वराहपुराणम्/अध्यायः २१४

विकिस्रोतः तः
← अध्यायः २१३ वराहपुराणम्
अध्यायः २१४
[[लेखकः :|]]
अध्यायः २१५ →
पुनः गोकर्णमाहात्म्यनन्दिकेश्वरवरप्रदानवर्णनम् ।।

ब्रह्मोवाच ।।
अन्तर्हितं ततस्तस्मिन्भवे वै भूतनायके ।।
बभूव दिव्यः स तदा नन्दी गणचमूपतिः ।। १ ।।
चतुर्भुजस्त्रिणयनो दिव्यसंस्थानसंस्थितः ।।
दिव्यवर्णवपूश्चारुर्दिव्यागुरुसमन्वितः ।। २ ।।
त्रिशूली परिघी दण्डी पिनाकी मौञ्जमेखली ।।
शुशुभे तेजता तत्र द्वितीय इव शंकरः ।। ३ ।।
आस्थितः पादमाकृष्य ह्याह्वयन्निव स द्विजः ।।
त्रिभिः क्रमैः क्रांतुमनास्त्रिविक्रम इवोद्यतः ।। ४ ।।
तं दृष्ट्वा खेचराः सर्वा देवताः परिशंकिताः ।।
आख्यातुं पुरुहूताय सम्भ्रान्ताः प्रययुर्दिवम् ।। ५ ।।
तेभ्यः श्रुत्वा सहस्राक्षः सर्वे चान्ये दिवौकसः ।।
विषादं परमं गत्वा चिन्तामापेदिरे भृशम् ।। ६ ।।
अयं कश्चिद्वरं लब्ध्वा ह्युमाकान्तान्महेश्वरात् ।।
अत्यूर्जितबलः श्रीमांस्त्रैलोक्यं प्राप्स्यति ध्रुवम् ।। ७ ।।
यादृशोऽस्य महोत्साहस्तेजोबलसमन्वितः ।।
नूनमेष महासत्त्वो हरेत्स्थानं दिवौकसाम् ।। ८ ।।
यावच्चैवोजसा नाकमसौ चंक्रमते प्रभुः ।।
प्रसादयामो वरदं तावदेव महेश्वरम् ।। ९ ।।
एवमुक्त्वा तु ते तत्र मया सह सुरोत्तमाः ।।
गिरेर्मौञ्जवतः शृङ्गमाजग्मुर्देवनिर्मितम् ।। 214.१० ।।
विधाता भगवान्विष्णुः प्रभुस्त्रिभुवनेश्वरः ।।
अभ्यधावंस्ततः सोऽथ स हि जानाति हृद्गतम् ।। ११ ।।
कृतेन तेन विबुधाः पश्यन्ति मुनयश्च तं ।।
ततः स भगवान्विष्णुः सहदेवः सधातृकः ।। १२ ।।
जगाम तत्र यत्रासौ नन्दी तिष्ठति देववत् ।।
नन्द्युवाच ।।
सफलं जीवितं मेऽद्य सफलश्च परिश्रमः ।। १३ ।।
यन्मे दृष्टः सुराध्यक्षः सर्वलोकगुरुर्हरिः ।।
पर्याप्तं तन्ममाद्येह कृतकृत्योऽस्मि तेन वै ।।१४।।
यच्च मे प्रभुरव्यग्रः प्रीतः पापहरो हरः ।।
विधाय पार्षदत्वं मे वरानिष्टान्ददौ शिवः ।।१५।।
परो मेऽनुग्रहः सोऽत्र पूतोऽस्मि खलु साम्प्रतम् ।।
यच्चोक्तं विधिना वाक्यं देवान्प्रति महात्मना ।।१६।।
मामुद्दिश्य हितं तथ्यं तथैव च न चान्यथा ।।
यन्मां देवर्षयः प्रीत्या समागत्य प्रियंवदाः ।।१७।।
तेनास्मि परमप्रीत आदृतः परमेष्ठिना ।।
देवा ऊचुः ।।
वयं तं वरदं देवं द्रक्ष्यामस्ते वरप्रदम्।।१८।।
तवैष तपसा तुष्टः स्वयं प्रत्यक्षताङ्गतः ।।
इत्युक्तवन्तस्ते देवाः पुनरूचुर्द्विजोत्तमम् ।। १९।।
कुत्र द्रक्ष्यामहे देवं भगवन्तं कपालिनम्।।
नन्द्युवाच ।।
अनुगृह्य तु मां देवस्तत्रैवादर्शनं गतः ।।214.२०।।
न जाने कुत्र वा देवं कुत्रास्ते तद्गवेष्यताम्।।
सनत्कुमार उवाच ।।
किमत्र नन्दिनं देवो येनासौ नोक्तवान्प्रभुम् ।। २१।।
तन्मे कथय देवेश गुह्यं किं चास्ति शूलिनः ।।
ब्रह्मोवाच ।।
यदुक्तवान्महेशानो नाख्येयोऽस्मि पुरान्जनि ।। २२ ।।
किमुक्तवान्महादेवो नन्दिनं तच्छृणुष्व मे ।।
ईश्वर उवाच ।।
अस्ति कश्चित्समुद्देशः क्षितेः सिद्धोऽद्रिसंकटः ।। २३ ।।
पारे हिमवतः पुण्ये तपोवनगणैर्युतः ।।
तत्र श्लेष्मातको नाम वसते पन्नगोत्तमः ।। २४ ।।
सोऽनुग्राह्यो मयावश्यं तपसा दग्धकिल्बिषः ।।
तदभ्याशे च रुचिरं न चासौ वानराश्रयः।।२५।।
तस्य नाम्ना च तत्स्थानं दिव्यं चिरतपोभृतम्।।
श्लेष्मातकवनं नाम पुण्यशीलशिलोच्चयम्।।२६।।
मृगरूपेण चरता तत्र वै त्रिदशा मया ।।
द्रष्टव्याः सञ्जिघृतक्षन्तः खिन्नाश्चान्वेषणे मम ।। २७ ।।
नाख्यातव्यं त्वया तेषां देवताप्सरसामिदम् ।।
अनुगृह्य वरैस्तैश्च तत्रैवान्तरधीयत ।। २८ ।।
विद्योतयन्दिशः सर्वास्त्रिदशैः परिवारितः ।।
बालकेन्दुनिभं दिव्यमर्च्चितं दिव्यबिन्दुभिः ।। २९ ।।
कामगं रथमारुह्य महेन्द्रः समरुद्गणः ।।
आयातः शैलपृष्ठन्तमोजसा पूरयन्निव ।। 214.३० ।।
गणावृतश्च वरदो वरुणो यादसांपतिः ।।
वज्रस्फटिक चित्रेण विमानेनातितेजसा ।। ३१ ।।
तप्तकाञ्चनवर्णेन रत्नचित्रेण भास्वता ।।
विमानेनागतः शृङ्गे द्योतयन्वै धनाधिपः ।। ३२ ।।
विमानशत कोटीभिरागतो यक्षराक्षसैः ।।
श्रीमद्भिर्बहुभिर्दिव्यैर्विमानैः सूर्यसन्निभैः ।।३३।।
अधिष्ठितः सुकृतिभिः प्रायाद्वैवस्वतोपमः ।।
चन्द्रादित्यौ ग्रहाः सर्वे समग्रं त्वृक्षमण्डलम् ।। ३४ ।।
विमानैरग्नितुल्याभैराजग्मुः खान्महीधरम् ।।
रुद्रास्त्वेकादशा याताः सूर्या द्वादश चैव तु ।। ३५ ।।
आगतावश्विनौ देवौ मौञ्जवन्तं महागिरिम् ।।
विश्वेदेवाश्च साध्याश्च गुरुश्च तपसान्वितः ।। ३६ ।।
संछाद्यैरावतपथं सहसाभ्याययुर्द्रुतम् ।।
स्कन्दश्चैव विशाखश्च भगवांश्च विनायकः ।।३७।।
संप्राप्तस्तं गिरिवरं मयूरशतनादितम् ।।
नारदस्तुम्बुरुश्चैव विश्वावसुपरावसू ।। ३८ ।।
हाहाहूहूस्तथा चान्ये सर्वे गन्धर्वसत्तमाः ।।
वैहायसैर्यानवरैर्विविधैर्वासवाज्ञया ।। ३९ ।।
अनिलश्चानलश्चैव धर्मः सत्यो ध्रुवोऽपरः ।।
देवर्षयश्च सिद्धाश्च यक्षा विद्याधरास्तथा ।। 214.४० ।।
गुह्यकाश्च महात्मानः सर्व एव समागताः ।।
गन्धकाली घृताची च बुद्धा गौरी तिलोत्तमा ।। ४१।।
उर्वशी मेनका रंभा पंचस्या च तथापरा ।।
एताश्चान्याश्च तच्छैलमाजग्मुर्देवयोषितः ।।४२।।
पुलस्त्योऽत्रिर्मरीचिश्च वसिष्ठो भृगुरेव च ।।
कश्यपः पुलहश्चापि विश्वामित्रोऽथ गौतमः ।।४३।।
भारद्वाजोऽग्निवेश्यश्च तथा वृद्धपराशरः ।।
मार्कण्डेयोऽङ्गिरा गर्गः संवर्त्तः क्रतुरेव च ।।४४ ।।
मरीचिर्जमदग्निश्च भार्गवश्च्यवनस्तथा ।।
नियोगान्मम विष्णोश्च शक्रस्य त्रिदिवस्पतेः ।।४५।।
सिंधुश्च पुरुषश्चैव सरयूश्च महानदी।।
ताम्रारुणा चारुभागा वितस्ता कौशिकी तथा ।।४१।।।
पुण्या सरस्वती कोका नर्मदा बाहुदा तथा ।।
शतद्रूश्च विपाशा च गंडकी च सरिद्वरा ।।४७।।
गोदावरी च वेणी च तापी च सरिदुत्तमा ।।
करतोया स शीता च तथा चीरवती नदी ।।४८ ।।
नंदा च परनन्दा च तथा चर्मण्वती नदी ।।
पर्णाशा दैविका चैव वितस्ता च तथापरा ।। ४९ ।।
सिंधुश्च पुरुषश्चैव प्रभासः सोम एव च ।।
लोहितश्चाययुस्तत्र गंगासागर एव च ।। 214.५० ।।
अन्यानि चापि मेदिन्यां तीर्थान्यायतनानि च ।। ५१।।
निजस्वरूपेणाजग्मुस्तत्र पुण्यान्यनेकशः ।।
उपागतानि चेन्द्रस्य नियोगादुत्तमं गिरिम् ।। ५२।।
शैलोत्तमो महामेरुः कैलासो गन्धमादनः ।।
हिमवान्हेमकूटश्च निषधश्च महागिरिः ।।५३।।
विन्ध्यो महेन्द्रः सह्यश्च मलयो दर्दुरस्तथा ।।
माल्यवांश्चित्रकूटश्च तथा द्रोणः शिलोच्चयः ।। ५४ ।।।
श्रीपर्वतो लतावेष्टः पारियात्रश्च शैलराट् ।।
आगताः सर्व एवैते शैलेन्द्राः काननौकसः।।५५।।
सर्वे यज्ञाः सर्वविद्या वेदाश्चत्वार एव च ।।
धर्मः सत्यं दमः स्वर्गः कपिलश्च महानृषिः ।।५६ ।।
वासुकिश्च महाभागश्चामृताशी भुजङ्गराट्।।
ज्वलत्फणासहस्रेण अनन्तश्च धराधरः ।। ५७।।
फणींद्रो धृतराष्ट्रश्च किर्मीराङ्गश्च नागराट् ।।
अंभोधरश्च स श्रीमान्नागराजो महाद्युतिः ।।५८।।
अर्बुदो न्यर्बुदबलस्तथा चक्षुःश्रवाधिपः ।।
विद्युज्जिह्वो द्विजेह्वेंद्र शङ्खवर्च्चा महाद्युतिः ।५।।
ख्यातस्त्रिभुवने धीमान्नहुषोऽनिमिषेश्वरः ।।
विरोचनसुतः सत्यः स्फुटोमणिशतैश्चितः ।। 214.६० ।।
फणाशतधरो रूपी भूरिशृङ्ग इवाचलः ।।
अरिमेजयसंयुक्तः प्रज्ञावान् भुजगेश्वरः ।। ६१ ।।
विनतो नागराजश्च कम्बलाश्वतरौ तथा ।।
भुजगाधिपतिर्वीर एलापत्रस्तथैव च ।। ६२ ।।
उरगानामधिपती कर्कोटकधनञ्जयौ ।।
एवमाद्याः समायाता भुजगेन्द्रा महाबलाः ।। ६३ ।।
अहोरात्र तथा पक्षा मासाः संवत्सरास्तथा ।।
द्यौर्मेदिनी दिशश्चैव विदिशश्च समागताः ।। ६४ ।।
ततश्चैवागतैर्देवैर्यक्षैः सिद्धैश्च सर्वशः।।
अपूर्यत गिरेः शृङ्गे वेला काले यथोदधेः।।६९।।
तस्मिन्देवसमाजे तु रम्ये शैलेन्द्रमूर्द्धनि।।
पुष्पाणि मुमुचुस्तत्र तरवो ह्यनिलार्दिताः ।। ६६ ।।
प्रगीता देवगन्धर्वाः प्रनृत्ताप्सरसां गणाः ।।
पक्षिणः संप्रहृष्टाश्च कूजन्ति मधुरं तदा ।। ६७ ।।
पुण्यगन्धाः सुखस्पर्शास्तत्र वांति च वायवः ।।
एवमागत्य ते सर्वे देवा विष्णुपुरोगमाः ।। ६८ ।।
श्रिया ज्वलन्तं ददृशुर्नन्दिनं पुरतः स्थितम् ।।
स च तानागतान्द्रष्ट्वा गन्धर्वाप्सरसां गणान् ।। ६९ ।।
स हि तान्दैवराजेन सार्द्धमन्यैश्च दैवतैः ।।
मूर्ध्ना प्रणम्य चरणौ प्राञ्जलिः प्रयतात्मवान् ।। 214.७० ।।
सम्भ्रान्तः सहसा तेभ्यो नमस्कर्तुं प्रचक्रमे ।।
नमस्कृत्य च तान् सर्वान् स्वागतानभिभाष्य च ।। ७१ ।।
अर्घ्यपाद्यादिभिः शीघ्रमासनैश्च न्यमन्त्रयत् ।।
प्रणिधानेन तस्यार्थं श्रुत्वा तत्प्रतिपूजयेत् ।। ७२ ।।
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ।।
साध्या विश्वे सगन्धर्वा गुह्यकाश्च प्रपूजयेत् ।। ७३ ।।
विश्वावसुर्हाहाहूहू तथा नारदतुम्बुरू ।।
चित्रसेनादयः सर्वे गन्धर्वास्तमपूजयन् ।। ७४ ।।
तं वासुकिप्रभृतयः पन्नगेन्द्रा महौजसः ।।
सौम्यमभ्यर्च्चयन्ति स्म दृष्ट्वा नन्दीश्वरं तथा ।। ७५ ।।
सिद्धचारणसङ्घाश्च विद्याश्चाप्सरसाङ्गणाः ।।
सत्कृतं देवदेवेन गणास्तमभिपूजयन् ।। ७१ ।।
यक्षविद्याधराश्चैव ग्रहाः सागरपर्वताः ।।
सिद्धा ब्रह्मर्षयश्चैव गङ्गाद्याः सरितस्तथा ।। ७७ ।।
आशिषः प्रददुस्तस्य सर्व एव मुदान्विता ।।
देवा ऊचुः ।।
स सुप्रीतोऽस्तु ते देवः सदा पशुपतिर्मुने ।। ७८ ।।
सर्वत्र चाप्रतिहता गतिश्चास्तु तवानघ ।।
भवान्देवैस्तु वा न स्यादत ऊर्ध्वं द्विजोत्तम ।। ७९ ।।
निरामयोऽमृतीभूतश्चरिष्यति विभुः सुखी ।।
लोकेषु सप्तसु विभो त्र्यम्बकेन सहाच्युत ।। 214.८० ।।
इत्युक्तस्त्रिदशैर्नन्दी पुनस्तान्प्रत्युवाच ह ।।
नन्दिकेश्वर उवाच ।।
यद्भवद्भिः प्रियं सर्वैः प्रीतिमद्भिः सुरोत्तमैः ।। ८१ ।।
आशिषाऽनुगृहीतोऽस्मि नियोज्योऽहं सदा हि वः ।।
ब्रूत यूयं किमस्माभिः कर्त्तव्यं भवतामिह ।। ८२ ।।
आज्ञापयध्यमाज्ञप्तस्तस्माद्विबुधसत्तमाः ।।
तस्य तद्वचनं श्रुत्वा शक्रः प्रोवाच तं तदा ।। ८३ ।।
शक्र उवाच।।
कुत्रासौ प्रस्थितो भद्र कुत्र वा स गतोऽपि वा ।।
पश्यामो विप्र तं सर्वे देवानामधिपं विभुम् ।। ८४ ।।
स्थाणुमुग्रं शिवं देवं शर्वमेव स्वयं मुने ।।
यदि जानासि भगवानीश्वरो यत्र तिष्ठति ।।८५।।
तत्स्थानं नः समाख्याहि महर्षे शीघ्रमेव हि ।।
तच्छ्रुत्वा वचनं धीमदीरितं वज्रपाणिना ।।८६।।
प्रत्युवाच ततः शक्रं नन्दी पशुपतिं स्मरन् ।।
नन्दिकेश्वर उवाच ।।
श्रोतुमर्हसि देवेन्द्र यथातत्त्वं दिवस्पते ।।८७।।
अस्मिन्गिरौ मुञ्जवति स्थाणुरभ्यर्च्चतो मया ।।
प्रीतोऽसौ मां वरैर्दिव्यैरनुगृह्य हरः प्रभुः ।।८८
प्रीतो विनिर्गत इतस्तं विज्ञातुं बिभेम्यहम्।।
यद्याज्ञापयसे देवं चाहं त्वच्छासने स्थितः ।।८९।।
मार्गयामो हि यत्नेन भगवन्तं तु वासव ।। 214.९० ।।
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये नन्दिकेश्वरवरप्रदानं नाम चतुर्दशाधिकद्विशततमोऽ ध्यायः ।। २१४ ।।