वराहपुराणम्/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ वराहपुराणम्
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →

धरण्युवाच ।
एतत् तन्महदाश्चर्यं दृष्ट्वा गौरमुखो मुनिः ।
ते चापि मणिजाः प्राप्ताः किं फलं तु वरं गुरोः ।। १३.१ ।।
कोऽसौ गौरमुखः श्रीमान् मुनिः परमधार्म्मिकः ।
किं चकार हरेः कर्म्म दृष्ट्वाऽसौ मुनिपुंगवः ।। १३.२ ।।
श्रीवराह उवाच ।
निमिषेण कृतं कर्म दृष्ट्वा भगवतो मुनिः ।
आरिराधयिषुर्देवं तमेव प्रययौ वनम् ।
प्रभासं नाम सोमस्य तीर्थं परमदुर्लभम् ।। १३.३ ।।
तत्र दैत्यान्तकृद् देवः प्रोच्यते तीर्थचिन्तकैः ।
आराधयामास हरिं दैत्यसूदनसंज्ञितम् ।। १३.४ ।।
तस्याराधयतो देवं हरिं नारायणं प्रभुम् ।
आजगाम महायोगी मार्कण्डेयो महामुनिः ।। १३.५ ।।
तं दृष्ट्वाऽभ्यागतं दूरादर्घपाद्येन सो मुनिः ।
अर्चयामास तं भक्त्या मुदा परमया युतः ।। १३.६ ।।
कौश्यां वृष्यां तदासीनं पप्रच्छेदं मुनिस्तदा ।
शाधिं मां मुनिशार्दूल किं करोमि महाव्रत ।। १३.७ ।।
एवमुक्तः स विप्रेन्द्रो मार्कण्डेयो महातपाः ।
उवाच श्लक्ष्णया वाचा मुनिं गौरमुखं तदा ।। १३.८ ।।
मार्कण्डेय उवाच ।
एतदेव महत्कृत्यं यत्सतां संगमो भवेत् ।
यत्तु सान्देहिकं कार्यं तत्पृच्छस्व महामुने ।। १३.९ ।।
गौरमुख उवाच ।
एते हि पितरो नाम प्रोच्यन्ते वेदवादिभिः ।
सर्ववर्णषु सामान्या उताहोस्वित् पृथक् पृथक् ।। १३.१० ।।
मार्कण्डेयः ।
सर्वेषामेव देवानामाद्यो नारायणो गुरुः ।
तस्माद् ब्रह्मा समुत्पन्नः सोऽपि सप्तासृजन्मुनीन् ।। १३.११ ।।
मां यजस्वेति तेनोक्तास्तदा ते परमेष्ठिना ।
आत्मनात्मानमेवाग्रे अयजन्त इति श्रुतिः ।। १३.१२ ।।
तेषां वै ब्रह्मजातानां महावैकारिकर्मणाम् ।
अशपद् व्यभिचारो हि महानेष कृतो यतः ।
प्रभ्रष्टज्ञानिनः सर्वे भविष्यथ न संशयः ।। १३.१३ ।।
एवं शप्तास्ततस्ते वै ब्रह्मणात्मसमुद्भवाः ।
सद्यो वंशकरान् पुत्रानुत्पाद्य त्रिदिवं ययुः ।। १३.१४ ।।
ततस्तेषु प्रयातेषु त्रिदिवं ब्रह्मवादिषु ।
तत्पुत्राः श्राद्धदानेन तर्पयामासुरञ्जसा ।। १३.१५ ।।
ते च वैमानिकाः सर्वे ब्रह्मणः सप्त मानसाः ।
तत् पिण्डदानं मन्त्रोक्तं प्रपश्यन्तो व्यवस्थिताः ।। १३.१६ ।।
गौरमुख उवाच ।
ये च ते पितरो ब्रह्मन् यं च कालं समासते ।
किं यतो वै पितृगणास्तस्मिंल्लोके व्यवस्थिताः ।। १३.१७ ।।
मार्कण्डेय उवाच ।
प्रवर्त्तन्ते वराः केचिद् देवानां सोमवर्द्धनाः ।
ते मरीच्यादयः सप्त स्वर्गे ते पितरः स्मृताः ।। १३.१८ ।।
चत्वारो मूर्त्तिमन्तो वै त्रयस्त्वन्ये ह्यमूर्त्तयः ।
तेषां लोकनिसर्गं च कीर्त्तयिष्यामि तच्छृणु ।। १३.१९ ।।
प्रभावं च महर्धि च विस्तरेण निबोध मे ।
धर्ममूर्तिधरास्तेषां त्रयोऽन्ये परमा गणाः ।
तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु ।। १३.२० ।।
लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ।। १३.२१ ।।
विराजस्य प्रजाश्रेष्ठा वैराजा इति ते स्मृताः ।।
देवानां पितरस्ते हि तान् यजन्तीह देवताः ।। १३.२२ ।।
एते वै लोकविभ्रष्टा लोकान् प्राप्य सनातनान् ।
पुनर्युगशतान्तेषु जायन्ते ब्रह्मवादिनः ।। १३.२३ ।।
ते प्राप्य तां स्मृतिं भूयः साध्य योगमनुत्तमम् ।
चिन्त्य योगगतिं शुद्धां पुनरावृत्तिदुर्लभाम् ।। १३.२४ ।।
एते स्म पितरः श्राद्धे योगिनां योगवर्द्धनाः ।
आप्यायितास्तु ते पूर्वं योगं योगबले रतौ ।। १३.२५ ।।
तस्माच्छ्राद्धानि देयानि योगिनां योगिसत्तम ।
एष वै प्रथमः सर्गः सोमपानामनुत्तमः ।। १३.२६ ।।
एते त एकतनवो वर्तन्ते द्बिजसत्तमाः ।
भूर्लोकवासिनां याज्याः स्वर्गलोकनिवासिनः ।।
ब्रह्मपुत्रा मरीच्याद्यास्तेषां याज्या महद्गताः ।। १३.२७ ।।
कल्पवासिकसंज्ञानां तेषामपि जने गताः ।
सनकाद्यास्ततस्तेषां वैराजास्तपसि स्थिताः ।
तेषां सत्यगता मुक्ता इत्येषा पितृसंततिः ।। १३.२८ ।।
अग्निष्वात्तेति मारीच्या वैराजा बर्हिसंज्ञिताः ।
सुकालेयापि पितरो वसिष्ठस्य प्रजापतेः ।
तेऽपि याज्यास्त्रिभिर्वर्णैर्न शूद्रेण पृथक्कृतम् ।। १३.२९ ।।
वर्णत्रयाभ्यनुज्ञातः शूद्रः सर्वान् पितृन् यजेत् ।
न तु तस्य पृथक् सन्ति पितरः शूद्रजातयः ।। १३.३० ।।
मुक्तश्चेतनको ब्रह्मन् ननु विप्रेषु दृश्यते ।
विशेषशास्त्रदृष्ट्या तु पुराणानां च दर्शनात् ।। १३.३१ ।।
एवं ऋषिस्तुतैः शास्त्रं ज्ञात्वा याज्यकसंभवान् ।
स्वयं सृष्ट्यां स्मृतिर्लब्धा पुत्राणां ब्रह्मणा ततः ।
परं निर्वाणमापन्नास्तेऽपि ज्ञानेन एव च ।। १३.३२ ।।
वस्वादीनां कश्यपाद्या वर्णानां वसवादयः ।
अविशेषेण विज्ञेया गन्धर्वाद्या अपि ध्रुवम् ।। १३.३३ ।।
एष ते पैतृकः सर्ग उद्देशेन महामुने ।
कथितो नान्त एवास्य वर्षकोट्या हि दृश्यते ।। १३.३४ ।।
श्राद्धस्य कालान् वक्ष्यामि तान् श्रृणुष्व द्विजोत्तम ।
श्राद्धार्हमागतं द्रव्यं विशिष्टमथवा द्विजम् ।। १३.३५ ।।
श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा ।
विषुवे चैव संप्राप्ते ग्रहणे शशिसूर्ययोः ।
समस्तेष्वेव विप्रेन्द्र राशिष्वर्केऽतिगच्छति ।। १३.३६ ।।
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ।। १३.३७ ।।
अमावास्या यदा आर्द्राविशाखास्वातियोगिनो ।
श्राद्धैः पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम् ।। १३.३८ ।।
अमावस्या यदा पुष्ये रौद्रेऽथर्क्षे पुनर्वसौ ।
द्वादशाब्दं तथा तृप्तिं प्रयान्ति पितरोऽर्च्चिताः ।। १३.३९ ।।
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम् ।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा ।। १३.४० ।।
नवस्वर्क्षेष्वमावास्या यदा तेषु द्विजोत्तम ।
तदा श्राद्धानि देयानि अक्षय्यफलमिच्छताम् ।
अपि कोटिसहस्त्रेण पुण्यस्यान्तो न विद्यते ।। १३.४१ ।।
अथापरं पितरः श्राद्धकालं
रहस्यमस्मत् प्रवदन्ति पुण्यम् ।
वैशाखमासस्य तु या तृतीया
नवम्यसौ कार्त्तिकशुक्लपक्षे ।। १३.४२ ।।
नभस्यमासस्य तमिस्त्रपक्षे
त्रयोदशी पञ्चदशी च माघे ।
उपप्लवे चन्द्रमसो रवेश्च
तथाष्टकास्वप्ययनद्वये च ।। १३.४३ ।।
पानीयमप्यत्र तिलैर्विमिश्रं
दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाःसहस्त्रं
रहस्यमेतत् पितरो वदन्ति ।। १३.४४ ।।
माघासिते पञ्चदशी कदाचि-
दुपैति योगं यदि वारुणेन ।
ऋक्षेण कालः परमः पितॄणां
न त्वल्पपुण्यैर्द्विज लभ्यतेऽसौ ।। १३.४५ ।।
काले धनिष्ठा यदि नाम तस्मिन्
भवेत्तु विप्रेन्द्र सदा पितृभ्यः ।
दत्तं जलान्नं प्रददाति तृप्तिं
वर्षायुतं तत्कुलजैर्मनुष्यैः ।। १३.४६ ।।
तत्रैव चेद् भाद्रपदास्तु पूर्वाः
काले तदा यैः क्रियते पितृभ्यः ।
श्राद्धं परा तृप्तिमुपेत्य तेन
युगं समग्रं पितरः स्वपन्ति ।।
श्राद्धं तु यत्पक्षमुदाहरन्ति
तत्पैतृकं मुनिगणाः प्रवदन्ति तुष्टिम् ।। १३.४७ ।।
गङ्गासरयूमथवा विपाशां
सरस्वतीं नैमिषगोमतीं वा ।
ततोऽवगाह्यार्चनमादरेण
कृत्वा पितॄणामहितानि हन्ति ।। १३.४८ ।।
गायन्ति चैतत् पितरः कदा तु
वर्षामघातृप्तिमवाप्य भूयः ।
माघासितान्ते शुभतीर्थतोयै-
र्यास्याम तृप्तिं तनयादिदत्तैः ।। १३.४९ ।।
चित्तं च वित्तं च नृणां विशुद्धं
शस्तश्च कालः कथितो विधिश्च ।
पात्रं यथोक्तं परमा च भक्ति-
र्नृणां प्रयच्छन्त्यभिवाञ्छितानि ।। १३.५० ।।
पितृगीतास्तथैवात्र श्लोकास्तान् श्रृणु सत्तम ।
श्रुत्वा तथैव भविता भाव्यं तत्र विधात्मना ।। १३.५१ ।।
अपि धन्यः कुले जायादस्माकं मतिमान् नरः ।
अकुर्वन् वित्तशाठ्यं यः पिण्डान् यो निर्वपिष्यति ।। १३.५२ ।।
रत्नवस्त्रमहायानं सर्वं भोगादिकं वसु ।
विभवे सति विप्रेभ्यो अस्मानुद्दिश्य दास्यति ।। १३.५३ ।।
अन्नेन वा यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ।। १३.५४ ।।
असमर्थोऽन्नदानस्य वन्यशाकं स्वशक्तितः ।
प्रदास्यतिद्विजाग्र्येभ्यः स्वल्पां यो वापि दक्षिणाम् ।। १३.५५ ।।
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिद् द्विज दास्यति ।। १३.५६ ।।
तिलैः सप्ताष्टभिर्वापि समवेतां जलाञ्जलिम् ।
भक्तिनम्रः समुद्दिश्याप्यस्माकं संप्रदास्यति ।। १३.५७ ।।
यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयत्यस्मान् भक्त्या युक्तः प्रदास्यति ।। १३.५८ ।।
सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ।। १३.५९ ।।
न मेऽस्ति वित्तं न धनं न चान्य-
च्छ्राद्धस्य योग्यं स्वपितॄन् नतोऽस्मि ।
तृप्यन्तु भक्त्या पितरो मयैतौ
भुजौ ततौ वर्त्मनि मारुतस्य ।। १३.६० ।।
इत्येतत् पितृभिर्गीतं भावाभावप्रयोजनम् ।
कृतं तेन भवेच्छ्राद्धं य एवं कुरुते द्विज ।। १३.६१ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे त्रयोदशोऽध्यायः ।। १३ ।।