वनदुर्गोपनिषत्

विकिस्रोतः तः


....
....

४३९
सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । आग्नेय्यां दिश्यग्निर्देवता । मेषारूढो रक्तवर्णो ज्वालाहस्तोऽग्निर्बध्नात्वग्निमण्डलम् । अग्ने सपरिवार देवताप्रत्यधिदेवतासहितमग्निमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोर- सर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो | भगवते रुद्राय नमः ।
 ॐ नमो भगवते रुद्राय । याम्यां दिशि यमो देवता । महिषारूढो नीलवर्णः कालदण्डो यमो बध्नातु यममण्डलम् । यम सपरिवार देवताप्रत्यधिदेवतासहितं यममण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

४४०
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । नैर्ऋत्यां दिशि निर्ऋतिर्देवता । नरारूढो नीलवर्णः खड्गहस्तो निर्ऋतिर्बध्नातु निर्ऋतिमण्डलम् । निर्ऋते सपरिवार देवताप्रत्यधिदेवतासहितं निर्ऋतिमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । मोषुणः परापरा निर्ऋतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । वारुण्यां दिशि वरुणो देवता। मकरारूढः श्वेतवर्णः पाशहस्तो वरुणो बध्नातु वरुणमण्डलम् । वरुण सपरिवार देवताप्रत्यधिदेवतासहितं वरुणमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इमं मे वरुण श्रुधी हवमद्या च मृडय। त्वामवस्युराचके । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशंस

४४१
मा न आयुः प्र मोषीः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुर्देवता । मृगारूढो धूम्रवर्णो ध्वजहस्तो वायुर्बध्नातु वायुमण्डलम् । वायो सपरिवार देवताप्रत्यधिदेवतासहितं वायुमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवां स्या वृणीमहे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः।
ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरो देवता । अश्वारूढः पीतवर्णो गदाङकुशहस्तः कुबेरो बध्नातु कुबेरमण्डलम् । कुबेर सपरिवार देवताप्रत्यधिदेवतासहितं कुबेरमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः।

४४२
ॐ नमो भगवते रुद्राय । ईशान्यां दिशीशानो देवता। वृषभारूढः श्वेतवर्णस्त्रिशूलहस्त ईशानो बध्नात्वीशानमण्डलम् । ईशान सपरिवार देवताप्रत्यधिदेवतासहितमीशानमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ब्रह्मा देवता । हंसारूढो रक्तवर्णः कमण्डलुहस्तो ब्रह्मा बध्नातु ब्रह्ममण्डलम् । ब्रह्मन् सपरिवार देवताप्रत्यधिदेवतासहितं ब्रह्ममण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकिर्देवता । कूर्मारूढो नीलवर्णः पद्महस्तो वासुकिर्बध्नातु वासुकिमण्डलम् । वासुके सपरिवार देवता

४४३
प्रत्यधिदेवतासहितं वासुकिमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों
आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः।
ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि विष्णुर्देवता । गरुडारूढः श्यामवर्णः शङ्खचक्राङ्कितहस्तो विष्णुर्बध्नातु विष्णुमण्डलम् । विष्णो सपरिवार देवताप्रत्यधिदेवतासहितं विष्णुमण्डलं मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । स्निक् च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिरमुं गच्छ स्वाहा ।
अष्टापिधाना नकुली दन्तैः परिवृता पविः ।।
सर्वस्यै वाच ईशाना चारु मामिह वादयेत् ॥

४४४
ऐं वद वद वाग्वादिनि स्वाहा । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । प्राच्यां दिशीन्द्रः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु त्रिशूलको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्तैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों हुं फट् स्वाहा। त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । लं इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । आग्नेय्यां दिश्यग्निः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु मारीचको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों मां हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । याम्यां दिशि यमः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्ष्वेकपिङ्गलको नाम राक्षसः । तस्याष्टादशकोटि

 ४४५
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनी लाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों यां हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । नैर्ऋत्यां दिशि निर्ऋतिः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु सत्यको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनी याकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों सां हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । मोषुणः परापरा निर्ऋतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । वारुण्यां दिशि वरुणः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु यत्खलो नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनी याकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य ।

४४६
सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों वां हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु प्रलम्बको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनीलाकिनी वेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों ह्रां हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवां स्या वृणीमहे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्ष्वश्वालको नाम राक्षसः। तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनीलाकिनीवेताल कामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं

४४७
नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों सां हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । ईशान्यां दिशीशानः सपरिवारो देवता प्रत्यधिदेवता। तद्दिक्षून्मत्तको नाम राक्षसः। तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनीलाकिनीवेताल कामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों ॐ हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ब्रह्मा सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्ष्वाकाशवासी नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों ॐ हुं

४४८
फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकिः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु पातालवासी नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनीयाकिनीराकिनीलाकिनी - वेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों लां हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः।
ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि विष्णुः सपरिवारो देवता प्रत्यधिदेवता । तद्दिक्षु भीमको नाम राक्षसः । तस्याष्टादशकोटिभूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिनीकाकिनीहाकिनी याकिनीराकिनीलाकिनीवेतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य । सर्वतो मां रक्ष रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्रकवचैरस्त्रैः राजचोरसर्पसिंहव्याघ्राग्न्याद्युपद्रवं नाशय नाशय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ब्लूं फ्रों आं ह्रीं क्रों ॐ हुं फट् स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

४४९
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः।
  ॐ नमो भगवते रुद्राय । ॐ कालि हुं कालि मं कालि पुलकिते पुलकिते उच्चाटन्युच्चाटनि ॐ कालि भवानि राजपुरुषस्त्रीपुरुषवशङ्करि स्वाहा । ॐ नमो भगवति इन्द्राक्षि मम शत्रुप्राणिनां रक्तपायिनि ह्रां ग्रस ग्रस । गृह्ण गृह्ण । दुष्टग्रहज्वालामालिनि मोहिनि स्तम्भय स्तम्भय । सर्वदुष्टप्रदुष्टान् शोषय शोषय । मारय मारय । मम शत्रूणां शिरोलुण्ठनं कुरु कुरु । ठः ठः ठः स्वाहा । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । उत्त्वा मदन्तु स्तोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्म द्विषो जहि । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ।
ॐ नमो भगवते रुद्राय । प्राच्यां दिशि ॐ नमो भगवति इन्द्राणि वज्रहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
  ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि ॐ नमो भगवति आग्नेयि ज्वालाहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो

४५०
मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । याम्यां दिशि ॐ नमो भगवति यामि कालदण्डहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । नैर्ऋत्यां दिशि ॐ नमो भगवति निर्ऋति खड्गहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । मोषुणः परापरा निर्ऋतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । वारुण्यां दिशि ॐ नमो भगवति वारुणि पाशहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस। गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।

४५१
इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके । तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । वायव्यां दिशि ॐ नमो भगवति वायवि ध्वजहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुँ झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवां स्या वृणीमहे । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि ॐ नमो भगवति कौबेरि गदाङ्कुशहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । ईशान्यां दिशि ॐ नमो भगवति ईशानि त्रिशूलहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मत्योर्मुक्षीय मामृतात् । तमीशानं

४५२
जगतस्तस्थुषस्पतिं घियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ॐ नमो भगवति ब्रह्माणि स्रुक्स्रुवकमण्डल्वक्षसूत्रहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामतात् । ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।
ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि ॐ नमो भगवति पातालवासिनि विषगलहस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः । वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि । ॐ नमो भगवते रुद्राय नमः ।।
ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि ॐ नमो भगवति महालक्ष्मि पद्मारूढे पद्महस्ताभ्यां मम सपरिवारकस्य प्रत्यक्षं बन्धय बन्धय । सर्वतो मां रक्ष रक्ष । ह्रां ग्रस ग्रस । गृह्ण गृह्ण । हुं झटि स्वाहा । त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव



"https://sa.wikisource.org/w/index.php?title=वनदुर्गोपनिषत्&oldid=332618" इत्यस्माद् प्रतिप्राप्तम्