वराहपुराणम्/अध्यायः ८८

विकिस्रोतः तः
← अध्यायः ८७ वराहपुराणम्
अध्यायः ८८
[[लेखकः :|]]
अध्यायः ८९ →

रुद्र उवाच ।
त्रिषु शिष्टेषु वक्ष्यामि द्वीपेषु मनुजान्युत ।
शाल्मलं पञ्चमं वर्षं प्रवक्ष्ये तन्निबोधत ।
क्रौञ्चद्वीपस्य विस्ताराच्छाल्मलो द्विगुणो मतः ।। ८८.१ ।।

घृतसमुद्रमावृत्य व्यवस्थिस्तद्विस्तारो द्विगुणस्तत्र च सप्त पर्वताः प्रधानास्तावन्ति वर्षाणि तावत्यो नद्यः। तत्र च पर्वताः। सुमहान् पीतःशातकौम्भात् सार्वगुणसौवर्णरोहितसुमनसकुशल ----- जाम्बूनदवैद्युता इत्येते कुलपर्वता वर्षाणि चेति। अथ षष्ठं गोमेदं कथ्यते। शाल्मलं यथा सुरोदेनावृतं तद्वत् सुरोदोऽपि तद्विगुणेन गोमेदेनावृतः। तत्र च प्रधानपर्वतौ द्वावेव। एकस्य तावत्तावसरः। अपरश्च कुमुद इति। समुद्रश्चेक्षुरसस्तद्द्विगुणेन पुष्करेणावृतः। तत्र च पुष्कराख्ये मानसो नाम पर्वतः। तदपि द्विधा छिन्नं वर्षं तत्प्रमाणेन च। स्वादोदकेनावृतम्। ततश्च कटाहम्। एतत् पृथिव्याः प्रमाणम्। ब्रह्माण्डस्य च सकटाहविस्तारप्रमाणम्। एवंविधानामण्डानां परिसंख्या न विद्यते। एतानि कल्पे कल्पे भगवान् नारायणः क्रोडरूपी रसातलान्तःप्रविष्टानि दंष्ट्रैकैनोद्धृत्य स्थितौ स्थापयति।
एष वः कथितो मार्गो भूमेरायामविस्तरः । स्वस्ति वोऽस्तु गमिष्यामि कैलासं निलयं द्विजाः ।। ८८.२ ।।

श्रीवराह उवाच ।
एवमुक्त्वा गतो रुद्रः क्षणाददृश्यमूर्तिमान् ।
ते च सर्वे गता देवा ऋषयश्च यथागतम् ।। ८८.३ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टाशीतितमोऽध्यायः ।। ८८ ।।