वाक्यपदीयम्/द्वितीयः खण्डः

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रथमोखण्डः वाक्यपदीयम्
द्वितीयोखणडः
भर्तृहरिः
तृतीयोखण्डः →
  1. वाक्यपदीयं/प्रथमोखण्डः
  2. वाक्यपदीयं/द्वितीयोखण्डः
  3. वाक्यपदीयं/तृतीयोखण्डः

आख्यातं शब्दसंघातो जातिः संघातवर्तिनी ।
एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः । । २.१ । ।
पदं आद्यं पृथक्सर्वं पदं सापेक्षं इत्यपि ।
वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् । । २.२ । ।
निघातादिव्यवस्थार्थं शास्त्रे यत्परिभाषितम् ।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् । । २.३ । ।
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।
कर्मप्रधानं गुणवदेकार्थं वाक्यं उच्यते । । २.४ । ।
संबोधनपदं यच्च तत्क्रियाया विशेषकम् ।
तथा तिङन्तं तत्राहुस्तिङन्तस्य विशेषकम् । । २.५ । ।
यथानेकं अपि क्त्वान्तं तिङन्तस्य विशेषकम् ।
तथा तिङन्तं तत्राहुस्तिङन्तस्य विशेषकम् । । २.६ । ।
यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते ।
दृश्यभेदानुकारेण वाक्यार्थावगमस्तथा । । २.७ । ।
चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः ।
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः । । २.८ । ।
तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः ।
शब्दान्तरैः समाख्यानं साकाङ्क्षैरनुगम्यते । । २.९ । ।
यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः ।
अपोद्धारस्तथा वाक्ये पदानां उपपद्यते । । २.१० । ।
वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते ।
पदान्तरसरूपाश्च पदभागा इव स्थिताः । । २.११ । ।
भागैरनर्थकैर्युक्ता वृषभोदकयावकाः ।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् । । २.१२ । ।
शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ।
विभागैः प्रक्रियाभेदं अविद्वान्प्रतिपद्यते । । २.१३ । ।
ब्राह्मणार्थो यथा नास्ति कश्चिद्ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये थतैव स्युरनर्थकाः । । २.१४ । ।
सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते ।
उपात्तस्य कुतस्त्यागो निवृत्तः क्वावतिष्ठताम् । । २.१५ । ।
अशाब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् ।
एवं सति च संबन्धः शब्दस्यार्थेन हीयते । । २.१६ । ।
विशेशशब्दाः केषां चित्सामान्यप्रतिरूपकाः ।
शब्दान्तराभिसंबन्धाद्व्यज्यन्ते प्रतिपत्तृषु । । २.१७ । ।
तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते ।
व्यक्तोपव्यञ्जना सिद्धिरर्थस्य प्रतिपतृषु । । २.१८ । ।
स व्यक्तः क्रमवाञ् छब्द उपांशु यं अधीयते ।
अक्रमस्तु वितत्येव बुद्धिर्यत्रावतिष्ठते । । २.१९ । ।
यथोत्क्षेपविशेषेऽपि कर्मभेदो न गृह्यते ।
आवृत्तौ व्यज्यते जातिः कर्मभिर्भ्रमणादिभिः । । २.२० । ।
वर्णवाक्यपदेष्वेवं तुल्योपव्यञ्जना श्रुतिः ।
अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते । । २.२१ । ।
नित्येषु च कुतः पूर्वं परं वा परमार्थतः ।
एकस्यैव तु सा शक्तिर्यदेवं अवभासते । । २.२२ । ।
चिरं क्षिप्रं इति ज्ञाने कालभेदादृते यथा ।
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः । । २.२३ । ।
न नित्यः क्रममात्राभिः कालो भेदं इहार्हति ।
व्यावर्तिनीनां मात्राणां अभावे कीदृशः क्रमः । । २.२४ । ।
ताभ्यो या जायते बुद्धिरेका सा भागवर्जिता ।
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी । । २.२५ । ।
क्रमोल्लेखानुषङ्गेण तस्यां यद्बीजं आहितम् ।
तत्त्वनानात्वयोस्तस्य निरुक्तिर्नावतिष्ठते । । २.२६ । ।
भावनासमये त्वेतत्क्रमसामर्थ्यं अक्रमम् ।
व्यावृत्तभेदो येनार्थो भेदवानुपलभ्यते । । २.२७ । ।
पदानि वाक्ये तान्येव वर्णास्ते च पदे यदि ।
वर्णेषु वर्णभागानां भेदः स्यात्परमाणुवत् । । २.२८ । ।
भागानां अनुपश्लेषान्न वर्णो न पदं भवेत् ।
तेषां अव्यपदेश्यत्वात्किं अन्यद्व्यपदिश्यताम् । । २.२९ । ।
यदन्तःशब्दतत्त्वं तु भागैरेकं प्रकाशितम् ।
तं आहुरपरे शब्दं तस्य वाक्ये तथैकताम् । । २.३० । ।
अर्थभागैस्तथा तेषां अन्तरोऽर्थः प्रकाश्यते ।
एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ । । २.३१ । ।
प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता ।
अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य सर्वदा । । २.३२ । ।
तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते ।
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने । । २.३३ । ।
संप्रत्ययप्रमाणत्वात्पदार्थास्तित्वकल्पने ।
पदार्थाभ्युच्चये त्यागादानर्थक्यं प्रसज्यते । । २.३४ । ।
राजशब्देन राजार्थो भिन्नरूपेण गम्यते ।
वृत्तावाख्यातसदृशं पदं अन्यत्प्रयुज्यते । । २.३५ । ।
यथाश्वकर्ण इत्युक्ते विनैवाश्वेन गम्यते ।
कश्चिदेव विशिष्टोऽर्थः सर्वेषु प्रत्ययस्तथा । । २.३६ । ।
वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने ।
केषां चित्रूढिशब्दत्वं शास्त्र एवानुगम्यते । । २.३७ । ।
उपादायापि ये हेयास्तानुपायान्प्रचक्षते ।
उपायानां च नियमो नावश्यं अवतिष्ठते । । २.३८ । ।
अर्थं कथं चित्पुरुषः कश्चित्संप्रतिपद्यते ।
संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः । । २.३९ । ।
सोऽयं इत्यभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा ।
वाक्यार्थस्य तदैकोऽपि वर्णः प्रत्यायकः क्व चित् । । २.४० । ।
केवलेन पदेनार्थो यावानेवाभिधीयते ।
वाक्यस्थं तावतोऽर्थस्य तदाहुरभिधायकम् । । २.४१ । ।
संबन्धे सति यत्त्वन्यदाधिक्यं उपजायते ।
वाक्यार्तं एव तं प्राहुरनेकपदसंश्रयम् । । २.४२ । ।
स त्वनेकपदस्थोऽपि प्रतिभेदं समाप्यते ।
जातिवत्समुदायेऽपि संख्यावत्कल्प्यतेऽपरैः । । २.४३ । ।
सर्वभेदानुगुण्यं तु सामान्यं अपरे विदुः ।
तदर्थान्तरसंसर्गाद्भजते भेदरूपताम् । । २.४४ । ।
भेदानाकाङ्क्षतस्तस्य या परिप्लवमामता ।
अवच्छिनत्ति संबन्धस्तां विशेषे निवेशयन् । । २.४५ । ।
कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते ।
असत्त्वभूतं अत्यन्तं अतस्तं प्रतिजानते । । २.४६ । ।
नियतं साधने साध्यं क्रिया नियतसाधना ।
स संनिधानमात्रेण नियमः संप्रकाशते । । २.४७ । ।
गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते ।
साध्यत्वेन निमित्तानि क्रियापदं अपेक्षते । । २.४८ । ।
सन्त एव विशेषा ये पदार्थेष्वविभाविताः ।
ते क्रमादनुगम्यन्ते न वाक्यं अभिधायकम् । । २.४९ । ।
शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः ।
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते । । २.५० । ।
ये च संभविनो भेदाः पदार्थेष्वविभाविताः ।
ते संनिधाने व्यज्यन्ते न तु वर्णेष्वयं क्रमः । । २.५१ । ।
वर्णानां च पदानां च क्रममात्रनिवेशिनी ।
पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः । । २.५२ । ।
समानेऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् ।
प्रतिवर्णं त्वसौ नास्ति पदस्यार्थं अतो विदुः । । २.५३ । ।
यथा सावयवा वर्णा विना वाच्येन केन चित् ।
अर्थवन्तः समुदिता वाक्यं अप्येवं इष्यते । । २.५४ । ।
अनर्थकान्यपायत्वात्पदार्थेनार्थवन्ति वा ।
क्रमेणोच्चरितान्याहुर्वाक्यार्थं भिन्नलक्षणम् । । २.५५ । ।
नित्यत्वे समुदायानां जातेर्वा परिकल्पने ।
एकस्यैकार्थतां आहुर्वाक्यस्याव्यभिचारिणीम् । । २.५६ । ।
अभेदपूर्वकाभेदाः कल्पिता वाक्यवादिभिः ।
भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः । । २.५७ । ।
पदप्रकृतिभावश्च वृत्तिभेदेन वर्ण्यते ।
पदानां संहिता योनिः संहिता वा पदाश्रया । । २.५८ । ।
पदाम्नायश्च यद्यन्यः संहिताया निदर्शकः ।
नित्यस्तत्र कथं कार्यं पदं लक्षणदर्शनात् । । २.५९ । ।
प्रतिवर्णं असंवेद्यः पदार्थप्रत्ययो यथा ।
पदेश्वेवं असंवेद्यं वाक्यार्थस्य निरूपणम् । । २.६० । ।
वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु ।
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु । । २.६१ । ।
सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते ।
वर्णोऽप्यन्येन वर्णेन संबद्धो वाचकस्तथा । । २.६२ । ।
पदस्योच्चारणादर्थो यथा कश्चिन्निरूप्यते ।
वर्णानां अपि सांनिध्यात्तथा सोऽर्थः प्रतीयते । । २.६३ । ।
प्राप्तस्य यस्य सामर्थ्यान्नियमार्था पुनः श्रुतिः ।
तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते । । २.६४ । ।
यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् ।
व्रीहिश्रुत्या निवर्तेत न स्यात्प्रतिनिधिस्तथा । । २.६५ । ।
तस्माद्व्रीहित्वं अधिकं व्रीहिशब्दः प्रकल्पयेत् ।
द्रव्यत्वं अविरुद्धत्वात्प्राप्त्यर्थः सन्न बाधते । । २.६६ । ।
तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि ।
असंभवाद्विशेषाणां तत्रान्येषां अदर्शनम् । । २.६७ । ।
न च सामान्यवत्सर्वे क्रियाशब्देन लक्षिताः ।
विशेषा न हि सर्वेषां सतां शब्दोऽभिधायकः । । २.६८ । ।
शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः ।
तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् । । २.६९ । ।
असंनिधौ प्रतिनिधिर्मा भून्नित्यस्य कर्मणः ।
काम्यस्य वा प्रवृत्तस्य लोप इत्युपपद्यते । । २.७० । ।
विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते ।
द्रव्याभावे प्रतिनिधौ तस्य तत्स्यात्क्रियान्तरम् । । २.७१ । ।
निर्ज्ञातार्थं पदं यच्च तदर्थे प्रतिपादिते ।
पिकादि यदविज्ञातं तत्किं इत्यनुयुज्यते । । २.७२ । ।
सामर्थ्यप्रापितं यच्च व्यक्त्यर्थं अनुषज्यते ।
श्रुतिरेवानुषङ्गेण बाधिका लिङ्गवाक्ययोः । । २.७३ । ।
अप्राप्तो यस्तु शुक्लादिः संनिधानेन गम्यते ।
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः । । २.७४ । ।
अभिन्नं एव वाक्यं तु यद्यभिन्नार्थं इष्यते ।
तत्सर्वं श्रुतिभूतत्वान्न श्रुत्यैव विरोत्स्यते । । २.७५ । ।
वाक्यानां समुदायश्च य एकार्थप्रसिद्धये ।
साकाङ्क्षावयवस्तत्र वाक्यार्थोऽपि न विद्यते । । २.७६ । ।
प्रासङ्गिकं इदं कार्यं इदं तन्त्रेण लभ्यते ।
इदं आवृत्तिभेदाभ्यां अत्र बाधसमुच्चयौ । । २.७७ । ।
ऊहोऽस्मिन्विषये न्याय्यः संबन्धोऽस्य न बाध्यते ।
सामान्यस्यातिदेशोऽयं विशेषोऽत्रातिदिश्यते । । २.७८ । ।
अर्थित्वं अत्र सामर्थ्यं अस्मिन्नर्थो न भिद्यते ।
शास्त्रात्प्राप्ताधिकारोऽयं व्युदासोऽस्य क्रियान्तरे । । २.७९ । ।
इयं श्रुत्या क्रमप्राप्तिरियं उच्चारणादिति ।
क्रमोऽयं अत्र बलवानस्मिंस्तु न विवक्षितः । । २.८० । ।
इदं पराङ्गैः संबद्धं अङ्गानां अप्रयोजकम् ।
प्रयोजकं इदं तेषां अत्रेदं नान्तरीयकम् । । २.८१ । ।
इदं प्रधानं शेषोऽयं विनियोगक्रमस्त्वयम् ।
साक्षादस्योपकारीदं इदं आराद्विशेषकम् । । २.८२ । ।
शक्तिव्यापारभेदोऽस्मिन्फलं अत्र तु भिद्यते ।
संबन्धाज्जातभेदोऽयं भेदस्तत्राविवक्षितः । । २.८३ । ।
प्रसज्यप्रतिषेधोऽयं पर्युदासोऽयं अत्र तु ।
इदं गौणं इदं मुख्यं व्यापीदं गुरु लघ्विदम् । । २.८४ । ।
भेदेनाङ्गाङ्गिभावोऽस्य बहुभेदं विकल्प्यते ।
इदं नियम्यतेऽस्यात्र योग्यत्वं उपजायते । । २.८५ । ।
अस्य वाक्यान्तरे दृष्टाल्लिङ्गाद्भेदोऽनुमीयते ।
अयं शब्दैरपोद्धृत्य पदार्थः प्रविभज्यते । । २.८६ । ।
इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः ।
सर्वे तेन प्रकल्पेरन्पदं चेत्स्यदवाचकम् । । २.८७ । ।
अविभक्तेऽपि वाक्यार्थे शक्तिभेदादपोद्धृते ।
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते । । २.८८ । ।
यथैवैकस्य गन्धस्य भेदेन परिकल्पना ।
पुष्पादिषु तथा वाक्येऽप्यर्थभेदोऽभिधीयते । । २.८९ । ।
गवये नरसिंहे वाप्येकज्ञानावृते यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते । । २.९० । ।
अप्रसिद्धं तु यं भागं अदृष्टं अनुपश्यति ।
तावत्यसंविदं मूढः सर्वत्र प्रतिपद्यते । । २.९१ । ।
तथा पिकादियोगेन वाक्येऽत्यन्तविलक्षणे ।
सदृशस्येव संज्ञानं असतोऽर्थस्य मन्यते । । २.९२ । ।
एकस्य भागे सादृश्यं भागे भेदश्च लक्ष्यते ।
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा । । २.९३ । ।
तथैव भागे सादृश्यं भागे भेदोऽवसीयते ।
भागाभावेऽपि वाक्यानां अत्यन्तं भिन्नधर्मणाम् । । २.९४ । ।
रूपनाशे पदानां स्यात्कथं चावधिकल्पना ।
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते । । २.९५ । ।
संसर्ग इव रूपाणां शब्देऽन्यत्र व्यवस्थितः ।
नानारूपेषु तद्रूपं तन्त्रेणापरं इष्यते । । २.९६ । ।
तस्मिन्नभेदे भेदानां संसर्ग इव वर्तते ।
रूपं रूपान्तरात्तस्मादनन्यत्प्रविभज्यते । । २.९७ । ।
शास्त्रे प्रत्यायकस्यापि क्वचिदेकत्वं आश्रितम् ।
प्रत्याय्येन क्वचिद्भेदो ग्रहणग्राह्ययोः स्थितः । । २.९८ । ।
ऊ इत्यभेदं आश्रित्य यथासंख्यं प्रकल्पितम् ।
लृलुटोर्ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः । । २.९९ । ।
यस्येत्येतदणो रूपं संज्ञिनां अभिधायकम् ।
न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः । । २.१०० । ।
ऊ इत्येतदभिन्नं च भिन्नवाक्यनिबन्धनम् ।
भेदेन ग्रहणं यस्य पररूपं इव द्वयोः । । २.१०१ । ।
प्लुतस्याङ्गविवृद्धिं च समाहारं अचोस्तथा ।
व्युदस्यता पुनर्भेदः शब्देष्वत्यन्तं आश्रितः । । २.१०२ । ।
अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद्यथा ।
तन्त्रात्तथैकशब्दत्वे भिन्नानां श्रुतिरन्यथा । । २.१०३ । ।
संहिताविषये वर्णाः स्वरूपेणाविकारिणः ।
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् । । २.१०४ । ।
इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु ।
आत्मत्यागादृते भिन्नं ग्रहणं स क्रमः श्रुतौ । । २.१०५ । ।
अभिधानक्रियाभेदाच्छब्देष्वविकृतेष्वपि ।
रूपं अत्यन्तभेदेन तदेवैकं प्रकाशते । । २.१०६ । ।
ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु ।
गीतिभेदात्तु गृह्यन्ते ता एव विकृता ऋचः । । २.१०७ । ।
उपायाच्छ्रुतिसंहारे भिन्नानां एकशेषिणाम् ।
तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वं उच्यते । । २.१०८ । ।
परिगृह्य श्रुतिं चैकां रूपभेदवतां अपि ।
तन्त्रेणोच्चारणं कार्यं अन्यथा ते न साधवः । । २.१०९ । ।
सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् ।
तन्त्रेणोच्चारणादेकं रूपं साधूपलभ्यते । । २.११० । ।
एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् ।
यथा तथैव तन्त्रात्स्याद्बहूनां एकरूपता । । २.१११ । ।
यथा पदसरूपाणां वाक्यानां संभवः पृथक् ।
तथा वाक्यान्तराभावे स्यादेषां पृथगर्थता । । २.११२ । ।
अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् ।
यस्य तस्य न संबन्धो वाक्यानां उपपद्यते । । २.११३ । ।
तत्र क्रियापदान्येव व्यपेक्षन्ते परस्परम् ।
क्रियापदानुषक्तस्तु संबन्धोऽथ प्रतीयते । । २.११४ । ।
आवृत्तिरनुवादो वा पदार्थव्यक्तिकल्पने ।
प्रत्येकं तु समाप्तोऽर्थः सहभूतेषु वर्तते । । २.११५ । ।
अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः ।
अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः । । २.११६ । ।
अभ्यासात्प्रतिभाहेतुः सर्वः शब्दोऽपरैः स्मृतः ।
बालानां च तिरश्चां च यथार्थप्रतिपादने । । २.११७ । ।
अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते ।
अनन्तरं इदं कार्यं अस्मादित्युपदर्शकः । । २.११८ । ।
अस्त्यर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः समं आहुर्गवादिषु । । २.११९ । ।
प्रयोगदर्शनाभ्यासादाकारावग्रहस्तु यः ।
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः । । २.१२० । ।
के चिद्भेदाः प्रकाश्यन्ते शब्दैस्तदभिधायिभिः ।
अनुनिष्पादिनः कांश्चिच्छब्दार्थानिति मन्यते । । २.१२१ । ।
जातेः प्रत्यायके शब्दे या व्यक्तिरनुषङ्गिणी ।
न तद्व्यक्तिगतान्भेदाञ् जातिशब्दोऽवलम्बते । । २.१२२ । ।
घटादीनां न चाकारान्प्रत्याययति वाचकः ।
वस्तुमात्रनिवेशित्वात्तद्गतिर्नान्तरीयका । । २.१२३ । ।
क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता ।
प्रयोगस्त्वनुनिष्पादी शब्दार्थ इति गम्यते । । २.१२४ । ।
नियतास्तु प्रयोगा ये नियतं यच्च साधनम् ।
तेषां शब्दाभिधेयत्वं अपरैरनुगम्यते । । २.१२५ । ।
समुदायोऽभिधेयो वाप्यविकल्पसमुच्चयः ।
असत्यो वापि संसर्गः शब्दार्थः कैश्चिदिष्यते । । २.१२६ । ।
असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनाम् ।
शब्दो वाप्यभिजल्पत्वं आगतो याति वाच्यताम् । । २.१२७ । ।
सोऽयं इत्यभिसंबन्धाद्रूपं एकीकृतं यता ।
शब्दस्यार्थेन तं शब्दं अभिजल्पं प्रचक्षते । । २.१२८ । ।
तयोरपृथगात्मत्वे रूढिरव्यभिचारिणी ।
किं चिदेव क्व चिद्रूपं प्राधान्येनावतिष्ठते । । २.१२९ । ।
लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया । । २.१३० । ।
अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता ।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना । । २.१३१ । ।
यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
स बाह्यं वस्त्विति ज्ञातः शब्दार्थ इति गम्यते । । २.१३२ । ।
आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः ।
एते प्रत्यवभासन्ते संविनंआत्रं त्वतोऽन्यथा । । २.१३३ । ।
यथेन्द्रियं संनिपतद्वैचित्रेणोपदर्शकम् ।
तथैव शब्दादर्थस्य प्रतिपत्तिरनेकधा । । २.१३४ । ।
वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु ।
स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते । । २.१३५ । ।
एकस्मिन्नपि दृश्येऽर्थे दर्शनं भिद्यते पृथक् ।
कालान्तरेण चैकोऽपि तं पश्यत्यन्यथा पुनः । । २.१३६ । ।
एकस्यापि च शब्दस्य निमित्तैरव्यवस्थितैः ।
एकेन बहुभिश्चार्थो बहुधा परिकल्प्यते । । २.१३७ । ।
तस्माददृष्टतत्त्वानां सापराधं बहुच्छलम् ।
दर्शनं वचनं वापि नित्यं एवानवस्थितम् । । २.१३८ । ।
ऋषीणां दर्शनं यच्च तत्त्वे किं चिदवस्थितम् ।
न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनम् । । २.१३९ । ।
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः । । २.१४० । ।
तस्मात्प्रत्यक्षं अप्यर्थं विद्वानीक्षेत युक्तितः ।
न दर्शनस्य प्रामाण्याद्दृश्यं अर्थं प्रकल्पयेत् । । २.१४१ । ।
असमाख्येयतत्त्वानां अर्थानां लौकिकैर्यथा ।
व्यवहारे समाख्यानं तत्प्रज्ञो न विकल्पयेत् । । २.१४२ । ।
विच्छेदग्रहणेऽर्थानां प्रतिभान्यैव जायते ।
वाक्यार्थ इति तां आहुः पदार्थैरुपपादिताम् । । २.१४३ । ।
इदं तदिति सान्येषां अनाक्येया कथं चन ।
प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते । । २.१४४ । ।
उपश्लेषं इवार्थानां सा करोत्यविचारिता ।
सार्वरूप्यं इवापन्ना विषयत्वेन वर्तते । । २.१४५ । ।
साक्शाच्छब्देन जनितां भावनानुगमेन वा ।
इतिकर्तव्यतायां तां न कश्चिदतिवर्तते । । २.१४६ । ।
प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।
समारम्भाः प्रतायन्ते तिरश्चां अपि तद्वशात् । । २.१४७ । ।
यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः ।
मदादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा । । २.१४८ । ।
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः ।
जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् । । २.१४९ । ।
आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् । । २.१५० । ।
भावनानुगतादेतदागमादेव जायते ।
आसत्तिविप्रकर्षाभ्यां आगमस्तु विशिष्यते । । २.१५१ । ।
स्वभाववरणाभास- योगादृष्टोपपादिताम् ।
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः । । २.१५२ । ।
यथा संयोगिभिर्द्रव्यैर्लक्षितेऽर्थे प्रयुज्यते ।
गोशब्दो न त्वसौ तेषां विशेशाणां प्रकाशकः । । २.१५३ । ।
आकारवर्णावयवैः संसृष्टेषु गवादिषु ।
शब्दः प्रवर्तमानोऽपि न तानङ्गीकरोत्यसौ । । २.१५४ । ।
संस्थानवर्णावयवैर्विशिष्टेऽर्थे प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते । । २.१५५ । ।
दुर्लभं कस्य चिल्लोके सर्वावयवदर्शनम् ।
कैश्चित्त्ववयवैर्दृष्टैरर्थः कृत्सोऽनुमीयते । । २.१५६ । ।
तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।
नित्यसंबन्धिनां दृष्टं गुणानां अवधारणम् । । २.१५७ । ।
संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु । । २.१५८ । ।
संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।
आहैकदेशं तत्त्वेन तस्यावयववर्तिना । । २.१५९ । ।
येनार्थेनाभिसंबद्धं अभिधानं प्रयुज्यते ।
तदर्थापगमे तस्य प्रयोगो विनिवर्तते । । २.१६० । ।
यांस्तु संभविनो धर्मानन्तर्णीय प्रयुज्यते ।
शब्दस्तेषां न सांनिध्यं नियमेन व्यपेक्षते । । २.१६१ । ।
यथा रोमशफादीनां व्यभिचारेऽपि दृश्यते ।
गोशब्दो न तथा जातेर्विप्रयोगे प्रवर्तते । । २.१६२ । ।
तस्मात्संभविनोऽर्थस्य शब्दात्संप्रत्यये सति ।
अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते । । २.१६३ । ।
वाचिका द्योतिका व स्युर्द्वित्वादीनां विभक्तयः ।
स्याद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः । । २.१६४ । ।
विना संख्याभिधानाद्वा संख्याभेदसमन्वितान् ।
अर्थान्स्वरूपभेदेन काम्श्चिदाहुर्गवादयः । । २.१६५ । ।
ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां तेषां अर्थो विभज्यते । । २.१६६ । ।
यावच्चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।
नियमस्तत्र न त्वेवं नियमो नुट्शबादिषु । । २.१६७ । ।
संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते ।
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः । । २.१६८ । ।
न कूपसूपयूपानां अन्वयोऽर्थस्य दृश्यते ।
अतोऽर्थान्तरवाचित्वं संघातस्यैव गम्यते । । २.१६९ । ।
अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।
बहूनां संभवेऽर्थानां निमित्तं किं चिदिष्यते । । २.१७० । ।
वैरवासिष्ठगिरिशास्तथैकागारिकादयः ।
कैश्चित्कथं चिदाख्याता निमित्तावधिसंकरैः । । २.१७१ । ।
यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।
अविरुद्धं गवादीनां भिन्नैश्च सहचारिभिः । । २.१७२ । ।
अन्यथा च समाख्यानं अवस्थाभेददर्शिभिः ।
क्रियते किंशुकादीनां एकदेशावधारणम् । । २.१७३ । ।
कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः ।
गवतेर्गदतेर्वापि गौरित्यत्रानुदर्शितम् । । २.१७४ । ।
गौरित्येव स्वरूपाद्वा गोशब्दो गोषु वर्तते ।
व्युत्पाद्यते न वा सर्वं कैश्चिच्चोभयथेष्यते । । २.१७५ । ।
सामान्येनोपदेशश्च शास्त्रे लघ्वर्थं आश्रितः ।
जात्यन्तरवदन्यस्य विशेषाः प्रतिपादकाः । । २.१७६ । ।
अर्थान्तरे च यद्वृत्तं तत्प्रकृत्यन्तरं विदुः ।
तुल्यरूपं न तद्रूढावन्यस्मिन्ननुषज्यते । । २.१७७ । ।
भिन्नाविजियजी धातू नियतौ विषयान्तरे ।
कैश्चित्कथं चिदुद्दिष्टौ चित्रं हि प्रतिपादनम् । । २.१७८ । ।
एवं च वालवायादि जित्वरीवदुपाचरेत् ।
भेदाभेदाभ्युपगमे न विरोधोऽस्ति कश्चन । । २.१७९ । ।
अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः । । २.१८० । ।
तथा हि संग्रामयतेः सोपसर्गाद्विधिः स्मृतः ।
क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः । । २.१८१ । ।
कार्याणां अन्तरङ्गत्वं एवं धातूपसर्गयोः ।
साधनैर्याति संबन्धं तथाभूतैव सा क्रिया । । २.१८२ । ।
प्रयोगार्थेषु सिद्धः सन्भेत्तव्योऽर्थो विशिष्यते ।
प्राक्च साधनसंबन्धात्क्रिया नैवोपजायते । । २.१८३ । ।
धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा ।
धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् । । २.१८४ । ।
बीजकालेषु संबन्धाद्यथा लाक्षारसादयः ।
वर्णादिपरिणामेन फलानां उपकुर्वते । । २.१८५ । ।
बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयोः ।
अभ्यन्तरीकृताद्भेदः पदकाले प्रकाशते । । २.१८६ । ।
क्व चित्संभविनो भेदाः केवलैरनिदर्शिताः ।
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना । । २.१८७ । ।
स वाचको विशेषाणां संभवाद्द्योतकोऽपि वा ।
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते । । २.१८८ । ।
स्थादिभिः केवलैर्यच्च गमनादि न गम्यते ।
तत्रानुमानाद्द्विविधात्तद्धर्मा प्रादिरुच्यते । । २.१८९ । ।
अप्रयोगेऽधिपर्योश्च यावद्दृष्टं क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्यां अनर्थकः । । २.१९० । ।
तथैव स्वार्थिकाः के चित्संघातान्तरवृत्तयः ।
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः । । २.१९१ । ।
निपाता द्योतकाः के चित्पृथगर्थप्रकल्पने ।
आगमा इव के चित्तु संभूयार्थस्य साधकाः । । २.१९२ । ।
उपरिष्टात्पुरस्ताद्वा द्योतकत्वं न भिद्यते ।
तेषु प्रयुज्यमानेषु भिन्नार्थेष्वपि सर्वथा । । २.१९३ । ।
चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।
प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते । । २.१९४ । ।
समुच्चिताभिधाने तु व्यतिरेको न विद्यते ।
असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते । । २.१९५ । ।
समुच्चिताभिधानेऽपि विशिष्टार्थाभिधायिनाम् ।
गुणैर्पदानां संबन्धः परतन्त्रास्तु चादयः । । २.१९६ । ।
जनयित्वा क्रिया का चित्संबन्धं विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् । । २.१९७ । ।
तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् । । २.१९८ । ।
स चोपजातः संबन्धो विनिवृत्ते क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते । । २.१९९ । ।
येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।
युज्यते विर्यथा तस्य लिखावनुपसर्गता । । २.२०० । ।
तिष्ठतेरप्रयोगश्च दृष्टोऽप्रत्यजयन्निति ।
सुन्वभीत्याभिमुख्ये च केवलोऽपि प्रयुज्यते । । २.२०१ । ।
कर्मप्रवचनीयत्वं क्रियायोगे विधीयते ।
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् । । २.२०२ । ।
हेतुहेतुमतोर्योग- परिच्छेदेऽनुना कृते ।
आरम्भाद्बाध्यते प्राप्ता तृतीया हेतुलक्षणा । । २.२०३ । ।
क्रियाया द्योतको नायं न संबन्धस्य वाचकः ।
नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः । । २.२०४ । ।
अनर्थकानां संघातः सार्थकोऽनर्थकस्तथा ।
वर्णानां पदं अर्थेन युक्तं नावयवाः पदे । । २.२०५ । ।
पदानां अर्थयुक्तानां संघातो भिद्यते पुनः ।
अर्थान्तरावबोधेन संबन्धविगमेन च । । २.२०६ । ।
सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः ।
अधिगच्छत इत्येके कुटीरादिनिदर्शनात् । । २.१०७ । ।
अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते ।
नोपजायत इत्येके समासस्वार्थिकादिषु । । २.२०८ । ।
के चिद्धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां के चित्कल्पितशक्तयः । । २.२०९ । ।
शास्त्रार्थ एव वर्णानां अर्थवत्त्वे प्रदर्शितः ।
धात्वादीनां हि शुद्धानां लौकिकोऽर्थो न विद्यते । । २.२१० । ।
कृत्तद्धितानां अर्थश्च केवलानां अलौकिकः ।
प्राग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते । । २.२११ । ।
अभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते ।
अर्थवत्ताप्रकरणादाश्रितः स तथाविधः । । २.२१२ । ।
आत्मभेदो न चेत्कश्चिद्वर्णेभ्यः पदवाक्ययोः ।
अन्योन्यापेक्षया शक्त्या वर्णः स्यादभिधायकः । । २.२१३ । ।
वर्णेन केन चिन्न्यूनः संघातो योऽभिधायकः ।
न चेच्छब्दान्तरं असावन्यूनस्तेन गम्यते । । २.२१४ । ।
स तस्मिन्वाचके शब्दे निमित्तात्स्मृतिं आदधत् ।
साक्षादिव व्यवहितं शब्देनार्थं उपोहते । । २.२१५ । ।
पदवाच्यो यथा नार्थः कश्चिद्गौरखरादिषु ।
सत्यपि प्रत्ययेऽत्यन्तं समुदाये न गम्यते । । २.२१६ । ।
समन्वित इवार्थात्मा पदार्थैर्यः प्रतीयते ।
पदार्थदर्शनं तत्र तथैवानुपकारकम् । । २.२१७ । ।
समुदायावयवयोर्भिन्नार्थत्वे च वृत्तिषु ।
युगपद्भेदसंसर्गौ विरुद्धावनुषङ्गिणौ । । २.२१८ । ।
कश्च साधनमात्रार्थानध्यादीन्परिकल्पयेत् ।
अप्रयुक्तपदश्चार्थो बहुव्रीहौ कथं भवेत् । । २.२१९ । ।
प्रज्ञुसंज्ञ्वाद्यवयवैर्न चास्त्यर्थावधारणम् ।
तस्मात्संघात एवैको विशिष्टार्थनिबन्धनम् । । २.२२० । ।
गर्गा इत्येक एवायं बहुष्वर्थेषु वर्तते ।
द्वन्द्वसंज्ञोऽपि संघातो बहूनां अभिधायकः । । २.२२१ । ।
यथैकशेषे भुज्यादिः प्रत्येकं अवतिष्ठते ।
क्रियैवं द्वन्द्ववाच्येऽर्थे प्रत्येकं प्रविभज्यते । । २.२२२ । ।
यच्च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् ।
सापि व्यावृत्तरूपेऽर्थे सर्वनामसरूपता । । २.२२३ । ।
यथा च खदिरच्छेदे भागेषु क्रमवांस्छिदिः ।
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् । । २.२२४ । ।
सङ्घैकदेशे प्रक्रान्तान्यथा सङ्घानुपातिनः ।
क्रियाविशेषान्मन्यन्ते स द्वन्द्वावयवे क्रमः । । २.२२५ । ।
प्रतिपादयता वृत्तिं अबुद्धान्वाक्यपूर्विकाम् ।
वृत्तौ पदार्थभेदेन प्राधान्यं उपदर्शितम् । । २.२२६ । ।
अभेदादभिधेयस्य नञ्समासे विकल्पितम् ।
प्राधान्यं बहुधा भाष्ये दोषास्तु प्रक्रियागताः । । २.२२७ । ।
जहत्स्वार्थविकल्पे च सर्वार्थत्यागं इच्छता ।
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः । । २.२२८ । ।
शास्त्रे क्व चित्प्रकृत्यर्थः प्रत्ययेनाभिधीयते ।
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश्च धातुभिः । । २.२२९ । ।
यं अर्थं आहतुर्भिन्नौ प्रत्ययावेक एव तम् ।
क्व चिदाह पचन्तीति धातुस्ताभ्यां विना क्व चित् । । २.२३० । ।
अन्वाख्यानस्मृतेर्ये च प्रत्ययार्था निबन्धनम् ।
निर्दिष्टास्ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः । । २.२३१ । ।
प्रसिद्धेरुद्वमिकरीत्येवं शास्त्रेऽभिधीयते ।
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः । । २.२३२ । ।
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते ।
अनागमविकल्पा तु स्वयं विद्योपवर्तते । । २.२३३ । ।
अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा ।
तथा विद्याप्यनाख्येया शास्त्रोपायेव लक्ष्यते । । २.२३४ । ।
यथाभ्यासं हि वागर्थे प्रतिपत्तिं समीहते ।
स्वभाव इव चानादिर्मिथ्याभ्यासो व्यवस्थितः । । २.२३५ । ।
उत्प्रेक्षते सावयवं परमाणुं अपण्डितः ।
तथावयविनं युक्तं अन्यैरवयवैः पुनः । । २.२३६ । ।
घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयते ।
समारम्भाच्च भावानां आदिमद्ब्रह्म शाश्वतम् । । २.२३७ । ।
उपायाः शिक्षमाणानां बालानां उपलापनाः ।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते । । २.२३८ । ।
अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् ।
पुनर्वाक्ये तं एवार्थं अन्यथा प्रतिपद्यते । । २.२३९ । ।
उपात्ता बहवोऽप्यर्था येष्वन्ते प्रतिषेधनम् ।
क्रियते ते निवर्तन्ते तस्मात्तांस्तत्र नाश्रयेत् । । २.२४० । ।
वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् ।
नार्थे न बुद्धौ संबन्धो निवृत्तेरवतिष्ठते । । २.२४१ । ।
विच्छेदप्रतिपत्तौ च यद्यस्तीत्यवधार्यते ।
अशब्दवाच्या सा बुद्धिर्निवर्त्येत स्थिता कथम् । । २.२४२ । ।
अथ यज्ज्ञानं उत्पन्नं तन्मिथ्येति नञा कृतम् ।
नञो व्यापारभेदेऽस्मिन्नभावावगतिः कथम् । । २.२४३ । ।
निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर्नञो भवेत् ।
अथाधारः स एवास्य नियमार्था श्रुतिर्भवेत् । । २.२४४ । ।
नियमद्योतनार्था वाप्यनुवादो यथा भवेत् ।
कश्चिदेवार्थवांस्तत्र शब्दः शेषास्त्वनर्थकाः । । २.२४५ । ।
विरुद्धं चाभिसंबन्धं उदाहार्यादिभिः कृतम् ।
वाक्ये समाप्ते वाक्यार्थं अन्यथा प्रतिपद्यते । । २.२४६ । ।
स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते । । २.२४७ । ।
अथासंसृष्ट एवार्थः पदेषु समवस्थितः ।
वाक्यार्थस्याभ्युपायोऽसावेकस्य प्रतिपादने । । २.२४८ । ।
पूर्वं पदेष्वसंसृष्टो यः क्रमादुपचीयते ।
छिन्नग्रथितकल्पत्वात्तद्विशिष्टतरं विदुः । । २.२४९ । ।
एकं आहुरनेकार्थं शब्दं अन्ये परीक्षकाः ।
निमित्तभेदादेकस्य सार्वार्थ्यं तस्य भिद्यते । । २.२५० । ।
यौगपद्यं अतिक्रम्य पर्याये व्यवतिष्ठते ।
अर्थप्रकरणाभ्यां वा योगाच्छब्दान्तरेण वा । । २.२५१ । ।
यथा सास्नादिमान्पिण्डो गोशब्देनाभिधीयते ।
तथा स एव गोशब्दो वाहीकेऽपि व्यवस्थितः । । २.२५२ । ।
सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः ।
प्रसिद्धिभेदाद्गौणत्वं मुख्यत्वं चोपजायते । । २.२५३ । ।
एको मन्त्रस्तथाध्यात्मं अधिदैवं अधिक्रतु ।
असंकरेण सर्वार्थो भिन्नशक्तिरवस्थितः । । २.२५४ । ।
गोत्वानुषङ्गो वाहीके निमित्तात्कैश्चिदिष्यते ।
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः । । २.२५५ । ।
तथा स्वरूपं शब्दानां सर्वार्थेष्वनुषज्यते ।
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता । । २.२५६ । ।
एकत्वं तु सरूपत्वाच्छब्दयोर्गौणमुख्ययोः ।
प्राहुरत्यन्तभेदेऽपि भेदमार्गानुदर्शिनः । । २.२५७ । ।
सामिधेन्यन्तरं चैवं आवृत्तावनुषज्यते ।
मन्त्रास्च विनियोगेन लभन्ते भेदं ऊहवत् । । २.२५८ । ।
तान्याम्नायान्तराण्येव पठ्यते किं चिदेव तु ।
अनर्थकानां पाठो वा शेषस्त्वन्यः प्रतीयते । । २.२५९ । ।
शब्दस्वरूपं अर्थस्तु पाठेऽन्यैरुपवर्ण्यते ।
अत्यन्तभेदः सर्वेषां तत्संबन्धात्तु तद्वताम् । । २.२६० । ।
अन्या संस्कारसावित्री कर्मण्यन्या प्रयुज्यते ।
अन्या जपप्रबन्धेषु सा त्वेकैव प्रतीयते । । २.२६१ । ।
अर्थस्वरूपे शब्दानां स्वरूपाद्वृत्तिं इच्छतः ।
वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया । । २.२६२ । ।
अनेकार्थत्वं एकस्य यैः शब्दस्यानुगम्यते ।
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना । । २.२६३ । ।
अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह ।
युक्तः प्रत्याययत्यर्थं तं गौणं अपरे विदुः । । २.२६४ । ।
शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः । । २.२६५ । ।
यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते ।
तं अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् । । २.२६६ । ।
स्वार्थे प्रवर्तमानोऽपि यस्यार्थं योऽवलम्बते ।
निमित्तं तत्र मुख्यं स्यान्निमित्ती गौण इष्यते । । २.२६७ । ।
पुरारादिति भिन्नेऽर्थे यौ वर्तेते विरोधिनि ।
अर्थप्रकरणापेक्षं तयोरप्यवधारणम् । । २.२६८ । ।
वाक्यस्यार्थात्पदार्थानां अपोद्धारे प्रकल्पिते ।
शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते । । २.२६९ । ।
यच्चाप्येकं पदं दृष्टं चरितास्तिक्रियं क्व चित् ।
तद्वाक्यान्तरं एवाहुर्न तदन्येन युज्यते । । २.२७० । ।
यच्च कोऽयं इति प्रश्ने गौरश्व इति चोच्यते ।
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका । । २.२७१ । ।
नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका ।
आधिक्यं अपि मन्यन्ते प्रसिद्धेर्न्यूनतां क्व चित् । । २.२७२ । ।
जातिशब्दोऽन्तरेणापि जातिं यत्र प्रयुज्यते ।
संबन्धिसदृशाद्धर्मात्तं गौणं अपरे विदुः । । २.२७३ । ।
विपर्यासादिवार्थस्य यत्रार्थान्तरतां इव ।
मन्यन्ते स गवादिस्तु गौण इत्युच्यते क्व चित् । । २.२७४ । ।
नियताः साधनत्वेन रूपशक्तिसमन्विताः ।
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः । । २.२७५ । ।
क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः ।
रूपादेव तु तादर्थ्यं नियमेन प्रतीयते । । २.२७६ । ।
तथैव रूपशक्तिभ्यां उत्पत्त्या समवस्थितः ।
शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते । । २.२७७ । ।
श्रुतिमात्रेण यत्रास्य सामर्थ्यं अवसीयते ।
तं मुख्यं अर्थं मन्यन्ते गौणं यत्नोपपादितम् । । २.२७८ । ।
गोयुष्मन्महतां च्व्यर्थे स्वार्थादर्थान्तरे स्थितौ ।
अर्थान्तरस्य तद्भावस्तत्र मुख्योऽपि दृश्यते । । २.२७९ । ।
महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते ।
भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका । । २.२८० । ।
अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः ।
संज्ञिभिः संप्रयुज्यन्तेऽप्रसिद्धेस्तेषु गौणता । । २.२८१ । ।
अग्निदत्तस्तु योऽग्निः स्यात्तत्र स्वार्थोपसर्जनः ।
शब्दो दत्तार्थवृत्तित्वाद्गौणत्वं प्रतिपद्यते । । २.२८२ । ।
निमित्तभेदात्प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि ।
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ । । २.२८३ । ।
ऋष्यादौ प्राप्तसंस्कारो यः शब्दोऽन्येन युज्यते ।
तत्रान्तरङ्गसंस्कारो बाह्येऽर्थे न निवर्तते । । २.२८४ । ।
अत्यन्तविपरीतोऽपि यथा योऽर्थोऽवधार्यते ।
यथासंप्रत्ययं शब्दस्तत्र मुख्यः प्रयुज्यते । । २.२८५ । ।
यद्यपि प्रत्ययाधीनं अर्थतत्त्वावधारणम् ।
न सर्वः प्रत्ययस्तस्मिन्प्रसिद्ध इव जायते । । २.२८६ । ।
दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः ।
भेदात्तु स्पर्शनादीनां न जलं मृगतृष्णिका । । २.२८७ । ।
यदसाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः ।
तेन भेदपरिच्छेदस्तयोस्तुल्येऽपि दर्शने । । २.२८८ । ।
प्रसिद्धार्थविपर्यास- निमित्तं यच्च दृश्यते ।
यस्तस्माल्लक्ष्यते भेदस्तं असत्यं प्रचक्षते । । २.२८९ । ।
यच्च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः ।
न तत्र प्रतिघातादि कार्यं तद्वत्प्रवर्तते । । २.२९० । ।
स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः ।
न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् । । २.२९१ । ।
वप्रप्राकारकल्पैश्च स्पर्शनावरणे यथा ।
नगरेषु न ते तद्वद्गन्धर्वनगरेष्वपि । । २.२९२ । ।
मृगपश्वादिभिर्यावान्मुख्यैरर्थः प्रसाध्यते ।
तावान्न मृन्मयेष्वस्ति तस्मात्ते विषयः कनः । । २.२९३ । ।
महानाव्रियते देशः प्रसिद्धैः पर्वतादिभिः ।
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते । । २.२९४ । ।
मरणादिनिमित्तं च यथा मुख्या विषादयः ।
न ते स्वप्नादिषु स्वस्य तद्वदर्थस्य साधकाः । । २.२९५ । ।
देशकालेन्द्रियगतैर्भेदैर्यद्दृश्यतेऽन्यथा ।
यथा प्रसिद्धिर्लोकस्य तथा तदवसीयते । । २.२९६ । ।
यच्चोपघातजं ज्ञानं यच्च ज्ञानं अलौकिकम् ।
न ताभ्यां व्यवहारोऽस्ति शब्दा लोकनिबन्धनाः । । २.२९७ । ।
घटादिषु यथा दीपो येनार्थेन प्रयुज्यते ।
ततोऽन्यस्यापि सांनिध्यात्स करोति प्रकाशनम् । । २.२९८ । ।
संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते ।
तस्मात्प्रयोजकादन्यानपि प्रत्याययत्यसौ । । २.२९९ । ।
निर्मन्थनं यथारण्योरग्न्यर्थं उपपादितम् ।
धूमं अप्यनभिप्रेतं जनयत्येकसाधनम् । । २.३०० । ।
तथा शब्दोऽपि कस्मिंश्चित्प्रत्याय्येऽर्थे विवक्षिते ।
अविवक्षितं अप्यर्थं प्रकाशयते संनिधेः । । २.३०१ । ।
यथैवात्यन्तसंसृष्टस्त्यक्तुं अर्थो न शक्यते ।
तथा शब्दोऽपि संबन्धी प्रविवक्तुं न शक्यते । । २.३०२ । ।
अर्थानां संनिधानेऽपि सति चैषां प्रकाशने ।
प्रयोजकोऽर्थः शब्दस्य रूपाभेदेऽपि गम्यते । । २.३०३ । ।
क्व चिद्गुणप्रधानत्वं अर्थानां अविवक्षितम् ।
क्व चित्सांनिध्यं अप्येषां प्रतिपत्तावकारणम् । । २.३०४ । ।

  • यच्चानुपात्तं शब्देन तत्कस्मिंश्चित्प्रतीयते ।

क्व चित्प्रधानं एवार्थो भवत्ययस्य लक्षणम् । । २.३०५ * । ।

  • आख्यातं तद्धितार्थस्य यत्किं चिदुपदर्शकम् ।

गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः । । २.३०६ * । ।

  • निर्देशे लिङ्गसंख्यानां संनिधानं अकारणम् ।

प्रमाणं अर्धह्रसादावनुपात्तं प्रतीयते । । २.३०७ । ।
ह्रस्वस्यार्धं च यद्दृष्टं तत्तस्यासंनिधावपि ।
ह्रस्वस्य लक्षणार्थत्वात्तद्वदेवाभिधीयते । । २.३०८ । ।
दीर्घप्लुताभ्यां तस्य स्यान्मात्रया वा विशेषणम् ।
जातेर्वा लक्षणाय स्यात्सर्वथा सप्तपर्णवत् । । २.३०९ । ।
गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे ।
ज्ञायतां काल इत्येतत्सोपायं अभिधीयते । । २.३१० । ।
विध्यत्यधनुषेत्यत्र विशेषेण निदर्श्यते ।
सामान्यं आश्रयः शक्तेर्यः कश्चित्प्रतिपादकः । । २.३११ । ।
काकेभ्यो रक्ष्यतां सर्पिरिति बालोऽपि चोदितः ।
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति । । २.३१२ । ।
प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा ।
अनुक्तं अपि रूपेण भुज्यङ्गत्वात्प्रतीयते । । २.३१३ । ।
वाक्यात्प्रकरणादर्थादौचित्याद्देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् । । २.३१४ । ।
संसर्गो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः । । २.३१५ । ।
सामर्थ्यं औचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः । । २.३१६ । ।
भेदपक्षेऽपि सारूप्याद्भिन्नार्थाः प्रतिपत्तृषु ।
नियता यान्त्यभिव्यक्तिं शब्दाः प्रकरणादिभिः । । २.३१७ । ।
नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः ।
शब्दा वाक्यस्य तेष्वर्थो न रूपादधिगम्यते । । २.३१८ । ।
या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना ।
कुशलः प्रतिपत्ता तां अयथार्थां समीहते । । २.३१९ । ।
विधीयमानं यत्क्रर्म दृष्टादृष्टप्रयोजनम् ।
स्तूयते सा स्तुतिस्तस्य कर्तुरेव प्रयोजिका । । २.३२० । ।
व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।
असत्योऽपि तथा कश्चित्प्रत्यवायोऽभिधीयते । । २.३२१ । ।
न संविधानां कृत्वापि प्रत्यवाये तथाविधे ।
शास्त्रेण प्रतिषिद्धेऽर्थे विद्वान्कश्चित्प्रवर्तते । । २.३२२ । ।
सर्पेषु संविधायापि सिद्धैर्मन्त्रौषधादिभिः ।
नान्यथा प्रतिपत्तव्यं न दतो गमयेदिति । । २.३२३ । ।
क्व चित्तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।
तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते । । २.३२४ । ।
रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् ।
सापेक्षा ये तु वाक्यार्थाः पदार्थैरेव ते समाः । । २.३२५ । ।
वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम् ।
अन्तरेण क्रियाशब्दं वाक्यादेर्द्वित्वदर्शनात् । । २.३२६ । ।
आख्यातशब्दे नियतं साधनं यत्र गम्यते ।
तदप्येकं समाप्तार्थं वाक्यं इत्यभिधीयते । । २.३२७ । ।
शब्दव्यवहिता बुद्धिरप्रयुक्तपदाश्रया ।
अनुमानं तदर्थस्य प्रत्यये हेतुरुच्यते । । २.३२८ । ।
[थिस्वेर्से इसोन्ल्यिन्ऱौ]
अपरे तु पदस्यैव तं अर्थं प्रतिजानते ।
शब्दान्तराभिसंबन्धं अन्तरेण व्यवस्थितम् । । २.३२९ । ।
यस्मिन्नुच्चरिते शब्दे यदा योऽर्थः प्रतीयते ।
तं आहुरर्थं तस्यैव नान्यदर्थस्य लक्षणम् । । २.३३० । ।
क्रियार्थोपपदेश्वेवं स्थानिनां गम्यते क्रिया ।
वृत्तौ निरादिभिश्चैवं क्रान्ताद्यर्थः प्रतीयते । । २.३३१ । ।
तानि शब्दान्तराण्येव पर्याया इव लौकिकाः ।
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते । । २.३३२ । ।
प्रतिबोधाभ्युपायास्तु ये तं तं पुरुषं प्रति ।
नावश्यं तेऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना । । २.३३३ । ।
असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने ।
स्वैरर्थैर्नित्यसंबन्धास्ते ते शब्दा व्यवस्थिताः । । २.३३४ । ।
यथाप्रकरणं द्वारं इत्यस्यां कर्मणः श्रुतौ ।
बधान देहि वेत्येतदुपायादवगम्यते । । २.३३५ । ।
तत्र साधनवृत्तिर्यः शब्दः सत्त्वनिबन्धनः ।
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः । । २.३३६ । ।
स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते ।
अर्थस्तु तस्य संबन्धी प्रकल्पयति संनिधिम् । । २.३३७ । ।
पारार्थ्यस्याविशिष्टत्वान्न शब्दाच्छब्दसंनिधिः ।
नार्थाच्छब्दस्य सांनिध्यं न शब्दादर्थसंनिधिः । । २.३३८ । ।
नष्टरूपं इवाख्यातं आक्षिप्तं कर्मवाचिना ।
यदि प्राप्तं प्रधानत्वं युगपद्भावसत्त्वयोः । । २.३३९ । ।
तैस्तु नामसरूपत्वं आख्यातस्यास्य वर्ण्यते ।
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते । । २.३४० । ।
न चापि रूपात्संदेहे वाचकत्वं निवर्तते ।
अर्धं पशोरिति यथा सामर्थ्यात्तद्धि कल्पते । । २.३४१ । ।
सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् ।
संसर्गे च विभक्तोऽस्य तस्यार्थो न पृथग्यदि । । २.३४२ । ।
क्रियाप्रधानं आख्यातं नाम्नां सत्त्वप्रधानता ।
चत्वारि पदजातानि सर्वं एतद्विरुध्यते । । २.३४३ । ।
वाक्यस्य बुद्धौ नित्यत्वं अर्थयोगं च लौकिकम् ।
दृष्ट्वा चतुष्ट्वं नास्तीति वदत्यौदुम्बरायणः । । २.३४४ । ।
व्याप्तिमांश्च लघुश्चैव व्यवहारः पदाश्रयः ।
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः । । २.३४५ । ।
न लोके प्रतिपत्तॄणां अर्थयोगात्प्रसिद्धयः ।
तस्मादलौकिको वाक्यादन्यः कश्चिन्न विद्यते । । २.३४६ । ।
अन्यत्र श्रूयमाणैश्च लिङ्गैर्वाक्यैश्च सूचिताः ।
स्वार्था एव प्रतीयन्ते रूपाभेदादलक्षिताः । । २.३४७ । ।
उत्सर्गवाक्ये यत्त्यक्तं अशब्दं इव शब्दवत् ।
तद्बाधकेषु वाक्येषु श्रुतं अन्यत्र गम्यते । । २.३४८ । ।
ब्राह्मणानां श्रुतिर्दध्नि प्रक्रान्ता माठराद्विना ।
माठरस्तक्रसंबन्धात्तत्राचष्टे यथार्थताम् । । २.३४९ । ।
अनेकाख्यातयोगेऽपि वाक्यं न्यायापवादयोः ।
एकं एवेष्यते कैश्चिद्भिन्नरूपं इव स्थितम् । । २.३५० । ।
नियमः प्रतिषेधश्च विधिशेषस्तथा सति ।
द्वितीये यो लुगाख्यातस्तच्छेषं अलुकं विदुः । । २.३५१ । ।
निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् ।
तेषां अनुपकारित्वात्कथं स्यादेकवाक्यता । । २.३५२ । ।
विशेषविधिनार्थित्वाद्वाक्यशेषोऽनुमीयते ।
विधेयवन्निवर्त्येऽर्थे तस्मात्तुल्यं व्यपेक्षणम् । । २.३५३ । ।
संज्ञाशब्दैकदेशो यस्तस्य लोपो न विद्यते ।
विशिष्टरूपा सा संज्ञा कृता च न निवर्तते । । २.३५४ । ।
संज्ञान्तराच्च दत्तादेर्नान्या संज्ञा प्रतीयते ।
संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् । । २.३५५ । ।
सर्वैरवयवैस्तुल्यं संबन्धं समुदायवत् ।
के चिच्छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः । । २.३५६ । ।
वर्णानां अर्थवत्त्वं तु संज्ञानां संज्ञिभिर्भवेत् ।
संबद्धोऽवयवः संज्ञा- प्रविवेके न कल्पते । । २.३५७ । ।
सर्वस्वरूपैर्युगपत्संबन्धे सति संज्ञिनः ।
नैकदेशसरूपेभ्यस्तत्प्रत्यायनसंभवः । । २.३५८ । ।
एकदेशात्तु संघाते केषां चिज्जायते स्मृतिः ।
स्मृतेस्तु विषयाच्छब्दात्संघातार्थः प्रतीयते । । २.३५९ । ।
एकदेशात्स्मृतिर्भिन्ने संघाते नियता कथम् ।
कथं प्रतीयमानः स्याच्छब्दोऽर्थस्याभिधायकः । । २.३६० । ।
एकदेशसरूपास्तु तैस्तैर्भेदैः समन्विताः ।
अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः । । २.३६१ । ।
साधारणत्वात्संधिग्धाः सामर्थ्यान्नियताश्रयाः ।
तेषां ये साधवस्तेषु शास्त्रे लोपादि शिष्यते । । २.३६२ । ।
तुल्यायां अनुनिष्पत्तौ ज्ये-द्रा-घा इत्यसाधवः ।
न ह्यन्वाख्यायके शास्त्रे तेषु दत्तादिवत्स्मृतिः । । २.३६३ । ।
कृतणत्वाश्च ये शब्दा नित्याः खरणसादयः ।
एकद्रव्योपदेशित्वात्तान्साधून्संप्रचक्षते । । २.३६४ । ।
गोत्राण्येव तु तान्याहुः संज्ञाशक्तिसमन्वयात् ।
निमित्तापेक्षणं तेषु स्वार्थे नावश्यं इष्यते । । २.३६५ । ।
व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् ।
नित्य एव तु संबन्धो डित्थादिषु गवादिवत् । । २.३६६ । ।
कृतकत्वादनित्यत्वं संबन्धस्योपपद्यते ।
संज्ञायां सा हि पुरुषैर्यथाकामं नियुज्यते । । २.३६७ । ।
यथा हि पांसुलेखानां बालकैर्मधुक्रादयः ।
संज्ञाः क्रियन्ते सर्वासु संज्ञास्वेषैव कल्पना । । २.३६८ । ।
वृद्ध्यादीनां च शास्त्रेऽस्मिञ् छक्त्यवच्छेदलक्षणः ।
अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् । । २.३६९ । ।
संज्ञा स्वरूपं आश्रित्य निमित्ते सति लौकिकी ।
का चित्प्रवर्तते का चिन्निमित्तासंनिधावपि । । २.३७० । ।
शास्त्रेऽपि महती संज्ञा स्वरूपोपनिबन्धना ।
अनुमानं निमित्तस्य संनिधाने प्रतीयते । । २.३७१ । ।
आवृत्तेरनुमानं वा सारूप्यात्तत्र गम्यते ।
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः । । २.३७२ । ।
क्व चिद्विषयभेदेन कृत्रिमा व्यवतिष्ठते ।
संख्यायां एकविषयं व्यवस्थानं द्वयोरपि । । २.३७३ । ।
विषयं कृत्रिमस्यापि लौकिकः क्व चिदुच्चरन् ।
व्याप्नोति दूरात्संबुद्धौ तथा हि ग्रहणं द्वयोः । । २.३७४ । ।
सङ्घैकशेषद्वन्द्वेषु के चित्सामर्थ्यलक्षणम् ।
प्रत्याश्रयं अवस्थानं क्रियाणां प्रतिजानते । । २.३७५ । ।
भोजनं फलरूपाभ्यां एकैकस्मिन्समाप्यते ।
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते । । २.३७६ । ।
अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम् ।
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियां इव । । २.३७७ । ।
पाद्यवत्सा विभागेन सामर्थ्यादवतिष्ठते ।
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् । । २.३७८ । ।
दृश्यादिस्तु क्रियैकापि तथाभूतेषु कर्मसु ।
आवृत्तिं अन्तरेणापि समुदायाश्रया भवेत् । । २.३७९ । ।
भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् । । २.३८० । ।
लक्ष्यस्य लोकसिद्धत्वाच्छास्त्रे लिङ्गस्य दर्शनात् ।
अर्थिष्वादैक्षु भेदेन वृद्धिसंज्ञा समाप्यते । । २.३८१ । ।
शतादानप्रधानत्वाद्दण्डने शतकर्मके ।
अर्थिनां गुणभेदेऽपि संख्येयोऽर्थो न भिद्यते । । २.३८२ । ।
सङ्घस्यैव विधेयत्वात्कार्यवत्प्रतिपादने ।
तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः । । २.३८३ । ।
लक्षणार्था श्रुतिर्येषां कां चिदेव क्रियां प्रति ।
तैर्व्यस्तैश्च समस्तैश्च स धर्म उपलक्ष्यते । । २.३८४ । ।
वृषलैर्न प्रवेष्टव्यं इत्येतस्मिन्गृहे यथा ।
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते । । २.३८५ । ।
संभूय त्वर्थलिप्सादि- प्रतिषेधोपदेशने ।
पृथगप्रतिषिद्धत्वात्प्रवृत्तिर्न विरुध्यते । । २.३८६ । ।
व्यवायलक्षणार्थात्वादट्कुप्वाङादिभिस्तथा ।
प्रत्येकं वा समस्तैर्वा णत्वं न प्रतिषिध्यते । । २.३८७ । ।
अनुग्रहार्था भोक्तॄणां भुजिरारभ्यते यदा ।
देशकालाद्यभेदेन नानुगृह्णाति तानसौ । । २.३८८ । ।
पात्रादिभेदान्नानात्वं यस्यैकस्योपदिश्यते ।
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते । । २.३८९ । ।
संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः ।
स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते । । २.३९० । ।
वीप्साया विषयाभावाद्विरोधादन्यसंख्यया ।
द्विधा समाप्त्ययोगाच्च शतं सङ्घेऽवतिष्ठते । । २.३९१ । ।
भुजिर्द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते ।
तत्रापि लक्षणार्थत्वाद्द्विधा वाक्यं समाप्यते । । २.३९२ । ।
वाक्यान्तराणां प्रत्येकं समाप्तिः कैश्चिदिष्यते ।
रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः । । २.३९३ । ।
न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् ।
तस्मिंस्तूच्चरिते भेदांस्तथान्यान्प्रतिपद्यते । । २.३९४ । ।
येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते ।
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया । । २.३९५ । ।
अथ तैरेव जनितः सोऽर्थो भिन्नेषु वर्तते ।
पूर्वस्यार्थस्य तेन स्याद्विरोधः सह वा स्थितिः । । २.३९६ । ।
सहस्थितौ विरोधित्वं स्याद्विशिष्टाविशिष्टयोः ।
व्यभिचारी तु संबन्धस्त्यागेऽर्थस्य प्रसज्यते । । २.३९७ । ।
एकः साधारणो वाच्यः प्रतिशब्दं अवस्थितः ।
सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः । । २.३९८ । ।
यथा साधारणे स्वत्वं त्यागस्य च फलं धने ।
प्रीतिश्चाविकला तद्वत्संबन्धोऽर्थेन तद्वताम् । । २.३९९ । ।
वर्णानां अर्थवत्तायां तेनैवार्थेन तद्वति ।
समुदाये न चैकत्वं भेदेन व्यवतिष्ठते । । २.४०० । ।
एकेनैव प्रदीपेन सर्वे साधारणं धनम् ।
पश्यन्ति तद्वदेकेन सुपा संख्याभिधीयते । । २.४०१ । ।
नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते ।
अभ्यासात्प्रक्रमोऽन्यस्तु विरुद्ध इव दृश्यते । । २.४०२ । ।
विनियोगादृते शब्दो न स्वार्थस्य प्रकाशकः ।
अर्थाभिधानसंबन्धं उक्तिद्वारं प्रचक्षते । । २.४०३ । ।
यथा प्रणिहितं चक्षुर्दर्शनायोपकल्पते ।
तथाभिसंहितः शब्दो भवत्यर्थस्य वाचकः । । २.४०४ । ।
क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः ।
अभिधानियमस्तस्मादभिधानाभिधेययोः । । २.४०५ । ।
बहुष्वेकाभिधानेषु सर्वेष्वेकार्थकारिषु ।
यत्प्रयोक्ताभिसंधत्ते शब्दस्तत्रावतिष्ठते । । २.४०६ । ।
आम्नायशब्दानभ्यासे के चिदाहुरनर्थकान् ।
स्वरूपमात्रवृत्तींश्च परेषां प्रतिपादने । । २.४०७ । ।
अभिधानक्रियायोगादर्थस्य प्रतिपादकान् ।
नियोगभेदान्मन्यन्ते तानेवैकत्वदर्शिनः । । २.४०८ । ।
तेषां अत्यन्तनानात्वं नानात्वव्यवहारिणः ।
अक्षादीनां इव प्राहुरेकजातिसमन्वयात् । । २.४०९ । ।
प्रयोगादभिसंधानं अन्यदेषु न विद्यते ।
विषये यतशक्तित्वात्स तु तत्र व्यवस्थितः । । २.४१० । ।
नानात्वस्यैव संज्ञानं अर्थप्रकरणादिभिः ।
न जात्वर्थान्तरे वृत्तिरन्यार्थानां कथं चन । । २.४११ । ।
पदरूपं च यद्वाक्यं अस्तित्वोपनिबन्धनम् ।
कामं विमर्शस्तत्रायं न वाक्यावयवे पदे । । २.४१२ । ।
यथैवानर्थकैर्वर्णैर्विशिष्टोऽर्थोऽभिधीयते ।
पदैरनर्थकैरेवं विशिष्टोऽर्थोऽभिधीयते । । २.४१३ । ।
यदन्तराले ज्ञानं तु पदार्थेषूपजायते ।
प्रतिपत्तेरुपायोऽसौ प्रक्रमानवधारणात् । । २.४१४ । ।
पूर्वैरर्थैरनुगतो यथार्थात्मा परः परः ।
संसर्ग एव प्रक्रान्तस्तथान्येष्वर्थवस्तुषु । । २.४१५ । ।
अङ्गीकृते तु केषां चित्साध्येनार्थेन साधने ।
आराधनियमार्थैव साधनानां पुनः श्रुतिः । । २.४१६ । ।
आधारे नियमाभावात्तदाक्षेपो न विद्यते ।
सामर्थ्यात्संभवस्तस्य श्रुतिस्त्वन्यनिवृत्तये । । २.४१७ । ।
क्रिया क्रियान्तराद्भिन्ना नियताधारसाधना ।
प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः । । २.४१८ । ।
अविभागं तु शब्देभ्यः क्रमवद्भ्योऽपदक्रमम् ।
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च । । २.४१९ । ।
स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते ।
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते । । २.४२० । ।
अशब्दं अपरेऽर्थस्य रूपनिर्धारणं विदुः ।
अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः । । २.४२१ । ।
अन्यथैवाग्निसंबन्धाद्दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते । । २.४२२ । ।
पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् ।
इन्द्रियाणां यथा कार्यं ऋते देहान्न कल्पते । । २.४२३ । ।
तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् ।
वाक्येभ्यः प्रविभक्तानां अर्थवत्ता न विद्यते । । २.४२४ । ।
संसर्गरूपं संसृष्टेष्वर्थवस्तुषु गृह्यते ।
नात्रोपाख्यायते तत्त्वं अपदार्थस्य दर्शनात् । । २.४२५ । ।
दर्शनस्यापि यत्सत्यं न तथा दर्शनं स्थितम् ।
वस्तु संसर्गरूपेण तदरूपं निरूप्यते । । २.४२६ । ।
अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः ।
अर्थोऽभिधीयते यस्मादतो वाक्यं प्रयुज्यते । । २.४२७ । ।
क्रियानुषङ्गेण विना न पदार्थः प्रतीयते ।
सत्यो वा विपरीतो वा व्यवहारे न सोऽस्त्यतः । । २.४२८ । ।
सदित्येतत्तु यद्वाक्यं तदभूदस्ति नेति वा ।
क्रियाभिधानसंबन्धं अन्तरेण न गम्यते । । २.४२९ । ।
आख्यातपदवाच्येऽर्थे साधनोपनिबन्धने ।
विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते । । २.४३० । ।
प्राधान्यात्तु क्रिया पूर्वं अर्थस्य प्रविभज्यते ।
साध्यप्रयुक्तान्यङ्गानि फलं तस्य प्रयोजकम् । । २.४३१ । ।
प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् ।
अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते । । २.४३२ । ।
पचिक्रियां करोतीति कर्मत्वेनाभिधीयते ।
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते । । २.४३३ । ।
योऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः ।
अर्थस्य सर्वशक्तित्वात्स तथैव व्यवस्थितः । । २.४३४ । ।
आराद्वृत्तिषु संबन्धः कदा चिदभिधीयते ।
आश्लिष्टो योऽनुपश्लिष्टः स कदा चित्प्रतीयते । । २.४३५ । ।
संसृष्टानां विभक्तत्वं संसर्गश्च विवेकिनाम् ।
नानात्मकानां एकत्वं नानात्वं च विपर्यये । । २.४३६ । ।
सर्वात्मकत्वादर्थस्य नैरात्म्याद्वा व्यवस्थितम् ।
अत्यन्तयतशक्तित्वाच्छब्द एव निबन्धनम् । । २.४३७ । ।
वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः ।
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते । । २.४३८ । ।
संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते ।
संबन्धः समवायस्तु संबन्धित्वेन गम्यते । । २.४३९ । ।
लक्षणाद्व्यवतिष्ठन्ते पदार्था न तु वस्तुतः ।
उपकारात्स एवार्थः कथं चिदनुगम्यते । । २.४४० । ।
वाक्यार्थो योऽभिसंबन्धो न तस्यात्मा क्व चित्स्थितः ।
व्यवहारे पदार्थानां तं आत्मानं प्रचक्षते । । २.४४१ । ।
पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् ।
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते । । २.४४२ । ।
अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् ।
साकाङ्क्षावयवं भेदे तेनान्यदुपवर्ण्यते । । २.४४३ । ।
अनेकशक्तेरेकस्य प्रविभागोऽनुगम्यते ।
एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते । । २.४४४ । ।
संप्रत्ययार्थाद्बाह्योऽर्थः सन्नसन्वा विभज्यते ।
बाह्यीकृत्य विभागस्तु शक्त्यपोद्धारलक्षणः । । २.४४५ । ।
प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः ।
अन्यत्र च ततो रूपं न तासां उपलभ्यते । । २.४४६ । ।
बहुश्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता ।
तिङा तिङ्भ्यो निघातस्य पर्युदासस्तथार्थवान् । । २.४४७ । ।
एकतिङ्यस्य वाक्यं तु शास्त्रे नियतलक्षणम् ।
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान्न विद्यते । । २.४४८ । ।
तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः ।
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः । । २.४४९ । ।
इतिकर्तव्यतार्थस्य सामर्थ्याद्यत्र काङ्क्ष्यते ।
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तदुच्यते । । २.४५० । ।
तत्त्वान्वाख्यानमात्रे तु यावानर्थोऽनुषज्यते ।
विनापि तत्प्रयोगेण श्रुतेर्वाक्यं समाप्यते । । २.४५१ । ।
चिङ्क्रम्यमाणोऽधीष्वात्र जपंश्चङ्क्रमणं कुरु ।
तादर्थ्यस्याविशेषेऽपि शब्दाद्भेदः प्रतीयते । । २.४५२ । ।
फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः ।
असंख्याताः क्रमोद्देशैरेकाख्यातनिदर्शिताः । । २.४५३ । ।
निवृतभेदा सर्वैव क्रियाख्यातेऽभिधीयते ।
श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना । । २.४५४ । ।
अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रं आसते ।
ब्राह्मणा इति नाख्यात- रूपाद्भेदः प्रतीयते । । २.४५५ । ।
सकृच्छ्रुता सप्तदशस्वनावृत्तापि या क्रिया ।
प्रजापत्येषु सामर्थ्यात्सा भेदं प्रतिपद्यते । । २.४५६ । ।
देवदत्तादिषु भुजिः प्रत्येकं अवतिष्ठते ।
प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते । । २.४५७ । ।
उच्चारणे तु वाक्यानां अन्यद्रूपं न गृह्यते ।
प्रतिपत्तौ तु भिन्नानां अन्यद्रूपं प्रतीयते । । २.४५८ । ।
एकं ग्रहणवाक्यं च सामान्येनाभिधीयते ।
कर्तरीति यथा तच्च पश्वादिषु विभज्यते । । २.४५९ । ।
यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच्छ्रुतौ ।
नैवान्येनाभिसंबन्धं तदुपेयात्कथं चन । । २.४६० । ।
एकरूपं अनेकार्थं तस्मादुपनिबन्धनम् ।
योनिर्विभागवाक्यानां तेभ्योऽनन्यदिव स्थितम् । । २.४६१ । ।
क्व चित्क्रिया व्यक्तिभागैरुपकारे प्रवर्तते ।
सामान्यभाग एवास्याः क्व चिदर्थस्य साधकः । । २.४६२ । ।
कालभिन्नाश्च ये भेदा ये चाप्युष्ट्रासिकादिषु ।
प्रक्रमे जातिभागस्य शब्दात्मा तैर्न भिद्यते । । २.४६३ । ।
एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः ।
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच्छ्रुतौ । । २.४६४ । ।
अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः ।
प्रयोगकालाभेदेऽपि प्रतिभेदं पृथक्स्थिताः । । २.४६५ । ।
अक्षिणां तन्त्रिणां तन्त्रं उपायस्तुल्यरूपता ।
एषां क्रमो विभक्तानां तन्निबद्धा सकृच्छ्रुतिः । । २.४६६ । ।
द्वावप्युपायौ शब्दानां प्रयोगे समवस्थितौ ।
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते । । २.४६७ । ।
क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते ।
क्रिया तु यौगपद्येऽपि क्रमरूपानुपातिनी । । २.४६८ । ।
भेदसंसर्गशक्ती द्वे शब्दाद्भिन्ने इव स्थिते ।
यौगपद्येऽप्यनेकेन प्रयोगे भिद्यते श्रुतिः । । २.४६९ । ।
अभिन्नो रूपभेदेन य एकोऽर्थो विवक्षितः ।
तस्यावयवधर्मेण समुदायोऽनुगम्यते । । २.४७० । ।
भेदनिर्वचने त्वस्य प्रत्येदं वा समाप्यते ।
श्रुतिर्वचनभिन्ना वा वाक्यभेदेऽवतिष्ठते । । २.४७१ । ।
तत्रैकवचनान्तो वा सोऽक्षशब्दः प्रयुज्यते ।
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति । । २.४७२ । ।
द्विष्ठानि यानि वाक्यानि तेष्वप्येकत्वदर्शिनाम् ।
अनेकशक्तेरेकस्य स्वशक्तिः प्रविभज्यते । । २.४७३ । ।
अत्यन्तभिन्नयोर्वा स्यात्प्रयोगे तन्त्रलक्षणः ।
उपायस्तत्र संसर्गः प्रतिपत्तृषु भिद्यते । । २.४७४ । ।
भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः ।
तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः । । २.४७५ । ।
एकस्यापि विवक्षायां अनुनिष्पद्यते परः ।
विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते । । २.४७६ । ।
अनेका शक्तिरेकस्य युगपच्छ्रूयते क्व चित् ।
अग्निः प्रकाशदाहाभ्यां एकत्रापि नियुज्यते । । २.४७७ । ।
आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृदपि श्रुते ।
लिङ्गाद्वा तन्त्रधर्माद्वा विभागो व्यवतिष्ठते । । २.४७८ । ।
संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।
प्रविभागस्तथा सूत्र एकस्मिन्नेव जायते । । २.४७९ । ।
तथा द्विर्वचनेऽचीति तन्त्रोपायादलक्षणः ।
एकशेषेण निर्देशो भाष्य एव प्रदर्शितः । । २.४८० । ।
प्रायेण संक्षेपरुचीनल्पविद्यापरिग्रहान् ।
संप्राप्य वैयाकरणान्संग्रहेऽस्तं उपागते । । २.४८१ । ।
कृतेऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना ।
सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने । । २.४८२ । ।
अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् ।
तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्चयः । । २.४८३ । ।
वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः ।
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके । । २.४८४ । ।
यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः ।
कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः । । २.४८५ । ।
पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः ।
स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः । । २.४८६ । ।
न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् ।
प्रणीतो गुरुणास्माकं अयं आगमसंग्रहः । । २.४८७ । ।
वर्त्मनां अत्र केषां चिद्वस्तुमात्रं उदाहृतम् ।
काण्डे तृतीये न्यक्षेन भविष्यति विचारणा । । २.४८८ । ।
प्रज्ञा विवेकं लभते भिन्नैरागमदर्शनैः ।
कियद्वा शक्यं उन्नेतुं स्वतर्कं अनुधावता । । २.४८९ । ।
तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना ।
अनुपासितवृद्धानां विद्या नातिप्रसीदति । । २.४९० । ।