने वृत्तावयं दोषः ।। 411 ।।
किञ्च--
गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते ।
प्राधान्यस्य (प्रधानस्य) तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् ।। 412 ।।
पुरुषोऽयं व्याघ्र इव शूरः पुरुषव्याघ्र इति `उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (पा.2/1/56) इति समासे सामान्यवाचिनः शूरादेः शब्दस्य प्रयोगे तत्सापेक्षत्वादसामर्थ्यादेव समासो न भविष्यतीति किं सामान्याप्रयोग इति वचनेन ।
तत्तु ज्ञापयति--भवति प्रधानस्य सापेक्षस्यापि समास इति व्यवस्थापितं लिङ्गदर्शनम् । एतच्च गुणे सामान्यधर्मे शौर्यादौ व्याघ्राद्युपमानगते पुरुषादेः प्रधानस्य तदपेक्षत्वं न स्याद्, उत्तरस्योपसर्जनस्य सापोक्षत्वादिति नोपपद्यते विवक्षितार्थज्ञापनम् ।
उरमेयवृत्तौ हि गुणस्यैतद् ज्ञापकं युज्यते, नोपमानवृत्तिविति प्रदेशान्तरपर्यालोचनयापि नोपमानस्थत्वं गुणवचनस्य युक्तम् ।। 412 ।।
उपसर्जनत्वेन ह्रस्वसमर्थनमनुपपन्नमितीमं पक्षं हेयतयोपसंहर्तुमाह--
तस्मात् सति गुणत्वेऽपि प्राधान्यं विग्रहान्तरे ।
नैवञ्जतीयकं शास्त्रे सम्भवत्युपसर्जनम् ।। 413 ।।
उपमानवृत्तेरुपमेयविशेषणत्वात् सत्यप्यप्राधान्ये श्यामादेर्विग्रहान्तरे प्राधान्यमस्ति, यदोपमेयवृत्तिर्गुणस्तदा यद् वाक्यं तत्र । तथाहि--शस्त्रीव देवदत्ता श्यामेत्यत्र उपमेयवृत्तेः श्यामस्य प्राधान्यम् । उपमानवृत्तित्वेऽपि च समासेनोपमेयस्याभिधानाद् वस्तुतः प्राधान्यमेव धर्मस्य, प्रक्रियावाक्यापेक्षया तु गुणत्वम् ।
तथाचैवंप्रकारं वस्तुतः प्रधानं शास्त्रेऽपि नोपसर्जनमुपपद्यते । प्रकियाभेदेऽपि हि लौकिकोऽर्थः शास्त्रेणानुविधेयः । लोके च प्रधानमेवेदमित्यन्तवर्थमपि शास्त्रे लोकसिद्धार्थानुवादके नास्त्युपसर्जनत्वम् । अत एव `उपसर्जनान्यप्येवञ्जातीयकानी'ति भाष्येऽरुचिः सूचितेत्युक्तम् ।। 413 ।।
तदेवमुपमानवृत्तित्वं गुणवचनस्यानुपपन्नमुक्त्वातोऽनन्तरं भाष्येऽभिहितम्--`एवं तर्हि शस्त्र्यामेव शस्त्रीशब्दो वर्तते । देवदत्तायां श्यामशब्द इत्युपमेयवृत्तित्वमाख्यातम् ।
अत्र तु चोदितम्--"एवमपि गुणोऽनिर्दिष्टो भवति । बहवश्च शस्त्र्यां गुणाः सूक्ष्मा मृदुतरी" इति । उपमेये सामान्यवचनस्य वृत्तेर्यथायथं तल्लिङ्गपरिग्रहः सिद्धः । प्रकृतं चोत्तरपदार्थप्राधान्यमेव निर्वाहितं भवति ।
किन्तु शस्त्रीव श्यामा देवदत्तेति श्यामगुणोपलक्षितस्योपमेयस्य निर्देशादुपमानगतस्य गुणस्य स्त्रीशब्देन जातिविशिष्टार्थाभिधायिना नियतस्यासंस्पर्शादोपम्यहेतोर्धर्मस्य प्रतिनियतस्य प्रज्ञापनं न स्यादिति भाष्यार्थः ।।
अत्र परिहारभाष्यम्--`अनिर्दिश्यमानस्यापि गुणस्य भवति लोके सम्प्रत्ययः' इति ।
एतद् विवृणोति--
उपमेयात्मनि श्यामे वर्तमेनोऽभिधीयते ।
उपमानेष्वनिर्दिष्टः सामर्थ्यात् सम्प्रतीयते ।। 414 ।।
यद्यपि साधारणो धर्मः श्यामादिरुपमेयस्थः स्वशब्देन प्रत्याय्यते । सकृदभिधाव्यापाराच्च शब्दस्य तदुपक्षयत्वमेव । तथाप्युमाने समानधर्मस्यान्यस्याश्रुतेः संनिधानात् साकाङ्क्षत्वाच्च श्रुतेनैव योगः परिकल्प्यते, अश्रुतपरिकल्पनायाः श्रुतसम्बन्धस्य न्याय्यत्वात् ।। 414 ।।
अत्रैव दृष्टान्तभाष्यं--`तद्यथा--चन्द्रमुखी देवदत्तेति । बहवश्च चन्द्रे गुणाः । या चासौ प्रियदर्शनता, सा गम्यते' इति ।
एतद् व्याचष्टे--
द्रव्यमात्रेऽपि निर्दिष्टे चन्द्रवक्त्रेऽनुगम्यते ।
विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ।। 415 ।।
चन्द्रमुखीति सामान्यधर्ममन्तरेणोपमानभूतद्रव्यमात्रोपादानेऽपि प्रसिद्धेरुपमानहेतुराह्णादकत्वादिः साधारणो धर्मोऽनुवर्त्यते, न त्वन्ये चन्द्रधर्मा उपप्लवादयः । उपप्लवः शशाख्यो मलः । आदिशब्दाद् वृद्धिक्षययोगः ।
अन्ये तु वृद्धिक्षययोगो नित्यप्रवृत्तगतित्वं वोपप्लवः । आदिशब्दाच्छशलाञ्छनत्वादय इति व्याचक्षते ।
इत्थञ्च यत्र नामानिर्दिष्टो गुणः प्रसिद्धेरुपमानहेतुर्विशिष्टः प्रतीयते,तत्रैकत्र श्रुतोऽपि सामर्थ्यादन्यत्र कथं न प्रतीयेतेत्यतिशयो निदर्शने गर्भीकृतः।। 415 ।।
तदेवमुपमेयवृत्ति सामान्यवचनमित्ययं पक्षः । एतच्चात्र प्रक्रियायां नानात्वं वितार्यते । परमार्थतस्तु लौकिकः शस्त्रीश्यामादिरखण्डः शब्दो विशिष्टोपमेयार्थवाचीत्याह--
भेदभावनयैतच्च समासेऽप्युपवर्ण्यते ।
विशिष्टगुणभिन्नेऽर्थे पदमन्यत् प्रयुज्यते ।। 416 ।।
उपमानवृत्तित्वे सामान्यवचनस्यैकं वाक्यम्, उपमेयवृत्तित्वे तु द्वितीयमितिवाक्ये भेदस्य नानात्वस्योपमानार्थत्वमुपमेयार्थत्वमित्येवम्भूतस्यानुभवेन याहिता वासना संस्कारस्तया हेतुभूतया वाक्यसमानार्थत्वं वृत्तेरवसाय तत्राप्येतदुपमानोपमेयार्थवचनत्वं सामान्यवचनस्य कथ्यते । उपमानोपहितभेदश्यामादिगुणविशिष्टे तूपमेये निरंशं समासपदं वाक्यादन्यदेवोच्चार्यते । तदन्वाख्यानोपायपरिकल्पना तु प्रक्रियानुरोधाद् यथान्यद् दोषजातं नापतति तथा कर्तव्येति सम्प्रत्युपमेयवृत्ति सामान्यवचनं स्थितम् ।
एवं हि शस्त्रीश्यामो देवदत्त इति सिध्यति । तित्तिरिकल्माषीति चेष्टः स्त्रीप्रत्ययो भवति ।। 416 ।।
अत्रापि पक्षे चोद्यभाष्यम्--`एवमपि सामानाधिकरणेनेति वर्तते। व्यधिकरणानां समासो न प्राप्नोती'ति । उपमेयवृत्तित्वे श्यामाशब्दस्य शस्त्रीशब्देन सामानाधिकरण्याभावात् समानाधिकरणप्रकरणं नानुगृह्येतेत्यर्थः ।
अत्र परिहारोऽभिहितः--`किं हि वचनान्न भवती'ति । अन्यत्र कृतार्थत्वाद् दुर्बलतरमत्र प्रकरणमकृतार्थतया श्रुत्या बाध्यत इत्याशयो भाष्यकारस्य ।
ननु चोपमानवृत्तित्वे सामान्यवचनस्यास्ति वचनस्यावकाशः । तथाच प्रकरणानुग्रहोऽपि कृतो भवति । नैतदस्ति ।
विशिष्टार्थवृत्तेः पदस्यान्वाख्याने शास्त्रप्रक्रियाभङ्गाय यः प्रभवति, असावपोद्धारपदार्थो नाश्रयणीयः । उपमानविषये च सामान्यवचने द्वयोरपि पदयोरुपमेयं प्रति गुणत्वात् सापेक्षत्वेऽसामर्थ्याद् वृत्तिर्न स्यात् ।
उपमेयवृत्तित्वे तु संन्निहितोभयाधिकरणः सम्बन्धो निराकाङ्क्षो वर्तते । तथाच सामर्थ्यामिति व्यधिकरमयोरपि गमकत्वाद् वचनं विधत्ते वृत्तिम् ।
अतोऽनन्तरं भाष्यं--`यद्यपि तावद्वचनात् समासः स्यात् । इह तु खलु मृगीव चपला मृगचपला । समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति' इति ।।
तदेव विवृणोति--
यदि भिन्नाधिकरणो वचनादनुगम्यते ।
मृगीव चपलेत्यत्र पुंवद्भावो न सिध्यति ।। 417 ।।
यदि वचनसामर्थ्यात् प्राकरणिकं सामानाधिकरण्यमनादृत्य व्यधिकरमयोरप्ययं समासोऽनुविधीयते, तदा मृगचपलेत्यत्र कर्मधारयाश्रयोऽन्यत्र समानादिकरणपदे चरितार्थः पुंवद्भावो न स्यात् ।। 417 ।।
अत्र परिहारं प्रदेशान्तरोक्तत्वाद् भाष्येऽनुक्तमप्याशङ्कते--
अस्त्रीपूर्वपदत्वात् तु पुंवद्भावो भविष्यति ।
तथैव मृगदुग्धादो न चेत् स्त्र्यर्थो विवक्ष्यते ।। 418 ।।
जात्यन्तरनिवृत्तिपरायां चोदनायां मृगक्षीरादौ पुंवद्भावः, तत्फलं पुमर्थशब्दप्रयोगः सिद्ध इतिं प्रत्याख्यातः पुंवद्भावः `न वा अस्त्रीपूर्वुपदविवक्षितत्वादि'ति ।
एवमिहापि मृगचपलादौ मृगजातीयस्य चापलस्य विवक्षितत्वान्मृग इव चपलेत्येव विग्रह इति स्त्रीत्वाविवक्षायां सिद्धमिष्टम् ।
तथाहि--कृतेऽपि पुंवद्भावे शब्दात् स्त्रीत्वस्यागतेरविवक्षैव समर्थनीया । स हि विवक्षितोऽर्थः, यः शब्दात् गम्यते ।
यदा तु विशिष्टस्य स्त्रीचापलस्य स्त्रियैवोपमोपपत्तेः स्त्रीत्वविवक्षा, तदारम्भणीय एवात्र पुंवद्भावः । कृते च तस्मिन् वृत्तौ स्त्रीत्वस्यान्तर्भावो वक्तव्यः ।
अत एव न चेत् स्त्र्यर्थो विवक्ष्यत इति पाक्षिकत्वेनायं परिहारः शङ्कितः । अनेनैव चाशयेन भाष्ये नोपन्यस्तमिदम् ।। 418 ।।
अत एवातोऽनन्तरं निर्दोषपक्षाश्रयोण भाष्यम्--`एवं तर्हि; तस्यामेवोभयं वर्तत इति ।
एतद् व्याचष्टे--
शस्त्रीव शस्त्री श्यामेति देवदत्तैव कथ्यते ।
तस्यामेवोभयं तस्मादुच्यते शास्त्रविग्रहे ।। 419 ।।
इहोपमानवृत्तित्वे सामान्यवचनस्योपमेयः समाववाच्योऽभिहिंतः । एवञ्चात्र वाक्ये वर्तिपदयोरेवोपमेयवृत्तित्वमस्तु ।
तथाहि--उपचाराच्छस्त्रीव शस्त्रीति देवदत्ता कथ्यते । अतस्तस्यां देवदत्तायामुपमेयभूतायामेवोभयमुपमानवचनं सामान्यवचनं च वर्तत इति सामानाधिकरण्योपपत्तौ पुंवद्भावसिद्धिः । प्रकरणं च न बाधितं भवति । उपमानसम्बन्धमन्तर्भाव्य च देवदत्तायां शस्त्रीशब्दः प्रवर्तत इत्यभेदाध्यासाद् गम्यते । परार्थे शब्दप्रयोगो गर्भीकृतेवार्थो युज्यते, नान्यथा ।
तद्यथा--सिंहो माणवक इत्यादिः । सिंहमध्यापयेति चोपचरितेन शब्देन व्यवहारो दृश्यते । एवमिह शस्त्रीशब्देन देवदत्तैव व्यवह्रियते ।
एतच्च तस्यामेवोभयं वर्तत इति शास्त्रविग्रहे शास्त्रप्रक्रियागते वाक्ये कथ्यते । वाक्यावस्थायां हि समानाधिकरणतासमर्थनार्थमिदमभिधीयते । तत्र च शास्त्रप्रक्रियायां विविधनानाभूतमपोद्धारपदार्थानां ग्रहणम् ।
लौकिके तु पदे विशिष्टार्थवाचके निरंशे विभागाभावान्नास्योपन्यासस्यावसरः । तत्र हि वर्णवत् पदविभागस्यासत्यत्वान्न कश्चिच्छस्त्रीशब्दस्तदर्थो वा, यस्योपचरितार्थत्वं वर्ण्येतेत्यभिप्रायः ।। 419 ।।
एष एव पक्षः सिद्धान्ततया भाष्येऽवस्थापितः । तथाह्यनन्तरं भाष्यम्--`एतच्चात्र युक्तं, यत्तस्यामेवोभयं वर्तते । इतरथा बह्वपेक्ष्यं स्यादि'ति ।
एतद् व्याचष्टे--
पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च ।
बह्वपेक्ष्यमतस्तस्यामुभयप्रतिपादनम् ।। 420 ।।
यदा श्यामाशब्द उपमेये वर्तत इति पक्षस्तदात्र पक्षे वैयाधिकरण्याद् वचनसामर्थ्यात् समासेऽपि पुंवद्भावस्य सिद्ध्यर्थमस्त्रीपूर्वपदविवक्षानियमोऽपेक्ष्यः । मृगक्षीरादिवदत्र मृगचपलादौ सामान्यस्यैव विवक्षा, न विशेषस्येत्येतदनुसरणीयम् ।
एष विवक्षानियमोऽशब्दकोऽत्रानुस्त्रियमाणो गौरवं प्रतिपत्तावापादयतीति बह्वपेक्षत्वमत्र ।
यदा तु शस्त्र्यामुपमाने श्यामाशब्ज इति पक्षस्तदात्र पक्षे शस्त्रीश्यामो देवदत्त इत्युपसर्जनह्रस्वत्वेन सिद्धौ तित्तिरिकल्माषीत्यादावनुपसर्जनाधिकारादिष्टस्य स्त्रीप्रत्ययस्य सिद्ध्यर्थं समुदाया एवैते वर्णविशेषवाचिनो नैवञ्जातीयकं वोपसर्जनमिति प्रधानेन तदन्तविधेः समासाद् बाह्यो ङीषिति वाच्यम् । तथाच स्वरे दोष इत्येतदत्र बह्वपेक्ष्यम् ।
यत एवमनयोः पक्षयोर्बह्वपेक्ष्यम्, अतस्तस्यामेवोभयस्योपमानोपमेयवचनस्य भाष्येऽभ्युपगम इत्यर्थः ।। 420 ।।
प्राक् समासादुपमेयवृत्तेः कल्माषादेः स्त्रीप्रत्ययस्येष्टस्य सिद्धेर्यथायथमुपमेयगतलिङ्गसिद्धेश्च प्रकारान्तरेणात्र बह्वपेक्षत्वं व्याचष्टे--
श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते ।
तत्रोपमानेतरयोः श्यामेत्येतदपेक्ष्यते ।। 421 ।।
श्यामा शस्त्री यथेत्युपमेयवृत्तौ श्यामाशब्दस्य विग्रहवाक्यं प्रदर्शितम् । श्यामा शस्त्रीकल्पेत्युपमानवृत्तौ श्यामाशब्दस्य विग्रहवाक्यम् । तदत्रैकनिष्ठस्य गुणस्याभिधाने तदितरगतत्वेन सामर्थ्यात् कल्पनं, धर्मसामान्यप्रयुक्तत्वादुपमानोपमेयस्य सन्निधानादेकत्र श्रुतोऽपि साधारणो धर्मोऽपरत्रानुमीयत इति बह्वपेक्षत्वं केचिदाहुः ।
तदेतदुक्तं भाष्ये--`यदि तावदेवं विग्रहः क्रियते, शस्त्रीव श्यामा देवदत्तेति, शस्त्र्यां श्यामेत्येतदपेक्ष्यं स्यात् । अथाप्येवं विग्रहः क्रियते यथा शस्त्री श्यामा तद्वदियं देवदत्तेति । एवमपि देवदत्तायां श्यामेत्येतदपेक्ष्यं स्यादि'ति ।। 421 ।।
ननु विग्रहवाक्यं लौकिकार्थानुगुणं प्रदर्शनीयमित्युभयत्रापि श्यामाशब्दो वाक्ये प्रयोक्तव्यः । वृत्तौ तु द्वितीयस्य श्यामाशब्दस्यान्तर्भूतत्वादप्रयोग इति कथं बह्वपेक्ष्यमित्यत आह--
अथ श्यामेव शस्त्रीवं श्यामेत्येवं प्रयुज्यते ।
शस्त्री यथेयं श्यामेति तावदेव प्रतीयते ।। 422 ।।
श्यामा शस्त्री यथा तथा इयं देवदत्ता श्यामा इत्येवं द्वयोः श्यामाशब्दयोरूपमानोपमेयगतयोः प्रयोगे शस्त्री यथेयं श्यामेति सकृच्छ्यामाशब्दप्रयोगे यत्परिमाणं वस्तु तावत् तत्परिमाणमेवावगम्यते ।। 422 ।।
तथाहि--
उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः ।
पृथग् द्वयोः श्रुतोऽप्येष नेष्टस्यार्थस्य वाचकः ।। 423 ।।
वस्तुमात्रोपलक्षणाय गुणशब्दस्योपादानेऽसकृत्प्रयोगेऽपि नेष्टस्यौपम्यस्य प्रतिपादनं स्यात् । या श्यामगुणोपलक्षिता शस्त्री, सा धर्मान्तरेणापि तथाभूताया देवदत्तायाः परिच्छेदिकेत्यपि प्रतीतेरैपम्यनिबन्धनत्वं नियोगतः श्रुतस्यासकृत्प्रयोगेऽपि न गम्येत ।। 423 ।।
अथोपमायां सव्यापारत्वमत्र श्रुतस्य, तदा--
उपमेयं तु यद् वाच्यं तस्य चेत् प्रतिपादने ।
सव्यापारा गुणास्तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ।। 424 ।।
उपमानसम्बन्धेन परिच्छेद्यमुपमेयं यत् प्रधानं वाच्यमभिधेयं, तस्य रूपविशेषप्रज्ञापने यदि व्यापृता गुणा नोपलक्षणमात्रार्थाः, तदैकगुणप्रयोगेऽपि सर्वस्योपमानस्यापि गुणप्रतिपादनं सामर्थ्यादिति द्विरभिधानं नोपयुज्यते । सादृश्यावच्छेदेन हि सम्बन्धं नियन्तुं गुणस्योपादानमिति यथाविवक्षितार्थप्रतिपत्तिर्भवति । तदेवमुपमाने उपमेये वा वृत्तौ सामान्यवचनस्य इतरगतत्वेनापेक्षणाद् बह्वपेक्ष्यमिति `तस्यामेवोभयं वर्तत' इत्येष एव सिद्धान्तो भाष्यकारेणावस्थापितः ।। 424 ।।
अतः परं वाक्यकारः पपाठ--`उपमानसमासे गुमवचनस्य विशेषभाक्त्वात् सामान्यवचनाप्रसिद्धिरि'ति ।
तदेतद् व्याचष्टे--
प्रकाराधारभेदेन विशेषे समवस्थितः ।
शब्दान्तराभिसम्बन्धे सामान्यवचनः कथम् ।। 425 ।।
पूर्वं `साधारणं ब्रवन् धर्मम्' (वा.प.वृ.385) इत्यादिना सामान्यवचनत्वे प्रतिपादितेऽप्युपमेयगतत्वेनोपमानगतत्वेन वा गुणस्येहोक्तत्वादेकतरोपक्षये कथं साधारण्यमित्याक्षेपोऽयमुपपद्यते । तथाह्याधारनिष्कर्षेण गुणमात्राभिधानेऽनियतेनाधारेणावच्छेदाद् भवेत् सामान्यवचनत्वम् ।
तदा चायं गुणः स्वप्राधान्येनाभिधीयमानोपमायां सव्यापारः, अपितु धर्मान्तरेणोपमानिमित्तेन सम्बध्यते । यथोक्तं--`धर्मः समानः श्यामादिः' (वा.प.वृ.377) इत्यादि ।
यदापि साधारणगुणनिमित्तस्तत्त्वाध्यारोपस्तदा सामान्यवचनस्य प्रयोग एव नास्ति । यदा पुनरभेदोपचारान्मतुब्लोपाद् वा द्रव्यसमानाधिकरणो गुणवचनस्तदायं समानाधिकरणः समासः । सामान्यं साधारणो धर्मो गुणः, तमुक्त्वा तद्वति यो वर्तते, स सामान्यवचन इत्युक्तम् । तत्र चाधारेण नियतेन योगात् तद्भेदेन विशिष्ट एव गुणः संसर्गिधर्मान्तरादिभेदाद् वा । यथोक्तं--`गुणानामाश्रयाद् भेदः स्वतो (वा.प.वृ. 372) इत्यादि ।
यद्यपि चैकत्र श्रुतोऽन्यत्र सामर्थ्यात् प्रतीयत इत्युक्तं, तथापि वचनग्रहणादिहाभिधाव्यापारेण साधारण्यं विवक्षितं, न श्रुत्यर्थाभ्याम् । श्यामाशब्दश्च गुणमात्रस्यापि प्रतीतौ शब्दान्तरेणोपमानवाचिना वा योगात् तन्नियतत्वेन विशेषवृत्तिरेव ।
ननु चासौ वाक्यार्थो न पदसंस्कारं प्रतिबध्नाति । नैतदस्ति । निरस्तावयवभेदस्य वृत्तिपदस्यान्वाख्येयत्वात् पूर्वपदोत्तरपदप्रविभागे क्रियमाणे तदर्थानुसारेणैवापोद्धारपदार्थः प्रविभजनीयः । तत्र च विशिष्टार्थवचन एव श्यामाशब्दः प्रविभक्तुं न्याय्य इति कथं सामान्यवचनता ।। 425 ।।
अत्र परिहारः--
सादृश्यमात्रं सामान्यं द्विष्ठं कैश्चित् प्रतीयते ।
गुणो भेदेऽप्यभेदेन द्विवृत्तिर्वा विवक्षितः ।। 426 ।।
व्यापारो जातिभागस्य द्रव्ययोर्वाभिधित्सितः ।
रूपात् सामान्यवाचित्वं प्राग्वा वृत्तेरुदाहृतम् ।। 427 ।।
उभयगतं सादृश्यमात्रं सामान्यशब्देनात्र विवक्षितम् । सादृश्यं च भेदाभेदाभ्यामेव भवति । तथा चैकगतत्वेनाप्यभिधाने तस्यान्यापेक्षत्वादभिधाव्यापारादेवोभ्यनिष्ठतावगम्यत इत्युपपद्यते सामान्यवचनत्वम् । गुण एवात्र प्रकाराधारविशिष्टोऽप्युपमायां व्यावृत्तोऽविशेषेणोपमानोपमेयगतो विवक्षितः । सामान्यवचनशब्दस्य प्रत्याययितुमिष्ट इत्यर्थः । तथा चान्वयिना रूपेणोच्यमानो गुण एव सादृश्यम्, न ततोऽर्थान्तरम् । तदेतदुक्तं भाष्ये--`न चावश्यं स एव सामान्यवचनो यो बहूनां सामान्यमाह । द्वयोरपि यः सामान्यमाह, सोऽपि सामान्यवचनः' इति ।
यत्तु वाक्यकारेणोक्तम्--`न वा श्यामत्वस्योभयत्र भावात् तद्वाचकत्वाच्च शब्दस्य सामान्यवचनप्रसिद्धिः' इति । तद् व्याचष्टे--व्यापारो जातिभागस्येत्यादिना । द्रव्ययोरुपमानोपमेयलक्षणयोर्गुणजातेर्व्यापारो गुणाभेदप्रत्ययकरणद्वारेणौपम्यसम्बन्धप्रत्यायनं सामान्यवचनेन विवक्षितम् ।
यद्यपि गुणजातिः सकवाश्रयसमवेताऽऽभिन्नत्वान्नोपमायामुपयोगिनीत्युक्तम्, तथापि स्वधारहकसूक्ष्मविशेषोपरागादवान्तरसामान्यरूपतामापन्ना सादृश्यशब्दवाच्यौपम्योपयोगिनी भवति । तथा च जात्यापादिताभेदस्य श्यामत्वगुणस्योभयत्रोपमानोपमेययोः समवेतस्याभिधायकः सामान्यवचनशब्दः । तदाह--`रूपात् सामान्यवाचित्वम्' इति ।
उपमानोपमेयगतस्य गुणस्य रूपसामान्यावेशादभिन्नस्य प्रत्यायने सामान्यवचनता श्यामादेः शब्दस्य सिध्यतीत्यर्थः । अभेदोपचाराद् द्रव्यवृत्तिता चात्र शब्दस्येति द्रव्ययोरित्याह । परिहारान्तरं स्पष्टमिदं भाष्येऽभिहितम् । `अथवा सामान्यवचनैरित्युच्यते । सर्वः शब्दोऽन्येन शब्देनाभिसम्बध्यमानो विशेषवचनः संपद्यतेऽत एवं विज्ञास्यामः प्रागभिसम्बन्धाद् यः सामान्यवचनः' इति । तदेवाह--`प्राग् वा वृत्तेरुदाहहृतम्' इति ।
आभिमुख्येनान्योन्यरूपसम्मिश्रणेन सम्बध्यन्ते यस्मिन्नर्था इति समासोऽभिसम्बन्धशब्देन विवक्षितः, तत्रार्थानां निर्विभागत्वात् । यथा `विशेषणं विशेष्येण', (पा. 2/1/57) `द्वितीया श्रितादिभिः (पा. 2/1/34) समानाधिकरणेन' (पा.2/1/49) "अर्धं नपुंसकम्" (पा. 2/2/2) इत्यादिव्यवहारो वाक्यगतभेदभावनावशादाश्रीयते, तथा सामान्यव्यवहारोऽपि ।
तथाहि--वृत्तिवाक्ययोः संसृष्टासंसृष्टार्थतया सत्यपि भेदे रूपसामान्यादभेदाभिधानोपपत्तेर्वाक्यगतैर्धर्मैर्वृत्त्यान्वाख्यानमपोद्धारपदार्थकल्पनयोपपद्यत एव । ततश्च समासे सामान्यस्योपमेयावरुद्धत्वेऽपि ततः पूर्वं वाक्ये विच्छिन्नार्थप्रत्यायकपदप्रयोगे विशेषावरोधाभावात् सामान्यवचनतोपपत्तिः ।
यद्वा सामान्यमुक्तवान् सामान्यवचन इति वाक्यावस्थापरिदृष्टं सामान्यवचनत्वं भूतपूर्वगत्याश्रीयते । यथा शस्त्रीशब्दस्य वृत्तावुपमेयवृत्तित्वेऽपि भूतपूर्वगत्योपमानवाचित्वमिति सर्वेष्टसिद्धिः ।। 426,427 ।।
इदानीम् "उपमितं प्याघ्रादिभिः" (पा. 2/1/56) इत्यत्र भाष्यं विचार्यते । तथाहि-तत्र सामान्यवचनस्य प्रयोगे शूरशब्दस्य पुरुषोऽयं व्याघ्र इव शूर इति समासो मा भूदिति सामान्याप्रयोग इत्युच्यते । अत्र च पूर्वोत्तरपदयोरुपमानोपमेयार्थऊभेदाद्वैयधिकरण्यादेव समासस्याप्रवृत्तिः ।
यद्येवं मूलोदाहरणेऽपि पुरुषव्याघ्र इति कथं सामानाधिकरण्यमित्यत आह--
व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थोऽवतिष्ठते ।
तदाधिकरणाभेदात् समासस्यास्ति सम्भवः ।। 428 ।।
शौर्यादिसमानगुणान्तर्भावनेनोपमानवचना अपि व्याघ्रादयो यदा तत्त्वाध्यारोपादुपमेयवृत्तयो भवन्ति, तदा समानाभिधेयत्वात् समानाधिकरणाधिकारविहिता वृत्तिरुपपद्यते, पुरुषव्याघ्र पुरुषसिंह इति । अत्र च सामान्यधर्मस्यान्तर्भावादप्रयोगः ।। 428 ।।
यदा तु स प्रयुज्यते, तदा--
शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः ।
भिन्नेऽधिकरणे वृत्तेस्तत्र नैवास्ति सम्भवः ।। 429 ।।
स्वशब्देनैव सामान्यधर्मस्योपमेयगतस्याभिधाने मृगजातीये स्वार्थ उपमान लक्षण एव व्याघ्रशब्दो वाचकत्वेन वर्तते, नोपमेये पुरुषे; भेदसम्बन्धस्योद्भूतस्येवादिना द्योतितत्वादभेदेनायोगात् ।
एवञ्च भिन्नाधिकरणत्वात् प्राकरणिकः समासो न प्राप्नोतीति किं प्रतिषेधेनेत्यर्थः ।। 429 ।।
एतत् समर्थयते--
सामानाधिकरण्येऽपि गुणभेदस्य सम्भवात् ।
प्रयोगः शूरशब्दस्य समासेऽप्यनुषज्यते ।। 430 ।।
यदापि समानगुणान्तर्भावनेन व्याघ्रशब्दः पुरुषे वर्तते, तदापि शूरशब्दस्य प्रयोगः स्यात्, समानस्य धर्मस्य नियमख्यापनाय । अन्यथा सामानाधिकरण्यान्यथानुपपत्त्याध्यारोपहेतुनियतो गुणः प्रतीयते ।
तथाहि--गुणभेदस्यास्ति सम्भवो व्याघ्रे, शौर्यहिंस्रत्वबलवत्त्वादिरपि गुणः सम्भवादन्तर्भूत इत्यवधार्यते । तथा च नियमाय शूरशब्दप्रयोगेऽपि समासः स्यादित्यर्थवान् प्रतिषेधः ।। 430 ।।
ननु सिंहो व्याघ्र इति पूजायाम्, श्वा काक इति कुत्सायामित्युद्धोष्यते । तथा च पुरुषव्याघ्रः, पुरुषसिंह इति शोर्यमेव पूजार्थमन्तर्भूतो गुण इति कथमनियम इत्याशङ्क्याह--
पूजोपाधिश्च यो दृष्टः कुत्सनोपाधयश्च ये ।
तेषां भिन्ननिमित्तत्वान्नियमार्था पुनः श्रुतिः ।। 431 ।।
पूजाप्रतिपादनपरतया ये गुणा उपमेयोपकारिणोऽन्तर्भाव्यन्ते उपमानेन ते बहवो व्याघ्रादेः प्रकरणभेदगताः । ततश्च सामान्यशब्दादस्मान्नियमेन नावगम्यन्त इति पुनः श्रुतिः शूरादिशब्दोऽवधारणार्थः प्रयोक्तव्य एव ।
तद्यथा--`अभिमनायते, सुमनायते, दुर्मनायते' इत्यत्र सुदुरभीनां प्रत्ययार्थविशेषणपक्षे गतार्थानामपि प्रत्यय--प्रयोगाद्रपसामान्यात् प्रत्ययान्तस्य मनायत इति सर्वसाधारण्याद् विशेषानभिव्यक्तौ प्रयोगस्तादर्थ्येनोपपद्यते, तथात्र ।
एवं पुरुषवाक इति निन्दाप्रतिपादनपरतयापि प्रयोगे काकगताशुचिभक्षणानवस्थायितादयो निन्दाहेतवो बहव इति नियमाय पुनः श्रुतिः साधारणवचनस्येति समासप्राप्तौ युक्तः प्रतिषेधः ।
चन्द्रमुखादौ तु प्रसिद्धिवशाद् विशिष्टधर्मप्रतिपत्तिरुक्ता । इहापि प्रकरणादिवशाद् विशेषप्रतिपत्तावपि यदा प्रकरणाद्यभावस्तदा प्रयोगे साधारणवचनस्य समास निषेध उपपद्यत एव ।। 431 ।।
किं वात्र सामानाधिकरण्यसमर्थनेन । तथाहि--सामान्यप्रयोगेऽपि सापेक्षत्वेनासामर्थ्यात् समासाप्राप्तौ प्रधानस्य सापेक्षस्यापि भवति समास इति ज्ञापकार्थमेतदुक्तम् । एवञ्च वैयधिकरण्येन समासाप्राप्तावपि भवत्येवैतज्ज्ञापकमित्याह--
असम्भवेऽपि वा वृत्तेः स्यादेतल्लिङ्गदर्शनम् ।
अच्वेरिति यथा लिङ्गमभावेऽपि भृशादिषु ।। 432 ।।
वैयाधिकरण्यादसम्भवेऽप्राप्तौ वृत्तेः समासस्य तत्सम्भावनया यदेतत् सामान्याप्रयोग इति वचनम्, तत् सुतरामेव लिङ्गदर्शनं ज्ञापकं भवेत् । न केवलं सापेक्षात्वादसामर्थ्यम्, यावद् वैयधिकरण्यादपि । प्रधानस्य च स्वातन्त्र्यादनेकविशेषणयोगोपपत्तिर्न्यायसिद्धा । गुणो ह्येकेन वशीकृतो नान्येन सम्बध्येत । गुणत्वमेव हि तदा जह्यात् । प्रधानस्य युगपदनेकेनोपकारिणा सम्बन्धो भूषणमेव, प्राधान्यस्य परिपोषणादिति न्यायसिद्धेऽर्थे लिङ्गदर्शनमिदम् । दृष्टं चासम्भवेऽपि सम्भावनामात्रेणोपादीयमानं लिङ्गम् ।
तद्यथा--"भृशादिभ्यो भुव्यच्वेः" (पा. 3/1/12) इत्यत्र भवत्यर्थे क्यङो विधाने, तत्रैव भवतियोग च्विप्रत्ययस्यापीति च्वावुत्पन्ने तेनैव भवत्यर्थस्योक्तत्वात् तदन्तेभ्यो भृशादिभ्यः क्यङोऽनुत्पत्तौ सिद्धायामपि प्राप्तिं सम्भाव्यच्वेरिति प्रतिषेधः क्रियमाणो लिङ्गं यत्रार्थे च्विस्तत्रैव क्यङित्यस्यार्थस्येत्यभूततद्भावे क्यङ् सिद्धो भवति, अभृशो भृशो भवति भृशायत इति ।
एवमिहापि वैयधिकरण्यादेव समासाप्राप्तौ प्राप्तिसम्भावनया सामान्याप्रयोग इति प्रतिषेधः प्रधानस्य सापेक्षस्यापि भवति समास इत्यस्यार्थस्य लिङ्गं जायते । तेन राजपुरुषः शोभन इत्यादि सिद्धम् ।
उपमेयगत्वे चात्र सामान्यवचनस्या प्रधानगामिता भवति, नान्यथेति प्रागेव निर्णीतम् ।। 432 ।।
इदानीमुपमानप्रसङ्गेनेदमपरं विचार्यत इत्याह--
वत्यन्तावयवे वाक्ये यदौपम्यं प्रतीयते ।
तत्प्रत्ययविधौ सूत्रे निर्देशोऽयं विचार्यते ।। 433 ।।
ब्राह्मणवदधीते, क्षत्रियवद् युध्यते, वैश्यवदर्जयतीति वत्यन्तपदैकदेशकं यद् वाक्यम्, तत्रोपमानोपमेयभावलक्षणः सम्बन्धोऽवधार्यते ।
तथा ह्यद्ययनादिक्रियालक्षणोऽत्र समानो धर्म उपमेयगतत्वेन श्रूयते । अर्थादुपमानगतत्वेन प्रतिपत्तिरिति भवत्यैपम्यस्यावगमः । तस्यैपम्यस्य प्रतिपादको योऽत्र प्रत्ययो वतिः, तद्विधायके सूत्रे "तेन तुल्यं क्रिया चेद् वतिः" (पा. 5/1/115) इत्यत्र योऽयं निर्देशः, स परीक्ष्यते ।
तथा हि--प्रकृत्यर्थत्वेन वात्र क्रिया निर्दिश्येत, प्रत्ययार्थत्वेन वा । यद्यपि प्रकृत्यर्थत्वेन प्रत्येया, धर्मसाधारण्यप्रयुक्तत्वादुपमानोपमेयभावस्येतिफलाभेदः, तथापि कः सम्बन्धी क्रियायां न्याय्यः, लक्ष्यव्यवस्था च कथं न भिद्यत इत्यस्ति विचारस्य प्रयोजनम् ।। 433 ।।
तत्रेदं भाष्यम्--`इदमयुक्तं वर्तते । किमत्रायुक्तम् ? यत् तृतीयासमर्थं क्रिया स्यात्' इति । तत्र कोऽभिप्रायो भाष्यकारस्य ? येन तृतीयासमर्थं क्रियेति प्रकृत्यर्थविशेषणपक्षमभ्युपगम्याक्षिपतीत्यत आह--
क्रियेत्युपाधिः प्राथम्यात् प्रकृत्यर्थस्य यद्यपि ।
न प्रातिपदिकं तत्र क्रियावाच्युपपद्यते ।। 434 ।।
तेनेति समर्थविभक्तिरर्थविशेषनिबन्धना । तथा ह्युपमेयापेक्षया तदुपकारायोपसर्जनीभूतः परिगृहीतव्यतिरेकः प्रकृत्यर्थ उपमानलक्षणः (प्रत्ययार्थेन) प्रत्ययार्थत्वेन समन्वययोग्योऽनया व्यतिरेकविभक्त्या ज्ञाप्यत इति समर्थविभक्तिरियमुच्यते ।
सामर्थ्यं च प्रकृत्यर्थस्य प्रत्ययार्थेनेति प्रकृतेरियं विभक्तिः । तुल्यमिति प्रत्ययार्थः । प्रत्ययसन्निधौ तस्यानधिगतस्यावसायात् । तत्र क्रियेति विशेषणमुपादीयमानं सन्निहितत्वात् प्रकृत्यर्थेन वा सम्बध्येत प्रत्ययार्थेन वा ।
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिश्च पदार्थानां गुणविनियोगादिह स्थानान्नियमः ।
तथाहि--प्रथमस्थानपतितं तेनेत्येतदिति तस्यैव क्रमव्यतिक्रमे प्रयोजनाभावाद् युक्तं क्रियेति विशेषणम् । तद्यथा--"सास्य देवता" (पा. 4/2/24) इति सेत्यस्योपाधिर्देवता । "तेन रक्तं रागाद्" (पा. 4/2/1) इति च तेनेत्यस्य रागादिति विशेषणम् ।
पञ्चामीनिर्देशादेव प्रकृत्यर्थविशेषणतात्र, न स्थानबलात् ।
तदेवं यद्यपि तृतीयासमर्थं क्रियेति न केनचिदत्र प्रथममुक्तम्, तथापि न्यायबलात् क्रियेत्युपाधिः प्राथम्यात् प्रकृत्यर्थस्येति युक्तम् `यत् तृतीयासमर्थं क्रिया चेत् सा भवतीत्युच्यते' इति भाष्यम् । न्यायायातोऽमर्थोऽवश्याभ्युपगमनीय इत्युक्त कल्पत्वादुच्यत इति भाष्ये व्यपदिष्टः । तत्र तृतीया सत्त्ववाचिनः प्रातिपदिकाद् विधीयते ।
न च तत् क्रियावाचि, साध्यमानरुपायाः क्रियायास्तिङ्न्तैकगोचरत्वादिति कथं तृतीयासमर्थस्य क्रियेत्यनेन विशेषणम्, असम्भवादित्याक्षेपः ।। 434 ।।
विशेषणसामर्थ्यात् क्रियावाचि, तर्हि तृतीयासमर्थं भविष्यतीत्याह--
सत्त्वृत्तस्य शेषे वा तृतीया साधनेऽपि वा ।
तिङामसत्त्वाचित्वादुभयं तन्न विद्यते ।। 435 ।।
सत्त्वं सीदन्त्यस्मिन् जातिगुणक्रिया इति इदं तदिति व्यपदेशयोग्यं द्रव्यमुच्यते । तत्र वृत्तस्य प्रातिपदिकस्य तृतीयया योगः ।
तथाहि--स प्रातिपदिकार्थः परोपकाराधानयोग्यत्वात् तदुपकारोपजनितव्यतिरेकस्तद्वाचिकां विभक्तिमाश्रयते ।
स च व्यतिरेकः क्रियाकारकसम्बन्धनिमित्तः कश्चिच्छेषसम्बन्धः । तद्यथा--अध्ययनेन वसति । दध्ना जडः । तपसा कृशः । धनेन कुलमिति हेतुहेतुमद्भावोऽयं शेषसम्बन्धः ।
कश्चित् पुनः क्रियाकारकसम्बन्ध एव व्यतिरेकः, तत्रापि तृतीया तद्यथा--दात्रेण लुनाति । परशुना छिनत्तीत्यादि ।
तदेतद् द्वयमपि तृतीयानिमित्तं क्रियावाचिनां तिङामसम्भवि । आख्यातस्य क्रियावाचिता ।
क्रिया च साधनव्यापारास्वभावा प्रसृतावयवा साध्या सिद्धस्वभावद्रव्यविलक्षणेति साध्योपयोगिनीनां शक्तीनामनाश्रयः । सिद्धस्वभावानां चार्थानामन्योन्योपकारे साधनशक्तिप्रभावितः शेषसम्बन्धः, न तु साध्यस्वरूपायाः क्रियाया इति नास्ति क्रियावाचिन आक्यातात् तृतीया ।
क्रियावाचिनस्तृतीयासमर्थताविरोधप्रतिपादनतात्पर्याच्चाप्रातिपदिकत्वं तिङन्तस्यानुपात्तम्, अर्थविरोधादेव तृतीयानुपपत्तेः सिद्धत्वात् ।
यद्यपि च तुल्यार्थे वतिविधानात् तन्निमित्ता शेषविषयैवेह तृतीया सम्भाव्यते, तथापि सर्वथाऽसम्भवमाख्यातुं साधनेऽपि तृतीयोपन्यस्ता ।
ननु च "करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववतनस्य" (पा. 2/3/33) इत्यसत्त्वभूतार्थाभिधायिनोऽपि करणभाव उक्तः । सर्वथाऽसत्त्वभूतत्वे क्रियां प्रति साधनत्वायोगात् करणभावोऽघटमानः स्यादिति धर्ममात्रवचनोऽत्र विवक्षितः ।
धर्ममात्रस्य हि द्रव्यायमाणस्य स्वेनात्मना सिद्धत्वात् करणभावोपपत्तिः । क्रिया तु साध्यत्वेनालब्धस्वभावा सर्वथा नान्यत्रोपकाराय प्रभवति ।। 435 ।।
पाकारयस्तर्हि क्रियावचनास्तृतीयासमर्था भविष्यन्तीत्यत आह--
पाकादस्तृतीयान्ताः सत्त्वधर्मसमन्वयात् ।
न क्रियेत्यपदिश्यन्ते कृत्वोर्थप्रत्यये यथा ।। 436 ।।
धात्वर्थसिद्धतायां घञादीनां विधानाद् द्रव्यधर्मेण सिद्धत्वेन योगान्न तदन्ताः क्रियाभिधायिन इत्याख्यायन्ते । अत एवैषामक्रियावचनत्वाल्लपिङ्गसङ्ख्यासमन्वयोपपत्तौ कृदभिहितो भावो द्रव्यवदित्युच्यते । सिद्धता च क्रियाधर्मो न द्रव्यं भवतीति द्रव्यवदिति वतिनिर्देशः ।
उपसंहृतसाधनव्यापारत्वात् सिद्धावस्था साध्यत्वाभावान्न क्रिया, अपितु भूतपूर्वया क्रियया व्यपदिश्यते तद्धर्म इति । न तु सिद्धतायामेव साध्यातास्ति, विरोधाद् यौगपद्यासम्भवात् ।
एवञ्च कृत्वा घञाद्यन्तप्रयोगे क्रियाव्यावृत्तिगणने वाच्ये ये प्रत्ययास्ते न भवन्ति । पञ्चकृत्वः पाकः, द्विः पाक इति । अतश्चाभ्यावृत्तिग्रहणं पञ्च पाका इत्येतद् व्यवच्छेदार्थम् ।
अन्यथा धर्मधर्मिणोरभेदप्रतिपत्त्या स्यादत्र क्रियागणनात् प्राप्तिः । साध्यस्य त्वर्थस्याव्यावृत्त्या पुनः पुनः प्रवृत्तिरूपया योगः ।
यदि च घञादिवाच्यः साध्यः स्यात्, सोऽप्यव्यावृत्तिविषयैः प्रत्ययैर्युज्यते । न च युज्यते । तस्मादत्र कृत्वोर्थप्रत्ययविषये तदनुत्पत्त्यैव यथा पाकादयो न क्रियावचना इति निश्चीयन्ते, तथा सर्वत्रैषा क्रियाभिधायित्वाभावो न्यायसिद्ध इत्यर्थः ।। 436 ।।
एवं तर्हि तुमुनः स्वार्थे विधानात् क्रियावाचि तदन्तं प्रातिपदिकमस्ति । तथा च पञ्चकृत्वो गन्तुमिति कृत्वोर्थप्रत्यययोगस्तुमुनन्तस्य । ये च तुमुन्नर्थे विधीयन्ते क्त्वाप्रभृतयः, तेऽपि साध्यार्थवाचिनो युज्यन्ते च कृत्वोर्थैर्द्विर्भुक्त्वेत्याशङ्क्याह--
ये चाव्ययकृतः केचित् क्रियाधर्मसमर्न्विताः ।
तेषामसत्त्वाचित्वं तिङ्न्तैर्न विशिष्यते ।। 437 ।।
यान्येतान्यव्ययानि कृदन्तानि, तेषां भाव्यमानरूपोऽर्थो वाच्य इत्याख्याततुल्यास्ते तद्वदेव तृतीयया न युज्यन्त इत्यर्थः । प्रातिपदिकार्थमात्रे तु प्रथमात्र न विरुध्यते ।। 437 ।।
कृत्यादिवाच्या तर्हि क्रिया स्वेन रूपेण सती क्रियान्तरसाधनं स्यादिति युज्यते तृतीययेत्यत आह--
कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया ।
उपमानोपमेयत्व तत्राप्यन्तमसम्भवि ।। 438 ।।
पञ्चकृत्वः शयितव्यमिति कृत्वोर्थप्रत्ययदर्शनाद् यद्यपि शयितव्यादयः साध्यस्वभावक्रियावचनाः तथाप्यत्र विषये उपमानोपमेयभावासम्भवान्नैते क्रियावाचिनस्तृतीयान्ताः प्रकृतित्वेनात्राभीष्टा इत्यर्थः ।
ननु च धातुनैव साध्या क्रियोपात्तेति शयितव्यादौ कान्या व्यतिरिक्ता क्रियाप्रत्ययार्थः स्यात् । न चैते प्रत्ययाः स्वार्थिकाः । `तयोरेव कृत्यक्तखलर्थाः"(पा. 3/4/70) इति भावकर्मणोर्विधानात् ।
अत्र प्रतिपाद्यते--इह धातुः कृद्विषयां साधनमवच्छिन्दन्तीं क्रियामवस्थान्तरपरिदृष्टेन भाव्यत्वेनोपलक्षितामाह, न वर्तमानेन भाव्यत्वेनोपलक्षिताम् । ततश्च प्रत्ययोपात्तसव्यापारसाधनसम्बन्धादभिव्यज्यते भाव्यता वर्तमानक्रियायाः ।
तद्यधा--`पचति देवदत्त'इत्यत्र लकारवाच्यकर्तृसम्बन्धाद् धात्वर्थो भाव्यतां भजते । एवं पाचक इत्यादौ ।
इत्थं चास्यते देवदत्तेनेत्यत्रापि लकारवाच्यभावनासम्बन्धाद् धात्वर्थो भाव्यतामनुभवतीति व्यतिरिक्तो भावो लकारवाच्यः, स एव कृत्यादिष्वनुवर्तते । `कृत्वा शयितव्यम्' इत्यादावपि भावे प्रत्ययविधिरिति बाह्योऽयं प्रत्ययवाच्यो भावः ।। 438 ।।
कथमत्रात्यन्तमुपमानोपमेयभावासम्भव इत्याह--
न केवलौ द्रव्यगुणौ तद्वान् वाप्युपमीयते ।
शयितव्यादिभिस्तेषु नोपमार्थोऽस्ति कश्चन ।। 439 ।।
शयितव्यादिवाच्यया क्रियया द्रव्यं वोपमीयेत, गुणो वा शुद्धः, तद्वान् द्रव्यवान् गुणी वेति पक्षभेदाः । तत्र स्वेनात्मना सिद्धत्वान्न द्रव्यमुपमेयम्, नहि शयितव्येन तुल्यो देवदत्त इति क्रियाद्रव्ययोः कश्चिदन्वयी धर्मः सादृश्यनिमित्तमस्ति। नापि शयितव्येन तुल्यं देवदत्तस्य स्वमिति द्रव्यवतः कश्चिदुपमार्थः ।
नापि शयितव्येन तुल्यः स्थूलः, शयितव्येन तुल्यं स्थौल्यमिति गुणगुणिनोरौपम्यं विद्यते, क्रियया सादृश्यहेतुधर्माभावात्, प्रसिद्धगुणक्रियाहेतुको ह्युपमानोपमेयभावश्चन्द्रमुखादौ दृष्टः, न चेह तथा प्रसिद्धिः ।। 439 ।।
तत्रैतत् स्यात्--सन्नपि क्रियाद्रव्यगुणादेः समानो धर्मोऽत्र न प्रयुज्यत इति सदृशधर्मान्तराभिधायिनः शब्दस्याप्रयोगादुपमानोपमेयभावानवगम इति ।
नैतद् युक्तमित्याह--
उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि ।
निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ।। 440 ।।
अनभिहितेऽपि सदृशे धर्मे प्रसिद्धिवशादुपमानोपमेयभावनिमित्तत्वेन गुणक्रिया निरूढसम्बन्धाः पदार्थैकदेशभावापन्ना इवाविनाभाविनः प्रतीयन्त एवेति न ते नियमेन श्रुतिमपेक्षन्ते ।
तथाहि--चन्द्रवन्मुखमस्या इत्युक्ते प्रियदर्शनत्वं कान्तिमत्त्वं चाश्रुतमपि प्रतीयत इत्युक्तमेव । एवमिहापि शयितव्येन तुल्य इत्युक्ते प्रतीयेत कश्चिद्धर्मो यद्युपमा युज्येत ।। 440 ।।
एवं तर्हि क्रियायां प्रत्यासन्नः क्रियावानुपमीयत इत्यत आह--
होतव्यसदृशो होतेत्यत्राप्यर्थो न विद्यते ।
विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते ।। 441 ।।
शयितव्येन तुल्यः शायकः, होतव्येन तुल्यो होतेति कृत्यान्तेन क्रियावचनेन स्वाश्रयः क्रियावानुपमेयो न युज्यते । क्रिया हि साध्यस्वभावा सिद्धस्वभावेन सह विरुद्धत्वान्न सम्बन्धक्षमा । साध्यत्वेन चाप्राप्तस्वरूपा क्रिया परं कथं प्रज्ञापयेत् । समानगुणयोगाच्चौपम्यम्, अत्यन्तभेदश्च क्रियाद्रव्ययोरित्यत्राप्यर्थ उपमायां प्रयोजनं नास्ति ।। 441 ।।
एवं तर्हि समानत्वात् क्रिययोरेव साक्षादुपमानोपमेयभावो भवत्वित्याशङ्क्याह--
क्रिया समानजातीय तद्भावान्नोपमीयते ।
जातिभेदेऽपि पाकेन (वा केन) भिन्नाः पाकादयः क्रियाः ।। 442 ।।
तुल्यजातीया क्रियान्तरस्योपमानं स्याद्, भिन्नजातीया वा ? पूर्वत्र पक्षे तद्भावादेकात्म्यान्नोपमेयाः क्रियाः ।
तथाहि--शयितव्येन तुल्यं शयितव्यम्, अध्येतव्येन तुल्यमध्येतव्यमित्यत्यन्ताभेदे गौरिव गौरितिवन्नोपमार्थः कश्चित् ।
तथा च भाष्यकारः--`यदि यदेवोपमानं तदेवोपमेयम्, क इहोपमार्थो गौरिव गौः' इति । भिन्ना अपि ह्यर्था एकजात्यावेशेनावधार्यमाणा नोपमाम्, भेदाश्रयत्वात् तस्येत्याशयः ।
द्वतीये तु पक्षेऽत्यन्भेदान्नोपमार्थः,, नहि भवति वक्तव्येन तुल्यं पठितव्यमिति । जातिभेदादेव ज्ञाते हि भेदे भिन्ना इति पुनर्वचनमुपमानहेतोः समानधर्मस्यासम्भवसूचनार्थम् । भिन्नजातीये हि समानधर्माभावान्नोपमार्थः ।
तथा च भाष्यम्--`अथान्यदुपमानमन्यदुपमेयम् । क इहोपमार्थो गौरिवाश्वः' इति । एवं न केनचित् प्रकारेणोपमानोपमेयत्वमत्रेत्यत्यन्तासम्भवीत्युक्तम् । गुणलेशेनापि यदपि साम्यम्, तदपीह न सम्भवतीत्यत्यन्तग्रहणेनाचष्टे ।
नापि भिन्नजातीयत्वेऽपि क्रियया द्रव्यगुणादीनां सत्त्वज्ञेयत्वादिभिर्धर्मैः सादृश्यमाश्रित्योपमा कल्पत इति वाच्यं, सत्त्वादिधर्माणां सर्वार्थसाधारण्यान्न निमित्तत्वमुपमायामत्र प्रत्यये सम्भवतीति पूर्वपक्षभाष्यं व्याख्यातम् ।। 442 ।। अत्रेदानीं शयितव्यादिगतानां सजातीयानां क्रियाणामुपमानोपमेयभावनिमित्तभूतं भेदमुपपादयितुमाह--
आधारभेदाद् भिन्नायामुपमानस्य सम्भवः ।
अध्येतव्येन विप्राणां तुल्यमध्ययनं विशाम् ।। 443 ।।
तुल्यचातीयायाः क्रियाया आश्रयभूतद्रव्यभेदाद् विशेषजात्यनुगमाच्च साम्ये भेदाभेदप्रयुक्तस्योपमात्वस्यास्ति सम्भवः ।
तथाहि--ब्राह्मणानामध्येतव्येन सदृशमिदं क्षत्रियादीनामध्ययनम्, राज्ञः शयितव्येन तुल्यं देवदत्तस्य शयितव्यमिति प्रयोगो दृष्टः ।। 443 ।।
ननु चात्र क्रियावचनः शब्दो भेदप्रतिपत्तये अधिकरणमपेक्षमाणः सापेक्षत्वादसमर्थो भवन्नानुभवति तद्धितवृत्तिमित्याशङ्क्याह--
अर्थात् प्रकरणाद् वापि यत्रोपेक्ष्यं प्रतीयते ।
सामर्थ्यादनपेक्षस्य तस्य वृत्तिः प्रसज्यते ।। 444 ।।
यस्मिन् विषये सामर्थ्यात् कुतश्चित् प्रस्तावाद् वा यदापेक्षणीय आधारो निर्ज्ञातो भवति, तदाध्येतव्यादेरेव शब्दाश्रयविशेषावच्छेदस्यावगमात् तद्वाचकपदप्रयोगमन्तरेणानपेक्षोऽसावनुभवेत् सामर्थ्यनिबन्धनां वृत्तिम् । ब्राह्मणाध्येतव्येन तुल्यं क्षत्रियाध्येतव्यम्, राज्ञः शयितव्येन तुल्यं देवदत्तशयितव्यमित्यत्र च समासे कृते भेदाभावादेकार्थीभावे सति सोपक्षत्वाभावः ।
तथा स्थातव्येन तुल्यं गमनम्, मन्दत्वात्, नृत्तेन तुल्यं गमनं बहुविकारत्वादिति भिन्नजातीया नामपि क्रियाणामस्त्येवोपमानोपमेयभावः । कृदभिहितस्य च भावस्य न केवलं द्रव्यवद्भावः, क्रियावद्भावोऽपि दृश्यते ।
तथाहि--भोक्तुं पाकः, बोद्धुं पाठः, कारकस्य गतिरिति क्रियायामुपपदभूतायां विधीयमानौ तुमुन्ण्वुलौ दृश्येते घञाद्यन्तेष्वप्युपपदेष्विति तेषां क्रियाधर्मवत्त्वनिश्चयः।। 444 ।।
ननु चात्र धातुभागवाच्यक्रियाश्रयेण तुमुन्ण्वुलौ भविष्यतः । नैतदस्ति, प्रत्ययवाच्यायाः क्रियागताया निर्वृत्तेरेव सुतरां भोजनाद्यर्थत्वात् । यद्येवं क्रियाशब्देनोपपदस्य निर्देशे कथं सिद्धरूपता, तद्धर्मोऽप्युपपदत्वेन गृह्यते । धर्मधर्मिणोरभेदाश्रेयण क्रियाशब्देन धर्मस्यापि प्रत्यायनमविरुद्धमित्यदोषः ।
एवं तर्हि कृत्त्वोर्थप्रत्यया अपि कथं न भवन्ति घञाद्यन्तप्रयोगात् ? उच्यते, अभ्यावृत्तिग्रहणात् तत्र क्रिया कर्तव्यतात्मकेन स्वेनैव रूपेणोपयुज्यते, न सिद्धतया, निर्वृत्तस्यानिर्वर्त्यतया पुनः प्रवृत्त्ययोगात् । ततश्चाख्यातप्रयोगमन्तरेण तत्र क्रियायाः कर्तव्यतानवगमादभ्यावृत्त्यभावात् प्रत्ययाभावः । आख्यातप्रयोगे तु वाक्यपरिसमाप्तिः, स्तत्राख्यातस्य साध्यस्वभावक्रियाभिधायित्वादिति तदाश्रयः कृत्वोर्थप्रत्ययो भवति, पञ्चकृत्वः पाको वर्तत इति ।
ननु च धर्मधर्मिणोरभेदाश्रयेण भोक्तुं पाक इति क्रियोपपदनिमित्तः प्रत्ययो भवतु, निर्वृत्तेर्भोजनार्थत्वापपत्तेः ।
तथा च समन्वयः पदानाम् । ओदनस्य पाक इत्यादौ तु कथं कर्मणा समन्वयः, प्रत्यार्थत्वेन प्रधानभूतस्य सिद्धताख्यस्य साधनसंबन्धानुपपत्तेः । साध्यस्यैव हि कारकैर्योगः । सत्यम्, उपसर्जनभूतधात्वर्थद्वारकस्तु कर्मयोगः ।
यद्येवमभ्यावृत्त्याप्युपसर्जनभूतसाध्यस्वभावधात्वर्थद्वारेणास्तु योगः । न भवति, विरोधात् ।
तथाहि प्रधानस्यार्थान्तरैः संबन्धो गुणधर्मेण स्वभावविरोधिना न भवति । अभ्यावृत्तिर्हि सिद्धताविरोधिनी, निवृत्तस्य पुनः प्रवृत्त्ययोगात् तद्वाच्यमपि क्रिया तृतीयान्ता संभवत्यत्रोपमानभूता प्रत्ययार्थ इत्याह--
तैलापाकेन तुल्ये च धृतपाके विवक्षिते ।
क्रियावदपि कार्याणां दर्शनात् प्रत्ययो भवेत् ।। 445 ।।
न केवलं कृदभिहितस्य भावस्य द्रव्यवत् कार्याणि लिङ्गसंख्यायोगलक्षणानि दृश्यन्ते;यावत् तुमुन्नादीनीति प्रदर्शितम् ।
एवञ्च तैलपाकेन तुल्यो घृतपाक इति तृतीयासमर्थात् क्रियावाचिनो वतिर्भवेत् । सापेक्षत्वं चात्र नास्ति, एकपदोपात्तत्वादधारस्य ।। 445 ।।
घञाद्यन्त उपपदे क्रियावत् कार्ययोस्तुमुन्णवुलोर्भाव वार्त्तिककारमतं संवादकमाह--
अतिङ्ग्रहणमेवं तु समासस्य निवर्तकम् ।
गमनं कारकस्येति ण्वुल्यन्यस्मिन्न संभवेत् ।। 446 ।।
"उपपदमतिङ्"(पा.2/2/29) इत्यत्र सुपसुपेत्यधिकारात् तिङ्न्तस्योपपदस्य कारको व्रजतीत्यादौ समासप्राप्तिरेव नास्तीति किमतिङिति प्रतिषेधेनेति चोदिते सति वाक्यकारः पपाठ--`उपपदमतिङिति तदर्थपतिषेधः' इति ।
तच्छब्देन तिङः परामर्शः । तस्यार्थो यस्य तस्याय सुबन्तस्य संभवतीति सामर्थ्यादुष्ट्रमुखवदुपमानगर्भः समासः । तस्येवार्थो यस्येति क्रियार्थस्येत्युक्तं भवति। अतिङित्यर्थप्रधानो निर्देशः इत्यर्थः ।
अत एव स्पष्टमिदं पठितव्यमित्याह--`क्रियाप्रतिषेधो वा' इति । उपपदमक्रियेत्येव विवक्षितार्थप्रतिपादकः स्पष्टः सूत्रन्यासः कर्तव्य इत्यर्थः ।
एवञ्च यत् क्रियाप्रधानं सुबन्तमुपपदम्, तस्य समासप्राप्तौ प्रतिषेधोऽयं संपद्यते । तद्यथा--कारकस्य गतिः, कारकस्य गमनम्, कारकस्य ब्रज्येत्युदाहृतम् ।
एतच्च कथमुपपद्यते यदि गत्याद्युपपदेषु तुमुन्ण्वुलौ भवतः । अन्यथा सिद्धतावचनत्वात् तदभावे कथमिदं समासप्रतिषेधस्य प्रयोजनं स्यात् ?
न चान्यस्मिन् "ण्वुल्तृचौ"(पा. 3/1/233)इति सामान्यलक्षणेन यो विहितस्तत्र ण्वुलि तदन्तेन क्रियावचनस्य समासनिषेधोऽयमुपपद्यते, तत्रोपपदस्याभावात् । क्रियावचनस्य समासप्राप्तवसत्यां प्रतिषेधस्यानर्थकत्वात् । तदेवं कारकगतिरित्यादौ गत्यादेः सुबन्तत्वादुपपदसमासस्य प्रसङ्गादुपपद्यमानः प्रतिषेधो घञाद्यन्तेषूपपदेषु क्रियाकार्यं तुमुन्ण्वुलादि ज्ञापयति, न तु गत्याद्यर्थरूपत्वनिबन्धनमस्य सिद्धरूपस्यार्थस्य क्रियात्वमवगमयति, वस्तुस्वभावविपर्ययख्यापनस्याशक्यत्वात् ।। 446 ।।
तदित्थं शयितव्यादीनां पाकदीनां च क्रियावचनानामत्र तृतीयासमर्थतोपपत्तावापि केनाशयेन `नैष दोषः । सर्व एते गुणशब्दा समुदायेषु वर्तन्ते' इत्याद्युपक्रम्य `समुदायेषु वृत्ता शब्दा अवयवेष्वपि वर्तन्ते' इति ब्राह्मणादीनां शब्दानामध्ययनादिलक्षणक्रियामात्रवृत्तित्वाश्रयेण यत् तृतीयासमर्थं क्रिया चेत् सा भवतीति प्रकृत्यर्थविशेषणपक्षो भाष्यकारेण समर्थित इत्याशङ्क्याह--
सर्वस्य परिहारार्थं समुदायत्वमाश्रितम् ।
शुद्धायाः संभवान्नस्यात् क्रियाया ब्राह्मणादिषु ।। 447 ।।
संभवत्यपि होतव्यादौ क्रियावाचिनि तृतीयसमर्थे यदर्थस्य समुदायत्वम् `सर्व एते शब्दा गुणसमुदाये वर्तन्ते' इत्याश्रितं भाष्यकारेण सिद्धान्ततया तत्रायमाशयश्चूर्णीकृतः सर्वसाधारणः परिहारो यथा स्यादिति ।
अन्यथा शुद्धायाः केवलायाः शयित व्यादिपदोपादानायाः क्रियायाः प्रत्ययप्रकृतित्वेन तृतीयासमर्थायाः संभवाद् ब्राह्मणादिशब्दविषये वतिप्रत्ययो न स्याद् ब्राह्णवदधीते क्षत्रिय इत्यादौ ।
ब्राह्मणादिशब्दोह्युपचारादेकदेशवृत्त्या क्रियावाची । होतव्यपाकादिशब्दस्तु मुख्यया वृत्त्या क्रियाभिधायीति सति मुख्ये विषये कुतो गौणपरिग्रहः स्यात् ।
नन्वेवं समुदायैकदेशभावकल्पनयापि क्रियावचनसमर्थने संभवति मुख्ये विषये कथं गौणपरिग्रह इति कथं न चोद्यते । व्याप्तेर्न्यायात् सर्वस्य परिग्रह इत्यदोषः ।
यद्वा, क्रियायास्तृतीयासमर्थतामनुपपन्नामभ्युपगम्य प्रकारान्तरेण प्रतिसमादधतश्चूर्णीकारस्यासंभवः एव शुद्धक्रियावचनस्य तृतीयासमर्थस्येत्याशयः ।। 447 ।।
तथाहि--
उपमानविवक्षायां स्वधर्मश्च निवर्तते ।
क्रियाया न श्रुताद् यस्मादुपमानं समाप्यते ।। 448 ।।
पाकादिपदोपादानायाः क्रियाया उपमानत्वेनापेक्षायां स्वो धर्मः स्वभावसत्त्वभूतत्वलक्षणो निवर्तते, यतो नोपमानस्य श्रवणमात्रात् तत्त्वं परिपूर्णं भवति ।। 448 ।।
अन्वयिधर्मापेक्षायां तत्त्वाद् अपेक्ष्यतां तर्ह्यन्वयिधर्मः । किमेतावता उपमानभूतायाः स्वधर्मोऽपैतीत्यत आह--
तृतीयाऽप्याश्रितो भेदो धर्मः साधारणो द्वयोः ।
व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ।। 449 ।।
तृतीयः स्वाभावव्यवस्थार्थमुपमानोपमेयाभ्यामपेक्षितो यो विशेषोऽपरस्माद् व्यावृत्तस्तयोर्द्वयोः समानः सोऽपि नोदासीन एवापेक्ष्यते, येनाकिञ्चित्करत्वात् तस्य स्वधर्मान्न क्रियापेयात् । किंतु व्यापारवान्, द्वयोः समवायात् ।
तथा च क्रियायामाश्रितत्वादुपमानत्वस्य संपादने व्यग्रो व्यापृत इति समानधर्माधारत्वेन क्रिया विप्रकीर्यमाणत्वात् साध्यस्वभावादपैति ।
स्वातन्त्र्येण द्रव्यायमाणा हि स्वाश्रितधर्मवशादुपमेयपरिच्छेदसंपादनाङ्गभावगमनात् सिद्धतयात्मानमुद्दर्शयेत् ।
नहि स्वभाव एव रूपेऽवस्थितायाः क्रियायाः प्रज्ञापनहेतुत्वमुपमेयं प्रति युज्यते, अनिष्पन्नस्य परं प्रत्यङ्गभावायोगात् ।
इत्थञ्च तैलपाकादिरिदं तदिति प्रत्यवमृष्टः समानधर्माधारतां प्रतिपद्यत इतिद्रव्यमसौ, होतव्यादिश्च सौष्ठवादितुल्यधर्माश्रयोऽपि तथैवेति न क्रियावाचि एतत्तृतीयान्तमस्यामवस्थायम् ।
नहीह वास्तवेन रूपेण क्रियाद्रव्यादिः पदार्थो वर्ण्यते, अपि तु सिद्धसाध्यतादिरूपेण शब्दवाच्येन । तथाह्येकोऽपि ध्वनिः क्रियागुणद्रव्यरूपतयाभिधीयते । ध्वनति घण्टेति क्रमोपजातावयवः शब्दसन्तानः पूर्वापरीभूतः साधनप्रतिबद्धोत्पादो यदा विवक्ष्यते, तदेयं क्रियाविप्रसृतावयवा ध्वनतीत्याख्यातेनाभिधीयते ।
यदा तु कारणान्तरनिरासार्थं संबन्धिन्या घण्टया विशेष्यते `घण्टाया ध्वनिः'-इति, तदा निष्पन्नरूपोऽसौ गुणः सुबन्तेन शब्देनोच्यते । ध्वनित्वमित्यत्र तु भाव प्रत्ययान्तेन शब्देन द्रव्यभावापन्नो जातेर्गुणीभूतः प्रातिपदिकार्थः कथ्यते । ध्वनति शब्द इति च कारकशक्तियुक्तः स एवार्थोऽभिधीयते । व्यक्तवर्णस्य चात्र कर्तृत्वमव्यक्तस्य साध्यत्वमित्यनवस्थिता व्याकरणे पदार्थाः ।
तस्मात् क्रियापदादपि न साक्षात्क्रिया साध्यस्वभावात्र प्रतीयते, अपि तु सिद्ध स्वाभावेति द्रव्यमेवैतदिति सुबन्तं न क्रियावाच्यस्ति । आख्यातमेव तथा । ततश्चाप्रातिपदिकत्वात् तृतीया नास्ति ।
अत एव च नामाख्यातभेदेन सिद्धसाध्यार्थभेदाद् द्विधा पदं संक्षेपेणोक्तम् ।तत्रैतत् स्यात् । कस्मात् समानोऽर्थ धर्मो व्यापारवानित्यत उक्तम् न कृत्स्नस्येत्यादि । सकलस्यार्थस्य सकलेन सर्वधर्माणं साम्ये भेदाभावान्न साम्यं सादृश्यमुपमानोपमेयभावाधायि संभवति, भेदाभेदाभ्यां तदुपपत्तेरुक्तत्वादिति ।। 449 ।।
साधारणो धर्मो भेदाभेदाभ्यामत्र सव्यापार एव भवतु । द्रव्येण सिद्धरूपेणासावपेक्ष्यते, न साध्यस्वभावया क्रियया उपमानभूतयेत्याशङ्क्याह--
द्रव्ये वापि क्रियायां वा निमित्तात् तत् प्रकल्पते ।
क्रियाणां विद्यमानत्वाद् वृत्तिर्न स्याद् गवादिषु ।। 450 ।।
तदिति पूर्वप्रकान्तं साम्यं निर्दिश्यते । द्रव्यं वा भवतु, क्रिया वार्थान्तरप्रज्ञापनेनोपमाम्, सर्वथा सादृश्यनिबन्धनत्वादर्थनां साम्यस्य तद्धेतुर्निमित्तं साधारणो धर्मोऽन्वेष्यः ।
तथाहि--शुद्धं स्वात्मावस्थं द्रव्यमर्थान्तरस्योपमेयस्य परिच्छेदकं न संभवतीति तदर्थं समानं गुणमाकाङ्क्षति । ततो हि निमित्तात् साम्येन परिच्छेदः संभवति ।
एवं क्रियाप्यनपेक्षितसमानधर्मा नोपकारायार्थान्तरस्य प्रज्ञापनीयस्य प्रभवतीत्यवश्यमपेक्षणीयं निमित्तमनयापि ।
तथा च द्रव्यायमाणेयं क्रियात्वं जहाति । साधनव्यापारावस्थाप्रतिपत्तये हि निर्वर्त्यमाना प्राधान्येनोपदीयमाना क्रिया भवति ।
यदा तु साधनव्यापारावस्था कथयितुं न प्रकृता, नापि क्रिया प्रतिलब्धप्राधान्येनोपादीयते, किन्तु धर्मान्तरं प्रत्याश्रयभूता साधनव्यापारनिरपेक्षोपादीयते, तदा व्यापारानपेक्षया धर्मान्तराणामाश्रयभूतत्वेन चेदं तदिति व्यपदेश्यं द्रव्यमेवोच्यते, न क्रियासौ ।
यदि पुनरनपेक्षितनिमित्तानां स्वरूपादेव क्रियाणामुपमानत्वं युज्यते, तदासां शुद्धानामुपमानभूतानां संभवात् किमर्थं गौणक्रियावचनगवादिशब्दविषये वतिप्रत्ययो भवेत् । संभवति मुख्ये विषये गौणपरिग्रहस्याय्यत्वादिति `गोवत्, ब्राह्मणवत्' इति प्रयोगो न स्यात् ।। 450 ।।
यदा तु साधारणधर्माश्रयैणौपम्यं भवति, तदा क्रियाभिरपि धर्मान्तराणामपेक्षणादुक्तनयेन स्वरूपहानामुख्ये विषयेऽसम्भवति गौणाश्रयणं युक्तमित्याह--
अभावात् केवलायास्तु तद्वानर्थः प्रतीयते ।
प्रधानासम्भवे युक्ता लक्षणार्था क्रियाश्रुतिः ।। 451 ।।
क्रमव्यतिक्रमे प्रयोजनाभावात् प्रथमश्रुतं तेनेत्येतत् क्रियोपाधिना यदा सम्बध्यते, तदा प्रकृत्यर्थविशेषणपक्षेऽपि यथोदितनयेन शुद्धायाः क्रियायाः सम्भवो नास्तीति श्रौतार्थपरित्यागे लाक्षणिकोऽर्थः समाश्रीयते । स्वाधारेण नित्यमवियोगाच्च क्रियायाः स एवाविनाभावितया लक्ष्यत इति तृतीयासमर्थं क्रियाविष्टद्रव्यवचनमाश्रीयते । ततश्चैकदेशवृत्त्या ब्राह्मणादयः क्रियावचनाः प्रकृतिः । तद्वदेव शयितव्यादयोऽपि ।। 451 ।।
तेषमपि ह्यत्रोपमानत्वे ब्राह्मणादिभिः सर्वथा सामान्यमित्याह--
क्रियाधर्मान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे ।
उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ।। 452 ।।
क्रियान्तरेऽन्यस्यां क्रियायां क्षत्रियाध्येतव्यादिलक्षणायामुपकाराय सादृश्येन परिच्छेदाय क्रियाशब्दा उपमानवचना ब्राह्मणाद्येतव्यादयः क्रियान्तरेषूपमानहेतुसोष्ठवादिषु साकाङ्क्षाः प्रयुज्यन्ते । अतश्च यथाद्ययनादिसादृष्यहेतुक्रियापेक्षा ब्राह्मणादयः शब्दाः क्षत्रियादिपरिच्चेदायोपादीयन्ते, तथैत इति सर्वप्रकारं क्रियाशब्दानां द्रव्यवचनैरुपमानत्वं साम्यमित्युभयेऽपि वृत्तिमनुभवन्तीत्यर्थः ।। 452 ।।
तत्रैतत् स्यात्--क्रियाप्युपमानत्वेनोपादीयमाना यदि धर्मान्तरापेक्षिणी, तदानवस्थात्रेत्याशङ्क्य निदर्शनपूर्वकं तामभ्युपगन्तुमाह--
यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः ।
द्रव्यवद् गुणशब्देऽपि स निमित्तमपेक्षते ।। 453 ।।
`न वै द्रव्यस्य स्वतः प्रकर्षापकर्षौ स्तः' इति निरुपाधेरतिशयाभावात् संसर्गिधर्मान्तरनिमित्तः प्रकर्षोऽस्य व्यवस्थापितः । शुक्लतरः पट इति स्वसमवायिशुक्लगुणहेतुकोऽतिशयः । एवं यदासौ शुक्लो गुणोऽतिशयवत्त्वेन विवक्ष्यते, तदा द्रव्यायमाणः स्वशब्देनाभिहितो भास्वरतादिस्वगतनिमित्तापेक्षस्तथोच्यते शुक्लतरमस्यरूपमिति ।। 453 ।।
अत्रैवार्थे निदर्शनान्तरमाह--
यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः ।
यथा तथोपमानेषु व्यपेक्षा न निवर्तते ।। 454 ।।
इह करणसन्निवेशी परिगृहीतक्रमः शब्दो वाचकः `अग्निमन्तोदात्तमधीष्व' इति । तस्य च निरुपाधेर्वाचकतायोग इति स्वरूपक्रममुपाधित्वेनासावाश्रयति । तथा च तदधिष्ठानाः श्रुतयः प्रत्याय्यमर्थमभिनिविशन्त इति ब्रह्मकाण्डेऽभिहितम् । तदेव च संहृतक्रमं स्वरूपमस्याभिधेयमत्रार्थमपि स्वरूपाच्छुरितं शब्दो वक्तीति निर्णीतचरम् । तत्र करणसंनिवेशिनः स्वरूपाच्छुरितस्य वाचकत्वे प्रयोगस्थं वाच्यं स्वरूपम् । तदपि यदा करणोपारोहि, तदाप्यपरं वाच्यं संहृतक्रमं स्वरूपमस्याभिधेयमत्रार्थमपि स्वरूपच्छुरितं शब्दो वक्तीति निर्णीतचरम् । तत्र करणसंनिवेशिनः स्वरूपाच्छुरितस्य वाचकत्वे प्रयोगस्थं वाच्यं स्वरूपम् । तदपि यदा करणोपारोहि, तदाप्यपरं वाच्यं संहृतक्रमं कल्पयितव्यमिति सर्वत्र त्रितयमन्वयि, निमित्तं तद्वानभिधेयं चेति । तदेव वीप्सया सार्वत्रिकत्वेन दर्शयति--यो य इति ।
यदपि हि प्रवृत्तिनिमित्तं स्वरूपं, तदपि यदा करणसन्निवेशि भवति तदापरं प्रवृत्तिनिमित्तमवश्यापेक्ष्यम्, निरुपाधेर्वाचकत्वाभावादिति कृतनिर्णयमेतत् काण्डान्तरे, पूर्वमिहापीति पुनरिह न वितन्यते ।
एवं यथा प्रकर्षे धर्मान्तरस्य यावत् सम्भवो वचसस्तावत् परिकल्पनं स्वरूपे च स्वरूपान्तरस्य, तथौपम्येऽपि तन्निमित्तस्य प्रकल्पनादुपमानमुपमेयं तयोश्च साधारणो धर्म इति सर्वत्र त्रितयमपरिहार्यम् । अतश्च ब्राह्मणवत् क्षत्रियोऽधीत इत्यध्ययनं साधारणो धर्मः । तस्याप्युपमानत्वे ब्राह्मणाध्ययनेन क्षत्रियाध्ययनं तुल्यमिति सोष्ठवादिधर्मान्तरं साधारणं कल्प्यम् । तस्याप्युपमानत्वेऽन्यदिति शब्दव्यापारोपरमान्निवृत्तेर्नानवस्थेयं मूलक्षतिकरी, पर्यवसानसम्भवात् ।। 454 ।।
तदेवं शुद्धायाः क्रियायास्तृतीयासमर्थाया असम्भव इति पूर्वपक्षभाष्यं समर्थितम् । इदानीम् `अत्रैवेदमयुक्तं वर्तते' इति यद् भाष्यम्, तत् पूर्वपक्षसमर्थानुवादेन गमयति--
कियावृत्तेस्तृतीयान्तस्यैतच्चासंगते सति ।
प्रसिद्धन्यायकरणो भाष्ये युजिरुदाहृतः ।। 455 ।।
इदमयुक्तं वर्तत इति युजिक्रियायाः करणं किमिति नोपात्तमिति चोद्ये कथ्यते प्रसिद्धत्वात् करणस्य भाष्यकारेणानुपादानं वचनेनेत्यर्थः । तथाहि--तृतीयान्तस्य क्रियावचनस्योक्तेन न्यायेनासम्भवः प्रतिपादित इति न्यायलक्षणमत्र करणं प्रसिद्धेः साक्षान्न निर्दिष्टम्, तेन न्यायेनायुक्तमित्यर्थः । यत् किल क्रियास्वरूपमासर्थ्यपर्यालोचनया साधनमवगम्यते, तस्य स्वशब्देनोपादानमनादृतम् ।
तद्यथा--अर्हन्निति विशिष्टमेव कर्म सत्कारादि प्रतीयत इति न स्वशब्देनोपादीयते । वर्षतीति च प्रसिद्धेः कर्मणोऽकर्मिकेयं क्रियोक्ता, कर्तापि चात्र प्रसिद्ध िति न स्वशब्देनावश्यं कथ्यते देव इति ।। 455 ।।
यस्तु मन्यते--अन्तर्भूतमत्र क्रियास्वरूप एव न्यायलक्षणं करणमिति न प्रयोगमर्हतीति, तन्मतं निरस्यति--
अन्तर्भूते तु करणे प्रयोगो न पुनर्भवेत् ।
न्यायेनायुक्तमित्यत्र जीवतौ प्राणकर्मवत् ।। 456 ।।
यथा जीवति प्राणान् धारयति, जायतेऽस्त्यात्मानं बिभर्तीति प्राणादिलक्षणस्य कर्मणः क्रियास्वरूपेऽन्तर्भावज्जीवति प्राणान्, अस्त्यात्मानमिति प्रयोगो न भवति, एवं न्यायलक्षणस्य करणस्य युजावन्तर्भावे न्यायेनायुक्तमुपपत्त्याऽयुक्तमिति न कदाचित् प्रयोगो भवेत् । बहिर्भूतं हि साधनं क्रियायाः पृथक् प्रयोगमर्हति, नान्तर्भूतम् ।
तस्मात् प्रसिद्धिरेवात्र करणस्याप्रयोगेऽनुसरणीया । एतच्चान्वाख्यानसमयपालनाय कथ्यते, ्युक्तमित्यस्य शब्दस्यान्वाख्याने युजिक्रिया प्रकृत्यर्थः, करणं न्याय इति ।। 456 ।।
परमार्थतः पुनर्निरस्तावयवविभागोऽयं शब्दो नात्र काचिद् युजिक्रिया, यस्याः करणमुच्येत, व्युत्पत्तिकर्मणि केवलं क्रियेयं परिकल्प्यत इत्याह--
शास्त्राभ्यासाय भेदोऽयमयुक्तमिति वर्ण्यते ।
अशोभनमसम्बद्धमिति रूढिर्व्यवस्थिता ।। 457 ।।
अन्वाख्याने व्युत्पत्तिनिमित्तमनुगुणाया युजिक्रियाया अस्या उपादानादकरणिकाया अस्या असम्भवात् प्रसिद्धो न्यायः करणं साक्षान्नोपात्तमिति भाष्यकाराभिप्रायोऽयमस्माभिर्व्याख्यायते ।
प्रयोगे तु लौकिके निरस्तावयवविभागोऽशोभनमसम्बद्धमन्याय्यमश्लिष्टमयुक्तशब्दः प्रतिपादयतीति नात्र युजिक्रिया काचिदित्यनेनैवाशयेन भाष्यकारः करणं नात्र निरदिक्षत् ।। 457 ।।
तदेवं क्रियावाचिनस्तृतीयान्तस्याभावात् प्रकृत्यर्थविशेषमपक्षाक्षेपः । असम्भव एव त्वस्य पक्षस्येति प्रतिपादयितुमाह--
विविभक्तिः प्रकृत्यर्थं प्रत्युपाधिः कथं भवेत् ।
विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ।। 458 ।।
तेनेति तृतीयासमर्था प्रकृतिरत्र प्रधानं विशेष्यत्वात् । तदर्थमुद्दिश्य क्रियेत्ययमुपाधिः प्रथमान्तत्वेन भिन्नविभक्तिः कथमुपपद्यते, सामानाधिकरण्याभावात् । `अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः' इति हि समानाधिकरणोऽर्थ उपाधित्वेन लक्षितः । तद्यथा--दृतिहरिः पशुः । दण्डः प्रहरणमस्यां दाण्डा । `सास्य देवता' (पा. 4/2/24) इति प्राजापत्य इत्यादि ।
विशेषणं त्ववच्छेदकमात्रलक्षणं विविभक्तमपि भवति । यथा गार्गिकया श्लाघत इति श्लाघा । तत्रैतत् स्यात्, सन्बन्धान्यथानुपपत्त्या विभक्तिविपरिणामः कल्प्यत इति । तच्च न, श्रुतस्य प्रथमान्तत्वस्येदमेवोत्पत्तिवाक्यमित्यन्यत्र कृतार्थत्वाभावात् कथं विपरिणामः ? विपरिणामे हि विषयान्तरं प्रकल्प्यम्, यत्र कृतार्थत्वं स्यात्, अन्यथा प्रथमान्तश्रुतेर्निष्फलता स्यात् । ऊहन्यायो हि परिणामः । चत्र च प्रकृतौ श्रतस्य विकृतावन्यथात्वं न्याय्यम् ।। 458 ।।
एतदेवोपपादयति--
विभक्त्यन्तरयोगो हि यस्य तद्विषयान्तरे ।
विभक्त्यन्तरसम्बन्धः सामर्थ्यादनुमीयते ।। 459 ।।
सारूप्यात् तु तदेवेदमिति तत्रोपचर्यते ।
शब्दान्तरे विभक्त्या तु युक्तं शास्त्रे तदश्रुतम् ।। 460 ।।
यस्य शब्दस्य श्रुता विभक्तिः क्वचिद् विषये केनचिदुपकारेण समन्वयमेति, तस्यान्यस्मिन् योगे साक्षादनिर्दिष्टसम्बन्धिनि प्रकृतत्वात् स्वरितलिङ्गदपेक्षणीयत्वे श्रुतयैव विभक्त्या समन्वयायोगे तदन्यथानुपपत्त्या तदन्वययोग्यविभक्त्यन्तरसम्बन्धोऽनुगम्यते । तत्र च नित्यत्वाच्छब्दार्थसम्बन्धस्य नोपात्तस्य शब्दस्य तदर्थस्य वान्यथाभावो युज्यत इति शब्दान्तरमेव योगयविभक्तियुक्तं साक्षादनुच्चारितमप्युत्प्रेक्ष्यते । प्रकृतिभागेन तु पूर्वेण सादृश्यादभेदाध्यवसाये स एव शब्दो विभक्त्यन्तरेण परिणमत इति परिणामव्यवहारः । तद्यथा--तदेव क्षीरं दधि जातमिति परिणामः । अत्रापि हि क्षीरधर्माणां केषाञ्चिदन्वयाद् भेदेऽपि क्षीराद् दध्नः परिदृश्यमाने, परिणामव्यवहारस्तदेवेदमिति च प्रत्यभिज्ञानम् ।
एवमिहापि प्रत्ययभागभेदेऽपि प्रकृतिभागान्वयादभेदाध्यवसायः ।
इत्थं च विभक्तिविपरिणामो भावतोऽन्यस्यैव कल्पनमूह इति कथमुत्पत्तिवाक्य एव श्रुतस्य युज्यते ? प्रकृतौ ह्युपयुक्तस्य विकृतावूहो न्याय्यः ।
तथा हि-"भूवादयो धातवः" (पा.1/3/1) इति संज्ञासम्बन्धे धातव इति प्रथमायाः श्रुतायाश्चरितार्थत्वे `अनुदात्तङित--' (पा.1/3/12) इत्यादौ समन्वयान्यथानुपपत्त्या पञ्चम्यन्तं धातोरिति शब्दान्तरमनुमीयते । तस्मादुच्चार्यमाणा विभक्तिरुपयोगवती कस्मिंश्चिद् वाक्यार्थे प्रदर्शनीया । ततो विभक्तिविपरिणामः कल्प्यते । अन्यथा यद्विभक्तिरवयव उच्चरितस्तद्विभक्त्यर्थापेक्षो वाक्यार्थो यदि नाभिप्रेतः, तदा तद्विभक्त्युच्चारणमनर्थकमेव स्यात् ।
न ह्यन्यथोच्चारयितव्येऽन्यतोच्चारयतो वक्तुः कश्चिद् गुणोलक्ष्यते । असम्बद्धाभिधायित्वमेव हि परं स्यात् । क्वचित् पुनरेकविभक्त्यन्तान्तर्भावतात्पर्येण निर्देशाद् यथायथं तदुपयोगो युज्यत एव । तद्यथानल्विधाविति सर्वविभक्त्यन्तसमासः । नानाविभक्त्यर्थयोगी हि प्रातिपदिकार्थः सकृन्निर्देशेऽप्यत्राभिप्रेतः ।
तथा चार्थतन्त्रे तत्र निर्देशे श्रुताया विभक्तेर्नान्तरीयकत्वमवस्थाप्य विधिशब्दमन्तरेणापि विवक्षितार्थलाभो वर्णितः ।
इह तु क्रियेति नियतत्वाद् विभक्त्यर्थस्य नैतद् युज्यते वर्णयितुम्, तृतीयार्थेनैव समन्वयस्येष्टेः ।। 459,460 ।।
ततश्च तेनेत्यस्मात् प्रथमं प्रकृतिस्तृतीयान्तावगतेति तदनुरोधात् क्रिययेत्यपि तृतीया निर्दिश्येत । अन्यथा प्रथमानिर्देशे प्रधानस्य तृतीयान्तस्य तदनुरोधेन विपरिणामाभावात् कथं समन्वय इत्याह--
प्रकृतिश्चेत् तृतीयान्ता तेनेत्यस्मात् प्रतीयते ।
क्रियेति प्रथमान्ता सा कथं भवितुमर्हति ।। 461 ।।
परिणामायोगस्योपपादितत्वाद् विविभक्तित्वे कथं सम्बन्ध इत्युक्तमेतत् ।। 461 ।।
सत्यपि वा विभक्तिविपरिणामे तेनेत्यनेन क्रिययेत्यस्यासमन्वय एवेत्याह--
क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् ।
तेनेत्यस्य हि सम्बन्धः सूत्रस्थेन न विद्यते ।। 462 ।।
सूत्रे श्रुतेन तेनेत्यनेन क्रियेत्यस्य लिङ्गभेदात् सम्बन्धो न विद्यत इति कस्य प्रयोगे क्रिययेति तृतीयोपाधिः कल्प्यताम्, न कस्यचिदित्यर्थः । समानलिङ्गस्य सम्बन्धिनः प्रयुज्यमानस्यासम्भवात् । क्रियया तुल्यमित्येवं प्रत्ययार्थेन समन्वये तु प्रकृतेरयमुपाधिर्न स्यात् ।। 462 ।।
तदेवं सम्बन्धमाक्षिप्य समर्थयितुमाह--
सोपस्कारेषु सूत्रेषु वाक्ये शेषः समर्थ्यते ।
तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते ।। 463 ।।
इह सूत्रवाक्यानां क्रियापदाश्रवणात् साध्याहारत्वमवसीयते । लक्ष्यानुगुण्येन च लक्षणप्रणयनाद् यथायथं लक्ष्यभेदानुसारेण क्रियापदमध्याहर्तव्यम् । ततश्चात्र चेच्छब्देन सम्बन्धभेदस्यावेदनाद् यत् तत् तृतीयासमर्थं क्रिया चेत् सा भवतीत्येवं वाक्यशेषसमर्थनादुपपन्नः सम्बन्धः ।
अयमत्राशयः--मा भूत् सूत्र एव विपरिणामः । तस्य तु यत् समन्वयवाक्यं व्याख्यानरूपम्, तत्र परिणामोपपत्तिः । तत्र च तेनेति तृतीयानिर्देशः प्रकृतेस्तृतीयान्तताप्रज्ञापने चरितार्थ इति चेच्छब्देन पुनः प्रत्यवमृश्योपाधिसम्बन्धमनुभवितुं स्वातन्त्र्यमापादितस्य तस्य युज्यते यथोपाधिपरिणामः ।
तद्यथा--"इको गुणवृद्धी" (पा.1/1/3) इत्यस्याः परिभाषायाः समग्रप्रधानविषयोपकारकत्वम् । यत्र तु गुणवृद्धी इति ब्रूयात् , तत्रेक इत्युपस्थितं द्रष्टव्यमिति वाक्याध्याहारेण समर्थ्यते ।। 463 ।।
तदेवमत्र क्रियेत्युपाधेस्तेनेत्युपाधिमता समन्वयो वाक्याध्याहारेण । न चावश्यं समानशब्द एवोपाधिरन्यथापि सम्भवादित्युपाधिवैलक्षणं प्रतिपादयितुमाह--
उपाधेः कस्यचिद् वाक्ये प्रयोग उपलभ्यते ।
प्रतीयमानधर्मान् यो न कदाचित् प्रयुज्यते ।। 464 ।।
"तदस्यां प्रहरणम्" (पा.4/2/57) इति नेदमेव साक्षात्प्रत्ययविधानवाक्यम्, पञ्चम्या अश्रवणात् । अपि तु प्रयोगे दण्डः प्रहरणमस्यां क्रीडायाम्, मुष्टिः प्रहरणमस्यां क्रीडायामिति भिन्नानां वाक्यानां सामान्येनानुकरणम् । प्रयोगवाक्ये च दण्डादेर्व्यभिचारिणी प्रहररूपता सामानाधिकरण्येनोपादीयत इति तथैव सूत्रेऽप्यनुकारः ।
तदयमुपाधिः समानशब्दो यस्य लोकेऽभेदविषये व्यभिचारात् प्रयोगः ।
अपरः पुनरुपाधिः सामर्थ्यगम्यस्वभावत्वात् प्रयोगे नैव श्रूयते । ततश्च तस्य प्रयोगेऽश्रवणात् सूत्रेऽपि तथैवानुकरणं नास्ति। केवलं यथाकथाञ्चित् सूत्रेऽसावुपक्षेप्तव्यः ।
तथा चायमिह क्रियालक्षण उपाधिः । नहि ब्राह्मणेन तुल्यमधीते क्षत्रिय ित्यत्र ब्राह्मणगतत्वेन क्रिया साक्षात् प्रयुज्यते, अपि तु सामर्थ्यात् प्रतीयत इति तस्यास्योपाधेः प्रथमान्तस्यापि सूत्रे निर्देशे न कश्चित् पर्यनुयोगः, वाक्याध्याहारेण समन्वयोपपत्तेः ।। 464 ।।
तत्र प्रतीयमानोपाधेरुदाहरणमाह--
नीलमुत्पलमित्यत्र न विशेष्ये न भेदके ।
कश्चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ।। 465 ।।
नीमुत्पलमित्यत्र वाक्ये सामानाधिकरण्यादेव गम्यमानत्वात् तद्धर्मस्य विशेषणविशेष्यत्वस्य तदभिधायी नीलं विशेषणमुत्पलं विशेष्यमिति न प्रयुज्यते शब्दः । केवलं सूत्र एव "विशेषणं विशेष्येण" इति(पा...) पदयोरवच्छेदार्थं प्रयोगः ।। 465 ।।
अतश्च
अत्यन्तानुगमात् तत्र न सूत्रे न च विग्रहे ।
विभक्तिपरिणामेन किञ्चिदस्ति प्रयोजनम् ।। 466 ।।
अवच्छेद्यावच्छेदकत्वस्यात्यर्थेनान्तर्भावान्नीलं च तदुत्पलं चेत्यत्र वाक्ये विशेष्यशब्दस्य सूत्रे तृतीयान्तस्य विशेष्यमुत्पलमिति नास्ति परिणामफलम् , सामानाधिकरण्यादेव विशेष्यत्वस्यावगतत्वात् ।
इत्थञ्च वाक्ये प्रयोगाभावाद् विशेष्यादेः शब्दस्य सूत्रेऽपि कस्यानुकरणमिदं स्यात्, यदनुरोधाद् विशेष्येणेति तृतीयान्तं प्रथमान्ततया विपरिणम्येत ।
एवञ्जातीयके विषये विभक्तिपरिणामस्याप्रसक्तिः प्रकृतोपपादनपरतयोच्यते । न तु विशेष्येणेत्यत्र विभक्तिपरिणामः समन्वयार्थः सम्भाव्यते, श्रुतेनैव समन्वयोपपत्तेः ।। 466 ।।
अत एवैतन्निदर्शनीकृत्य प्रकृते योजयितुमाह--
तृतीयान्तं क्रियेत्येतद् विग्रहे न प्रयुज्यते ।
यथा दण्डः प्रहरणं क्रीडायामिति दृश्यते ।। 467 ।।
ब्राह्मणेन तुल्यमधीते क्षत्रिय विग्रहवाक्ये क्रिययेति तृतीयान्तस्य प्रयोगो नास्ति। यस्मादुपमेये श्रुता क्रियेति सामर्थ्यादुपमानेऽपि प्रतीयेत । अन्यथोपमानोपमेयभाव एव न स्यादिति यथाकथञ्चिदप्युपक्षेपेऽस्योपाधेर्न दोषः ।
दण्डः प्रहरणमस्यां क्रीडायामित्यत्र तु वाक्ये प्रहरणस्योपाधेः प्रयोगो दृश्यते । प्रहरणक्रियासाधकतमत्वं हि दण्डस्य न दण्डपदप्रयोगादेव गम्यते, स्वार्थमात्रस्य ततः प्रतिपत्तेरिति स्वशब्देन प्रहरणमित्यनेन तस्य तत्त्वमावेद्यते । तथा च तथैव सूत्रेऽनुकारः ।। 467 ।।
तत्रैतत् स्यात् । नीलं विशेषणं विशेष्यमुत्पलमित्यपि प्रयोगो दृश्यत इति कथमिदमन्तर्भूतधर्मण उपाधेर्निदर्शनं स्यादित्याशङ्क्यापरं निर्विवादमत्रोदाहरणमाह--
घविधौ घश्च संज्ञायामिति सूत्र उदाहृतम् ।
उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ।। 468 ।।
`पुंसि संज्ञायां घः प्रायेण" (पा. 3/3/118) इत्यत्र घप्रत्ययविधौ संज्ञायामिति प्रयुक्तो य उपाधिः, तस्य प्रयोगेष्वत्यन्तमनुच्चारणम्, प्रकृतिप्रत्ययसमुदायस्य संज्ञात्वात् समानशब्दोऽयमुपाधिर्गतार्थत्वान्नोपादीयते । एवं क्रिययेत्यपि ।। 468 ।।
तत्रैतत् स्यात्--प्रधानानुविधायित्वाद् गुणानां तेनेत्यभिसम्बन्धे क्रिययेत्यवश्यं विपरिणमनीयमित्याशङ्क्याह--
यैरप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते ।
ते भेदेऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ।। 469 ।।
प्रयोगे प्रयोगमन्तरेणापि क्रियेत्ययमुपाधिः प्रधानातिशयाय प्रभवतीति किं प्रधानानुवृत्त्या ?
तथा हि--भिन्नविभक्तित्वेऽपि यदि प्रधानोपकारो विघटते, तदा प्रधानविभक्तिराश्रीयेत । यावतान्याविभक्तित्वेऽपि व्यवच्छेदमात्रफलत्वादुपाधेर्लभ्यते प्रधानोपकार इति न तद्विभक्तावत्रादरः ।
तथा हि--क्रिययेत्यपि विभक्त्युपादाने भिन्नविङ्गत्वादसामानाधिकरण्यं तदवस्थमिति यथाकथञ्चिदप्युपक्षेपे गुणानां लभ्यते प्रधानोपकारसम्पादनायोपादानतात्पर्यादभिसम्बन्ध इति स्थितम् ।। 469 ।।
एवं प्रकृत्यर्थविशेषणपक्षे क्रियावचनस्य तृतीयान्तस्यासम्भवात् `सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते' इति क्रियावाचिनस्तृतीयान्ततासमर्थनार्थं यद् भाष्यम्, तदिदानीं व्याचष्टे--
समुदायेषु वर्तन्ते भावानां सहचारिणाम् ।
शब्दास्तत्त्वाविवक्षायां समुच्चयविकल्पयोः ।। 470 ।।
गौरत्वशुच्याचारत्वपिङ्गलकेशत्वादीनां नियतजात्याच्छुरितानां सहभाविनां धर्माणां यः समुदायः, तत्र वाचकत्वेन ब्राह्मणादिशब्दा वर्तन्ते ।
यद्यपि चैते धर्माः कदाचिद् व्यभिचारान्न नियोगतः सहभाविनः, तथापि ये यज्जातिसहचरा धर्मास्ते तज्जातिनिमित्तेन शब्देनोच्यन्त इति ब्राह्मणत्वादिजात्या सहभावोऽव्यभिचारो विवक्षितः ।
अत एव च शब्दार्थसङ्करो न भवति । सर्वेषां मात्राकलापवतनत्वेऽपि नियतजातिसाहचर्योपलक्षिताः प्रतिनियता एव शब्दानामर्था यतः । तदेतत् पुनः समुच्चयस्य विकल्पस्य चाविवक्षायां समुदायवचनत्वमच्यते शब्दानाम् । अविद्यमानविकल्पोऽयं वायं वेत्येवंरूपोऽविद्यमानश्च समुच्चयोऽयं चायं चेत्येवंरूपो यस्य तस्य समुदायस्य विवक्षायाम् ।। 470 ।।
ननु मा भूद् विकल्पः समुदायार्थविरोधित्वादत्र, समुच्चयस्तु यगपदनेकार्थरूपः कथं समूहार्थतां विरुणद्धीत्याशङ्क्याह--
समुच्चयस्तु क्रियते येषु प्रत्यर्थवृत्तिषु ।
भेदाधिष्ठानया योगस्तेषां भवति सङ्ख्यया ।। 471 ।।
प्रत्यर्थवृत्तित्वे वाचकस्य समुदायः समुच्चरूपेण वाच्यः स्यात् । तथा हि--समकक्ष्यताया समुदायान्तर्गतानामवयवानामभिधाने सर्वे प्राधान्येन समुच्चिता अभिहिता भवन्ति । एवञ्च भेदस्योद्भूतत्वात् प्रधानार्थप्रयुक्तं बहुवचनं स्यात् ।
तद्यथा --वृक्षा इति भेदप्राधान्येनाभिधीयमाना बहुत्वयोगिनः ।
यदा तु वनमितिवद्विगलितभेदः समुदायोऽभिधीयते, तदैकवचनमेवार्थैकत्वान्न्याय्यम् । तदा च भेदाधिष्ठानस्य समुच्चयस्याभावः । एवमिह समुदायार्थत्वे प्रत्यर्थवृत्तित्वायोगात् समुच्चयाभावः ।। 471 ।।
यदि तर्हि न तुल्यकक्ष्यतया मात्राकलापोऽभिधीयते, तदा जातिविशिष्टद्रव्याभिधानपक्षदस्य पक्षस्य को भेद इत्याह--
सर्वैर्विशिष्टास्तैरर्थैर्जन्यन्ते सहचारिभिः ।
बुद्धयः प्रतिपत्तॄणां शब्दार्थांस्तानतो विदुः ।। 472 ।।
जातिगुणाक्रियाभिः सहभाविरर्थैः प्रतिपत्तॄणां यतो विशिष्टाः, तदाच्छुरिता जात्यवच्छिन्नार्थग्राहिण्यो बुद्धयो जायन्ते, अतो बुद्ध्यनुसारेण निरूपितेऽर्थे शब्दप्रयोगात् ततोऽपि तथैव प्रतिपत्तेर्गुणसमुदाय एव प्रतीयमानः शब्दार्थ इति व्यवस्थाप्यते । द्रव्यस्य चार्थक्रियायोगात् तदेव प्रधानं जातिगुणक्रियादिधर्मसंसृष्टमभिधानगोचर इत्यर्थैक्यादत्राप्येकवचनमेव । जात्याविष्टं तु द्रव्यमेवोच्यते द्रव्याभिधानपक्षे ।
क्रियागुणास्तु द्रव्यस्य निष्क्रियस्य निर्गुणस्य चानुपपत्तेः सामर्थ्यादवगम्यन्त इति पक्षान्तरादस्य विशेषः पक्षस्य, सर्वस्याप्यभिधागोचरत्वादत्र ।। 472 ।। तदेतदाह--
संसृष्टाः प्रत्ययेष्वर्थाः सर्व एवोपकारिणः ।
तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ।। 473 ।।
बाह्यं वस्तु स्वभावत एव निरंशत्वाद् विशिष्टम् । न तत्र भेदपूर्वकः संसर्गव्यवहारः कश्चित् । तत् पुनर्बद्धौ विपरिवर्तमानमनादिवासनाविभ्रमजुषां प्रत्ययानामविकलमविषय इति परिकल्पितभागविभागेनावसीयते । अवसाय च पृथक् प्रत्ययैरनुसन्धीयते । तथा च प्रत्ययेष्वेवार्था जातिगुणक्रियाद्रव्यलक्षणा भेदपूर्वकं संसर्गं भजन्त इति तदभिप्रायेण समुदायवाचोयुक्तिः ।
तथा हि--प्रत्ययोपारूढाकाराभिधायिनः शब्दा ब्राह्ममभिनिविशन्तेऽभेदाध्यवसायादिति मात्राकलापात्मनोऽर्थस्य सर्वस्यैव बुद्धिविपरिवर्त्याकारानुविधानेन वाचकाः शब्दा व्यवस्थाप्यन्ते । बुद्धावपि च यथाबाह्यं गुणप्रधानभावेनार्थानामुपरोहाद् जातिगुणक्रियासंसृष्टस्य द्रव्यस्यैव प्राधान्येनाभिधानादेकार्थ्यं भवति ।। 473 ।।
यद्येवं द्रव्यस्यैवाभिधानमस्तु, कोऽनुरोधो गुणसमुदायनय इत्याशङ्क्याह--
केवलानां तु भावानां न रूपमवधार्यते ।
अनिरूपितरूपेषु तेषु शब्दो न वर्तते ।। 474 ।।
निरूपणपूर्वकत्वादभिधानस्योपाधिविविक्तिस्य च द्रव्यमात्रस्य रूपमगोचरो निरूपणाया इति संसृष्टोपाधि द्रव्यं गुणसमुदायदर्शने शब्दवाच्यम् । तत्र समुदाये वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते ।
तद्यथा--पूर्वे पञ्चाला इत्युक्तम् । जनपदवचनस्य च पञ्चालशब्दस्य प्रसिद्धस्यैकत्वाज्जनपदस्य पूर्वशब्देन विशेषणानुपपत्ताववयववृत्तिः समुदायशब्दस्य ।। 474 ।। ततश्च समुदायात् प्रच्युत्यावयवे वर्तमानः शब्दोऽनित्यमर्थसम्बन्धमाक्षिपेदित्याशङ्क्य समर्थयितुमाह--
पूर्वशब्दप्रयोगाच्च समूहान्न निवर्तते ।
वर्ततेऽवयवे वापि नोपात्तं त्यजति क्वचित् ।। 475 ।।
शब्दार्थसम्बन्धस्य नित्यत्वान्नेह समुदायाद् वाच्याद् विचलति पञ्चालशब्दः । पूर्वशब्दप्रयोगाद्धेतोर्नाप्यपूर्वमवयवे वाचकत्वमासादयति । निरूढस्य त्यागोऽपूर्वस्य चोपादानं न क्वचिद् विषये शब्दानामिष्टम् ।। 475 ।।
यदि तर्ह्युपात्तस्य समुदायस्य न त्यागः, तदा कथं समन्वयः ? तस्मात् समुदायेन समन्वयान्यथानुपपत्त्या समुदायशब्दोऽप्ययमवयवमुपादास्यत इत्याशङ्क्याह--
समुदायाभिधायी च यदि भेदं विशेषयेत् ।
तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् ।। 476 ।।
एकत्वाज्जनपदस्य पूर्वशब्देन व्यवच्छेदाभावात् समुदायाभिधायी पञ्चालशब्दोऽत्र पूर्वशब्देन सम्बन्धानुरोधाद् भेदमेकदेशं यदि व्यवछिन्द्यात् , तदावयवोपजनिते व्यतिरेके समुदायस्य षष्ठ्या भाव्यमिति समानविभक्तिकत्वं न स्यात् । यथा कायस्य पूर्वः परो वा भाग इति । एवं पञ्चालानां पूर्व इति स्यात् ।
तथा च सामानाधिकरण्यबाधः । न चाबाधितेऽपि सामानाधिकरणये मुख्यार्थत्यागेनावयवार्थोपादानं युक्तम्, नित्यत्वात् सम्बन्धस्य । तस्मादत्यज्यत एव मुख्यमर्थमवयवोपादानं वैयधिकरण्येन स्यादत्र, न सामानादिकरण्येनेत्यर्थः ।। 476 ।।
इदानीमवयवे वृत्तिं समर्थयते--
समूहे च प्रदेशे च पञ्चावा इति दृश्यते ।
तथा विशेषणं सर्व इत्येतदुपपद्यते ।। 477 ।।
इहेमे पञ्चालादयः शब्दा निवासाधिकरणभावानुगमनेन वा व्युत्पाद्येरन् व्युत्पत्तिप्रत्याख्याने वा स्वाभाविकार्थविशेषसम्बन्धाः समनुज्ञायेरन् ।
पूर्वत्र पक्षे यथा संस्त्यायविशेषः समस्तो जनपदभिधेयः स्वामिविशेषाणामाधारभावमनुभवति, तथा तदेकदेशोऽपि, न ह्ययमवयवी कायादिवद्, अपि तु वनस्थानीयः ।
तथा च सकलावयवस्य समूहस्यादर्शनात् प्रत्यवयवपरिसमाप्तेश्च भागश एवाधारतां प्रतिपद्यते । ततश्च निमित्तरूपानुविधानेन निमित्तिनमभिदधदयं शब्दः समुदायैकदेशयोस्तुल्यप्रवृत्तिः, उभयत्रापि निमित्तरूपस्य निवासाधिकरणभावस्य समानत्वात् समुदायोऽपि ह्येकदेशद्वारेणैव कार्येषूपादीयते ।
तद्यथा--पञ्चालान् प्रविष्टः, पञ्चालादृश्यन्ताम्, पञ्चालेषु कृतमिति । स्वाभाविकदर्शनेऽपि शब्दानामनेकार्थत्वाद् समूहैकदेशयोर्वर्तमानत्वमुपपद्यत एवेति न त्यागोपादानार्थः कश्चिदत्र ।
अतश्चोभयथा पञ्चालशब्दस्य दृष्टेर्व्यभिचारसम्भवे सर्वे पञ्चाल लब्धा, हृता, आच्छिन्ना इति समुदायप्रतिपिपादयिषायां विशेषणं सर्वशब्दः कथ्यते ।
अन्यथा समूहस्यैकत्वात् कृत्स्नत्वेन विशेषणं न सम्बध्येत । तदेवं समुदायशब्दस्यापि प्रसिद्धस्यावयवे वृत्तिर्मुख्यतयैवेत्युक्तम् ।। 477 ।।
अत्रैव भाष्यकारमतं संवादकमाह--
तथार्धपिप्लीत्यत्र जात्यन्तरनिवृत्तये ।
अर्धं च पिप्पली चेति खण्डे शब्दः प्रयुज्यते ।। 478 ।।
समानाधिकरणसमासाभ्युपगमेंनैकदेशिसमासः प्रत्याख्यातो भाष्ये । तथा चार्धं च पिप्पली चेत्यर्धपिप्पलीति सामानाधिकरण्यं कथमुपपद्येत, यदि खण्डेऽवयवेऽत्रावयववाची पिप्पलीशब्दो नाभ्युपगम्यते ।
युक्तं चैतत् । यदयं जातिशब्दो व्यक्तौ प्रचयापचयानपेक्षोऽत्र वर्तते ।
तथाह्येकदेशिसमासेऽप्यर्धं पिप्पल्या इति जात्यन्तरापोहार्थमर्धं पिप्पल्यावच्छिद्यते । तथा च समानाधिकरणसमासेऽपि जात्यन्तरनिवृत्त्यर्थमेवार्धशब्दस्य पिप्पली विशेष्येति फलतः प्रतीत्योरभेदः । प्रक्रियाभेदात्तु पूर्वपदार्थप्रधानतैकदेशिसमासे । तत्र परवल्लिङ्गतारम्भः । एकदेशिसमासस्यैव तत्पुरुषस्य तदिष्टेः । समानाधिकरणसमासेतूत्तरपदाथप्राधान्यादेव तत्सिद्धिरिति तत् प्रत्याख्यातम् ।। 478 ।।
एवं यथात्र जात्यभिव्यक्तिसमर्थावयविवचनोऽपि पिप्पलीशब्दस्तदेकदेशे जात्यन्तरनिवृत्तिपरायां चोदनायां वर्तते, तथेहापि पञ्चालशब्द इत्याह--
पञ्चालानां प्रदेशोऽपि भिन्नो जनपदान्तरात् ।
तत्रान्यस्य विवृत्त्यर्थे शब्दे भेदो न गम्यते ।। 479 ।।
यथा समस्तो जनपदः पञ्चाला मगधादिजनपदान्तराद् विलक्षणः, तथा तदवयवोऽपि ग्रामादिरिति जनपदान्तरनिवृत्तिपरायां चोदनायां पञ्चालशब्दे प्रयुक्ते समुदायावयवविभागस्याविवक्षितत्वादसौ भेदः समुदायावयवलक्षणो विशेषो नावसीयत इत्यनादृत्य तं सन्निहितेऽर्थे मुख्यतयैव शब्दस्यात्र वृत्तिरित्यर्थः ।
इत्थञ्चावयवेन सामानाधिकरण्यादतुल्यविभक्तित्वमत्र नास्ति, जात्यन्तरनिवृत्तिविवक्षायां प्रयोगस्याविशेषात् समुदायावयवयोः ।। 479 ।।
यद्येवं तयोस्तुल्येऽभिधेयत्वे कथमुच्यते `समुदायेषु हि वृत्ताः शब्दाः' इत्यत आह--
प्रसिद्धास्तु विशेषेण समुदाये व्यवस्थिताः ।
प्रदेशे दर्शनं तेषामर्थप्रकरणादिभिः ।। 480 ।।
पञ्चालादयः शब्दाः समूहे यथा प्रसिद्धाः, न तथावयवे, सामर्थ्यप्रकरणादिवशेनावयववृत्तित्वस्य निश्चयादिति समुदायेषु मुख्यत्वमेषां कथ्यते प्रसिद्धतरत्वादित्यर्थः ।। 480 ।।
एवं ब्राह्मणादिशब्दानामपि समुदाये इव मुख्या वृत्तिरवयवेऽपीत्याह--
यदुपव्यञ्जनं जातेः सहचारि च कर्मसु ।
तत्र वा रूढसम्बन्धं यत् प्रायेणापलक्षितम् ।। 481 ।।
समुदायः प्रदेशो वेत्येवं तस्मिन्ननाश्रिते ।
अर्थात्मन्यविशेषेण वर्तन्ते ब्राह्मणादयः ।। 482 ।।
जातेरभिव्यञ्जकमुपनयनादिसंस्कारविशेषोपबृंहितमुपदेशसहायं द्रव्यम्, कर्मसु यजनयाजनादिकासु क्रियासु सहचार्यव्यभिचारि शौचश्रद्धाविद्वत्तादि, तत्र तस्यां जातौ रूढसम्बन्धं प्रसिद्धयोगं मृदुचित्तता सत्यवादित्वमवैरानुशय इत्येवमादि बाहुल्येनानुमितम्, तदाश्रित्य शब्दः प्रवर्तमानः समुदायाभिधायीति व्यवस्थाप्यते, प्रसिद्धेः ।
तत्र च जात्यन्तरनिवृत्तिपरायां चोदनायां जातिनिमित्तस्यास्य शब्दस्य समुदायावयवविभागानश्रयेण प्रवृत्तेरवयवेऽपि वृत्तिरविरुद्धा । अर्थप्रकरणादिवशात् पुनस्तथावसाय इत्यमुख्यत्वमेव ।। 481,482 ।।
एवं तर्हि समुदायार्थोऽन्य एव, अन्य एव चावयवार्थः, शब्दार्थभेदाद् भेदोपपत्तेरिति कथमभेदेन `समुदायेषु वृत्ताः शब्दा अवयवेषु वर्तन्त' इति व्यपदेश इत्यत आह--
यश्च तुल्यश्रुतिर्द्दष्टः समुदाये व्यवस्थितः ।
तेनोपचरितैकत्वं प्रदेशेऽप्युपलभ्यते ।। 483 ।।
तुल्यश्रुतित्वाद् रूपसाम्यादेकत्वमवसाय समुदाये वाचकत्वेन व्यवस्थितोऽवयवेऽपि वर्तत इत्युक्तम् । नहि समुदायात् प्रयुत्यावयवे तस्यैव शब्दस्य वृत्तिरस्ति, सम्बन्धानित्यत्वप्रसङ्गादित्युक्तमेव ।। 483 ।।
एवं सारूप्याद् तदेवेदमित्युपचारादवयवे समुदायशब्दस्य वृत्तौ, `पूर्वे पञ्चालाः' इत्येकं निदर्शनं व्याख्यातम् । अपरमपि `तैलं भुक्तं घृतम्, भुक्तम् ।
तद् व्याचष्टे--
संस्कारादुपघाताद् वा वृत्तोऽक्तपरिमाणके ।
तैलादौ जातिशब्दोऽत्र सामर्थ्यादवसीयते ।। 484 ।।
नेक्षिता जातिशब्दानां समुदायानुपातिता ।
जातिमाचक्षते ते हि व्यक्तिर्जातिसमाश्रया ।।
(स्फोटसिद्धिः 9)
तैलादिशब्दानां जातिनिमित्तत्वे कथं समुदायवचनतायामत्र दृष्टान्ततोपपत्तिरित्याक्षेपे प्रतिसमाधानमिदम् ।
तथाहि--रोगविशेषप्रशमनाय यदौषधाहितविशेषं धृतं तैलं वा मात्रापरिच्छिन्नम्, तदिह तैलादिशब्दवाच्यं विवक्षितम् । तच्च षोजश द्वात्रिंशदित्यादिपलपरिमाणत्वात् परिच्छिन्नपरिमाणमिति समुदायो भवति ।
श्वकाकाद्युष्टत्वेन वोपहतं परित्याज्यं घृततैलाद्यत्र नियतपरिमाणमेव विवक्षितम्, प्रकरणसामर्थ्यात् । अन्यथा जातिनिबन्धनेऽत्र तैलादिशब्दे जातिसमवायाविशेषात् समुदाये, अवयवे वा वृत्तिरित्येतन्नोपपद्यते ।
अक्तपरिमाणे तु वृत्तौ यदेतत् घृतं तैलं वा, तस्य प्रतिदिनमेकदेशाभ्यवहारेऽपि तदेवेदं भुक्तमिति समुदायाभेदाध्यारोपेणावयवे वृत्तिरुपपद्यते । एवं श्वादिसम्पर्कदूषितेऽपि तदिदं श्वघृतं तैलं वेत्यवयवे समुदायारोपाद् वृत्तिः ।। 484 ।।
कथमयमाशयो भाष्यकारस्यावसीयत इति चेदाह--
न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।
ते जातिगुणसम्बन्धभेदमात्रनिबन्धनाः ।। 485 ।।
जातिगुणनिमित्ताः शब्दा मूर्तिभेदमसर्वगतद्रव्यपरिमाणविशेषमनाश्रित्य तद्वन्मात्रे वर्तन्ते । उपचयापचयानपेक्षा हि तेषां विशिष्टजातिगुणयोगावधारणाय प्रवृत्तिः ।
तथाहि--जातिगुणसम्बन्ध एवान्यस्माद् भिद्यत इति भेदो विशेषस्तन्मात्रं मूर्तिभेदानपेक्षं निबन्धनं निमित्तमेषामिति । ये तु परिमाणशब्दा द्रोणादयस्तेऽक्तपरिमाणमर्थमभिदधति । तथा चैकदेशापाये न वर्तन्ते । ततश्च जातिनिमित्तायां वृत्तौ तैलादिशब्दानां समुदायावयवयोरविशेषः स्यादिति संस्कारोपघातविशिष्टेऽर्थेऽत्र भाष्यकारस्यतैलादिशब्दोऽभिमत इत्युन्नीयते ।
प्रदेशान्तरे हि चूर्णीकारः परिमाणशब्देभ्यो जातिगुणशब्दानां द्रोणः प्रस्थः शतमिति भेदमुपागमत् ।। 485 ।।
इदानीं शुक्लो नीलः कृष्ण इत्युदाहरणान्तरमत्रैव व्याख्यातुमाह--
कृष्णादिव्यपदेशश्च सर्वावयववृत्तिभिः ।
गुणैस्तेऽप्येकदेशस्थाः पटादीनां विशेषकाः ।। 486 ।।
गुणनिमित्तानां शब्दानां मूर्तिभेदानपेक्षा इदानीमेवोक्ता । तथापि लोके समस्तावयवव्याप्त्या यो गुणो वर्तते, तत्र तद्व्यपदेशः सिद्धः । कृष्णः पटः, शुक्लः पट इति ।
तथा च समुदायशब्दा एते मुख्यया वृत्त्या कथ्यन्ते । यत्र त्ववयवः कश्चिच्छुक्लोऽपरः कृष्णः, तत्रापि समुदायारोपाच्छुक्लादिशब्दप्रवृत्तिः । यस्य हि पटस्यावयवोऽपि नाशुक्लस्तन्निवृत्तिपरायां चोदनायां समुदायारोपाच्छुक्लादिशब्दप्रवृत्तिः । यस्य हि पटस्यावयवोऽपि नाशुक्लस्तन्निवृत्तिपरायां चोदनायां समुदायावयवयोरभेदविवक्षायामयं प्रयोगः ।
तथा हि सद्यः--प्रक्षालितपटावयवमलिनीकरणे साभ्यसूया वक्तारो भवन्ति कृष्णः पटः कृत इति ।। 486 ।।
तत्रैव प्रकारान्तरमाह--
पटावयववृत्तास्तु यदा तत्र पटादयः ।
तदा तैलादिवत् तेषां जातिशब्दत्वमुच्यते ।। 487 ।।
एकदेशकृष्णे पटे पटः कृष्ण इत्यभिधाने द्वयी गतिः । समस्तावयवकृष्णस्याध्यारोपादवयवे कृष्णशब्दो यथा प्राग् व्याख्यातम् ।
यदा तु पटशब्दोऽत्रैकदेशे प्रवृत्तः, तदा सन्निहितः कृष्णोऽवयवः कृष्णशब्देन कृत्स्नावयवव्यापिकृष्णगुणनिमित्तेन मुख्यतयाभिधीयते । पटस्तु समुदायवचनोऽवयवे प्रवृत्तोऽत्रोदाहरणम् । तस्य च तदानीं तैलादिशब्दवज्जातिवाचित्वं बोद्धव्यम् ।
यथा हि जातिशब्दा अपि तैलादयः संस्कारोपघातप्रापितातिशये द्रव्ये समुदायशब्दतां प्रतिलभ्य तदन्यव्यावृत्तिपरेऽभिधानेऽवयवे तद्रूपारोपादसादयन्ति प्रत्यायकत्वम्, तथेमेऽपि पटादयोऽवयवेऽपि प्रवर्तन्त इत्यर्थः ।
अनयैव च दिशा घृतादिशब्दो मुख्यार्थः ।
भुक्तशब्दस्तु समुदायेऽवयवरूपाध्यासात् प्रयुक्तो मन्तव्यः, यदि क्रियाशब्दस्यापि भुक्तशब्दस्याक्तपरिमाणे कर्मणि प्रसिद्धरनुगन्तुं पार्यते ।
तथाहि--यदा भुक्तत्वमुपहतस्य संस्कृतस्य वा तैलादेः सन्दिग्धम्, तदाऽभुक्तत्वव्यावृत्तये तैलं भुक्तमित्युच्यमाने समुदायावयवयोर्भेदविवक्षा नास्तीति युज्यते समुदायशब्देनावयवस्याभिधानम् ।
तदयमत्र परमार्थः--यदा पटः प्राधान्येन विवक्षितः, तदा शुक्लशब्दोऽवयवे वर्तते; यदा तु शुक्लोऽवयवः प्राधान्येन विवक्षितः, तदा पटशब्दोऽवयवे वर्तते । एवं तैलं भुक्तमित्यत्रापि वाच्यम् । यथा च जनपदान्तरनिवृत्तिपरायां चोदनायां पञ्चालशब्दोऽवयवेऽपि मुख्यः । पिप्पलीशब्दश्च तदितरव्यवच्छेदविवक्षायामेकदेशेऽपि मुख्यः, तथा तैलादिशब्दोऽप्यन्यव्यावृत्तिपरेऽभिधान इति ।। 487 ।।
निगमयितुमाह--
निवृत्त्यर्था श्रुतिर्येषां भेदस्तेष्वनपेक्षितः ।
प्रदेसे समुदाये वा गुणोऽन्येषां निवर्तकः ।। 488 ।।
अन्यनिवृत्तिपरेऽभिधाने समुदायावयवभेदमनादृत्य प्रदेशे वा समुदाये वा वर्तमानः शब्दो गुणाद्यभिधायी कृष्णादिरन्यव्यवच्छेदं करोत्येवेति मुख्यैवेयं शब्दप्रवृत्तिः ।। 488 ।।
तदेवं निदर्शनान्युपपाद्य दार्ष्टान्तिकभाष्यम् `एवमयं समुदाये ब्राह्मणशब्दः प्रवृत्तोऽवयवेऽपि वर्तते' इत्येतद् व्याख्यातुमाह--
ब्राह्मणाध्ययेन तत्र वर्तते ब्राह्मणश्रुतिः ।
सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ।। 489 ।।
केचित् तावदाहुः--ब्राह्मणवदधीते क्षत्रिय इत्युपमेयेऽध्ययनस्य श्रुतेस्तद्धेतुकमेवात्र साम्यमुपलक्षितम् । तथा च ब्राह्मणशब्दोऽध्ययनमात्रेऽवयवे वर्तते । तपः श्रुतमध्ययनमित्यादौ हि समुदाये मुख्यो ब्राह्मणशब्दः प्रसिद्ध इति तदेकदेशेऽध्ययनमात्रे समुपचरितः । ततश्चाध्ययनक्रियावाचिनस्तृतीयासमर्थाद् वतिरित्येकीयं मतम् ।। 489 ।।
एतदनुपपन्नमित्याह--
ब्राह्मणाध्ययने वृत्तिर्यदि स्याद् ब्राह्मणश्रुतेः ।
वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोरिति ।। 490 ।।
अध्ययनमात्रवाचित्वे ब्राह्मणशब्दास्याध्ययनयोरेवोपमानोपमेयभावोऽवगम्येत, नाध्यायकयोः तन्निमित्तः । अध्ययनयोश्चोपम्यनिमित्तधर्मः सौष्ठवादिर्वाच्यः स्यात् ।
तथा च तदधिकरणभावापन्नमध्ययनमिदं तदिति व्यपदेश्यत्वात् क्रियात्वं जह्यादिति न क्रियावाचिनस्तृतीयासमर्थता समर्थिता स्यादित्यभिप्रायः ।। 490 ।।
तस्मादिदमत्र युक्तमिति स्वमतेन सिद्धान्तमुपन्यस्यति--
अध्येतरि यदा वृत्तिरुच्यते ब्राह्मणश्रुतेः ।
निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ।। 491 ।।
शुद्धक्रियावाचिनस्तृतीयान्तस्यासम्भवात् क्रियाविशिष्टद्रव्यवचनो गृह्यते । तत्र ब्राह्मणशब्दस्य समुदायवाचकत्वेऽप्यध्ययनप्रधाने द्रव्ये गुमसमुदायावयवे वृत्तिः कल्प्यते ।
तथा चाध्ययनक्रियाव्यापारप्रधानाद् ब्राह्मणशब्दात् तृतीयान्ताद् ब्राह्मणेन तुल्यमधीते क्षत्रिय इति ब्राह्मणवदिति वतिप्रत्यये कृते शब्दोपात्ताध्ययनहेतुको ब्राह्मणक्षत्रिययोरुपमानोपमेयभावोऽवगम्यत इतीष्टसिद्धिः ।। 491 ।।
एकीयमते तु दोषान्तरमाह--
सिंहशब्देन संबन्धे शौर्यमात्राभिधायिना ।
चैत्रात् षष्ठी प्रसज्येत योगे शौर्यादिभिर्यथा ।। 492 ।।
यः किल ब्राह्मणवदित्यत्र ब्राह्मणशब्दस्याध्ययनमात्राभिधायितामाह, तस्य शौर्यमात्राभिधायिना सिंहशब्देन चैत्रस्याभिसम्बन्धे चैत्रस्य सिंह इति व्यतिरेकनिबन्धना विभक्तिः प्रसज्येत, यथा चैत्रस्य शौर्यमिति ।
अस्मत्पक्षे तु तद्वति सिंहशब्दस्य प्रवृत्तेरुपमानोपमेययोस्तत्त्वासङ्गे सामानाधिकरणयमुपपद्यते ।। 492 ।।
उपलम्भान्तरमरमप्येकीयमतस्याह--
ब्राह्मणायेव दातव्यं वैश्यायेत्येवमादिषु ।
सम्प्रदानादियोगश्च क्रियामात्रे न कल्पते ।। 493 ।।
अध्ययनक्रियामात्रे ब्राह्मणशब्दे वतिविषयेऽभिधीयमाने ब्राह्मणवद् वैश्याय दातव्यम्, ब्राह्मणवद् वैश्यादध्येतव्यम्, ब्राह्मणवद् वैश्ये वर्तितव्यमिति सम्प्रादानापादानाधिकरणादिसम्बन्धो न स्यात्, क्रियामात्रस्य तदनुपपत्तेः । नहि ब्राह्मणाध्ययनादध्येतुं शक्यते । अस्मत्पक्षे तु तद्वतोऽभिधाने सर्वमेतद् युज्यते ।। 493 ।।
किञ्च भाष्यविरोधोऽप्येकीयमत इत्याह--
क्रियामात्राभिधायित्वादव्ययेषु वतेर्न च ।
पाठः कदाचित् कर्तव्यस्तुल्यौ पक्षावुभौ यतः ।। 494 ।।
प्रत्ययार्थविशेषणपक्षेऽत्रैव भाष्यकारः प्राह--`अपि चाव्ययेषु वतेः पाठो न कर्तव्यो भवति । क्रियायामयं भवल्लिँङ्गसङ्ख्याभ्यां न योक्ष्यत' इति । यदि च प्रकृत्यर्थविशेषणपक्षेऽप्युपमानशब्दानां क्रियामात्रवचनत्वम् , तदा क्रियायास्तुल्या क्रियैव प्रत्ययार्थो न्याय्य इत्यसत्त्वभूतत्वात् तस्याः सिद्धेऽलिङ्गसङ्ख्यत्वे स्वरादिषु सत्त्ववचनेषु मध्येऽव्ययसंज्ञार्थं वतेः पाठोऽत्रापि प्रकृत्यर्थविशेषणपक्षे न कार्यः स्यादिति प्रत्ययार्थविशेषणपक्षमुत्कर्षयितुं कथमेवं तत्रैव पाठः कर्तव्यः स्यादिति भाष्यकारः प्राह ।
क्रियामात्रवचनत्वे हि ब्राह्मणादिशब्दानां द्वावपि प्रकृत्यर्थप्रत्ययार्थविशेषणपक्षौ समानावुभयत्रापि क्रियायाः प्रत्ययार्थत्वात् ।
यदा त्वस्मत्पक्षे क्रियावान् ब्राह्मणशब्दवाच्यः, तदोपमेयोऽपि तेन तुल्यः क्रियावानेव न्याय्य इति तस्य सत्त्वभूतत्वाल्लिङ्गसङ्ख्याप्राप्तावव्ययेषु वतेः पाठोऽस्मिन्नेव पक्षे कर्तव्यः स्यादिति युक्तं प्रत्ययार्थविशेषणपक्षस्य तदापाठेनोत्कर्ष आख्यातुम् ।। 494 ।।
तदेवमेकीयमतं सावद्यमुद्भाव्य स्वमतं निरवद्यतया निगमयितुमाह--
जहाति जातिं द्रव्यं वा तस्मान्नावयवे स्थितः ।
क्रियायास्तु श्रुतिर्यस्मात् तद्वत्यर्थेऽवतिष्ठते ।। 495 ।।
यत एवं क्रियामात्राभिधाने दोषः, तस्मादेकदेशेऽपि वर्तमानो ब्राह्मणशब्दो जातिं द्रव्यं वा न परित्यजति । जातिरत्रोपमानत्वेनोपात्ता द्रष्टव्या । यथा साङ्कर्यपरिहारार्थं गुणसमुदायेऽपि वर्तमानः शब्दो जातिनिमित्तत्वं न त्यजति, तथावयवेऽपि वर्तमानो द्रव्यं वाच्यं न जहाति ।
यस्माच्च सूत्रे क्रियायाः प्रकृत्यर्थेपाधित्वेन श्रवणम्, तस्मात् तद्वति क्रियावति द्रव्ये ब्राह्मणादिशब्दोऽत्र वर्तमानो गृह्यते, अन्ये तु सहचारिणो धर्मास्त्यज्यन्त इत्यवयवयवृत्तिताप्युपपद्यते ।। 495 ।।
यदि तर्हि क्रियावानाभिधेयः, तदा क्रियायास्तृतीयासमर्थत्वं कथमित्यत आह--
आक्रियाणां निवृत्त्यर्था यतश्चात्र क्रियाश्रुतिः ।
क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते ।। 496 ।।
मुख्यस्य क्रियामात्राभिधायिनस्तृतीयान्तस्यासम्भवादक्रियायां द्रव्यगुणतद्वतां निवृत्तितात्पर्येण क्रियाशब्दोऽत्र कथ्यमानः क्रियावन्तमुपलक्षयति मुख्यार्थसम्भवे लक्षणाया गङ्गादिषु दृष्टत्वात् ।। 496 ।।
कथमेतत् ? यावता होतव्यादयः क्रियामात्रवचनाः सन्तीति ।
तदाह--
होतव्यादिषु यस्माच्च क्रियान्या ब्राह्मणादिवत् ।
अपेक्षणीया शुद्धेऽर्थे तस्माद् वृत्तिर्न कस्यचित् ।। 497 ।।
ब्राह्मणवदित्युक्ते यथाध्ययनमुपमाननिमित्तत्वेऽपेक्षणीयं साधारणो धर्मः, तथा ब्राह्मणहोतव्येन तुल्यं क्षत्रियस्य होतव्यमित्यत्राप्यन्या क्रिया साधारणधर्मभूतापेक्षणीया स्यात् । अन्यथा समन्वयानुपपत्तिः ।
तथा च सत्त्ववचनैर्ब्राह्मणादिशब्दैस्तुल्या होतव्यादयः । तत्रापि धर्मान्तराधार भावमनुभवन्ती क्रिया स्वरूपादपैति, सत्त्वभावापत्तेरिति केवलक्रियावचनाभावान्मुख्यार्थासम्भवे क्रियाशब्देन तद्वदुपलक्षणं न्याय्यमेव ।। 497 ।।
तत्रैतत् स्यात्--यद्युपमेये क्रियाश्रुतेः सैवोपमानेऽप्याश्रीयते साधारणो धर्मः, तदा किमवयववृत्तिपरिकल्पनाप्रयासेन ? अस्तु समुदाय एव वाच्यः, तथापि हि तत्स्थां क्रियामेवोपकारिणीमपेक्षिष्यामाह इत्याशङ्क्याह--
सर्वं वाप्येकदेशो वा यस्मिन्नाश्रीयते क्वचित् ।
विशेषवृत्तिं तं सर्वमाहुर्भेदे व्यवस्थितम् ।। 498 ।।
समुदायवचनोऽवयववचनश्च यः शब्दस्तं सर्वं शब्दं विशेषवृत्तिं विशिष्टार्थवाचकमाचक्षते, यतो भेदे विशेषे सर्वस्य शब्दस्यावस्थानम् । तथाहि--यदावयवे प्रयोगः, तदा सर्वं समुदायरूपं नापेक्ष्यत इति तन्निवृत्त्या विशेष एव शब्दार्थः । यदापि समुदाये प्रयोगः, तदैकदेशो नापेक्ष्यत इति तन्निवृत्त्या विशेष एव शब्दार्थः । यदापि समुदाये प्रयोगः, तदैकदेशो नापेक्ष्यत इति तन्निवृत्त्या विशेषवचन एव शब्दः ।
यथा हि प्रदेशः प्रदेशान्तरमवच्छिन्दन् विशेष इत्युच्यते, तथा समुदायोऽप्यवयवं निवर्तयन् विशेष इत्युभयवृत्तिरपि शब्दो विशेषविषयः । ततश्च समस्तधर्माच्छुरितस्यार्थस्या निरूपणात् तथैव शब्देनाभिधाने गुणसमुदायविषयत्वे शब्दानां समर्थिते ब्राह्मणशब्देन यदा समुदायाभिधानम्, तदावयवस्यावच्छेदान्निवारणात् कथं स प्रतीयते, येन समुदायवचनत्वेऽपि तन्निमित्त उपमानोपमेयभावोऽवगम्यते । समुदायाभिधाने हि तस्यैव प्राधान्यं विकल्पसमुच्चयव्युदासेनोक्तम् । संमूर्छितरूपो हि समुदायोऽभिधीयते । न त्वत्रावयवा भेदवन्तः कथ्यन्ते । विकल्पेन समुच्चयेन वा भेदविवक्षायां हि विकल्पो वा स्यात् समुच्चयो वा ।
अभेदप्राप्तास्तु समुदिता यदा अभिधीयन्ते, तदा न विकल्पो न समुच्चयः । अत ेव वृक्षशब्देन मूलादीनां भेदेनानभिधानाद् बहुवचनं न भवति ।
तस्मात् समुदायाभिधानेनाभिधीयमानोऽवयव इति तेन निष्कृष्टरूपेणानभिधीयमानेन न कश्चिदुपकार इति समुदायादपोद्धृतोऽवयवः समाविष्टव्यापारद्रव्यलक्षणोऽत्र ब्राह्मणशब्दस्यार्थो वाच्यः । केवलायाः क्रियाया वाच्यत्वे दोषाभिधानात् क्रियोन्मुखं द्रव्यमभिदेयमिति क्रियामुखेन तुल्यतोपपत्तिस्तस्य ।। 498 ।।
यद्यवयवे समुदाये च शब्दस्य वृत्तौ विशेषवचनत्वम्, किमिदानीं सामान्यवचनं स्यादित्यत आह--
समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा ।
विशेषा इति वर्ण्यन्ते सामान्यं वाऽविकल्पितम् ।। 499 ।।
यदि समुच्चिताः सर्वे भेदाः शब्देनाभिधीयन्ते, अथ विकल्पिताः । सर्वथा विशेषवचनत्वमेव शब्दानाम् । तथा ह्यनेकार्थो भिन्नरूपः समकक्ष्यतयाभिधीयमानः समुच्चितोऽभिहितो भवति जातिगुणक्रियादिरूपः । तत्र चैकदेशमात्रस्य विकल्पस्य च निवृत्तिरिति विशेष एवायम् । एवं पर्यायणाभिधीयमानास्त एवार्था विकल्पिता भवन्ति । तत्रापि च समुच्चयस्य व्युदासाद् विशेषरूपतैव ।
यद्यपि च समुदायोऽविकल्पसमुच्चयो वाच्य इत्युक्तम्, तथाप्यनेकार्थताप्रकारपरसंख्याप्रसङ्गेनात्र विकल्पसमुच्चयावुपात्तौ । समुच्चयाद् भेदेनोपादानाच्च प्रकारइति । प्रकारा इति द्रव्यं प्रति गुणभूता धर्मा निर्दिष्टाः । तथा च सामान्यावेशप्राप्ता गुणप्रधानभावेनात्र धर्मा विवक्षिता इति तृतीयोऽयं पक्षः । समप्राधान्यं पर्यायो गुणप्रधानभावश्चेति एतावानत्र प्रकारः संभवी क्रमेणोपन्यस्तः । त एते सर्व एवाभिधीयमानाः प्रकाराः प्रतिनियतभेदापोहहेतुत्वाद् विशेषा एवावगन्तव्याः । सामान्यमप्यविकल्पितं प्राधान्येनाभिधीयमानं विशेष एव प्रतिनियतविशेषापावर्तनात् ।
तथाहि सामान्यरूपोपरागेण युगपदेव बहवो विशेषाः कथ्यमानाः प्रतिनियतमपावर्तयन्त्येव विशेषम्, सर्वेषामभिन्नसामान्यानुवेधेन क्रियायोगात् । अत एव भाष्यम्-`सामान्यमपि यथा विशेषस्तद्वत्' इति ।। 499 ।।
एवं विशेषवचनत्वे शब्दानां व्याप्तिरुपदर्शिता । तथा च समुदायवचनत्वेऽपि तत्सिद्धिः । इदं तु वक्तव्यम्--उपमाने क्रियागुणयोरेवोपकारात् तद्विषयं शब्दानां समुदायवचनत्वं कीदृशमित्याह--
न हि ब्राह्मण इत्यत्र भेदः कश्चिदुपाश्रितः ।
अपाकृतो वा तेनायं समुदाये व्यवस्थितः ।। 500 ।।
नियतस्य भेदस्य प्रतिपादने तदपरस्य निवारणात् समुदायवचनत्वं न स्यात् । न चात्र कश्चिदङ्गीकृतोऽपरश्च निवारितो विशेष इति युक्तं समुदायवचनत्वम् । प्रकरणादिनिरपेक्षो हि ब्राह्मणशब्दः समूहमेवाचष्टे ।
इत्थं च समुदायवचनत्वे क्रियागुमयोः शब्दार्थत्वादुपमाहेतुत्वमित्युपमानविषये समुदायवचनत्वस्यापयोगः ।। 500 ।।
तथा ह्यवयववृत्तित्वं तत्र यत्नादित्याह--
क्रिया त्वाश्रीयते यस्मिन् स भेदोऽध्यवसीयते ।
तथान्यथा सर्वथा चेत्यप्रयोगे न विद्यते ।। 501 ।।
यस्मिन्नुपमाने क्रियाश्रीयते साधारणधर्मत्वेनापेक्ष्यते, तत्र स क्रियाख्यो धर्मः समुदायवृत्तस्य शब्दस्य निश्चीयते । ब्राह्मणेन तुल्यमधीत इत्यत्र ह्यध्ययनस्य साधारणस्य धर्मस्याश्रयणमिति शब्दान्तरसंनिधानात् तत्रैवावयवे ब्राह्मणश्रुतिः समर्थ्यते । यतः शब्दान्तरस्याप्रयोगे स नियतोऽभिमतः प्रकारोऽन्यः सर्वो वा न संभवति । अनपेक्षितशब्दान्तरप्रयोगादिः शब्दो झटिति स्वार्थं प्रसिद्धं समुदायरूपमेवाह यतः, तस्मादुपमाविषये यत्नात् समुदायशब्दास्यावयवे वृत्तिरित्यर्थः ।। 501 ।।
तमेव यत्नमाह--
उपमाने क्रियावृत्तिमुपमेये क्रियाश्रुतिः ।
प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ।। 502 ।।
`ब्राह्मणवदधीते क्षत्रियः' इत्युपमेये क्षत्रिये क्रिया श्रूयमाणा उपमानेऽपि ब्राह्मणशब्दे क्रियार्थत्वं सूचयति । समानधर्मप्रयुक्तो ह्युपमानोपमेयभाव इत्युभयत्र क्रियासाधारणत्वम् । ततश्च भेदस्य प्रदेशस्यात्रोपमानपदेनाभिधानं निश्चीयते । उपमेयगता क्रियाश्रुतिरुपमानगतां क्रियां नाभिदधाति, किन्तु ततोऽवसीयते क्रियावचनत्वमुपमानशब्दस्येतीवशब्दः ।। 502 ।।
न च शुद्धायाः क्रियाया वचनं संभवतीति क्रिययोरप्युपमानोपमेयभावेऽभिसंहिते व्यापाराविष्टद्रव्यवचनादेव तृतीयासमर्थाद् वतिरित्याह--
व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते ।
क्रियावद् वचनाच्छब्दात् प्रत्ययः प्रतिपाद्यते ।। 503 ।।
ब्राह्मणाध्ययनेन तुल्यं क्षत्रियाध्ययनमित्यपि क्रिययोः साम्येऽध्ययनवदिति सौष्ठवादिधर्मान्तराधारभावं प्रतिपाद्यमाना क्रिया प्रातिपदिकार्थो द्रव्यायमाणैवेत्यत्रापि पूर्ववत् क्रियाश्रुतेरुपलक्षणत्वात् क्रियाविष्टद्रव्यवचनादेव तृतीयासमर्थाद् वतिरिति समानं पूर्वेण ।। 503 ।।
यदि द्रव्यवचनादपि समाश्रितक्रियाप्रधानात् प्रत्ययोऽभ्युपगम्यते, तदा क्रियाया असत्त्वभूतत्वादलिङ्गसंख्यत्वे सिद्धे स्वरादिषु वतेः किमर्थः पाठश्चोद्यत इत्याशङ्क्याह--
क्रियावतोऽपि सादृश्ये वक्तुमिष्टे क्रियावता ।
अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ।। 504 ।।
क्रियावतोर्द्रव्ययोरप्युपमानोपमेययोरुपात्तक्रियाद्वारकं सादृश्यमाश्रित्य ब्राह्मण इवायं क्षत्रियोऽध्येता, ब्राह्मणेन तुल्योऽध्येता ब्राह्मणवदिति स्यादनिष्टः प्रत्ययो वतिः ।
तथा च सत्त्ववतनत्वादव्ययेषु वतेः पाठः कर्तव्य इत्युक्तम् । द्रव्यप्राधान्ये हि सत्त्वं वत्यन्तस्येति लिङ्गसंख्यायोगः स्यात् । अतः स्वरादिपाठेनाव्ययत्वमारभ्यते ।। 504 ।।
ननु च क्रियावतोरपि क्रियाद्वारक एवोपमानोपमेयभावः, तत्र चेष्यत एव वतिरिति कथमनिष्टत्वेन प्रत्ययो न निवर्तते इत्युक्तमित्याह--
अधीते तुल्य इत्येवं पुंल्लिङ्गेन विशेषणम् ।
क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ।। 505 ।।
क्रियावतोः सादृश्ये वतिर्विधीयमानः, सत्त्वरूपत्वात् तयोस्तुल्यशब्दस्तल्लिङ्ग एव प्रयुज्यते, ब्राह्मणेन तुल्योऽधीते क्षत्रिय इति । तथा च क्रियानिमित्तं तुल्यत्वं नियमेन न प्रतीयते । अन्येन केनचिद् धर्मेण तुल्योऽधीत इत्यप्यवगमात् क्रियातुल्यत्वस्यासंप्रत्ययादत्र प्रत्ययो नेष्यते । क्रियानिमित्ते तु सादृश्ये प्रत्यय इति तत्र तुल्य शब्दः निपतन्नसत्त्वभूतत्वात् तस्याः शब्दसंस्कारार्थं लिङ्गसर्वनामनपुंसकमेवाश्रयते । तथा च क्रियानिमित्तं तुल्यत्वं ब्राह्मणेन तुल्यमधीत इति नियोगतः प्रतीयत इति तत्रैवेष्यते वतिः ।
अत्र च पक्षे सत्त्वभूतस्यापि क्रियाविशेषणस्य विशेष्यधर्मानुवृत्तेर्लिङ्गविशेषायोगादव्ययेषु पाठो न कार्यो वतेः ।। 505 ।।
इदानीमत्रैव प्रकृत्यर्थविशेषणपक्षे "यदि तर्हि तृतीयासमर्थं विशेष्यते, प्रत्ययार्थोऽविशेषितो भवति । तत्र को दोषः ? तृतीयासमर्थात् क्रियावाचिनो गुणतुल्यत्वेऽपि प्रत्ययः प्राप्नोति । पुत्रेण सह तुल्यः स्थूलः, पुत्रेण सह तुल्यः पिङ्गलः" इति यो भाष्ये गुणतुल्येऽपि प्रत्ययः प्रसञ्जितः, स कथमुपपद्यते ? यावता न पुत्रशब्दः क्रियावाचीत्याशङ्क्य भाष्यं समर्थयितुमापातयात--
प्रकृत्यर्थे विशिष्टेऽपि प्रत्ययार्थाविशेषणात् ।
पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ।। 506 ।।
एकत्वात् क्रियाशब्दस्य प्रकृत्यर्थविशेषणोपक्षये प्रत्ययार्थस्य तुल्यत्वस्याविशेषितत्वाद् गुणेनापि कपिलत्वेन तुल्ये पुत्रशब्दात् तृतीयासमर्थाद् वतिः स्यादिति चोद्यभाष्यं विवृतम् ।। 506 ।।
पुत्रशब्दस्य क्रियावाचित्वं समर्थयितुमाह--
याः पुत्रे रूढसम्बन्धाः क्रियालोके विवक्षिताः ।
ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर्भवेत् ।। 507 ।।
पितुर्निदेशे यो वर्ततेऽधीते, सन्तानमनुवर्तते च, स पुत्रः सदाचारानुपालनात् कथ्यते । यस्तु न नियोगकारी, नाध्येता, न सदाचारः, तमपुत्रोऽयमिति व्यवहरन्तीति निदेशस्थानादिक्रियाः पुत्रशब्दार्थे निरूढयोगः पुत्रशब्दोऽन्तर्भावयति, यथा ब्राह्मणादयोऽध्ययनादिकान् धर्मानिति । तद्वदयमपि समुदायवचन इत्यत्रोपात्तक्रियाभिः क्रियावतः पुत्रादवयववचनात् तृतीयासमर्थाद् गुणेनापि तुल्ये विवक्षिते वतिर्भवेत् ।। 507 ।।
तत्रैतत् स्यात्। `पुन्नाम्नो नरकाद् यस्मात् त्रायते पुत्र इत्यतः' इति पुत्रशब्दप्रवृत्तिनिमित्तं पवनादिक्रियामवधीर्य को निदेशस्थानादिषु बाह्यासु पुत्रार्थसहचारिणीषु क्रियास्वादर इत्यत आह--
अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्यपि ।
क्रियास्तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ।। 508 ।।
इह रूढिषु नावयवार्थानुगम इति प्रवृत्तिनिमित्तभूतामन्तरङ्गामपि क्रियामनादृत्य पदवाच्यद्रव्यतुल्याः साहचर्येणाव्यभिचारात् प्रतीयमानाः प्रसिद्धा निदेशस्थानादयः क्रियाः समाश्रीयन्ते । प्रवृत्तिनिमित्तभूता हि क्रिया व्युत्पत्तिनिबन्धनत्वेन परमाश्रीयते । नार्थक्रियासु तस्या व्यापारः । तदेवमेकेन विशेषणेनोभयविशेषणायोगात् क्रियाग्रहणेन प्रकृत्यर्थे विशेषिते क्रियावदुपलक्षणार्थत्वात् क्रियाश्रुतेर्ब्राह्मणादिशब्देभ्यः क्रियावद्वचनेभ्यः प्रत्यये समर्थितेऽपि प्रत्ययार्थस्याविशेषितत्वाद् गुणतुल्येऽपि प्रत्ययप्रसङ्ग इति ।। 508 ।।
अस्तु तर्हि प्रत्ययार्थविशेषणम्, यत्तत् तुल्यं क्रिया चेत् सा भवती'ति पक्षान्तरमुपन्यस्तं भाष्ये व्याख्यातुमाह--
क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् ।
प्रधानानुग्रहात् साम्याद् विभक्तेश्चावतिष्ठते ।। 509 ।।
स्थाननिमित्तः क्रम उक्तः । प्राथम्यात् तेनेत्येतत् क्रियाशब्देन विशेष्यत इति तस्य त्तत्र बाधः । समानविभक्तिकत्वात् प्रधानत्वाच्च प्रत्ययार्थस्य तुल्यमित्यस्य क्रियेति विशेषणं न्याय्यमित्येवं कल्प्यते । तथाहि प्रधानस्य प्रत्ययार्थस्य विशेषणयोगे कल्प्यमाने गुणस्य प्रकृत्यर्थस्य तदनुपपत्तिः । सामानाधिकरण्येन च सम्बन्धसम्भवेऽधायाहारेण तेनेत्यस्य क्रियेति सम्बन्धो न न्याय्यः । विभक्तिसाम्यं हि शब्दवत् । अशब्दस्तु क्रमः ।। 509 ।।
एवं प्रकृत्यर्थविशेषणपक्षं बाधित्वा यदि प्रत्ययार्थविशेषणपक्षः कल्प्यते, तदात्रापि पूर्वदोषसाम्यमित्याह--
प्रकृतेरविशिष्टत्वात् क्रियातुल्ये प्रसज्यते ।
पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ।। 510 ।।
एकेन विशेषणेन द्वयोरयोगात् क्रियाग्रहणेन प्रकृतिरविशेषितात्र स्यात् । ततश्च गुणवचनेभ्यः स्थूलादिभ्यः पूर्वोक्तनिदेशस्तानादिकया क्रियया तुल्ये पुत्रे वाच्ये वतिर्भवेत् ।
तथाहि--प्रकृत्यर्थविशेषणे यदुदाहृतम्, तदेवात्र विपर्ययेणोदाहर्तव्यम्, स्थूलेन तुल्यः पुत्र इति । तदुक्तं भाष्ये--`एवमपि तृतीयासमर्थमविशेषितं भवति । तत्र को दोषः । तृतीयासमर्थादक्रियावाचिनः क्रियातुल्येऽपि प्रत्ययः प्राप्नोति' इति ।। 510 ।।
केचित् पुनरत्र साक्षाद् भाष्येऽनुदाहृतत्वात् स्थूलेन तुल्यो यातीत्येवमुदाहरन्ति । तथाह्याख्यातादुपमेयस्य क्रियाविशिष्टस्य प्रतीतिरितीदमेव युक्तमिति मन्यन्ते । तच्च न । यतः--
स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः ।
अनिमित्तं वतेस्तुल्यं यातीत्यत्रेष्यते वति ।। 511 ।।
तुल्यो यातीति पुंलिङ्गेन सामानाधिकरण्यान्नियोगतः क्रियातुल्यत्वं नावगम्यते । यः केनचिदन्येन धर्मेण स्थूलेन तुल्यो देवदत्तः, स यातीत्येवमपि प्रतीतेः । तथा च देवदत्ते निरूढेन धर्मान्तरेण तुल्यतया निर्ज्ञाते तस्य पश्चात् सन्निपतन्ती क्रियाश्रुतिर्वतेः प्रत्ययस्योत्पत्तौ निमित्तं हेतुर्न भवति ।
शाब्दी हि क्रिया भवेदुपमानोपमेयसम्बन्धे निबन्धनम् । न चेह स्थूलेन तुल्य इति पदद्वयसम्बन्धकाले तत्प्रत्योत्पत्तिनिमित्ते काचित् सन्निहिता क्रिया, स्थूलशब्दस्य गुणवचनत्वात्, तुल्यशब्दस्य च पुंलिङ्गत्वेन क्रियाविषयत्वाभावात् ।
वृत्ते तु सम्बन्धे प्रत्ययोत्पत्तिनिमित्ते पदान्तरात् पश्चात् प्रतीयमाना क्रिया बहिरङ्गा नोपमासम्बन्धे निमित्तम् ।
एवञ्च स्थूलेन तुल्यः पुत्र इत्यस्मादस्याविशेषः । यदा तु स्थूलेन तुल्यं यातीति नपुंसकलिङ्गेन तुल्यशब्देन सामानाधिकरण्यं यातीत्यस्य, तदा क्रियाप्राधान्यं नियोगतः प्रतीयते, असत्त्वभूतत्वात् क्रियायास्तद्विशेषणस्य, नपुंसकत्वोपपतेः । तथा चात्रेष्यते वतिः । स्थूलवद् याति मन्दायमानपदविन्यासश्चालितोदरकलश इति ।
अत्र हि प्रकृतिप्रत्ययार्थाभिधायीपदद्वयसमन्वयकाल एव शब्दवाच्या क्रिया संभवत्युपमानोपमेयभावनिमित्तम्, ब्राह्मणवदधीत इतिवदिति न बहिरङ्गात् प्रतीतिः ।। 511 ।।
तदेवं पक्षद्वयेऽपि समीकृतस्य दोषस्य भाष्ये समाधिरमिहिता--`नैष दोषः । यत् तत् तुल्यं क्रिया चेत् सा भवतीत्युच्यते । तुलया च संमितं तुल्यम् । यदि च तृतीयासमर्थमपि क्रिया प्रत्ययार्थोऽपि क्रिया, ततस्तुल्यं भवति' इति । तदेतत् तात्पर्यतो विवृणोति--
द्वयं विशेष्यते तेन यदेकत्र विशेषणम् ।
तुल्यशब्दो हि तं धर्ममुभयस्थमपेक्षते ।। 512 ।।
यत् क्रियाग्रहणमेकत्र श्रुतं सद्विशेषणं तेन क्रियाग्रहणेन द्वयं प्रकृतिप्रत्ययार्थलक्षणं विशेष्यतेऽवच्छिद्यते । कथमेकेनोभयविशेषणम् । एवं हि प्रवृत्तिभेदस्तस्यभवेदित्यत आह--तुल्यशब्दो हीत्यादि ।
सादृश्यस्योभयाधिष्ठानत्वाद् यस्मात् तुल्यशब्दस्तं क्रियाख्यं धर्ममुभयगतमङ्गीकरोति, तस्मादुभयविशेषणं सामर्थ्यादवतिष्ठते श्रुत्यैकनिष्ठत्वेऽपीति ।। 512 ।।
एवं हि तुल्यशब्दार्थ उपपद्यत इत्याह--
एकः समानो धर्मश्चेदुपमानोपमेययोः ।
तुलया संमितं तुल्यमिति तत्रोपपद्यते ।। 513 ।।
भाष्येऽभिहितं `तुलया च संमितं तुल्यमि'ति । यद्यपि सदृशेऽर्थे तुल्यशब्दो रूढः, तथापि व्युत्पत्तिनिबन्धनं क्रियानुविधीयत इत्याशयः । तथा च यथा तुलया किञ्चित् परिच्छिद्यते, तथा समानेन धर्मेण परिच्छेद इति संमितत्वं समानमस्ति ।
एवञ्चैकत्रापि श्रुतोऽपरत्र सामर्थ्यादन्वयी समानो धर्मोऽवगम्यत इति तात्पर्येण तुलया संमितत्वमुक्तम् । तस्मात् प्रकृत्यर्थविशेषणेऽपि प्रत्ययार्थः क्रिया । न ह्यन्यस्तुल्यः क्रिययास्ति, अन्यदतः क्रियायाः ।। 513 ।।
एवं प्रत्ययार्थविशेषणेऽपि तुल्यशब्दसामर्थ्यात् प्रकृत्यर्थक्रियाक्षेप इत्युभयपक्षभावी दोषो नास्ति । स चात्र समानो धर्मो न यः कश्चित् । अपि तु यश्चोदनायां संनिहित इत्याह--
सूत्रे श्रुतश्च द्विष्ठोऽसावभेदेन प्रतीयते ।
न च सामान्यशब्दत्वादश्रुता गम्यते क्रिया ।। 514 ।।
असौ क्रियाख्ये धर्मः सूत्रे क्रिया चेदिति श्रुतः शब्देनैकगामित्वेऽपि चोदिते तुल्यातासामर्थ्यादुभयगतोऽवधार्यते । एवञ्च पुत्रेण तुल्यः स्थूलः, स्थूलेन तुल्यः पुत्र इत्यत्र प्रत्ययो न भवति ।
यत्र हि श्रूयते क्रिया, तत्रोभयगतत्वेनापेक्ष्यतां न त्वत्राश्रूयमाणे क्रियाशब्दे । न च पुत्रशब्द एव क्रियावचनोऽस्य सामान्यशब्दत्वात् । सकिये निष्क्रिये चाविशेषेण हि पुत्रशब्दः प्रत्यायकत्वेन वर्तते ।
ततश्चा नियोगतः क्रिययैव सादृश्यमिति नास्त्यवगमः । धर्मान्तरेणापि साम्यसंभवे समुदायशब्दस्य क्रियावत्यवयवे प्रवृत्तेरप्रमाणकत्वात् । यत्नसमधिगम्या हि प्रदेशे वृत्तिः शब्दस्येत्युक्तम् ।। 514 ।।
ननु च निदेशस्थायितादयो निरूढसंबन्धाःस पुत्रार्थे क्रियाः प्रतिपादिता इति तासामसंप्रत्ययः कस्मात् पुत्रशब्दादित्यत आह--
अश्रुताश्च प्रतीयन्ते निदेशस्थायितादयः ।
ये धर्मा नियतास्तेषां पुत्रादिशु न विद्यते ।। 515 ।।
श्रुतेः प्रतीतिहेतुत्वादश्रुताः कथं प्रतीयन्त इत्युक्तं नियता इति । तदयमर्थः--श्रुत्यभावादयमेव धर्म इति प्रतीतिर्नास्ति । सामान्येन तु प्रतीतावस्ति निमित्तं नैयत्यं नाम ।
तथा हि निरूढयोगत्वात् प्रसिद्धेः पदार्थैकदेशभूतानां भवति क्रियाणामन्तरेणापि स्ववाचकप्रयोगं पुत्रशब्दात् सामान्येन प्रतीतिः । एवमपि तेषां बहूनां धर्माणां निरूढत्वान्नियतस्य वाचकस्याभावान्नियोगतः क्रियाया एवोपमाहेतुत्वस्यासंप्रत्ययात् तेषां सामान्यधर्माणां संबन्धत्वेन पुत्रादिषु वाच्येषु तद्धितवृत्तिर्नास्ति । पुत्रवदयं माणवक इत्यत्र वत्यर्थसामर्थ्यात् क्रिया योग्याध्याहर्तव्या । पुत्रवदयं माणवको द्रष्टव्य इत्यादि ।
एवं स्थानिवदादेश (1-1-56) इत्यत्रापि स्थानिवद् वर्तत इत्यर्थः । इत्थञ्च स्थूलेन तुल्यं याति स्थूलवद् याति इति वृत्तिरुक्ता । अनपेक्षिते तु क्रियापदे नास्त्यवगतिः ।। 515 ।।
एतमेवार्थं निगमयति--
अनाश्रितक्रियस्तस्मान्न तुल्योऽस्ति क्रियावता ।
क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ।। 516 ।।
असति क्रियापदप्रयोगे यस्मान्नियमेन क्रिया साधारणी न प्रतीयते, तस्मात् पुत्रादिषु नियोगतः क्रियानिमित्तस्योपमानोपमेयभावस्याप्रतीतेर्वृत्तिर्नास्ति । अतोऽनपेक्षितासाधारणक्रियो नापरेण क्रियावता सदृशो विद्यते । ब्राह्मणवदधीते क्षत्रिय इत्यादौ तु मलोदाहरणे साक्षादुपमेयगतत्वेन क्रियायाः श्रवणे क्रियासंबन्धनिमित्तत्वेनोपमानेऽपि गम्यत इति द्वयोरपि पक्षयोर्दोषप्रतिविधानसाम्यम् ।। 516 ।।
एवमपि प्रत्ययार्थविशेषणपक्ष एव सिद्धान्तितः । तथा हि भाष्यम्--"किं पुनरत्र ज्यायः । प्रत्ययार्थविशेषणपक्ष एव ज्यायः । कुत एतत् । एवं हि कृत्वाचार्येण सूत्रं पठितम् । वतिना सामानाधिकरण्यं कृतम् । अपि चाव्ययेषु वतेः पाठो न कर्तव्यो भवति क्रियायामयं भवँल्लिङ्गसंख्याभ्यां न योक्ष्यते" इति । एतद् व्याचष्टे--
द्वयोः प्रतिविधानाच्च ज्यायस्त्वमभिधीयते ।
नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे ।। 517 ।।
उबयोरपि पक्षयोर्दोषप्रतिविधानात् प्रशस्यत्वे प्रत्ययार्थविशेषणपक्षे ज्यायस्त्वमधीयते । यत्नान्तरापेक्षया ह्यत्र पक्षे लाघवमिति प्रशस्यतरत्वमाख्यायते ।
तथा हि--क्रियाया असत्त्वभूताया नित्यं नियोगतो वतेः प्रत्यायकत्वादलिङ्गसंख्यतयाव्ययत्वसिद्धेः स्वरादिषु पाठो न कर्तव्यो भवति ।। 517 ।।
ननु चात्रापि पक्षे क्रियावतः सत्त्वभूतस्य वतिवाच्यतेति कर्तव्य एव स्वरादिषु वतेः पाठ इत्याशङ्क्याह--
असत्त्वभूतो व्यापारः केवलं प्रत्यये यतः ।
विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ।। 518 ।।
प्रत्यये विषयभूते वाच्यत्वेन यस्मादसत्त्वभूतो व्यापारः क्रियालक्षणः केवलो द्रव्यरहितोऽस्ति, तेन क्रियाश्रुतेः क्रियाशब्दस्य क्रियावदुपलक्षणत्वं नास्त्यत्र पक्षे यथा प्रकृत्यर्थविशेषणपक्षे शुद्धायाः क्रियायास्तृतीयासमर्थाया असंभवात् पूर्वमुक्तम् । संभवति हि श्रौते मुख्येऽर्थे लक्षणाया अनुपपत्तिः ।
तथा च क्रियामात्राभिधायित्वात् प्रत्ययस्याव्ययत्वोपपत्तौ तत्र पाठो न कर्तव्यः ।। 518 ।।
तत्रैतत् स्यात् । यथा प्रकृत्यर्थविशेषणपक्षे शुद्धायाः क्रियाया असंभवात् तद्वदुपादानम्, तथात्रापि पक्षे प्रत्ययवाच्यायाः क्रियायाः क्रिययैव तुल्यत्वात् तस्याः शुद्धाया अभावे क्रियावचनादेव प्रत्यय इति कः पक्षयोर्विशेष इत्यत आह--
क्रियावतस्तु ग्रहणात् प्रकृत्यर्थविशेषणे ।
क्रियामात्रेण तुल्यत्वे सिद्धाऽसत्त्वाभिधायिता ।। 519 ।।
प्रकृत्यर्थविशेषणपक्षे क्रियावतः प्रकृत्यर्थत्वेनोपादानात् तुल्यतासामर्थ्याद् यदा क्रियैवोपमेयेति पक्षः, तदासत्त्वभूतार्थत्वाद् वत्यन्तस्याव्ययत्वं सिद्धम् ।। 519 ।।
यदा तु क्रियावान् प्रत्ययार्थ इति पक्षस्तदाह--
यदा क्रियानिमित्तं तु सादृश्यं स्यात् क्रियावतोः ।
क्रियावतोऽभिधेयत्वात् तदाऽद्रव्याभिधायिता ।। 520 ।।
तुल्यमिति नपुंसकेन विशेषणात् साक्षात् क्रियैव सदृशी समधिगम्यते । सा च क्रिया क्रियान्तरं यदा सौष्ठवादिना समानेन धर्मेणोपमिमीते, तदा प्रत्ययार्थविशेषणपक्षः ।
यदा तु क्रियावानुपमीयते, तदा द्वैतम् । व्यापारानुविद्धस्य वा प्राधान्यं तस्य व्यापारोपलक्षितस्य वा । पूर्वत्र पक्षेऽसत्त्वभूतत्वाद् अव्ययत्वं सिद्धम् । आख्यातवाच्यो ह्युपमेय इत्याख्यातस्यासत्त्वभूतार्थप्राधान्यादव्ययत्वम् ।। 520 ।। क्रियोपलक्षितस्य द्रव्यस्य तु प्राधान्ये प्रकृतिवाच्योऽपि क्रियावान्, प्रत्ययार्थोऽपि क्रियावांस्तुल्यतावशाद् इति वतेः सत्त्वभूतार्थवाचित्वात् पाठेनाव्ययत्वमुक्तमित्याह--
अव्ययेषु वतेः पाठः कार्यस्तत्र स्वरादिवत् ।
ब्राह्मणेन समोऽध्येतेत्यत्र च प्रत्ययो भवेत् ।। 521 ।।
स्वरादीनां सत्त्ववचनत्वम्, स्वी रोहावः, स्वर्यात इति सत्त्वसंबन्धाव्यभिचारिणः कर्मादिभावस्य दृष्टत्वात् । अत एव चादिष्वसत्त्ववचनेष्वेषां पाठो न कृतः । पृथक् पाठेनाव्ययसंज्ञारब्धा । एवं वत्यन्तस्य द्रव्यवचनत्वे तद्वत् पाठेनाव्ययसंज्ञा कार्या । पाठसामर्थ्याद्धि सत्त्ववचनत्वेऽप्यव्ययसंज्ञा प्रवर्तते । पूर्वत्र तु पक्षेऽन्वर्थत्वादव्ययत्वं सिध्यति ।
भाष्यकारमते हि न व्येतीत्यव्ययमित्येव लक्षणम् । प्रपञ्चार्थस्तु पाठः ।
सूत्रकारमतेऽप्यपठितानां केषाञ्चित् सङ्ग्रहार्थमन्वर्थसंज्ञैव लक्षणम्, प्रपञ्चार्थः पाठ इत्येव न्याय्यम् ।
वार्त्तिककारमते त्वलिङ्गासंख्यमव्ययमित्येतदेवाव्ययलक्षणमिति । मुनित्रयदर्शनेऽपि प्रत्ययार्थविशेषणपक्षे पाठमन्तरेण सिद्धाव्ययसंज्ञा वत्यन्तस्येत्यस्य पक्षस्योत्कर्षः । उत्तरसूत्रेणापि वतेर्विहितस्यासत्त्वभूतार्थाभिधायित्वमिवशब्दस्येव । `तदर्हम् (पा. 5/1/117) इत्यनेनापि क्रियायां वतिर्विधीयत इति न तदर्थोऽपि पाठः ।
प्रकृत्यर्थविशेषणपक्षे चाव्ययेषु पाठचोदनाप्रणालिकया भाष्यकारेण ब्राह्मणेन क्रियामात्रवाचित्वे ह्यसत्त्वरूपतेति सामर्थ्यात् तद्वद्वाचित्वे सत्त्वरूपतायां तत्रैव तद्वति प्रत्ययोऽनिष्टः स्फुटमुक्तो भवति ।। 521 ।।
इदानीमत्र पक्षे वतिना सामानाधिकरण्यं विवरीतुमाह--
सामानाधिकरण्यं च वत्यर्थेनापदिश्यते ।
तुल्यमित्यन्यथा कल्प्यो वाक्यशेषोऽश्रुतो भवेत् ।। 522 ।।
वतिशब्देन भाष्ये वत्यर्थस्तुल्यशब्द उक्तः । तथा हि--विधीयमानत्वाद् वतेरसिद्धावस्थस्य विशेषणीयत्वं नास्ति । प्रसिद्धस्य हि भेदाय विशेषणोपादानमर्थवद् भवति । साधुत्वप्रतिपत्तये विशेषणापेक्षायां च न युगपद् वतेः सामर्थ्यं विद्यते ।
न चाप्यस्य क्रियारूपता अक्रियारूपता चास्ति, येनाक्रियानिवृत्यर्थं क्रियेत्येतद् विशेषणमुपादीयेत । तस्माद् वत्युपलक्षितेन वत्यर्थवाचिना तुल्यशब्देनात्र क्रियाशब्दस्य सामानाधिकरण्यं भाष्ये विवक्षितम् ।
तुल्यार्थो हि क्रिया चास्त्यक्रिया चेति युक्तं विशेषणम् । यत्तत् तुल्यं क्रिया चेत् सा भवतीति च श्रौतमेव सामानाधिकरण्यम् । प्रकृत्यर्थविशेषणपक्षे तु तेनेत्यस्य क्रियेत्यसमानाधिकरण्याद् यत् तत् तृतीयासमर्थं क्रिया चेत् सा भवतीति वाक्यशेषाध्याहारेण समन्वयः कल्पयितव्यः स्यात् । संभवति तु श्रौते समन्वयेऽध्याहारेण तदुपपत्तिर्गरीयसी ।। 522 ।।
अध्येतरि च प्रत्ययोऽनिष्टोऽत्र पक्षे न प्राप्नोतीत्याह--
क्रियावतोश्च सादृश्ये प्रत्ययार्थविशेषणे ।
अध्येत्रा सदृशोऽध्येतेत्यत्र नास्ति वतेर्विधिः ।। 523 ।।
सामानाधिकरण्येन क्रियाया एव तुल्यतया विशेषणात् तदाविष्ट एव कर्तर्यपि प्रत्ययोऽत्र पक्षे, न प्रधानभूते द्रव्ये । एवञ्च कृत्वाख्यातेनात्र क्रियाप्रधानेन निर्देशो ब्राह्मणेन तुल्यमधीत इति । पूर्वत्र पक्षे क्रियावता प्रत्ययार्थेन तथाविधस्यैन प्रत्ययार्थस्य (प्रकृत्यर्थस्य) साम्यमुपमाहेतुत्वेन क्रियाया गुणत्वादिति द्रव्यप्राधान्येऽनिष्टः प्रत्ययः प्रसजेत् ।
नाप्युत्तरसूत्रेण `तत्र तस्येव' (पा. 5/1/116) इत्यनेन पुत्रेण तुल्यः स्थूल इत्यादौ प्रत्यय इष्यते । बाह्येन ति सम्बन्धिनोपजनितः प्रातिपदिकार्थव्यतिरेकात् षष्ठ्यन्तात् सप्तम्यन्ताद् वा तत्र प्रत्यय इष्यते । तेन पुत्रवत् स्थूल इत्यत्र नैवोत्पत्तव्यं प्रत्ययेन ।
यदा तु पुत्रवत् स्थूलो वर्तत इत्युच्यते, तदा क्रियाकृतो भवत्युपमानोपमेयभावो न गुणकृत इति भवति प्रत्ययः । सर्वथा क्रियानाश्रयणे तदभावः । तदेवं श्रौतस्य सामानाधिकरण्यस्योपपत्तेरव्ययेषु पाठाप्रसङ्गादध्येतरि तुल्येऽनिष्टप्रत्ययाप्रसङ्गाच्च प्रत्ययार्थविशेषणपक्षः प्रशस्यतरत्वेन सिद्धान्तितः ।। 523 ।।
इदानीं `तत्र तस्यैव' (पा. 5/1/116) इत्ययं वतिरिवार्थविषयो विचार्यते । तत्रेदं भाष्यं--`किमर्थमिदमुच्यते । न तेन तुल्यं क्रिया चेद् वतिरित्येव सिद्धमि'ति । तत्रेवतुल्यशब्दयोः समानार्थत्वेऽपि पूर्वेण तृतीयान्ताद् विधिः, अनेन तु सप्तम्यन्तात् षष्ठ्यन्ताच्चेति समर्थविभक्तिभेदात् कथं पूर्वेण सिद्धिरिति पूर्वपक्षभाष्याभिप्रायं व्याचष्टे--
तुल्यार्थैरिति या तस्यास्तृतीयाया न भिद्यते ।
अर्थो भेदेऽपि सर्वाभिरितराभिर्विभक्तिभिः ।। 524 ।।
`तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्, (पा. 2/3/72) इति या तुल्यार्थैर्योगे तृतीया विधीयते, तस्या योऽर्थः, स सकलाभिर्विभक्तिभिरिवयोगे विधीयमानाभिः करणभूताभिर्योऽर्थोऽभिधीयते, ततो न भिद्यते । भेदेऽपीति । सामर्थ्यादन्यत्वेऽपि विभक्तीनाम् ।
यद्वाभिधाव्यापारभेदेऽपि वस्त्वभेदः । वृत्तौ ह्यत्र विभक्तेरपगमात् तदर्थभेदकृतस्यावच्छेदस्यासम्भवः, सदृशार्थसम्प्रत्ययस्य समानत्वात् । केवलं विग्रहवाक्यमात्रमत्र भिद्यते ।
तस्माद् वस्त्वभेदात् पूर्वेणैव सिद्धिरुक्ता ।। 524 ।।
तमेवार्थाभेदमुदाहरति--
भुज्यते ब्राह्मणेनेव तुल्यं भुक्तं द्विजातिना ।
पश्यति ब्राह्मणमिव तुल्यं विप्रेण पश्यति ।। 525 ।।
ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना ।
दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ।। 526 ।।
ब्राह्मणादिव वैश्यात् त्वमधीष्वाध्ययनं बहु ।
इत्येवमादिभिर्भेदस्तृतीयाया न कश्चन ।। 527 ।।
तुल्यार्थयोगे तृतीया शेषविभक्तिः, इवार्थयोगे क्रियासाधने विभक्तयः । शेषसम्बन्धश्च क्रियाकारकसम्बन्धपूर्वक इति तृतीययात्र समस्तस्य क्रियाकारक सम्बन्धस्य हेतुभूतस्याक्षेपाद् वस्त्वर्थस्य भेदो नास्ति । आदिग्रहणात्--
विप्रेण तुल्यं वैश्यात् त्वमधीष्वाध्ययनं बहु ।
ब्राह्मणस्येव वैश्यस्य धनमेतदुपस्थितम् ।।
विप्रेण तुल्यं वैश्यस्य धनमेतदुपस्थितम् ।
गुणा विप्र इवात्रैते क्षत्रिये बहवः स्थिताः ।।
विप्रेण तुल्यं तिष्ठन्ति क्षत्रिये बहवो गुणाः ।
इत्युदाहार्यम् ।। 525--527 ।।
अत्र चोदयति--
तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् ।
मधुरायाश्च मातुश्च कथं सादृश्यकल्पना ।। 528 ।।
मधुरायामिव पाटलिपुत्रेऽधीयेऽहम्, मातुरिव देवदत्तायाः स्मरामि इत्यत्र "तत्र तस्येव" (पा. 5/1/116) इतीष्यते वतिः, मधुरावदधीये, मातृवत् स्मरामीति । पूर्वेणैव तु सिद्धावत्रेदं वाक्यं स्याद्, मधुरया तुल्यमधीये, मात्रा तुल्यं स्मरामीति । तथा चाध्ययनस्य मधुरया सादृश्यम्, स्मरणस्य च मात्रा । तत्र मातुः स्मर्यमाणाया अधिकरणस्य च मधुराया न काचित् तादृशी क्रिया लक्ष्यते, याध्ययनस्मरणयोस्तुल्या स्यादिति तस्यां मातृमधुराशब्दयोर्वृत्तिः कल्प्यते ।
यदि परमध्ययनस्याध्ययनान्तरं स्मरणस्य च स्मरणान्तरमाश्रयभेदेन भिन्नं सदृशं स्यात्, तच्च कर्तृसमवेतमिति कर्माधिकरणयोर्मातृमधुरयोरस्यासम्भव एव ।। 528 ।।
तस्मात् कथमत्र पूर्वेण प्रत्यय इत्यत आह--
मधुराविषयः पाठः स्मरणं मातृकर्मकम् ।
मधुरामातृशब्दाभ्यामभेदेनाभिधीयते ।। 529 ।।
मदुरया तुल्यमधीय इत्युपमेयेऽध्ययनक्रिया श्रूयमाणोरमानेऽपि तामवगमयति समानधर्मप्रयुक्तत्वादौपम्यस्य । तथा च मधुराधिकरणकमध्ययनं मधुरेत्याधाराधेययोरभेदविवक्षायामयं प्रयोगः । एवं मातृविषयं स्मरणं विषयविषयिणोरभेदाभिसन्धानेन मातृशब्देन कथ्यत इति मात्रा तुल्यं स्मरामीति प्रयोगः । मधुराधिकरणेनाध्ययनेन तुल्यं स्मरामीति प्रयोगः । मधुराधिकरणेनाध्ययनेन तुल्यं पाटलिपुत्रेऽध्ययनम्, मातृविषयेण स्मरणेन तुल्यं देवदत्तायाः स्मरणमित्यर्थः ।
यद्यपि च मातात्र शेषः, तथापि वास्तवं कर्मत्वमभिप्रेत्य स्मरणं मातृकर्मकमित्युक्तम् । कर्मप्रभावितो ह्यत्र शेषः ।
तथाच " अधीगर्थदयेशां कर्मणि" (पा. 2/3/52) इति कर्मणः शेषत्वविवक्षायामियं षष्ठी प्रतिपदोक्ता समासनिवृत्त्यर्थमिति निर्णीतचरम् ।। 529 ।।
यथा च पूर्वं समुदायशब्दानामवयवे वृत्तिरुपपादिता, तथात्राप्यस्तीति निदर्शनपूर्वकमाह--
उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर्यथा ।
वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ।। 430 ।।
उष्ट्रो मुखमस्येत्येवमुष्ट्रमुखशब्दो व्युत्पाद्यते । तत्र चोपमानपूर्वपदस्योत्तरपदलोपः प्रत्याख्यातो भाष्ये । सामानाधिकरण्यान्यथानुपपत्त्या ह्युष्ट्रशब्दोऽत्रोष्ट्रावयये मुखे वर्तते ।
न च प्राण्यन्तरमुखं प्राण्यन्तरस्य सम्भवतीति सामर्थ्यादिवार्थगर्भीकारेणात्र सम्बन्धः ।
इत्थं चात्र यथा समुदायशब्दोऽवयवे वर्तते, तथा मधुराशब्दः समुदायवचनोऽप्यत्रैकदेशे गृहे वर्तत इति मधुरातुल्याः पाटलिपुत्रे गृहा इत्यप्ययमर्थो मधुरागृहैस्तुल्याः पाटलिपुत्रगृहा इति । चशब्दोऽत्र तथाशब्दार्थे । यद्वा निदर्शनान्तर्भावनेन दृष्टन्तदार्ष्टान्तिकयोः समुच्चयेन निर्देशोपपत्तिः । एवमनेन मधुराया इव पाटलिपुत्रस्य गृहा इतीवार्थविषयो वतिः सङ्गृह्यते ।। 430 ।।
यद्वात्रोपचारात् क्रियायां द्रव्यवचनस्य वृत्तिर्मा भूत् । क्रियाद्वारकं तु द्रव्ययोरेव साम्यमिति निदर्शनद्वारेण व्युत्पादयितुमाह--
यथाध्ययनयोः साम्यमध्येत्रोरपदिश्यते ।
तथा क्रियागतैर्धर्मैरुच्यन्ते साधनाश्रयाः ।। 431 ।।
ब्राह्मणवदधीते क्षत्रिय इत्यध्ययनक्रिययोः साम्यं तुल्यत्वमध्येत्रोस्तत्साधनयोः कर्त्रोराख्यायते ।
तथा ह्यध्ययनद्वारेणाधीयानयोरुपमानोपमेयभावो व्यवस्थाप्यते । एवं मधुरावदधीते, मातृवत् स्मरतीत्यध्ययनस्मरणाख्यक्रियाश्रयैर्धर्मैः सादृश्यलक्षणैः कारकशक्त्याधारा मधुरादयः कथ्यन्ते ।
अद्ययनस्मरणद्वारेण हि तत्कर्माधिकरणयोरुपमानोपमेयभावलक्षणः सम्बन्धोऽवतिष्ठते । न हि कर्तार एव क्रियाद्वारेण सम्बन्धमनुभवन्ति, साधनमात्रेण क्रियाया अविनाभावात् । तदेवं मधुरया तुल्यमधीते, मात्रा तुल्यं स्मरतीत्यादावपि पूर्वेणैव वतिः सिद्धः ।। 431 ।।
तत्रैतत् स्यात्--क्रियोपाधौ सादृश्ये पूर्वेण विधिः । तथा च वतिनैवान्तर्भावात् क्रियायास्तद्वचनस्य प्रयोगो न भवति ।
इह तु सामान्ये सादृश्यमात्रे विधानमित्यस्ति विशेष इत्याशङ्क्याह--
इवार्थे यच्च वचनं पूर्वसूत्रे च यो विधिः ।
क्रियाशब्दश्रुतौ भेदो न कश्चित् विद्यते तयोः ।। 432 ।।
सति क्रियापदप्रयोगे "तेन तुल्यं क्रिया चेद् वतिः" (पा. 5/2/225) इत्यनेन पूर्वसूत्रेण "तत्र तस्यैव" (पा. 5/2/116) इत्यस्य योगस्य विषयो व्याप्त इति नेदमारब्धव्यम् ।। 432 ।।
न च पूर्वेण विधौ क्रियापदप्रयोगो नास्ति, यतः--
यद्यप्युपाधिरन्यत्र नियतो न प्रयुज्यते ।
रूपाभेदात् त्वनिर्ज्ञाता क्रियात्र श्रूयते पुनः ।। 533 ।।
"हरतेर्दृतिनाथयोः पशौ" (पा. 3/2/25), "सास्य देवता' (पा. 4/2/24) इत्यादावयं पश्वादिरुपाधिरवच्छेदको विशिष्ट इति दृतिहरिरित्यादौ प्रयोगे स्वशब्देन नोपादीयते, प्रत्ययेनैव गमितत्वात् । नियते ह्यर्थे विधीयमानः प्रत्ययो नार्थान्तरे सन्दिह्यते ।
इह पुनः सामान्येन क्रियोपाधिरिति वत्यन्तान्नियोगतः क्रियाविशेषस्यावगमाद् विशिष्यक्रियावचनस्य प्रयोगोऽवश्यम्भावी वृत्तिपदं ह्यविशिष्यरूपं क्रियामात्राप्रत्यायने समर्थं स्यात्, न तु नियतक्रियावेदने तस्य शक्तिः ।। 533 ।।
एतदेव निदर्शनेन साधयति--
यथा व्युत्परयऋ पुच्छौ क्यङ्न्ते सुदरादयः ।
सत्यपि प्रत्ययार्थत्वे भेदाभावादुदाहृताः ।। 534 ।।
पुच्छादुदसनव्यसनपर्यसनेषु णङो विधिरुक्तः । तथा च पुच्छौ ण्यन्ते पुच्छयतावविशेषादुदसनादीनां सामान्येनावगमे विशेषाभिव्यक्तये प्रत्ययेनैवान्तर्भाविते व्युदसनादावुदादेरुपसर्गस्य प्रयोगोऽङ्गीकृतः । उत्पुच्छयते, विपुच्छयते, परिपुच्छयत इति । तथा भृशादिष्वभिमनस् इत्यादावुपसर्गाणां प्रकृत्यर्थविशेषणपक्षेऽडादिषु दोषात् सिद्धान्तिते, भवत्यर्थलक्षणप्रत्ययार्थविशेषणपक्षे प्रत्ययेनैवोपगृहीतार्थत्वेऽपि रूपाभेदात् प्रत्ययान्तस्य विशेषाभिव्यक्तावसामर्थ्यात् प्रयोगोऽङ्गीकृतः । अभिमनायते, सुमनायते, दुर्मनायत इति ।
एवं क्रियामात्रे वतेर्विधानात् तदन्तेन क्रियाविशेषानभिव्यक्तौ तदभिव्यक्त्यर्थं क्रियापदप्रयोगो न्याय्यः । तथा च क्रियाशब्दश्रुतौ भेदाभावात् पूर्वेणैव सिद्धमिति स्थितम् ।। 534 ।।
एतदेव निगमयति--
एवञ्च सति पूर्वेण सिद्धोऽत्रापि वतेर्विधिः ।
नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ।। 535 ।।
इह यदा पूर्वसूत्रेण वतिः, तदापि तेन क्रियासामान्यस्याभिधानाद् विशेषव्यक्तये क्रियापदप्रयोग इति नियमो भवति, विशेषान्तरव्यच्छेदात् । अनेन तु योगेन यो वतिः, स सादृश्यमात्रमुपादत्त इत्यनाख्यातत्वाद् वत्यन्तेन क्रियायाः क्रियाशब्देन प्रत्यायनमपूर्वमवतिष्ठते ।
इत्थं चैतावानत्र भेदः । क्रियाशब्दप्रयोगस्तु सर्वथा न भिद्यते न विशिष्यत इत्यनर्थकः पुनर्वतेरनेन विधिर्लक्ष्ये विशेषाभावादित्यभिप्रायः पूर्वपक्षभाष्ये व्याख्यातः ।। 535 ।।
अनन्तरमक्रियार्थोऽयमारम्भ इति योगप्रयोजनमुक्तं व्याचष्टे--
इवे द्रव्यादिविषयः प्रत्ययः पुनरुच्यते ।
क्रियाणामेव सादृश्ये पूर्वसूत्रे विधीयते ।। 536 ।।
"तेन तुल्यम्" (पा. 1/1/115) इत्यनेन क्रियया तुल्यत्वस्य विशेषणात् क्रियानिमित्ते साम्ये वतिरुक्तः । तथा च गवा तुल्यो गवय इत्यत्र क्रियासादृश्ये वतिर्न भवति । अनेन त्विवार्थे वतिर्द्रव्यगुणनिमित्तेऽपि सादृश्ये भूयो विधीयत इत्यस्ति विशेषः ।। 536 ।।
तथा ह्यत्रोदाहरणम्--
मधुरायामिव गृहा ब्राह्मणस्येव पाण्डुराः ।
इत्यत्र द्रव्यगुणयोः पूर्वेण न वतिर्भवेत् ।। 537 ।।
मधुरायामिव पाटलिपुत्रे गृहा निचितनवरत्ना इत्यत्र गृहद्रव्ययोस्तुल्यत्वम्, ब्राह्मणस्येव क्षत्रियस्य शुक्ला दन्ता इति शौक्ल्यगुणनिमित्तं सादृश्यम् ।
अत्र पूर्वसूत्रेण वतिर्न भवति, तस्य क्रियानिमित्तसादृश्ये नियमितत्वादिति पुनरिहोच्यते ।। 537 ।।
एतदाक्षिपति--
आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते ।
ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति ।। 538 ।।
"तत्र तस्येव" (पा. 5/1/116) इत्यस्य योगस्य द्रव्यगुणतुल्यत्वार्थे करणेऽङ्गीक्रियमाणे पूर्वत्र क्रियाग्रहणमकृत्वा नारब्धव्यमिदम् ।
तथाहि--क्रियाग्रहणस्य द्रव्यगुणनिमित्ते सादृश्ये मा भूदिति प्रयोजनम् । तत्रापि चानेन विधावनर्थकं तद्व्यावर्त्याभावादिति तेन तुल्यमित्येवास्तु सर्वविषये सादृश्ये वतिविधानमित्यत्रार्थः ।। 538 ।।
ननु च न मधुरया तुल्या गृहाः, नापि देवदत्तेन तुल्या दन्ताः, अपि तु मधुराधिकरणैर्गृहैरितरे तुल्याः, देवदत्तसम्बन्धिभिश्च दन्तैरितरे दन्ता इति पूर्वेणासिद्धौ षष्ठीसप्तमीसमर्थाद् वतिविधानं युक्तमेवेत्याशङ्क्याह--
मधुरावयवे वृत्तिर्व्याख्याता मधुराश्रुतेः ।
ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ।। 539 ।।
नेदमपूर्वं चोद्यते, प्रागेवास्यार्थस्य निर्णीतत्वात् । तथा ह्यष्ट्रशब्दो यथावयवे मुखे वर्तते, तथा मधुरादिशब्दस्तदवयवे गृहे वर्तिष्यत इति मधुरया तुल्या इत्यादिविग्रहोपपत्तिः । नियतावयवपरिग्रहश्चात्र दन्तादीनामुपमेयत्वेन प्रयोगादवधार्यते ।। 539 ।।
इदानीं पूर्वत्र क्रियाग्रहणस्य व्यवच्छेद्यमुपदर्शयन्निवार्थविषयस्य वतेरारम्भसमर्थनार्थमाह--
न काचिदिवयोगे तु बाह्यात् सम्बन्धिनो विना ।
षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ।। 540 ।।
यदि पूर्वत्र क्रियाग्रहणं न क्रियते, तदा गौरिव गवय इत्यत्रापि वतिः स्यात् । इवशब्दयोगे हि व्यतिरेकविभक्तिः षष्ठी न काचिदुपदिश्यतेऽनपेक्ष्य बाह्यं सम्बन्धिनमिवार्थमात्रे । इवार्थो हि सामानाधिकरण्येनैव समन्वेति, न तु व्यतिरेकं जनयति । तथा च तद्योगे प्रथमैव भवति ।। 540 ।।
ननु पूर्वत्र तृतीयासमर्थाद् वतिरित्यत्र प्रथमासमर्थात् कथं प्रसङ्ग आपद्यते इत्यत आह--
आधिक्यं तुल्यशब्देन सम्बन्ध उपजायते ।
षष्ठीतृतीये तत्र स्तस्तुल्यशब्दो हि वाचकः ।। 541 ।।
तुल्यशब्दः स्वतन्त्रस्यार्थस्य वाचक इति तेन सत्त्वभूतार्थाभिधायिना समन्वये प्रतियोगिनो व्यतिरेकः समुद्भवति । तथा च "तुल्यार्थैः--" (पा. 2/3/72) इति विकल्पेन व्यतिरेकविभक्ती षष्ठीतृतीये भवतः ।। 541 ।।
तुल्यशब्दसमानार्थस्तु यदेवशब्दः प्रयुज्यते, तदा--
इवशब्दप्रयोगे तु बाह्यात् सम्बन्धिनो विना ।
नाधिक्यमुपमानेऽस्ति द्योतकः सम्प्रयुज्यते ।। 542 ।।
परपदार्थनिष्ठत्वेन प्रयोगात् तद्गतं विशेषं प्रकाशयन् स्वतन्त्रेणार्थेनायोगाद् व्यतिरेकमिवशब्दो द्योतको नापादयति । ततश्च यदा तुल्यशब्दसमानार्थेनेवशब्देन सादृस्यमुपदर्श्यते, तदा व्यतिरेकविभक्त्यभावादसति क्रियाग्रहणे पूर्वेण वतिर्भवेदित्यवश्यकर्तव्यमेतन्निवृत्त्यर्थं क्रियाग्रहणम् । तथा चाक्रियार्थोऽयमारम्भो युज्यत इत्यर्थः ।
न चानेनेवार्थे प्रथमासमर्थाद् गौरिव गवय इत्यत्र प्रसज्यते, `तत्र तस्येव' इति समर्थविभक्तिनियमादिति न किञ्चिदनिष्टम् ।। 542 ।।
ननु पूर्वत्र तुल्यशब्देनैव सादृश्यमुपदर्शयितव्यं तृतीयानिमित्तव्यतिरेकहेतुना, अनपेक्ष्य बाह्यं सम्बन्धिनं प्रकृत्यर्थस्येवार्थेन समन्वयाभावादिवशब्देन सादृश्योपदर्शनायोगादिति कुतो गौरिव गवय इत्यत्र प्रत्ययप्रसङ्ग इत्याशङ्क्य, इवतुल्यनिमित्तयोर्व्यतिरेकयो र्भेदप्रदर्शनेनासति क्रियाग्रहणे पूर्वयोगेन तुल्यनिमित्ते व्यतिरेके विधीयमानो वतिस्तुल्यशब्देनापि सादृश्योपदर्शनेऽतिप्रसज्जेदेवेत्याह--
इवे यो व्यतिरेकोऽत्र स प्रालादादिहेतुकः ।
तुल्ये तद्विषयापेक्षमाधिक्यमुपजायते ।। 543 ।।
मधुरायामिव पाटलिपुत्रे प्रासादाः, देवदत्तस्येव यज्ञदत्तस्य दन्ता इति योऽयमिवशब्दप्रयोगे व्यतिरेकः षष्ठीसप्त मीविभक्तिनिमित्त उपलभ्यते, नासाविवार्थनिबन्धनः । अपि त्वनपेक्षित एवेवार्थयोगे दन्ताप्रासादादिनिमित्तोऽयम् ।
ततश्च प्रत्ययार्थहेतुकस्य व्यतिरेकस्यात्रासम्भवात् सामर्थ्याद् बाह्यसम्बन्धिनिमित्तषष्ठीसप्तम्यन्ताद् वतिरवतिष्ठते । पूर्वेण तुल्यार्थे तु यो वतिस्तत्र बाह्यं सम्बन्धिनमनपेक्ष्यैव तुल्यार्थनिमित्त एव व्यतिरेके तृतीयान्ताद् वतिरिति भिन्नविषयतानयोः ।। 543 ।।
तथा चासति पूर्वत्र क्रियाग्रहणे तुल्यार्थनिमित्ते व्यतिरेकेऽतिप्रसङ्गमुदाहरति--
गवयेन समोऽनड्वानिति वृत्तिस्तदा भवेत् ।
न त्वस्ति गौरिवेत्यत्र व्यतिरेक इवाश्रयः ।। 544 ।।
क्रियानिमित्ते तुल्यत्वे क्रियाग्रहणप्रत्याख्यानेऽनादृते गवयेन तुल्योऽनड्वानित्यत्रापि वतिः स्यात् साक्षाद् द्रव्ययोरेव सादृश्ये । तस्मादवश्यकर्तव्यंपूर्वत्र क्रियाग्रहणमिति तेनासिद्धौ द्रव्यगुणसादृश्ये द्वितीययोगस्यारम्भो युक्तः ।
न च द्वितीयेन योगेन गवयेन तुल्योऽनड्वानित्यत्र प्राप्नोति, इवार्थनिबन्धनो हि व्यतिरेको न सम्भवतीति बाह्यसम्बन्ध्यपेक्षे तस्मिन् वतिर्द्वितीयेन योगेन न भवति । न चात्र बाह्यसम्बन्ध्यनुसरणम् । अत एव सादृश्यभावः ।
न चापि गौरिव इत्यत्रापि द्वितीयेन योगेन प्रत्ययः प्राप्नोति, इवार्थनिबन्धनस्य व्यतिरेकस्याभावाद् बाह्यसम्बन्ध्यननुसरणात् ।
तथा चात्र षष्ठ्यभावात् प्रथमैव । न च प्रथमासमर्थाद् द्वितीयेन योगेन प्रत्ययो विहितः ।
यदा तु बाह्योऽपेक्ष्यते सम्बन्धी, तदा गौरिव गवयस्य संस्थानमिति भवत्येव वतिर्गोवदिति ।। 544 ।।
तदेवं क्रियाग्रहणसमर्थनेन योगद्वयारम्भे समर्थिते पूर्वोत्तरयोर्योगयोर्विषयविभागेनावस्थानमाह--
उपमेयेन सम्बन्धात् प्राक् तु प्रासादादिहेतुके ।
व्यतिरेके वतेर्भावो न तु तुल्याप्थहेतुके ।। 545 ।।
प्रागुपमेयसम्बन्धात् प्रासादिदिनिमित्तवशेसञ्चातेव्यतिरेके तद्विभक्तौ षष्ठ्यां सप्तम्यां चोपजातायां पश्चादिवार्थयोगे सत्युपमेयसम्बन्धे वतिर्द्वितीयेन योगेन । बाह्यसम्बन्धि समुत्थापिते व्यतिरेके समुपजातेऽन्तरङ्गे तन्निमित्तव्यतिरेकविभक्तीस्तृतीया समर्था ।
तत्र हि तुल्यार्थनिमित्तस्यैव व्यतिरेकस्योद्भवाद् बाह्यसम्बन्ध्यपेक्षा निष्प्रमाणिका । किन्तु असति क्रियाग्रहणे ब्राह्मणेन तुल्यः क्षत्रिय इति धर्मान्तरनिमित्तेऽपि सादृश्ये स्याद् वतिरिति विभक्तविषयत्वेऽपि योगयोः क्रियाग्रहणं कर्तव्यमेव । तदेवमक्रियार्थः समर्थितः "तत्र तस्येव" (पा. 5/1/16) इत्यारम्भः ।। 545 ।।
तत्रैतत् स्यात्--प्रकृतांविभक्तिं परित्यज्य किमर्थं समर्थविभक्त्यन्तमुपादीयते, तत्र भाष्यम्--`न काचिदिवशब्देन योगे तृतीया विधीयते' इति ।
तद् व्याचष्टे--
इवशब्देन सम्बन्धे न तृतीया विधीयते ।
प्रकृतां तामतस्त्यक्त्वा विभक्त्यन्तरमाश्रितम् ।। 546 ।।
इवशब्देन प्रत्ययार्थे निर्दिष्टे प्रकृताया एव विभक्तेस्तेन सम्बन्धः कल्प्येत, यदीवशब्दयोगे शेषविषये तृतीया विधीयेत "तुल्यार्थैः" (पा. 2/3/72) इति तृतीया इवशब्दयोगेऽविधानादिवशब्दस्य द्योतकत्वात् तुल्यार्थत्वाभावात् ।
एवं तावदन्तरङ्गे सम्बन्धे नास्तीवयोगे तृतीया, नापि तद्योगे शेषविषये तृतीया ज्ञापयितुमिष्टा सप्तमीवत् । बाह्यसम्बन्ध्यपेक्षायां तु शेषविङक्तिर्नास्तीवार्थयोगे । अपि तु कारकविभक्तिर्यथायथं क्रियासम्बन्धे भवति । न च तया कारकविभक्त्या तृतीयया सर्वो विभक्त्यर्थो व्याप्तस्तुल्यार्थयोगे तृतीयावद् यथा प्राक् प्रदर्शितमिति प्रकृतासम्भवन्तीं तृतीयां परित्यज्य षष्ठीसप्तम्यौ बाह्यार्थसम्बन्धोपजनितव्यतिरेकनिमित्ते निर्दिश्येते । ताभ्यां च तुल्यशब्दस्य समन्लयानुपपत्तेः प्रत्ययार्थोऽप्यन्य इवशब्देनेह दर्शितः । तथा चान्तरङ्गे सम्बन्धे पूर्वो विधिः, अयं तु बाह्यसम्बन्ध्यपेक्षायामिति स्फुटो विवेकः ।
अतोऽनन्तरं भाष्यम्--`ननु च सप्तम्यपि न विधीयते । एवं तर्हि सिद्धे सति यदिवशब्दयोगे सप्तमी शास्ति, तज्ज्ञापयत्याचार्यो भवतीवशब्देन योगे सप्तमीति । किमेतस्य ज्ञापने प्रयोजनम् । देवेष्विव नाम ब्राह्मणेष्विव नामेत्येष प्रयोग उपपन्नो भवति' इति ।
शेषविषये यथा तृतीया नास्ति, तथा सप्तम्यपीत्यत एव ज्ञापकाद् यथा सप्तमी भवत्येवं तृतीयापि भविष्यति । इवशब्दयोगे तस्मादेव ज्ञापकादित्यनुवृत्त्यैव तृतीयान्ताद् वतौ सिद्धे तत्रेति सप्तमीनिर्देशो ज्ञापयति शेषविषये भवतीवशब्दयोगे सप्तमीति । तृतीया तु नेष्यत इति नासौ ज्ञाप्यत इति भाष्यार्थः ।। 546 ।।
एतद् विवृणोति--
सप्तम्यपि न तत्रास्ति ज्ञापनार्था तु सा कृता ।
इष्टा सा शेषविषये नियतासु विभक्तिषु ।। 547 ।।
बाह्यसम्बन्धिनिमित्तस्य व्यतिरेकस्य षष्ठ्यैव संग्रहात् सप्तमीविभक्तिरत्र तृतीयावदेव नास्ति । तथा चेयमपि नोपादेया ।
ननु च षष्ठीसमर्थाद् विधौ सप्तम्यर्थस्य न सग्रहः, येन सप्तम्यन्तमुपमेयं प्रयुज्येत मधुरावत् पाटलिपुत्रे प्राकारा इति । षष्ठ्यर्थो हि शेषः, सप्तम्यर्थस्त्वाधारः साधनम् ।
न च युगपच्छेषसाधनयोर्विवक्षा न्याय्या, विरोधात् । साधनानां ह्यविवक्षा शेष इत्युक्तम् ।
अत्र प्रतिपाद्यते-षष्ठीसमर्थादपि वतौ वृत्तौ विभक्तिविशेषस्याश्रवणादुपमानोपमेयभावमात्रस्यावगतेः सम्बन्धसामान्ये सर्वविशेषान्तर्भावाद् युज्यते सप्तम्यन्तमुपमेयम् ।
तथाहि--वत्यन्तेन पदेनौपम्यमात्रं प्रतिपाद्यते, लोके विशेषाविर्भावने तस्याशक्तत्वादिति शास्त्रे तथैवानुगमात् सम्बन्धसामान्ये षष्ठीसमर्थादेव वतिरुपदिश्यते । सर्वविशेषाणां च सम्बन्धसामान्येऽन्तर्भावाद् यदोपमेयं सप्तम्यन्तं प्रयुज्यते, तदा तत्राधिकरणत्वविवक्षायामुपमानेऽप्यधिकरणविषयत्वमवसीयते । गुणीभूतं ह्युपमानं प्रकृत्यर्थः प्रत्ययार्थे वत्यर्थेऽत्रेत्युपमेयाद् विशेषावधारणं तस्य । तथा चोद्घोष्यते--उपमाने यः संशयः स उपमेयाद् व्यावर्तत इति ।
नन्वनेन न्यायने मतुप्प्रत्ययोऽपि षष्ठीसमर्थादेव विधेयः, तथापि सप्तमिय्र्थस्यावगमादिति किं तत्रास्मिन्निति सप्तमीनिर्देशेन । नैतत् समानम् । मतुपो हि षष्ठीसप्तम्यर्थ एव वाच्यः प्रधानमिति वृक्षवान् पर्वत इत्यादावाधारभावः श्रुत्यैवावगम्यमानोऽस्मिन्निति भेदेन षष्ठ्या निर्देष्टुं न्याय्यः ।
अन्वाख्याने हि प्रतीयमानो लोकेऽर्थोऽङ्गभावेनोपादीयते । अस्ति चात्र विशेषेण प्रतीतिः । वतौ पुनरुपसर्जनभूतः प्रकृत्यर्थ इति तदन्तादौपम्यमात्रस्य प्रतीतिः प्रधानस्य प्रत्ययार्थस्येति तदेव षष्ठ्या समर्थविभक्त्या गुणभूतेन प्रकृत्यर्थेन योजनीयमिति तयैव सप्तम्यर्थस्य व्याप्तेः सप्तमी नोपादेया सती ज्ञापनायोपादीयमाना प्रकल्पते ।
तथाहि--यथायोगं नियतविषयावस्थानासु विभक्तिषु परस्परविषयावगाहनमनुपपन्नमित्यत्र षष्ठीविषये शेषे सप्तमी भवतीति ज्ञाप्यते, यथेवशब्दयोगे षष्ठी भवति बाह्यसम्बन्धिनिमित्ता तथा सप्तम्यपीत्यर्थः ।। 547 ।।
तदन्यास्तु विभक्तयः स्वविषयप्रतिनियता इवयोगेऽपि न सङ्कीर्यन्त इत्याह--
यदि तु व्यतिरेकेण विषयेऽस्मिन् विभक्तयः ।
प्रवर्तेरंस्तृतीयैव व्यभिचारं प्रदर्शयेत् ।। 548 ।।
असमिन्निवार्थविषये सर्वा विभक्तयो यद्यविशेषेण स्वाविषयातिक्रमेण सङ्करेण स्युरित्येवं ज्ञापनमत्रेष्टं स्यात्, तदा प्रकृता तृतीयैवेममर्थं शक्नोति ज्ञापयितुमिति तां त्यक्त्वा विभक्त्यन्तराश्रयणे न स्यात् ।
विभक्त्यन्तरोपादाने तु सप्तम्येव शेषविषयेऽत्र भवति, नान्या विभक्तय इति विशेषेण ज्ञापनमिष्टमित्यवसीयते । ततश्च देवैरिव नामेत्यादिप्रयोगोऽसाधुः ।। 548 ।।
एतदेव निगमयितुम् `एवं तर्हि सिद्धं' इति भाष्यं निगमयति--
व्यभिचारे तथासिद्धे सप्तमीग्रहणाद् विना ।
सप्तम्येवोच्यते सर्वा न सन्त्यन्या विभक्तयः ।। 549 ।।
तथेति तृतीयानुवृत्त्या सङ्करे निश्चितेऽन्तरेणापि सप्तमीग्रहणं यत् तस्या उपादानम्, तज्ज्ञापकस्य नियतविषयतां दर्शयति ।। 549 ।।
एवं तर्हि सप्तम्येवात्रोपदीयताम् । तथा हि--ज्ञापनमपि सिध्यति । षष्ठ्यान्ताच्च वतौ योऽर्थः, स एव सप्तम्यन्तादपि । विषयभावलक्षणो हि सप्तम्यर्थः षष्ठ्यर्थमपि सङ्ग्रहीतुं प्रभवति । तथा च भाष्यम्--`नित्यं परिग्रहीतव्यं परिग्रहीत्रधीनं भवति' इत्याशङ्क्याह--
अत्यन्तस्य विषये सप्तम्या ज्ञापनार्थया ।
बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ।। 550 ।।
इवार्थविषयेऽसम्भवन्ती सप्तमी निर्दिश्यमाना स्वात्मनोऽभावं तत्र नित्यमेव ज्ञापयतीति पक्षे षष्ठी नैव स्यादिति तस्या अपि ग्रहणमत्र पक्षे भावार्थम् ।
ननु चासति षष्ठ्युपादाने केवलसप्तमीनिर्देशे बाह्यसम्बन्धिनिमित्तेऽधिकरण एव सप्तम्या उपपद्यमानत्वे कथं शेषविषये भावो ज्ञाप्यते । सत्यां हि षष्ठ्यां शेषोऽयमिति निश्चीयते, तत्रैव षष्ठ्युपपत्तेरिति तत्साहचर्येण सप्तमी निर्दिश्यमाना स्वात्मानं तद्विषयं ज्ञापयेत् ।
तस्मात् षष्ठ्या अनिर्देशे सप्तम्या ज्ञापकत्वमेव नोपपद्येत । कुत एव तया षष्ठी बाध्येत । सत्यमेतत् अन्यतास्यैव तु विभक्त्यात्रेतरविषयव्याप्तिसिद्धेरुभयोपादानादेका ज्ञापनार्था सम्पद्यते । तत्र च सप्तमीविषये षष्ठ्या अनिष्टत्वात् सप्तम्येव ज्ञापनार्था भाष्येऽभिहिता । षष्ठ्यन्तादपि च वतेरिष्टत्वात् स्वविषये षष्ठी नापावर्ततेऽत्रेतीयमेवास्या अबाधाख्यायते ।
ननु च यदि शेषविषये सप्तमीयम्, अत एव ज्ञापकादित्युच्यते, तदाधिकरणसप्तम्यन्ताद् वतिर्न स्यात् । मधुरायामिव पाटलिपुत्रे प्राकारा इति । एतस्मिन् हि विषये शेषविषयेयं सप्तमीत्यनुप्रयोगे पाटलिपुत्र इति सप्तमी न स्याद् अन्तरेणाधाराधेयविवक्षाम् । इवशब्दयोगे हि शेषविषया सप्तमी ज्ञाप्यते । न चानुप्रयोगेऽस्तीवशब्दः । तस्मान्मधुरायामिव पाटलिपुत्रस्य प्राकारा इत्येव सिध्येत् । सत्यमेतत् । तत्रेत्येतत् पुनरावर्तते, तन्त्रेण वा निर्देश इत्यधिकरणसप्तम्यन्ताद् वतिरेकेन क्रियते । अपरेण शेषविषये सप्तमी ज्ञाप्यत इति भाष्यकाराभिप्रायमुपाध्याया वर्णयन्ति ।
अन्ये त्वाहुः--सप्तम्यर्थोऽप्याधाराधेयभावः सम्बन्धसामान्यविहितया षष्ठ्यान्तर्भावयितुं शक्यत एवेत्यनुप्रयोगे सप्तम्यन्तेऽपि षष्ठ्यन्तादेव प्रत्ययः । न ह्यत्राधाराधेयभावविवक्षायां वतिप्रत्ययो निवार्यते सप्तम्यर्थे, अपि तु शेषविवक्षायामिवशब्दप्रयोगेऽस्ति सप्तमीत्येव ज्ञाप्यते परम् । गतमेतत् ।। 550 ।।
इदानीं क्रमप्राप्तः "तदर्हम्" (पा. 5/1/117) इति विहितोऽर्हार्थे वतिर्विचार्यते । तथाहि--तत्राक्षेपभाष्यम्--`किमर्थमिदमुच्यते ? न "तेन तुल्यं किया चेद् वतिः' इत्येवं सिद्धम्' इति । एतद् व्याचष्टे--
पूर्वाभ्यामेव योगाभ्यां विग्रहान्तरकल्पनात् ।
अर्हार्थेऽपि वतिः सिद्धः स त्वेकेन निदर्श्यते ।। 551 ।।
इह राजानमर्हति वृत्तं राजवद् वृत्तमित्युदाहरणम् । अत्र च क्रियाग्रहणस्यानुवृत्तेस्तदिति द्वितीयासमर्थादर्हतेः कर्तरि क्रियालक्षणे प्रत्ययो वतिः । अर्हतेः कर्त्री या क्रिया वृत्तादिलक्षणा तस्यां प्रत्ययः । एष चार्थो यदा विभागप्रदर्शकं राज्ञा तुल्यं वर्तते वृत्तिमिति वाक्यं क्रियते, तदापि प्रतीयते । ततश्च तृतीयान्तात् `तेन तुल्यम्' (5-1-115) इत्येवात्र वतिः सिद्धः । यदापि राजानमर्हति धैर्यं राजवद् धैर्यं वेषो वा, ब्राह्मणमर्हत्युपशमो ब्राह्मणवदुपशम इत्युदाहरणम्, तदापि "तत्र तस्येव" (पा. 5/1/116) इत्यनेन प्रत्ययः सिद्धः ।
क्रियातुल्यत्वाभावात् `तेन तुल्यम्' इत्यनेनात्रासिद्धिः । यत् किल राजानधैर्यम्, तद्राज्ञ इव धैर्यमिति शक्यते वक्तुं, केवलं मर्हत्यन्यस्य विग्रहवाक्यभेजमात्रम्, वस्तुनोऽभेदः ।
यया तु भाष्ये, `तेन तुल्यमित्येव सिद्धम्' इत्येकेन योगेन सिद्धिरुक्ता,सोरलक्षणार्था वेदतव्या । उदाहरणमात्रं हि तत् ।
तथा च स वतिरेकेन निदर्श्यते उपलक्ष्यत इत्यर्थः । पूर्वेणैवात्र सिद्धिरित्येतावति तात्पर्यम् ।। 551 ।।
तत्र "तेन तुल्यं" (5/1/115) इत्यनेन तावद् कथं सिद्धिरित्याह--
तेन तुल्यमिति प्राप्तेः क्रियोपाधिः प्रसिध्यति ।
राजवद् वर्तते राजेत्यत्र भेदे विवक्षिते ।। 552 ।।
क्रिया तुल्यार्थलक्षणप्रत्ययार्थावच्चेदद्वारेणोपाधिर्विशेषणं यस्य वतेः स सिध्यति । "तेन तुल्यम्" (5/1/115) इत्यनेनैवात्र प्राप्तेस्तस्यानया वा प्राप्तेश्चेत्यर्थः । वर्तते राजेत्यर्थः, तदा कथम् ?
तथा हि--राजनमर्हति वृत्तमित्येष एवार्थो राज्ञा तुल्यं वृत्तमस्येति । ननु च भवेत् सिद्धं यदा राजवद् वर्तते ब्राह्मण इति विवक्षा, यदा तु राजवद् ।
न हि तेनैव तस्योपमानं सम्भवतीत्यत आह-अत्र भेदे विवक्षित इति । भेदोऽत्र विवक्षित इत्यौपम्यमस्ति ।। 552 ।।
कथमेकस्य भेद इत्याह--
राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः ।
युधिष्ठिरान्तास्तेऽन्येषामुपमानं महीक्षिताम् ।। 553 ।।
इह पृथुभरतययातिदिलीपप्रभृतयोऽनवद्यचरिताः परिपूर्णराजवृत्ता युधिष्छिरावधयो राजानः । ते च प्राथमकल्पिकाः साम्प्रतिकस्यापरिपूर्णराजौचितसमाचारस्य प्रशंसार्थमुपमानमुपादीयन्ते, प्रसिद्धेन राज्ञा तुल्यमस्य वृत्तं राज्ञो राजवदयं वर्तत इति । अपरिपूर्णराजसमाचारस्य हि राजविपरीतमपि वृत्तं सम्भाव्यत इति प्रशंसायां राजवद् वृत्तमस्येत्युच्यते । तथा च भेदे सत्युपमानोपमेयभावः ।
प्रयोगसामर्थ्यादेव चैवंविधभेदावसायोऽत्र, अभेदे वतेरनुपपत्तेः ।। 553 ।।
ननु च प्रजापालननिमित्तं राजत्वमुपमेयस्याप्यस्तीति राजैवायमिति केन विशेषेणान्येनोपमीयते ? अथास्य रक्षादिराजकार्यं नास्ति, तदास्य सादृश्याभावात् कथमस्य प्रसिद्धो राजोपमानं स्यादित्यत आह--
सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः ।
सर्वत्रैव यतोऽसिद्धं प्रसिद्धेनोपमीयते ।। 554 ।।
परिपूर्णापरिपूरणगुणनिमित्तः प्रसिद्ध्यप्रसिद्धिवृतः सर्वत्रोपमानोपमेयभावो नेहैवेति नात्र विचिकित्सा, सर्वथा भेदेऽभेदे वा तस्यानुपपत्तेरावेदितत्वात् । तथाहि--ब्राह्मणवदधीते क्षत्रिय इति करणसौष्ठवातिशयाद् ब्राह्मणाध्ययनं प्रसिद्धमप्रसिद्धस्य क्षत्रियाध्ययनस्योपमानम् । एवमिह यस्य परिपूर्णं राजत्वं चतुरुदधिमेखलापर्यन्तपृथिवीपालनात्, स प्रसिद्धो भरतादी राजैव व्यपदिश्यते । न त्वस्य राजानं वृत्त्मर्हतीति व्यपदेशः ।
यस्त्वेकदेशस्वामी कोशदण्डादिसाधनदरिद्रोऽकृतात्मरक्षोऽविश्रृङ्खलचेष्टः सम्भावितः, स प्रशस्यते, राजवद् वृत्तमस्येति । एवं प्रसिद्धेन वसिष्ठादिना ब्राह्मणेनान्यो ब्राह्मणवदयं वर्तते ब्राह्मण इत्युपमीयते । तदेवमत्र "तेन तुल्यम्" (पा. 5/1/115) इति सिद्धिः ।। 554 ।।
"तत्र तस्येव" (पा. 5/1/116) इत्यनेन क्व सिद्धिरित्याह--
राजवद् रूपमस्येति राजन्येव विवक्षिते ।
अक्रियार्थेन योगेन द्वितीयेन भविष्यति ।। 555 ।।
अक्रियार्थोऽयमारम्भ इति व्यवस्थापितम् । तथा च रूपादिगुणतुल्येऽनेन सिध्यति वतिः । भरतस्य राज्ञ इवास्य रूपं धैर्यमुपशमो राजवदिति ।
एतच्चारब्धेऽपि "तदर्हम्" (पा. 5/1/117) इत्यस्मिन्नर्हतेः कर्त्र्यां क्रियायामेव प्रत्ययस्येष्टेर्न सिध्यतीत्यवश्यं पूर्वेण साध्यम् । तदेवं पूर्वेण सिद्धिरूपपादिता ।। 555 ।।
्तोऽनन्तरमारम्भसमर्थनार्थं भाष्यम्--`न सिध्यति । तृतीयासमर्थात् तत्र यदान्येन कर्तव्यां क्रियामन्यः करोति, तदा प्रत्यय उत्पद्यते । इह पुनर्द्वितीयासमर्थादात्मार्हायां क्रियायामर्हतिकर्तरि निश्चितबलाधाने प्रत्यय उत्पद्यत' इति । एतद् व्याचष्टे--
उपमानाविवक्षायां नियमार्थोऽयमुच्यते ।
धर्मोऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ।। 556 ।।
इह यदा सामान्यवचनो राजशब्द उपादीयते, तदा जातिमात्रोपादाने भेदस्याविवक्षितत्वात् तन्निबन्धन उपमानोपमेयभावो नास्ति । तत्र हि राजानमेवायमाचारोऽर्हति नान्यमित्यवधारणविवक्षा । राजसम्बन्धित्वेनावधारितस्यापि वृत्तस्यान्यसम्बन्धापाकरणेन बलाधानं स्थैर्योत्पादनमत्र विवक्षितं राजवदिदं वृत्तं वर्तत इति ।। 556 ।।
किञ्च, यदा तेषामेव प्रसिद्धानां राज्ञां कश्चिदुच्यते राजवद् वर्तत इति, तदोपमानोपमेयभावो नास्ति । तदाह--
कृतहस्तवदित्येतत् प्रसिद्धेष्वेव दृश्यते ।
राजत्वेन प्रसिद्धे च राज्ञि राजवदित्यपि ।। 557 ।।
कृतोऽभ्यासान्निवेशितो हस्तो येनासौ कृतहस्तोऽर्जुनप्रभृतिः प्रसिद्धः । स एव चैवमुच्यते `चिच्छेद कृतहस्तवद्' इति । नात्रापरेण कृतहस्तेन तुल्यत्वं विवक्षितम् । किं तर्हि, दृढमुष्टेरस्यैव य उचितश्छेदः शरीरपाटनं तदनेन कृतमित्येषोऽर्थो विवक्षितः । तथा चोपमानोपमेयभावाभावात् कृतहस्तमर्हति नान्यमित्येवं विज्ञातस्यापि कृतहस्तत्वेन नियमार्थं पुनः श्रुतिः कृतहस्तवदिति ।
एवं प्रसिद्धस्य राज्ञो राजत्वेन निर्ज्ञातस्यापि--
पाण्टोर्विदुर सर्वाणि प्रेतकार्याणि कारय ।
राजवद् राजसिंहस्य ।। (म.भा.)
इत्येतत् प्रयुज्यते । न चात्र पाण्डोरन्येन राज्ञा सम्भवत्युपमानम्, परिपूर्णगुणत्वात् ।
ततश्चायमत्रार्थः--यानि राजानमेवार्हन्ति प्रेतस्य परलोकप्राप्तस्य कार्याणि सम्पाद्यानि, तानि विधत्स्वेति ।। 557 ।।
तथा चास्य योगस्यायं तात्पर्यतो विषय इत्याह--
अराज्ञि येषां धर्माणां दृष्टोऽत्यन्तमसम्भवः ।
ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणा ।। 558 ।।
ये राजन्येव दृष्टा धर्मास्तेषां तत्रैव निश्चितानां बलाधानं स्थैर्योत्पादनं यदा विवक्षितं भवति, तदा नियमाय भवति प्रयोगः । नियमे चान्यनिवृत्तिरिति राजानमेवेदमेव च वृत्तमर्हतीत्युभयतो नियमः सम्पद्यते ।
यदाह--त्यज्यन्ते व्यभिचारिण इति । राजानमेवेदं वृत्तमर्हति, नेदमन्यैः साधारणमराजसु नास्त्यस्य सम्भव इति । `आत्मार्हायां क्रियायामर्हतिकर्तरि निश्चितबलाधाने' इत्यस्य भाष्यस्यार्थः । अर्हतिकर्ता वृत्तम्, व्यापारः क्रिया, तस्य च कर्तुव्यापारस्य कर्त्रन्तरेभ्यो यदावच्छेदो विवक्षितः, तदानेन सूत्रेण वतिरित्यर्थः ।
सा च क्रिया आत्मार्हा, द्वितीयान्तवाच्यस्यार्थस्यात्मनोऽर्हा नान्यार्हेति । राजवद्रूपं राजवद् धेर्यमित्यादौ तु "तत्र तस्येव" (पा. 5/1/116) इत्यनेनैव वतिः । "तदर्हम्" (पा. 5/1/116) इत्यनेन त्वर्हतेः कर्त्र्यां क्रियायां विधानादत्राप्राप्तेः ।
तदिदमत्रतात्पर्यम्--भेदे विवक्षिते पूर्वेण वतिः सिद्धः । अभेदविवक्षायां तूपमानोपमेयभावाभावान्नियमफलेनानेन वतिरिति ।। 558 ।।
ननु च राजानमर्हत्येतद् वासः, ब्राह्मणमर्हत्येष कमण्डलुरित्यत्र कस्मादयं वतिर्न भवति ? अनभिधानात् । तथा चेह क्रियाग्रहणानुवृत्तेरर्हतेः कर्त्र्यां क्रियायामेवायं प्रत्यय इत्याह--
अर्हतेश्च क्रिया कर्त्री या तस्यां वतिरिष्यते ।
राजानमर्हतिच्छत्रमिति न त्वेवमादिषु ।। 559 ।।
अर्हतिकर्तरीति सामान्येन विधानेऽपि वृत्तादिकायां क्रियायामेव प्रत्यय इष्यते, न छत्रादावर्हतिकर्तरि द्रव्ये ।। 559 ।।
कुत एतदित्याह--
प्रयुक्तानां हि शब्दानां शाश्त्रेणानुगमः सताम् ।
छत्राद्यर्थे तु वचने प्रत्याख्यानं न सम्भवेत् ।। 560 ।।
`सिद्धे शब्दार्थसम्बन्धे' शास्त्रारम्भान्न शास्त्रेण शब्दा जन्यन्ते, अपि तु शिष्टप्रवाहप्रयुक्तानां विद्यमानानामेव तेषां साधुत्वानुसरणमात्रमिति निर्णीतचरमेतत् । ततश्च `राजवच्छत्रम्, ब्राह्मणवत् कमण्डलुः' इत्यस्य शब्दस्योपमानोपमेयभावानङ्गीकरणेनार्हत्यर्थस्य विवक्षितस्याप्रत्यायकत्वादसाधुत्वेऽन्वाख्यानं नोपपद्यते ।
किञ्च `तेन तुल्यं--' (पा. 5/1/115) इत्यनेनैव सिद्धे प्रत्याख्यानं यदस्य योगस्य क्रियते, तदेवं सति न स्यात् ।
तथा हि--राजवच्छत्रमित्यादौ तेन तुल्यमित्यनेनासिद्धिः,क्रियोपाधौ तुल्यत्वे तेन विधानावच्छत्रादिषु कर्तृष्वसिद्धेरित्येतदर्थमिदं सूत्रं स्यादिति कथं प्रत्याख्यायते ? अभ्युपगम्य च तत्प्रत्याश्यानमन्यथा समर्थ्यमाने राजवद् वृत्तमित्यादौ प्रयोगे छत्रादौ कर्तरि प्रत्ययस्याभावः स्फुटमुक्तो भवति भाष्यकृतेत्याशयः ।
ततश्चारम्भेऽपि क्रियैवास्य वाच्येत्येवमारम्भप्रत्याख्याने समानफले भवतः ।। 560 ।।
तदेवं भाष्ये समर्थितोऽस्यारम्भः । प्रत्याख्यानं तु तत्र नास्तीति कुतो निश्चितं तदित्याह--
तदर्हमिति नारब्धं सूत्रं व्याकरणान्तरे ।
सम्भवत्युपमात्रापि भेदस्य परिकल्पना ।। 561 ।।
आपिशलाः काशकृत्स्नाश्च सूत्रमेतन्नधीयते । अतोऽवसीयते प्रत्याख्यानमस्य । तथाहि--भाष्यकारस्तन्त्रान्तरादेवावसितमर्थं स्ववचनेनादिदेश । `परमतमप्रतिषिद्धमनुमतमिति' हि तत्र युक्तिः । तत्र कोऽभिप्रायस्तेषामाचार्याणां, ये सूत्रमिदं नाधीयते ।
उच्यते--इहाभिन्नेऽप्यर्थे भेदपरिकल्पनयोपमानोपमेयभावोपपत्तेः पूर्वेणैव सिद्धो वतिरित्यस्यानारम्भः ।। 561 ।।
कथं भेदपरिकल्पनेत्याह--
एकस्य कार्यनिर्ज्ञानात् सिद्धस्य विषयान्तरे ।
तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ।। 562 ।।
एकस्याप्यर्थस्य विषयान्तरे निर्ज्ञातकार्यस्य यत्र विषयान्तरेऽन्यस्मिन् विषये तद्धर्मत्वं तत्कार्यकरणशक्तत्वं यदा विवक्षितं भवति, तदा तत्कार्यकरणनिमित्तया कल्पनया बुद्ध्या नानात्वं समारोप्यते । तथा च नानात्वस्यावस्थापनान्निजाच्चाभेदाद् भेदाभेदाश्रयमुपमानोपमेयत्वमुपपद्यते ।
तथा हि--यता भवानन्यस्मिन् रणे पूर्वत्राभ्यासवशाद्धस्तलाघवेनाच्छैत्सीत्, तथा तेन तुल्यमन्यदापि च्छिनत्तीति । एवं पूर्वापरकालतया कार्यभेदात् प्रसिद्ध्यप्रसिद्धिभ्यां च भेदकल्पनया `चिच्छेद कृतहस्तवत्' इत्येकत्राप्युपमानोपमेयभावोपपत्तौ सिद्धः पूर्वेणैव वतिः । तथा सामान्यवचनेऽपि राजशब्दे निर्ज्ञातविशेषवृत्तौ वा विषयान्तरे दृष्टेन धर्मेण प्रसिद्धेनप्रसिद्धस्योपमानम् । यानि वा भूतपूर्वाणां राज्ञां प्रेतकार्याणि तत्तुल्यतया पाण्डोरपि विधत्स्वेत्यर्थः ।। 562 ।।
अवश्यं चैतदेवं विज्ञेयम् । अन्यथा सूत्रारम्भे वतिर्भवतु । इवशब्दस्तु भेदाभावादत्र न स्यादित्याह--
सूत्रारम्भान्न चैतस्मादिवशब्दस्य विद्यते ।
प्रयोगः सोऽपि चैतस्य विषये विद्यते वतेः ।। 563 ।।
क्रियमाणे सूत्रे वचनात् प्रत्ययो लभ्यते । इवशब्दप्रयोगस्तु प्रसिद्धाद् भेदपरिकल्पनामन्तरेण न घटनामेतीत्यावश्यकोऽत्र भेदः ।। 563 ।।
दृश्यते च परिकल्पितभेदेऽन्यत्रापीवशब्द इत्याह--
दस्युहेन्द्र इवेत्येतदेन्द्रे मन्त्रे प्रयुज्यते ।
अन्यत्र दृष्टकर्मेन्द्रो यथेत्यस्मिन् विवक्षिते ।। 564 ।।
इन्द्र इव ह्युपस्तूयसे । इन्द्र इव दस्युहा भव, क्षेत्राणि सृजेत्यत्रेन्द्रदेवताके मन्त्रे दृष्टोऽयमिवशब्दो नानात्वाध्यारोपेणोपमानोपमेयभावं द्योतयति ।
तथाहि--इन्द्र एवेन्द्र इवेत्यत्रोपमीयते । नानात्वं च विषयान्तरे निर्ज्ञातकार्यस्य विषयान्तरे तद्धर्मत्वविवक्षायामत्र ।
ततश्चायमर्थः--यथा त्वमन्यत्रेन्द्रस्तस्करनिपातनव्यापारो भूतः, तथेहापि भवेति इन्द्रः इवेन्द्रः प्रसिद्ध्यप्रसिद्धिकृताद् दृष्टादृष्टकार्यभेदाद् भेदपरिकल्पनया कथ्यते ।। 564 ।।
अत्रैव लौकिकमप्युदाहरणमाह--
पूर्वामवस्थामाश्रित्या यावस्था व्यपदिश्यते ।
सदृशस्त्वं तवैवेति तत्रैवमभिधीयते ।। 565 ।।
अवस्थाभेदेन पदार्थभेदमाश्रित्य सादृश्यसम्प्रत्ययो दृष्टः । तद्यथा यौवनावस्थां चारुत्वातिशयवतीं प्रसिद्धामाश्रित्यान्या स्थाविरावस्थोपमीयते, तवैव सदृशस्त्वमिति । अवस्थाभेदे ह्यवस्थावतो भेदमाश्रित्य त्वया तुल्यस्त्वमित्येक एवोपमीयते ।। 565 ।।
तदयमत्र सङ्क्षेपः--
प्रसिद्धभेदं यत्रान्यदुपमानं न विद्यते ।
उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ।। 566 ।।
वास्तवे भेदेऽसति स्तुत्यतिशयविवक्षयानन्वयालङ्कारमुखेनैकस्यैवोपमानोपमेयभावः प्रतीतचरः । तद्यथा--
`रामरावणयोर्युद्धं रामरावणयोरिव' इति ।
एवं नान्यो भवतः सदृशः सम्भवति, यदि परस्त्वमेवात्मनः सदृश इत्युपमानान्तरासम्भवेन स्तूयतेऽर्थः । तत्र च बुद्धिपरिकल्पनया भेदः समवलम्बनीयः । तदेवं काल्पनिकस्य भेदस्य राजेव त्वं राजेतीवशब्दप्रयोगान्यथानुपपत्त्यावधारित्वात् पूर्वेणैव सिद्धेः प्रत्याख्यानं सिद्धम् ।। 566 ।।
तत्रैतत् स्यात्--गौणोऽयं विषयः । पूर्वसूत्रस्य सति च मुख्ये वास्तवभेदविषये कथमत्र प्रवृत्तिरित्याशङ्क्याह--
योऽपि स्वाभाविको भेदः सोऽपि बुद्धिनिबन्धनः ।
तेनास्मिन् विषये भिन्नमभिन्नं वा न विद्यते ।। 567 ।।
योऽपि वस्तुसन्निवेशी भेदः, सोऽपि बुद्ध्युपारूढ एव भेदव्यवहारं वर्तयतीति बुद्धेरेवात्र स्वातन्त्र्यादस्मिन् शब्दव्यवहारे वस्तुतो नाना एकं वा न सम्भवति, अभिन्नेऽपि बुद्ध्या भेदाद् भिन्नेऽपि चाभेदसमारोपेण व्यवहारात् तानेव शालीन् भुञ्ज्मह इति । उपमायां च बुद्धिपरिकल्पितभेदस्य हेतुत्वं प्रागेव प्रतिपादितम् ।। 567 ।।
अत्रैव भाष्यकारीयं संवादमाह--
अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः ।
चैत्रमीदृश इत्याह बुद्ध्यवस्थापरिग्रहात् ।। 568 ।।
"उपदेशेऽजनुनासिकः" (पा. 1/3/2) इत्यत्र गुणैः परिप्रापणमुद्देश इत्युद्देशलक्षणस्येदमुदाहरणं भाष्ये--`अङ्गदी कुण्डली व्यूढोरस्कस्ताम्रायताक्षो वृत्तबाहुरीदृशो देवदत्त' इति । तत्र गुणैरङ्गदित्वादिभिरवच्छेदकैर्देवदत्तमेव लक्षयन्नीदृशोऽनेन तुल्य इत्याचष्टे । तत्र नान्येन तुल्यो विवक्षितः । किं तर्हि, अङ्गदित्वादिभिधर्मैरुपलक्षितो यो बुद्धौ तदानीं परिस्फुरति, तेन सदृश इत्यभिमतम् ।
अतश्च बुद्धिप्रतिबिम्बेन बाह्यस्य सारूप्याभिधानाद् बुद्धिसमारोपितभेदः स्फुटमेवोपमानोपमेयभाव उक्तः ।। 568 ।।
किमेवमभिधाने फलमित्याह--
एतैः शब्दैर्यथाभूतः प्रत्ययात्मोपजायते ।
तत्प्रत्ययानुकारेण विषयोऽप्युपपद्यते ।। 569 ।।
अङ्गदीत्यादिभिः शब्दैर्यदर्थावभासो ज्ञानविशेष उद्भवति, तदाकारसादृश्येन बाह्योऽर्थोऽवबुद्ध्यते । ज्ञानाकारस्यैव बाह्यत्वेन व्यवहर्तृभिरध्यवसायात् ।
तदिदमत्र तात्पर्यम्--अङ्गदित्वादिभिर्धर्मैराच्छुरितो बुद्धावाकारो यमर्थं बाह्यं पश्यतस्ते समुद्गच्छति, स त्वया देवदत्त इति व्यवहर्तव्य इति दृश्याविकल्पयोरभेदाध्यवसायेन व्यवहारसिद्धिः ।। 569 ।।
तस्मात् काल्पनिक एव भेदः सर्वत्रोपयोगीति व्याप्तिमाह--
बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते ।
जन्यन्त इव शब्दानामर्थाः सर्वे विवक्षया ।। 570 ।।
यद्यच्छास्त्रे भेदकार्यम्, तत् तद् बुद्धिकृतभेदावलम्बनम् । तथा हि--कारकव्यवहारो बुद्ध्यवस्थानिबन्धनोऽभिहितो व्यरदेशिवद्भावाच्चैकाचो द्विर्वचनमित्याद्यनुसन्धेयम् ।
युक्तं चैतत्, यतो बहिः सदसत्त्वमनपेक्ष्यैव विवक्षाप्रापितसंनिधानेऽर्थेकृतपदबन्धाः शब्दाः । तथा च प्रयोक्त्रभिसन्धानेन शब्दानामर्थप्रादुर्भावोऽवतिष्ठते । चिरातीतानामपि कंसादीनां प्रत्ययोपहृतसदाकाराणां प्रयोज्यप्रयोजकभावव्यवस्थायां कंसं घातयति, बलिं बन्धयतीत्यादिप्रयोगप्रवृत्तेः ।। 570 ।।
तस्माच्छब्दार्थो न वस्त्वर्थ इत्याह--
तथाविधेऽपि बाह्येऽर्थे भिद्यन्ते यत्र बुद्धयः ।
न तत्र कश्चित् सादृश्यं सदपि प्रतिपाद्यते ।। 571 ।।
व्यक्त्यन्तरसादृश्येष्वप्यर्थेषु साधारणधर्मावलम्बना यावद् बुद्धयो न जाताः, तावत् सदप्यनङ्गीकृत्य सादृश्यमत्यन्तव्यावृत्ताकारबुद्धिपरिच्छेद्यतया न कश्चित् प्रतिपत्ता साम्यमपगच्छति । गवयसंस्थानानुपलम्भे हि गवि न तत्सदृशप्रत्ययः ।। 571 ।।
अत्यन्तव्यावृत्ते च बुद्धिसमारोपिताभेदाश्रयो भवति सम्प्रत्यय इत्याह--
अत्यन्तं विषये भिन्ने यावत् प्रख्या न भिद्यते ।
न तावत् प्रत्यभिज्ञानं कस्यचिद् विनिवर्तते ।। 572 ।।
अत्यन्तव्यावृत्तायामपि व्यक्तौ बुद्धेर्भिन्नाया अनुत्पत्तावन्वयिधर्माच्छुरणयाऽभेदावसाये स एवायमित्येकाकारपरामर्शोऽविचलः समुदेति ।
तथाहि--मन्दालोके देशे दूराद्वा रूपमात्रेणार्थावधारणाद् विवेकानवसाये पूर्वदृष्टाकारानुसन्धानेनाभेदेनावसायः । निकटे स्फीतालोकेऽपि च प्रथमाक्षसन्निपाते झटिति पूर्ववासनोद्बोधात् स एवायमिति प्रत्यभिज्ञेत्पत्तिः । एवं देवदत्तयज्ञदत्तयोर्भेदमनवसायैक्यप्रतिपत्तिः ।। 572 ।।
तदेवं भेदा भेदव्यवहारस्य बहिः सदसत्त्वपरमर्शोऽनुपकारक इति प्रत्ययप्रतिभासिना भेदाकारेण सम्भवत्येकस्यैवोपमानोपमेयभाव इति राजवद् वृत्तमित्यादेः पूर्वेणैव सिद्धावबुधबोधनार्थं `तदर्हम्' इत्यस्यारम्भ इत्याह--
अयमेव तु सूत्रेण भेदो भेदेन दर्शितः ।
प्रसिद्धमपि दुर्ज्ञानमबुधः प्रतिपद्यते ।। 573 ।।
अयमेव बुद्ध्यवस्थाश्रयो भेदव्यवहारे योगारम्भेण व्युत्पाद्यते, वास्तवाद् भेदादयमन्यो भेद इति भेदेन पृथक्त्वेन ख्यापितः सूत्रारम्भेण । नहि सर्वः स्वयमेवंविधमर्थं विवेक्तुमुत्सहते । सर्वपुरुषाधिकारेण च शास्त्रप्रवृत्तिरिति प्रतीतेऽप्यर्थे मन्दबुद्धिव्युत्पादनाय शास्त्ररम्भो युक्तः ।
राजानमर्हतीति च विग्रहान्तरं दृश्यते, मन्दमतीनां पूर्वेणासिद्ध्यध्यवसायनिमित्तम् ।। 573 ।।
तदत्र दुर्ज्ञानत्वमेकस्योपमानोपमेयभावाभावात् स्यात् । तच्च न युक्तम् । दृश्यते ह्येकस्याप्युपमानोपमेयभाव इत्यबुधबोधनार्थमपि नेदमारब्धव्यमित्याह--
वैयाकरणवद् ब्रूते न वैयाकरणः सदा ।
वैयाकरणवद् ब्रूष्वेत्यतः सोऽप्यभिधीयते ।। 574 ।।
व्याकरणज्ञो हि कश्चित् ग्राम्यदुर्भगाभिधानप्रयोगादपगतसंस्कारशब्दाभिधानाच्च वैयाकरणत्वमतिक्रान्तः साधुशब्दप्रयोगकुशलैर्वैयाकरणैरुपमीयते वैयाकरणवत् कथयेति । अन्यैस्तुल्यमभिधत्स्व, म्लेच्छभाषणदुर्ग्रहं त्यजेति ।। 574 ।।
तथा--
केचित् पुमांसो भाषन्ते स्त्रीवत्, पुंवच्च योषितः ।
व्यभिचारे स्वधर्मोऽपि पुनस्तेनोपदिश्यते ।। 575 ।।
व्यभिचार इति स्वधर्मस्य । तथा च सम्भावितस्वधर्माः सजातीयैरेवोपमीयन्तेऽर्थाः । पुंवदभिधीयताम् । अन्यैरनतिवृत्तपुरुषोचितभाषणैस्तुल्यं भवद्भिः कथ्यताम्, किमप्रगल्भोक्तिभिः सदसि योषित्सम्भावनयोपहास्यातामत्मा नीयत इति । तथातिप्रगल्भभाशिणी काचिदभिधीयते--स्त्रीवदभिधीयताम् । अन्याभिव्रीडाततीभिः स्त्रीभिस्तुल्यं कथ्यताम् । मातिप्रगल्भोक्तिभिर्योषित्सीमानं हासीरिति । तथा क्लैब्यमाचरन् कश्चिदुच्यते--पुवद् युध्यस्व । यथानतिवृत्तपौंस्ना युध्यन्ते तथा युध्यस्वेत्यर्थः ।
तदेवं स्वोचितानुष्ठानत्यागदर्शनाद् आत्मीयाचारोऽप्यप्रसिद्धत्वादुपमाया विधीयते इति दृष्टम् । तथा चैकस्योपमानोपमेयभावो न दुर्ज्ञानः ।। 575 ।।
यत्तु प्रागुक्तं पूर्वामवस्थामाश्रित्य तवैव सदृशस्त्वमित्यवस्थान्तरं साम्प्रातिकमुपमीयत इति, तत्रोक्तितात्पर्यं व्याचष्टे--
सदृशस्त्वं तवैवेति लोके यदभिधीयते ।
उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ।। 576 ।।
सर्वोपमानधर्मातिक्रान्तस्त्वमित्यन्योपमानव्यावृत्त्या स्तुतिपरमेतदभिधानमनन्वयालङ्कारच्छाययेति व्याख्यातमेतत् । तदेवं सर्वत्र भेदकल्पनयोपमानोपमेयभावप्रक्लृप्तेर्व्याकरणान्तरे नारब्धमिदं सूत्रम् । इहाप्युपमानविवक्षायामनारम्भोऽस्याभ्युपगत एव ।। 576 ।।
विवक्षान्तरे त्वावश्यकमिदमित्याह--
युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शने ।
उपमानाविवक्षायां तदर्हमिति पठ्यते ।। 577 ।।
युक्तमिदमुचितमिदं राज्ञो वृत्तं राज्यानुपालनेऽप्युपायभूतमिदमिति राजानमेवार्हति नान्यमिति निश्चितबलानख्यापने नास्त्युपमानोपमेयभावविवक्षेति तत्सम्बन्धे विहितस्य वतेनार्यं विषय इति पृथक्सूत्रमत्र प्रत्ययविध्यर्थं पठ्यत इत्यारम्भोऽस्य समर्थितः ।
अयमाशयः--भवेदुपमानविवक्षायां सिद्धिः । तथा च व्याकरणान्तरेऽस्यानारम्भः । एवमिहाप्यनारम्भ, परमतस्याविरुद्धस्याप्रतिषिद्धत्वात् । अर्हत्ताप्रतिपिपादयिषायां त्वस्यारम्भः सफल इति व्याकरणान्तरेऽव्याप्तिरुद्भाविता ।
अत एव भाष्यकारः प्रयोजनस्थापनादेव विरतो नौपम्याश्रयेण प्रत्याचख्यौ ।
इत्थं च वैयाकरणवद् ब्रूहीत्यादावपि यदौपम्यमविवक्षित्वा योग्यतामात्रं प्रतिपिपादयिषितं भवति, तदानेनैव वतिरिति सिद्धम् ।। 577 ।।
इदानीं वक्ष्यमाणप्रस्तावार्थमाह--
प्रसक्तानुप्रसक्तस्तु वतिशेषोऽभिधीयते ।
उपमानाभिसम्बन्धादस्मिन् वतिरुदाहृतः ।। 578 ।।
इह वृत्तिपदविचारः प्राधान्येन प्रस्तुतः । तत्र चोपमानसमासविचारानुषङ्गेणोपमानसम्बन्धे विधीयमानस्य वतेरिहोपन्यासो विचारायेत्युपमानवतिरनुषङ्गायातः प्रसक्तः । तस्यानु पश्चात् क्रमायातोऽनुपमानवतिरपि "उपसर्गाच्छन्दसि धात्वर्थे" (पा. 5/1/118) इत्ययमपि शिष्टः प्रसङ्गेन विचारार्थं निरूप्यत इति प्रकरणानुसन्धिः ।। 578 ।। तत्र अर्थग्रहणं किमर्थम्? न, उपसर्गाच्छन्दसि धातावित्येवोच्येतेति भाष्येऽर्थग्रहणमाक्षिप्तम् ।
तत्राभिप्रायं व्याचष्टे--
प्रधानकल्पनाऽभावे गुणशब्दस्य दर्शनात् ।
उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना ।। 579 ।।
धातुशब्देन भूवादेर्मुख्यतः प्रत्यायनाद् धातावित्युक्ते तस्य शब्दस्य प्रत्ययवाच्यत्वाभावादन्तरेणाप्यर्थग्रहणं धातुरूपाध्यासाद् गुणकल्पनया सामर्थ्यात् तत्सहचरितोऽर्थो लभ्यत इति किमर्थग्रहणेनेत्यर्थः ।
अत एव भाष्यं--`शब्दे कार्यस्यासम्भवादर्थे कार्यं विज्ञास्यते' इति ।। 579 ।।
तत्रैतत्साहचर्यान्नियोगतोऽर्थे प्रतिपत्तिः कथम् ? अन्यस्यापि धातुसम्बन्धिनः शब्दधर्मस्य धातुना साहचर्यादित्यत आह--
स्वं रूपमिति चैतस्मिन्नर्थस्यापि परिग्रहः ।
रूपवज्ज्ञापितस्तस्मादसन्नोऽर्थो ग्रहीष्यते ।। 580 ।।
अन्तरङ्गत्वादहेयत्वादसाधारणत्वाच्च स्वंशब्दस्येत्येव स्वत्वेन विशेषितस्य रूपस्य परिग्रहे सिद्धे `स्वं रूपम्' इति (पा. 1/1/68) रूपग्रहणं रूपवदर्थोऽप्यङ्गीक्रियत इति ज्ञापनार्थम् ।
तथा च रूपसमानकक्ष्यः प्रत्यासन्नतरः सम्बन्धी प्रसिद्धो वाच्योऽर्थ एव ग्रहीष्यते । तावतैव वाक्यार्थस्योपपत्तौ शब्दधर्मः सम्बन्धी कथमनुरोधाद् गृह्येतेति भावः ।। 580 ।।
अत्रोत्तरं भाष्यम्--`इदं तर्हि प्रयोजनम् । उत्तरपदलोपो यथा विज्ञायेत । धातुकृतोऽर्थो धात्वर्थः । कः पुनर्धातुकृतोऽर्थः । साधनम्' इति ।
एतद् व्याचष्टे--
धात्वर्थेनोपजनितं साधनत्वेन साधनम् ।
धातुना कृतमित्येवमस्मिन् सूत्रे प्रतीयते ।। 581 ।।
धातुशब्देन स्वार्थस्यात्रोपलक्षणाद् धातुकृतः क्रियाकृतः क्रियया प्रादुर्भावितोऽर्थोऽत्र निर्दिष्टः । स च साधनं कारकम् ।
तथाहि--यद्यपि सिद्धस्वरूपं कारक क्रियां प्रत्युपादीयते साधनत्वेन, तथापि न स्वारूपेण क्रियया साधनं कृतं जनितम्, अपि तु साधनत्वेन, साध्यापेक्षत्वात् साधनभावस्य सामान्यस्य कर्मादिविशेषरूपस्य च क्रिया हि साधनानि प्रवर्तयतीति ।
प्रवृत्तिरेव प्रथमं क्वचिदप्यनपाश्रिता ।
शक्तीरेकाधिकरणे स्रोतोवदपकर्षति ।।
इत्यादिना पूर्वमेव निर्णीतमेतत् ।। 581 ।।
यदुक्तमुत्तरपदलोप इति । तत्र कोऽयमनन्वाख्यातः सूत्रकारेणोत्तरपदलोपो नामेत्यत आह--
यः शब्दश्चरितार्थत्वादत्यन्तं न प्रयुज्यते ।
विषयेऽदर्शनात् तत्र लोपस्तस्याभिधीयते ।। 582 ।।
इहार्थप्रयुक्तस्य शब्दस्य सत्यर्थे वचनशतेनापि प्रयोगो निवारयितुं न पार्यते, केवलमन्यतो निर्ज्ञातार्थस्य चरितार्थत्वात्, कृतकृत्यत्वात्, प्रसक्तादर्शनस्य लोपसंज्ञा प्रत्ययादर्शनवत् सर्वत्र व्यवह्रियते । ततश्च धातुशब्देन क्रियाभिधानात् तत्कृतोऽर्थस्तदुपचारात् स एवेति धातुरेवार्थो धात्वर्थ इति गौणे सामानाधिकरण्ये मयूरव्यंसकादित्वात् सति समासे धातुकृतोऽर्थ इति यद् वस्तु सम्पद्यते, तद् भाष्यकारेण दर्शितम् ।
यद्वा, धातुस्तदर्थः क्रिया अर्थः प्रयोजनं यस्य साधनस्येत्येवमयं बहुर्वीहिः क्रियते । क्रिया च साधनस्य साध्यत्वादेव प्रयोजनं भवति । तस्मिन् साधने वर्तमानादुपसर्गात् स्वार्थे वतिः ।। 582 ।।
एवमर्थग्रहणसामर्थ्यात् साधनलाभे प्रयोजनमुक्तम्--`साधनेऽयं भवल्लिङ्गसंख्याभ्यां योक्ष्यते' इति । तत्र शक्तिरूपत्वेन क्रियावदसत्त्वभूतत्वात् साधनस्य कथं लिङ्गसङ्ख्यायोग इत्यत आह--
क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः ।
तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ।। 483 ।।
साधनशक्त्याश्रयो द्रव्यमत्र साधनशब्देन विवक्षितम्, शक्तिशक्तिमतोरभेदात् । तस्मिन् द्रव्ये क्रियासाधनाक्षिप्ते ये वाचकत्वेन प्रवृत्ताः प्रादय उपसर्गास्तेभ्यः साधनक्रिया (क्रियासाधन) वाचिभ्यः स्वार्थे वतिप्रत्योऽयं विधीयते । तथा च सत्त्वभूतार्थाभिधानल्लिङ्गसंख्यायोग उपपद्यते ।। 583 ।।
तत्रैतत् स्यात्--क्रियाविशेषद्योतकाः प्रादयोऽवधृताः । नैषां द्रव्याभिधानसामर्थ्यमवधृतमित्याशङ्क्याह--
प्रत्ययेन विना प्रादिस्तत्रार्थेन प्रयुज्यते ।
भेदेन तु समाख्याने विभागः परिकल्पितः ।। 584 ।।
वाक्ये केऽपि नियता धर्माः । केचिद् वृत्तिरिति शब्दशक्तिप्रतिनियमाद् यद्यपि वाक्ये प्रयुक्तानां प्रादीनां द्रव्याभिधानशक्तिर्नास्ति, तथापि वृत्तिविषये शक्तिरियमवगम्यते । उद्गतानि उद्वतः, निगतानि निवत इत्यखण्डोऽयं शब्दः प्रकृतिप्रत्ययविभागेनान्वाख्यायमानः प्रकृतिभागस्य क्रियासाधनोपसर्जनद्रव्यवचनत्वं प्रत्ययभागस्य च स्वार्थिकत्वं प्रतिपद्यते ।
इत्थं चोपसर्गाणामत्र वृत्तिविषयेऽस्य स्वभावोऽर्थग्रहणेनानुविधीयते, लौकिकस्यैवार्थस्यान्वाख्यानाङ्गभावेनोपादानात् । असति पुनरर्थग्रहणे शब्दे कार्यासम्भवात् क्रिया प्रतीता, अविनाभावात् साधनशक्तिमेवोपलक्षयेत् । अर्थग्रहणात् तु तदभेदापन्नं द्रव्यं प्रतीयते । अन्यथार्थग्रहणमफलं स्यात् ।। 584 ।।
यदि च साधनशब्देन शक्तिमत्र विवक्षितं स्यात्, तदा--
अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् ।
विभक्तिभिर्न योगः स्याद् यथैव तसिलादिषु ।। 585 ।।
अनुपात्ताधारे साधनमात्र गृह्यमाणे ततस्तन्नेत्यादाविवात्यन्तप्राधान्यायाः शक्तेः शक्त्यान्तरायोगाद् यथायथं विभक्तयो न स्युः सर्वाः । समयादेकवचनमेव स्यात् । ततश्चासर्वविभक्तित्वे अव्ययसंज्ञा प्रसज्येतेति लिङ्गसंख्यायोगो विरुध्येत । अर्थग्रहणसामर्थ्यात् तु गुणीकृतक्रियासाधनं द्रव्यं प्राधान्येनोपसर्गाणां वाच्यमत्रानुगम्यत इति वत्यन्तस्य सत्त्ववचनतायां यथायथं क्रियासमन्वये सर्वविभक्तियोगादव्ययसंज्ञाभावे उद्वतो निवत इत्यादिबहुवचनान्तप्रयोगपपत्तिः । `एकार्थे शब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वम्' इति च लिङ्गान्तरयोगो न विरुध्यते ।। 585 ।।
नन्वेवमपि स्वरादिषु वतेः पाठात् प्राप्तमव्ययत्वमित्यत आह--
पाठाद् यैरविभक्तित्वं वत्यन्तेष्वनुगम्यते ।
तेषामुद्वत् इत्यत्र वक्तव्या सविभक्तिता ।। 586 ।।
अविभक्रित्वं विभक्त्यदर्शनं तन्निबन्धनमव्ययसंज्ञा कथ्यते । तथा च स्वरादिपाठादव्ययत्वेऽविभक्तित्वं विभक्त्यदर्शनमिति सामर्थ्यात् तन्निबन्धनाव्ययसंज्ञापाठाद् यैरङ्गीक्रियते तेषां मते, उद्वत इत्यत्राव्ययत्वाल्लोपे प्राप्ते सविभक्तिता वक्तव्या प्रतिपाद्या ।
तथा ह्यर्थग्रहणसामर्थ्यादव्ययत्वं न भवति । अन्वर्थसंज्ञा हि साऽलिङ्गसंख्यत्वेऽवतिष्ठते । अत्र च साधनस्य द्रव्यस्य ग्रहणात् सत्त्ववचनत्वात् तदभाव इत्यर्थः ।। 586 ।।
तदेवं वतिः परीक्षितः । तत्प्रसङ्गन तत्रत्यमन्यदपि विचार्यते--वाक्यकारः पपाठ--`स्त्रीपुंसाभ्यां वत्युपसंख्यानम्' इति । "स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्" (पा. 4/1/87) इत्यवधिविशषोपादानेन प्राग् भवनात् प्रकृतिविशेषादस्मान्नञ्स्नञावुप दिश्यमानावपत्यादिष्वर्थेषु सिद्ध्यर्थं वतिरत्रोपसंख्येयः । तत्र वतीति वतिसहचरितस्यार्थस्याधिकरणत्वेन निर्देशः ।
यद्वा वतौ विधीयमाने स्त्रीपुंसाभ्यामप्यसौ विधेय इत्यर्थः । भावलक्षणे सप्तमीयम् । एतस्य वार्त्तिकस्य भाष्ये प्रत्याख्यानमुक्तम्--`आचार्यप्रवृत्तिर्ज्ञापयति न वत्यर्थे नञ्स्नञौ भवत इति । यदयं स्त्रियाः पुंवदिति निर्देशं करोति' इति ।
एतद् व्याचष्टे--
वत्यर्थं नावगाहेते पुंवदित्यस्य दर्शनात् ।
नञ्स्नञावपवादस्य बाधकं तन्निपातनम् ।। 587 ।।
"स्त्रियाः पुंवद्" (पा. 6/3/34) इत्युच्चारणाद् वत्यर्थादुत्कर्षो नञ्स्नञोर्ज्ञायते । यदि ह्येतौ वत्यर्थमवगाहेयाताम्, अपवादेन निवर्तितो वतिर्न श्रूयते । श्रुतस्तु नूनमेतावेतमर्थमुत्क्रामतः, येनानयोर्विषये उत्सर्गः श्रूयत इति ज्ञापयति ।
ननु च पुंवदिति निर्देशाद् वतिरप्युस्तु, यथाप्राप्तौ च नञ्स्नञावपि वत्यर्थेऽधिकारेण प्रतिपादितसंनिधानौ भवेतामित्याशह्क्योक्तं`बाधकं तन्निपातनमि'ति ।। 587 ।।
कथमस्य बाधकत्वमित्येतदेव व्यक्तयति--
एवमुत्क्रामतो नूनं वत्यर्थं नञ्स्नञाविति ।
तयोः प्रवृत्तावुत्सर्गो बाधनान्नोपपद्यते ।। 588 ।।
अपवादविषये प्रवृत्तिरुत्सर्गस्योपलभ्यामानान्यथानुपपत्त्यापवादमपावर्तयति ततः । अन्यथा सत्येवापवादशत्रावयमुत्सर्गो वराकस्तत्र कथं प्रवर्तेतेति बाधकत्वनिश्चयोऽस्य । अप्राप्त्यनुमानं हि बाधा ।
तत्र यथापवादः स्वरूपनिर्वृत्तौ ससंरम्भोऽपि सामान्यविधेः स्वविषयेऽप्राप्तिं सूचयति, तथा निपातनमात्मस्वरूपप्रतिलम्भव्यापृतमपि यथाप्राप्तबाधने पर्यवस्यति, तथा सर्वादिवार्त्तिके निपातनमप्येवंजातीयकमिति बाधकानि निपातनानि व्यवस्थापितानिी । अतश्च वत्यर्थे पौंस्नमित्यादिप्रयोगोऽसाधुः ।। 588 ।।
`एवमपि स्त्रीवदिति न सिध्यति' इति चोदयित्वा `योगापेक्षं ज्ञापकम्' इति भाष्यम् । तद् विवृणोति--
नञ्स्नञौ विहितौ येन स योगो नावगाहते ।
वतिकरणं तद्धि लिङ्गमेव समर्थ्यते ।। 589 ।।
सामान्यतो दृष्टमिदं लिङ्गमनुमानं ज्ञापकम् । तथाहि--"स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्" (4/1/87) इति यो योगः स वत्यर्थं नाक्रामतीत्यवंव्यापारमिदं लिङ्गमुपपाद्यते । वतिप्रकरणमिति । "तेन तुल्यं"-(पा.5/1/115),"तत्र तस्येव" (पा.5/1/116) "तदर्हम्" (पा. 5/1/117) इति सूत्रत्रयविहितेऽपि वतावर्थं नञ्स्नञावुत्क्रामत इत्यर्थः ।
तथा चैतान् योगानपेक्षत इति योगापेक्षं तज्ज्ञापकं सूत्रम् । ततश्च वत्यर्थे नञ्स्नञोरभावात् स्त्रीवदित्यपि सिध्यति, विशेषनिरपेक्षस्य लिङ्गस्य ज्ञापकत्वत इति सिद्धम् ।। 589 ।।
तदेवमुपमानप्रसङ्गायातो वतिर्विचारितः । इदमिदानीमुपमानविचारे परीक्षणीयम् । बहूनामुपमेयानामुपमानं यदैकमुपादीयते, तदा किमुपमेयभेदमनुवर्तते तत् । अथाभिन्नमेवोपकाराय प्रभवतीति संशीतावाह--
अभेदेनोपमानस्य भिन्नार्थोपनिपातिता ।
ऊहस्तथोपमाननामङ्गवन्नोपलभ्यते ।। 590 ।।
इह प्राधानानुग्रहाय गुणाः प्रयुज्यमाना यथानुग्रहो भवति प्रधानस्य, तथैवात्मरूपमनुवर्तन्त इति न्यायः । एकत्वेनैव तु स्वधर्मेण युक्तं शक्नोत्युपमानमुपमेयमनेकमुपकर्तुमिति किमनुरोधाद् भेदमवलम्बेत ।
अत एव विकृतावुपमेयभेदेऽपि प्रकृतिगतमेव वचनमभिन्नार्थावेदकमुपमानमित्यूहो यथोपमेयं वचनभेदो न दृश्यते ।
तद्यथा-अङ्गनाम्नामूहाभावोऽङ्गिभेदादेव, निर्ज्ञातभेदत्वात्, संख्यान्तरपरिणामस्य कृतकृत्यत्वादिति सम्बन्धाबाधनमेवात्र । तथा चोहविदामाम्नायः--
अङ्गानि जातिनामानि उपमा इन्द्रियाणि च ।
एतानि नोहं गच्छन्ति अद्ध्रिगौ (अद्विगौ) विषमं हि तत् ।। इति ।
तत्रोहोपात्तमेव दृष्टान्तदार्ष्टान्तिकमुदाह्रियते । अङ्गनामनूहो यथा--`यत्पशुर्मायुमकृतोरो वा पद्भिराहताग्निर्मा तस्मादेनसः प्रमोचयतु' (तै.सं.3/1/49) इत्यत्रैकपशुके प्रकृतियागे उर इत्येकवचनमङ्गनाम । द्विपशुकेऽपि विकृतियागे अस्योहाभावात् पशू इत्याहंसातामिति चास्यैव विपरिणामः, न पुनरुरसी इति विपरिणम्यते । अङ्गिभेदादेवाङ्गानां संख्याभेदस्यावधारणादिति चात्र न्यायः ।
एवं बहुपशुकेऽपि विकृतियागे पशव आहंसतेत्यूह्यते, नोरांसीति । तद्वदुपमानानामनूहो यथा--`कश्यपे वासां अच्छिद्रे श्रोणी कवषोरूस्रेकपर्णे'त्यादि । अभेदेनैवोपमातुं शक्तेरुपमानवचनानां कश्यपकवषस्त्रेकाणां कच्छपमत्स्यजातीयकरवीरवाचिनां यथोपमेयलिह्गसंख्यान्तरविपरिणामो न भवति ।। 590 ।।
एवमूहाभावो न्यायविदां प्रसिद्धोऽत्राभेदेनोपमानस्य संवादक उक्तः । संवादकान्तरमप्याह--
गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः ।
पशू रुद्र इव ह्येतावित्येकवचनश्रुतिः ।। 591 ।।
`रुद्र इवैतौ गोविकर्ताक्षवापौ पशू अभिमन्येते' इति वेदे श्रूयते । तथाहि--गवेधुना तृणजातिविशेषेण संस्कृते चरौ प्रकृते गोविकर्ताक्षवारयोर्विशसित्रोरियमुपमा `रुद्र इवैतौ विशसितारौ गोविकर्ताक्षवापौ'। गा विकृन्ततीति गोविकर्तः, अक्षान् वपतीत्यक्षवापः, तन्नामानौ पशूनां विशसितारौ । तौ चोपमेयावेकवचनान्तेन रुद्रशब्देनोपमानेनात्र दृष्टौ ।
तथा चैकवचनश्रुतिरियं रुद्र इति दृष्टास्मिन्नाम्नाय इत्यस्मादप्यामाम्नायादुपमानम् `उपात्तैकसंख्यमेवानेकमप्युपमेयमुपसंस्करोति' इति निश्चीयते ।। 591 ।।
यदि पुनरुपमेयभेदेनोपमानं भिद्येत, तदा--
उपमानस्य भेदाच्च बहुषु स्यादञो विधिः ।
कश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्वपि ।। 592 ।।
"यञञोश्च" (पा.2/4/64) इति बहुषु लुगुच्यते । तत्र चोद्यते-बैदस्य बैदयोर्वा पत्यानि बहूनि माणवका बिदा इत्यत्राञ् यो बहुष्वित्यर्थे व्याख्यायमाने बहुषु लुङ्न प्राप्नोति । अञो बैदस्य बैदयोरित्येकद्वयोरुत्पत्तेः ।
अत उक्तम्-`माभूदेवम् । अञन्तं यद् बहुष्वित्येवं भविष्यति' । तत उक्तम्-`नैवं शक्यम् । इहापि स्यात् । काश्यपप्रतिकृतयः काश्यपा' इति । कश्यरस्यापत्यं काश्यपः बिदाद्यञ् । काश्यप इव प्रतिकृतयः काश्यपा इति "इवे प्रतिकृतौ" (पा.4/3/96) इत्युत्पन्नस्य कनो देवपथादित्वात् "जीवकार्थे चापण्ये" (पा.5/3/99) इति लुपि कृते प्रतिकृतिबहुत्वेऽञन्तस्य वर्तमानत्वादञन्तं बहुष्विति लुक् स्यात् । तथा च कश्यपा इति प्रतिकृतिषु साधुः स्यात् । न चेष्यते । काश्यपा इत्येवेष्यत इति अञ् यो बहुष्विति स्थापितम् । बैदस्यापत्यानि बिदा इत्यत्र तु `एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनी' त्युक्तत्वाद् अदोषः ।
यदि चात्रोपमेयभेदादुपमानभेदः, तदा प्रतिकृतीनामुपमेयानां बहुत्वादुपमानं काश्यपोऽपि भिन्न इति बहुष्वेवायमञ् स्यात् । तथा च अञ्यो बहुषु इत्येवमप्यत्र लुक् प्रसज्येतेति भाष्यविरोधः । काश्यपा इति प्रतिकृतिषु चानिष्टप्रयोगप्रसङ्गः । तस्मादुपमेयभेदेऽपि नोपमानं भिद्यते ।। 592 ।।
नन्वेवं काश्यप इव प्रतिकृतय इति विहितस्य प्रत्ययस्य लुपि युक्तवद्भावादेकवचनमेव स्यादित्याह--
एवं तु युक्तवद्भावादत्रैकवचनं भवेत् ।
लुम्मनुष्ये तथोक्तं स्याल्लिङ्गस्यैकस्य सिद्धये ।। 593 ।।
एवमित्युपमेयभेजेऽप्यजहदेकसंख्याकस्योपमानस्य प्रवृत्तौ प्रतिकृतिबहुत्वेऽप्येकवचनमतिदेशादनिष्टमापद्येत ।
अत्र परिहारमुत्प्रेक्षितमाह--
`लिङ्गसिद्ध्यर्थं लुम्मनुष्ये' इति वार्त्तिके लिङ्गग्रहणात् केवलाद् वचनमत्र प्रकरणेऽतिदेशान्न भवतीत्यवसीयते । अन्यथा लिङ्गवचनसिद्ध्यर्थमित्येव वचनं भवति। चञ्चेव मनुष्यः, मनुष्यौ चञ्चे, मनुष्याश्चञ्चा इति मनुष्यसंख्यैव । लिङ्गं तु चञ्चाश्रयम् । एवं काश्यपा इत्यत्रापि पुल्लिङ्गमतिदेशाद्, वचनं तु प्रतिकृतिगतमेव ।। 593 ।।
ननु चाविशेषेण "लुपि युक्तवद् व्यक्तिवचने" (पा.1/2/51) इत्युक्ते कथं वार्त्तिके लिङ्गमात्रपाठादत्र वचनमपाक्रियते ? अतिदेशप्राप्तमपि चामनुष्यलुप्येव वार्त्तिकप्रामाण्यादस्तु । तत्रापि हरीतक्यादिषु व्यक्तिः" (पा. 1/2/52) इति वचनात् सिद्धिरिति काश्यपा इत्यत्र कथं वचनं युक्तवद्भावान्न स्यादित्याशङ्क्य परिहारान्तरं वक्तुमाह--
उपमेयेषु भिन्नेषु किञ्चिदेकं प्रवर्तते ।
प्रत्ययस्य विधौ तत्र नित्यं युक्तवदिष्यते ।। 594 ।।
नानाभूतेषु परिच्छेद्येषु प्रतिकृतिरूपेष्वभिन्नं वा कन उत्पत्तिनिमित्तमुपमानमत्र व्याप्रियते, प्रत्युपमेयं वा भिन्नमिति द्वौ पक्षौ स्तः । तत्राभिन्नस्य व्यापारे प्रतिकृतिबहुत्वे"लुपि युक्तवद्" (पा.1/2/51) इति यक्तवद्भावो नियत एव प्रवर्तते । तथा चेष्यत एवेति न काचिदनिष्टापत्तिः ।। 594 ।।
यदा पुनरुपमानं भेदेनोपमेयं प्रति वर्तते, तदा काश्यपा इति सिद्धिरित्याह--
यदा प्रत्युपमेयं तु तदेकैकमवस्थितम् ।
तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ।। 595 ।।
उपमेयभेदे प्रत्येकमुपमानं यदा परिच्छेदाय प्रवर्तते, तदा प्राथमकल्पिकेऽर्थे भेदो नास्ति । तथा च काश्यपस्य प्रतिकृतिः काश्यपः । एवं द्वितीयोऽपि काश्यपः, तृतीयोऽपि काश्यप इति प्रत्येकमभिसंबन्धान्नानात्वमत्र नास्ति। केवलमेतत् तद्धितान्तं लिप्तप्रतिकृतिप्रत्ययं शब्दरूपं प्रचीयते प्रचयमनेकत्वमापद्यते ।
तथाहि--सारूपाणामेकशेषवशेन काश्यपश्च काश्यपश्च काश्यपश्च काश्यपा इति बहुत्वेन संबध्यते ।
न चेदानीमतिदेशशास्त्रस्य "लुपि युक्तवद्" (पा. 1/2/51) इत्यस्य व्यापारोऽस्ति, वृत्तत्वात् तद्व्यापारस्य ।
यदा तु काश्यप इवायं प्रतिकृतिसमूह इति प्रथममेव प्रत्ययस्तदास्य व्यापारः । तदा हि युक्तस्य संख्याभेदोऽस्ति तन्निबन्धनम् । इदानीं तु प्रतिकृतीनां प्रचय इत्यन्योऽयं बाह्यार्थभेदनिबन्धनः संख्याभेदो न वर्तते ।। 595 ।।
ननु चैवमपि लुबर्थ एवायं प्रचीयमान इति युक्तवद्भावः कस्मान्न भवतीत्याशङ्क्य निदर्शनद्वारेण व्युत्पादयति--
यथा समूहप्रचये द्विगूनां भिन्नसंख्यता ।
पञ्चपूल्यादिषु तथा सुबन्तप्रचये भवेत् ।। 596 ।।
पञ्चपूलाः समाहृताः पञ्चपूलीति "द्विगुरेकवचनम्" (पा. 2/4/1) इति कृते एकवद्भावे, पञ्चपूली च पञ्चपूली च पञ्चपूली चेत्येकशेषे पञ्चपूल्य इति बहुत्वे पुनरेकवद्भावः कस्मान्न भवतीति चोद्ये `न किन्त्वन्यस्यैकशेषशब्दस्येदं बहुत्वम्, वान्यस्यानेकत्वात्' इत्युत्तरमुक्तम् । अयं हि नद्विगुरनेकार्थाभिधायी, किन्त्वन्यस्यैकशेषशब्दस्येदं बहुत्वम् । द्विग्वर्थस्य ह्येकवद्भाव आरब्धः । अकृते चैकशेषेऽर्थान्तरानपेक्षस्य द्विगोरेव योऽर्थस्तत्रैकवद्भावः ।
स एव हि द्विग्वर्थो न्यायः । कृते त्वेकशेषे द्विग्वर्थसमुदायस्य प्रचितस्य द्विग्वर्थादन्यत्वादन्तरङ्गे प्राथमकल्पिके द्विग्वर्थे चरितार्थत्वादेकवद्भावस्य पुनरप्राप्तिः । एवमिह लुपः सोऽर्थः, यो लुबन्तादेव प्रतीयतेऽन्यानपेक्षादित्येकशेषे कृते शब्दान्तरत्वादन्तरङ्गे चरितार्थो युक्तवद्भावो बहुरङ्गेऽत्र प्रचयबहुत्वे न प्रवर्तते ।। 596 ।।
तदत्र दृष्टान्तोऽयमसदृश इत्याह--
प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते ।
अर्थभेदो लुबन्तेषु नैव कश्चन दृश्यते ।। 597 ।।
पञ्च पूलाः समाहृताः पञ्चपूलीति योऽर्थो द्विगोरवधार्यते, नासावेव पञ्चपूल्य इति प्रचयविवक्षायामेकशेषे कृते । पूर्वत्र हि पञ्चसंख्यावच्छिन्नोऽर्थः । एकशेषे तु पञ्चदशसंख्यावच्छिन्नः । द्वयोरेकशेषे तु पञ्चपूल्याविति दशसंख्यावच्छिन्नः । तस्माद् द्वित्वबहुत्वादीनां प्रचये भिद्यमाने द्विग्वर्थसंख्याया अन्यैव संख्या जायते ।
तथा च नायं द्विग्वर्थ इति शक्यते वक्तुम् । पञ्चसंख्यावच्छिन्नसमाह्रियमाणार्थवाचकत्वादेव द्विगोरिति युक्तोऽत्र `न वान्यस्यानेकत्वात्' इतिपरिहारः ।
इह तु लुबन्तविषये न कश्चनार्थस्य भेदः । य एव ह्यर्थः प्रत्येकमुपमानसंबन्धे प्रचयविवक्षायामेकशेषे कृते, स एवैकस्याप्युपमानस्य बहुषूपमेयेषु संबन्धे प्रथमत एव बहुवचनस्य प्रवृत्तौ । तथा चार्थभेदाभावादत्र प्रचयार्थोऽपि लुबर्थः शक्यते वक्तुमिति तत्र वचनातिदेशः स्यादेव । ननु चास्त्येवात्रार्थभेदः ।
तथाहि--प्रत्येकं प्रतिकृतीनामुपमानसंबन्धे सत्येकशेषेण बहुवचनान्तप्रयोगे प्रतिकृतेरेकैकस्याः काश्यप उपमानत्वेन प्रतीयते । अभिन्नस्य तूपमानस्य बहुषूपमेयेषु विशेषेऽप्यस्ति भेदः । सत्यमेतावानस्ति । विशेषः । किन्तु लुबन्तस्यार्थानपगमाल्लुपा संबन्धित्वेन प्रचयोऽप्यर्थोऽवच्छेदमर्हत्येव ।
तथा हि य एव लुबन्तवाच्यः प्रतिकृतिरूपोऽर्थः स एव प्रचये बहुत्वमापद्यते, नान्यः । किञ्च काश्यप इव काश्यप इत्यत्र प्रयोजनाभावादतिदेशो न प्रवर्तते, द्वयोरपि प्रकृतिप्रत्ययार्थयोरेकार्थत्वात् ।
तथा च प्रचयविवक्षायामेव युक्तवद्भानेन कृत्यम् । काश्यप इव प्रतिकृत्य इत्यत्रापि हि प्रतिकृतीनामुपमेयानामेकशेषादेव बहुत्वमवधार्यत इति बहिरङ्ग एवार्थे संभवति युक्तवद्भावः प्रवर्तेतैव । तस्मात् प्रकारान्तरेणात्र काश्यपा इत्यस्य सिद्धिर्वक्तव्या । न त्वेकशेषेणाप्यत्र सिद्धिः ।। 597 ।।
तत् प्रकारान्तरमाह--
येषूपमेयवचनः शब्दोऽन्यो न प्रयुज्यते ।
उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ।। 598 ।।
येषु लुबन्तेषु उपमेयवचनः परिच्छेद्यभूतप्रतिकृत्यर्थः शब्दो लुबन्तादन्यो नोच्चार्यते, तत्रोपमानस्य काश्यपस्य संख्याभेद इष्यते, भिन्नमत्रोपमानं प्रवर्तत इत्यर्थः ।
तथा ह्युपमेयवचनस्य शब्दस्योपादाने तत एव बहुत्वावगतेरुपमानमभिन्नमेवेपमेयोपकाराय प्रभवति ।
तद्यथा काश्यप इव देवदत्तयज्ञदत्तविष्णुमित्रा इमाः प्रतिकृतय इत्यादौ । यदा तूपमेयवाची शब्दो न प्रयुज्यते, तदा काश्यप इत्युक्ते सन्देहः, किमेकस्याः प्रतिकृतेरिदमुपमानमुतानेकस्या इति । अनेकस्या ह्युपमाने युक्तवद्भावेन काश्यपशब्दस्यैकवचनान्तस्योपपत्तेः । तस्मादत्रोपमेयभेदपरिच्छेदायोपक्रम एव काश्यप आत्मभेदमुपमानभूतः प्रतिपद्यत इति काश्यपाः प्रतिकृतय इति सिद्धम् । अन्यैरिति चात्र वचनं मतान्तरस्य वक्ष्यमाणत्वात् ।। 598 ।।
अत्रैवार्थे निदर्शनमाह--
यथा गुडतिलादीनां प्रयोगादेकसंख्यता ।
पाकादेरप्रयोगे तु भिन्नसंख्याभिधीयते ।। 599
गुडतिलतणडुलानां पाकः ताम्रः पलाशेषु बभूव राग इत्यादौ पाक्यादिबहुत्वादेवावधृतनानात्वः पाकादिरेकत्वेनैव निर्दिश्यते । यदा तु पाक्यभेदावधारणनिमित्तः स्वाश्रयभेदावधारणनिमित्तश्च शब्दान्तरप्रयोगो नास्ति, तदा पाको राग इत्युक्ते सन्देहः, किमेकपाक्यद्रव्यगतोऽयं पाकोऽथानेकाधार इति निश्चियप्रतिपत्त्यर्थं पाकौ पाकाः, रागौ रागा इत्यनेकसंख्यायुक्त एवार्थः प्रतिनिर्दिश्यते ।। 599 ।।
एवमिहापीति दार्ष्टान्तिके योजयितुमाह--
यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते ।
संबन्धिनामतो भेद उपमेये न गम्यते ।। 600 ।।
यः स्वतो न भिद्यते, अपि तु संबन्धिभेदाद् भेदमवलम्बते, स संबन्धिवचनस्य प्रयोगे भेदप्रतीतिमासादयति पदार्थः । तद्यथा--गुडादीनां प्रयोगे पाकादिः ।
अप्रयोगे तु संबन्धिवचनस्य यथा पाकादेर्विशेषो नावधार्यते, तथा प्रतिकृतिवचनस्याप्रयोगे तद्वतो भेदो विशेष उपमेये परिच्छेद्ये नावधार्यत इति तदर्थमुपात्तभेदमेवोपमानं प्रवर्तते । तथा च भिन्नेनोपमानेनोपमेयस्य भेद आवेद्यत इत्यर्थः ।। 600 ।।
एतदेव निगमयति--
तस्मात् सामान्यशब्दत्वप्रसङ्गविनिवृत्तये ।
उपमेयगतो भेद उपमानेषु दृश्यते ।। 601 ।।
काश्यप इत्युक्तेऽपत्यं गोत्रं प्रतीयते, न नियमेन प्रतिकृतिः । सत्यामपि वोपमानसंबन्धप्रतिपत्तावेकानेकसाधारणस्योपमेयस्यावगमात् सामान्यशब्दत्वमुच्यते । ततश्च तन्निवारणायोपमेयाश्रयभेदप्रतिपत्त्यर्थं प्रधानानुयायित्वाद् गुणानामुपमानमवलम्बते भेदम् ।। 601 ।।
उपक्रम एव यदा तर्ह्युपमेयवचनस्य प्रयोगस्तदा गतार्थत्वाद् बहुत्वस्याप्रयोग इत्याशङ्क्यान्यैरिति वचनान्मतान्तरं यदत्र सूचितम्, तदुपक्रमते वक्तुम्--
उपमानं समस्तानामभिन्नं श्रूयते क्वचित् ।
भिन्नानामुपमेयानामेकैकं वोपमीयते ।। 602 ।।
इह कदाचित् समुदितानामेकमुपमानमुपमेयानाम्, कदाचित् तु नानाभूतानां प्रत्येकमुपमानप्रवृत्तिरिति द्वैतम् ।। 602 ।।
पूर्वत्र पक्षे निदर्शनमाह--
यथा गरुड इत्येतद् व्यूहापेक्षं प्रयुज्यते ।
एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ।। 603 ।।
गजानां सन्निवेशविशेषो गरुडेनोपमीयते, गरुड इवेमे हस्तिन इति । एवमश्वानां रचनाविशेषो मकरेण, मकर इवेमे वाजिन इति । तथा श्येन इवेमा इष्टका इति। एवञ्चायं गरुडव्यूहादिसंनिवेशविशेषो रचनाभेदः सैनिकादेः परिकल्पितः शक्यते वैनतेयादिनोपमातुम्, यद्येकत्वतनान्त एव गरुडशब्दः प्रयुज्यते ।
तथा हि--गरुडाकृतयो गजा गम्यन्त इति संस्थानविशेषो गरुडेन परिच्छिन्ना भवतीति सम्बन्धिभेदादत्र भेदो न भवति । न हि गरुडस्योरमेया गजाः सम्बन्धिनः, अपि तु तद्व्यूहः ।
यदा तु गरुडा इवेमे हस्तिनः, मकरा इवेमे वाजिन इति बहुवचनप्रयोगः, तदा प्रत्येकं हस्तिनामश्वानां चोपमेयत्वं प्रतीयते । तथा च शीघ्रजवत्वादिना सादृश्येनोपमानत्वमवगम्येत, न तु व्यूहः परिमेयोऽवधार्येत ।। 603 ।।
एवमिहापि--
एकस्यापि प्रतीयते भिन्ना प्रतिकृतिः सह ।
काश्यपस्येति तेनायं प्रत्येकमवतिष्ठते ।। 604 ।।
यदि काश्यप इवेमाः प्रतिकृतयः काश्यप इत्येकवचनान्तमुपमानं प्रयुज्यते, तदा गरुडस्येव हस्तिनो व्यूहेन तुल्याः, काश्यपस्य नानाभूता प्रतिकृतिः केनचित् सन्निवेशादिना धर्मेण सह तुल्या विज्ञायते । न तु प्रत्येकमुपमानं गम्येत । सहशब्दस्तुल्यार्थः । तद्योगे काश्यपस्येति षष्ठी । तस्मात् प्रत्येकमुपमानभावप्रतिप्रत्त्यर्थमत्र काश्यपशब्दः प्रत्युपमेयं भेदेनैवावतिष्ठते । पूर्वत्र दर्शने उपमेयशब्दस्याप्रयोगे उपमेयभेदावगमायोपमानं पारार्थ्यादात्मभेदं प्रतिपद्यत इत्युक्तम् ।
इह पुनः सत्युपमेयशब्दप्रयोगे भेदेनोपमानस्य दृष्टत्वात् प्रत्युपमेयमेकैकमुपमानमिति प्रतिपर्त्त्थमुपक्रम एव भेदमुपमानमुपादत्त इति दर्शनभेदः ।। 604 ।।
इदानीमेकेन समुदितानामुपमाने निदर्शनान्तरं प्रसिद्धतरमाह--
मेघाः शैल इवेत्युक्ते समस्तानां प्रतीयते ।
सादृश्यं गिरिणैकेन प्रत्येकं तेन भिद्यते ।। 605 ।।
शैल इवामी बलाहका महापरिमाणा, नानाविधरागविच्छुरितानेकसंस्थानशिखरत्वादिति पर्वतेनैकेन बलाहकानामुपमीयमानत्वे समुदितानां गिरितुल्यत्वमवधार्यते, न तु प्रत्येकम् । न ह्येकैको मेघः पर्वतसदृशोऽनेरवर्णविच्छुरितानेकसंस्थानशिखरत्वादिपर्वतसाधारणधर्माभावादेकैकस्य । समुदितानामेव हि तथाभावः । यत एवमेकवचनान्तमुपमानस्यातोऽनवधारणात् प्रत्येकमुपमानसम्बन्धप्रतीत्यर्थमिदं काश्यपलक्षणमुपमानमुपक्रम एवात्मभेदं प्रतिपद्यत इत्यर्थः ।
तदेवं विवक्षितार्थप्रतीत्यर्थं काश्यपा इति बहुवचनप्रयोगोऽवस्थापितः ।
नन्वेवमुपक्रम एव भेदप्रतिपत्तेरञो बहुषूत्पत्तिः स्यादित्यञो बहुष्वित्येवं लुगत्र प्राप्नोति । नैष दोषः । अञेकत्व एव ह्यर्थ उत्पद्यते । तथा च युक्तवद्भावादेकवचनं प्राप्तमित्येकशेषेण बहुवचनं समर्थितम् । तत्रापि च युक्तवद्भावस्याप्राप्तिमाशङ्क्योपमेयभेदप्रतिपत्त्यर्थं बहुवचनमिदं समर्थितम् ।
तथा च विवक्षितार्थप्रतिपादनानुरोधाद् युक्तवद्भावायातं वचनमत्र बाध्यते । एतमव च न्यायं गर्भीकृत्य `हरीतक्यादिषु व्यक्तिः' इत्युक्तमितीदमपि तत्रैव द्रष्टव्यम् । अञन्तं यद् बहुष्वित्यपि चाश्रीयमाणेऽत्र लुगप्रसङ्गो भाष्येऽभिहितः ।
तथा हि-"यञञोश्च" (पा. 2/4/64) इत्यत्र "यस्कादिभ्यो गोत्रे" (पा.2/4/63) इत्यतो गोत्रग्रहणानुवृत्तेर्लौकिकस्य चापत्यलक्षणस्य तत्र गोत्रस्य ग्रहणादञन्तं यद् बहुषु गोत्रमित्याश्रयणात् प्रतिकृतिबहुत्वस्य गोत्रबहुत्वाभावाल्लुहविषयोऽयम् ।
इत्थं च कृत्वा बैदस्य बैदयोर्वा अपत्यानि बहूनि बिदा इत्यत्राप्यञन्तस्य गोत्रबहुत्वे वर्तमानत्वादनेनैव लुक् सिद्ध इति एकवचनद्विवचनान्तस्य च (एकवचनान्ताञन्तस्य द्विवचनान्ताञन्तस्य च) प्रवृत्तौ यूनीत्येतदनारब्धव्यमिति भाष्ये सिद्धान्तोऽवस्थापितः । लौकिकस्य हि गोत्रस्य "यञोश्च" (पा. 2/4/64) इत्यत्र ग्रहणाद् युवापि गोत्रमिति । गतमेतत् ।। 605 ।।
इदानीमुपमानप्रसङ्गेन "समासाच्च तद्विषयात्" (पा.5/3/106) इत्ययमिवार्थविषयश्छविधिविचार्यते । तत्र `तदित्यनेन किं प्रतिनिर्दीश्यते' इति भाष्यम् । सर्वनाम्ना प्रधानपरामर्शः समुचितः । समासश्चात्राप्रधानम्, प्रत्ययप्रकृतित्वेन गुणभावाद् इवार्थोऽपि छविधौ गुणभावादप्रधानम् इत्यन्यस्यासम्भवात् कस्य परामर्श इति प्रश्नः ।
अत्रोत्रं छप्रत्यय इति । स एव हि विधेयत्वात् प्रधानं सर्वनामसम्बन्धयोग्य इत्याशयः ।
अनन्तरमुक्तम्-`कथं समासो नाम छविषयः स्यात्' इति । भवेत् प्राधान्याच्छप्रत्ययस्य परामर्शः, किन्त्वर्थस्यासङ्गतिः ।
तथा हि--छप्रत्ययो विषये यस्य तस्मात् समासाच्छप्रत्ययो भवतीत्यर्थः सम्पद्यते । समासस्य कथं छप्रत्ययो विषयः स्यात् । न हि शब्दः शब्दस्य विषयो भवति। अर्थ एव हि शब्दस्याभिधेयो विषयो न्याय्यः । शब्दस्त्वनुकरणस्य प्रत्याय्यो भवेद् विषयः । न च समासस्यानुकरणम्, छ एव हि तथा स्यात् ।
अथात्रायमाशयः--अनन्यत्रभावो विषयार्थ इति छप्रत्ययादन्यत्र यस्य समासस्याभावः, स छविषयः समास इति । एतदप्ययुक्तमित्याह--
छापेक्षा तद्विषयता विधेयत्वान्न गम्यते ।
काकतालीयमित्यत्र प्रसिद्धं ह्युपलक्षणम् ।। 606 ।।
यः समासश्छप्रत्ययादन्यत्र न भवति, ततश्छो भवतीत्येवं छप्रत्ययापेक्षं समासस्य तद्विषयत्वं न घटते । काकतालीयमित्यत्र व्युत्पाद्यते । यस्माद् यन्निर्ज्ञातम्, तदन्यस्य ज्ञप्तिहेतुरुपपद्यते । छप्रत्ययोष?नेनैवेदम्प्रथमतया विधेय इत्यप्रसिद्धममुमुपाश्रित्य विशेषणं कथमेतद्विषयतया प्रकृतिभूतः समासोऽवच्छेत्तुं पार्यत ।
यदि हि छुप्रत्ययो सक्षणान्तरेण लब्धात्मरूपो भवेत्, तदा तत्र नियतत्वं प्रकृतेः समासस्यावधार्य प्रत्ययविध्यर्थमुपादानं युज्यते । न तु लक्षणान्तरेण छो विहितः । इदमेव ह्युत्पत्तिवाक्यमस्य । तथा च प्राक् छविधेः समासस्य छविषयत्वमसिद्धं कथमूद्यते ।
अथ भाव्यवस्थाश्रयेण छविषयत्वं समर्थ्यते, तदा किमनेनोक्तेन । यस्मात् समासाच्छो विधास्यते, स चेच्छविषयो भवति, तस्माच्छप्रत्ययो भवतीत्येवमर्थे विज्ञायमाने न कश्चित् प्रकृतेरुपकारोऽभिहितो भवति । छप्रकृतेः समासस्य छविषयत्वाव्यभिचारादन्यस्य निवर्तनीयस्य सिद्धस्याभावात् ।। 606 ।।
ननु च भाव्यवस्थाश्रयेण विशेषणस्यास्ति प्रयोजनम् । तथाहि--छविषयत्वेन समासस्य विशेषणे विषयार्थस्यानन्यत्रभावरूपत्वाच्छप्रत्ययादन्यत्राप्रयोगः समासस्यास्य ख्यापितो भवतीत्याशङ्क्याह--
राजाश्वादिश्च विषयः स्यादन्यो वेत्यनिश्चितम् ।
तेन छस्य विधानात् प्राग् व्यपदेशो न विद्यते ।। 607 ।।
तद्विषयादित्यनेन छविषयः समासोऽविशेषणोपादीयमानः सर्वो राजाश्वादिप्रसिद्धो विधास्यमानछप्रकृतित्वादेव छविषयोऽन्यो वा प्रकारान्तरेण सम्भाव्यमानश्छविषयो गृह्येतेत्येतावन्नावधारितम् । येन प्रसिद्धस्य निश्चितच्छविषयत्वप्रणालिकया साधुत्वं ज्ञाप्यते समासस्य । प्रकारान्तरेण हि छविषयत्वानुपपत्तेश्छप्रत्ययप्रकृतितवादेव समासस्य तद्विषयत्वम् ।
इत्थञ्च सर्वस्यै समासस्य प्रकृतित्वोपपत्तौ किमनेन विशेषणेन व्यवच्छिद्येत ।
न च सर्वस्य समासस्य छप्रत्ययादन्यत्रासाधुत्वमेव ज्ञाप्यते, अनिष्टेः । न चानिष्टार्था शास्त्रप्रकृलृप्तिर्न्याय्या । तदित्यस्य तु परामर्शनीयमन्यत् कल्प्यताम् । तस्माच्छविधेः पूर्वं नियतस्य समासस्य प्रसिद्धतद्विषयस्याभावाच्छविषयादिति विशेषणं न युक्तम् । सिद्धे हि प्रत्यये कार्यान्तरे तेन विशेषणं प्रकृतिरूपस्य दृष्टम् । तद्यथा--"षष्ठ्यतसर्थप्रत्ययेन" (पा. 2/3/30) इति ।
न तु स्वयमलब्धात्मलाभः स्वनिमित्तस्यैव विशेषणं युक्तम् । स्वज्ञानेनान्यधीहेतुः सिद्धे ह्यर्थे ज्ञापको भवति । तदेवं प्रधानप्रत्यवमर्शासम्भवे सर्वनाम्ना छविधौ निमित्तभूतः प्रत्ययार्थो गुणभूतोऽपिप्रत्यवमृश्यते इवार्थः । सोऽपि ह्यत्र प्रकृतत्वात् संनिहित इत्युक्तम् "एवं तर्हि इवार्थः प्रतिनिर्दिश्यते" इति । इवार्थश्चात्र प्रत्ययवाच्य इति कथं प्रकृतिभूतः समासस्तद्विषयः स्यादिति सर्वनामप्रत्यवमर्शसामर्थ्यादिवार्थस्यात्र द्वौ व्यापारौ सम्पद्येते । तेनैकेन व्यापारेणेवार्थः समासस्यावच्छेदकोऽपरेण प्रत्ययवाच्यो जायते । इवार्थविषयात् समासादिवार्थें छ इत्यर्थः ।
अत्रैतमभिप्रायऽयमबुद्ध्वा चोदितम्--`समासेनोक्तार्थत्वात् तद्धितो न प्राप्नोति' इति । एकस्यैवार्थस्य व्यापारभेदाभावात् समासविशेषणत्वे समासवाच्यत्वाच्छप्रत्ययो न स्यात् । न ह्यभिधानमन्तरेण समासस्य विषयभावमुपगन्तुमर्हतीवार्थ इत्यर्थः ।
अथ वचनादभिहितेऽपीवार्थे प्रत्ययः, यथा तद्धितार्थे द्विगुरिति वचनाद् द्विगुतद्धितयोः साधारणोऽर्थः, तदा शस्त्रीश्यामादेरपि समासादिवार्थाभिधायकाच्छप्रत्ययः स्यात् । अत्र परिहारोऽभिहितो `द्वाविवार्थावि'ति । सर्वनामप्रत्यवमर्शान्यथानुपपत्त्या व्यापारभेद इवार्थस्येत्यभिप्रायः पूर्वमेव निर्णीतः ।। 607 ।।
कौ द्वावत्रेवार्थावित्याह--
द्वयोरिवार्थयोरत्र निमित्तत्वं प्रतीयते ।
एकेनावयवो युक्तः प्रत्ययोऽन्येन युज्यते ।। 608 ।।
`काकतालीयम्, अजाकृपाणीयम्' इत्यत्र द्वाविवार्थौ गम्येते । तयोरेकेन समासैकदेशः पूर्वपदमुत्तरपदं च सम्बद्धमिति तमिवार्थं प्रत्याययन् समासो भवतीवार्थविषयः । तद्धितान्तशब्दापेक्षया वा प्रकृतिभूतः समास एवात्रावयवः । सोऽपि च स्वावयद्वारेणेवार्थेन युज्यते, न तु साक्षाद् । अपरेणेवार्थेन वाच्येन छप्रत्ययः सम्बध्यते । शस्त्रीश्यामेत्यत्र पुनः प्रसिद्धश्यामगुणया यथा शस्त्र्या देवदत्ता उपमीयते, तथान्यापीति देवदत्ताख्येनोपमेयेनोपमानस्याप्योजनत्वाद् एक इवार्थः ।। 608 ।।
तत्र येनेवार्थेनावयवो युज्यते, तमाह--
चैत्रस्य तत्रागमनं काकस्यागमनं यथा ।
दस्योरभिनिपातस्तु तालस्य पतनं यथा ।। 609 ।।
काकतालीयमित्यत्र काकस्यागमनमुपमानम्, चैत्रागमनमुपमेयम् । तथा तालपतनमुपमानम्, दस्युसमागमः पुनरुपमेयः । अतर्कितोपनत्वमुभयत्रापि समानो धर्मः । तदयं समासवाच्य इत्यर्थः ।
प्रत्ययवाच्यमप्याह--
संनिपाते तयोर्यान्या क्रिया तत्रोपजायते ।
वधादिरुपमेयेऽर्थे तया छविधिरिष्यते ।। 610 ।।
काकतालयोः समागमे सति या अपरा तत्समागमनिमित्ता वधोऽङ्गभङ्गः स्फोट इत्यादिक क्रिया जायते, तया य उपमेयः परिच्छेद्यश्चैत्रवधादिलक्षणोऽर्थस्तत्रोपमानोपमेयसम्बद्धे द्वितीये इवार्थे वाच्ये सूत्रेण छुप्रत्ययो विधीयते ।। 610 ।।
ननु च काकगमनेन चैत्रागमनं बाह्यमुपमीयत इति तत् प्रति तस्य गुणभावः । तालपतनेन च दस्युसमागम उपमीयत इति तत्र गुणभाववः । ततश्च काकतालयोरन्योन्यसम्बन्धाभावादसति सामर्थ्ये समासः कथम् ? अनेनैव छविधिना ज्ञापकेनात्र समासो भाष्येऽवस्थापित इति चेत, तथापि `सुप् सुपा' इत्यस्यैव व्यापारो भाष्ये गमित इति कथमसामर्थ्ये तत्प्रवृत्तिः । भवतु वा समासः । किन्त्वसमन्विताभ्यामवयवार्थाभ्यां समुदायार्थस्यानुपजनात् केन प्रकृत्यर्थेन प्रत्ययार्थो विशेष्येतेत्याशङ्क्याह--
क्रियायां समवेतायां द्रव्यशब्दोऽवतिष्ठते ।
पातागमनयोः काकतालशब्दौ तथा स्थितौ ।। 611 ।।
दध्योदनो गुडधाना इत्यादौ यथा द्रव्याणां सिद्धस्वभावानां परस्परसम्बन्धाभावात् तदन्यथानुपपत्त्योपसेकादिक्रियायामात्माश्रितायां द्रव्यशब्दो दध्यादिर्वर्तते, तथात्र काकतालशब्दौ समवेते व्यापारे वर्तेते । ततश्च काकागमनं काकशब्दवाच्यम्, तालपतनं तालशब्दवाच्यमित्यस्ति परस्परमसम्बन्धः । प्रतिपादिता च ब्राह्मणवदधीत इत्यादौ ब्राह्मणादेरन्यत्र द्रव्यशब्दस्यापि क्रियायां वृत्तिविषये वृत्तिः ।
ततश्चायमत्रार्थः-काकागमनमिवातर्कितोपसम्प्राप्तमिदं तालपतनमिव चातर्कितोपसम्प्राप्तमिदं काकागमनमिति परस्परोपमानेन पूर्वोत्तरपदार्थयोः समन्वयोपपत्तौ प्रत्ययार्थविशेषणतोपपत्तिः । काकागमनतालपतनयोर्हि समन्वयोपपत्तौ ताभ्यां देवदत्तागमनदस्यूपनिपातयोरुपमेयत्वात् तत्रेवार्थे वाच्ये समासस्योपपत्तौ तद्वधाद् देवदत्तवधे उपमेये छप्रत्ययप्रवृत्तिः ।। 611 ।।
ननु चोपक्रम एवाशङ्कितोपनतेन तालकृतेन काकवधादिना देवदत्तवधादिर्दस्युकृतः किमिति नोपमीयते । तथाहि--काकगमनतालपतनयोर्गौण्या वृत्त्या काकतालशब्दयोरत्र वृत्तिः परिकल्पयितुं नोपयुज्यत इति किं काकगमनतालपतनयोरत्रान्योन्योपमानेनेत्यत आह--
यदन्वाख्यायकं वाक्यं तदेवं परिकल्प्यते ।
प्रयोगवाक्यं यल्लोके तदेवं न प्रयुज्यते ।। 612 ।।
इह प्रकृतिप्रत्ययविभागवशेनान्वाख्यानमिति प्रक्रियावाक्यमनेन प्रकारेण समन्वितार्थपदं सम्पाद्यते । काकगमनमिव तालपतनम्, तालपतनमिव काकागमनमित्यन्योन्योपमानेन हि प्रक्रियायाम् अन्वाख्यानोपायभूतमिदं वाक्यम्, न त्वेतल्लोके प्रयुज्यते । अन्यथा वधेनैव तालकर्तृकेण काकः सम्बध्येत, न तालेन, यदि नेदमुपरच्येत प्रक्रियावाक्यम् । स्थितलक्षणार्थप्रत्यायकं तु प्रयोगवाक्यं लौकिकं नैवम्भूतम् ।
न हि छप्रत्ययमन्तरेण काकतालशब्दो वाक्यस्वभावो लोके प्रयुज्यते । केवलं काकतालीयमित्यस्य लौकिकस्य शब्दस्यान्वाख्यानोपायपरिकल्पनेपायपरिकल्पनेयम् । यथासमन्वयं हि परिकल्पनमित्यनुगुणतरोऽयमुपायः ।। 612 ।।
तदाह--
ययोरतर्किता प्राप्तिर्दृश्यते काकतालवत् ।
तयोः समासप्रकृतेर्वृत्तिरभ्युपगम्यते ।। 613 ।।
यथा काकतालयोरनाशङ्कितोपस्थितयोर्वधादिनिमित्तः सम्बन्धः, तथा ययोर्दस्युदेवदत्तयोर्दृश्यते, तयोः सम्बन्धोपाधिकयोस्तत्समागम इववाच्ये समासलक्षणा या प्रकृतिस्तस्याः सकाशाच्छस्य प्रत्ययस्य वृत्तिः प्रतिज्ञायते ।
तदेवं काकतालद्वयसम्बन्धोपाधिः प्रकृत्यर्थो विभज्यते । उपमेये तु वधादौ छप्रत्ययः, तद्विषयैव च नियमेनेयं प्रकृतिरित्यन्यत्रास्याः साधुत्वाभावः । इदमेव च वस्तुभाष्ये विस्तरेण प्रदर्शितम् ।। 613 ।।
कस्मिन्नर्थे वृत्तिरभ्युपगम्यत इत्याह--
काकस्य तालेन यथा वधो यस्य तु दस्युना ।
तत्र चित्रीकृतेऽन्यस्मिन्नुपमेये छ इष्यते ।। 614 ।।
काकतालसमागमसमो दस्युदेवदत्तसमागम एकः समासार्थ इवार्थः पूर्वं दर्शितः । अयं त्वपरः प्रत्ययावाच्योऽत्र प्रदर्श्यते यदिहान्यस्मिन्निति । यथा यदृच्छयोपरि नपतता तालेन यदृच्छागतस्य काकस्य वधो वृत्तः, तथाऽशङ्कितोपनिपतता दस्युना असम्प्रधारितोपस्थितस्य देवदत्तस्य वध इत्येवमद्भुतरूपतां प्राप्ते परिच्छेद्येऽर्थे छप्रत्ययः । काकतालसम्प्राप्तिनिमित्तोपजनितक्रियाविशेषोपमितेऽन्यस्मिन् क्रियाविशेषे छविधिरित्यर्थः ।
तेन यथा तालेन काको यदृच्छया हतः, तथा यदपरसमीहितमाश्चर्यभूतं जायते, तत् काकतालीयमुच्यत इत्यर्थः । गतमेतत् ।। 614 ।।
उपमानप्रसङ्गेवार्थप्रस्तावाच्छविधिवदन्यदप्यत्र विचार्यते । तथाहि--"स्थूलादिभ्यः प्रकारवचने कन्" (पा.5/4/3) इत्यत्र सादृश्यं प्रकारार्थः । तत्र `चञ्चद्बृहतोरुपसंख्यानम्' इत्युक्तम् । चञ्चत्सदृशश्चञ्चत्को बृहत्कः । कस्यैतदभिधानमित्याह--
चञ्चत्प्रकारश्चञ्चत्को बृहत्क इति चापरे ।
मणिमण्डूकखद्योतान् सादृश्येन प्रचक्षते ।। 615 ।।
प्रकारोऽत्र सादृश्यमिति चञ्चत्प्रकारो बृहत्प्रकारश्चञ्चत्को बृहत्क इति मणिप्रभृतीनामन्यतमस्याभिधानमाचार्या मन्यन्ते । अपर इत्याचार्याणामभिन्नमतानां निर्देशः ।। 615 ।।
कीदृशमत्र मण्यादिसादृश्यमित्याह--
तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते ।
श्वासप्रबन्धैर्मण्डूकः स्पन्दमानप्रभोमणिः ।। 616 ।।
अचलन्नपि खद्योतः स्वप्रभाच्छुरितश्चलन्निवावधार्यमाणश्चञ्चत्कशब्दवाच्यः । तथा हि--स्वप्रभोन्मीलननिमीलनक्रियाभेदात् स्पन्दमान इव लक्ष्यते । तथानवरतप्रवर्तमानोच्छ्वासवशोच्छूनशरीरतया चलितशरीर इवावधार्यमाणो भेकश्चञ्चत्काभिधानविषयभावमुपैति । एवमविच्छिन्नोद्गमदीप्यमानरश्मिचक्रवालचलितमूर्तिरिव मणिश्चञ्चत्कः ।। 616 ।।
बृहत्के कः प्रकारार्थ इत्याह--
प्रविकासिप्रभोऽल्पोऽपि महान् य उपलभ्यते ।
बृहत्क इति तत्रैव मणौ शब्दः प्रयुज्यते ।। 617 ।।
परिकृशोऽपि मणिः सर्वतः प्रसर्पिप्रभाजालवशेन स्थूलतरमूर्तिरवधार्यमाणो बृहत्सदृशो बृहत्क इत्यभिधीयते ।। 617 ।।
प्रसङ्गेन प्रकारस्वरूपं दर्शनभेदेन विचारयति--
सादृश्यमेव सर्वत्र प्रकारः कैश्चिदिष्यते ।
भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते ।। 618 ।।
"प्रकारवचने थाल्" (पा.4/3/23) "प्रकारे गुणवचनस्य" (पा. 8/1/12) "स्थूलादिभ्यः प्रकारवचने कन्" (पा.5/4/3) इत्यादौ सर्वत्र शास्त्रे सादृश्यमेव प्रकारशब्दार्थः ।
तथाहि--यथा तथेति तुल्यत्वमेव द्योत्यते । पटुजातीय इति तु जातीयरा सदृशः प्राधान्येनाभिधीयते । पटुपटुरिति द्विर्वचनेन सादृश्यमेव तद्वति गुणभूतं द्योत्यते । एवं स्थूलप्रकारः स्थूलक इति ।
कैश्चित् तु भेदेऽपि प्रकाराख्येष्यते । अत्रापि सर्वत्रेति यथा तथेति भेद एव वाच्यः । स एव समानः सादृश्यहेतुरिति तदप्यर्थाद् गम्यते । एवं पटुपटुः स्थूलक इत्यत्रापि ।
इत्थञ्च भेदसादृश्ययोः सर्वत्र प्रतीतावेकोऽभिधयोऽपरः सामर्थ्यगम्य इति मतभेदेन प्रकारो विभज्यते । पशुप्रकारो देवदत्त इत्यत्र सामान्यविशेषभावायोगात् सामान्यमेव प्रकारः । तद्गर्भादपि पशुर्देवदत्त इत्यभेदाभिधानात् कार्यात् तद्धेतुसादृश्यमेव गम्यते, न तु प्रयोगद्वयेऽप्यत्र भेदोऽवसीयते । ब्राह्मणप्रकारा माठरादय इति तु सामान्यस्य विशेषेऽन्वयाद् भेदेनाप्रतीतौ सादृश्यासम्भवे भेदः प्रकार इत्याहुः ।। 618 ।।
अस्तु सादृश्यं भेदः प्रकारो वा । इदं तु विचार्यते--"किं सर्वनामबहुभ्यः प्रकारवचने विधीयमानस्थाल् प्रातिपदिकसामान्याद् विहितस्य जातीयरो बाधकः । तथा च किञ्जातीय इति न सिध्येत् । प्रकारस्य च थालैवाभिव्यक्तौ तथाजातीय इति कथं प्रयोग इत्यत आह--
प्रकारवचनः कश्चित् प्रकारवति संस्थितः ।
प्रकारमात्रे वर्तित्वा कश्चिद् तद् व्यतिवर्तते ।। 619 ।।
कश्चिदिति जातीयर् कंश्च प्रत्ययो द्विर्वचनं च । अत्र हि प्रत्यये स्वभावाद् गुणभूतस्य प्रकारस्याभिधानमिति प्रकारवानेव प्राधान्येनोच्यते । अत एवंप्रकार उच्यते यस्मिन् स प्रकारवचनस्तस्मिन् प्रातिपदिकादयं प्रत्यय इति प्रकारवति भवति । थाल् पुनः प्रकारमात्र एव, न तद्वति । किन्तु प्रकारे वृत्तिमनुभूय तद्वति जातीयर्सहितो वर्तत इति सामर्थ्यादवसेयम्, न तु शुक्लदिवत् तद्वति वृत्तिस्थालन्तस्येह दृश्यते ।
एवञ्च भिन्नविषयत्वाद् बाध्यबाधकभावश्च न भवति । तथाजातीय इति च प्रयोगो भवति । यथा देवदत्तस्तथा यज्ञदत्त इत्यत्रापि न थालन्त एव प्रकारवन्तमभिधत्ते, अपि तु क्रियायां वाक्यस्यास्य परिसमाप्तेर्वर्तते दृश्यते वेत्यादिका यासावपेक्षिता क्रिया, तत्र करणभावमापन्नः प्रकार एव प्रतीयते । येन प्रकारेण देवदत्तो वर्तते, तेन प्रकारेण यज्ञदत्तोऽपीत्यर्थः ।
अतश्च क्रियासंबध्यमानः करणतयात्र प्रकारः प्रकारवति षष्ठीनिमित्तं व्यतिरेकं नापादयति । न तु तद्वदभिधानं षष्ठ्यभावादनुममेयम्, अन्यथासिद्धेः षष्ठ्यभावस्य ।। 619 ।।
यदि तर्हि थालः सादृश्यं प्रकारार्थस्तदा यथार्थेऽव्ययीभावमुक्त्वा किमर्थं पुनः सादृश्येऽन्वाख्यायत इत्याह--
सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् ।
तुल्ययोरव्ययीभावे सहशब्दोऽभिधायकः ।। 620 ।।
वीप्सासादृश्ययोर्वृत्तिर्या यथार्थाभिधायिनः ।
स चायमव्ययीभावे भेदो भेदेन दर्शितः ।। 621 ।।
"अव्ययं विभक्ति" (2/1/6) इत्यादौ सूत्रे सादृश्यग्रहणेन धर्मी सदृशो लक्ष्यते । धर्मो ह्यव्यभिचारात् स्वाश्रयमुपलक्षयितुं पर्याप्त एव । तथा च सदृशः सख्या ससखीति सदृशयोरव्ययीभावे सहशब्दो वाचको न सादृश्यमात्रस्येति सामर्थ्यादत्र सूत्रे धर्मिणो धर्मः सदृशस्योपलक्षणम् ।
वृत्तिकारैर्हि पूर्वैरुदाहरणमिदमत्रोक्तमिति तदाश्रयेण सहशब्दोऽभिधायको वाचकः सदृशाख्यस्य धर्मिण उच्यते । एवञ्च यदव्ययमभिधायकं सदृशार्थस्य, तस्य सादृश्यग्रहणेन समासः कथ्यते । सत्त्वभूतार्थाभिधायित्वेऽपि चास्य वचनाद् "अव्ययीभावश्च" (पा.1/1/41) इत्यस्मादव्ययतवम्, यथा स्वरादीनाम् ।
यत् पुनरव्ययं यथार्थाभिधायि समासभाक्त्वेन निर्दिष्टम्, तस्य वीप्सायां सादृश्ये च वृत्तिर्धर्ममात्रे न धर्मिणि । प्रत्यर्थम्, अनुरूपमिति । "यथाऽसादृश्ये" (पा. 2/1/7) इति प्रतिषेधाद् यथाशब्दः सादृश्यवचनो न समस्यते । थालन्तप्रतिरूपको वा यथाशब्दो वीप्सावचनो निपातः समस्यत एव । वीप्सा च यथार्थो भेदः ।
तथा हि प्रत्यर्थमित्यत्रार्थसामान्यस्य क्रियाया व्याप्यमानताविशेषः प्रतिना प्रकाश्यत इति साकल्येन पदार्थानां क्रियया समन्वयो वीप्सामान्यस्य भेदको विशेषः प्रकारो भवति यथार्थः ।
तदेवं यथार्थे सादृश्यमात्रेऽव्ययीभावः स्यादिति तद्वति सादृश्यग्रहणेन पुनर्विधीयत इत्ययं विशेषः पृथक् प्रणयनादेव धर्मधर्मिणोरत्राभिमतः ।। 620 ।। 621 ।।
प्रकारान्तरमत्रैवाह--
सादृश्यं योग्यता कैश्चिदनावभ्युपगम्यते ।
यत् तु मूर्तिगतं साम्यं तत् सहेनाभिधीयते ।। 622 ।।
अनावनुशब्दविषये या योग्यता तेनानुशब्देन द्योत्या, तदेव सादृश्यं यथार्थं इति समासस्तत्र । अनुरूपं सुरूपो वहतीति । रूपेण तुल्यो हारकटकादिना वेषोऽन्यो वा कश्चिच्छोभातिशयहेतुत्वात् तं सुरूपो धारयतीत्यर्थः ।
इत्थञ्च कृत्वात्र गुणस्य रूपस्य सादृश्ये यथार्थेऽव्ययीभावः । योग्यतालक्षणो हि यथार्थः सादृश्यमात्रगुणविषयः ।
यत्तु मूर्तिगतं वस्तुनिष्ठमवयवसंनिवेशादिना सादृश्यं द्रव्यविषयम्, तत् ससखीत्यत्र सहशब्देनाख्यायते । तथाहि सादृश्यं सख्या ससखि, न तु सदृश इति ।
एवं द्रव्यगतत्वेन भिन्नं सादृश्यं सूत्रे सादृश्यशब्देनोपादीयते, यथाशब्देन तु योग्यताख्यं गुणगतत्वेनेतति भिन्नंविषयतैव समासयोः ।
यदा तु योग्यता वीप्सा सादृश्यं च यथार्थ इति भेदेन निर्देशादनुरूपं सुरूपो वहतीत्यत्र सादृश्यादन्यैव योग्यताशब्दार्थो यद्योग्यं रूपस्य शोभाकारित्वेन यदुचितं तदनुरूपमिति, तदा पूर्व एव धर्मधर्मिभेदः पृथगुपादाने हेतुर्वाच्यः ।। 622 ।।
सादृश्यमेव सर्वत्र प्रकार इति यदुक्तम्, तदव्यापकम् । तथा हीत्थंभावे कमण्डलुना च्छातमित्यत्र मनुष्यतासामान्यस्य छात्रादिर्विशेष इति भेदोऽत्र प्रकारो न सादृश्यम्, अपरस्य भेदवतोऽनपेक्षणादित्येतत् समर्थयितुमाह--
इत्थंभावेऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् ।
ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ।। 623 ।।
अङ्गदी कुण्डलीत्यादिना पूर्वमीदृशो देवदत्त इति बुद्धिप्रकल्पितसारूप्योपादानादत्रापीत्थंभावे ग्रहणे प्रत्यये भेदमात्रा कथ्यते । बाह्यवस्तुन उपरागाद् भेदलेशो न तत्त्वतो भेदः । ततश्च ज्ञानानुकारो बहिरर्थस्य व्यवस्थापकत्वात् प्रकार इति सादृश्यमप्यत्र प्रकार उपपद्यते ।
एवं पञ्चधा भुङ्क्ते, त्रेधाधीते इत्यादावपि "संख्याया विधार्थे धा" (पा. 5/3/42) इति ग्रहणनिर्भासस्य बाह्यानुकारित्वेन सादृश्यं प्रकारार्थ उपपाद्यः । सङ्कल्पितभेदसदृशस्य क्रियाविशेषस्य हि निर्वर्तनमत्र ।। 623 ।।
तदेतदागमोपबृंहितं शोभत इत्यागमरुचिरुपासितवृद्धतामुपदर्शयन् सर्वत्र प्रकारार्थः सादृश्यमित्यत्र भाष्यकारमतं संवादकमाह--
गौर्वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् ।
शुक्लादौ सति निष्पन्ने बाहीकोन द्विरुच्यते ।। 624 ।। इति ।
"प्रकारे गुणवचनस्य" (पा. 8/1/12) इत्यत्र द्विर्वचनविधौ गुणवचनग्रहणस्य प्रत्युदाहरणम्--`अग्निर्माणवकः, गौर्वाहीकः' इति भाष्येऽभिहितम् । यदि च प्रकारः सादृश्यम्, तत एतदुपपद्यते । गोसादृश्याद्धि वाहीको गौः । अग्निसादृश्याच्च माणवकोऽग्निः । न तु सामान्यस्य गोत्वस्याग्नित्वस्य चायं विशेषो भेदः । तदनेन द्विर्वचनविधेरन्यत्रापि प्रकारः सादृश्यमिति सूचितं भवति, द्विर्वचनाभावेऽपि तस्यैव प्रदर्शनात् ।
ननु च गवादिशब्दो गुणनिमित्ताभेदाध्यवसायादेव वाहीकादौ प्रयुक्त इति कथं च गुणवचन इत्याशङ्क्याह--शुक्लादौ सति निष्पन्ने बाहीको न द्विरुच्यत इति ।
परिसमाप्तरूपगुणवचने शुक्लादौ प्रसिद्धे सम्भवति वाहीके वाहीकाभिधायी गोशब्दो न द्विष्प्रयुज्यत इत्यर्थः । इतिर्ग्रन्थसमाप्तौ, शुक्लादिशब्दो हि गुणे तद्वति समारोपितगुणसम्बन्धे वर्तमानो गुणवचन एव । गोशब्दस्तु वाहीक एव तथा, न जातौ । अत एव गुणमुक्तवान् गुणवचन इत्यभिधीयते । गोशब्दस्तु वाहीके वर्तमानो न गुणमुक्तवान्, पूर्वं जातौ प्रवृत्तेः ।
इत्थञ्च कृत्वा `प्रकृत्यर्थविशेषणत्वात् सिद्धम्' इत्युक्तम् ।
द्विर्वचनकारणत्वात् प्रकृतिर्द्विवचनस्यात्र स्थानी कथ्यते । तदर्थो गुणवचनस्येत्यनेन विशेष्यते, न तु प्रकारार्थः ।
तथा चाह--`प्रकारे सर्वेषां गुणवचनत्वात् सर्वप्रसङ्गः' इति । द्रव्यवाचिनामपि गवादीनां वाहीकादौ गुणनिमित्तसादृश्यवशेन प्रवृत्तेः प्रकारे गुणवचनत्वस्येवेति किं विशेषणेन व्यावर्त्येत ।
तस्माद् गुणवचनग्रहणसामर्थ्याद् गुणवचनो यः शब्दो निर्ज्ञातस्तस्य प्रकारे सादृश्ये द्योत्ये द्विर्वचनमिति नास्त्यतिप्रसङ्ग इति गुणोपसर्जनद्रव्यवाचिनः शुक्लादेरेव द्विर्वचनं गुणमात्रवाचिनश्चेति `शुक्लशुक्लः पटः, शुक्लशुक्लं रूपम्, पटुपटुः' इतीष्टं सिद्धम् ।
तदेवं संसर्गावस्थः पदार्थो वाक्यार्थादपोद्धृत्य पदविभागपूर्वकं समीक्षित इति परिसमाप्तोऽर्थद्वारकः पदविचार इति शुभम् ।। 624 ।इति भूतिराजतनयहेलाराजकृते प्रकीर्णकप्रकाशे वृत्तिसमुद्देशश्चतुर्दशः।समाप्तं चेदं पदकाण्डम् ।