वराहपुराणम्/अध्यायः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७० वराहपुराणम्
अध्यायः ७१
[[लेखकः :|]]
अध्यायः ७२ →


अगस्त्य उवाच ।
एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना ।
अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ।। ७१.१ ।।

प्रणम्य शिरसा देवं यावत् पश्यामहे नृप ।
तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ।। ७१.२ ।।

नारायणं च हृदये त्रसरेणुसुसूक्ष्मकम् ।
ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ।। ७१.३ ।।

तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयो मम ।
जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ।। ७१.४ ।।

कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर ।
एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ।। ७१.५ ।।

रुद्र उवाच ।
यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः ।
ते त्रयोऽपि वयं भागं गृह्णीमः कविसत्तमाः ।। ७१.६ ।।

नास्माकं विविधो भावो वर्तते मुनिसत्तमाः ।
सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ।। ७१.७ ।।

एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप ।
पप्रच्छुः शंकरं देवं मोहशास्त्रप्रयोजनम् ।। ७१.८ ।।

ऋषय ऊचुः ।
मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् ।
तत् त्वया हेतुना केन कृतं देव वदस्व नः ।। ७१.९ ।।

रुद्र उवाच ।
अस्ति भारतवर्षेण वनं दण्डकसंज्ञितम् ।
तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ।। ७१.१० ।।

चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः ।
उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ।। ७१.११ ।।

एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा ।
उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ।। ७१.१२ ।।

एवमुक्तो ददौ तस्य तमेवार्थं पितामहः ।
लब्ध्वा तु तं वरं विप्रः शतश्रृङ्गे महाश्रमम् ।। ७१.१३ ।।

चकार तस्योषसि च पाकान्ते शालयो द्विजाः ।
लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा ।
सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ।। ७१.१४ ।।

कस्यचित् त्वथ कालस्य महति द्वादशाब्दिका ।
अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ।। ७१.१५ ।।

तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः ।
क्षुधया पीड्यमामास्तु प्रययुर्गौतमं तदा ।। ७१.१६ ।।

अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः ।
उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ।। ७१.१७ ।।

एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् ।
भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ।। ७१.१८ ।।

निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः ।
तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ।। ७१.१९ ।।

तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् ।
प्रत्युवाचेति संचिन्त्य मीरीचः परमो मुनिः ।। ७१.२० ।।

मारीच उवाच ।
शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः ।
तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ।। ७१.२१ ।।

एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा ।
किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ।। ७१.२२ ।।

एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति ।
कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ।। ७१.२३ ।।

तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः ।
गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत ।
ततो मायामयी सा गौः पपात जलबिन्दुभिः ।। ७१.२४ ।।

निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा ।
उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ।। ७१.२५ ।।

किमर्थं गम्यते विप्राः साधु शंसत माचिरम् ।
मां विहाय सदा भक्तं प्रणतं च विशेषतः ।। ७१.२६ ।।

ऋषय ऊचुः ।
गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा ।
तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ।। ७१.२७ ।।

एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् ।
प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ।। ७१.२८ ।।

इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिता ।
गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ।। ७१.२९ ।।

प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् ।
व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ।। ७१.३० ।।

गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् ।
मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ।। ७१.३१ ।।

शतमेकं तु वर्षाणामहमाराधितोऽभवम् ।
तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ।। ७१.३२ ।।

सोऽब्रवीन्मां जकटासंस्थां देहि गङ्गां तपस्विनीम् ।
मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ।। ७१.३३ ।।

एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः ।
तां गृह्य गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ।। ७१.३४ ।।

तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी ।
नदी च महती जाता पुण्यतोया शुचिह्रदा ।। ७१.३५ ।।

तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः ।
आजग्मुः खे विमानस्थाः साधुः साध्विति वादिनः ।। ७१.३६ ।।

साधु गौतम साधूनां कोन्योऽस्ति सदृशस्तव ।
यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ।। ७१.३७ ।।

एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति ।
गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ।। ७१.३८ ।।

ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै ।
शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा ।
भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ।। ७१.३९ ।।

तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः ।
ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः ।
भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ।। ७१.४० ।।

यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः ।
उपकारिणि ये ते हि अपकर्तार एव हि ।
इत्थंभूता अपि कलौ भक्तिभाजो भवन्तु ते ।। ७१.४१ ।।

त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः ।
भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ।। ७१.४२ ।।

अस्याश्च गौणं नामेह नदी गोदावरीति च ।
गौर्दत्ता वरदानाच्च भवेद् गोदावरी नदी ।। ७१.४३ ।।

एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये ।
यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ।। ७१.४४ ।।

सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः ।
स्नात्वा च विधिना तत्र पितॄं स्तर्पयते तथा ।। ७१.४५ ।।

स्वर्गं गच्छन्ति पितरो निरये पतिता अपि ।
स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ।। ७१.४६ ।।

त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् ।
एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् ।
यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ।। ७१.४७ ।।

ऊचुर्मां ते च मुनयो भवितारो द्विजोत्तमाः ।
कलौ त्वद्रूपिणः सर्वे जटामुकुटधारिणः ।
स्वेच्छया प्रेतवेषाश्च मिथ्यालिङ्गधराः प्रभो ।। ७१.४८ ।।

तेषामनुग्रहार्थाय किंचिच्छास्त्रं प्रदीयताम् ।
येनास्मद्वंशजाः सर्वे वर्तेयुः कलिपीडिताः ।। ७१.४९ ।।

एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्तमाः ।
वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ।। ७१.५० ।।

निःश्वासाख्यां ततस्तस्यां लीना बाभ्रव्यशाण्डिलाः ।
अल्पापराधाच्छ्रुत्वैव गता बैडालिका भवन् ।। ७१.५१ ।।

मयैव मोहितास्ते हि भविष्यं जानता द्विजाः ।
लौल्यार्थिनस्तु शास्त्राणि करिष्यन्ति कलौ नराः ।। ७१.५२ ।।

निःश्वाससंहितायां हि लक्षमात्रं प्रमाणतः ।
सैव पाशुपती दीक्षा योगः पाशुपतस्त्विह ।। ७१.५३ ।।

एतस्माद् वेदमार्गाद्धि यदन्यदिह जायते ।
तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ।। ७१.५४ ।।

ये रुद्रमुपजीवन्ति कलौ वैडालिका नराः ।
लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः ।
उच्छुष्मरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः ।। ७१.५५ ।।

भैरवेण स्वरूपेण देवकार्ये यदा पुरा ।
नर्तितं तु मया सोऽयं संबन्धः क्रूरकर्मणाम् ।। ७१.५६ ।।

क्षयं निनीषता दैत्यानट्टहासो मया कृतः ।
यः पुरा तत्र ये मह्यं पतिता अश्रुबिन्दवः ।
असंख्यातास्तु ते रौद्रा भवितारो महीतले ।। ७१.५७ ।।

उच्छुष्मनिरता रौद्राः सुरामांसप्रियाः सदा ।
स्त्रीलोलाः पापकर्माणः संभूता भूतलेषु ते ।। ७१.५८ ।।

तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः ।
तेषां मध्ये सदाचारा ये ते मच्छासने रताः ।। ७१.५९ ।।

स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा ।
वैडालिकाऽधो यास्यन्ति मम संततिदूषकाः ।। ७१.६० ।।

प्राग् गौतमाग्निना दग्धाः पुनर्मद्वचनाद् द्विजाः ।
नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ।। ७१.६१ ।।

रुद्र उवाच ।
एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् ।
गौतमोऽपि स्वकं गेहं जगामाशु परंतपः ।। ७१.६२ ।।

एतद् वः कथितं विप्रा मया धर्मस्य लक्षणम् ।
एतस्माद् विपरीतो यः स पाषण्डरतो भवेत् ।। ७१.६३ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकसप्ततितमोऽध्यायः ।। ७१ ।।