वराहपुराणम्/अध्यायः ७४
← अध्यायः ७३ | वराहपुराणम् अध्यायः ७४ [[लेखकः :|]] |
अध्यायः ७५ → |
श्रीवराह उवाच ।
पुनस्ते ऋषयः सर्वे तं पप्रच्छुः सनातनम् ।
रुद्रं पुराणपुरुषं शाश्वतं ध्रुवमव्ययम् ।
विश्वरूपमजं शंभुं त्रिनेत्रं शूलपाणिनम् ।। ७४.१ ।।
ऋषय ऊचुः ।
त्वं परः सर्वदेवानामस्माकं च सुरेश्वर ।
पृच्छाम तेन त्वां प्रश्नमेकं तद् वक्तुमर्हसि ।। ७४.२ ।।
भूमिप्रमाणसंस्थानं पर्वतानां च विस्तरम् ।
समुद्राणां नदीनां च ब्रह्माण्डस्य च विस्तरम् ।
अस्माकं ब्रूहि कृपया देवदेव उमापते ।। ७४.३ ।।
रुद्र उवाच ।
सर्वेष्वेव पुराणेषु भूर्लोकः परिकीर्त्यते ।
ब्रह्मविष्णुभवादीनां वायव्ये च सविस्तरम् ।। ७४.४ ।।
इदानीं च प्रवक्ष्यामि समासाद् वः क्षमान्तरम् ।
तन्निबोधत धर्मज्ञा गदतो मम सत्तमाः ।। ७४.५ ।।
योऽसौ सकलविद्यावबोधितपरमात्मरूपी विगतकल्मषः
परमाणुरचिन्त्त्यात्मा नारायणः सकललोकालोकव्यापी
पीताम्बरोरुवक्षः क्षितिधरो गुणतोमुख्यतस्तु -
अणुमहद्दीर्घह्रस्वमकृशमलोहितमित्येवमाद्योपलक्षित -
विज्ञानमात्ररूपम् । स भगवांस्त्रिप्रकारः सत्त्व -{५}
रजस्तमोद्रिक्तः सलिलं ससर्ज । तच्च सृष्ट्वा -
नादिपुरुषः परमेश्वरो नारायणः सकलजगन्मयः
सर्वमयो देवमयो यज्ञमय आपोमय आपोमूर्त्तिर्योगनिद्रया
सुप्तस्य तस्य नाभौ सदब्जं निःससार । तस्मिन्सकल -
वेदनिधिरचिन्त्यात्मा परमेश्वरो ब्रह्मा प्रजापतिर -{१०}
भवत् स च सनकसनन्दनसनत्कुमारादीन् ज्ञानधर्मिणः
पूर्वमुत्पाद्य पश्चान्मनुं स्वायंभुवं मरीच्यादीन्
दक्षान्तान् ससर्ज । यः स्वयंभुवो मनुर्भगवता
सृष्टस्तस्मादारभ्य भुवनस्यातिविस्तरो वर्ण्यते ।
तस्य च मनोर्द्वौ पुत्रौ बभूवतुः प्रियव्रतोत्तानपादौ । {१५}
प्रियव्रतस्य दश पुत्रा बभूवुः । आग्नीघ्रोऽग्निबाहु -
र्मेधो मेधातिथिर्ध्रुवो ज्योतिष्मान् द्युतिमान्
हव्यवपुष्मत्सवनान्ताः ।
स च प्रियव्रतः सप्तद्वीपेषु सप्त पुत्रान् स्थापयामास ।
तत्र चाग्नीध्रं जम्बूद्वीपेश्वरं चक्रे। {२०}
शाकद्वीपेश्वरं मेधातिथिं कुशे ज्योतिष्मन्तं
क्रौञ्चे द्युतिमन्तं शाल्मले वपुष्मन्तं
गोमेदस्येश्वरं हव्यं पुष्कराधिपतिं सवनमिति ।
पुष्करेशस्यापि सवनस्य द्वौ पुत्रौ
महावीतधातकी भवेताम् ।। {२५}
तयोर्देशौ गोमेदश्च नाम्ना व्यवस्थितौ ।
धातकेर्धातकीखण्डं कुमुदस्य च कौमुदम् ।
शाल्मलाधिपतेरपि वपुष्मन्तस्य त्रयः पुत्राः
सकुशवैद्युतजीमूतनामानः ।
सकुशस्य सकुशनामा देशः वैद्युतस्य वैद्युतः {३०}
जीमूतस्य जीमूत इति एते शाल्मलेर्देशा इति
तथा च द्युतिमतः सप्त पुत्रकाः कुशलो मनुगोष्ठौष्णः
पीवरोद्यान्धकारकमुनिदुन्दुभिश्चेति । तन्नाम्ना
क्रौञ्चे सप्त महादेशनामानि । कुशद्वीपेश्वरस्यापि
ज्योतिष्मतः सप्तैव पुत्रास्तद्यथा उद्भिदो वेणुमां - {३५}
श्चैव रथोपलम्बनो धृतिः प्रभाकरः - कपिल
इति। तन्नामान्येव वर्षाणि द्रष्टव्यानि
शाकाधिपस्यापि सप्त पुत्रा मेधातिथेस्तद्यथा
शान्तभयशिशिरसुखोदयंनन्दशिवक्षेमकध्रुवा इति
एते सप्त पुत्राः एतन्नामान्येव वर्षाणि । {४०}
अथ जम्बूद्वीपेश्वरस्यापि आग्नीध्रस्य नव पुत्रा बभूवुः ।
तद्यथा नाभिः किंपुरुषो हरिवर्ष इलावृतो रम्यको
हिरण्मयः कुरुर्भद्राश्वः केतुमालश्चेति । एतन्नामान्येव
वर्षाणि । नाभेर्हेमवन्तं हेमकूटं किंपुरुषं नैषधं हरिवर्षं
मेरुमध्यमिलावृत्तं नीलं रम्यकं श्वेतं हिरण्मयं {४५}
उत्तरं च श्रृङ्गवतः कुरवो माल्यवन्तं भद्राश्वं
गन्धमादनं केतुमालमिति । एवं स्वायंभुवेऽन्तरे भुवन-
प्रतिष्ठा । कल्पे कल्पे चैवमेव सप्त सप्त पार्थिवैः
क्रियते भूमेः पालनं व्यवस्था च ।
एष स्वभावः कल्पस्य सदा भवतीति । {५०}
अत्र नाभेः सर्गं कथयामि । नाभिर्मेरुदेव्यां पुत्रमजनयद्
ऋषभनामानं तस्य भरतो जज्ञे पुत्रश्च तावदग्रजः ।
तस्य भरतस्य पिता ऋषभो हिमाद्रेर्दक्षिणं
वर्षमदाद् भारतं नाम । भरतस्यापि पुत्रः सुमतिर्नामा ।
तस्य राज्यं दत्त्वा भरतोऽपि वनं ययौ । {५५}
सुमतेस्तेजस्तत्पुत्रः सत्सुर्नामा । तस्यापीन्द्रद्युम्नो नाम ।
तस्यापि परमेष्ठी तस्यापि प्रतिहर्त्ता तस्य निखातः
निखातस्य उन्नेता उन्नेतुरप्यभावस्तस्योद्गाता तस्य
प्रस्तोता प्रस्तोतुश्च विभुः विभोः पृथुः पृथोरनन्तः
अनन्तस्यापि गयः गयस्य नयस्तस्य विराटः {६०}
तस्यापि महावीर्यस्ततः सुधीमान् धीमतो महान्
महतो भौमनो भौमनस्य त्वष्टा त्वष्टुर्विरजाः
तस्य राजो राजस्य शतजित् । {६३}
तस्य पुत्रशतं जज्ञे तेनेमा वर्द्धिताः प्रजाः ।
तैरिदं भारतं वर्षं सप्तद्वीपं समाङ्कितम् ।। ७४.६ ।।
तेषां वंशप्रसूत्या तु भुक्तेयं भारती प्रजा ।
कृतत्रेतादियुक्त्या तु युगाख्या ह्येकसप्ततिः ।। ७४.७ ।।
भुवनस्य प्रसङ्गेन मन्वन्तरमिदं शुभम् ।
स्वायंभुवं च कथितं मनोर्द्वीपान्निबोधत ।। ७४.८ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःसप्ततितमोऽध्यायः ।। ७४ ।