वराहपुराणम्/अध्यायः १३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३६ वराहपुराणम्
अध्यायः १३७
[[लेखकः :|]]
अध्यायः १३८ →

अथ गृध्रजम्बुकाख्यानम् । तत्रादित्यवरप्रदानम् ।।
सूत उवाच ।।
श्रुत्वा तु विपुलं ह्येतदपराधविशोधनम् ।।
कर्म भागवतं श्रेष्ठं सर्वभागवत प्रियम् ।। १ ।।
अहो कर्म महाश्रेष्ठं भगवंस्तव भाषितम् ।।
मम चैव प्रियार्थाय तव भक्तसुखावहम् ।। २ ।।
श्रुतं ह्येव महाबाहो सर्वधर्मार्थ साधकम्।।
तव भक्तसुखार्थाय तद्भवान्वक्तुमर्हति।।३।।
किमुच्यते व्रतं चैव शुभं कुब्जाम्रकं महत् ।।
कतरच्चापि तच्छ्रेष्ठं क्षेत्रं भक्तसुखावहम् ।।४।।
श्रीवराह उवाच ।।
शृणु मे परमं गुह्यं यत्त्वया पृच्छितं मम ।।
मम क्षेत्रं परं चैव शुद्धं भागवतप्रियम् ।।९।।
परं कोकामुखं स्थानं तथा कुब्जा म्रकं परम् ।।
परं सौकरवं स्थानं सर्वसंसारमोक्षणम् ।। ६ ।।
यत्र संस्था च मे देवि ह्युद्धृतासि रसातलात् ।।
यत्र भागीरथी गङ्गा मम सौकरवे स्थिता ।। ७ ।।
धरोवाच ।।
केषु लोकेषु यान्तीश सौकरे ये मृताः प्रभो ।।
किं वा पुण्यं भवेत्तत्र स्नातस्य पिबतस्तथा ।। ८ ।।
कति तीर्थानि पद्माक्ष क्षेत्रे सौकरवे तव ।।
धर्मसंस्थापनार्थाय तद्विष्णो वक्तुमर्हसि ।। ९ ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि यत्त्वं मां परिपृच्छसि ।।
यां गतिं ते प्रपद्यन्ते नराः सौकरवे मृताः।।१३७.१० ।।
यत्र स्नातस्य यत्पुण्यं गतस्य च मृतस्य च।।
यत्र यानि च तीर्थानि मम संस्थानसंस्थिताः।।११।।
शृणु पुण्यं महाभागे मम क्षेत्रेषु सुन्दरि ।।
प्राप्नुवन्ति महाभागे गता सौकरवं प्रति ।। १२ ।।
दश पूर्वापराश्चापि अपरे सप्त पंच च ।।
स्वर्गं गच्छन्ति पुरुषास्तेषां ये तत्र वै मृताः ।। १३ ।।
गमनादेव सुश्रोणि मुखस्य मम दर्शनात् ।।
सप्तजन्मान्तरे भद्रे जायते विपुले कुले ।। १४ ।।
धनधान्यसमृद्धेषु रूपवान्गुणवान् शुचिः ।।
मद्भक्तश्चैव जायेत मम कर्मपरायणः ।। १५ ।।
एवं वै मानुषो भूत्वा अपराधविवर्जितः ।।
गमनं तस्य क्षेत्रस्य मरणं तत्र कारणम् ।।१६।।
ये मृतास्तस्य क्षेत्रस्य सौकरस्य प्रभावतः ।।
शङ्खचक्रगदापद्मधनुर्हस्ताश्चतुर्भुजाः ।।१७।।
त्यक्त्वा कलेवरं तूर्णं श्वतेद्द्वीपं प्रयान्ति ते ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। १८ ।।
तीर्थेषु तेषु स्नातश्च यां प्राप्नोति परां गतिम् ।।
चक्रतीर्थं महाभागे यत्र चक्रं प्रतिष्ठितम् ।। १९ ।।
शृणु पुण्यं तत्र भद्रे प्राप्नोति परमं नरः ।।
चक्रतीर्थे नरो गत्वा नियतो नियताशनः ।। १३७.२० ।।
वैशाख द्वादशीं प्राप्य स्नायाद्यो विधिपूर्वकम् ।।
दशवर्षसहस्राणि दश वर्षशतानि च ।। २१ ।।
धनधान्यसमृद्धो हि जायते विपुले कुले ।।
मद्भक्तश्चापि जायेत मम कर्मपरायणः ।। २२ ।।
अपराधं वर्जयति दीक्षितश्चैव जायते ।।
भूत्वा वै मानुषस्तत्र तीर्थे संसारसागरम् ।। २३ ।।
तीर्त्वा चक्र गदाशंखपद्मपाणिश्चतुर्भुजः ।।
मम रूपधरः श्रीमान्मम लोके महीयते ।। २४ ।।
चक्रतीर्थे विशालाक्षि मरणे कृतकृत्यतः ।।
एतच्छ्रुत्वा वचस्तस्य श्रोतुकामा वसुन्धरा ।। २५ ।।
शिरस्यञ्जलिमाधाय श्लक्ष्णमेतदुवाच ह ।।
तत्र सौकरवे तीर्थे चन्द्रमास्त्वामतोषयत् ।। २६ ।।
एतदाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ।।
वसुधाया वचः श्रुत्वा विष्णुर्मायाकरण्डकः ।। २७ ।।
उवाच वाक्यं मेदिन्याः मेषदुन्दुभिनिःस्वनः ।।
शृणु भूमे प्रयत्नेन कथ्यमानं मयानघे ।। २८ ।।
तस्य वै कारणं येन तेन चाराधितोस्म्यहम् ।।
तस्य प्रीतोऽस्म्यहं देवि विशुद्धेनान्तरात्मना ।।२९।।
दर्शितश्च मया ह्यात्मा यो हि देवेषु दुर्लभः ।।
रूपं सोमेन तद्दृष्ट्वा विसंज्ञस्तदनन्तरम् ।।१३७.३०।।
मां स द्रष्टुं न शक्नोति मम तेजःप्रमोहितः ।।
ततो निमीलिताक्षेण कृत्वा शिरसि चाञ्जलिम् ।। ३१ ।।
न शक्नोति तथा वक्तुं भीरुः सन्त्रस्तलोचनः ।।
एवमेतद्विचेष्टन्तं ब्राह्मणानामपीश्वरम्।।३२।।
वाणीं सूक्ष्मां समादाय स सोमो चोदितो मया ।।
किं वा फलं समुद्दिश्य तप्यसे सुमहत्तपः ।।३३।।
ब्रूहि तत्वेन मे सोम यत्ते मनति वर्त्तते ।।
सर्वं सम्पादयिष्यामि त्वत्प्रसादान्न संशयः ।।३४।।
मम वाक्यं ततः श्रुत्वा ग्रहाणां प्रवरेश्वरः।।
उवाच मधुरं वाक्यं सोमतीर्थमवस्थितः ।।३५।।
भगवन् यदि तुष्टोऽसि मम चात्र गतः प्रभो।।
योगनाथो जगच्छ्रेष्ठः सर्वयोगीश्वरेश्वरः।।३६।।
यावल्लोका धरिष्यन्ति तावत्त्वयि जनार्दन ।।
अतुला त्वयि मे भक्तिर्भवेन्नित्यं सुनिश्चला।।३७।।
यच्चापि मम तद्रूपं त्वया संस्थापितं प्रभो ।।
सप्तद्वीपेषु दृश्येत तत्र तत्रैव संस्थितम् ।।३८।।
सोम इत्येव यज्ञेषु पिबन्तु मम ब्राह्मणाः।।
गतिः पारमिका तेषां दिव्या विष्णो भवेद्यथा।।३९।।
क्षीणस्तत्र त्वमावस्यां तत्र पिण्डपितृक्रियाः।।
प्रवर्त्तन्ते यथान्यायं भवेयं सौम्यदर्शनः।।१३७.४० ।।
अधर्मे च न मे बुद्धिर्भवेद्विष्णो कदाचन।
पतित्वं चाथ गच्छेयमोषधीनां तथा कुरु ।।४१।।
यदि तुष्टो महादेव आदिमध्यान्त वर्जितः ।।
मम चैव प्रियार्थाय एतन्मे दीयतां वरः ।। ४२ ।।
ततः सोमवचः श्रुत्वा तत्रैवान्तर्हितोऽभवम् ।।
एवं तप्तं महाभागे तपः सोमेन निश्च यात् ।।४३।।
प्राप्ता च परमा सिद्धिः सोमतीर्थेऽन्यदुर्ल्लभा ।।
स्नायाद्यः सोमतीर्थे तु मम कर्मपरायणः ।।४४।।
अष्टमेन तु भक्तेन मम कर्मविधौ स्थितः ।।
फलं तस्य प्रवक्ष्यामि सोमतीर्थे नरस्य यत।।४५।।
यत्र तप्तं तपस्तेन सोमेन सुमहात्मना ।।
पञ्चवर्षसहस्राणि एकपादेन तिष्ठता ।।४६।।
पञ्चवर्षसहस्राणि तथैवोर्द्ध्वमुखः स्थितः ।।
एवमुग्रं तपः कृत्वा कान्तिमानभवच्च सः ।।४७।।
ममापराधान्मुक्तश्च ब्राह्मणानां पतिस्तथा ।।
एवमेव महाभागे सोमतीर्थे कृतोदकः ।।४८।।
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ।।
जायते ब्राह्मणः सुभ्रु वेदवेदाङ्गपारगः ।।४९ ।।
द्रव्यवान्गुणवांश्चैव संविभागी यशस्विनि ।।
मद्भक्तश्चैव जायेत अपराधविवर्जितः ।।१३७.५० ।।
स एष ब्राह्मणो भूत्वा संसाराद्विप्रमुच्यते ।।
तस्य चिह्नं प्रवक्ष्यामि सोम तीर्थस्य सुन्दरि ।। ५१ ।।
तत्तीर्थं येन विज्ञेयं मम मार्गानुसारिणा ।।
वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादशी ।। ५२ ।।
प्रवृत्ते चान्धकारे तु यत्र कश्चिन्न दृश्यते।।
सोमेन च विना भूमिर्दृश्यते चन्द्रसप्रभा ।। ५३।।
आलोकश्चैव दृश्येत सोमस्तत्र न दृश्यते ।।
एवं त्वां वच्मि हे भद्रे एष ३ विस्मयः परः ।। ५४ ।।
एतच्चिह्नं महाभागे पुण्ये सौकरवे मम ।।
सौमतीर्थे विशालाक्षि येन मुच्यन्ति जन्तवः ।। ५५ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
प्रभावमस्य क्षेत्रस्य विस्मयं परमं महत् ।। ५६ ।।
अकामा तु मृता तीर्थे आत्मनः कर्मनिश्चयात् ।।
मम क्षेत्रप्रभावेण सृगाली मानुषी भवेत् ।। ५७ ।।
राजपुत्री विशालाक्षी श्यामा सर्वाङ्गसुन्दरी ।।
गुणवद्रूपसम्पन्ना चतुःषष्टिकलान्विता ।।५८।।
तस्य पूर्वेण पार्श्वेन तीर्थं गृध्रवटं स्मृतम् ।।
यत्राकामो मृतो गृध्रो मानुषत्वमुपागतः ।। ५६ ।।
वाक्यं नारायणाच्छ्रुत्वा धरणी शुभलक्षणा ।।
उवाच मधुरं वाक्यं विष्णुभक्तसुखावहम् ।। 137.६० ।।
अहो तीर्थप्रभावो वै त्वया प्रोक्तो महान्मम ।।
यस्य देव प्रभावेण तिर्यग्योनित्वमागतौ ।।
गृध्रश्चैव सृगाली च प्राप्तौ वै मानुषीं तनुम् ।।६१ ।।
स्नानेन तत्र तीर्थे च मरणाद्वा जनार्दन ।।
कां गतिं वै प्रपद्यन्ते तन्ममाचक्ष्व केशव ।।६२।।
चिह्नं च कीदृशं तेषां जायन्ते येन ते तथा ।।
अकामावपि तौ क्षेत्रे प्राप्तौ नु परमां गतिम् ।। ६३ ।।
ततो महीवचः श्रुत्वा विष्णुर्धर्मविदां वरः ।।
उवाच मधुरं वाक्यं धर्मकामो वसुन्धराम् ।।६४।।
शृणु तत्त्वेन मे भूमे यन्मां त्वं परिपृच्छसि ।।
उभौ तौ कारणाद्यस्मात्प्राप्तौ वै मानुषीं गतिम।।६५।।
तस्मिन्काले ह्यतिक्रान्ते मम कर्मविनिश्चयात् ।।
त्रेतायुगे ह्युपक्रान्ते ज्ञाते च युगसंस्थितौ ।। ६६।।
तत्र राजा महाभागः स्वधर्मकृतनिश्चयः ।।
ब्रह्मदत्तेति विख्यातः पुरं काम्पिल्लमास्थितः ।। ६७ ।।
तस्य पुत्रो महाभागः सर्वधर्मेषु निष्ठितः ।।
सोमदत्तेति विख्यातः कुमारः शुभलक्षणः ।। ६८ ।।
पित्रर्थे मृगयां यातो मृगलिप्सुर्वने तदा ।।
अरण्ये स तदा गत्वा व्याघ्रसिंहनिषेविते ।।६९ ।।
न तत्र लभते किञ्चित्पितृकार्ये नराधिपः ।।
एवं हि भ्रमतस्तस्य सृगाली दक्षिणे तथा ।। 137.७० ।।
अङ्गमध्ये तु विद्धा सा स्फुरन्ती सर्वमङ्गला ।।
तथा सा बाणसन्तप्ता व्यथया च परिप्लुता ।।७१ ।।
पीत्वा सा सलिलं तत्र वृक्षं शाकोटकङ्गता ।।
आतपेन परिक्लान्ता बाणविद्धातुरा भृशम् ।।७२।।
अकामा मुञ्चती प्राणान् तीर्थं सोमात्मकं प्रति ।।
एतस्मिन्नंतरे भद्रे राजपुत्रः क्षुधार्दितः ।। ७३ ।।
प्राप्तो गृध्रवटं तीर्थं विश्रामं तत्र चाकरोत् ।।
अथ पश्यति गृध्रं स वटशाखां समाश्रितम् ।। ७४ ।।
एकेन स तु बाणेन तया गृध्रो निपातितः ।।
स तत्र पतितो गृध्रो वटमूले यशस्विनि ।। ७५ ।।
गतासुर्नष्टसंज्ञो वै बाणभिन्नस्तथा हृदि ।।
तं दृष्ट्वा पतितं गृध्रं राजपुत्रस्तुतोष ह ।। ७६ ।।
तस्य च्छित्वा ततः पक्षौ गृहीत्वा राजनन्दनः ।।
बाणपक्षान्विधातुं च सोमदत्तो गृहं ययौ ।।७७।।
सोऽपि दीर्घेण कालेन अकामोऽपि मृतः खगः ।।
जातः कलिङ्गराजस्य सुतो गुणविभूषितः ।।७८।।
रूपवान् पण्डितश्चैव प्रजानंदकरः सदा ।।
तस्मिन्राजनि नायासं कोऽपि कुत्रापि विंदति ।।७९।।
या सा सृगाली सञ्जज्ञे कांचीराजस्य वै सुता।।
रूपयुक्ता गुणवती दक्षा सर्वांगसुंदरी ।। 137.८० ।।
चतुःषष्टिकलायुक्ता कोकिलेव सुखस्वरा ।।८१ ।।
एवं प्रवर्त्तिते तत्र कांचीराज्ये कलिङ्गके ।।
हार्दिक्यात्सौहृदात्प्रीतिरन्योऽन्यकुलनिश्चयात् ।। ८२ ।।
भूमे मम प्रसादेन सम्बधोऽजायत स्वतः ।।
अथ दीर्घेण कालेन कांचीराजसुता तथा ।। ८३ ।।
कलिङ्गराजपुत्रेण विधिना तु विवाहिता ।।
कांचीराजस्तयोः प्रीत्या नानारत्नानि चाददत् ।।८४।।
भूषणानि च दिव्यानि गजाश्वमहिषीः स्त्रियः ।।
ततः कलिङ्गराजोऽपि सवधूकं निजं सुतम् ।। ८५ ।।
आदाय स्वगृहं यातस्तेन राज्ञातिमानितः ।।
एवं गच्छति काले वै दम्पत्योस्तुष्यमाणयोः ।।८६।।
अव्युच्छिन्नाऽभवत्प्रीती रोहिणीचंद्रयोरिव ।।
रेमतुस्तौ विहारेषु देवतायतनेषु च ।।८७।।
वने चोपवने चैव ये केचिन्नन्दनोपमाः ।।
भर्त्तारं सा न पश्येच्चेत्कदाचिदपि पार्श्वतः ।। ८८।।
नष्टं मन्येत चात्मानं राजपुत्री यशस्विनि ।।
न चेत्पश्यति भार्यां स्वां सोऽपि राजन्यनन्दनः।।८९।।
आत्मानं मन्यते प्रीत्या नष्टप्रायं वसुन्धरे ।।
दिने दिने तयोरेवं वर्द्धते प्रीतिरुत्तमा।।137.९० ।।
नान्तरं पश्यते कश्चित् पुरुषः पुण्यकर्मणोः ।।
सोऽपि बुद्ध्या सुशीलेन कृतेन च वसुन्धरे ।।९१ ।।
कलिंगस्तोषयामास पौरान्जानपदांस्तथा ।।
अन्तःपुरे तु या नार्यः कलिंगेषु धरे तयोः ।।९२ ।।
ताभ्यां सन्तोषिताः सर्वाः शीलेन स्वगुणैस्तथा।।
एवं प्रवर्द्धिता ताभ्यां प्रीतिः पूर्वं यशस्विनि ।।९३।।
रमते तत्र चान्योन्यं शचीवासवयोरिव ।।
अथ प्रणयपूर्वं सा कांतं सर्वांगसुन्दरी।।९४।।
व्यजिज्ञपद्राजसुतं सौहृदेन यशस्विनी ।।
किंचिदिच्छामि ते वक्तुं राजपुत्र यशोधन ।। ९५ ।।
मम स्नेहात्प्रियं चैव तद्भवान्वक्तुमर्हति ।।
ततो भार्यावचः श्रुत्वा कलिंगस्य सुतः प्रभुः ।। ९६ ।।
उवाच मधुरं वाक्यं पद्मपत्रनिभेक्षणः ।।
यद्वदिष्यसि भद्रे त्वं यच्च तेऽस्ति मनीषितम् ।।९७ ।।
सर्वं ते कथयिष्यामि शपे सत्येन सुन्दरि ।।
सत्यं मूलं ब्राह्मणानां विष्णुः सत्ये प्रतिष्ठितः ।।९८।।
तस्य मूलं तपो राज्ञि राज्यं सत्ये प्रतिष्ठितम् ।।
नाहं मिथ्या प्रवक्ष्यामि कदाचिदपि सुन्दरि ।।९९।।
न मिथ्या पूर्वमुक्तं मे ब्रूहि किं करवाणि ते ।।
हस्त्यश्वरथरत्नानि यानानि च धनानि च ।। 137.१०० ।।
अथवा परमग्र्यं तु पट्टबन्धं करोमि ते ।।
सा भर्तृवचनं श्रुत्वा कांचीराजस्य चात्मजा ।। १०१ ।।
संगृह्य चोभौ चरणौ भर्त्तारमिदमब्रवीत् ।।
न चैव रत्नानीच्छामि हस्त्यश्वरथमेव च ।। २ ।।
पट्टबन्धेन कार्यं च यावद्ध्रियति मे गुरुः ।।
एका स्वपितुमिच्छामि मध्याह्ने तु तथाविधे ।। ३ ।।
न चिरं वाल्पकालं तु यथा कश्चिन्न पश्यति ।।
श्वशुरो यदि वा श्वश्रूर्यथैवान्यो नराधिप ।। ४ ।।
सुप्ता नैव च द्रष्टव्या व्रतमेतन्मुहूर्त्तकम् ।।
आत्मनो वै गृहजना ये केचित्स्वजने जनाः ।। ५ ।।
ते मां प्रसुप्तां पश्येयुः कदाचिदपि संस्थिताम् ।।
ततो भार्यावचः श्रुत्वा कलिङ्गैश्वर्यवर्द्धनः ।। ६ ।।
बाढमित्येव तां वाक्यं प्रत्युवाच वसुन्धरे ।।
विस्रब्धा भव सुश्रोणि कल्याणेन यशस्विनि ।। ७ ।।
न त्वां वै द्रक्ष्यते कश्चिच्छयनीये महाव्रताम् ।।
एवं गच्छति काले तु तयोस्तु तदनन्तरे ।। ८ ।।
कलिङ्गो जरया युक्तो पुत्रं राज्येऽभ्यषेचयत् ।।
राज्यं दत्त्वा वरारोहे यथान्यायं कुलोद्भवम् ।। ९ ।।
कृत्वा निष्कण्टकं राज्यं दत्त्वा पंचत्वमागतः ।।
एवं प्रभुस्ततो राज्यं पितुर्दत्तं यथोचितम् ।। 137.११० ।।
एकाकी स्वपते तत्र यत्र कश्चिन्न पश्यति ।।
स तु दीर्घेण कालेन कलिङ्गकुलवर्द्धनः ।। ११ ।।
सुतानजनयत्पंच आदित्यसमतेजसः ।।
एवं तु मानुषं लोकं मम मायाप्रमोहितम् ।। १२ ।।
आत्मकर्मसु संयुक्तं चक्रवत्परिवर्त्तते ।।
जातो जन्तुर्भवेद्बालो बालस्तु तरुणो भवेत् ।।१३।।
तरुणो मध्यमं याति पश्चाद्याति जरां ततः ।।
बालो वै यानि कर्माणि करोत्यज्ञानतः स्वयम् ।। १४ ।।
न स लिप्यति पापेन एवमेतन्न संशयः ।।
ततः करिष्यतो राज्यं निष्कण्टकमनामयम् ।। १५।।
सप्तसप्ततिवर्षाणि ह्यतीतानि यशस्विनि ।।
अष्टसप्ततिके वर्षे एकान्ते तु नराधिपः ।। १६ ।।
तमेव चिन्तयन्नर्थं मध्यसंस्थे दिवाकरे ।।
माधवस्य तु मासस्य शुक्लपक्षे तु द्वादशी ।। १७ ।।
बुद्धिः सम्पद्यते तस्य प्रियादर्शनलालसा ।।
कोऽर्च्यस्तत्किं व्रतं चास्या एषा स्वपिति निर्जने ।।१८।।
न सुप्ताया व्रतं किंचिद्दृश्यते धर्मसंचयः ।।
न च विष्णुकृतं कर्म न चैवेश्वरचोदितम् ।।१९।।
मनुना वै कृतो धर्म एष नैव न दृश्यते ।।
न क्वाप्यपकृतो धर्मो महानपि न योगिनाम् ।। 137.१२० ।।
न तत्र एष विद्येत यश्चरेद्व्रतमीदृशम् ।।
बार्हस्पत्येषु धर्मेषु याम्येषु च न विद्यते ।। २१ ।।
न एष विद्यते तत्र सुप्ता चरति यद्व्रतम् ।।
भुक्त्वा तु कामभोगानि भुक्त्वा तु पिशितोदनम् ।।२२।।
ताम्बूलं रक्तवस्त्रं तु सुसूक्ष्मे पट्टवाससी ।।
सुगन्धैर्भूषिता गात्रे सर्वरत्नसमायुता ।। २३ ।।
मम कान्ता विशालाक्षी किमत्र चरते व्रतम् ।।
कुप्येतापि तु सन्तुष्टा प्रिया मे कमलेक्षणा ।। २४ ।।
अवश्यमेव द्रष्टव्या कीदृशं चरति व्रतम् ।।
किन्नरैः सुप्रलक्ष्येत वशीकरणमुत्तमम् ।। २५ ।।
अथ योगीश्वरी भूत्वा यत्र गच्छति रोचते ।।
अथवा चान्यसंसृष्टा कामरोगेण चावृता ।। २६ ।।
एवं चिन्तयतस्तस्य अस्तं प्राप्तो दिवाकरः ।।
संवृत्ता रजनी सुभ्रूः सर्वसार्थसुखावहा ।। २७ ।।
ततो रात्र्यां व्यतीतायां प्रभातसमये शुभे ।।
पठन्ति मागधा बन्दिसूता वैतालिकास्तथा ।। २८ ।।
शङ्खदुन्दुभिनादैश्च बोधितो वसुधाधिपः ।।
सर्वलोकहितार्थाय उदिते च दिवाकरे ।।२९।।
यत्तदा चिन्तितं पूर्वं द्रष्टुकामेन तां प्रियाम् ।।
सर्वचिन्तां परित्यज्य सा चिन्ता हृदि वर्त्तते ।। 137.१३०।।
स्नातस्तु विधिना सोऽथ क्षौमाभ्यामुपसंवृतः ।।
भूत्वा चोत्सारयामास आज्ञां दत्त्वा यथोचितम् ।। ३१ ।।
व्रतस्थं यः स्पृशेन्मां तु नारी पुरुष एव च ।।
धर्मयुक्तेन दण्डेन मम वध्यो भवेत्तु सः ।। ३२ ।।
एवमाज्ञापयित्वा तु कालिङ्गो नृपतिः किल ।।
गतश्च त्वरया धीमान्प्रविष्टस्तत्र सुव्रते ।। ३३ ।।
पर्यङ्कस्य तले तत्र राजा दर्शनलालसः ।।
विलोक्य तां वरारोहां ततश्चिन्तापरायणाम् ।।३ ४।।
ततः कमलपत्राक्षी वेदनायासपीडिता ।।
रुजार्त्ता रुरुदे तत्र शिरोवेदनताडिता ।। ३५ ।।
किं मया तु कृतं कर्म पूर्वमेव सुदुष्करम् ।।
येनाहमीदृशीं प्राप्ता दशां पुण्यपरिक्षयात् ।। ३६ ।।
भर्त्ता च मां न जानाति क्लिश्यमानामनाथवत् ।।
अथ मां किं कथं भर्त्ता मन्यते स्वजनोऽपि वा ।।३७।।
कथये किं शयाना तु सखीनां शयने स्थिता।।
एवमत्र न युज्येत यन्मया परिचिन्तितम् ।। ३८ ।।
किंच वात्मनि दुःखस्य सर्वमेतच्च युज्यते ।।
किंच मां वक्ष्यते भर्त्ता किं च मामितरे जनाः ।। ३९ ।।
अन्यायेन व्रतं चीर्णं सर्वतो विकृतं भवेत् ।।
कदाचिदपि काले तु गच्छेत्सौकरवं प्रति ।। 137.१४० ।।
ततो ब्रूयामिदं वाक्यं यन्मे हृद्यवतिष्ठते ।।
ततः प्रियावचः श्रुत्वा समुत्थाय ततो नृपः ।। ४१ ।।
दोर्भ्यामालिङ्ग्य वै भार्यां वाक्यमेतदुवाच ह ।।
किमिदं भाषसे भद्रे आत्मानं न प्रशंससि ।।४२ ।।
अशोच्या शोचिता या तु यच्च निन्दसि चात्मनि ।।
भिषजः किं न विद्यन्ते अष्टकर्मसमाहिताः ।।४३।।
ये तु संस्थापयेयुस्ते शिरसो वेदनां पराम् ।।
त्वया पूर्वं व्रतमिषाद्वेदना यदि गोपिता ।।४४।।
येन वै क्लिश्यसे भद्रे शिरस्य सुखपीडिता ।।
वायुना कफपित्तेन शोणितेन कफेन वा ।। ४५ ।।
सन्निपातस्य दोषेण येनेदं पीड्यते शिरः ।।
काले विकाले कृत्वा वै पित्तोद्रेकं यशस्विति ।। ४६ ।।
अश्नासि पिशितं चान्नं तेनेदं दूष्यते शिरः ।।
क्रियतेऽत्र शिरावेधो रुधिरस्राव एव च ।। ४७ ।।
दीयते चेच्छिरोऽभ्यङ्गः कथं तिष्ठति वेदना ।।
किमेतद्गोपितं भद्रे मयि तन्न निवेदितम् ।। ४८ ।।
त्वया व्रतमिषेणायमात्मा संक्लिश्यते वृथा ।।
या त्वं वै भाषसे वाक्यं सौकरे गमनं प्रति ।। ४९ ।।
तत्र गोप्यं किमस्तीति येन ते परिवेदना ।।
ततः कमलपत्राक्षी सव्रीडा दुःखपीडिता ।। 137.१५० ।।
भर्तुर्गृहीत्वा चरणौ सा पतिं प्रत्यभाषत ।।
प्रसीद मे महाराज नेदं प्रष्टुं त्वमर्हसि ।। ५१ ।।
मम पूर्वकथां वीर दुष्टकर्मानुसारिणीम् ।।
ततो भार्यावचः श्रुत्वा कलिङ्गानां जनाधिपः ।। ५२ ।।
उवाच मधुरं वाक्यं सुहितेनान्तरात्मना ।।
किमिदं गोप्यते देवि ममाग्रे वरवर्णिनि ।। ५३ ।।
तथ्यमेव महाभागे पृच्छ्यमाना यशस्विनि ।।
ततो भर्तृवचः श्रुत्वा विस्मयोत्फुल्ललोचना ।। ५४ ।।
उवाच मधुरं वाक्यं कलिङ्गानां महाधिपम् ।।
भर्त्ता धर्मो यशो भर्त्ता भर्त्तैव प्रियमात्मनः ।। ५५ ।।
अवश्यमेव तद्वाच्यं यन्मां त्वं परिपृच्छति ।।
तथापि नोत्सहे वक्तुं हृदि यत्परिवर्त्तते ।। ५६ ।।
तव पीडाकरमिति तन्मां न प्रष्टुमर्हसि ।।
एतद्दुःखं महाभाग हृदि मे परिवर्त्तते ।।५७।।
सुखे हि वर्त्तसे नित्यं महाराजोऽसि सुन्दरः ।।
बह्व्यो मत्सदृशा भार्यास्तिष्ठन्त्यन्तःपुरे तव।।५८।।
प्राश्नासि पिशितान्नं च प्रावारान्भूषणानि च ।।
आच्छादयसि यानैश्च हस्त्यश्वरथपृष्ठगः ।। ५९ ।।
गच्छस्यनारतं राजन् किं स्थितं च मया विना ।।
आज्ञा च तेऽप्रतिहता गन्धान्भोगांश्च सर्वशः ।। 137.१६० ।।
बिभर्षि स्वेच्छया राजन्न मां संप्रष्टुमर्हसि ।।
त्वं मे देवो गुरुः साक्षाद्भर्त्ता यज्ञः सनातनः ।। ६१ ।।
धर्मश्चार्थश्च कामश्च यशः स्वर्गश्च मानद ।।
पृष्टया मे सदा वाच्यं सर्वं सत्यं प्रियं तव ।। ६५ ।।
पतिव्रतानां सर्वासामेष धर्मः सनातनः ।।
न संशये नियोक्तव्यः सुखस्थो हि पतिः स्त्रिया ।।६३।।
एतन्निश्चित्य मे पीडां न प्रष्टुं त्वमिहार्हसि ।।
ततो भार्यावचः श्रुत्वा कलिङ्गानां जनाधिपः ।। ६४ ।।
उवाच मधुरं वाक्यं भार्यापीडाभिपीडितः ।।
शृणु तत्त्वेन मे भद्रे शुभं वा यदि वाशुभम् ।।६५।।
अवश्यमेव वक्तव्यं पृष्टया पतिना ध्रुवम् ।।
यानि गुह्यान्यगुह्यानि स्त्रियो धर्मपथे स्थिताः ।। ६५ ।।
भर्त्तारं च समासाद्य रहस्तां गोपयन्ति न ।।
कृत्वा सुदुष्करं कर्म रागलोभप्रमोहिता ।। ६७ ।।
या सुगोपायते गुह्यं सती सा नोच्यते बुधैः ।।
एवं चिन्त्य महाभागे ब्रूहि सत्यं यशस्विनि ।।६८।।
अधर्मस्ते न भविता गुह्यार्थकथने मम ।।
ततो भर्तृवचः श्रुत्वा सा देवी परमप्रिया ।। ६९ ।।
प्रत्युवाच प्रियं वाक्यं राजानं धर्मवादिनम् ।।
देवो राजा गुरू राजा सोमो राजेति पठ्यते ।।137.१७०।।
अवश्यमेव वक्तव्यमेष धर्मः सनातनः ।।
यदि गुह्यं न मे कार्यं श्रूयतां राजसत्तम ।।७१।।
अभिषिंचस्व राज्ये स्वे ज्येष्ठं पुत्रं कुलोचितम्।।
एहि नाथ मया सार्द्धं क्षेत्रं सौकरवं प्रति।।७२।।
ततो भार्यावचः श्रुत्वा कलिंगानां जनाधिपः ।। ।
बाढमित्येव वाक्येन छन्दयामास तां प्रियाम्।।७३।।
दास्यामि राज्यं पुत्राय वचनात्तव सुन्दरि।।
यथा पूर्वं मया लब्धं स्वपितुर्यद्यथाक्रमम् ।।७४।।
इत्युक्त्वा तौ महाभागौ युक्तं चैव परस्परम् ।।
राजा च राजपुत्री च निष्क्रान्तौ तद्गृहात्ततः ।। ७५ ।।
ततः कञ्चुकिनं दृष्ट्वा प्रोवाचोच्चस्वरेण च ।।
अपसारय सर्वं वै जनमावृत्य तिष्ठति।।७६।।
ज्ञानकौतूहलो योऽत्र शीघ्रं गच्छत्वितो बहिः।।
ततो हलहलाशब्दः प्रवृत्तोऽन्तःपुरे महान्।।७७ ।।.
किमिदं कारणं वृत्तं येन चोत्सारिता वयम् ।।
नाज्ञास्ति चिन्तालोलानामागतानां स्वकार्यतः ।। ७८ ।।
अश्रोतव्यं भवेन्नूनं येन चोत्सारिता वयम् ।।
ततो भोज्यान्नपानानि भुक्त्वा रुच्या नृपः प्रियान् ।।७९।।
समं महिष्या चाचम्य क्षणं विश्रम्य पार्थिवः ।।
अमात्यानानयामास ह्यभिषेक्तुं निजं सुतम् ।। 137.१८० ।।
सम्प्राप्तान्सचिवांस्तत्र राजा वचनमब्रवीत् ।।
राजधानी संस्क्रियतां मङ्गलाचारपूर्वकम् ।। ८१ ।।
वृद्धामात्यमुपास्याथ कलिङ्गो धर्मसंहितम् ।।
नीतिशास्त्रार्थतत्त्वज्ञमुवाचाविक्लवं वचः ।। ८२ ।।
काल्यमिच्छाम्यहं तात पुत्रं राज्येऽभिषेचितुम् ।।
शीघ्रं सज्जं प्रकुर्वन्तु आभिषेचनिकं विधिम् ।।८३।।
भूतमित्येव तं प्राहुः सचिवास्तं नराधिपम् ।।
अस्माकमपि तच्चैव रोचते यत्प्रभाषसे ।।८४।।
पुत्रस्ते राजशार्दूल सर्वलोकहिते रतः ।।
प्रजानुरागवाञ्छूरो नीतिज्ञस्तु विचारकः ।।८५।।
मनीषितं तव विभो सम्यङ् नो मनसः प्रियम् ।।
एवमुक्त्वा गतामात्याः सूर्यश्चास्तमुपागतः ।।८६।।
सुखेन सा गता रात्रिर्गीतगान्धर्ववादितैः ।।
बोधितः स च राजा तु सूतमागधबन्दिभिः ।।८७।।
वेतालिकैश्च सुश्रोणि सर्वमंगलपाठकैः ।।
प्रभातायां तु शर्वर्यामुदिते च दिवाकरे ।। ८८ ।।
मुहूर्त्तं शुभमासाद्य ह्यभिषिक्तः सुतः शुचिः ।।
एवं दत्वा तदा राज्यं मूर्ध्नि चाघ्राय धर्मवित् ।। ८९ ।।
उवाच मधुरं वाक्यं पुत्रं पुत्रवतां वरः ।।
राज्यस्थेनापि ते पुत्र कर्त्तव्यं शृणु तन्मम ।। 137.१९० ।।
यदीच्छेः परमं धर्मं पितॄणां तारणं तथा ।।
दातव्यं न च हंतव्यं हंतव्याः पारदारिकाः ।। ९१ ।।
बालघाताश्च हंतव्या हंतव्याः स्त्रीविघातकाः।।।
न लोभः परभार्यासु ब्राह्मणीषु विशेषतः ।।९२।।
सुरूपां परनारीं तु दृष्ट्वा चक्षुर्निमीलयेः ।।
परद्रव्येषु मा लोभः अन्यायोपार्ज्जितेषु च ।।९३।।
न चिरं तिष्ठसि क्वापि कथंचन न पश्यसि ।।
रक्षणीयश्च ते देशः कुशलन्यायसज्जितः ।। ९४ ।।
नित्योद्युक्तेन स्थातव्यममात्यवचनं कुरु ।।
अमात्यो यद्वचो ब्रूयात्तस्य कार्यं विमर्शयन् ।। ९५ ।।
अवश्यमेव कर्त्तव्यं शरीरपरिरक्षणम् ।।
प्रजा येन प्रमोदंति येन तुष्यंति ब्राह्मणाः ।। ९५ ।।
एवं ते पुत्र कर्त्तव्यं मम प्रियहितैषिणा ।।
सप्तव्यसनवर्गोऽत्र दोषो राज्ञां महान्भवेत् ।। ९७ ।।
अर्थदूषणकं चैव न कर्त्तव्यं कदाचन ।।
अमात्यं नाप्रियं ब्रूया यमिच्छे राजकर्मणि ।। ९८ ।।
नाहं निवारणीयस्ते गमनाय पथे स्थितः ।।
एतन्मे क्रियतां शीघ्रं यदीच्छसि मम प्रियम् ।। ९९ ।।
ततः पितुर्वचः श्रुत्वा राजपुत्रो यशस्विनि ।।
पितुः पादौ तु संगृह्य करुणं प्रत्युवाच तम् ।। 137.२०० ।।
मम किं तात राज्येन कोशेन च बलेन च ।।
यस्त्वया रहितस्तात न शक्नोमि विचेष्टितुम् ।। १ ।।
अभिषेकं राजशब्दं मम संज्ञापितं त्वया ।।
एतन्न बहुमन्येऽहं विना तात त्वया ह्यहम् ।। २ ।।
क्रीडामेवाऽत्र जानामि येन क्रीडन्ति बालकाः ।।
राज्यचिन्तां न जानामि राजानो यां तु कुर्वते ।।३।।
ततः पुत्रवचः श्रुत्वा कलिङ्गानां महीपतिः ।।
उवाच मधुरं वाक्यं सामपूर्वं यशस्विनि ।। ४ ।।
यच्चेदं भाषसे पुत्र नाहं जानामि तद्वचः ।।
पुत्र शिक्षापयिष्यन्ति पौरजानपदास्तव ।। ५ ।।
एवं संदिश्य तं तत्र स राजा धर्मशास्त्रतः ।।
गमनाय मतिं चक्रे क्षेत्रं सौकरवं प्रति ।। ६ ।।
तं प्रयान्तं ततो दृष्ट्वा पौरजानपदास्तव ।। ५।।
सकलत्रसुताः सर्वेऽप्यनुयान्ति नराधिपम् ।। ७ ।।
हस्त्यश्वरथयानानि स्त्रियश्चान्तःपुरस्थिताः ।।
संहृष्टमनसः सर्वे अनुयान्ति नराधिपम् ।।८।।
अथ दीर्घेण कालेन प्राप्य सौकरवं तदा ।।
धनधान्यसमृद्ध्यादि प्रददौ तत्र माधवि ।।९।।
एवं गच्छति काले तु तयोस्तत्र वसुन्धरे ।।
प्रवर्त्तमानयोर्नित्यं धर्मे कर्मणि शुद्धयोः ।। 137.२१० ।।
ततः स पद्मपत्राक्षः कलिङ्गानां जनाधिपः ।।
उवाच मधुरं वाक्यं कांचीराजसुतां तदा ।।११ ।।
पूर्णं वर्षसहस्रं वै जीवितं मम सुन्दरि ।।
ब्रूहि तत्परमं गुह्यं यन्मया पूर्वपृच्छितम् ।। १२ ।।
ततो भर्त्तुर्वचः श्रुत्वा प्रहस्य रुचिरेक्षणा ।।
उभौ तौ चरणौ गृह्य राजानं वाक्यमब्रवीत् ।। १३ ।।
एवमेतन्महाभाग यन्मां त्वं परिपृच्छसि ।।
उपोष्य तु त्रिरात्रं त्वं पश्चाच्छ्रोष्यसि मानद।।१४।।
बाढमित्येव तां राजा प्रत्युवाच यशस्विनि ।।
पद्मपत्रविशालाक्षि पूर्णचन्द्रनिभानने।।१५।।
यथा वदसि सुश्रोणि तथैव मम रोचते ।।
दन्तकाष्ठं समादाय द्वादशांगुलमायतम् ।। १६ ।।
स्नात्वा सङ्कल्पयामास त्रिरात्रं नियमान्वितौ ।।
उपोष्य तौ त्रिरात्रं तु विधिना नियमान्वितौ ।।१७।।
ततः स्नातौ शुची क्षौमे परिधाय तु वाससी ।।
प्रणम्य भूषितौ विष्णुं दम्पती तदनन्तरम् ।।१८।।
ततः सा सुन्दरी भूषां समुत्तार्य शुभेक्षणा।।
मह्यं निवेदयामास प्रोवाच च जनेश्वरम्।।१९।।
एह्येहि नाथ गच्छावः पश्य गोप्यं मनीषितम्।।
ततो हस्ते पतिं गृह्य उद्वाह इव सुन्दरी।।137.२२०।।
उवाच मधुरं वाक्यं कलिंगाधिपतिं तथा।।
सृगाली पूर्वमेवाहं तिर्य्यग्योनिव्यवस्थिता।।२१।।
विद्धास्मि सोमदत्तेन बाणेन मृगलिप्सुना।।
एतं शिरसि मे राजन्पश्य बाणं सुसंस्कृतम्।।२२।।
यस्य दोषेण मेऽप्येष रुजा शिरसि संस्थिता।।
कांचीराजकुले जन्म पित्रा दत्ता तव प्रिया।।२३।।
क्षेत्रप्रभावान्मे सैषा जाता सिद्धिर्नमोऽस्तु ते।।
स ततः पद्मपत्राक्षः कलिङ्गानां जनाधिपः।।२४।।
श्रुत्वा राजा प्रियां वाक्यं प्रत्युवाच स्मृतिङ्गतः।।
अहं गृध्रो महाभागे तेनैव वनचारिणा।।२५।।
सोमदत्तेन बाणेन एकेनैव निपातितः।।
ततो जातोऽस्म्यहं भद्रे कलिंगानां जनाधिपः।।२६।।
जातोऽस्मि परमा व्युष्टिः प्राप्तं राज्यं मया महत्।।
सिद्धिर्लब्धा वरारोहे मया सर्वांगसुन्दरि।।२७।।
अकामपतितेनापि पश्य क्षेत्रस्य वै फलम्।।
ये च भागवतश्रेष्ठा ये च नारायणप्रियाः।।२८।।
पौरजानपदाः सर्वे श्रुत्वा तु तदनन्तरम्।।
लाभालाभौ परित्यज्य सर्वकर्माण्यकारयन्।।२९।।
तत्रैव मरणं प्रापुः सर्वसंगविवर्जिताः।।
श्वेतद्वीपं ततः प्राप्ताः सर्व एव चतुर्भुजाः।।137.२३०।।
सर्वे शङ्खधराश्चैव सर्वे चायुधसंयुताः।.
ताः स्त्रियश्च वरारोहे स्तुतिमान्या महौजसः।।३१।।
श्वेतद्वीपे प्रमोदन्ते सर्वभोगसमन्विताः।।
एवं ते कथितं भूमे व्युष्टिः सौकरवे महत्।।३२।।
अकामपतिताश्चैव श्वेतद्वीपमुपागताः।।
य एतेन विधानेन वासं तीर्थे तु कारयेत्।।३३।।
मरणं च विशालाक्षि श्वेतद्वीपं च गच्छति।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे।।३४।।
स्नानादाखोटके तीर्थे यत्फलं समुपाश्नुते।।
दशवर्षसहस्राणि दशवर्षशतानि च ।।३५।।
नन्दनं समवाश्रित्य मोदन्ते चैव सर्वदा।।
ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले।।३६।।
मद्भक्तश्चैव जायेत एवमेतन्न संशयः।।
पुनरन्यत्प्रवक्ष्यामि स्नातो गृध्रवटे नरः।।३७।।
यत्फलं समवाप्नोति स्नानमात्रकृतोदकः।।
नववर्षसहस्राणि नववर्षशतानि च।।३८।।
इन्द्रलोकं समासाद्य मोदते निर्जरैः सह।।
इन्द्रलोकात्परिभ्रष्टो मम तीर्थप्रभावतः।।३९।।
सर्वसङ्गं परित्यज्य मद्भक्तश्चैव जायते।।
एतत्ते कथितं भद्रे स्नानमात्रस्य यत्फलम्।।137.२४०।।
यत्त्वया पृच्छितं पूर्वं सर्वसंसारमोक्षणम्।।
ततो नारायणाच्छ्रुत्वा पृथिवी संशितव्रता।।४१।।
उवाच मधुरं वाक्यं लोकनाथं जनार्दनम्।।
केन कर्मविपाकेन तीर्थं पुनरवाप्यते।।४२।।
स्नानं वा मरणं देव यथावद्वक्तुमर्हसि।।
श्रीवराह उवाच ।।
शृणु देवि महाभागे पूर्वधर्मकृतो नराः ।।४३।।
केनचित्कर्मदोषेण तिर्यग्योनिमवाप्य हि ।।
जन्मान्तरार्जितैः पुण्यैस्तीर्थस्नान जपादिभिः ।।४४।।
महादानैश्च लभ्येत तीर्थे पञ्चत्वमर्च्चकैः ।।
जन्मान्तरकृतं कर्म यत्स्वल्पमपि वा बहु ।। ४५ ।।
तत्कदाचित्फलत्येव न तस्य परिसंक्षयः ।।
कदाचिद्वासहायो वै पुण्यतीर्थादिदर्शनात् ।। ४६ ।।
दुर्बलं प्रबलम्भूत्वा प्रबलं दुर्बलम्भवेत् ।।
पापान्तरं समासाद्य गहना कर्मणो गतिः ।। ४७ ।।
यदल्पमिव दृश्येत तन्महत्त्वाय कल्पते ।।
अत एव मनुष्यत्वं प्राप्तं राजत्वमेव च ।। ४८ ।।
सृगाली चैव गृध्रश्च तीर्थस्यैव प्रभावतः ।।
मरणादेव सम्प्राप्य क्षीणपापौ स्मृतिं पुनः ।। ४९ ।।
श्वेतद्वीपं ततः प्राप्तौ जानीहि त्वं वसुन्धरे ।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।137.२५० ।।
तीर्थं वैवस्वतं नाम यत्रार्कस्तप्तवांस्तपः ।।
कदाचित्पुत्रकामेन मार्त्तण्डेन महत्तपः ।।५१ ।।
कृतं चान्द्रायणं तत्र दशवर्षसहस्रकम् ।।
ततः सप्तसहस्राणि वायुभक्षस्तु संस्थितः ।। ५२ ।।
ततस्तुष्टोऽस्म्यहं भद्रे सूर्यस्य सुमहौजसः ।।
वरेण छन्दयामास आदित्यं तदनन्तरम् ।। ५१३ ।।
विवस्वन्तं महाभागं मम कर्मपरायणम् ।।
वरं वरय भद्रं ते यस्ते मनसि वर्त्तते ।।५४ ।।
ततो ममवचः श्रुत्वा कश्यपस्य सुतो बली ।।
मधुरं स्वरमादाय प्रत्युवाच महद्वचः ।।५५।।
यदि देव प्रसन्नोऽसि अयं मे दीयतां वरः ।।
पुत्रमिच्छाम्यहं देव प्रसादात्ते सुरेश्वर ।।५६।।।
विवस्वद्वचनं श्रुत्वा तुष्टोऽहं तस्य सुन्दरि ।।
तस्य शुद्धेन मनसा प्रोक्तवानस्मि सुन्दरि ।। ५७ ।।
यमश्च यमुना चैव मिथुनं जनयिष्यतः ।।
एवं तस्य वरं दत्त्वा आदित्यस्य वसुन्धरे ।। ५८ ।।
आत्मयोगप्रभावेण तत्रैवान्तर्हितोऽभवम् ।।
आदित्योऽपि गतो भद्रे वेश्म स्वं च महाधनम् ।।५९।।
पुण्यं सौकरवे कृत्वा सुदुष्करतरं महत् ।।
अष्टमेन तु भक्तेन यस्तु स्नाति वसुन्धरे ।।137.२६० ।।
दशवर्षसहस्राणि सूर्यलोके महीयते ।।
अथवा तत्र सुश्रोणि म्रियते पुण्यवान्नरः ।।६१ ।।
यमलोकं न गच्छेत्तु तीर्थस्यास्य प्रभावतः ।।
एतत्ते कथितं भद्रे स्नानस्य मरणस्य च ।।६२।।
फलं चैव यथावृत्तं तीर्थे सौकरवे मम ।।
आख्यानानां महाख्यानं क्रियाणां च महाक्रिया ।। ६३ ।।
एष जप्यः प्रमाणं च सन्ध्योपासनमेव च ।।
एष तेजश्च मन्त्रश्च सर्वभागवतप्रियम्।।६४।।
पिशुनाय न दातव्यं मूर्खे भागवते न तु ।।
न च वैश्याय शूद्राय येन जानन्ति मां परम् ।।६५।।
पण्डितानां सभामध्ये ये च भागवता भुवि ।।
मठे ब्राह्मणमध्ये तु ये च वेदविदां वराः ।। ६६ ।।
दीक्षिताय च दातव्यं ये च शास्त्राणि जानते ।।
एतत्ते कथितं भद्रे पुण्यं सौकरवे महत् ।।६७।।
य एतत्पठते सुभ्रु कल्य उत्थाय मानवः ।।
तेन द्वादशवर्षाणि चिन्तितोऽहं न संशयः ।।६८।।
न स जायेत गर्भेषु मुक्तिमाप्नोति शाश्वतीम् ।।
यः पठेदकेमध्यायं तारयेत्स कुलान्दश ।। ६९ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे तीर्थमाहात्म्ये सौकरवे गृध्रजम्बूकाख्याने आदित्यवरप्रदानादिकं नाम सप्तत्रिंशदधिकशततमोऽध्यायः ।। १३७।।
इति गृध्रजम्बूकोपाख्यानं समाप्तम्।।