वराहपुराणम्/अध्यायः ४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२ वराहपुराणम्
अध्यायः ४३
[[लेखकः :|]]
अध्यायः ४४ →


दुर्वासा उवाच ।
एवमेव मुने मासि चैत्रे संकल्प्य द्वादशीम् ।
उपोष्याराधयेत् पश्चात् देवदेवं जनार्दनम् ।। ४३.१ ।।
वामनायेति पादौ तु विष्णवे कटिमर्चयेत् ।
वासुदेवेति जठरमुरः संपूर्णकाय च ।। ४३.२ ।।
कण्ठं विश्वकृते पूज्य शिरो वै व्योमरूपिणे ।
बाहू विश्वजिते पूज्य स्वनाम्ना शंखचक्रकौ ।। ४३.३ ।।
अनेन विधिनाभ्यर्च्य देवदेवं सनातनम् ।
प्राग्वदेवोत्तरं कुम्भं सयुग्मं पुरतो न्यसेत् ।। ४३.४ ।।
प्रागुक्तपात्रे संस्थाप्य वामनं काञ्चनं बुधः ।
यथाशक्त्या कृतं ह्रस्वं सितयज्ञोपवीतिनम् ।। ४३.५ ।।
कुण्डिकां स्थापयेत् पार्श्वे छत्रिकां पादुके तथा ।
अक्षमालां च संस्थाप्य वृसिकां च विशेषतः ।। ४३.६ ।।
एतैरुपस्करैर्युक्तं प्रभाते स द्विजातये ।
दापयेत् प्रीयतां विष्णुर्ह्रस्वरूपीत्युदीरयेत् ।। ४३.७ ।।
मासनाम्ना तु संयुक्तं प्रादुर्भावविधानकम् ।
प्रीयतामिति सर्वत्र विधिरेष प्रकीर्तितः ।। ४३.८ ।।
श्रूयते च पुरा राजा हर्यश्वः पृथिवीपतिः ।
अपुत्रः स तपस्तेपे पुत्रमिच्छंस्तपोधनम् ।। ४३.९ ।।
तस्यैव कुर्वतो व्युष्टिं पुत्रार्थे मुनिसत्तम ।
आजगाम हरिः पूर्वं द्विजरूपं समाश्रितः ।। ४३.१० ।।
उवाच तपसा राजन् किं ते व्यवसितं प्रभो ।
पुत्रार्थमिति प्रोवाच तं विप्रः प्रत्युवाच ह ।। ४३.११ ।।
इदमेव विधानं तु कुरु राजन्नुवाच ह ।
एवमुक्त्वा तु राजानं क्षणादन्तर्हितः प्रभुः ।। ४३.१२ ।।
राजाऽपि तं चकाराशु मन्त्रवन्तं द्विजातये ।
दरिद्राय तथा प्रादात् ज्योतिर्गार्गाय धीमते ।। ४३.१३ ।।
यथादितेरपुत्रायाः स्वयं पुत्रत्वमागतः ।
भगवंस्तेन सत्येन ममाप्यस्तु सुतो वरः ।। ४३.१४ ।।
अनेन विधिना दत्ते तस्य पुत्रोऽभवन्मुने ।
कुवलाश्व इति ख्यातश्चक्रवर्ती महाबलः ।। ४३.१५ ।।
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
भ्रष्टराज्यो लभेद् राज्यं मृतो विष्णुपुरं व्रजेत् ।। ४३.१६ ।।
कीर्त्तित्वा सुचिरं तत्र इह मर्त्यमुपागतः ।
चक्रवर्ती भवेद् धीमान् ययातिरिव नाहुषः ।। ४३.१७ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे त्रयश्चत्वारिंशोऽध्यायः ।। ४३ ।।