वराहपुराणम्/अध्यायः १७२
← अध्यायः १७१ | वराहपुराणम् अध्यायः १७२ [[लेखकः :|]] |
अध्यायः १७३ → |
श्रीवराह उवाच ।।
गोकर्णस्तु तथा चक्रे तस्मिन्नायतने शुभे ।।
प्रथमेऽह्नि यथा कृत्यमेवमेव त्रयोदश ।। १ ।।
ता देव्यो नृत्यगीतेषु कुशलाश्चागमेऽभवन् ।।
सुरूपाश्च स्वलंकारा रमयन्ति दिनेदिने ।। २ ।।
गोकर्णः सर्वभावेन गृहं विस्मृतवानसौ ।।
तथैकदा स गोकर्णस्ता देव्यश्च हतौजसः ।। ३ ।।
विवर्णं वदना दीना भग्नालंकारवाससः ।।
हीनांगा लुंचितशिरः केशपक्ष्मनखादयः ।। ४ ।।
दृश्यन्ते विकृताकाराः सव्रणा रुधिरस्रवाः ।।
ता दृष्ट्वाऽतीवदुःखार्त्ताश्चक्रे मनसि वेदनाम् ।। ५ ।।
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।।
मम सङ्गादिमा देव्यो दशमीं च दशां गताः ।। ६ ।।
एवं ज्ञात्वा स पप्रच्छ तासां रूपविपर्ययम् ।।
कथयध्वं महाभागाः किमेतद्रूपव्यत्ययम् ।। ७ ।।
देव्य ऊचुः ।।
अप्रष्टव्यं महाभाग दैवः सर्वेषु कारणम् ।।
कालात्मकः स भगवान्भुज्यते सुकृतं यतः ।। ८ ।।
स एव नित्यकालं च पृच्छति स्म तदुत्तरम् ।।
दुःखार्त्तस्य सुदीनस्य न जल्पन्त्यतिदुःखिताः ।। ९ ।।
निश्चयार्थं पुनः सोऽथ गोकर्णस्ताः प्रणम्य च ।।
पृच्छत्याग्रहरूपेण निश्चयं विन्दते यथा ।। 172.१० ।।
यदि गोप्यं ममार्त्तस्य वैरूप्यं कथयिष्यथ ।।
अगाधे दुस्तरे प्राणांस्त्यक्ष्याम्यद्य सुदुःखितः ।। ११।।
एवमुक्ते तदा तासां मध्ये एकाऽब्रवीदिदम् ।।
दुःखं तस्य समाख्येयं यो विनाशयते रुजम् ।।१२।।
शृणु वत्स वदिष्येऽहं विरूपकरणं यथा ।।
अस्माकं च समुत्पन्नमेकचित्तोऽवधारय ।। १३ ।।
आस्ते मधुपुरी रम्या नृणां मुक्तिप्रदायिनी ।।
अयोध्याधिपतिर्वीरश्चतुरङ्गबलान्वितः ।।१४।।
चातुर्मास्यं तीर्थसेवी स गतो भक्तिपूर्वकम् ।।
विष्णोर्देवस्य चागारं पञ्चसंख्यासमन्वितम् ।। १५ ।।
आरामवाटिकाः शुभ्राः प्राकारवरवेष्टिताः ।।
कूपप्रावर्त्तकोपेताः पुष्पजात्यः सुवासिताः ।।१६।।
फलवन्तो द्रुमास्तस्मिन्सर्वर्त्तुसुमनोहराः ।।
तस्याभ्याशे स राजर्षिश्चकारावासमुत्तमम् ।। १७ ।।
सेवकैर्नाशितः सर्वं आरामः सफलद्रुमः ।।
प्राकारपरिखा चैव स्थण्डिलप्रतिमा कृता ।। १८ ।।
बहुधा वार्यमाणैस्तु पापबुद्धिसमाश्रितैः ।।
एवं तेन कृतं तत्र सोऽपि दैववशङ्गतः ।।१९।।
पञ्जरस्थो यथा सिंहः कोऽस्मांस्त्राता भवेदिति ।।
पिधायाञ्जलिना वक्त्रमश्रुक्लिन्नस्तनान्तरा ।। 172.२० ।।
रुरोदोच्चैः स्वरं दीना हा कष्टमिति जल्पती ।।
सर्वासां रुदतीनां च कुररीणामिव स्वनः ।। २१ ।।
श्रूयते बहुधाकारो गोकर्णोऽप्यतिदुःखितः ।।
एकैकस्यास्तु चक्रेऽसौ मूर्ध्ना पादाभिवन्दनम् ।। २२ ।।
प्राञ्जलिर्दीनया वाचा सान्त्वयामास ताः शनैः ।।
प्राप्तसंज्ञास्तु ताः सर्वाः गोकर्णोऽप्याह सुस्वनः ।। २३ ।।
भविता यदि तत्राहं राजानं तं निवारयम् ।।
किं करिष्यामि दैवेन समर्थोऽप्यवसादितः ।।२४।।
इत्युक्तमात्रे वचने ताः सर्वा लब्धचेतसः ।।
ऐक्यभावेन ताः सर्वाः पप्रच्छुर्वणिजं प्रति ।।
कस्त्वं कथय कस्माच्च स्थानाद्यत्त्वमिहागतः ।। २५ ।।
गोकर्ण उवाच ।।
गोकर्णोऽहं सुचार्वास्यः सुकपोलो ऽब्रवीन्मया ।।
पूर्वं दृष्टा भवत्यो वै चार्वंग्यश्चारुलोचनाः ।। २६ ।।
इदानीं मलिना जाता मम शोकविवर्द्धनाः ।।
कथयध्वं ममात्मानमत्र हेतुमनन्तरम् ।। २७ ।।
ज्येष्ठा सोवाच तस्याग्रे पुष्पजात्या स्वलंकृताः ।।
वयमारामसंस्थाश्च स्वामिना परिपालिताः ।। २८ ।।
हृद्यवेषाः सुचार्वंग्यः पुष्पवृद्धिरताः तदा ।।
पूर्वं द्रष्टाः सुरूपाश्च विपर्ययमथो शृणु ।। २९ ।।
राजलोकैः पीडिताश्च च्छेदनोन्मूलनेन च ।।
पीडिता भृशमुद्विग्नास्तेनेदानीं सकल्मषाः ।। 172.३० ।।
पुष्पमालाविहीनाश्च मूलस्कन्धावशेषिताः ।।
एवंविधाश्च संभूता नष्टसंज्ञाः स्थिता वयम् ।। ३१ ।।
यो देवस्तत्र पाषाणो मृत्पिण्डेष्टकयन्त्रितः ।।
सोऽत्र सत्त्वमयः साक्षी तस्य पुण्यस्य कर्मणि ।। ३२।।
पुण्यं सोदकपूर्णोऽयं तस्यारामस्य सेचकम् ।।
सरश्चोत्पलपूर्णं च कलहंसैर्युतं सदा ।। ३३ ।।
ये च वृक्षाः फलोपेतास्ते सौवर्णाश्च सत्तम ।।
एता रक्षन्ति सततमारामं सुखदं नृणाम् ।।
तस्या नाशाद्यथा नोऽत्र जातेयं च विरूपता ।।३४।।
गोकर्ण उवाच ।।
आरामकर्तुः किं चात्र फलं भवति यादृशम् ।।
करणात्कूपदेवानां तस्य पुण्यफलं वद ।। ३५ ।।
ज्येष्ठोवाच ।।
इष्टापूर्त्तं द्विजातीनां प्रथमं धर्मसाधनम् ।।
इष्टेन लभते स्वर्गं पूर्त्ते मोक्षं च विन्दति ।। ३६ ।।
वापीकूपतडागानि देवतायतनानि च ।।
पतितान्युद्धरेद्यस्तु स पूर्त्तफलमश्नुते ।। ३७।।
भूमिदानेन ये लोका गोदानेन च कीर्त्तिताः ।।
ते लोकाः प्राप्यते पुंभिः पादपानां प्ररोहणे ।।३८।।
अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश पुष्पजातीः ।।
द्वे द्वे तथा दाडिममातुलिंगे पंचाम्ररोपी नरकं न याति ।। ३९ ।।
यथा सुपुत्रः कुलमुद्धरेद्धि यथाऽतिकृच्छ्रान्नियमप्रयत्नात् ।।
तथाऽत्र वृक्षाः फलपुष्पभूताः स्वं स्वामिनं नरकादुद्धरन्ति ।।172.४० ।।
गोकर्ण उवाच ।।
इन्धनार्थं यदानीतमग्निहोत्रं तदुच्यते ।।
छायाविश्रामपथिकैः पक्षिणां निलयेन च ।। ४१ ।।
पत्रमूलत्वगाद्यैश्च औषधार्थं तु देहिनाम् ।।
उपकुर्वन्ति वृक्षस्य पंचयज्ञः स उच्यते ।। ४२ ।।
गृहकृत्यानि काष्ठानि क्षुद्रजन्तुगृहास्तथा ।।
यत्र निर्वर्त्तनं प्रोक्तं भिक्षा पत्रैः समीकृता ।। ४३ ।।
फलन्ति वत्सरे मध्ये द्विवारं शकुनादयः ।।
सांवत्सरं पितुर्मातुरुपकारं फलैः कृतम् ।।
एवं पुत्रसमारोपा एवं तत्त्वविदो विदुः ।। ४४ ।।
श्रीवराह उवाच ।।
एवमुक्तस्तया देव्या मालत्या पुष्पजातया ।।
हा कष्टं कथमित्येव मुमोह च पपात ह ।। ४५ ।।
ताभिराश्वासितो धीमान्ससंज्ञो वारिणोक्षितः ।।
आत्मानं कथयास्माकं यस्माच्च त्वमुपागतः ।। ४६ ।।
गोकर्ण उवाच ।।
वृद्धौ च मातापितरौ साधु भार्याचतुष्टयम् ।।
मथुरायां ममैवतदुद्यानं देवतागृहम् ।।४७।।
यदि तत्र गतश्चाहं पितृराज्ञोस्तु सन्निधौ ।।
इमामापदमापन्ना यूयं तद्वै निवेदये ।।४८।।
ज्येष्ठा प्रोवाच नेष्यामि यदि ते रोचतेऽनघ ।।
अद्यैव मथुरां देवीमवेक्ष्यामोऽधिगम्यताम् ।। ४९ ।।
विमानप्रतिमाकारं यानमारुह्य सत्वरः ।।
दिव्यानीमानि रत्नानि भूषणानि फलानि च ।। 172.५० ।।
गृह्णीष्वोपायनं राज्ञे तस्मै त्वं देह्यनर्घ्यकम् ।।
आरुह्य स तथेत्युक्त्वा नमस्कृत्य हरिं च ताः ।।५१।।
उत्पपात ततः स्थानाद्यत्र राजा व्यवस्थितः ।।
राज्ञे निवेदयामास रत्नानि सुबहूनि च ।। ५२ ।।
राजा दर्शनमात्रेण सन्तुष्टः सोब्रवीदिदम् ।।
स्वागतं ते महाभाग संमान्य परिपूज्य च ।। ५३ ।।
अर्द्धासने कृतः प्रीत्या रत्नदो धनदो यथा ।।
अस्मात्स्थानादिदानीञ्च अपसर्प्य क्षणान्तरे ।। ५४ ।।
आश्चर्यं दर्शयिष्यामि कथयिष्यामि चापि भोः ।।
स तथेति प्रतिश्रुत्य सेनापतिमुवाच ह ।। ५५ ।।
मुहूर्त्तार्द्धाद्यथा याति सैन्यं तच्च तथा कुरु ।।
क्षिप्रं तत्प्रतिपद्यस्व न कालोऽत्यभ्यगाद्यथा ।। ५६ ।।
कृतं तेन तथा सर्वं यथा राज्ञा हि भाषितम् ।।
ता देव्यो दिव्यरूपाश्च विमानकृतरूपकाः ।। ५७ ।।
साधु साध्विति गोकर्णं प्रशशंसुः पुनः पुनः ।।
वरं दत्त्वा यथाकामं स्वस्तीत्युक्त्वा दिवं ययुः ।। ५८ ।।
गोकर्णस्तु तदाचक्षे तत्सर्वं नृपतेः सुखी ।।
सर्वं तच्चात्मचरितं पूर्त्तधर्मस्य यत् फलम् ।। ५९ ।।
राज्ञा तस्मै प्रदत्ताश्च ग्रामाश्चैव पुराणि च ।।
वस्त्राणि च गजाश्चैव वाजिनोऽन्यधनं बहु ।। 172.६० ।।
आश्चर्यं परमं धर्ममारामस्य महत् फलम् ।।
श्रुत्वा सर्वं चकारासौ सार्वभौमो महीपतिः ।।६१ ।।
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये द्विसप्तत्यधिकशततमोऽध्यायः ।। १७२ ।।