वराहपुराणम्/अध्यायः १५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५२ वराहपुराणम्
अध्यायः १५३
[[लेखकः :|]]
अध्यायः १५४ →

अथ मथुरातीर्थमाहात्म्यम् ।।
श्रीवराह उवाच ।।
उत्तरे शिवकुण्डाच्च तीर्थानां नवकं स्मृतम् ।।
नवतीर्थात्परं तीर्थं न भूतं न भविष्यति।।१ ।।
तत्रैव स्नानमात्रेण सौभाग्यं जायते परम् ।।
रूपवन्तः प्रजायंते स्वर्गलोके न सशंयः ।। २ ।।
तस्मिन् स्नातो नरो देवि मम लोके प्रपद्यते ।।
तत्र संयमनं नाम तीर्थं त्रैलोक्यविश्रुतम् ।। ३ ।।
तत्र स्नातो मृतो वापि मम लोकं स गच्छति।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।४।।
तस्मिन् संयमने तीर्थे यद्यद्वृत्तं पुरातनम् ।।
कश्चित्पापसमाचारो निषादो दुष्टमानसः ।। ५।।
वसते नैमिषारण्ये सुप्रतीतेऽतिपापकृत्।।
केनचित्त्वथ कालेन सोऽगच्छन्मथुरां प्रति ।।६ ।।
तत्र प्राप्य च कालिन्दीं कृष्णपक्षे चतुर्दशीम् ।।
स निषादस्तर्त्तुकामस्तस्यां चैव तिथौ ततः।।७।।
ततार यमुनां सोऽथ प्राप्य संयमनं शुभे ।।
ममज्जासौ ततः पापस्तस्मिंस्तीर्थे वरे शुभे।।८।।
मग्नमात्रस्ततः पापः सद्यः प्राणैर्व्ययुज्यत ।।
तत्तीर्थस्य प्रभावेण जातोऽसौ पृथवीपतिः।।९।।
सौराष्ट्रविषये देवि क्षत्रियोऽभूद्धनुर्द्धरः ।।
नाम्ना यक्ष्मधनुर्नाम सोऽभवत्प्रियदर्शनः ।।153.१० ।।
पालयामास वसुधां क्षत्रधर्मं समाश्रितः ।।
तेनोढा काशिराजस्य पीवरी नामतः शुभा।।११।
पत्नी शतानां मुख्यानां प्रवरा सा वसुन्घरे।।
तां चैव रमयामास उद्यानेषु वनेषु च।।१२।।
प्रासादेषु च रम्येषु नदीनां पुलिनेषु च।।
प्रजाः पालयतस्तस्य दानानि ददतस्तथा ।।१३।।
कालो गच्छति राजा तु भोगासक्तिं च विंदति।।
भोगासक्तस्य वसुधे वर्षाणि सप्तसप्ततिः।।१४।।
पुत्राः सप्त तथा जाताः कन्याः पंच सुशोभनाः ।।
राज्ञां पंचसुता दत्ताः कन्याः कमललोचनाः ।।१५।।
पुत्रान्संस्थापयामास स्थानेषु वसुधाधिपान् ।।
पीवर्या सह सुप्तः स रात्रौ च वसुधाधिपः ।। १६ ।।
तत्र प्रबुद्धो नृपतिर्हाहेति वदते मुहुः ।।
स्मृत्त्वा तु मथुरां देवि स्मृत्वा संयमनं परम् ।।१७।।
तत सा पीवरी प्राह किमेवं भाषसे नृप ।।
प्रियाया वचनं श्रुत्वा राजा वचनमब्रवीत् ।।१८।।
मत्तः सुप्तः प्रमत्तश्च असम्बद्धं प्रभाषते ।।
निद्रावशस्य वचनं न सम्प्रष्टुं त्वमर्हसि ।। १९ ।।
पीवर्युवाच ।।
कथयस्व ममाद्य त्वं यद्यहं वल्लभा तव ।।
प्राणांस्त्यक्ष्याम्यहं देव गोपयिष्यसि मे यदि ।। 153.२० ।।
प्रियाया वचनं श्रुत्वा प्रत्युवाच नराधिपः ।।
अवश्यं यदि वक्तव्यं गच्छावो मथुरां पुरीम् ।। २१ ।।
तत्र गत्वा यथातत्त्वं वदिष्यामि शुभानने ।।
ददस्व विपुलं दानं ब्राह्मणेभ्यः सुलोचने ।। २२।।
पुत्रान्संस्थाप्य दौहित्रान्स्वे स्थाने शुभान्प्रिये ।।
ग्रामांश्च कोशं रत्नानि पुत्रान्वीक्ष्य पुनः पुनः ।। २३ ।।
ततः सम्मानयामास जनं पुरनिवासिनम् ।।
पितृपैतामहं राज्यं पालनीयं यथाक्रमम् ।। २४ ।।
राज्ये पुत्रान्नियोक्ष्यामि यदि वो रोचतेऽनघाः ।।
राज्यपुत्रकलत्राणि बन्धुवर्गं तथैव च ।। २५ ।।
नित्यमिच्छन्ति वै लोको यमस्येच्छन्ति नान्यथा ।।
एवं ज्ञात्वा प्रसन्नेन कर्त्तव्यं चात्मनो हितम् ।।२६।।
तस्मात्सर्वप्रयत्नेन गच्छावो मथुरां पुरीम् ।।
अहो कष्टं यदस्माभिः पुरा राज्यमनुष्ठितम् ।।२७।।
इदानीं तु मया ज्ञातं त्यागान्नास्ति परं सुखम् ।।
नास्ति विद्यासमं चक्षुर्नास्ति चक्षुस्समं बलम् ।। २८ ।।
नास्ति रागसमं दुःखं नास्ति त्यागात्परं सुखम् ।।
यः कामान्कुरुते सर्वान्यश्चैतान्केवलांस्त्यजेत् ।।२९।।
प्रायेण सर्वकामानां परित्यागो विशिष्यते ।।
अभिषिच्य सुतं ज्येष्ठमनुयोज्य परान्बहून् ।। 153.३० ।।
ततः पौरजनं दृष्ट्वा चतुरङ्गबलान्वितः ।।
ततः कालेन महता सम्प्राप्तो मथुरां पुरीम् ।। ३१ ।।
तेन दृष्टा पुरी रम्या वासवस्य पुरी यथा ।।
तीर्थैर्द्वादशभिर्युक्ता पुण्या पापहरा शुभा ।।३२।।
रम्यं मधुवनं नाम विष्णुस्थानमनुत्तमम् ।।
तं दृष्ट्वा मनुजो देवि कृतकृत्यो हि जायते ।। ३३ ।।
एकादशी शुक्लपक्षे मासि भाद्रपदे तथा ।।
तस्यां स्नातो नरो देवि कृतकृत्यो हि जायते ।। ३४ ।।
वनं कुन्दवनं नाम तृतीयं चैवमुत्तमम् ।।
तत्र गत्वा नरो देवि कृतकृत्यो हि जायते ।। ३५ ।।
एकादशी कृष्णपक्षे मासि भाद्रपदे हि वा ।।
तत्र स्नातो नरो देवि रुद्रलोके महीयते ।।३६।।
चतुर्थं काम्यकवनं वनानां वनमुत्तमम्।।
तत्र गत्वा नरो देवि मम लोके महीयते ।। ३७ ।।
विमलस्य च कुण्डे तु सर्वपापैः प्रमुच्यते ।।
यस्तत्र मुंचते प्राणान्मम लोकं स गच्छति ।।३८ ।।
पंचमं बकुलं नाम वनानामुत्तमं वनम् ।।
तत्र गत्वा नरो देवि अग्निस्थानं स गच्छति ।। ३९ ।।
यमुनायाः परे पारे देवानामपि दुर्ल्लभम् ।।
अस्ति भद्रवनं नाम षष्ठं वनमनुत्तमम् ।। 153.४० ।।
तत्र गत्वा तु वसुधे मद्भक्तो मत्परायणः ।।
तद्वनस्य प्रभावेण नागलोकं स गच्छति ।। ४१ ।।
सप्तमं तु वनं भूमे खादिरं लोकविश्रुतम् ।।
तत्र गत्वा नरो भद्रे मम लोकं स गच्छति ।। ४२ ।।
महावनं चाष्टमं तु सदैव तु मम प्रियम् ।।
यत्र गत्वा तु मनुज इन्द्रलोके महीयते ।। ४३ ।।
लोहजङ्घवनं नाम लोहजङ्घेन रक्षितम् ।।
नवमं तु वनं नाम सर्वपातकनाशनम् ।। ४४ ।।
वनं बिल्ववनं नाम दशमं देवपूजितम् ।।
तत्र गत्वा तु मनुजो ब्रह्मलोके महीयते ।। ४५ ।।
एकादशं तु भाण्डीरं योगिनः प्रियमुत्तमम् ।।
तस्य दर्शनमात्रेण नरो गर्भं न गच्छति ।।४६।।
भाण्डीरं तमनुप्राप्य वनानां वनमुत्तमम् ।।
वासुदेवं ततो दृष्ट्वा पुनर्जन्म न विद्यते ।। ४७ ।।
वृन्दावनं द्वादशकं वृन्दया परिरक्षितम् ।।
मम चैव प्रियं भूमे महापातकनाशनम् ।। ४८।।
वृन्दावनं च गोविन्दं ये पश्यन्ति वसुन्धरे ।।
न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ।। ४९ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे मथुरामाहात्म्ये मथुरातीर्थमाहात्म्यं नाम त्रिपंचाशदधिकशततमोऽध्यायः ।। १५३ ।।