वर्तमान-परिप्रेक्ष्ये संस्कृतस्य प्रासङ्गिता समुपादेयता च
वर्तमान-परिप्रेक्ष्ये संस्कृतस्य प्रासङ्गिता समुपादेयता च
सर्वादौ किन्नाम संस्कृतमिति जिज्ञासते चेत् समुपसर्गात् "डुकृञ्" "करणे"इत्यस्माद् धातोः 'क्त' प्रत्यये "सम्परिभ्यां करोतौ भूषणे" इत्यनेन सुडागमे कृते सति संस्कृतमिति शब्दो निष्पद्यते। भाष्यतेऽनयेति भाषा संस्कृतं भाष्यतेऽनयेति संस्कृतभाषा । संस्कृतभाषेयं विश्वस्मिन्नपि विश्वे सर्वप्रचलितासु भाषासु प्राचीना तथा शुद्धा,परिष्कृता,परिमार्जिता व्याकरणादि-दोषविरहिता सर्वोत्तमा साहित्यसमन्विता चास्ति। संस्कृतविषयिका पङ्क्तिः गद्यकाव्यशिरोमणिना आचार्यदण्डिना स्वीयग्रन्थे "काव्यादर्शे" प्रोदीरिता यत् "संस्कृतन्नामदैवीवागन्वाख्याता महर्षिभिः " इतोऽपि श्रीकृष्णद्वैपायनभाष्येऽप्युल्लिखितं वर्तते यत्
"अनादि निधनानित्या वागुत्सृष्टा स्वयंभुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः।।"
प्रथमपद्येन विदाङ्कुरुते यत् संस्कृतभाषा देवभाषा तथा स्रष्टेरनन्तरं पूर्वं महर्षिभिरन्वाख्याता कथिता उक्ता वा। द्वितीयपद्येन ज्ञायते यत् संस्कृतभाषानादिकालाद् अजेयास्ति इयमादौ वेदमयीरूपेणागतवती यतः सर्वभाषाणां प्रभृतयो विद्यन्ते,प्राचीनकाले इयं सर्वजनानां परस्परं वार्तालापस्य तथा विविधक्रियाकलात्मकस्य भाषासीत् । पाणिनेःग्रन्थे ,यास्क-विरचिते निरुक्ते तथा भगवतः पतञ्जलेः महाभाष्यादि-ग्रन्थेषु अस्य नैकानि उदाहरणानि समुपलभ्यन्ते यथा-पात्रे समेताः ,तीर्थाध्वाङ्क्षाः,खट्वारुढो जाल्मः,भारं बाधति, भारं बाधते राजन् यथा बाधति बाधते इत्यादयः । प्रागस्मदीये मानसपटले प्रश्नरेको जागर्ति यद् वयं समेऽपि संस्कृतभाषां कथं पठामः, वयं भारतदेशवासिनः खलु बारं-बारं महर्षिभिः साहित्यादिषु ग्रन्थेषु प्रोक्तं यत् "भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा" अत एव भारतीयसंस्कृतेः तथा प्रतिष्ठाया रक्षणार्थं संस्कृतमवश्यमेवाध्येतव्यमिति ।अस्मदीयाः सर्वा अपि भारतीयसंस्कृतयस्तथा षोडशसंस्कारा अस्यामेव भाषायामुपनिबद्धा वर्तन्ते एतद्विषयिणी काचिदुक्तिः महर्षिणा कपिलेनोक्तास्ति यत् "संस्कृतं संस्कृतेर्मूलम्....." संस्कृतं तु संस्कृतेरस्ति मूलमिति अतो मूलं सर्वथा सर्वदैव च रक्षणीयं यदि मूलं संरक्षितं भवति तर्हि शाखा निश्चप्रचं सुरक्षिता भवन्ति अस्या भूयसी उपयोगिता एतस्मात्कारणाद् अस्ति यत् एषैव सा भाषास्ति यतो भारतीयानां विदेशीभाषाणाञ्चोत्पत्तिरभवत् , सर्वासां भाषाणामियमेव जननी वर्तते ,सर्वासां भाषाणां मूलतत्त्वज्ञानसम्पादनाय एतस्या ज्ञानं ननु स्यादिति । अस्या भाषायाः पाणिनीय-व्याकरणमत्यन्तं सुस्पष्टमर्थात् लौकिक-वैदिकयोः नैकान् प्रयोगान् स्पष्टयति सुतरामिति । संस्कृतव्याकरणाध्यनेन मानवानां बौद्धिकविकासो भवति सममेव उच्चारणगतसौकर्यमपि समनुभूयत इति शोधानुसारेण ज्ञायते गणितविज्ञानादिजटिलविषयेषु सौविध्यं भवति एवञ्च नैकशोधद्वारा विदितं यत् संस्कृतभाषाभाषिणां तन्त्रिकातन्त्रं सक्रियत्वं भजते येन तेषां जीवने महता वैभवेन सकारात्मकोर्जाः प्रादुर्भवन्ति इतोऽपि संस्कृताध्येतॄणां स्मृरण-शक्तिः विशिष्टा अद्भुता च भवति एषैवास्या भाषाया महती महत्ता वर्त्तते । आर्यभाषाया व्याकरणमपि एतस्या व्याकरणाश्रयमङ्गीकृत्य शोभतेतराम् । भाषेयं निखिलभारतीयान् एकस्मिन् सूत्रजाले बध्नाति अर्थात् राष्ट्रियैकतायाः प्रतीकभूता अखण्डताया राष्ट्रस्य नवनिर्माणं साधनञ्च निर्माति अस्याश्चिन्तनं स्वान्तःसुखाय तथा च सर्वजनसुखाय वर्तते तथा सम्पूर्णविश्वं स्वबन्धत्वं समुत्पादयति यथोक्तानि- "अयं निजः परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम् ।।"
"सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ।।"
"माता भूमिः पुत्रोऽहं पृथिव्याः"
"रामादिवत् प्रवर्तितव्यं न तु रावणादिवत्"
"मातृवत् परदारेषु परद्रव्येषु लोष्ठवत् । आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।।"
उपर्युक्ताः सद्विचाराः संस्कृतभाषायामेव समुपलभ्यन्तेऽतोऽस्माकं सर्वस्वमेवैषा भाषास्ति अपि अस्माकं सुरभारतीसमुपासकानामेकमेव लक्ष्यं भवेत् सुरभारती सेवा
- यदि न संस्कृता वाणी
यदि न संस्कृतं मनः । यदि न संस्कृता दृष्टिः संस्कृताध्ययनेन किम् ।।"
इति एभिरेव सद्वचोभिःस्वलेखनव्यापारेण विरमत्ययञ्जनः । "शं नो बोभूयात्"
✍🏻✍🏻✍🏻✍🏻✍🏻✍🏻
लेखकः
शेखरशुक्लः शिक्षाशास्त्री प्रथमवर्षम् सत्रम्- २०२१-२२ केन्द्रीयसंस्कृतविश्वविद्यालयः,भोपालपरिसरः,भोपालम्, म.प्र.