वर्णमालास्तोत्रम् (रामभद्रदीक्षितविरचितम्)
वर्णमालास्तोत्रम् रामभद्रदीक्षितः १९१६ |
काव्यमाला।
श्रीमद्रामभद्रदीक्षितविरचितं
वर्णमालास्तोत्रम् ।
अन्तः समस्तजगतां यदनुप्रविष्ट-
माचक्षते मणिगणेप्विव सूत्रमार्याः।
तं केलिकल्पितरघूद्वहरूपमाद्यं
र्पङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥ १ ॥
आम्नायशैलशिखरैकनिकेतनाय
वाल्मीकिवाग्जलनिक्षिप्रतिविम्विताय ।
कालाम्बुदाय करुणारसमेदुराय
कस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥ २ ॥
इन्दुः प्रसादमवतंसयंता त्वदीयं
कोपंकरे हुतवहं वहता हरेण ।।
शङ्के जगत्रयमनुग्रहनिग्रहाभ्यां
संयोज्यते रघुपते समयान्तरेषु ॥ ३ ॥
ईदृग्विधस्त्वमिति वेद न सोऽपि बेदः
शक्नोति कः स्थितमवेक्षितुर्मुत्तमाझेङ्गे
श्रोतुं क्षमं न तु दृशेक्षितुमप्यतस्त्वां
सर्वे विदन्तु कथमीशः कथं स्तुवन्तु ॥ ४ ॥
उष्णांशुबिम्बमुदधिस्मयसस्मरांस्त्र-
ग्रावा च तुल्यमजनिष्ट गृहं यथा ते ।
वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां
देव प्रशंसति तथा यदि कोऽत्र दोषः ॥ ५ ॥
ऊढः पुरासि विनतान्वयसंभवेन
देव त्वया किमधुनापि तथा न भाव्यम् ।
पूर्व जना मम विनेमुरसंशयं त्वां
जानासि राघव तदन्वयसंभवं माम् ॥ ६ ॥
ऋक्षं प्लवंगमपि रक्षसि चेन्महात्म-
न्विप्रेषु किं पुनरथापि न विश्वसामः
अत्रापराध्यति किल प्रथमद्वितीयौ
वर्णौ तबौदनतया निगमो विवृण्वन् ॥ ७ ॥
नॄणां न केवलमसि त्रिदिवौकसां च
राजा यमार्कमरुतोऽपि यतस्त्रसन्ति ।
दीनस्य वाङ् मम तथापि न ते नवा स्या-
त्कर्णे रघूद्वह यतः ककुभोऽपि जाताः ॥ ८ ॥
कुप्तामपि व्यसनिनीं भवितव्यतों मे
नाथान्यथाकुरु तव प्रभुतां दिदृक्षोः ।
चक्रे शिलापि तरुणी मक्ता तदास्तां
मायापि यद्धटयते तव दुर्घटानि ॥ ९ ॥
एकं भवन्तमृषयो विदुरद्वितीय
जानामि कार्मुकमहं तु तमद्वितीयम् ।
श्रुत्याश्रिता जगति यद्गुणघोषणा सा
दूरीकरोति दुरितानि समाश्रितानाम् ॥ १० ॥
ऐशं शरासमचलोमममिक्षुघल्ली-
भञ्जं बभञ्ज किल यस्तव बाहुण्डः ।
तस्य त्वशीतकरवंशवतं शशंस
किं दुष्करं भवति मे विधिपाशभङ्गः ॥ ११ ॥
ओजस्तव प्रहितशेषविषाग्निदण्डैः
स्पष्टं जगद्भिरुपलभ्य भयाकुलानाम् ।
गीतोक्तिभिस्त्वयि निरस्य मनुष्यबुद्धिं
देव स्तुतोऽसि विधिविष्णुवृषध्वजानाम् ॥ १२ ॥
औत्कण्ठ्यमस्ति दशकण्ठारेपो ममैकं.
द्रक्ष्यामि तावकपदाम्बुरुहं कदेति ।
अप्येति कर्म निखिलं मम यत्र हृष्टे
लीनाश्च यत्र यतिभिः सह मत्कुलीनाः ॥ १३ ॥
अंभोनिधाववधिमत्यवकीर्य बाणा-
न्किं प्लव्यवानसि ननु श्वशुरस्तवायम् ।
उष्मापनेतुमथवा यदि वाणकण्डू-
देवायमस्त्यनवधिर्मम दैन्यसिन्धुः ॥ १४ ॥
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भन्माम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोत्तरीश
सत्या कथा भवतु साधुविवेकमाजाम् ॥ १५ ॥
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरमटोग्रग्रहीतशेषः ।
श्लिष्यन्मुनीन्प्रणतदेवशिरः किरीट-
दाम्नि स्खलन्दशरथात्मज ! ते कटाक्षः ॥ १६ ॥
खं वायुरनिरुदकं पृथिवी च शब्दः
स् पर्शश्च रूपरसगन्धमपि त्वमेव
दययार्तबन्धो
धत्से वपुः शरशरासभृदम्रनीलम् ॥ १७ ॥
गङ्गा. पुनाति रघुपुंगवः यत्प्रसूता
यद्रेणुना च युपुचे यमिनः कलत्रम् ।
तस्य त्वदङ्घिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८ ॥
घण्टाघनं घनितकोटिशरासनं ते
लुण्टाकमस्तु विपदां मम लोकनाथ
जिह्वालतां वहति यद्भुजगो रिपूणा-
मुष्णैरसृग्भिरुदरंभरिणा शरेण ।। १९ ।।
प्राङस्यबाङसि परेश तथासि तिर्यङ्
ब्रूमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेऽपि कति वा भुवि न म्रियन्ते.
मन्दस्य राघव सहख ममापरावान् ॥ २० ॥
चण्डानिलव्यतिकरक्षुभिताम्दुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि संभविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वर त्वाम् ॥ २१ ॥
छिन्नं निजं कुहनया मृगरूपभाजो
नक्तंचरस्य न किमाविरकारि रूपम्
त्वत्पत्रिणापि रघुवीर ममाद्य माया-
गूढम्वरूपविवृतौ तव कः प्रयासः ॥ २२ ॥
जन्तोः किल त्वदभिषा मणिकर्णिकायां
कर्णे जपन्हरति कश्चन पञ्चकोशान्
इत्यामनन्ति रधुवीर ततो भवन्तं
राजाधिराज इति विश्वसिमः कथं वा ॥ २३ ।।
झङ्कारिभृङ्गकमलोपमितः पदं ते
चारुस्तव प्रणयचारणकिन्नरोधम् ।
जानामि राधव जलाशयवासयोग्यं
खैरं वसेत्तदधुनैव जलाशये मे ।। २४ ॥
ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै-
र्ज्ञानं क्व मे भवतु दुस्त्यजवासनस्य ।
देवाभयं वितर किं त्वसकृतपत्त्या
मुह्यन्नपि स्वर पुरैव कृतां प्रतिज्ञाम् ॥ २५ ॥
टाङ्कारमीश भवदीयशरासनस्य
ज्यास्फालनेन जनितं निगम प्रतीमः ।
तेनैव राधब भवानवगम्यमान-
स्रासं निरस्य सुखमातनुते बुधानाम् ॥ २६ ॥
ठात्कृत्य मण्डलमखण्डि यदुष्णभानो-
देव त्वदनदलितैर्युधि यातुधानैः ।
शङ्के ततस्तव पदं विदलय्य वेगा-
तैरद्भुतं प्रतिकृतिर्विदधे बयस्य ।। २७ ।।
डिम्भस्तथास्मि रघुवीर तथा दयख
लभ्यं यथा कुशलवत्वमपि क्षितौ मे
किंचिन्मनो मयि निधेहि तव क्षतं किं
व्यर्था भक्त्वमनसं गृणतीः श्रुतिस्त्वाम् ॥ २८ ॥
ढक्कां त्वदीययशंसामधुनापिः शृण्मः
प्राचेतसस्य फणितं भरताग्रजन्मन् ।
सत्ये यशस्तव शृणोमि मृकण्डसूनो-
र्धाताप्यतो जगति कोऽस्तु भवादृशोऽन्यः ॥ २९ ॥
त्राणं समस्तजगतां तव किं न कार्ये
सा किं न तत्र करणं करुणा तवैव
अख्यातिकार्यकरणे तव नेति या वा-
खाख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३० ॥
तत्त्वं पदे पद्मसीति व धानि देव
तेषां यदस्म्यभिलषन्नुपलव्धुमर्थान् ।
सेवे पदद्वयमतो मृदुलं तवादौ
यद्दारुणोरपि ततो भवदर्थलाभः ॥ ३१ ॥
मोथं यदुद्वहसि भूमिवहैकदंष्ट्रं
विश्वप्रभो विघटिताग्रघटाः सटा वा।
रूपं तदुद्भटमपास्य रुचास्य दिष्ट्या
त्वं शम्बरारिरपि कैतवशम्बरिः ॥ ३२ ॥
दग्ध्वा निशाचरपुरीं प्रथितस्तवैको
भक्तेषु दानवपुरत्रितयं तथान्यः
तस्याशरासुरसमस्य गुणैः प्रभो मे
पुर्यष्टकप्रशमनेन लभख कीर्तिम् ।। ३३ ॥
धत्ते शिरांसि दश यः सुकरो वधोऽस्य
किं न त्वया निगमगीत सहस्रमूर्ध्ना
मोहं ममामितपदं यदि देव हन्याः
कीर्तिस्तदा तव सहस्रपदो बहु स्यात् ।। ३४
नम्रस्य मे भव विभो स्वयमेव नाथो
नाथो भव त्वमिति चोदवितुं विभेमि ।
येन खसा दशमुखस्य नियोजयन्ती
नाथो भव त्वमिति नासिकमा विहीना ।। ३५॥
पर्याकुलोऽस्य किल पातकमेव कुर्व-
न्दीनं ततः करुणया कुंरु मामपापम् ।
कर्तु रघुबह नदीनमपापमुर्व्यो
शक्तस्त्वमित्ययमपैति न लोकवादः ।। ३६ ॥
फाल्गूनि यद्यपि फलानि ल लीसते मे
चेतः प्रभो तदपि नो मजति प्रकृयत्या ।
मूर्त्यन्तरं ब्रजवधूजनमोहनं ते
जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥ ३७ ।।
बर्हिः शतग्रथितकेशमनर्हवेष-
मादाय गोपवनिताकुचकुङ्कुमाङ्कम् ।
होणो न राघव भवान्यदतः प्रतीमः
पल्या हिया विरहितोऽसि पुरा श्रियेव ॥ ३८ ॥
भद्राय मेऽस्तु तव राघव बोधमुद्रा
विद्रावयन्त्यखिलमान्तरमन्धकारम् ।
मन्त्रस्व ते परिपुनन्ति जगद्यथा प-
डष्टाक्षरापयपि तथेति विवृण्वतीव ॥ ३९ ॥
मन्दं निधेहि हृदि में भगवन्नटव्यां
पाषाणकण्टकसहिष्णु पदाम्बुजं ते ।
अङ्गुष्ठमात्रमथवात्र निधातुमर्ह
माक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥ ४०॥
यज्ञेन देव तपसा यदनाशकेन
दानेन च द्विजगणैर्विपदिष्यसे त्वम्
भाम्येन मेऽजनिमृषा यदिदं यतस्त्वां
चापग्रहात्परमबुध्यत जामदग्न्यः ॥ ११ ॥
रम्योज्वलस्तव पुरा रधुवीर देहः
कामप्रदो यदभवत्कमलालयायै
चित्रं किमत्र चरणाम्बुजरेणुरेव
कामं ददौं न मुनये किमु गौतमाय ।। ४२
लङ्केशवक्षसि निविश्य यथा शरस्ते
मन्दोदरीकुचतटीमणिहारचोरः
शुद्धे सतां हृदि गवस्त्वमपि प्रमो मे
चित्ते यथा हर चिरोपनतामविद्याम् ॥ ४॥
बन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधै-
स्तानं भुवश्च रघुपुंगवरेखया यत् ।
वज्रं बिभर्ति जगदार्तिगिर विभेतुं
विद्यां नताय वित्तरेयमिति ध्वजं च ॥४४॥
शंभुः स्वयं निरदिशद्गिरिकन्यकायै
यन्नाम राम तब नामसहस्रतुल्यम् ।
अर्थे भवन्तमपि तद्वहदेकमेव
चित्रं ददाति गृणते चतुरः किलार्थान् ॥ ४५ ॥
षट् ते विधिप्रभृतिभिः समवेक्षितानि
मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो।
एकेन यानि गुणितान्यपि मानसेन
चित्रं नृणां त्रिदशतामुपलम्भयन्ति ।। ४६ ।।
सर्गस्थितिप्रलयकर्मसु चोदयन्ति
माया गुणत्रयमयी जगतो भवन्तम् ।
ब्रह्मेति विष्णुरिति रुद्र इति वृथा ते
नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ ४७ ।।
हंसोऽसि मानुसचरां महतां यतस्त्वं
संभाव्यते किल ततस्तव पक्षपातः ।
मथ्येनमध्ययन चेद्रधुनन्दन स्या-
जिष्णोरपि त्रिभुवने समवर्तता ते ॥ १८॥
लक्ष्मीकृतोऽजनि यथैव जलाशयाना-
मेको रुषा"तथा कृपयापि कार्यः ।
अन्योऽपि कश्चिदिति चेदहमेचं वर्ते
तादृग्विधास्तपनवंशमणे किमन्यैः ।। ४९ ।।
क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधा-
न्सर्वे सहानुबधुरपि ते पुराणी
वासालयं च तनुमृत्कमलं मदीयं
कान्ता परापि नहि किं कमलालया ते ॥ ५० ॥
इत्थं ममास्तु वद मर्त्यनिगद्यमान
त्रय्यन्तमन्त्रमुखरीकृतपादपीठ
राजाधिराज कृपया रघुवीर वर्ण-
मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ ५१ ॥
इति श्रीमद्रामभद्रदीक्षितविरचितं वर्णमालास्तोत्रं संपूर्णम् ।