वराहपुराणम्/अध्यायः ३१
← अध्यायः ३० | वराहपुराणम् अध्यायः ३१ [[लेखकः :|]] |
अध्यायः ३२ → |
महातपा उवाच ।
मनोर्नाम मनुत्वं च यदेतत् पठ्यते किल ।
प्रयोजनवशाद् विष्णुरसावेव तु मूर्त्तिमान् ।। ३१.१ ।।
योऽसौ नारायणो देवः परात् परतरो नृप ।
तस्य चिन्ता समुत्पन्ना सृष्टिं प्रति नरोत्तम ।। ३१.२ ।।
सृष्टा चेयं मया सृष्टिः पालनीया मयैव ह ।
कर्मकाण्डं त्वमूर्त्तेन कर्तुं नैवेह शक्यते ।
तस्मान्मूर्त्तिं सृजाम्येकां यया पाल्यमिदं जगत् ।। ३१.३ ।।
एवं चिन्तयतस्तस्य सत्याभिध्यायिनो नृप ।
प्राक्सृष्टिजातं राजन् वै मूर्त्तिमत् तत्पुरो बभौ ।। ३१.४ ।।
पुरोभूते ततस्तस्मिन् देवो नारायणः स्वयम् ।
प्रविशन्तं ददर्शाथ त्रैलोक्यं तस्य देहतः ।। ३१.५ ।।
ततः सस्मार भगवान् वरदानं पुरातनम् ।
वागादीनां ततस्तुष्टः प्रादात् तस्य पुनर्वरम् ।। ३१.६ ।।
सर्वज्ञः सर्वकर्ता त्वं सर्वलोकनमस्कृतः ।
त्रैलोक्यविशनाच्च त्वं भव विष्णुः सनातनः ।। ३१.७ ।।
देवानां सर्वदा कार्यं कर्त्तव्यं ब्रह्मणस्तथा ।
सर्वज्ञत्वं च भवतु तव देव न संशयः ।। ३१.८ ।।
एवमुक्त्वा ततो देवः प्रकृतिस्थो बभूव ह ।
विष्णुरप्यधुना पूर्वां बुद्धिं सस्मार च प्रभुः ।। ३१.९ ।।
तदा संचिन्त्य भगवान् योगनिद्रां महातपाः ।
तस्यां संस्थाप्य भगवानिन्द्रियार्थोद्भवाः प्रजाः ।
ध्यात्वा परेण रूपेण ततः सुष्वाप वै प्रभुः ।। ३१.१० ।।
तस्य सुप्तस्य जठरान्महत्पद्मं विविःसृतम् ।
सप्तद्वीपवती पृथ्वी ससमुद्रा सकानना ।। ३१.११ ।।
तस्य रूपस्य विस्तारं पातालं नालसंस्थितम् ।
कर्णिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः ।। ३१.१२ ।।
एवं दृष्ट्वा परं तस्य शरीरस्य तु संभवम् ।
मुमुचे तच्छरीरस्थो वायुर्वायुं समं सृजत् ।। ३१.१३ ।।
अविद्याविजयं चेमं शङ्खरूपेण धारय ।
अज्ञानच्छेदनार्थाय खङ्गं तेऽस्तु सदा करे ।। ३१.१४ ।।
कालचक्रमिमं घोरं चक्रं त्वं धारयाच्युत ।
अधर्मगजघातार्थं गदां धारय केशव ।। ३१.१५ ।।
मालेयं भूतमाता ते कण्ठे तिष्ठतु सर्वदा ।
श्रीवत्सकौस्तुभौ चेमौ चन्द्रादित्यच्छलेन ह ।। ३१.१६ ।।
मारुतस्ते गतिर्वीर गरुत्मान् स च कीर्त्तितः ।
त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदाश्रये ।
द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते ।। ३१.१७ ।।
घृताशनो भवेद्यस्तु द्वादश्यां त्वल्परायणः ।
स स्वर्गवासी भवतु पुमान् स्त्री वा विशेषतः ।। ३१.१८ ।।
एष विष्णुस्तवाख्यातो मूर्तयो देवदानवान् ।
हन्ति पाति शरीराणि सृजत्यन्यानि चात्मनः ।। ३१.१९ ।।
युगे युगे सर्वगोऽयं वेदान्ते पुरुषो ह्यसौ ।
न हीनबुद्ध्या वक्तव्यो मनुष्योऽयं कदाचन ।। ३१.२० ।।
य एवं श्रृणुयात् सर्गं वैष्णवं पापनाशनम् ।
स कीर्तिमिह संप्राप्य स्वर्गलोके महीयते ।। ३१.२१ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे एकत्रिंशोऽध्यायः ।। ३१ ।।