वराहपुराणम्/अध्यायः १०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०४ वराहपुराणम्
अध्यायः १०५
[[लेखकः :|]]
अध्यायः १०६ →

अथ क्षीरधेनुदानविधिः ।।
होतोवाच ।।
क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिप ।।
अनुलिप्ते महीपृष्ठे गोमयेन नृपोत्तम ।।१ ।।
गोचर्ममात्रमानेन कुशानास्तीर्य सर्वतः ।।
तस्योपरि महाराज न्यसेत्कृष्णाजिनं बुधः ।।२।।
तत्र कृत्वा कुण्डलिकां गोमयेन सुविस्तृताम् ।।
क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम् ।।३।।
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च ।।
प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत् ।।४।।
मुखं गुडमयं तस्या जिह्वां शर्करया तथा ।।
फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम् ।।९।।
इक्षुपादां दर्भरोमां सितकम्बलसंवृताम् ।।
ताम्रपृष्ठां कांस्यदोहां पट्टसूत्रमयीं शुभाम्।।६।।
पुच्छं च नृपशार्दूल नवनीतमयस्तनीम्।।
स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम् ।।७।।
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि विन्यसेत् ।।
सप्तधान्ययुतं पात्रे दिक्षु दिक्षु च विन्यसेत् ।।८ ।।
एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्पयेत् ।।
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैः समर्चयेत् ।। ९ ।।
धूपदीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् ।।
वस्त्रादिभिरलंकृत्य मुद्रिकाकर्णकुण्डलैः ।।105.१० ।।
पादुकोपानहौ छत्रं दत्त्वा दानं समर्पयेत् ।।
दद्यादनेन मन्त्रेण क्षीरधेनुं प्रयत्नतः ।।११।।
आप्यायस्वेति मन्त्रेण वेदोक्तेन विधानतः ।।
आश्रयः सर्वभूतानामित्यादि नरपुङ्गव।।१२।।
आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ।।
प्रतिग्राही पठेन्मन्त्रमेष दानविधिः स्मृतः ।।१३।।
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ।।
एतां हेमसहस्रेण शतेनाथ स्वशक्तितः।।१४।।
दत्वा धेनुं महाराज शृणु तस्यापि यत्फलम् ।।
षष्टिवर्षसहस्रं तु इन्द्रलोके महीयते।।१५।।
पित्रादिभिश्च सहितो ब्रह्मणो भवनं व्रजेत् ।।
दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः ।।१६।।
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति ।।
द्वादशादित्यसंकाशे विमानवरमण्डिते ।। १७ ।।
गीतवादित्रनिर्घोषैरप्सरोभिश्च सेविते ।।
तत्रोष्य विष्णोर्भवने विष्णुसायुज्यमाप्नुयात् ।।१८।
यं इमं शृणुयाद्राजन्पठेद्वा भक्तिभावतः।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।।१९ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वापोख्याने क्षीरधेनुदानविधिर्नाम पञ्चाधिकशततमोऽध्यायः ।।१०५।।