वराहपुराणम्/अध्यायः ११४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११३ वराहपुराणम्
अध्यायः ११४
[[लेखकः :|]]
अध्यायः ११५ →

अथ श्रीवराहावतारः ।।
श्रीवराह उवाच ।।
संस्तूयमानो भगवान्मुनिभिर्मन्त्रवादिभिः ।।
तुष्टो नारायणो देवः केशवः परमो विभुः ।। १ ।।
ततो ध्यानं समास्थाय दिव्यं योग्यं च माधवः ।।
मधुरं स्वरमास्थाय प्रत्युवाच वसुन्धराम् ।। २ ।।
तव देवि प्रियार्थाय भक्त्या यं त्वं व्यवस्थिता ।।
कारयिष्यामि ते सर्वं यत्ते हृदि व्यवस्थितम् ।। ३ ।।
अहं त्वां धारयिष्यामि सशैलवनकाननाम् ।।
ससागरां ससरितं सप्तद्वीपसमन्विताम् ।। ४ ।।
एवमाश्वासयित्वा तु वसुधां स च माधवः ।।
रूपं संकल्पयामास वाराहं सुमहौजसम् ।। ५ ।।
षट् सहस्राणि चोच्छ्रायो विस्तारेण पुनस्त्रयः ।।
एवं नवसहस्राणि योजनानां विधाय च ।। ६ ।।
वामया दंष्ट्रया गृह्य उज्जहार च मेदिनीम् ।।
सपर्वतवनाकारां सप्तद्वीपां सपत्तनाम् ।। ७ ।।
नगा विलग्नाः पतिताः केचिद्विज्ञानसंश्रिताः ।।
शोभन्ते च विचित्रांगमेघाः सन्ध्यागमे यथा ।। ८ ।।
चन्द्रनिर्मलसङ्काशा वराहमुखसंस्थिताः ।।
शोभन्ते चक्रपाणेश्च मृणालं कर्दमे यथा ।। ९।।
एवं हि धार्यमाणा सा पृथिवी सागरान्विता ।।
वर्षाणां च सहस्रं हि वज्रदंष्ट्रेण साधुना ।।114.१० ।।
तस्यामेव तु कालस्य परिमाणं युगेषु च ।।
एकसप्ततिके कल्पे कर्दमोऽयं प्रजापतिः ।। ११ ।।
ततः पृथिव्या देवश्च भगवान्विष्णुरव्ययः।।
अन्योन्याभिमताश्चैव वाराहे कल्प उत्तमे ।। १२।।
सा गौः स्तुवति तं चैव पुराणं परमव्ययम् ।।
योगेन परमेणैव शरणं चैव गच्छति ।।१३।।
आधारः कीदृशो देव उपयोगश्च कीदृशः ।।
कालेकाले च देवेश कर्मणश्चापि कीदृशः ।। १४ ।।
कीदृशा पश्चिमा संध्या कीदृशी ह्यर्धबाह्यतः ।।
शेषाः समानास्त्वा देव ये तु कर्माणि कुर्वते ।। १५ ।।
किन्नु संस्थापने देव आवाहनविसर्जने ।।
अगुरुं गन्धधूपं च प्रमाणं गृह्यते कथम् ।। १६ ।।
कथं पाद्यं च गृह्णाति स्नापनालेपनानि च ।।
कथं दीपश्च दातव्यः कन्दमूलफलानि च ।। १७ ।।
आसनं शयनं चैव किङ्कर्म्मापि विधीयते ।।
कथं पूजादि कर्त्तव्यं प्राणास्तत्र च वै कति ।। १८ ।।
पश्चिमा पूर्वसंध्यायां किं पुण्यं चापि तत्र वै ।।
शरदि कीदृशं कर्म शिशिरे कर्म कीदृशम् ।। १९ ।।
वसन्ते कीदृशं कर्म ग्रीष्मे किं कर्म कारयेत् ।।
प्रावृट्काले च किं कर्म वर्षान्ते किञ्च कारयेत् ।। 114.२० ।।
यानि तत्रोपभोग्यानि पुष्पाणि च फलानि च ।।
कर्मण्यास्ते अकर्मण्या ये च शास्त्रबहिष्कृताः ।। २१ ।।
किं कर्मणा भोगवता तावद्गच्छति माधवम् ।।
कथं कर्म न चान्नेषु अतिगच्छति कीदृशम् ।। २२ ।।
अर्च्चायाः किं प्रमाणं तु स्थापनं चापि कीदृशम् ।।
परिमाणं कथं देव उपवासश्च कीदृशः ।। २३ ।।
पीतकं शुक्लरक्तं वा कथं गृह्णाति वाससाम् ।।
तेषां तु कानि वस्त्राणि यैर्हितं प्रतिपद्यते ।। २४।।
केषु द्रव्येषु संयुक्तं मधुपर्कं प्रदीयते ।।
के तु कर्मगुणास्तस्य मधुपर्कस्य माधव ।।२८५।।
केषु लोकेषु गच्छन्ति मधुपर्कस्य भक्षणात् ।।
स्तवे परमकालेऽपि तव भक्तस्य माधव।।२६ ।।
किम्प्रमाणं तु दातव्यं मधुपर्कसमन्वितम् ।।
कानि मांसानि ते देव फलं शाकस्य कीदृशः ।।२७।
प्रापणेष्वपि युज्येत कर्म शास्त्रसमायुतम् ।।
आहूतस्य च मन्त्रेण आगते धर्मवत्सल ।।२८।।
केन मन्त्रविधानेन प्राशनं ते प्रदीयते ।।
व्रतस्य चोपचारेषु अर्च्चयित्वा यथाविधि।।२९।।
कानि कर्म्माणि कुर्वीत तव भक्तस्य भोजनात् ।।
यस्तु तं प्रापणं देव न च दोषप्रसादिकम् ।।114.३०।।
के ऽत्र भुंजन्ति तद्देव सर्वशुद्धिकरं परम् ।।
ये तु एकाशिनो देवमुपसर्पन्ति माधवम्।।३१।।
तेषां तु का गतिर्देव तव मार्गानुसारिणाम् ।।
व्रतं कृत्वा यथोक्तेन येऽभिगच्छन्ति माधवम् ।।३२।।
तेषां तु का गतिर्देव तव भक्तिं प्रकुर्वताम् ।।
कृच्छ्रसांतपने कृत्वा येऽभिगच्छन्ति माधवम् ।३३ ।
कां गतिं ते प्रपद्यन्ते तव कर्मपरायणाः ।।
वाय्वाहारं ततः कृत्वा कृष्णं समधिगच्छति ।। ३४ ।।
तेषां तु का गतिः कृष्ण तव भक्तौ व्यवस्थिताः ।।
अक्षारलवणं कृत्वा येऽभिगच्छन्ति चाच्युतम् ।।३५।।
कां गतिं ते प्रपद्यन्ते तव कर्मानुसारिणः ।।
कृत्वा पयोव्रतं चैव येऽभिगच्छंति चाच्युतम् ।। ३६ ।।
ते कां गतिं प्रपद्यन्ते नरा ये व्रतकारिणः।।
दत्त्वा गवाह्निकं चैव ये प्रपद्यन्ति माधवम् ।।३७।।
कां गतिं ते प्रपद्यन्ते तव भक्त्या व्यवस्थिताः ।।
उञ्छवृत्तिं समास्थाय येऽभिगच्छन्ति माधवम् ।।३८।।
कां गतिं ते प्रपद्यन्ते नरा भिक्षोपजीविनः।।
गृहस्थधर्मं कृत्वा वै येऽभिगच्छन्ति माधवम् ।।३९।।
कां गतिं ते प्रपद्यन्ते तव कर्मपरायणाः ।।
तव क्षेत्रेषु वैकुण्ठ ये तु प्राणान्विमुञ्चते ।।114.४०।।
काँल्लोकांस्ते प्रपद्यन्ते तव क्षेत्रेषु ये मृताः ।।
कृत्वा पंचातपं चैव माधवाय प्रयच्छति ।।४१ ।।
कां गतिं वै परायान्ति ये तु पंचातपे मृताः ।।
कण्टशय्यां समासाद्य ये प्रपश्यन्ति चाच्युतम्।।४२।।
तेषां तु का गतिर्देव कण्टशय्यां समाश्रिताः।।
आकाशशयनं कृत्वा ये प्रपद्यन्ति चाच्युतम् ।। ४३।।
तेषां तु का गतिः कृष्ण तव भक्तिपरायणाः ।।
गोव्रजे शयनं कृत्वा ये प्रपद्यन्ति केशवम् ।। ४४ ।।
तेषां तु का गतिर्ब्रह्मंस्तव भक्तिपथे स्थिताः ।।
शाकाहारं ततः कृत्वा येऽभिगच्छन्ति चाच्युतम् ।। ४५ ।।
तेषां तु का गतिर्देव कणभक्षास्तु ये नराः ।।
पंचगव्यं ततः पीत्वा येऽभिगच्छन्ति माधवम् ।। ४५ ।।
तेषां तु का गतिर्देव ये नरा यावकाशिनः ।।
आहारं गोमयं कृत्वा येऽभिगच्छन्ति केशवम् ।। ४७ ।।
नारायण गतिस्तेषां कीदृशोऽत्र विधिः स्मृतः ।।
सक्तुं वै भक्षयित्वा तु ये प्रपद्यन्ति चाच्युतम् ।। ४८ ।।
तेषां तु का गतिर्देव तव कर्मपरायणाः ।।
शिरसा दीपकं कृत्वा येऽभिगच्छन्ति केशवम् ।। ४९ ।।
तेषां तु का गतिर्देव शिरसा दीपधारणात् ।।
ये हि नित्यं पयः पीत्वा तव चिन्ताव्यवस्थिताः ।। 114.५० ।।
ते गतिं कां प्रपद्यन्ते तव चिंतापरायणाः ।।
अश्माशनं व्रतं कृत्वा ये प्रपद्यन्ति नित्यशः ।। ५१ ।।
तेषां तु का गतिर्देव तव भक्तिपरायणाः ।।
भक्षयित्वा तु दूर्वां ये प्रपद्यन्ते मनीषिणः ।। ५२ ।।
तेषां तु का गतिर्देव स्वधर्मगुणचारिणः ।।
जानुभ्यां प्रतिपद्यन्ते तव प्रीत्या च माधव ।।५३।।
तेषां तु का गतिर्देव तन्ममाचक्ष्व पृच्छतः ।।
उत्तानशयनं कृत्वा धारयन्ति हि दीपिकाम् ।। ५४ ।।
ते यांति कां गतिं देव कथ्यते या च शाश्वती ।।
जानुभ्यां दीपकं कृत्वा केशवाय प्रपद्यते।।५५।।
तेषां तु का गतिर्देव कथ्यते चैव शाश्वती ।।
अवाङ्मुखस्तु भूत्वा वै यः प्रपद्येज्जनार्द्दनम् ।। ५६ ।।
भगवन् का गतिस्तस्य अवाक्शिरसि शायिनः ।।
पुत्रदारगृहं चैव मुक्त्वा योऽनुप्रपद्यते ।। ५७ ।।
का गतिस्तस्य सिद्धा तु कथयस्व सुरोत्तम ।।
भाषितोऽसि मया ह्येवं सर्वलोकसुखावहम् ।। ५८ ।।
गमनागमनं चैव त्वत्प्रसन्नेन माधव ।।
त्वं ज्ञाता त्वं पिता चैव सर्वधर्मविनिश्चयः ।। ५९ ।।
अतस्त्वयैव वक्तव्यो योगसाङ्ख्यविनिश्चयः ।।
त्वां भजंश्च गते जीवे मधुपर्कसमन्वितम् ।। 114.६० ।।
भस्माकुलेषु निःक्षिप्य कथं चाग्नौ प्रपद्यते ।।
कां गतिं प्रतिपद्यन्ते त्वद्भक्ता जलमास्थिताः ।। ६१ ।।
त्वत्क्षेत्रसंस्थितो वापि तन्ममाचक्ष्व पृच्छतः ।।
स्मरण पुत्र ते कृष्ण यैस्तु नाम प्रकीर्त्यते ।। ६२ ।।
नमो नारायणेत्युक्त्वा तेषां वै का गतिर्भवेत् ।।
उद्यतेष्वपि शस्त्रेषु हन्यमाना रणे नराः ।। ६३ ।।
नामप्रकीर्तनात्तेषां कीदृशी तु गतिर्भवेत् ।।
अहं शिष्या च दासी च तव भक्त्या व्यवस्थिता ।। ६४ ।।
रहस्यं धर्मसंयुक्तं तन्ममाचक्ष्व माधव ।।
एवं तत्परमं गुह्यं मम प्रीत्या जगद्गुरो ।। ६५ ।।
संचिन्त्य लोकधर्मार्थं तद्भवान् वक्तुमर्हति ।।
इति श्रीवराहपुराणे पृथिव्याः प्रश्नो नाम चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।