वराहपुराणम्/अध्यायः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८ वराहपुराणम्
अध्यायः ४९
[[लेखकः :|]]
अध्यायः ५० →

दुर्वासा उवाच ।
तद्वदाश्वयुजे मासि द्वादशीं शुक्लपक्षतः ।
संकल्प्याभ्यर्चयेद् देवं पद्मनाभं सनातनम् ।। ४९.१ ।।

पद्मनाभाय पादौ तु कटिं वै पद्मयोनये ।
उदरं सर्वदेवाय पुष्कराक्षाय वै उरः ।
अव्ययाय तथा पाणिं प्राग्वदस्त्राणि पूजयेत् ।। ४९.२ ।।

प्रभवाय शिरः पूज्य प्राग्वदग्रे घटं न्यसेत् ।
तस्मिन् सौवर्णकं देवं पद्मनाभं तु विन्यसेत् ।। ४९.३ ।।

तमेव देवं संपूज्य गन्धपुष्पादिभिः क्रमात् ।
प्रभातायां तु शर्वर्यां ब्राह्मणाय निवेदयेत् ।
एवं कृते तु यत् पुण्यं तन्निबोध महामुने ।। ४९.४ ।।

आसीत् कृतयुगे राजा भद्राश्वो नाम वीर्यवान् ।
यस्य नाम्नाऽभवद् वर्षं भद्राश्वं नाम नामतः ।। ४९.५ ।।

तस्यागस्त्यः कदाचित् तु गृहमागत्य सत्तम ।
उवाच सप्तरात्रं तु वसामि भवतो गृहे ।। ४९.६ ।।

तं राजा शिरसा भूत्वा स्थीयतामित्यभाषत ।
तस्य कान्तिमती नाम भार्या परमशोभना ।। ४९.७ ।।

तस्यास्तेजः समभवद् द्वादशादित्यसंनिभम् ।
शतानि पञ्च तस्यासन् सपत्नीनां यतव्रत ।। ४९.८ ।।

ता दास्य इव कर्माणि कुर्वन्त्यहरहः शुभाः ।
कान्तिमत्या महाभाग भयात् त्रस्ता विचेतसः ।। ४९.९ ।।

तामगस्त्यस्तथा दृष्ट्वा रूपतेजोऽन्वितां शुभाम् ।
सपत्न्यश्च भयात् तस्याः कुर्वन्त्यः कर्म शोभनम् ।
राजा तु तस्या मुदितं मुखमेवावलोकयन् ।। ४९.१० ।।

एवंभूतामथो दृष्ट्वा राज्ञीं परमशोभनाम् ।
साधु साधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः ।। ४९.११ ।।

द्वितीये दिवसेऽप्येवं राज्ञीं दृष्ट्वा महाप्रभाम् ।
अहो मुष्टमहो मुष्टं जगदेतच्चराचरम् ।
इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्ट्वाऽभ्युवाच ह ।। ४९.१२ ।।

तृतीयेऽहनि तां दृष्ट्वा पुनरेवमुवाच ह ।
अहो मूढा न जानन्ति गोविन्दं परमेश्वरम् ।
य एकेऽह्नि फलं चैतद् राज्ञे तुष्टः प्रदत्तवान् ।। ४९.१३ ।।

चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत् ।
साधु साधु जगन्नाथ स्त्री शूद्राः साधु साध्विति ।
द्विजाः साधु नृपाः साधु वैश्याः साधु पुनः पुनः ।। ४९.१४ ।।

साधु भद्राश्व साधु त्वं भोऽगस्त्य साधु साधु ते ।
साधु प्रह्लाद ते साधु ध्रुव साधो महाव्रत ।
एवमुक्त्वा ननर्तोच्चैरगस्त्यो राजसंनिधौ ।। ४९.१५ ।।

एवंभूतं च तं दृष्ट्वा सपत्नीको नृपोत्तमः ।
किं हर्षकारणं ब्रह्मन् येनेत्थं नृत्यते भवान् ।। ४९.१६ ।।

अगस्त्य उवाच ।
अहो मूर्खः कुराजा त्वमहो मूर्खाऽनुगास्त्वमी ।
अहो पुरोहिता मूर्खा ये न जानन्ति मे मतम् ।। ४९.१७ ।।

एवमुक्ते ततो राजा कृताञ्जलिरभाषत ।
न जानीमो वयं ब्रह्मन् प्रश्नमेतत् त्वयेरितम् ।
कथयस्व महाभाग यद्यनुग्रहकृद् भवान् ।। ४९.१८ ।।

अगस्त्य उवाच ।
इयं राज्ञी त्वया याऽभूद् दासी वैश्यस्य वैदिशे ।
नगरे हरिदत्तस्य त्वमस्याः पतिरेव च ।
तस्यैव कर्मकारोऽभूच्छूद्रः सेवनतत्परः ।। ४९.१९ ।।

स वैश्योऽश्वयुजे मासि द्वादश्यां नियतः स्थितः ।
स्वयं विष्ण्वालयं गत्वा पुष्पधूपादिभिर्हरिम् ।। ४९.२० ।।

अभ्यर्च्य स्वगृहं प्रायाद् भवन्तौ रक्षपालकौ ।
स्थाप्य द्वावपि दीपानां ज्वलनार्थं महामते ।। ४९.२१ ।।

गते वैश्ये भवन्तौथ दीपान् प्रज्वाल्य संस्थितौ ।
यावत् प्रभाता रजनी निशामेकां नरोत्तम ।। ४९.२२ ।।

ततः काले मृतौ तौ तु उभौ द्वावपि दम्पती ।
तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ।। ४९.२३ ।।

इयं तु पत्नी ते जाता पुरा वैश्यस्य दासिका ।
पारक्यस्यापि दीपस्य ज्वालितस्य हरेर्गृहे ।। ४९.२४ ।।

यः पुनः स्वेन वित्तेन विष्णोरग्रे प्रदीपकम् ।
ज्वालयेत् तस्य यत् पुण्यं तत् संख्यातुं न शक्यते ।
तेन साधो हरे साधु इत्युक्तं वचनं मया ।। ४९.२५ ।।

कृते संवत्सरे भक्तिं हरेः कृत्वा विचक्षणः ।
संवत्सरार्धं त्रेतायां सममेतन्न संशयः ।। ४९.२६ ।।

त्रिमासे द्वापरे भक्त्या पूजयँल्लभते फलम् ।
नमो नारायणायेत्युक्त्वा कलौ तु लभते फलम् ।
तेन मुष्टं जगद् विष्णोर्भक्तिमात्रं मयेरितम् ।। ४९.२७ ।।

पारक्यदीपस्योत्कर्षाद् वै देवाग्रे फलमीदृशम् ।
प्राप्तं फलं त्वया राजन् फलमेतन् मयेरितम् ।
अहो मूढा न जानन्ति हरेर्दीपक्रियाफलम् ।। ४९.२८ ।।

एवं विधं द्विजा ये च राजानो ये च भक्तितः ।
यजन्ते विविधैर्यज्ञैस्तेन ते साधवः स्मृताः ।। ४९.२९ ।।

अहं तमेव मुक्त्वाऽन्यं न पश्यामि महीतले ।
तेन साधो अगस्त्येति मया चात्मा प्रशंसितः ।
हर्षेण महता राजन् व्याक्षिप्तेन मयेरितम् ।। ४९.३० ।।

सा स्त्री धन्या स शूद्रस्तु तथा धन्यतरो मतः ।
भर्तुः सुश्रूषणं कृत्वा तत्परोक्षे हरेरिति ।। ४९.३१ ।।

सा स्त्री धन्या तथा शूद्रो द्विजसुश्रूषणे रतः ।
तदनुज्ञया हरेर्भक्तिः स्त्री शूद्रो तेन साध्विति ।। ४९.३२ ।।

आसुरं भावमास्थाय प्रह्लादः पुरुषोत्तमम् ।
मुक्त्वा चान्यं न जानाति तेनासौ साधुरुच्यते ।। ४९.३३ ।।

प्रजापतिकुले भूत्वा बाल एव वनं गतः ।
आराध्य विष्णुं प्राप्तं तत् स्थानं परमशोभनम् ।
तेन साधो ध्रुवेत्येवं मयोक्तं राजसत्तम ।। ४९.३४ ।।

इति राजा वचः श्रुत्वा अगस्त्यस्य महात्मनः ।
अल्पोपदेशराजाऽसौ पप्रच्छ मुनिपुंगवम् ।। ४९.३५ ।।

अगस्त्यश्च महाभागः कार्तिक्यां पुष्करं व्रजन् ।
गतेऽगस्त्ये प्रगच्छन् वै भद्राश्वस्य निवेशनम् ।। ४९.३६ ।।

पृष्टश्च राज्ञा तामेव द्वादशीं मुनिसत्तमः ।
दुर्वासा उवाच ।
इदमेव मया तुभ्यं कथितं ते तपोधन ।। ४९.३७ ।।

कथयित्वा पुनर्वाक्यमगस्त्यो नृपसत्तमम् ।
उवाच पुष्करं यामि पुनरेष्यामि ते गृहम् ।
एवमुक्त्वा जगामाशु सद्योऽदर्शनतां मुनिः ।। ४९.३८ ।।

राजाऽपि तेन विधिना पद्मनाभस्य द्वादशीम् ।.
उपोष्य परमं काममिह जन्मनि चाप्तवान् ।। ४९.३९ ।।

सपत्नीको नृपवरो द्वादशीं समुपोष्य च ।
इह जन्मनि राजाऽसौ पुत्रपौत्रांस्तथाऽऽप्तवान् ।। ४९.४० ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनपञ्चाशोऽध्यायः ।। ४९ ।।