वराहपुराणम्/अध्यायः ८०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ७९ वराहपुराणम्
अध्यायः ८०
[[लेखकः :|]]
अध्यायः ८१ →

रुद्र उवाच ।
अथ दक्षिणदिग्व्यवस्थिताः पर्वतद्रोण्यः सिद्धाचरिताः
कीर्त्यन्ते । शिशिरपतङ्गयोर्मध्ये शुक्लभूमिस्त्रिया मुक्तलतागलितपादपम् ।
इक्षुक्षेपे च शिखरे पादपैरुपशोभितम् ।
उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ।। ८०.१ ।।

फलितं तद् वनं भाति महाकूर्मोपमैः फलैः ।।

तद् वनं देवयोन्योऽष्टौ सेवन्ते सर्वदैव ।। ८०.२ ।।

तत्र प्रसन्नस्वादुसलिला बहूदका नद्यो वहन्ति । तत्राश्रमो भगवतः कर्दमस्य प्रजापतेः । नानामुनिजनाकीर्णस्तच्च शतयोजनमेकं परिमण्डलं वनं च ।
तथा च ताम्राभस्य शैलस्य पतङ्गस्य चान्तरे शतयोजनविस्तीर्णं द्विगुणायतं बालार्कसदृशराजीवपुण़्रीकैः समन्ततः सहस्त्रपत्रैरविरलैरलंकृतं महत् सरोऽनेकसिद्धगन्धर्वाध्युषितम् । ।। ८०.३ ।।

तस्य च मध्ये महाशिखरः शतयोजनायामस्त्रिंशद्योजनविस्तीर्णोऽनेकधातुरत्नभूषितस्तस्य चोपरि महती रथ्या रत्नप्राकारतोरणा ।
तस्यां महद् विद्याधरपुरम् । तत्र पुलोमनामा विद्याधरराजः शतसहस्त्रपरीवारः ।
तथा च विखाखाचलेन्द्रस्य श्वेतस्य चान्तरे सरः ।
तस्य च पूर्वतीरे महदाम्रवनं कनकसंकाशैः फलैरतिसुगन्धिभिर्महाकुम्भमात्रैः सर्वतश्चितम् ।
देवगन्धर्वादयश्च तत्र निवसन्ति । ।।४।।

सुमुलस्याचलेन्द्रस्य वसुधारस्य चान्तरे त्रिंशद्योजनविस्तीर्णे पञ्चाशद्योजनायते ।।।५।।

बिल्वस्थली नाम । तत्र फलानि विद्रुमसंकाशानि तैश्च पतद्भिः स्थलमृत्तिका क्लिन्ना । तां च स्थलीं सुगुह्यकादयः सेवन्ते बिल्वफलाशिनः ।
तथा च वसुधाररत्नधारयोरन्तरे त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं सुगन्धिकिंशुकवनं सदाकुसुमं यस्य गन्धेन वास्यते योजनशतम् ।
तत्र सिद्धाध्युषितं जलोपेतं च । ।।६।।

तत्र चादित्यस्य देवस्य महदायतनम् ।
समासे मासे च भगवानवतरति सूर्यः प्रजापतिः ।
कालजनकं देवादयो नमस्यन्ति ।
तथा च पञ्चकूटस्य कैलासस्य चान्तरे सहस्त्रयोजनायामं विस्तीर्णं शतयोजनं हंसपाण्डुरं क्षुद्रसत्त्वैरनाधृष्यं स्वर्गसोपानमिव भूमण्डलम् । ।।७।।

अथ पश्चिमदिग्भागे व्यवस्थिता गिरिद्रोण्यः कीर्त्यन्ते । सुपार्श्वशिखिशैलयोर्मध्ये समन्ताद् योजनशतमेकं भौमशिलातलं नित्यतप्तं दुःस्पर्शम् ।
तस्य मध्ये त्रिंशद्योजनविस्तीर्णं मण्डलं वह्निस्थानम् । स च सर्वकालमनिन्धनो भगवान् लोकक्षयकारी संवर्तको ज्वलते ।
अन्तरे च शैलवरयोः कुमुदाञ्जनयोः शतयोजनविस्तीर्णामातुलुङ्गस्थली सर्वसत्त्वानामगम्या । पीतवर्णैः फलैरावृता सती सा स्थली शोभते ।
तत्र च शैलयोः पिञ्जरगौरयोरन्तरेण सरोद्रोणी ह्यनेकशतयोजनायता महद्भिश्च षट्पदोद्घुष्टैः कुमुदैरुपशोभिता । ।।८।।

तत्र च भगवतो विष्णोः परमेश्वरस्यायतनम् ।
तथा च शुक्लपाण्डुरयोरपि महागिर्योरन्तरे त्रिंशद्योजनविस्तीर्णो नवत्यायत एकः शिलोद्देशोवृक्षविवर्जितः । तत्र निष्पङ्का दीर्घिका सवृक्षा च स्थलपद्मिनी अनेकजातीयैश्च पद्मैः शोभिता ।
तस्याश्च मध्ये पञ्चयोजनप्रमाणो महान्यग्रोधवृक्षः । तस्मिंश्चन्द्रशेखरोमापतिर्नीलवासाश्च देवो निवसति यक्षादिभिरीड्यमानः ।
सहस्त्रशिखरस्य गिरेः कुमुदस्य चान्तरे पञ्चाशद्योजनायामं विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरमनेकपक्षिसेवितम् ।
अनेकवृक्षफलैर्मधुरस्त्रवैरुपशोभितम् ।
तत्र चेन्द्रस्य महानाश्रमो दिव्याभिप्रायनिर्मितः ।
तथा च शङ्खकूटऋषभयोर्मध्ये पुरुषस्थलीरम्याऽनेकगुणानेकयोजनायता बिल्वप्रमाणैः कङ्कोलकैः सुगन्धिभिरुपेता ।
तत्र पुरुषकरसोन्मत्ता नागाद्याः प्रतिवसन्ति । ।।९।।

तथा कपिञ्जलनागशैलयोरन्तरे द्विशतयोजनमायामविस्तीर्णा शतयोजनस्थली नानावनविभूषिता द्र्ाक्षाखर्जूरखण्डैरुपेता अनेकवृक्षवल्लीभिरनेकैश्च सरोभिरुपेता सा स्थली ।
तथा च पुष्करमहामेघयोरन्तरे षष्टियोजनविस्तीर्णा शतायामा पाणितलप्रख्या महती स्थली वृक्षवीरुधविवर्जिता ।तस्याश्च पार्श्वे चत्वारि महावनानि सरांसि चानेकयोजनानाम् ।दश पञ्च सप्त तथाष्टौ त्रिंशद् विंशति योजनानां स्थल्यो द्रोण्यश्च । तत्र काश्चिन्महाघोराः पर्वतक्षयाः । ।।१०।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे अशीतितमोऽध्यायः ।। ८० ।।