वराहपुराणम्/अध्यायः १२६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२५ वराहपुराणम्
अध्यायः १२६
[[लेखकः :|]]
अध्यायः १२७ →

अथ कुब्जाम्रकमाहात्म्यारम्भः ।।
तत्र रैभ्यानुग्रहः ।।
श्रुत्वा मायाबलं ह्येतद्धरणी संशितव्रता।।
वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ।। १ ।।
धरण्युवाच ।।
यत्तत्कुब्जाम्रके देव भाषसे तदनन्तकम् ।।
न तत्राहं विजानामि पूर्वमुक्तं च यत्त्वया ।। २ ।।
यच्च कुब्जाम्रके पुण्यं पुष्टिस्तस्य सनातनी ।।
एतन्मे परमं गुह्यं भगवन्वक्तुमर्हसि ।। ३ ।।
वराह उवाच ।।
सर्वं तत्कथयिष्यामि सर्वलोकसुखावहम् ।।
यच्च कुब्जाम्रके पुष्टिर्यच्च तीर्थमनिन्दिते ।। ४ ।।
तच्च कार्त्स्न्येन मे देवि शृणु तत्त्वेन सुन्दरि ।।
यथा कुब्जाम्रको जातस्ततस्तीर्थं यथाक्रमम् ।। ५ ।।
यच्च कर्म यतो भूमे स्नातो याति मृतोऽपि च ।।
युगे सप्तदशे भूमे कृत्वा चैकां वसुन्धराम् ।। ६ ।।
मधुकैटभौ तथा हत्वा ब्रह्मणो वचनात्तदा ।।
जलसंहरणं कृत्वा ममाधारमुपागतः ।। ७ ।।
पश्यामि तं नतं भूमे रैभ्यं नाममहामुनिम् ।।
ममैवाराधने युक्तं सर्वकर्मसु निष्ठितम्।।८।।
युक्तिमन्तं गुणज्ञं च शुचिं दक्षं जितेंद्रियम् ।।
दशवर्षसहस्राणि ऊर्ध्वबाहुः स तिष्ठति।।९।।
सहस्रं चांबुभक्षेण तथा शैवालभक्षणम् ।।
वर्षाणां च शतं पंच तिष्ठते स महामुनिः ।।126.१० ।।
इतः प्रीतोऽस्म्यहं देवि रैभ्यस्य च महात्मनः ।।
भक्त्या च परया चैव तेन चाराधितो ह्यहम् ।। ११ ।।
ततो वै तप्यमानं तं गङ्गाद्वारमुपागतम्।।
आम्रवृक्षं समासाद्य दृष्टः स मुनिपुङ्गवः ।।१२।।
दर्शितोऽयं मया चात्मा हेतुमात्रेण केनचित्।।
मया यदाश्रितश्चाम्रस्तेन कुब्जत्वमागतः ।। १३ ।।
एवं कुब्जाम्रकं ख्यातं स्थानमतेन्मनस्विनि ।।
मृतापि तत्र गच्छन्ति मम लोकाय केवलम्।।१४।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
दृष्ट्वा स मामृषिश्चैव यानि वाक्यानि भाषते।।१५।।
एवं तत्र मया दृष्टः कुब्जरूपं समास्थितः ।।
जानुभ्यामवनिङ्गत्वा किंचिदेव प्रभाषते।।१६।।
नमस्कृत्य स्थितं तं तु मुनिं वै संशितव्रतम् ।।
वरेण छन्दयामास अहं प्रीतमना धरे ।। १७ ।।
ममैव वचनं श्रुत्वा स मुनिस्तपसान्वितः ।।
उवाच मधुरं वाक्यं प्रसादार्थी महायशाः ।। १८ ।।
यदि प्रसन्नो भगवाँल्लोकनाथो जनार्द्दनः ।।
तव चात्र निवासं वै देव इच्छामि नित्यशः ।। १९ ।।
यावल्लोका धरिष्यन्ति तावच्चैव महाप्रभो ।।
स्थानं तव हृषीकेश इच्छामि मधुसूदन ।। 126.२० ।।
त्वयि भक्तिः सदा भूयाद्यावत्स्थानं जनार्द्दन ।।
अन्यभक्तिर्मम विभो रोचते न कदाचन ।। २१ ।।
एतदेव परं चित्ते मया चैव विधार्यते ।।
उपेन्द्र यदि तुष्टोऽसि ममायं दीयतां वरः ।। २२ ।।
ततस्तस्य वचः श्रुत्वा रैभ्यस्यर्षेरहं पुनः ।।
बाढमित्येव ब्रह्मर्षे एवमेतद्भविष्यति ।। २३ ।।
ममैवं वचनं श्रुत्वा ब्राह्मणः स वसुन्धरे ।।
मुहुर्त्तं ध्यानमास्थाय मामुवाच मुदान्वितः ।। २४ ।।
एतस्य तीर्थवर्यस्य महिमानं त्वया प्रभो ।।
शृणु वै कथ्यमानं तु वद लोकोपकारक ।। २५ ।।
अन्यानि यानि तीर्थानि एतत्क्षेत्राश्रितानि तु ।।
तान्यपि श्रोतुमिच्छामि कथ्यमानानि च त्वया ।। २६ ।।
शृणु तत्त्वेन मे ब्रह्मन्यन्मां त्वं परिपृच्छसि ।।
तीर्थे कुब्जाम्रके पुण्ये मम लोके सुखावहे ।। २७ ।।
तीर्थं तु कुमुदाकारं तस्मिन् कुब्जाम्रके स्थितम् ।।
स्नानमात्रेण सुश्रोणि स्वर्गं प्राप्नोति मानवः ।। २८ ।।
कौमुदस्य तु मासस्य तथा मार्गशिरस्य च ।।
वैशाखस्यैव मासस्य कृत्वा कर्म सुदुष्करम् ।।२९।।
यो वै परित्यजेत्प्राणान् स्त्री पुमान्वा नपुंसकम् ।।
निष्कलां लभते सिद्धिं मम लोकं स गच्छति ।। 126.३० ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे ।।
तीर्थं मानसमित्येव विख्यातं मम सुन्दरि ।। ३१ ।।
यस्मिन् स्नात्वा विशालाक्षि गच्छते नंदनं वनम् ।।
दिव्यं वर्षसहस्रं वै मोदते चाप्सरैः सह ।। ३२ ।।
पूर्णे वर्षसहस्रे तु जायते विपुले कुले ।।
द्रव्यवान् गुणवांश्चैव जायते तत्र मानवः ।।३३ ।।
तत्राथ मुंचते प्राणान् कौमुदस्य तु द्वादशी ।।
पुष्कलां लभते सिद्धिं मम लोकं च गच्छति ।। ३४ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे ।।
मायातीर्थमिदं ख्यातं येन मायां विजानते ।। ३५ ।।
तस्मिन् कृतोदको ब्रह्मन्मायातीर्थे महायशाः ।।
दशवर्षसहस्राणि मद्भक्तो जायते नरः ।।३६।।
लभते परमां पुष्टिं कुबेरभवनं यथा ।।
एकं सहस्रं वर्षाणां स्वच्छंदगमनात्त्रयम् ।। ३७ ।।
अथवा म्रियते तत्र मायातीर्थे यशस्विनि ।।
मायायोगी ततो भूत्वा मम लोकाय गच्छति।। ३८ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
तीर्थं सर्वात्मकं नाम सर्वतीर्थगुणान्वितम् ।।३९।।
यस्तत्र स्नाति कश्चिद्वै वैशाखस्य तु द्वादशीम्।।
निष्कलं लभते स्वर्गं सहस्रं दश पंच च ।।126.४० ।।
अथात्र मुंचते प्राणांस्तीर्थे सार्षपके तथा ।।
सर्वसंगं परित्यज्य मम लोकं च गच्छति ।।४१ ।।
पुनरन्यत् प्रवक्ष्यामि शृणुष्व शुभलोचने ।।
तीर्थं पूर्णमुखं नाम तन्न जानाति कश्चन ।। ४२ ।।
तत्र सर्वा भवेद्गङ्गा शीतलं जायते जलम् ।।
यत्र चोष्णं भवत्यम्बु ज्ञेयं पूर्णमुखं तथा ।।४३।।
स्नातो गच्छति सुश्रोणी सोमलोके महीयते ।।
तदा सोमं पश्यति तु सहस्रं दश पंच च ।। ४४ ।।
ततः स्वर्गात्परिभ्रष्टो ब्राह्मणश्चैव जायते ।।
मद्भक्तः शुचिमान्दक्षः सर्वकर्मगुणान्वितः ।।४५।।
अथवा म्रियते तत्र मासि मार्गशिरे तथा ।।
शुक्लपक्षे च द्वादश्यां मम लोकं च गच्छति।।४६।।
तत्र पश्यति मां नित्यं दीप्तिमन्तं चतुर्भुजम् ।।
न जन्म विद्यते तस्य मरणं च कदाचन ।।४७।।
पुनरन्यत्प्रवक्ष्याभि तच्छृणुष्व वसुन्धरे ।।
अनन्यमानसो भूत्वा भक्तो भागवतो मम ।४८।।
तस्मिंस्तीर्थे तु यः स्नाति कदाचिदपि मानवः।।
दशवर्षसहस्राणि मोदते ह्यमरालये।।४९।।
ततः स्वर्गात्परिभ्रष्टस्तत्तीर्थस्य प्रभावतः।।
द्रव्यवान्गुणवांश्चैव मद्भक्तश्चैव जायते।।126.५०।।
वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादशी ।।
यदि मुञ्चेत्स्वकं देहं कृत्वा कर्म सुदुष्करम् ।। ५१ ।।
न जन्म मरणं तस्य न ग्लानिर्न च वै भयम् ।।
सर्वसङ्गविनिर्मुक्तो मम लोकाय गच्छति ।।५२।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे।।
करवीरं नाम तीर्थं सर्वलोकसुखावहम्।।५३।।
तस्य चिह्नं प्रवक्ष्यामि येन ज्ञापयते शुभे ।।
पुरुषो ज्ञानवांस्तावन्मम भक्तिविनिश्चितः।।५४।।
माघमासे तु सुश्रोणि शुक्लपक्षे तु द्वादशी ।।
पुष्पिते करवीरे वै मध्याह्ने तु न संशयः ।।५८५।।
तस्मिंकृतोदकस्तीर्थे स्वच्छंदगमनालयः।।
भ्रमेद्विमानमारूढो सहस्रांतरनर्त्तितः।।५६।।
तत्राथ म्रियते भूमे माघमासस्य द्वाशीम्।।
ब्रह्माणं मां च पश्येत पश्यते च वृषध्वजम्।।५७।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुंधरे।।
तस्य ब्राह्मणमुख्यस्य पूर्वं यत्कथितं मया।।५८।।
तस्मिन्कुब्जाम्रके भद्रे स्थानं तु मम रोचते।।
पुण्डरीक इति ख्यातं तीर्थं चैव महत्फलम्।।५९।।
तस्य चिह्नं प्रवक्ष्यामि तच्छृणुष्व शुचिस्मिते।।
तस्य तीर्थस्य सुश्रोणि मध्याह्ने द्वादशीदिने।।126.६०।।
रथचक्रप्रमाणो वै चरते तत्र कच्छपः।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे।।६१ ।।
स्नात्वा प्राप्नोति सुश्रोणि फलं तत्र महागुणम्।।
पुण्डरीकस्य यज्ञस्य यजमानस्य यत्फलम्।।६२।।
प्राप्नोति वसुधे तत्र एवमेव न संशयः।।
अथवा म्रियते तत्र लब्धसंज्ञो महायशाः ।। ६३।।
दशानां पुण्डरीकाणां फलं प्राप्नोति मानवः।।
भुक्त्वा यज्ञफलं तत्र जातिशुद्धो महातपाः ।।६४।।
सिद्धस्य लभते नित्यं मम लोकाय गच्छति ।।
अन्यच्च ते प्रवक्ष्यामि प्रिये तद्वै शृणुष्व मे ।।६५।।
अग्नितीर्थमिति ख्यातं सिद्धं कुब्जाम्रके स्थितम् ।।
यद्वै प्रज्ञायते देवि द्वादश्यां पापवर्जितैः ।। ६६ ।।
कौमुदस्य तु मासस्य मासो मार्गशिरस्य च ।।
आषाढस्य च मासस्य शुक्लपक्षस्य द्वादशीम् ।। ६७ ।।
यश्चैव माधवे मासि समये यदि वर्त्तते ।।
तस्यां तु शुक्लद्वादश्यां तीर्थे तिष्ठति यत्रतः ।।६८।।
तस्य चिह्नं प्रवक्ष्यामि शृणुष्व हि वसुन्धरे ।।
येन चिह्नेन विज्ञेयं तीर्थं तत्रैव मामकम् ।।६९।।
एकाग्रं तु मनः कृत्वा तच्छृणुश्व वसुन्धरे ।।
मुक्त्वा भागवतान्शुद्धान्त्संहितापाठकान्मम ।।126.७० ।।
न हि कश्चिद्विजानाति शास्त्रं मम न यश्च वै ।।
फलं तस्य प्रवक्ष्यामि मृतोऽपि स्नातकोऽपि वा ।। ७१ ।।
एकचित्तं समाधाय तच्छृणुष्व वसुन्धरे ।।
अग्नितीर्थेषु स्नातो वै तस्मिन्कुब्जाम्रकेषु च ।। ७२ ।।
अग्नितीर्थं महाभागे दीप्तमन्तं सवैष्णवम् ।।
सप्त कृत्वाग्निमेधानां यत्फलं भवति प्रिये ।। ७३।।
प्राप्नोति तन्महाभागे स्नानमात्रान्न संशयः ।।
अथवा म्रियते तत्र एकैकान्द्वादशीकृतान् ।।७४।।
स्थित्वा विंशत्यहोरात्रान्मम लोकाय गच्छति ।।
तीर्थस्य तस्य वक्ष्यामि चिह्नानि शृणु सुन्दरि ।।७५।।
येन विज्ञायते प्राज्ञैर्मम भक्तं सुखावहम् ।।
उष्णं भवति हेमन्ते वसुधे तज्जलं तथा।।७६।।
उष्णकाले भवेच्छीतमेवं चिह्नं तु तद्भवेत् ।।
एष वह्निर्महाभागे तीर्थमाग्नेयमुत्तरे।।७७।।
तरन्ति मानवा येन घोरं संसारसागरम् ।।
अन्यच्च ते प्रवक्ष्यामि देवि कुब्जाम्रके महत् ।।७८।।
वायव्यमितिविख्यातं तीर्थं धर्माद्विनिस्सृतम् ।
तस्मिंस्तीर्थे तु यः स्नातः कृतनित्योदकक्रियः ।। ७९।।
वाजपेयस्य यज्ञस्य फलं प्राप्नोति निष्कलम् ।।
अथवा म्रियते तत्र वायुतीर्थे महाह्रदे ।। 126.८० ।।
दिनानि दश पंचैतत्कृतमेव हि मामकम्।।
जन्म वा मरणं वापि भूमौ नैव पुनर्भवेत्।।८१ ।।
जायते च चतुर्बाहुर्मम लोके प्रतिष्ठितः।।
तस्य चिह्नं प्रवक्ष्यामि वायु तीर्थस्य सुन्दरि ।। ८२ ।।
येन चिह्नेन विज्ञेयं तीर्थं तच्च महत्तरम् ।।
अश्वत्थवृक्षपत्राणि चलन्ति नित्यशो वने ।।८३ ।।
चतुर्विंशतिर्द्वादश्यां येन विज्ञायते खलु ।।
पुनरन्यत्प्रवक्ष्यामि तीर्थं कुब्जाम्रके धरे ।। ८४ ।।
शक्रतीर्थमिति ख्यातं सर्वसंसारमोक्षणम् ।।
तस्मिंस्तीर्थे वरारोहे शक्रतीर्थे वसुंधरे ।।८५।।
शक्रस्तु वसते लोके वज्रहस्तो न संशयः ।।
अथवा म्रियते तत्र शक्रतीर्थे महातपे ।।८६।।
उपोष्य दशरात्राणि मम लोकाय गच्छति ।।
तस्य चिह्नं प्रवक्ष्यामि येन विज्ञायते ततः ।। ८७ ।।
एकचित्तं समाधाय शृणु सुन्दरि तत्त्वतः ।।
पञ्च वृक्षास्तु तिष्ठन्ति तद्दक्षिणदिशे क्षिते ।। ८८ ।।
शक्रतीर्थस्य चिह्नं ते वसुधे परिकीर्त्तितम् ।।
अन्यच्च तीर्थं वक्ष्यामि तस्मिन् कुब्जाम्रके परम् ।।८९ ।।
वरुणेन तपस्तप्तं सहस्रं पञ्च सप्त च ।।
तत्र स्नातस्य वक्ष्यामि जायते तत्र यत्फलम् ।। 126.९० ।।
यत्प्राप्नोति मृतो वापि पुरुषः संशितव्रतः ।।
अष्ट वर्ष सहस्राणि गत्वा वै वरुणालयम् ।। ।। ९१ ।।
स्वच्छन्दगमनो भूत्वा एवमेव न संशयः ।।
अथ वै म्रियते तत्र विंशवर्षोषितो नरः ।। ९२ ।।
सर्वसङ्गं परित्यज्य मम लोकं स गच्छति ।।
तस्य चिह्नं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।। ९३ ।।
तत्र धारा पतत्येका एकरूपा सदा भवेत् ।।
न वर्द्धते च वर्षासु घर्मे न ह्रसते पुनः ।। ९४ ।।
सप्तसामुद्रकं नाम तस्मिन्कुब्जाम्रके परम् ।।
तस्मिन्कृतोदको भूमे नरो धर्मपरायणः ।। ९५ ।।
त्रयाणामश्वमेधानां फलं प्राप्नोति मानवः ।।
शीघ्रं गच्छति वै स्वर्गं सहस्रं दश पञ्च च ।। ९६ ।।
ततः स्वर्गात्परिभ्रष्टः कुलवाञ्जायते द्विजः ।।
वेदवेदाङ्गकुशलः सोमपश्चैव जायते ।। ९७ ।।
अथात्र मुञ्चते प्राणान्मुक्तसङ्गो जितेन्द्रियः ।।
उषित्वा सप्तरात्रं वै मम लोकं स गच्छति ।।९८।।
तस्य चिह्नं प्रवक्ष्यामि तीर्थस्य शृणु सुन्दरि ।।
वैशाखशुक्लद्वादश्यां विभूतिस्तत्र या भवेत् ।। ९९ ।।
विमला गाङ्गता यत्र गङ्गाजलविमिश्रितम् ।।
तस्मिन् तीर्थे तदेवैतत्क्षीरवर्णं पुनर्भवेत् ।। 126.१०० ।।
पुनश्च पीतवर्णाभा पुना रक्तः कदा भवेत् ।।
पुनर्मरकताभासं पुनर्मुक्तासमप्रभम् ।। १ ।।
एतैश्चिह्नैस्तु विज्ञेयं तत्तीर्थं विदितात्मभिः ।।
अन्यच्च ते प्रवक्ष्यामि तीर्थं कुब्जाम्रके महत् ।। २ ।।
तीर्थं मानसरो नाम सर्वभागवतप्रियम् ।।
तस्मिन् स्नातो वरारोहे गच्छते मानसं सरः।।३।।
देवान्पश्यति वै सर्वान्रुद्रेंद्रसमरुद्गणान्।।
अथ तत्र मृतो भूमे त्रिंशद्रात्रोषितो नरः ।। ४ ।।
सर्वसङ्गविनिर्मुक्तो मम लोकं स गच्छति ।।
तस्य चिह्नं प्रवक्ष्यामि येन तज्ज्ञायते नरैः ।। ५ ।।
पंचाशत्क्रोशविततं मानुषाणां दुरासदम् ।।
एतत्तु भूमे विज्ञेयं यथैतन्मानसं सरः ।।६।।
शुद्धैर्भागवतैर्ज्ञेयं मम कर्मसु निष्ठितैः ।।
एतत्तीर्थं महाभागे तस्मिन् कुब्जाम्रकं स्मृतम्।।७।।
सिद्धिकामस्य विप्रस्य रैभ्यस्य परिकीर्तितम्।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुंधरे ।।८।।
तत्र कुब्जाम्रके वृत्तं पुराश्चर्यं महाद्भुतम् ।।
मम निर्माल्यपार्श्वे वै व्याली तिष्ठति निर्भया।।९।।
गंधमाल्योपहार्याणि भक्षयंती यदृच्छया।।
कस्यचित्त्वथ कालस्य नकुलस्तत्र चागतः ।। 126.११० ।।
पश्यते च ततस्तत्र रममाणं यदृच्छया।।
नकुलेन सह व्याल्या तदा युद्धमभूच्च तत् ।।१ १ ।।
सम्पूर्णे ते तु मध्याह्ने माघमासे तु द्वादशीम् ।।
तया स दष्टो नकुलो नाशाय मम मंदिरे ।। १२ ।।
तेनापि विषदिग्धेन व्याली शीघ्रं निपातिता ।।
उभौ चान्योन्य युद्धेन तदा पंचत्वमागतौ ।। १३ ।।
व्याली प्राग्जोतिषे जाता राजपुत्री यशस्विनी ।।
नकुलोऽजायत तदा कोसलेषु जनाधिपः ।। १४ ।।
रूपवान्गुणवान्देवि सर्वशास्त्रकलान्वितः ।।
तौ तु दीर्घेण कालेन सौख्येन परिरञ्जितौ ।। १५ ।।
अवर्द्धतां यथाकालं शुक्लपक्षे यथा शशी ।।
सा कन्या नकुलं दृष्ट्वा सद्यो हन्तुं तथेच्छति ।। १६।।
व्यालीं दृष्ट्वा राजपुत्रः सहसा हन्तुमिच्छति ।।
अथ तस्यास्तु कालेन कोसलाधिपतिस्तथा।।१७।।
पाणिं जग्राह विधिवन्मत्प्रसादाद्वसुन्धरे ।।
कोसलाधिपतेश्चापि राज्ञः प्राग्जोतिषस्य च ।। १८ ।।
महोत्सवेन संवृत्तः सम्बन्धो मत्प्रसादतः ।।
दृढप्रीतिस्तयोर्जाता यथा च जतुकाष्ठयोः ।। १९ ।।
रमतो धूमकेतोश्च वह्नेश्चैव यथा तथा ।।
यथा शची च शक्रश्च रमन्तौ नन्दने वने ।।126.१२० ।।
एवं च दीर्घकालं हि तयोः प्रीतिर्न हीयते ।।
एवं तौ विहरन्तौ तु तस्मिन्नुपवने ततः ।। २१ ।।
वसेते च यथान्यायं वेलामिव महोदधिः ।।
एवं तयोर्गतः कालो वर्षाणां सप्तसप्ततिः ।। २२ ।।
न बुध्यतोस्तथात्मानं मम मायाविमोहितौ ।।
एवं तौ विहरन्तौ तु तस्मिन्नुपवने ततः ।। २३ ।।
दृष्ट्वा व्यालीं राजपुत्रस्ततो हन्तुं व्यवस्थितः ।।
स तया वार्यमाणोऽपि व्याली हन्तुमिहोद्यतः ।। २४ ।।
गरुडो हन्ति नागान्वै दृष्ट्वैव विनतात्मजः ।।
एवं स वार्यमाणोऽपि व्यालीं हन्ति स्म दारुणम् ।। २५ ।।
तदा सा रुषिता देवी न किञ्चिदपि भाषते ।।
ततस्तस्यां तु वेलायां राजपुत्र्यग्रतो बिलात् ।। २६ ।।
नकुलस्तु विनिर्गत्य आहारार्थं समुद्यतः ।।
दृष्ट्वा तु राजपुत्री सा नकुलं सर्पकांक्षिणम् ।। २७ ।।
हृष्टं चंक्रममाणं सा नकुलं शुभदर्शनम् ।।
क्रोधात्तं नकुलं चापि विनिहन्तुं प्रचक्रमे ।। २८ ।।
वारिता राजपुत्रेण सुता प्राज्योतिषस्य वै ।।
नकुलं घातितं दृष्ट्वा मङ्गल्यं शुभदर्शनम् ।। २९ ।।
कुपितो राजपुत्रो वै राजपुत्रीमभाषत ।।
स्त्रीणां भर्त्ता सदा मान्यस्तं मामुल्लङ्घ्य निष्ठुरम् ।। 126.१३० ।।
दर्शनीयः प्रियो राज्ञां मङ्गल्यः शुभदर्शनः ।।
घातितो नकुलः कस्मान्मया वै वार्यमाणया ।। ३१ ।।
इति भर्तृवचः श्रुत्वा प्राग्ज्योतिषसुता तदा ।।
प्रत्युवाच ततः क्रोधात्कोसलाधिपतेः सुतम् ।। ३२ ।।
असकृद्वार्यमाणोऽपि व्याली घातितवान्यतः ।।
तस्मान्मयापि नकुलो घातितः सर्पघातकः ।। ३३ ।।
राजपुत्र्या वचः श्रुत्वा राजपुत्रस्ततोऽब्रवीत् ।।
वाग्भिः स कटुकाभिश्च तर्ज्जयन्निव तां धरे ।। ३४ ।।
सर्पस्तीव्रविषो भद्रे तीक्ष्णदंष्ट्रो दुरासदः ।।
दशते मानुषं दुष्टो येनाऽसौ म्रियते जनः ।। ३५ ।।
तस्मान्मया हतो भद्रेऽहितकारी विषोद्धतः ।।
प्रजापाला वयं भद्रे येऽपि चैवापथे स्थिताः ।। ३६ ।।
सर्वांस्तान्दण्डयामो हि तीव्रदण्डैर्यथोचितम् ।।
साधून्ये चापि हिंसन्ति ह्यपराधविवर्ज्जितान् ।। ३७ ।।
स्त्रियं चैवापि हिंसन्ति कामकाराश्च ये नराः ।।
ते दण्ड्याश्चैव वध्याश्च राजधर्माद्यथार्हतः ।। ३८ ।।
मयापि राजधर्मो वै कर्त्तव्यो राजकर्मणि ।।
नकुलेनापराद्धं किं तद्वद त्वं ममापि हि ।। ३९ ।।
दर्शनीयः सुरूपश्च राज्ञां योग्यो गृहेषु च ।।
मङ्गल्यश्च पवित्रश्च नकुलः किं हतस्त्वया ।। ।। 126.१४० ।।
वार्यमाणोऽपि हि मया घातितो नकुलस्ततः ।।
ततो मम न भार्यासि न चाहं ते पतिः स्थितः ।।४१ ।।
किञ्च तेन न हन्मि त्वां स्त्रियोऽवध्याः तदैव यत् ।।
इत्युक्त्वा राजपुत्रस्तां निवृत्य नगरं प्रति ।। ४२ ।।
एवं क्रोधं समादाय नष्टस्नेहैः परस्परम् ।।
एवं गच्छति काले वै कोसलायां जनाधिपः ।। ४३ ।।
शृणोति तां कथां सर्वां वधं नकुलसर्पयोः ।।
एवं श्रुत्वा यथान्यायं सक्रोधौ तावुभावपि ।। ४४ ।।
ततः कञ्चुकिनश्चैव स्वामात्यानग्रतः स्थितान् ।।
पुत्रं मम वधूं चैव समानयत सत्वरम् ।। ४५ ।।
ततो वै राजभृत्यास्तु राज्ञो वै प्रियकारिणः ।।
राजाज्ञां तां पुरस्कृत्य वधूं पुत्रं च सादरम् ।। ४६ ।।
आनीय दर्शयामासुर्यत्र राजा स्वयं स्थितः ।।
वधूपुत्रौ ततो दृष्ट्वा राजा वचनमब्रवीत् ।। ४७ ।।
पुत्र कुत्र गतं प्रेम युवयोस्तत्समाहितम् ।।
स्नेहश्च क्व गतः पूर्वो विरुद्धाचरणौ कथम् ।। ४८ ।।
आसीद्या युवयोः प्रीतिरन्योऽन्यं जतुकाष्ठवत् ।।
दर्पणे प्रतिबिम्बं च दृश्यते यद्वदात्मनः ।। ४९।।
सन्मुखत्वेन च सदा तद्वद्वां याऽभवत्पुरा ।।
दक्षा सुशीला धर्मिष्ठा नैनां त्यक्तुं त्वमर्हसि ।।126.१५०।।
अप्रियं नोक्तपूर्वं तु यया परिजनेऽपि च ।।
मिष्टान्नसाधने दक्षा त्वया त्यक्तं न युज्यते ।। ५१ ।।
धनपूर्वस्तु ते धर्मः स च योषित्कृतः खलु ।।
अहो सत्यं जनानां च स तु स्त्रीभ्यः सुतः कुलम् ।। ५२ ।।
ततः पितुर्वचः श्रुत्वा राजपुत्रो यशस्विनि।।
उभौ तच्चरणौ गृह्य पितरं प्रत्यभाषत ।।५३।।
दोषो न विद्यते तात स्नुषायां कोऽपि कुत्रचित् ।।
किं मे तु वार्यमाणापि नकुलं मेऽग्रतोऽहनत् ।। ५४ ।।
ततोऽभवन्मम क्रोधो दृष्ट्वा पातितमग्रतः ।।
क्रोधासक्तेन तु मया यथेयं परिभाषिता ।। ५५ ।।
मम भार्या न भवती न चाहं तव वै पतिः ।।
एतच्च कारणं नान्यत्किञ्चिद्राजन्न संशयः ।। ५६।।
ततः पतिवचः श्रुत्वा प्राग्ज्योतिषकुलोद्भवा ।।
शिरसा प्रणतिं कृत्वा इदं वचनमब्रवीत् ।। ५७ ।।
अपराधविहीनश्च भीतश्च भुजगस्तथा ।।
शतशो वार्यमाणेन शीघ्रमेव निपातितः ।। ९८।।
ततः सर्पवधं दृष्ट्वा कोधसंतप्तमानसा ।।
नाभाषितः किमपि नो मयैतदवधेहि वै ।। ५९ ।।
वधूपुत्रवचः श्रुत्वा कोसलानां जनेश्वरः ।।
उवाच मधुरं वाक्यमुभयोर्जनसंसदि ।। 126.१६० ।।
अनेन निहतः सर्पस्त्वया च नकुलो हतः ।।
कथं वा क्रियते क्रोधस्तन्मे वक्तुमिहार्हथ ।। ६१ ।।
हते तु नकुले पुत्र किं ते क्रोधस्य कारणम् ।।
राजपुत्रि हते सर्पे किं वा ते मन्युकारणम् ।। ६२ ।।
ततः पितुर्वचः श्रुत्वा कोसलेश्वरनंदनः ।।
उवाच मधुरं वाक्यं राजपुत्रो महयशाः ।। ६३ ।।
एतेन किं वा प्रश्नेन नैतत्प्रष्टुं त्वमर्हसि ।।
एनां पृच्छ महाराज ज्ञास्यते कायचेष्टितम् ।। ६४ ।।
पुत्रस्य वचनं श्रुत्वा कोसलानां जनेश्वरः ।।
उवाच मधुरं वाक्यं धर्मसंयोगसाधनम् ।।६५।।
ब्रूहि पुत्र यथान्यायं यत्ते मनसि वर्तते ।।
प्रीतिविच्छेदकरणमुभयोरिह कथ्यताम् ।। ६६ ।।
जाताः सम्वर्धिताः पुत्राः सर्वकामेषु निष्ठिताः ।।
पितृपृष्टं तु यद्गुह्यं गोपयंति सुताधमाः ।। ६७ ।।
सत्यं वा यदि वाऽसत्यं न ब्रुवंति कदाचन ।।
पतंति नरके घोरे रौरवे तप्तवालुके ।। ६८ ।।
पित्रा पृष्टं तु ये ब्रूयुः शुभं वाशुभमेव वा ।।
दिव्यां च ते गतिं यांति या गतिः सत्यवादिनाम् ।। ६९ ।।
अवश्यमेव तद्वाक्यं वक्तव्यं मम सन्निधौ ।।
यस्य दोषेण ते पुत्र नष्टा प्रीतिर्गुणाकरा ।। 126.१७० ।।
ततः पितुर्वचः श्रुत्वा कोसलानन्दिवर्द्धनः ।।
उवाच श्लक्ष्णया वाचा तत्रैव जनसंसदि ।। ७१ ।।
गच्छत्वेष जनः सर्वो यथान्यायं गृहाणि वै ।।
प्रातस्त्वां कथयिष्यामि यद्वक्तव्यमवश्यकम् ।।७२।।
प्रभातायां तु शर्वर्यां दुंदुभीनां विनादनैः ।।
निबुद्धः कोसलश्रेष्ठः सूतमागधबन्दिभिः ।। ७३ ।।
तदा कमलपत्राक्षो राजपुत्रो महायशाः ।।
स्नात्वा च मङ्गलैर्युक्तो राजद्वारमुपागतः ।। ७४ ।।
ततस्तु कंचुकी गत्वा राज्ञे चैव न्यवेदयत् ।।
द्वारि तिष्ठति पुत्रस्ते तव दर्शनलालसः ।। ७९ ।।
कंचुकेस्तु वचः श्रुत्वा कोसलानां जनेश्वरः ।।
शीघ्रं प्रवेशय सुतं कंचुके साधुवादिनम् ।। ७६ ।।
इत्युक्तो राजपुत्रं तु प्रावेशयदनुज्ञया ।।
राजपुत्रः पितुर्वेश्म प्रविश्य नियतः शुचिः ।। ७७ ।।
ववन्दे चरणौ मूर्ध्ना निषीदेति सुतं ततः ।।
तमब्रवीत्पिता जीव जयेत्युक्ता मुदान्वितः ।। ७८ ।।
पितृपुत्रौ तु विज्ञेयौ जनैस्त्वेकत्र संस्थितौ ।।
हर्षितस्त्वान्तरो बाह्यः कृतकौतुकमङ्गलः ।। ७९ ।।
ततः पुत्रं प्रहस्याह कुमारं स जनाधिपः ।। ।।
वद पुत्र महाभाग पूर्वं पृष्टं मया हि यत् ।। 126.१८० ।।
युवयोः प्रीतिविच्छेदे कारणं गोपितं हि यत् ।।
ततो राजकुमारस्तं पितरं प्रत्यभाषत ।।८१ ।।
अवश्यमेव वक्तव्यं त्वया पृष्ठेन निष्फलम् ।।
तद्गुह्यं हि महाराज प्रीतिविच्छेदकारकम् ।। ८२ ।।
यदीच्छसि महाराज श्रोतुं गुह्यमिदं महत् ।।
आगच्छ तात कुब्जाम्रे मया सह महीपते ।। ८३ ।।
तत्र ते कथयिष्यामि कोसलाधिपते त्वरन् ।।
यत्त्वया पृच्छितं ह्येतद्गुह्यं पूर्वमनिन्दितम् ।। ८४ ।।
ततस्तस्य वचः श्रुत्वा राजपुत्रस्य वै नृपः ।।
बाढमित्येव तत्राह पुत्रप्रेम्णा समन्वितः ।। ८५ ।।
राजपुत्रे गते सुभ्रु अमात्यानां च सन्निधौ ।।
उवाच मधुरं वाक्य ये वै तत्र समागताः ।। ८६ ।।
अमात्याः शृणुतेमं मे वचनं कृतनिश्चयम् ।।
कुब्जाम्रकं प्रति वयं गच्छामस्तस्य साधनम् ।। ८७ ।।
शीघ्रं सम्पाद्यतां चैव युज्यन्तां गजवाजिनः ।।
राज्ञो वचस्ते संश्रुत्य तमूचुः कृतमेव तत् ।। ८८ ।।
इत्युक्त्वा सप्तरात्रेण सर्वं सम्पाद्य साधनम् ।।
गजाश्वपशुयानादिकार्षापणकधेनुकम् ।। ८९ ।।
सुवर्णरत्नवस्त्राणि अन्नं चान्यदपेक्षितम् ।।
राजानं ते समागत्य सिद्धमित्यूचुरीश्वरम् ।। 126.१९० ।।
ततः स राजशार्दूलः पुत्रमाह वसुन्धरे ।।
राज्यं शून्यं कथं त्यक्त्वा गमिष्यामो वयं सुत ।। ९१ ।।
ततः पितुर्वचः श्रुत्वा राजपुत्रो महायशाः ।।
उवाच मधुरं वाक्यं गृहीत्वा चरणौ पितुः ।। ९२ ।।
कनीयानेष मे भ्राता एकोदर समुद्भवः ।।
एतस्य दीयतां राज्यं यथान्यायेन चागतम् ।।९३ ।।
पुत्रस्य वचनं श्रुत्वा कोसलानां कुलोद्वहः ।।
वर्त्तमानेऽपि च ज्येष्ठे कनीयान् कथमर्हति ।। ९४ ।।
ततः पितुर्वचः श्रुत्वा कोसलायाः कुलोद्भवः ।।
उवाच मधुरं वाक्यं पितरं धर्मकारणात् ।। ९५ ।।
अनुजानामि ते तात दीयमानां वसुन्धराम् ।।
नास्य धर्मविलोपस्तु भुञ्जमानस्य मेदिनीम् ।।९६ ।।
नाहं कुब्जाम्रकं गत्वा निवर्तिष्ये कदाचन ।।
एतत्सत्यं च धर्मश्च तात ते कथितं मया ।। ९७ ।।
पुत्रेण चाभ्यनुज्ञातः कनीयानभिषेचितः ।।
स मुख्येनाभ्यनुज्ञातो भूमे भूपतिसत्तमः ।। ९८ ।।
ततो दीर्घेण कालेन स्थानं कुब्जाम्रकं गतः ।।
अन्तःपुरेण सहितः सर्वद्रव्यसमन्वितः ।। ९९ ।।
ततस्तीर्थावधिं कृत्वा दत्त्वा दानानि भूरिशः ।।
अन्नवस्त्र सुवर्णानि गोहस्त्यश्वभुवस्तथा ।। 126.२०० ।।
ततो बहुतिथे काले व्यतीते सति धीमताम् ।।
ततः कदाचिद्भूपालो राजपुत्रमुपस्थितम् ।। १ ।।
दम्पत्योः प्रीतिविच्छेदं गुह्यं तत्समपृच्छत ।।
स्थानं पावनकं वत्स विष्णोः पादसमाश्रयम् ।।२।।
दत्तानि धनरत्नानि जातस्तस्य विधिः परः ।।
इदानीं ब्रूहि सत्यं तद्यत्कृते सुन्दरी स्नुषा ।। ३ ।।
अदुष्टकारिणी युक्ता कुलशीलगुणान्विता ।।
त्वया मिथ्यैव किं त्यक्ता तद्गुह्यं वद पुत्रक ।।४।।
ततः स पितरं प्राह रात्रिगर्च्छतु सुप्यताम् ।।
श्वः प्रभाते ततः सर्वं कथयिष्यामि तत्पुनः ।। ५ ।।
ततो रात्र्यां व्यतीतायामुदिते च दिवाकरे ।।
कृतोदकस्तु गङ्गायां क्षौमवस्त्रविभूषितः ।। ६ ।।
अर्चयित्वा यथान्यायं मां चैव गुरुवत्सलः ।।
पितुः प्रदक्षिणं कृत्वा वाक्यमेतदुदाहरत् ।। ७ ।।
एह्येहि तात गच्छामः यस्त्वं गुह्यानि पृच्छसि ।।
शृणु तत्त्वेन मे राजन्यत्त्वया पूर्वपृच्छितम् ।।८।।
राजपुत्रश्च वै राजा सा च पङ्कजलोचना ।।
गत्वा निर्माल्यकूटं ते यत्त्वृत्तं पुरातनम् ।। ९।।
निर्माल्यं तु समासाद्य राजपुत्रो महातपाः ।।
उभो तौ चरणौ गृह्य पितरं प्रत्यभाषत।।126.२१०।।
नकुलोऽहं महाराज वसामि कदलीतले ।।
ततोऽहं कालसंयुक्तः प्राप्तो निर्माल्यकूटकम् ।। ११ ।।
ततस्त्वाशीविषा सर्पी सर्पतेऽत्र जनाधिप।।
भक्षयन्ती सुगन्धानि पुष्पाणि विविधानि च ।।१२।।
दृष्ट्वा तु तां महाव्यालीं क्रोधसंरक्तलोचनः ।।
अचिरेणैव कालेन तस्याङ्कं सहसा गतः।।१३।।
तया सह महाराज घोरं युद्धमवर्त्तत ।।
माघमासस्य द्वादश्यां तत्र कश्चिन्न पश्यति ।।१४ ।।
युध्यमानस्य मे तत्र गात्रं चैव निगूहतः ।।
नासावंशे तया दष्टो भुजङ्ग्या च तदन्तरे ।।१५।।
मयापि विषदिग्धेन निहता च भुजंगमा ।।
उभौ प्राणान्परित्यज्य उभौ पंचत्वमागतौ ।।१६।।
मृतौ स्व काले राजेन्द्र क्रोधमोहपरिच्युतौ ।।
जातोऽहं तव पुत्रस्तु कोसलाधिपतेः प्रियः ।। १७ ।।
एवं मे घातितः सर्पस्तत्क्रोधवशनिश्चयात् ।।
एतद्गुह्यं मया राजन्यत्त्वया पूर्वपृच्छितम् ।। १८ ।।
राजपुत्रवचः श्रुत्वा वधूर्वचनमब्रवीत् ।।
अहं सर्पी महाराज पुरा निर्माल्यकूटके ।। १९ ।।
युध्यमाना तु तेनैव नकुलेन निपातिता ।।
प्राग्ज्योतिषकुले जाता जाता तव वधूस्ततः।।126.२२०।।
तेन क्रोधेन नृपते मूर्च्छिता मरणं प्रति ।।
घातितो नकुलश्चैतद्गुह्यं प्रोक्तं तव प्रभो ।। २१ ।।
वधूपुत्रवचः श्रुत्वा स राजा संशितव्रतः ।।
मायातीर्थं समासाद्य ततः पंचत्वमागतः ।। २२ ।।
राजपुत्रो विशालाक्षी राजपुत्री यशस्विनी ।। २३ ।।
पौण्डरीके ततस्तीर्थे तेऽपि पंचत्वमागताः ।। २४ ।।
गतास्ते परमं स्थानं यत्र देवो जनार्द्दनः ।।
राजा वा राजपुत्रश्च राजपुत्री यशस्विनी ।। २५ ।।
मम चैव प्रसादेन तपसश्च बलेन च ।।
कृत्वा सुदुष्करं कर्म श्वेतद्वीपमुपागताः ।। २६ ।।
योऽसौ परिजनो देवि कृत्वा तु सुकृतं महत् ।।
सोऽपि सिद्धिं परा प्राप्तः श्वेतद्द्वीपमुपागतः ।।२७।।
एष ते कथिता देवि पुष्टिः कुब्जाम्रकस्य च ।।
तस्य ब्राह्मणमुख्यस्य रैभ्यस्य कथिता मया ।। २८ ।।
एतत्पुण्यं परं जप्यं चातुर्वर्ण्येन सर्वदा ।।
सर्वकर्मसु मुख्यं च एतदेव विशिष्यते ।।२९।।
तेजसां च महत्तेजस्तपसां च महत्तपः ।।
एतन्न मूर्खमध्ये तु पठेच्चापि कदाचन ।।126.२३०।।
न पठेद्गोघ्नमध्ये तु वेदवेदाङ्गनिन्दके ।।
न पठेद्गुरुविद्विष्टे न पठेच्छास्त्रदूषके ।। ३१ ।।
पठेद्भागवतानां च मध्ये दीक्षावतां तथा ।।
य एतत्पठते भूमे कल्यमुत्थाय मानवः ।। ३२ ।। ।
तारयेच्च स्वकुलजान् दशपूर्वान्दशापरान् ।।
एतत्तु पठमानो वै यस्तु प्राणान्विमुंचति ।। ३३ ।।
चतुर्भुजश्च जायेत मल्लोकेषु प्रतिष्ठितः ।।
एतत्ते कथितं भूमे स्थानं कुब्जाम्रके तथा ।।
मम भक्तसुखार्थाय किमन्यत्परिपृच्छसि ।। २३४ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे कुब्जाम्रक माहात्म्ये रैभ्यानुग्रहणं नाम षड्विंशत्यधिकशततमोऽध्यायः ।। १२६।।