वराहज्वरः न महामारिः

विकिस्रोतः तः
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


वराहज्वर:’ ‘स्विन् फ्लू’ ‘एच्1 एन्1’ इत्यादिभि: नामभि: ख्यात: कश्चन रोग: अद्यत्वे समग्रे जगति मन्दगत्या प्रसरन् अस्ति । भारते अपि तस्य प्रसार: दृश्यते एव । दूरदर्शनवार्तापत्रिकादय: प्रतिदिनं कियद्भि: मरणं प्राप्तम्, तेन रोगेण कियन्त: ग्रस्ता: जाता:, कियतां परीक्षणं कृतम् इत्यादिकं पौन:पुन्येन प्रसारयन्त: जनेषु भीतिं वर्धयन्त: सन्ति । अत्रान्तरे एव प्रबलतया वार्ता श्रूयते यत् अयं रोग: न साहजिक:, अपि तु औषधनिर्मात्रीभि: संस्थाभि: प्रयोगालये एतत्सम्बद्धान् रोगाणून् उत्पाद्य बुद्ध्या एव अयं रोग: सर्वत्र प्रसारित: इति ।

यदा किमपि घटते तदा तद्विषये विविधा: वादा: सर्वत्र श्रूयन्ते एव । तेषु केचन बुद्धिबलेन सृष्टा:, अन्ये केचन कपोलकल्पनया उद्भाविता:, इतरे केचन वास्तविका: च भवेयु: । सर्वविधानाम् अपि वादानां वास्तविकता महता प्रयत्नेन एव ज्ञातव्या भवति । क्वचित् तु सा कदापि न ज्ञायेत अपि । वराहज्वरविषये अपि एतदेव अन्वेति । काश्चन औषधनिर्मात्र्य: संस्था: आत्मना निर्मितस्य औषधस्य विक्रयणाय एव एतं रोगं जगति सर्वत्र प्रसारितवत्य: सन्ति इत्ययं वाद: एषु दिनेषु प्रबलतया श्रूयते । आस्ट्रेलियादेशीया जेन् बर्गर्मीस्ट्नामिका परिशोधनपत्र-कारिणी एतस्मिन् विषये बहून् तथ्यांशान् सङ्गृह्य विश्वस्वास्थ्यसंस्थाम्, अमेरिकीयान् बहून् उच्चाधिकारिण:, कांश्चन औषधीयसंस्थाप्रमुखान् च विरुध्य न्यायालये अभियोगं पञ्जीकृतवती अस्ति ।

एष: ज्वर: गते एप्रिल्मासे ऐदम्प्राथम्येन दृष्टिगोचर: जात: मेक्सिकोदेशे । तत: षड्भ्य: मासेभ्य: पूर्वम् एव अमेरिकादेशीया बाक्सटर्नामिका औषधीयसंस्था महता प्रमाणेन एतत्सम्बद्धम् औषधम् उत्पाद्य अष्टादशभ्य: देशेभ्य: प्रेषितवती आसीत् । यस्य औषधस्य निर्माणाय 22 सप्ताहा: अपेक्षिता: एव भवेयु:, तदेव औषधं तया संस्थया निर्मितम् आसीत् सप्तदशसप्ताहाभ्यन्तरे एव । नूतनेन ‘सेल्लैन्’नामकेन तन्त्रज्ञानेन मया एतत् औषधं सज्जीकृतम् इति तया संस्थया स्वकृत्यं समर्थितम् । तस्य औषधस्य परीक्षणाय झेक्देशे तत् पक्षिभ्य: दत्तम् । तस्मात् ते च पक्षिण: अचिरात् एव मरणं प्राप्तवन्त: । यत: तेषु औषधेषु पक्षिज्वरसम्बद्धा: रोगाणव: आसन् !! पक्षिज्वरस्य प्रसाराय एव ताभि: औषधनिर्माणसंस्थाभि: औषधे दुर्मिश्रणं कृतम् इति झेक्पत्रिका: आरोपं कृतवत्य: । अन्ते तया संस्थया स्वस्य अपराध: स्वयम् अङ्गीकृत: !!

दुर्मिश्रणस्य विषय: अन्य: । तद्रहितम् एव औषधं केनचित् यदि सेव्येत तर्हि किं स्वास्थ्यं प्राप्येत ? तत्र सन्देहं प्रकटयन्ति विज्ञानिन: । यत: औषधस्य (सूच्यौषधस्य) कार्यकारिता-संरक्षणाय तत्र पारद: संयोजनीय: एव भवति । स च पारद: घोरविषमय: । तस्य सेवनात् ‘आटिसम्’नामकं वैफल्यं जायते शरीरे । अमेरिकादेशे राबटर्केनडिनामकस्य नेतृत्वे प्रवृत्तं सर्वेक्षणम् अवलम्ब्य निर्णीतम् अस्ति यत् बालेभ्य: दीयमाने सूच्यौषधे पारदांश: न भवेत् इति । स: एव पारद: वराहज्वरीये औषधे अपिरिहार्य: अस्ति !! इदानीं भवन्त: एव वदन्तु - तस्य औषधस्य सेवनं किम् अपायरहितम् इति ।

1976 तमे वर्षे अमेरिकादेशे वराहज्वरवृद्धिसम्भावना यदा लक्षिता तदा चतुष्कोट्यधिकजनेभ्य: प्रतिबन्धकौषधरूपेण सूच्यौषधं दत्तम् । तदा वराहज्वर: तु न अबाधत । किन्तु औषधस्य आनुषङ्गिकपरिणामस्य कारणत: 22 जना: मरणम् अवाप्नुवन् । 500 जना: पार्श्ववाय्वादिपीडिता: जाता: । तस्मात् औषधनिर्मात्र्या संस्थया परिहारधनं दातव्यम् अभवत् । एतदनन्तरं शासननियमस्य परिवर्तनं तत्र कारितम् । अत: औषधसेवनात् जायमानाया: आनुषङ्गिक-हाने: निमित्तम् औषधनिर्मातृसंस्थया इदानीं तत्र परिहारधनं दातव्यम् नास्ति । औषध-सेविभि: एव स्वचिकित्साव्यय: स्वयं वोढव्य: । ‘वराहज्वर: महामारि: अस्ति’ इति गते जून्मासे विश्वस्वास्थ्यसंस्थया यत् घोषितं तदपि दुरुद्देशपूर्णम् एव स्यात् इति कथनं व्यापकतया श्रूयते । लक्षश: जना: अविच्छिन्नतया यत: मरणं प्राप्नुयु: स: रोग: ‘महामारित्वेन’ उद्घोष्यते प्राय: । किन्तु जून्मासावधौ वराहज्वरकारणत: 144 जना: मरणं प्राप्तवन्त: आसन् समग्रे जगति । एतावन्त: जना: सामान्यात् ज्वरात् अपि मरणं प्राप्नुवन्ति प्रतिदिनम् !! य: वराहज्वर: महामारित्वेन निर्दिष्ट: स: एव मेक्सिकोदेशे चतुस्सप्ताहाभ्यन्तरे उपशान्त: जात: !! अन्यच्च, विश्वस्वास्थ्यसंस्थाया: शिखा लाभैकदृष्टिभि: वञ्चनापटुभि: औषधनिर्मातृसंस्थाभि: दृढतया गृहीता अस्ति इति तु सर्वविदितं रहस्यम् । जगति स्थितेभ्य: 19 देशेभ्य: अविलम्बेन औषधानि प्रेषणीयानि इति जून्मासस्य 13 दिनाङ्के यस्यां सभायां निर्णीतं तत्र पञ्चानाम् औषधसंस्थानां प्रतिनिधय: अपि उपस्थिता: आसन् !! एतस्मात् स्पष्टं यत् निर्णय-स्वीकारावसरे के हस्तक्षेपं कृतवन्त: स्यु: इति । पत्रिकादय: मुखपुटे एव मरणवार्तां पर्वतीकृत्य प्रकाशयन्त्य: जनेषु भीते: वर्धने विशेषत: प्रयासरता: सन्ति । एकम् उदाहरणं दृश्यताम् । जुलैमासस्य 31 तमे दिनाङ्के जगति रोगग्रस्तानां सङ्ख्या आसीत् 1,62,380 मिता । तेषु मरणं प्राप्तवन्त: तु 1154 जना: । (इण्डियन् एक्स्प्रेस्वार्ता - अगस्ट् -9) एतस्मात् स्पष्टं यत् मृता: 0.1 मिता: एव इति । तन्नाम सहस्रे एक: मरणं प्राप्तवान् इति सिद्धम् । किन्तु तावता एव महान् प्रचार: - ‘महामारि: रोग: एष:’ इति ।

अन्यदपि अत्र अवगन्तव्यम् अस्ति । ये मरणं प्राप्तवन्त: तेषु अधिका: जना: अन्यै: दीर्घ-कालिकरोगै: ग्रस्ता: सन्त: रोगनिरोधकशक्तिहीना: एव आसन् । कानिचन उदाहरणानि परिशीलयत -

  • मुम्बय्यां मृता फाहमिदापानवाला दीर्घकालिकेन मधुमेहेन हृद्रोगेण च ग्रस्ता आसीत् ।
  • पुणेनगरीय: बाबासाहेबमाने श्वासकासरोगेण पीडित: आसीत् ।
  • चेन्नैनगरे मरणं प्राप्तवान् चतुर्वर्षीय: बालक: सञ्जय: मूत्रकोषरोगेण ग्रस्त: आसीत् ।
  • अहमदाबादीय: भारतमूल: उद्यमी प्रवीणपटेल: रक्तहीनतया श्वासकासरोगेण च बाध्यमान: आसीत् ।

एवं मृतेषु बहव: एतादृशा: एव । किन्तु पत्रिका: मृतानां शक्ति-हीनताम् अप्रकाशयन्त्य: मरणमात्रम् उल्लिखन्त्य: जनानां भीतौ आज्यं योजयन्त्य: सन्ति ।

जना: सर्वत्र मुखावरणं धृत्वा अटन्त: दृश्यन्ते खलु ? तत्रापि दृश्यते कुतन्त्रगन्ध: । तत् मुखावरणं किं प्रयोजनाय भवेत् इति न चिन्तयन्ति जना: । ‘तानि मुखावरणानि ‘त्रिमैक्रान्’मितानां रोगाणूनाम् अपि परिशोधकानि’ इति प्रचार: अस्ति । अत: अधिकस्य मूल्यस्य दाने अपि जना: प्रवर्तन्ते एव । वस्तुत: तु भवतां करवस्त्रम् अपि तादृशानां रोगाणूनां परिशोधने समर्थम् इति तु तज्ज्ञवैद्यानाम् अभिमतम् । यदि रोगाणव: ततोऽपि प्रबला: स्यु: तर्हि ते विमानचिटिकायां संलग्ना: सन्त:, पारपत्र-पुस्तिकया सहैव प्रयाणं कुर्वन्त:, वस्त्रेषु संश्लिष्टा: सन्त: वापि आगन्तुम् अर्हन्ति । अत: स्पष्टं यत् औषध-निर्मातृसंस्थानाम् इव मुखावरणनिर्मातॄणाम् अपि लाभैकहेतुकं कुतन्त्रं किञ्चन अस्ति एतत् इति । मरणं प्राप्तवतां, दृढीकृतरोगग्रस्ततावतां च सङ्ख्यां मुखपुटे मुद्रयन्त्य: पत्रिका: रोगात् मुक्तिं प्राप्तवतां विवरणं प्राय: न प्रकाशयन्ति एव । रोगं प्राप्यापि स्वास्थ्यम् आसादितवतां सङ्ख्या तु महती एव अस्ति ।


एतस्य रोगस्य निमित्तम् टामिप्लू-रेलन्साप्रभृतीनि एव न, आयुर्वेदीयानि होमियोपतीयानि च औषधानि अपि उपलभ्यन्ते । तेषाम् अपि रोगहरत्वं प्रमाणसिद्धम् अस्ति । तुलसीपत्रत्रितयस्य सेवनम्, अमृतलताकषायस्य पानं, त्रिफलाचूर्णसेवनं, नीलगिरि-निम्ब-तुलसी-तैलयुक्तस्य करवस्त्रस्य उपयोग: इत्यादय: सामान्या: उपाया: अपि एतस्य रोगस्य प्रतिबन्धका: भवितुम् अर्हन्ति । परिसरस्वच्छताविषये सामान्या: जागरूकता: (उष्णजलपानं, करवस्त्रम् उपयुज्य क्षवणम्, गोमयेन गृहाङ्गणस्य उपलेपनम्, सुधया गृहभित्ते: लेपनम्, गृहे धूपधूमस्य प्रसारणम् इत्यादय:) अवलम्बिता: चेत् वराहज्वर: न बाधेत । ज्वरपीनसकासादिबाधा यदा प्रबला दृश्येत तदा योग्यस्य वैद्यस्य मार्गदर्शनप्राप्ति: अपि लाभाय एव । अनिमित्तम् आतङ्क:, उत्प्रेक्षामयीषु वार्तासु विश्वास:, किंवदन्तीषु श्रद्धा इत्यादय: परित्यक्तव्या: । स्वस्थं शरीरं न बाधते अयं रोग: इत्यत्र प्रबल: विश्वास: स्यात् अस्माकम् ।

आधारः[सम्पाद्यताम्]

'सम्भाषणसन्देशः' - अक्टोबर् २००९
लेखकः - चन्द्रहासाचार्यः
"https://sa.wikisource.org/w/index.php?title=वराहज्वरः_न_महामारिः&oldid=41176" इत्यस्माद् प्रतिप्राप्तम्