वराहपुराणम्/अध्यायः ४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९ वराहपुराणम्
अध्यायः ४०
[[लेखकः :|]]
अध्यायः ४१ →

दुर्वासा उवाच ।
तथैव पौषमासे तु अमृतं मथितं सुरैः ।
तत्र कूर्मो भवेद् देवः स्वयमेव जनार्दनः ।। ४०.१ ।।
तस्येयं तिथिरुद्दिष्टा हरेर्वै कूर्मरूपिणः ।
पुष्यमासस्य या शुद्धा द्वादशी शुक्लपक्षतः ।। ४०.२ ।।
तस्यां प्रागेव संकल्प्य प्राग्वत् स्नान्नादिकाः क्रियाः ।
निर्वर्त्याराधयेद् रात्र्यामेकादश्यां जनार्दनम् ।
पृथङ्मन्त्रैर्मुनिश्रेष्ठ देवदेवं जनार्दनम् ।। ४०.३ ।।
ॐकूर्माय पादौ प्रथमं प्रपूज्य
नारायणेति हरेः कटिं च ।
संकर्षणायेत्युदरं विशोके-
त्युरोभवायेति तथैव कण्ठम् ।
सुबाहवेत्येव भुजौ शिरश्च
नमो विशालाय रथाङ्गसारम् ।। ४०.४ ।।
स्वनाममन्त्रेण सुगन्धपुष्पै-
र्नानानिवेद्यैर्विविधैः फलैश्च ।
अभ्यर्च्य देवं कलशं तदग्रे
संस्थाप्य माल्यैः सितकण्ठदाम ।। ४०.५ ।।
तं रत्नगर्भं तु पुरेव कृत्वा
स्वशक्तितो हेममयं तु देवम् ।
समन्दरं कूर्मरूपेण कृत्वा
संस्थाप्य ताम्रे घृतपूर्णपात्रे ।
पूर्णघटस्योपरि संनिवेश्य
श्वो ब्राह्मणायैवमेवं तु दद्यात् ।। ४०.६ ।।
श्वो ब्राह्मणान् भोज्य सदक्षिणांश्च
यथाशक्त्या प्रीणयेद् देवदेवम् ।
नारायणं कूर्मरूपेण पश्चाद्
तथा स्वयं भुञ्जीत सभृत्यवर्गः ।। ४०.७ ।।
एवं कृते विप्र समस्तपापं
विनश्यते नात्र कुर्याद् विचारम् ।
संसारचक्रं तु विहाय शुद्धं
प्राप्नोति लोकं च हरेः पुराणम् ।
प्रयान्ति पापानि विनाशमाशु
श्रीमांस्तथा जायते सत्यधर्मः ।। ४०.८ ।।
अनेकजन्मान्तरसंचितानि
नश्यन्ति पापानि नरस्य भक्त्या ।
प्रागुक्तरूपं तु फलं भवेत
नारायणस्तुष्टिमायाति सद्यः ।। ४०.९ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे चत्वारिंशोऽध्यायः ।। ४० ।।