वराहपुराणम्/अध्यायः १११

विकिस्रोतः तः
← अध्यायः ११० वराहपुराणम्
अध्यायः १११
[[लेखकः :|]]
अध्यायः ११२ →

अथ कपिलाधेनुदानमाहात्म्यम् ।।
होतोवाच ।।
अथातः सम्प्रवक्ष्यामि कपिलां धेनुमुत्तमाम् ।।
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ।। १ ।।
पूर्वोक्तेन विधानेन दद्याद्धेनुं सवत्सकाम् ।।
सर्वालङ्कारसंयुक्तां सर्वरत्नसमन्विताम् ।। २ ।।
कपिलायाः शिरो ग्रीवा सर्वतीर्थानि भामिनि ।।
पितामहनियोगाच्च निवसन्ति हि निश्चयः ।। ३ ।।
प्रातरुत्थाय यो मर्त्यः कपिलागलमस्तकात् ।।
च्युतं तु भक्त्या पानीयं शिरसा वन्दते शुचिः ।। ४ ।।
स तेन पुण्यतोयेन तत्क्षणाद्दग्धकिल्बिषः ।।
त्रिंशद्वर्षकृतं पापं दहत्यग्निरिवेन्धनम् ।।५।।
कल्यमुत्थाय यो मर्त्यः कुर्यात्तासां प्रदक्षिणम् ।।
प्रदक्षिणी कृता तेन पृथिवी स्याद्वसुन्धरे।।६।।
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन तत्क्षणात्।।
दशजन्मकृतं पापं तस्य नश्यत्यसंशयम् ।।७।।
कपिलायास्तु मूत्रेण स्नायाच्चैव शुचिव्रतः।
स गङ्गादिषु तीर्थेषु स्नातो भवति मानवः ।।८।।
तेन स्नानेन चैकेन भावयुक्तेन वै नरः ।।
यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः ।। ९ ।।
गोसहस्रं च यो दद्यादेकां वा कपिलां नरः ।।
सममेतत्पुरा प्राह ब्रह्मा लोकपितामहः ।। 111.१०।।
गवामस्थि ततोऽप्येतन्मृतगन्धेन दूषयेत् ।।
यावज्जिघ्रति तं गन्धं तावत्पुण्यैस्तु पूर्यते ।। ११ ।।
गवां कण्डूयनं श्रेष्ठं तथा च परिपालनम् ।।
तुल्यं गोशतदानस्य भयरोगादिपालने ।।१२।।
तृणादिकानि यो दद्यात्क्षुधितेन गवाह्निकम् ।।
गोमेधस्य फलं दिव्यं लभते मानवोत्तमः ।। १३ ।।
विमानैर्विविधैर्दिव्यैः कन्याभिरभितोऽर्पितैः ।।
सेव्यमानः सुगन्धैर्वै दीप्यमान इवाग्नयः।।१४।।
सुवर्णकपिला पूर्वं द्वितीया गौरपिङ्गला ।।
तृतीया चैव रक्ताक्षी चतुर्थी गुडपिंगला।।१५।।
पंचमी बहुवर्णा स्यात्षष्ठी च श्वेतपिङ्गला।।
सप्तमी श्वेतपिंगाक्षी त्वष्टमी कृष्णपिंगला ।।१६।।
नवमी पाटला ज्ञेया दशमी पुच्छपिंगला ।।
एकादशी खुरश्वेता त्वेतासां सर्वलक्षणाः ।। १७ ।।
सर्वलक्षणसंयुक्ता सर्वालंकृतसुन्दरी ।।
ब्राह्मणाय प्रदातव्या भुक्तिमुक्तिप्रदायिनी ।। १८ ।।
भुक्तिमुक्तिप्रदा तेषां विष्णुमार्गप्रदायिनी ।। १९ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने कपिलादानमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः ।। १११ ।।