वराहपुराणम्/अध्यायः ३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७ वराहपुराणम्
अध्यायः ३८
[[लेखकः :|]]
अध्यायः ३९ →


श्रीवराह उवाच ।
स शुभं शोभनं मार्गमास्थाय व्याधसत्तमः ।
तपस्तेपे निराहारस्तं गुरुं मनसा स्मरन् ।। ३८.१ ।।
भिक्षाकाले तु संप्राप्ते शीर्णपर्णान्यभक्षयत् ।
स कदाचित् क्षुधाविष्टो वृक्षमूलं समाश्रितः ।। ३८.२ ।।
बुभुक्षितस्तरोः पर्णमैच्छद् भक्षितुमन्तिकात् ।
इत्येवं कुर्वतो व्योम्नि वागुवाचाशरीरिणी ।। ३८.३ ।।
मा भक्षयस्व सकटमुच्चैरेवं प्रभाषिते ।
ततोऽसौ तं विहायान्यद् वार्क्षं पतितमग्रहीत् ।। ३८.४ ।।
तमप्येवं निषिद्धं स्यादन्यं तथैवमेव च ।
एवं स सकटं मत्वा व्याधः किञ्चिन्न भक्षयत् ।। ३८.५ ।।
निराहारस्तपस्तेपे स्मरन् गुरुमतन्द्रितः ।
तस्याथ बहुना काले गते ऋषिवरोऽभ्यगात् ।। ३८.६ ।।
दुर्वासाः शंसितात्मा वै किञ्चित्प्राणमपश्यत ।
व्याधं तपोत्थतेजोभिर्ज्वलमानं हविर्यथा ।। ३८.७ ।।
सोऽपि व्याधस्तु तं नत्वा शिरसाऽथ महामुनिम् ।
उवाच स कृतार्थोऽस्मि भगवन् दर्शनात् तव ।। ३८.८ ।।
इदानीं श्राद्धकालं मे प्राप्तं त्वमवधारय ।
शीर्णपर्णानि भक्षयन् वै तैरेवाहं महामुने ।
भवन्तं प्रीणयामीति व्याधस्तं वाक्यमब्रवीत् ।। ३८.९ ।।
दुर्वासा अपि तं शुद्धं शुद्धभावं जितेन्द्रियम् ।
जिज्ञासुस्तत्तपो वाक्यमिदमुच्चैरुवाच ह ।। ३८.१० ।।
यवगोधूमशालीनामन्नं चैव सुसंस्कृतम् ।
दीयतां मे क्षुधार्ताय त्वामुद्दिश्यागताय च ।। ३८.११ ।।
इत्युक्तेन त्वसौ व्याधश्चिन्तां परमिकां गतः ।
क्व संभविष्यते मह्यमिति चिन्तापरोऽभवत् ।। ३८.१२ ।।
तस्य चिन्तयतः पात्रमाकाशात् पतितं शुभम् ।
सौवर्णं सिद्धिसंयुक्तं तज्जग्राह करेण सः ।। ३८.१३ ।।
तद् गृहीत्वा मुनिं प्राह दुर्वासाख्यं ससाध्वसः ।
अत्रैव स्थीयतां ब्रह्मन् यावद् भिक्षाटनं त्वहम् ।
करोमि तत्प्रसादोऽयं क्रियतां ब्रह्मवित्तम ।। ३८.१४ ।।
एवमुक्त्वा ततो भिक्षामटनं व्याधसत्तमः ।
नातिदूरेण नगरं धनयोषसमन्वितम् ।। ३८.१५ ।।
तस्य तत्र प्रयातस्य अग्रतः सर्वशोभनाः ।
वृक्षेभ्यो निर्ययुश्चान्या हेमपात्राग्रपाणयः ।
विविधान्नानि तस्याशु दत्त्वा पात्रं प्रपूरितम् ।। ३८.१६ ।।
स च भूतार्थमात्मानं मत्वा पुनरथाश्रमम् ।
आजगाम ततोऽपश्यत् तमृषिं जपतां वरम् ।। ३८.१७ ।।
तं दृष्ट्वा स्थाप्य तां भिक्षां शुचौ देशे प्रसन्नधीः ।
प्रणम्य तमृषिं वाक्यमुवाच व्याधसत्तमः ।। ३८.१८ ।।
भगवन् क्षालनं पद्भ्यां क्रियतामृषिपुंगव ।
यदि त्वहमनुग्राह्यस्तदेवं कर्त्तुमर्हसि ।। ३८.१९ ।।
एवमुक्तः स जिज्ञासुस्तपोवीर्यं शुभं मुनिः ।
नदीं गन्तुं न शक्नोमि जलपात्रं न चास्ति मे ।। ३८.२० ।।
कथं प्रक्षालयाम्याशु व्याध पादौ महामते ।
इत्येतन्मुनिना व्याधः श्रुत्वा चिन्तापरोऽभवत् ।
किं करोमि कथं चास्य भोजनं वै भविष्यति ।। ३८.२१ ।।
एवं संचिन्त्य मनसा गुरुं स्मृत्वा विचक्षणः ।
जगाम शरणं तां तु सरितं देविकां सुधीः ।। ३८.२२ ।।
व्याध उवाच ।
व्याधोऽस्मि पापकर्माऽस्मि ब्रह्महाऽस्मि सरिद्वरे ।
तथापि संस्मृता देवि पाहि मां शरणं गतम् ।। ३८.२३ ।।
देवतां नैव जानामि न मन्त्रं न तथार्चनम् ।
गुरुपादौ परं ध्यात्वा पश्यामि सततं शुभे ।। ३८.२४ ।।
एवं विधस्य मे देवि दयां कुरु सरिद्वरे ।
ऋषेः क्षालार्थसलिलं समीपं कुरु माचिरम् ।। ३८.२५ ।।
एवमुक्त्वाऽथ व्याधेन देविका पापनाशिनी ।
आजगाम यतस्तस्थौ दुर्वासाः संशितव्रतः ।। ३८.२६ ।।
तस्य पादौ स्वयं देवी क्षालयन्ती सरिद्वरा ।
जगाम ह्रादिनी भूत्वा व्याधाश्रमसमीपतः ।। ३८.२७ ।।
तं दृष्ट्वा महदाश्चर्यं दुर्वसा विस्मयं ययौ ।
प्रक्षाल्य हस्तौ पादौ च तदन्तं श्रद्धयान्वितम् ।
बुभुजे परमप्रीतस्तथाचम्य विचक्षणः ।। ३८.२८ ।।
तमस्थिशेषं व्याधं तु क्षुधादुर्बलतां गतम् ।
उवाच वेदाध्ययनं सर्वे वेदाः ससंग्रहाः ।
ब्रह्मविद्या पुराणानि प्रत्यक्षाणि भवन्तु ते ।। ३८.२९ ।।
एवं प्रादाद् वरं तस्य दुर्वासा नाम चाकरोत् ।
भवान् सत्यतपा नाम ऋषिराद्यो भविष्यति ।। ३८.३० ।।
एवं दत्तवरो व्याधस्तमाह मुनिसत्तमम् ।
व्याधो भूत्वा कथं ब्रह्मन् वेदानध्यापयाम्यहम् ।। ३८.३१ ।।
ऋषिरुवाच ।
प्राक्शरीरं गतं तेऽद्य निराहारस्य सत्तम ।
तपोमयं शरीरं ते पृथग्भूतं न संशयः ।। ३८.३२ ।।
प्राग्विज्ञानं गतं नाशमिदानीं शुद्धमक्षरम् ।
विद्धि तं शुद्धकायोऽसि तथाऽन्यत् ते शरीरकम् ।
तेन वेदाः समं शास्त्रैः प्रतिभास्यन्ति ते मुने ।। ३८.३३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टत्रिंशोऽध्यायः ।। ३८ ।।