वराहपुराणम्/अध्यायः १०८

विकिस्रोतः तः
← अध्यायः १०७ वराहपुराणम्
अध्यायः १०८
[[लेखकः :|]]
अध्यायः १०९ →

अथ लवणधेनुदानमाहात्म्यम् ।।
होतोवाच ।।
लवणधेनुं प्रवक्ष्यामि तां निबोध नृपोत्तम ।।
षोडशप्रस्थसंयुक्तां धेनुं कृत्वा तु मानवः ।। १ ।।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ।।
धेनुं लवणमयीं कृत्वा षोडशप्रस्थसंयुताम् ।। २ ।।
वत्सं चतुर्भी राजेन्द्र इक्षुपादांश्च कारयेत् ।।
सुवर्णमुखशृङ्गाणि खुरा रौप्यमयास्तथा ।। ३ ।।
मुखं गुडमयं तस्या दन्ताः फलमया नृप ।।
जिह्वां शर्करया राजन्घ्राणं गन्धमयं तथा ।।
नेत्रे रत्नमये कुर्यात्कर्णौ पत्रमयौ तथा ।।
श्रीखण्डमयकोष्ठौ च नवनीतमयाः स्तनाः ।। ४ ।।
सूत्रपुच्छां ताम्रपृष्ठां दर्भरोमां पयस्विनीम् ।।
कांस्योपदोहां राजेन्द्र घंटाभरणभूषिताम् ।।५।।
सुगन्धपुष्पधूपैश्च पूजयित्वा विधानतः ।।
आच्छाद्य वस्त्रयुग्मेन ब्राह्मणाय निवेदयेत् ।। ६ ।।
नक्षत्रग्रहपीडां च सर्वकालं प्रदापयेत् ।।
ग्रहणे वाथ संक्रान्तौ व्यतीपाते तथायने ।। ७ ।।
द्विजाय साधुवृत्ताय वेदवेदाङ्गवेदिने ।।
द्विजाय साधुवृत्ताय कुलीनाय च धीमते ।। ८ ।।
वेदवेदाङ्गविदुषे श्रोत्रियायाहिताग्नये ।।
ईदृशाय प्रदातव्या तथाऽमत्सरिणे नृप ।। ९ ।।
इष्ट्वा चैवं च मन्त्रं तु पुच्छदेशोपविश्य च ।।
छत्रकोपानहौ देये मुद्रिकाकर्णमात्रकैः ।। 108.१० ।।
आच्छाद्य वस्त्रयुग्मेन दक्षिणां कम्बलं ददेत् ।।
पूर्वोक्तेन विधानेन स्वशक्त्या कनकेन तु ।।११।।
ब्राह्मणं पूज्य विधिवत्पूर्वोक्तविधिना नृप ।।
सदक्षिणं च गोपुच्छं दत्त्वा ब्राह्मणहस्तके ।। १२ ।।
इमं मन्त्रं समुच्चार्य ततस्तां प्रतिपादयेत् ।।
इमां गृहाण भो विप्र रुद्ररूपां नमोऽस्तु ते ।। १३ ।।
रसज्ञा सर्वभूतानां सर्वदेवनमस्कृता ।।
कामं पूरय मे देवि रुद्ररूपे नमोऽस्तु ते ।। १४ ।।
दत्त्वा धेनुं तु लवणेनैकाहं चैव तिष्ठति ।।
स्वयं त्रिरात्रं विप्रेण तथैव लवणाशिना ।। १५ ।।
सहस्रेण शतेनाथ स्वशक्त्या कनकेन तु ।।
दत्त्वेमां स्वर्गमाप्नोति यत्र देवो वृषध्वजः ।। १६ ।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।।
मुच्यते सर्वपापेभ्यो रुद्रलोकं च गच्छति ।। १७ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने लवणधेनुमाहात्म्यं नाम अष्टाधिकशत तमोऽध्यायः ।। १०८ ।।