वक्रोक्तिजीवितं द्वितीयोन्मेषः

विकिस्रोतः तः
Jump to navigation Jump to search

वक्रोक्तिजीवितं द्वितीयोन्मेषः

सर्वत्रैव सामान्यलक्षणे विहिते विशेषलक्षणं विधातव्यमिति काव्यस्य "शब्दार्थौ सहितौ" इत्यादि (१ ।७) सामान्यलक्षणं विधाय तदवयवभूतयोः शब्दार्थयोः साहित्यस्य प्रथमोन्मेष एव विशेषलक्षणं विहितं ।
इदानीं प्रथमोद्दिष्टस्य वर्णविन्यासवक्रत्वस्य विशेषलक्षणमुपक्रमते---

एको द्वौ बहवो वर्णा बध्यमानाः पुनः पुनः ।
स्वल्पान्तरास्त्रिधा सोक्ता वर्णविन्यासवक्रता । । वजी_२.१ । ।

वर्णशब्दोऽत्र व्यञ्जनविन्यसनविच्छित्तिः त्रिधा त्रिभिः प्रकारैरुक्तावर्णिता ।
के पुनस्ते त्रयः प्रकारा इत्युच्यते---एकः केवल एव, कदाचिद्द्वौ बहवो वा वर्णाः पुनः पुनर्बध्यमाना योज्यमानाः ।
कीदृशाः---स्वल्पान्तराः ।
स्वल्पं सुतरामल्पं स्तोकमन्तरं व्यवधानं येषां ते तथोक्ताः ।
त एव त्रयः प्रकारा इत्युच्यन्ते ।
अत्र वीप्सया पुनः पुनरित्ययोगव्यवच्छेदपरत्वेन नियमः, नान्ययोगव्यवच्छेदपरत्वेन ।
तस्मात्पुनः पुनर्बध्यमाना एव, न तु पुनः पुनरेव बध्यमाना इति ।
तत्रैकव्यञ्जननिबन्धोदाहरणं यथा

धम्मिल्लो विनिवेशिताल्पकुसुमः सौन्दर्यधुर्यं स्मितं विन्यासो वचसां विदग्धमधुरः कण्ठे कलः पञ्चमः ।
लीलामन्थरतारके च नयने यातं विलासालसं कोऽप्येवं हरिणीदृशः स्मरशरापातावदातः क्रमः । । वजी_२.१ । ।

एकस्य द्वयोर्बहूनां चोदाहरणं यथा

भग्नैलावल्लरीकास्तरलितकदलीस्तम्बताम्बूलजम्बूजम्बीरास्तालतालीसरलतरलतालासिका यस्य जह्रुः ।
वेल्लत्कल्लोलहेला विशकल नजडाः कूलकच्छेषु सिन्धोः सेनासीमन्तिनीनामनवरतरताभ्यासतान्तिं समीराः । । वजी_२.२ । ।

एतामेव वक्रतां विच्छित्त्यन्तरेण विविनक्ति---

वर्गान्तयोगिनः स्पर्शा द्विरुक्तास्त-ल-नादयः ।
शिष्टाश्च रादिसंयुक्ताः प्रस्तुतौचित्यशोभिनः । । वजी_२.२ । ।

इयमपरा वर्णविन्यासवक्रता त्रिधा त्रिभिः प्रकारैरुक्तेति "चऽ-शब्देनाभिसम्बन्धः ।
के पुनरस्यास्त्रयः प्रकारा इत्याह---वर्गान्तयोगिनः स्पर्शाः ।
स्पर्शाः कादयो मकारपर्यन्ता वर्गास्तदन्तैः ङकारादिभिर्योगः संयोगो येषां ते तथोक्ताः, पुनः पुनर्बध्यमानाः---प्रथमः प्रकारः ।
त-ल-नादयः तकार-लकार-नकार-प्रभृतयो द्विरुक्ता द्विरुच्चारिता द्विगुणाः सन्तः, पुनः पुनर्बध्यमानाः---द्वितीयः ।
तद्व्यतिरिक्ताः शिष्टाश्च व्यञ्जनसंज्ञा ये वर्णास्ते रेफप्रभृतिभिः संयुक्ताः पुनः पुनर्बध्यमानाः---तृतीयः ।
स्वल्पान्तराः परिमितव्यवहिता इति सर्वेषामभिसबन्धः ।
ते च कीदृशाः---प्रस्तुतौचित्यशोभिनः ।
प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदौचित्यमुचितभावस्तेन शोभन्ते ये ते यथोक्ताः ।
न पुनर्वर्णसावर्ण्यव्यसनितामात्रेणोपनिबद्धाः प्रस्तुतौचित्यम्लानत्वकारिणः ।
प्रस्तुतौचित्यशोभित्वात्कुत्रचित्परुषरसप्रस्तावे तादृशानेवाभ्यनुजानाति ।
अथ प्रथमप्राकारोदाहरणं यथा

उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गुञ्जन्ति मञ्जु मधुपाः कमलाकरेषु ।
एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाभमुदयाचलचुम्बिबिम्बं । । वजी_२.३ । ।

यथा च

कदलीस्तम्बताम्बूलजम्बूजम्बीराः इति । । वजी_२.४ । ।

यथा वा

सरस्वतीहृदयारविन्दमकरन्दबिन्दुसन्दोहसुन्दराणां । । वजी_२.५ । ।
इति

द्वितीयप्रकारोदाहरणं प्रथममरुणच्छायः । । वजी_२.६ । ।

इत्यस्य द्वितीयचतुर्थो पादौ ।
तृतीयप्रकारोदाहरणमस्यैव तृतीयः पादः ।
यथा वा

सौन्दर्यधुर्यं स्मितं । । वजी_२.७ । ।

यथा च "कह्लारऽ-शब्दसाहचर्येन "ह्लादऽ-शब्दाप्रयोगः ।
परुषरसप्रस्तावे तथाविधसंयोगोदाहरणं यथा

उत्ताम्यत्तालवश्च प्रतपति तरणावांशवी तापतन्द्रीमद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयन्ति । । वजी_२.८ । ।

एतमेव वैचित्र्यान्तरेण व्याचष्टे---

क्वचिदव्यवधानेऽपि मनोहारिनिबन्धना ।
सा स्वराणामसारूप्यात्परां पुष्णाति वक्रतां । । वजी_२.३ । ।

क्वचिदनियतप्रायवाक्यैकदेशे कस्मिंश्चिदव्यवधानेऽपि व्यवधानाभावेऽप्येकस्य द्वयोः समुदितयोश्च बहूनां वा पुनः पुनर्बध्यमानानामेषां मनोहरिनिबन्धना हृदयावर्जकविन्यासा भवति ।
काचिदेवं संपद्यत इत्यर्थः ।
यमकव्यवहारोऽत्र न प्रवर्तते, तस्य नियतस्थानतया व्यवस्थानाथ् ।
स्वरैरव्यवधानमत्र न विवक्षितम्, तस्यानुपपत्तेः ।
तत्रैकस्याव्यवधानोदाहरणं यथा

वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनं । । वजी_२.९ । ।

द्वयोर्यथा ।

ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलाचीकृतकदलदलं नारिकेलीफलाम्भः ।
सेव्यन्तां व्य्ॐअयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि- र्दात्युबव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः । । वजी_२.१० । ।

यथा वा

अयि पिबत चकोराः कृत्सनमुन्नम्य कण्ठान्क्रमुकवलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः ।
विरहविधुरितानां जीवितत्राणहेतोर्- भवति हरिणलक्ष्मा येन तेजोदरिद्रः । । वजी_२.११ । ।

बहूनां यथा

सरलतरलतालासिका इति । । वजी_२.१२ । ।

"अपिऽ-शब्दात्क्वचिद्व्यवधानेऽपि ।

द्वयोर्यथा

स्वस्थाः सन्तु वसन्त ते रतिपतेरग्रेसरा वासराः । । वजी_२.१३ । ।

बहूनां व्यवधानेऽपि यथा

चकितचातकमेचकितवियति वर्षात्यये । । वजी_२.१४ । ।

सा स्वराणामसारूप्यात्सेयमनन्तरोक्ता स्वरानामकारादीनामसारूप्यादसादृश्यात्क्वचित्कस्मिंश्चिदावर्तमानसमुदायैकदेशे परामन्यां वक्रतां कामपि पुष्णाति पुष्यतीत्यर्थः ।
यथा

राजीवजीवितश्वरे । । वजी_२.१५ । ।

यथा वा

धूसरसरिति इति । । वजी_२.१६ । ।

यथा वा

स्वस्थाः सन्तु वसन्त इति । । वजी_२.१७ । ।

यथा वा

तालताली इति । । वजी_२.१८ । ।

सोऽयमुभयप्रकारोऽपि वर्णविन्यासवक्रताविशिष्टावयवविन्यासो यमकाभासः संनिवेशविशेषो मुक्ताकलापमध्यप्रोतमणियमयपदकबन्धबन्धुरः सुतरां सहृदयहृदयहारितां प्रतिपद्यते ।
तदिदमुक्तम्

अलङ्कारस्य कवयो यत्रालङ्कारणान्तरं ।
असन्तुष्टा निबध्नन्ति हारादेर्मणिबन्धवथ् । । वजी_२.१९ । ।

इति ।
एतामेव विविधप्रकारां वक्रतां विशिनष्टि, यदेवंविधवक्ष्यमाणविशेषणविशिष्टा विधातव्येति---

नातिनिर्बन्धविहिता नाप्यपेशलभूषिता ।
पूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला । । वजी_२.४ । ।

नातिनिर्बन्धविहिता---"निर्बन्धऽ-शब्दोऽत्र व्यसनितायां वर्तते ।
तेनातिनिर्बन्धेन पुनः पुनरावर्तनव्यसनितया न विहिता, अप्रयत्नविरचितेत्यर्थः ।
व्यसनितया प्रयत्नविरचने हि प्रस्तुतौचित्यपरिहाणेर्वाच्यवाचकयोः परस्परस्पर्धित्वलक्षणसाहित्यविरहः पर्यवस्यति ।
यथा

भण तरुणि इति । । वजी_२.२० । ।

नाप्यपेशलभूषिता न चापेशलैरसुकुमारैरक्षरैरलङ्कृता ।
यथा

शीर्णघ्राणाङ्घ्रि इति । । वजी_२.२१ । ।

तदेवं कीदृशी तर्हि कर्तव्येत्याह---पूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला पूर्वमावृत्तानां पुनः पुनर्विरचितानां परित्यागेन प्रहाणेन नूतनानामभिनवानां वर्णानामावर्तनेन पुनः पुनः परिग्रहेण च तदेवमुभाभ्यां प्रकाराभ्यामुज्ज्वला भ्राजिष्णुः ।
यथा

एतां पश्य पुरस्तटीमहि किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनीधावद्रौ सुभद्रापतेर्मन्दं मन्दमकारि येन निजयोर्देर्दण्डयोर्मण्डनं । । वजी_२.२२ । ।

यथा वा

हंसानां निनदेषु इति । । वजी_२.२३ । ।

यथा च

एतन्मन्दविपक्त इत्यादौ । । वजी_२.२४ । ।

यथा वा

णमह दसाणणसरहसकरतुलिअवलन्तसेलभाविहलं ।
वेवतथोरथणहरहरकाकण्ठग्गहं गोरिं । । वजी_२.२५ । ।

नमत दशाननसरभसकरतुलितवलच्छैलभयविह्वलां ।
वेपमानस्थूलस्तनभरहरकृतकण्ठग्रहां गौरीं । ।
इति छाया ।

एवमेतां वर्णविन्यासवक्रतां व्याख्याय तामेवोपसंहरति---

वर्णच्छायानुसारेण गुणमार्गानुवर्तिनी ।
वृत्तिवैचित्र्ययुक्तेति सैव प्रोक्ता चिरन्तनैः । । वजी_२.५ । ।

वर्णानामक्षराणां या छाया कान्तिः श्रव्यतादिगुणसंपत्तया हेतुभूतया यदनुसरणमनुसारः प्राप्यस्वरूपानुप्रवेशस्तेन ।
गुणमार्गांश्च सुकुमारप्रभृतीननुवर्तते या सा तथोक्ता ।
तत्र गुणानामान्तरम्यात्प्रथममुपन्यसनम्, गुणद्वारेणैव मार्गानुसरणोपपत्तेः ।
तदयमत्रार्थः---यद्यषा वर्णविन्यासवक्रता व्यञ्जनच्छायानुसारेणैव, तथापि प्रतिनियतगुणविशिष्टानां मार्गाणां गुणानुवर्तनद्वारेण यथा स्वरूपानुप्रवेशं विदधाति तथा विधातव्येति ।
तत एव च तस्यास्तन्निबन्धनाः प्रवितताः प्रकाराः समुल्लसन्ति ।
चिरन्तनैः पुनः सैव स्वातन्त्र्येण वृत्तिवैचित्र्ययुक्तेति प्रोक्ता ।
वृत्तीनामुपनागरिकादीनां यद्वैचित्र्यं विचित्रभावः स्वनिष्ठसंख्याभेदभिन्नत्वं तेन युक्ता समन्वितेति चिरन्तनैः पूर्वसूरिभिरभिहिता ।
तदिदमत्र तात्पर्यम्---यदस्याः सकलागुण स्वरूपानुसरणसमन्वयेन सुकुमारादिमार्गानुवर्तनायत्तवृत्तेः पारतन्त्र्यमपरिगणितप्रकारत्वं चैतदुभयमप्यवश्यंभावि तस्मादपारतन्त्र्यं परिमितप्रकारत्वं चेति नातिचतुरस्त्रं ।
ननु च प्रथममेको द्वावित्यादिना प्रकारेण परिमितान्प्रकारान्स्वतन्त्रत्वं च स्वयमेव व्याख्याय किमेतदुक्तमिति चेन्नैष दोषः, यस्माल्लक्षणकारैर्यस्य कस्याचित्पदार्थस्य समुदायपरायत्तवृत्तेः परव्युत्पत्तये प्रथममपोद्धारबुद्ध्या स्वतन्त्रतया स्वरूपमुल्लिख्यते, ततः समुदायान्तर्भावो भविष्यतीत्यलमतिप्रसङ्गेन ।
येयं वर्णविन्यासवक्रता नाम वाचकालङ्कृतिः स्थाननियमाभावात्सकलवाक्यविषयत्वेन समाम्नात्, सैव प्रकारान्तरविशिष्टा नियतस्थानतयोपनिबध्यमाना किमपि वैचित्र्यान्तरमाबध्नातीत्याह---

समानवर्णमन्यार्थं प्रसादि श्रुतिपेशलं ।
औचित्ययुक्तमाद्यादिनियतस्थानशोभि यथ् । । वजी_२.६ । ।
यमकं नाम कोऽप्यस्याः प्रकारः परिदृश्यते ।
स तु शोभान्तराभावादिह नातिप्रतन्यते । । वजी_२.७ । ।

कोऽप्यस्याः प्रकारः परिदृश्यते, अस्याः पूर्वोक्तायाः, कोऽप्यपूर्वः प्रभेदो विभाव्यते ।
कोऽसावित्याह---यमकं नाम ।
यमकमिति यस्य प्रसिद्धिः ।
तच्च कीदृशम्---समानवर्णं ।
समानाः सरूपाः सदृशश्रुतयो वर्णा यस्मिन्तत्तथोक्तं ।
एवमेकस्य द्वयोर्बहूनां सदृशश्रुतीनां व्यवहितमव्यवहितं वा यदुपनिबन्धनं तदेव यमकमित्युच्यते ।
तदेवमेकरूपे संस्थानद्वये सत्यपि---अन्यार्थं भिन्नाभिधेयं ।
अन्यच्च कीदृशम्---प्रसादि प्रसादगुणयुक्तं झगिति वाक्यार्थसमर्पकम्, अकदर्थनाबोध्यमिति यावथ् ।
श्रुतिपेशलमित्यतदेव विशिष्यते---श्रुतिः श्रवणेन्द्रियं तत्र पेशलं रञ्जकम्, अकठोरशब्दविरचितं ।
कीदृशम्---औचित्ययुक्तं ।
औचित्यं वर्ण्यमानस्य वस्तुनः स्वभावोत्कर्षस्तेन संयुक्तं समन्वितं ।
यत्र यमकोपनिबन्धनव्यसनित्वेनाप्यौचित्यमपरिम्लानमित्यर्थः ।
तदेव विशेषणान्तरेण विशिनष्टि---आद्यादिनियतस्थानशोभि यथ् ।
आदिरादिर्येषां ते तथोक्ताः प्रथममध्यान्तास्तान्येव नियतानि स्थानानि विशिष्टाः संनिवेशास्तैः शोभते भ्राजते यत्तथोक्तं ।
अत्राद्यादयः संबन्धिशब्दाः पादादि भिर्विशेषणीयाः ।
स तु प्रकारः प्रोक्तलक्षणसंपदुपेतोऽपि भवनिह नातिप्रतन्यते ग्रन्थेऽस्मिन्नातिविस्तार्यते ।
कुतः---शोभान्तराभावाथ् ।
स्थाननियमव्यतिरिक्तस्यान्यस्य शोभान्तरस्य छायान्तरस्यासंभवादित्यर्थः ।
अस्य च वर्णविन्यासवैचित्र्यव्यतिरेकेणान्यत्किञ्चिदपि जीवितान्तरं न परिदृश्यते ।
तेनानन्तरोक्तालङ्कृतिप्रकारतैव युक्ता ।
उदाहरणान्यत्रशिशुपालवधे चतुर्थे सर्गे समर्पकाणि कानिचिदेव यमकानि, रघुवंशे वा वसन्तवर्णने ।
एवं पदावयवानां वर्णानां विन्यासवक्रभावे विचारिते वर्णसमुदायात्मकस्य पदस्य च वक्रभावविचारः प्राप्तावसरः ।
तत्र पदपूर्वार्धस्य तावद्वक्रताप्राकाराः कियन्तः संभवन्तीति प्रक्रमते---

यत्र रूढेरसंभाव्यधर्माध्यारोपगर्भता ।
सद्धर्मातिशयारोपगर्भत्वं वा प्रतीयते । । वजी_२.८ । ।
लोकोत्तरतिरस्कारश्लाध्योत्कर्षाभिधित्सया ।
वाच्यस्य सोच्यते कापि रूढिवैचित्र्यवक्रता । । वजी_२.९ । ।

यत्र रूढेरसंभाव्यधर्माध्यारोपगर्भता प्रतीयते ।
शब्दस्य नियतवृत्तिता नाम धर्मो रूढिरुच्यते, रोहणं रूढिरिति कृत्वा ।
सा च द्विप्रकारा संभवति--नियतसामान्यवृत्तिता नियतविशेषवृत्तिता च ।
तेन रूढिशब्देनात्र रूढिप्रधानः शब्दोऽभिधीयते, धर्मधर्मिणोरभेदोपचारदर्शनाथ् ।
यत्र यस्मिन्विषये रूढिशब्दस्य असंभाव्यः संभावयितुमशक्यो यो धर्मः कश्चित्परिस्पन्दस्तस्याध्यारोपः समर्पणं गर्भोऽभिप्रायो यस्य स तथोक्तस्तस्य भावस्तत्ता सा प्रतीयते प्रतिपाद्यते ।
यत्रेति संबन्धः ।
सद्धर्मातिशयारोपगर्भत्वं वा ।
संश्चासौ धर्मश्च सद्धर्मः विद्यमानः पदार्थस्य परिस्पन्दस्तस्मिन्यस्य कस्यचिदपूर्वस्यातिशयस्याद्भुतरूपस्य महिम्न आरोपः समर्पणं गर्भोऽप्रायो यस्य स तथोक्तस्य भावस्तत्त्वं ।
तच्च वा यस्मिन्प्रतीयते ।
केन हेतुना---लोकोक्तरतिरस्कारश्लाध्योत्कर्षाभिधित्सया ।
लोकोत्तरः सर्वातिशायी यस्तिरस्कारः खलीकरणं श्लाध्यश्च स्पृहणीयो य उत्कर्षः सातिशयत्वं तयोरभिधित्सा अभिधातुमिच्छा वक्तुकामता तया ।
कस्य वाच्यस्य ।
रूढिशब्दस्य वाच्यो योऽभिधेयोर्ऽथस्तस्य ।
सोच्यते कथ्यते काप्यलौकिकी रूढिवैचित्र्यवक्रता ।
रूढिशब्दस्यैवंविधेन वैचित्र्येणविचित्रभावेन वक्रता वक्रभावः ।
तदिदमत्र तात्पर्यम्---यत्सामान्यविचित्रसंस्पर्शिनां शब्दानामनुमानवन्नियतविशेषालिङ्गनं यद्यपि स्वभावादेव न किञ्चिदपि संभवति, तथाप्यनया युक्त्या कविविवक्षितनियतविशेषनिष्ठतां नीयमानाः कामपि चमत्कारकारितां प्रतिपद्यन्ते ।
यथा

ताला जाअन्ति गुणा जालाते सहिअएहि घेप्पन्ति ।
रैकिरणाणुग्गहिआइं हाएन्ति कमलाइं कमलाइं । । वजी_२.२६ । ।
तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि । ।
इति छाया ।

प्रतीयते इति क्रियापदवैचित्र्यस्यायमभिप्रायो यदेवंविधे विषये शब्दानां वाचकत्वेन न व्यापारः, अपि तु वस्त्वन्तरवत्प्रतीतिकारित्वमात्रेणेति युक्तियुक्तमप्येतदिह नातिप्रतन्यते ।
यस्याद्ध्वनिकारेण व्यङ्ग्यव्यञ्जकभावोऽत्र सुतरां समर्थितस्तत्किं पौनरुक्त्येन ।
सा च रूढिवैचित्र्यवक्रता मुक्यतया द्विप्रकारा संभवति---यत्र रूढिवाच्योर्ऽथः स्वयमेव आत्मन्युत्कर्षं निकर्षं वा समारोपयितुकामः कविनोपनिबध्यते, तस्यान्यो वा कश्चिद्वक्तेति ।
यथा

स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव । । वजी_२.२७ । ।

अत्र "रामऽ-शब्देन "दृढं कठोरहृदयःऽ "सर्वं सहेऽ इति यदुभाभ्यां प्रतिपादयितुं न पार्यते, तदेवंविधविविधोद्दीपनविभावविभवसहनसामर्थ्यकारणं दुःसहजनकराजपुत्रीविरह व्यथाविसंष्ठुलेऽपि समये निरपत्रपप्राणपरिरक्षावैचक्षण्यलक्षणं संज्ञापदनिबन्धनं किमप्यसंभाव्यमसाधारणं क्रौर्यं प्रतीयते ।
वैदेहीत्यनेन जलधरसमयसुन्दरपदार्थसंदर्शनासहत्वसमर्पकं सहजसौकुमार्यसुलभं किमपि कातरत्वं तस्याः समर्थ्यते ।
एतदेव ।
च पूर्वस्माद्विशेषाभिधायिनः "तुऽ-शब्दस्य जीवितं ।
विद्यमानधर्मातिशयाध्यारोपगर्भत्वं यथा

ततः प्रहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् । । वजी_२.२८ । ।

"रघुऽ-शब्देनात्र सर्वत्राप्रतिहतप्रभावस्यापि सुरपतेस्तथाविधाध्यवसायव्यघातसामर्थ्यनिबन्धनः कोऽपि स्वपौरुषातिशयः प्रतीयते ।
प्रहस्येत्यनेनैतदेवोपबृंहितं ।
अन्यो वक्ता यत्र तत्रोदाहरणं यथा

आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
संभूतिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः । । वजी_२.२९ । ।

"रावणऽ-शब्देनात्र सकललोकप्रसिद्धदशाननदुर्विलासव्यतिरिक्तमभिजनविवेकसदाचारप्रभावसंभोगसुखसमृद्धिलक्षणायाः समस्तवरगुणसामग्रीसंपदस्तिरस्कारकारणं किमप्यनुपादेयतानिमित्तभूतमौपहत्यं प्रतीयते ।

अत्रैव विध्यमानगुणातिशयाव्यारोपगर्भत्वं यथा--- रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परां । । वजी_२.३० । ।

अत्र "रामऽ-शब्देन सकलत्रिभुवनातिशायी रावणानुचरविस्मयास्पदं शौर्यातिशयः प्रतीयते ।
एषा च रूढिवैचित्र्यवक्रता प्रतीयमानधर्मबाहुल्याद्बहुप्रकारा भिद्यते ।
तच्च स्वयमेवोत्प्रेक्षणीयं ।
यथा

गुर्वर्थमर्थो श्रुतपारदृश्वा रघोः सकाशादनवाप्तकामः ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः । । वजी_२.३१ । ।

"रघुऽ-शब्देनात्र त्रिभुवनातिशाय्यौदा र्यातिरेकः प्रतीयते ।
एतस्यां वक्रतायामयमेव परमार्थो यत्सामान्यमात्रनिष्ठतामपाकृत्य कविविवक्षितविशेषप्रतिपादनसामर्थ्यलक्षणः शोभातिशयः समुल्लास्यते ।
संज्ञाशब्दानां नियतार्थनिष्ठत्वात्सामान्यविशेषभावो न कश्चित्संभवतीति न वक्तव्यं ।
यस्मात्तेषामप्यवस्थासहस्त्रसाधारणवृत्तेर्वाच्यस्य नियतदशाविशेषवृत्तिनिष्ठता सत्कविविवक्षिता संभवत्येव, स्वरश्रुतिन्यायेन लग्नांशुकन्यायेन चेति ।
एवं रूढिवक्रतां विवेच्य क्रमप्राप्तसमन्वयां पर्यायवक्रतां विविनक्ति---

अभिधेयान्तरतमस्तस्यातिशयपोषकः ।
रम्यच्छायान्तरस्पर्शात्तदलङ्कर्तुमीश्वरः । । वजी_२.१० । ।
स्वयं विशेषणेनापि स्वच्छायोत्कर्षपेशलः ।
असंभाव्यार्थपात्रत्वगर्भं यश्चाभिधीयते । । वजी_२.११ । ।
अलङ्कारोपसंस्कारमनोहारिनिबन्धनः ।
पर्यायस्तेन वैचित्र्यं परा पर्यायवक्रता । । वजी_२.१२ । ।

पूर्वोक्तविशेषणविशिष्टः काव्यविषये पर्यायस्तेन हेतुना यद्वैचित्र्यं यो विचित्रभावो विच्छित्तिविशेषः सा परा प्रकृष्टा काचिदेव पर्यायवक्रतेत्युच्यते ।
पर्यायप्रधानः शब्दः पर्यायोऽभिधीयते ।
तस्य चैतदेव पर्यायप्राधान्यं यत्स कदाचिद्विवक्षिते वस्तुनि वाचकतया प्रवर्तते, कदाचिद्वाचकान्तरमिति ।
तेन पूर्वोक्तया नीत्या बहुप्रकारः पर्यायोऽभिहितः, तत्कियन्तस्तस्य प्रकाराः सन्तीत्याह---अबिधेयान्तरतमः ।
अबिधेयं वाच्यं वस्तु तस्यान्तरतमः प्रत्यासन्नतमः ।
यस्मात्पर्यायशब्दत्वे सत्यप्यन्तरङ्गत्वात्स यथा विवक्षितं वस्तु व्यनक्ति तथा नान्यः कश्चिदिति ।
यथा

नाभियोक्तुं अनृतं त्वमिष्यसे कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति हि नः शराः परे ये पाक्रमवसूनि वज्रिणः । । वजी_२.३२ । ।

अत्र महेन्द्रवाचकेष्वसंख्येषु संभवत्सु पर्यायशब्देषु "वज्रिणःऽ इति प्रयुक्तः पर्यायवक्रतां पुष्णाति ।
यस्मात्सतसंनिहितवज्रस्यापि सुरपतेर्ये पराक्रमवसूनि विक्रमधनानीति सायकानां लोकोत्तरत्वप्रतीतिः ।
"तपस्विऽ-शब्दोऽप्यतितरां रमणीयः ।
यस्मात्सुभटसायकानामादरो बहुमानः कदाचिदुपपद्यते, तापसमार्गणेषु पुनरकिञ्चित्करेषु कः संरम्भ इति ।
यथा वा

कस्तवं ज्ञास्यसि मां स्मर स्मरसि मां दिष्ट्या किमभ्यागतस्त्वामुन्मादयितुं कथं ननु बलात्किं ते बलं पश्य तथ् ।
पस्यामीत्यभिधाय पावकमुचा ये लोचनेनैव तं कान्ताकण्ठनिषक्तबाहुमदहत्तस्मै नमः शूलिने । । वजी_२.३३ । ।

अत्र परमेश्वरे पर्यायसहस्त्रेष्वपि संभवत्सु "शूलिनेऽ इति यत्प्रयुक्तं तत्रायमभिप्रायो यत्तस्मै भगवते नमस्कारव्यतिरेकेण किमन्यदभिधीयते ।
यत्तथाविधोत्सेकपरित्यक्तविनयवृत्तेः स्मरस्य कुपितेनापि तदभिमतावलोकव्यतिरेकेण तेन सततसंनिहितशूलेनापि कोपसमुचितमायुधग्रहणं नाचरितं ।
लोचनपातमात्रेणैव कोपकार्यकरणाद्भगवतः प्रभावातिशयः परिपोषितः ।
अतएव तस्मै नमोऽस्त्विति युक्तियुक्ततां प्रतिपद्यते ।
अयमपरः पदपूर्वार्धवक्रताहेतुः पर्यायः---यस्तस्यातिशयपोषकः ।
तस्याभिधेयस्यार्थस्यातिशयमुत्कर्ष पुष्णाति यः स तथोक्तः ।
यस्मात्सहजसौकुमार्यसुभगोऽपि पदार्थस्तेन परिपोषितातिशयः सुतरां सहृदयहृदयहारितां प्रतिपद्यते ।
यथा

संबन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर्गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः ।
सद्य्ॐआर्जितदाक्षिणात्यतरुणीदन्तावदातद्युति- श्चन्द्रः सुन्दरि दृश्यतामयमसौ चण्डी शचूडामणिः । । वजी_२.३४ । ।

अत्र पर्यायाः सहजसौन्दर्यसंपदुपेतस्यापि चन्द्रमसः सहृदयहृदयाह्लादकारणं कमप्यतिशयमूल्लासयन्तः पदपूर्वार्धवक्रतां पूष्णन्ति ।
तथा च रामेण रावणं निहत्य पुष्पकेन गच्छता सीतायाः सविस्त्रम्भं स्वैरकथास्वेतदभिधीयते यच्चन्द्रः सुन्दरि दृश्यतामिति, रामणीयकमनोहारिणि सकललोकलोचनोत्सवश्चन्द्रमा विचार्यतामिति ।
यस्मात्तथाविधानामेव तादृशः समुचितो विचारगोचरः ।
संबन्धी रघुभूभुजामित्यनेन चास्माकं नापूर्वो बन्धुरयमित्यवलोकनेन संमान्यतामिति प्रकारान्तरेणापि तद्विषयो बहुमानः प्रतीयते ।
शिष्टाश्च तदतिशयाधानप्रवणत्वमेवात्मनःप्रथयन्ति ।
तत एव च प्रस्तुतमर्थं प्रति प्रत्येकं पृथक्त्वेनोत्कर्षप्रकटनात्पर्यायाणां बहूनामप्यपौनरुक्त्यं ।
तृतीये पादे विशेषणवक्रता विद्यते, न पर्यायवक्रत्वं ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतानिबन्धनः---यस्तदलङ्कर्त्तुमीश्वरः ।
तदभिधेयलक्षणं वस्तु विभूषयितुं यः प्रभवतीत्यर्थः ।
कस्मात्---रम्यच्छायान्तरस्पर्शाथ् ।
रम्यं रमणीयं यच्छायान्तरं विच्छित्त्यन्तरं श्लिष्टत्वादि तस्य स्पर्शात्,शोभान्तरप्रतीतेरित्यर्थः ।
कथम्---स्वयं विशेषणेनापि ।
स्वयमात्मनैव, स्वविशेषणभूतेन पदान्तरेण वा ।
तत्र स्वयं यथा

इत्थं जडे जगति को नु बृहत्प्रमाण- कर्णः करी ननु भवेद्ध्वनितस्य पात्रं ।
इत्यागतं झटिति योऽलिनमुन्ममाथ मातङ्ग एव किमतः परमुच्यतेऽसौ । । वजी_२.३५ । ।

अत्र "मातङ्गऽ-शब्दः प्रस्तुते वारणमात्रे प्रवर्तते ।
श्लिष्टया वृत्त्या चण्डाललक्षणस्याप्रस्तुतस्य वस्तुनः प्रतीतिमुत्पादयन्रूपकालङ्कारच्छायासंस्पर्शाद्गौर्वाहीक इत्यनेन न्यायेन सादृश्यनिबन्धनस्योपचारस्य संभवात्प्रस्तुतस्य वस्तुनस्तत्त्वमध्यारोपयन्पर्यायवक्रतां पुष्णाति ।
यस्मादेवंविधे विषये प्रस्तुतस्याप्रस्तुतेन संबन्धोपनिबन्धो रूपकालङ्कारद्वारेण कदाचिदुपमामुखेन वा ।
यथा स एवायं स इवायमिति वा ।
एष एव च शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यस्य पदध्वनेर्विषयः, बहुषु चैवंविधेषु सत्सु वाक्यध्वनेर्वा ।
यथा

कुसुमसमययुगमुपसंहरन्नुत्फुल्लमल्लिकाधवलाट्टहासो व्यजृम्भत ग्रीष्माभिधानो महाकालः । । वजी_२.३६ । ।

यथा

वृत्तेऽस्मिन्महाप्रलयेधरणीधारणायाधुनात्वं शेषः । । वजी_२.३७ । ।
इति

अत्र युगादयः शब्दाः प्रस्तुताभिधानपरत्वेन प्रयुज्यमानाः सन्तोऽप्यप्रस्तुतवस्तुप्रतीतिकारितया कामपि काव्यच्छायां समुन्मीलयन्तः प्रतीयमानालङ्कारव्यपदेशभाजनं भवन्ति । ।
विशेषणेन यथा

सुस्निग्धदुग्धधवलोरुदृशं विदग्ध- मालोक्य यन्मधुरमुघ्ध विलासदिग्धं ।
भस्मीचकार मदनं ननु काष्ठमेव तन्नुनमीश इति वेत्ति पुरन्ध्रिलोकः । । वजी_२.३८ । ।

अत्र काष्ठमिति विशेषणपदं वर्ण्यमानपदार्थापेक्षया मन्मथस्य नीरसतां प्रतिपादयद्रम्यच्छायान्तरस्पर्शिश्लेषच्छायामनोज्ञविन्यासमपरमस्मिन्वस्तुन्यप्रस्तुते मदनाभिधानपादपलक्षणे प्रतीतिमुत्पापयद्रूपकालङ्कारच्छायासंस्पर्शात्कामपि पर्यायवक्रतामुन्मीलयति ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतायाः कारणम्---यः स्वच्छायोत्कर्षपेशलः ।
स्वस्यात्मनश्छाया कान्तिर्या सुकुमारता तदुत्कर्षेण तदतिशयेन यः पेशलो हृदयहारी ।
तदिदमत्र तात्पर्यम्---यद्यपि वर्ण्यमानस्य वस्तुनः प्रकारान्तरोल्लासकत्वेन व्यवस्थितिस्तथापि परिस्पन्दसौन्दर्यसंपदेव सहृदयहृदयहारितां प्रतिपद्यते ।
यथा

इत्थमुत्कयति ताण्डवलीला- पण्डिताब्धिलहरीगुरुपादैः ।
उत्थितं विषमकाण्डकुटुम्ब- स्यांशुभिः स्मरवतीविरहो मां । । वजी_२.३९ । ।

अत्रेन्दुपर्यायो "विषमकाण्डकुटुम्बऽ-शब्दः कविनोपनिबद्धः ।
यस्मान्मृगाङ्कोदयद्वेषिणा विरहविधुरहृदयेन केनचिदेतदुच्यते ।
यदयमप्रसिद्धोऽप्यपरिम्लानसमन्वयतया प्रसिद्धतमतामुपनीतस्तेन प्रथमतरोल्लिखितत्वेन च चेतनचमत्कारकारितामवगाहते ।
एष च स्वच्छायोत्कर्षपेशलःसहजसौन्दर्यसु भगत्वेन नूतनोल्लेखविलक्षणत्वेन च कविभिः पर्यायान्तरपरिहारपूर्वकमुपवर्ण्यते ।
यथा कृष्णकुटिलकेशीति वक्तव्ये यमुनाकल्लोलवक्रालकेति ।
यथा वा "गौराङ्गीवदनोपमापरिचितऽ इत्यत्रवनितादिवाचकसहस्त्रसद्भावेऽपि गौराङ्गीत्यभिधानमतीवरमणीयं ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रताभिधायी---अलंभाव्यार्थपात्रत्वगर्भं यश्चाबिधीयते ।
वर्ण्यमानस्य संभाव्यः संभावयितुमशक्यो योर्ऽथः कश्चित्परिस्पन्दस्तत्र पात्रत्वं भाजनत्वं गर्भोऽभिप्रायो यत्राभिधाने तत्तथाविधं कृत्वा यश्चाभिधीयते भण्यते ।
यथा

अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्याथ् ।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य । । वजी_२.४० । ।

अत्र महीपालेति राज्ञः सकलपृथ्वीपरिरक्षणक्षमपौरुषस्यापि तथाविधप्रयत्नपरिपालनीयगुरुगोरूपजीवमात्रपरित्राणासामर्थ्यं स्वप्नेऽप्यसंभावनीयं यत्तत्पात्रत्वगर्भमामन्त्रणमुपनिबद्धं ।
यथा वा

भूतानुकम्पा तव चेदियं गौ- रेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शस्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि । । वजी_२.४१ । ।

अत्र यदि प्राणिकरुणाकारणं निजप्राणपरित्यागमाचरसि तदप्ययुक्तं ।
यस्मात्त्वदन्ते स्वस्तिमती भवेदियमेकैव गौरिति त्रितयमप्यनादरास्पदं ।
जिवन्पुनः शश्वत्सदैवोपप्लवेभ्योऽनर्थेभ्यः प्रजाः सकलभूतधात्रीवलयवर्तिनीः प्रजानाथ पासि रक्षसि ।
पितेवेत्यनादरातिशयः प्रथते ।
तदेवं यद्यपि सुस्पष्टसमन्वयोऽयं वाक्यार्थस्तथापि तात्पर्यान्तरमत्र प्रतीयते ।
यस्मात्सर्वस्य कस्याचित्प्रजानाथत्वे सति सदैव तत्परिरक्षणस्याकरणमसंभाव्यं ।
तत्पात्रत्वगर्भमेव तदभिहितं ।
यस्मात्प्रत्यक्षप्राणिमात्रभक्ष्ममाणगुरुह्ॐअधेनुप्राणपरिरक्षणापेक्षानिरपेक्षस्य सतो जीवतस्तवानेन न्यायेन कदाचिदपि प्रिजापरिरक्षणं मनागपि न संभाव्यत इति प्रमाणोपपन्नं ।
तदिदमुक्तम्

प्रमाणवत्त्वादायातः प्रवाहः केन वार्यते । । वजी_२.४२ । ।
इति ।

अत्राभिधानप्रतीतिगोचरीकृतानां पदार्थानां परस्परप्रतियोगित्वमुदाहरणप्रत्युदाहरणन्यायेनानुसंधेयं ।
अयमपरः पर्यायप्रकारः पदपूर्वार्धवक्रतां विदधाति---अलङ्कारोपसंस्कारमनोहारिनिबन्धनः ।
अत्र "अलङ्कारोपसंस्कारऽ शब्दे तृतीयासमासः षष्ठीसमासश्च करणीयः ।
तेनार्थद्वयमभिहितं भवति ।
अलङ्कारेण रूपकादिनोपसंस्कारः शोभान्तराधानं यत्तेन मनोहारि हृदयरञ्जकं निबन्धनमुपनिबन्धो यस्य स तथोक्तः ।
अलङ्कारस्योत्प्रेक्षादेरुपसंस्कारः शोभान्तराधानं चेति विगृह्य ।
तत्र तृतीयासमासपक्षोदाहरणं यथा

यो लीलातालवृन्तो रहसि निरुपधिर्यश्च किलीप्रदीपः कोपक्रीडासु योऽस्त्रं दशनकृतरुजो योऽधरस्यैकसेकः ।
आकल्पे दर्पण यः श्रमशयनविधो यश्च गण्डोपधानं देव्याः स व्यापदं वो हरतु हरजटाकन्दलीपुष्पमिन्दुः । । वजी_२.४३ । ।

अत्र तालवृन्तादिकार्यसामान्यादभेदोपचारनिबन्धनो रूपकालङ्कारविन्यासः सर्वेषामेव पर्यायाणां शोभातिशयकारित्वेनोपनिबद्धः ।
षष्ठीसमासपक्षोदाहरणं यथा

देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा ।
पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायतां । । वजी_२.४४ । ।

अत्र स्वरससंप्रवृत्तसायंसमयसमुचिता सरोरुहाणां विच्छायताप्रतिपत्तिर्नायकेन नागरकतया वल्लभोपलालनाप्रवृत्तेन तन्निदर्शनोपक्रमरमणीयत्वमुखेन निर्जितानीवेति प्रतीयमानोत्प्रेक्षालङ्कारकारित्वेन प्रतिपाद्यते ।
एतदेव च युक्तियुक्तं ।
यस्मात्सर्वस्य कस्यचित्पङ्कजस्य शशाङ्कशोभातिरस्कारकारिता प्रतिपद्यते ।
त्वन्मुखपङ्कजेन पुनः शशिनः शोभातिरस्कारिणा न्यायतो निर्जितानि सन्ति विच्छायतां गच्छन्तीवेति प्रतीयमानस्योत्प्रेक्षालक्षणस्यालङ्कारस्य शोभातिशयः समुल्लास्यते ।
एवं पर्यायवक्रतां विचार्य क्रमसमुचितावसरामुपचारवक्रतां विचारयति---

यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते ।
लेशेनापि भवत्काञ्चिद्वक्तुमुद्रिक्तवृत्तितां । । वजी_२.१३ । ।
यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः ।
उपचारप्रधानासौ वक्रता काचिदुच्यते । । वजी_२.१४ । ।

असौ काचिदपूर्वा वक्रतोच्यते वक्रभावोऽभिधीयते ।
कीदृशी---उपचारप्रधाना ।
उपचरणमुपचारः स एव प्रधानं यस्याः सा तथोक्ता ।
किंस्वरूपा---यत्र यस्यामन्यस्मात्पदार्थान्तरात्प्रस्तुतत्वाद्वर्ण्यमाने वस्तुनि सामान्यमुपचर्यते साधारणो धर्मः कश्चिद्वक्तुमभिप्रेतः समारोप्यते ।
कस्मिन्वर्ण्यमाने वस्तुनि---दूरान्तरे ।
दूरमनल्पमन्तरं व्यवधानं यस्य तत्तथोक्तं तस्मिन् ।
ननु च व्यवधानममूर्तत्वाद्वर्ण्यमानस्य वस्तुनो देशविहितं तावन्न संभवति ।
कालविहितमपि नास्त्येव, तस्य क्रियाविषयत्वाथ् ।
क्रियास्वरूपं कारकस्वरूपं चेत्युभयात्मकं यद्यपि वर्ण्यमानं वस्तु, तथापि देशकालव्यवधानेनात्र न भवितव्यं ।
यस्मात्पदार्थानामनुमानवत्सामान्यमात्रमेव शब्दैर्विषयीकर्तुं पार्यते, न विशेषः ।
तत्कथं दूरान्तरत्वमुपपद्यते ? सत्यमेतत्, किन्तु "दूरान्तरऽ-शब्दो मुख्यतया देशकालविषये विप्रकर्षे प्रत्यासत्तिविरहे वर्तमानोऽप्युपचारात्स्वभावविप्रकर्षे वर्तते ।
सोऽयं स्वभावविप्रकर्षो विरुद्धधर्माध्यासलक्षणः पदार्थानां ।
यथा मूर्तिमत्त्वममूर्तत्वापेक्षया, द्रवत्वं च घनत्वापेक्षया, चेतनत्वमचेतनत्वापेक्षयेति ।
कीदृक्तत्सामान्यम्---लेशेनापि भवथ् ।
मनाङ्मात्रेणापि सथ् ।
किमर्थं ---काञ्चिदपूर्वामुद्रिक्तवृत्तितां वक्तुं सातिशयपरिस्पन्दतामभिधातुं ।
यथा

स्निग्धश्यामलकान्तिलिप्तवियतः । । वजी_२.४५ । ।

अत्र यथा बुद्धिपूर्वकारिणः केचिच्चेतनवर्णच्छायातिशयोत्पादनेच्छया केनचिद्विद्यमानलेपनशक्तिना मूर्तेन नीलादिना रञ्जनद्रव्यविशेषेण किञ्चिदेव लेपनीयं मूर्तिमद्वस्तु वस्त्रप्रायं लिम्पन्ति, तद्वदेव तत्कारित्वसामान्यं मनाङ्मात्रेणापि विद्यमानं कामप्युद्रिक्तवृत्तितामभिधातुमुपचारात्स्निग्धश्यामलया कान्त्या लिप्तं वियद्द्यौरित्युपनिबद्धं ।
"स्निग्धऽ-शब्दोऽप्युपचारवक्र एव ।
यथा मूर्तं वस्तु स्पर्शसंवेद्यं स्नेह नगुणयोगात्स्निग्धमित्युच्यते, तथैव कान्तिरमूर्ताप्युपचारात्स्निग्धेत्युक्ता ।
यथा वा

गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्व्ॐ तोयोत्सर्गस्तनितमुखरो मास्म भूर्विक्लवासताः । । वजी_२.४६ । ।

अत्रामूर्तानामपि तमसामतिबाहुल्याद्घनत्वान्मूर्तसमुचितं सूचिभेद्यत्वमुपचरितं ।
यथा वा

गाणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं ।
णिरहङ्कारमिअङ्का हरन्ति णीलॉ अ णिसॉ । । वजी_२.४७ । ।
गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाः । ।
इति छाया ।

अत्र मत्तत्वं निरहङ्कारत्वं च चेतनधर्मसामान्यमुपचरितं ।
सोऽयमुपचारवक्रताप्रकारः सत्कविप्रवाहे सहस्त्रशः संभवतीति सहृदयैः स्वयमेवोत्प्रेक्षणीयः अतएव च प्रत्यासन्नान्तरेऽस्मिन्नुपचारे न वक्रताव्यवहारः, यथा गौर्वाहीक इति ।
इदमपरमुपचारवक्रतायाः स्वरूपम्---यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः ।
या मूलं यस्याः सा तथोक्ता ।
रूपकमादिर्यस्याः सा तथोक्ता ।
का सा---अलङ्कृतिरलङ्करणं रूपकप्रभृतिरलङ्कारविच्छित्तिरित्यर्थः ।
कीदृशी---सरसोल्लेखा ।
सरसः सास्वादः सचमत्कृतिरुल्लेखः समुन्मेषोयस्याः सा तथोक्ता ।
समानाधिकरणयोरत्र हेतुहेतुमद्भावः, यथा

अतिगुरवो राजमाषा न भक्ष्या इति । । वजी_२.४८ । ।

यन्मूला सती रूपकादिरलङ्कृतिः सरसोल्लेखा ।
तेन रूपकादेरलङ्करणकलापस्य सकलस्यैवोपचारवक्रता जीवितमित्यर्थः ।
ननु च पूर्वस्मादुपचारवक्रताप्रकारादेतस्य को भेदः ? पूर्वस्मिन्स्वभावविप्रकर्षात्सामान्येन मनाङ्मात्रमेव साम्यं समाश्रित्य सातिशयत्वं प्रतिपादयितुं तद्धर्ममात्राध्यारोपः प्रवर्तते, एतस्मिन्पुनरदूरविप्रकृष्टसादृश्यसमुद्भवप्रत्यासत्तिसमुचितत्वादभेदोपचारनिबन्धनं तत्त्वमेवाध्यारोप्यते ।
यथा

सत्स्वे कालश्रवणोत्पलेषु सेनावनालीविषपल्लवेषु ।
गाम्भीर्यपातालफणीश्वरेषु सङ्गेषु को वा भवतां मुरारिः । । वजी_२.४९ । ।

अत्र कालश्रवणोत्पलादिसादृश्यजनितप्रत्यासत्तिविहतमभेदोपचारनिबन्धनं तत्त्वमारोपितं ।
"आदिऽ-ग्रहणादप्रस्तुतप्रशसाप्रकारस्य कस्यचिदन्यापदेशलक्षणस्योपचारवक्रतैव जीवितत्वेन लक्ष्यते ।
तथा च किमपि पदार्थान्तरं प्राधान्येन प्रतीयमानतया चेतसि निधाय तथाविधलक्षणसाम्यसमन्वयं समाश्रित्य पदार्थान्तरमभिधीयमानतां प्रापयन्तः प्रायशः कवयो दृश्यन्ते ।
यथा

अनर्धः कोऽप्यन्तस्वव हरिण हेवाकमहिमा स्फुरत्येकस्यैव त्रिभुवनचमत्कारजनकः ।
यदिन्दोर्मूर्तिस्ते दिवि विहरणारण्यवसुधा सुधासारस्यन्दी किरणनिकरः शष्पकवलः । । वजी_२.५० । ।

अत्र लोकोत्तरत्वलक्षणमुभयानुयायि सामान्यं समाश्रित्य प्राधान्येन विवक्षितस्य वस्तुनः प्रतीयमानवृत्तेरभेदोपचारनिबन्धनं तत्त्वमध्यारोपितं ।
तथा चैतयोर्दूयोरप्यलङ्कारयोस्तुल्येऽप्युपचारवक्रताजीवितत्त्वे वाच्यत्वमेकत्र प्रतीयमानत्वमपरस्मिन्स्वरूपभेदस्य निबन्धनं ।
एतच्चोभयोरपि स्वलक्षणव्याख्यानावसरे सुतरां समुन्मील्यते ।
एवमुपचारवक्रतां विवेच्य समानन्तरप्राप्तावकाशां विशेषणवक्रतां विविनक्ति ।

विशेषणस्य माहात्म्यात्क्रियायाः कारकस्य वा ।
यत्रोल्लसति लावण्यं सा विशेषणवक्रता । । वजी_२.१५ । ।

सा विशेषणवक्रता विशेषणवक्रत्वविच्छित्तिरभिधीयते ।
कीदृशी---यत्र यस्यां लावण्यमुल्लसति रामणीयकमुद्भिद्यते ।
कस्य---क्रियायाः कारकस्य वा ।
क्रियालक्षणस्य वस्तुनः कारकलक्षणस्य वा ।
कस्मात्---विशेषणस्य माहात्म्याथ् ।
एतयोः प्रत्येकं यद्विशेषणं भेदकं पदार्थान्तरं तस्य सातिशयत्वाथ् ।
भावस्वभाव सौकुमार्यसमुल्लासकत्वमलङ्कारच्छायातिशयपरिपोषकत्वं च ।
यथा

श्रमजलसेकजनितनवलिखितनखपददाहमूर्छिता वल्लभरभसलुलितललितालकवलयचयार्धनिह्नुता ।
स्मररसविविधविहितसुरतक्रमपरिमलनत्रपालसा जयति निशात्यये युवतिदृक्तनुमधुमदविशदपाटला । । वजी_२.५१ । ।

यथा वा

करन्तरालीनकपोलभित्तिर्बाष्पोच्छलत्कूणितपत्रलेखा ।
श्रोत्रान्तरे पिण्डितचित्तवृत्तिः शृणोति गीतध्वनिमत्र तन्वी । । वजी_२.५२ । ।
यथा वा

शुचिशीतलचन्द्रिकाप्लुताश्चिरनिःशब्दमनोहरा दिशः ।
प्रशमस्य मनोभवस्य वा हृदि कस्या प्यथ हेतुतां ययुः । । वजी_२.५३ । ।

क्रियाविशेषणवक्रत्वं यथा

सस्मार वारणपतिर्विनिमीलिताक्षः स्वेच्छाविहारवनवासमहोत्सवानां । । वजी_२.५४ । ।

अत्र सर्वत्रैवस्वभावसौन्दर्यसमुल्लासकत्वं विशेषणानां ।
अलङ्कारच्छायातिशयपरिपोषकत्वं विशेषणस्य यथा

शशिनः शोभातिरस्कारिणा । । वजी_२.५५ । ।

एतदेव विशेषणवक्रत्वं नाम प्रस्तुतौचित्यानुसारि सकलसत्काव्यजीवितत्वेन लक्ष्यते, यस्मादनेनैव रसः परां परिपोषपदवीमवतार्यते ।
यथा

करान्तरालीन इति । । वजी_२.५६ । ।

स्वमहिम्ना विधीयन्ते येन लोकोत्तरश्रियः ।
रसस्वभावालङ्कारास्तद्विधेयं विशेषणं । । वजी_२.५७ । ।

(इति) अन्तरश्लोकः । ।
एवं विशेषणवक्रतां विचार्य क्रमसमर्पितावसरां संवृतिवक्रतां विचारयति---

यत्र संव्रियते वस्तु वैचित्र्यस्य विवक्षया ।
सर्वनामादिभिः कैश्चित्सोक्ता संवृतिवक्रता । । वजी_२.१६ । ।

सोक्ता संवृतिवक्रता---या किलैवंविधा सा संवृतिवक्रतेत्युक्ता कथिता ।
संवृत्या वक्रता संवृतिप्रधाना वेति समासः ।
यत्र यस्यां वस्तु पदार्थलक्षणं सव्रियते समाच्छाद्यते ।
केन हेतुना---वैचित्र्यस्य विवक्षया विचित्रभावस्याभिधानेच्छया, यया पदार्थो विचित्रभावं समासादयतीत्यर्थः ।
केन संव्रियते---सर्वनामादिभिः कैश्चिथ् ।
सर्वस्य नाम सर्वनाम तदादिर्येषां ते तथोक्तास्तैः कैश्चिदपूर्वैर्वाचकैरित्यर्थः ।
अत्र बहवः प्रकाराः संभवन्ति ।
यत्र किमपि सातिशयं वस्तु वक्तुं शक्यमपि साक्षादभिधानादियत्तापरिच्छिन्नतया परिमितप्रायं मा प्रतिभासतामिति सामान्यवाचिना सर्वनाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयाभिधानपरेण वाक्यान्तरेण प्रतीतिगोचरतां नीयते ।
यथा

तत्पितर्यथ परिग्रहलिप्सौ स व्यधत्त करणीयमणीयः ।
पुष्पचापशिखरस्थकपोलो मन्मथः किमपि येन निदध्यौ । । वजी_२.५८ । ।

अत्र सदाचारप्रवणतया गुरुभक्तिभावितान्तः करणो लोकोत्तरौदार्यगुणयोगाद्विविधविषयोपभोगवितृष्णमना निजेन्द्रियनिग्रहमसंभावनीयमपि शान्तनवो विहितवानित्यभिधातुं शक्यमपि सामान्याभिधायिना सर्वानाम्नाच्छाद्योत्तरार्धेन कार्यान्तराभिधायिना वाक्यान्तरेण प्रतीतिगोचरतामानीयमानं कामपि चमत्कारकारितामावहति ।
अयमपरः प्रकारो यत्र स्वपरिस्पन्दकाष्ठाधिरूढेः सातिशयं वस्तु वचसामगोचर इति प्रथयितुं सर्वानाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयवाचिना वाक्यान्तरेण समुन्मील्यते ।
यथा

याते द्वारवती तदा मधुरिपौ तद्दत्तकम्पानतां कालिन्दीजलकेलिवञ्जुललतामालम्बय सोत्कण्ठया ।
तद्गीतं गुरुबाष्पगद्गदलसत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितं । । वजी_२.५९ । ।

अत्र सर्वनाम्ना संवृतं वस्तु तत्कार्याभिधायिना वाक्यान्तरेण समुन्मील्य सहृदयहृदयहारितां प्रापितं ।
यथा वा

तह रुण्णं कण्ह विसाहीआए रोहगग्गरगिराए ।
जह कस्स वि जम्मसए वि कोइ मा वल्लहो होउ । । वजी_२.६० । ।
तथै रुदितं कृष्ण विशाखया रोधगद्गदगिरा ।
यथा कस्यापि जन्मशतेऽपि कोऽपि मा वल्लभो भवतु । ।
इति छाया ।
अत्र पूर्वार्धे संवृतं वस्तु रोदनलक्षणं तदतिशयाभिधायिना वाक्यान्तरेण कामपि तद्विदाह्लादकारितां नीतं ।
इदमपरमत्र प्रकारान्तरं यत्र सातिशयसुकुमारं वस्तु कार्यातिशयाभिधानं विना संवृतिमात्ररमणीयतया कामपि काष्ठमधिरोप्यते ।
यथा

दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया । । वजी_२.६१ । ।

अयमपरः प्रकारो यत्र स्वानुभसंवेदनीयं वस्तु वचसा वक्तुमविषय इति ख्यापयितुं संव्रियते ।
यथा

तान्यक्षराणि हृदये किमपि ध्वनन्ति । । वजी_२.६२ । ।
इति ।

पूर्वमेव व्याख्यातं ।
इदमपि प्रकारान्तरं संभवति यत्र परानुभसंवेद्यस्य वस्तुनो वक्तुरगोचरतां प्रतिपादयितुं संवृतिः क्रियते ।
यथा

मन्मथः किमपि येन निदध्यौ । । वजी_२.६३ । ।
अत्र हि त्रिभुवनप्रथितप्रतामहिमा तथाविधशक्तिव्याघातविषण्णचेताः कामः किमपि स्वानुभवसमुचितमचिन्तयदिति ।
इदमपरं प्रकारान्तरमत्र विद्यते ---यत्र स्वभावेन कविविवक्षया वा केनचिदौपहत्येन युक्तं वस्तु महापातकमिव कीर्तनीयतां नार्हतीति समर्पयितुं संव्रियते ।
यथा

दुर्वचं तदथ मास्म भून्मृग- स्त्वय्यसौ यदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा । । वजी_२.६४ । ।

यथा वा

निवार्यतामालि किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् । । वजी_२.६५ । ।

अत्रार्जुनमारणं भगवदपभाषणं च न कीर्तनोयतामर्हतीति संवरणेन रमणीयतां नीतमिति ।
विवक्षयो पहतं यथा

सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः । । वजी_२.६६ । ।
इति ।

प्रथममेव व्याख्यातं ।
एव संवृतिवक्रतां विचार्य प्रत्ययवक्रतायाः कोऽपि प्रकारः पदमध्यान्तर्भूतत्वादिहैव समुचितावसरस्तस्मात्तद्विचारमाचरति---

प्रस्तुतौचित्यविच्छित्तिं स्वमहिम्ना विकासयन् ।
प्रत्ययः पदमध्येऽन्यामुल्लासयति वक्रतां । । वजी_२.१७ । ।

कश्चित्प्रत्ययः कृदादिः पदमध्यवृत्तिरन्यामपूर्वां वक्रतामुल्लासयति वक्रभावमुद्दीपयति ।
किं कुर्वन्---प्रस्तुतस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्य विच्छित्तिमुपशोभां विकासयन्समुल्लासयन् ।
केन---स्वमहिम्ना निजोत्कर्षेण ।
यथा

वेल्लद्वलाका घनाः । । वजी_२.६७ । ।

यथा वा

स्निह्यत्कटाक्षे दृशौ इति । । वजी_२.६८ । ।

अत्र वर्तमानकालाभिधायी शतृप्रत्ययः कामप्यतीतानागतविभ्रमविरहितां तात्कालिकपरिस्पन्दसुन्दरीं प्रस्तुतौचित्यविच्छित्तिमुल्ला सयन्सहृदयहृदयहारिणीं प्रत्ययवक्रतामावहति ।
इदानीमेतस्याः प्रकारान्तरं पर्यालोचयति---

आगमादिपरिस्पन्दसुन्दरः शब्दवक्रतां ।
परः कामपि पुष्णाति बन्धच्छायाविधायिनीं । । वजी_२.१८ । ।

परो द्वितीयः प्रत्ययप्रकारः कामप्यपूर्वां शब्दवक्रतामाबध्नाति वाचकवक्रतां विदधाति ।
कीदृक्---आगमादिपरिस्पन्दसुन्दरः ।
आगमो मुमादिरादिर्यस्य स तथोक्तः, तस्यागमादेः परिस्पन्दः स्वविलसितं तेन सुन्दरः सुकुमारः ।
कीदृशीं शब्दवक्रताम्---बन्धच्छायाविधायिनीं संनिवेशकान्तिकारिणीमित्यर्थः ।
यथा

जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा- दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यद् । । वजी_२.६९ । ।

यथा च

दाहोऽम्भः प्रसृतिंपचः इति । । वजी_२.७० । ।

यथा च

पायं पायं कलाचीकृतकदलिदलं । । वजी_२.७१ । ।
इति ।

अत्र सुभगंमन्यभावप्रभृतिषु शब्देषु मुमादिपरिस्पन्दसुन्दराः संनिवेशच्छायाविधायिनी वाचकवक्रतां प्रत्ययाः पुष्णन्ति ।
एवं प्रसङ्गसमुचितां पदमध्यवर्तिप्रत्ययवक्रतां विचार्य समनन्तरसंभविनीं वृत्तिवक्रतां विचारयति---

अव्ययीभावमुख्यानां वृत्तीनां रमणीयता ।
यत्रोल्लसति सा ज्ञेया वृत्तिवैचित्र्यवक्रता । । वजी_२.१९ । ।

सा वृत्तिवैचित्र्यवक्रता ज्ञेया बोद्धव्या ।
वृत्तीनां वैचित्र्यं विचित्रभावः सजातीयापेक्षया सौकुमार्योत्कर्षस्तेन वक्रता वक्रभावविच्छित्तिः ।
कीदृशी---रमणीयता यत्रोल्लसति ।
रामणीयकं यस्यामुद्भिद्यते ।
कस्य---वृत्तीनां ।
कासाम्---अव्ययीभावमुक्यानां ।
अव्ययीभावः समासः मुख्यः प्रधानभूतो यासं तास्तथोक्तास्तासां समासतद्धितसुब्धातुवृत्तीनां वैयाकरणप्रसिद्धानां ।
तदयमत्रार्थः---यत्र स्वपरिस्पन्दसौन्दर्यमेतासां समुचितभित्तिभागोपनिबन्धादभिव्यक्तिमासादयति ।
यथा

अभिव्यक्तिं तावद्बहिरलभमानः कथमपि स्फुरन्नन्तः स्वत्मन्यधिकतरसंमूर्छिततरः ।
मनोज्ञामुद्वृत्तस्मरपरिमल स्पन्दसुभगा- महो दत्ते शोभामधिमधु लतानां नवरसः । । वजी_२.७२ । ।

अत्र "अधिमधुऽ-शब्दे विभक्त्यर्थविहितः समासः समयाभिधाय्यपि विषयसप्तमीप्रतीतिमुत्पादयन्"नवरसऽ-शब्दस्य श्लोषच्छायाच्छुरणवैचित्र्यमुन्मीलयति ।
एतद्वृत्तिविरहिते विन्यासान्तरे वस्तुप्रतीतौ सत्यामपि न तादृक्तद्विदाह्लादकारित्वं ।
उद्वृत्त-परिमलस्पन्द-सुभग-शब्दनामुपचारवक्रत्वं परिस्फुरद्विभाव्यते ।
यथा च

आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीं- व्यातन्वद्भिः किमिव सिततां चेष्टितैस्ते न नीतं ।
अप्येतासां दयितविरहे विद्विषत्सुन्दरीणां यैरानीता नखपदमयी मण्डना पाण्डिमानं । । वजी_२.७३ । ।

अत्र पाण्डुत्व-पाण्डुता-पाण्डुभाव-शब्देभ्यः पाण्डिम-शब्दस्य किमपि वृत्तिवैचित्र्यवक्रत्वं विद्यते ।
यथा च

कान्त्योन्मीलति सिंहलीमुखरुचां चूर्णाभिषेकोल्लस- ल्लावण्यामृतवाहिनिर्झरजुषामाचान्तिभिश्चन्द्रमाः ।
येनापानमहोत्सवव्यतिकरेष्वेकातपत्राय्यते देवस्य त्रिदशाधिपावधिजगज्जिष्णोर्मनोजन्मनः । । वजी_२.७४ । ।

अत्र सुब्धातुवृत्तेः समासवृत्तेश्च किमपि वक्रतावैचित्र्यं परिस्फुरति ।
एवं वृत्तिवक्रतां विचार्य पदपूर्वार्धभाविनीमुचितावसरां भाववक्रतां विचारयति---

साध्यतामप्यनादृत्य सिद्धत्वेनाभिधीयते ।
यत्र भावो भवेदेषा भाववैचित्र्यवक्रता । । वजी_२.२० । ।

एषा वर्णितस्वरूपा भाववैचित्र्यवक्रता भवत्यस्ति ।
भावो धात्वर्थरूपस्तस्यै वैचित्र्यं विचित्रभावः प्रकारान्तराभिधानव्यतिरेकि रामणीयकं तेन वक्रता वक्रत्वविच्छित्तिः ।
कीदृशी---यत्र यस्यां भावः सिद्धत्वेन परिनिष्पन्नत्वेनाभिधीयते भण्यते ।
किं कृत्वा---साध्यतामप्यनादृत्य निष्पाद्यमानतां प्रसिद्धामप्यवधीर्य ।
तदिदमत्र तात्पर्यम्---यत्साध्यत्वेनाभिधानादपरिनिष्पत्तेः प्रस्तुतस्यार्थस्य दुर्बलः परिपोषः तस्मात्सिद्धत्वेनाभिधानं परिनिष्पन्नत्वात्पर्याप्तं प्रकृतार्थपरिपोषमावहति ।
यथा

श्वासायासमलीमसाधररुचेर्देः कन्दलीतानवात्केयूरायितमङ्गदैः परिणतं पाण्डिम्नि गण्डत्विषा ।
अस्याः किं च विलोचनोत्पलयुगेनात्यन्तमश्रुस्त्रुता तारं तादृगपाङ्गयोररुणितं येनोत्प्रतापः स्मरः । । वजी_२.७५ । ।

अत्र भावस्य सिद्धत्वेनाभिधानमतीव चमत्कारकारि ।
एवं भाववक्रतां विचार्य प्रातिपदिकान्तर्वर्तिनीं लिङ्गवक्रतां विचारयति---

भिन्नयोर्लिङ्गयोर्यस्यां सामानाधिकरण्यतः ।
कापि शोभाभ्युदेत्येषा लिङ्गवैचित्र्यवक्रता । । वजी_२.२१ । ।

एषा कथितस्वरूपा लिङ्गवैचित्र्यवक्रता स्त्षादिविचित्रभाववक्रताविच्छित्तिः ।
भवतीति संबन्धः, क्रियान्तराभावात्कीदृशी---यस्यां यत्र भिन्नयोर्विभक्तस्वरूपयोर्लिङ्गयोर्द्वयोः सामानाधिकरण्यतस्तुल्याश्रयत्वादेकद्रव्यवृत्तित्वात्काप्यपूर्वा शोभाभ्युदेति कान्तिरुल्लसति ।
यथा

यस्यारोपणकर्मणापि बहवो वीरव्रतं त्याजिताः कार्यं पुङ्खितबाणमीश्वरधनुस्तद्दोर्भिरेभिर्मया ।
स्त्रीरत्नं तदगर्भसंभवमितो लभ्यं च लीलायिता तेनैषा मम फुल्लपङ्कजवनं जाता दृशां विंशतिः । । वजी_२.७६ । ।

यथा वा

नभस्वता लासितकल्पवल्ली प्रवालबालव्यजनेन यस्य ।
उरः स्थलेऽकीर्यत दक्षिणेन सर्वास्पदं सौरभमङ्गरागः । । वजी_२.७७ । ।
आयोज्य मालामृतुभिः प्रयत्न- संपादितांमंसतटेऽस्य चक्रे ।
करारविन्दं मकरन्दबिन्दु- स्यन्दि श्रिया विभ्रमकर्णपूरः । । वजी_२.७८ । ।

इयमपरा च लिङ्गवैचित्र्यवक्रता---

सति लिङ्गान्तरे यत्र स्त्रीलिङ्गं च प्रयुज्यते ।
शोभानिष्पत्तये यस्मान्नामैव स्त्रीति पेशलं । । वजी_२.२२ । ।

यत्र यस्यां लिङ्गान्तरे सत्यन्यस्मिन्संभवत्यपि लिङ्गे स्त्रीलिङ्गं प्रयुज्यते निबध्यते ।
अनेकलिङ्गत्वेऽपि पदार्थस्य स्त्रीलिङ्गविषयः प्रयोगः क्रियते ।
किमर्थम्---शोभानिष्पत्तये कान्तिसम्पत्तये ।
कस्मात्कारणात्---यस्मान्नामैव स्त्रीति पेशलं ।
स्त्रीत्यभिधानमेव हृदयहारि ।
विच्छित्यन्तरेण रसादिप्रयोजन योग्यत्वाथ् ।
उदाहरणं

यथेयं ग्रीष्मोष्मव्यतिकरवती पाण्डुरभिदा मुखोद्भिन्नम्लानानिलतरलवल्लीकिसलया ।
तटी तारं ताम्यत्यतिशशियशाः कोऽपि जलद- स्तथा मन्ये भावी भुवनवलयाक्रान्तिसुभगा । । वजी_२.७९ । ।

अत्र त्रिलिङ्गत्वे सत्यपि "तटऽ-शब्दस्य, सौकुमार्यात्स्त्रीलिङ्गमेव प्रयुक्तं ।
तेन विच्छिन्त्यन्तरेण भावी नायकव्यवहारः कश्चिदासूत्रित इत्यतीव रमणीयत्वाद्वक्रतामावहति । ।
इदमपरमेतस्याः प्रकारान्तरं लक्षयति---

विशिष्टं योज्यते लिङ्गमन्यस्मिन्संभवत्यपि ।
यत्र विछित्तये सान्या वाच्यौचित्यानुसारतः । । वजी_२.२३ । ।

सा चोक्तस्वरूपा अन्या अपरा लिङ्गवक्रता विद्यते ।
यत्र यस्यां विशिष्टं योज्यते लिङ्गत्रयाणामेकतमं किमपि कविविवक्षया निबध्यते ।
कथम्---अन्यस्मिन्संभवत्यपि, लिङ्गान्तरे विद्यमानेऽपि ।
किमर्थम्---विच्छित्तये शोभायै ।
कस्मात्कारणात्---वाच्यौचित्यानुसारतः ।
वाच्यस्य वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्यानुसरणमनुसारस्तस्माथ् ।
पदार्थौचित्यमनुसृत्येत्यर्थः ।
यथा

त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन्वक्तुमशक्नुवन्त्यः शाखाभिरावर्जितपल्लवाभिः । । वजी_२.८० । ।

अत्र सीतया सह रामः पुष्पकेनावतरंस्तस्याः स्वयमेव तद्विरहवैधुर्यमावेदयति---तत्त्वं रावणेन तथाविधत्वरापरतन्त्रचेतसा मार्गे यस्मिन्नपनीता तत्र तदुपमर्दवशात्तथाविधसंस्थानयुक्तत्वं लतानामुन्मुखत्वं मम त्वन्मार्गानुमानस्य निमित्ततामापन्नमिति वस्तु विच्छित्त्यन्तरेण रामेण योज्यते ।
यथा---हे भीरु स्वाभाविकसौकुमार्यकातरान्तः करणे, रावणेन तथाविधक्रूरकर्मकारिणा यस्मिन्मार्गे त्वमपनीता तमेताः साक्षात्कारपरिदृश्यमानमूर्तयो लताः किल ममादर्श यन्निति ।
तन्मार्गप्रदर्शनं परमार्थतस्तासां निश्चेतनतया न संभाव्यत इति प्रतीयमानवृत्तिरुत्प्रेक्षालङ्कारः कवेरभिमतः ।
यथा---तव भीरुत्वं रावणस्य क्रौर्यं ममापि त्वत्परित्राणप्रयत्नपरतां पर्यालोच्य स्त्रीस्वभावादार्द्रहृदयत्वेन समुचितस्वविषयपक्षपातमाहात्म्यादेताः कृपयैव मम मार्गप्रदर्शनमकुर्वन्निति ।
केन करणभूतेन---शाखाभिरावर्जितपल्लवाभिः ।
यस्माद्वागिन्द्रियवर्जितत्वाद्वक्तुमशक्नुवन्त्यः ।
यत्किल ये केचिदजल्पन्तो मार्गप्रदर्शनं प्रकुर्वन्ति ते तदुन्मुखीभूतहस्तपल्लवैर्बाहुभिरित्येतदतीव युक्तियुक्तं ।
तथा चात्रैव वाक्यान्तरमपि विद्यते

मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षा- स्तवागतिज्ञं समबोधयन्मां ।
व्यापारयन्त्यो दिखि दक्षिणस्या- मुत्पक्ष्मराजीनि विलोचनानि । । वजी_२.८१ । ।

हरिण्यश्च मां समबोधयन् ।
कीदृशम्---तवागतिज्ञम्, लताप्रदर्शितमार्गमजानन्तं ।
ततस्ताः मम्यगबोधयन्निति, यतस्तास्तदपेक्षया किञ्चित्प्रबुद्धा इति ।
ताश्च कीदृश्यः---तथाविधवैशससंदर्शनवशाद्दुःखितत्वेन परित्यक्ततृणग्रासाः ।
किं कुर्वाणाः---तस्यां दिशि नयनानि समर्पयन्त्यः ।
कीदृशानि---ऊर्ध्वोकृतपक्ष्मपङ्क्तीनि ।
तदेवं तथाविधस्थानकयुक्तत्वेन दक्षिणां दिशमन्तरिक्षेण नीतेति संज्ञया निवेदयन्त्यः ।
अत्र वृक्षमृगादिषु लिङ्गान्तरेषु संभवत्स्वपि स्त्रीलिङ्गमेव पदार्थौचित्यानुसारेण चेतनचमत्कारकारितया कवेरभिप्रेतं ।
तस्मात्कामपि वक्रतामावहति ।
एवं प्रातिपदिकलक्षणस्य सुबन्तसंभविनः पदपूर्वार्धस्य यथासंभवं वक्रभावं विचार्येदानीमुभयोरपि सुप्तिङन्तयोर्धातुस्वरूपः पूर्वभागो यः संभवति तस्य वक्रतां विचारयति ।
तस्य च क्रियावैचित्र्यनिबन्धनगेव वक्रत्वं विद्यते ।
तस्मात्क्रियावैचित्र्यस्यैव कीदृशाः कियन्तश्च प्रकाराः संभवन्तीति तत्स्वरूपनिरूपणार्थमाह---

कर्त्तुरत्यन्तरङ्गत्वं कर्त्रन्तरविचित्रता ।
स्वविशेषणवैचित्र्यमुपचारमनोज्ञता । । वजी_२.२४ । ।
कर्मादिसंवृतिः पञ्च प्रस्तुतौचित्यचारवः ।
क्रियावैचित्र्यवक्रत्वप्रकारास्त इमे स्मृताः । । वजी_२.२५ । ।

क्रियावैचित्र्यवक्रत्वप्रिकारा धात्वर्थविचित्रभाववक्रताप्रभेदास्त इमे स्मृता वर्ण्यमानस्वरूपाः कीर्तिताः ।
कियन्तः पञ्च पञ्चसंख्याविशिष्टाः ।
कीदृशाः---प्रस्तुतौचित्यचारवः ।
प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदौचित्यमुचितभावस्तेन चारवो रमणीयाः ।
तत्र प्रथमस्तावत्प्रकारो यत्---कर्तुरत्यन्तरङ्गत्वं नाम ।
कर्तुः स्वतन्त्रतया मुख्यभूतस्य कारकस्य क्रियां प्रति निर्वर्तयितुर्यदत्यन्तरङ्गत्वं अत्यन्तमान्तरतम्यं ।
यथा

चूडारत्ननिषण्णदुर्वहजगद्भारोन्नमत्कन्धरो धत्तामुद्धुरतामसौ भगवतः शेषस्य मूर्धा परं ।
स्वैरं संस्पृशतीषदप्यवनतिं यस्मिन्लुठन्त्यक्रमं शून्ये नूनमियन्ति नाम भुवनान्युद्दामकम्पोत्तरं । । वजी_२.८२ । ।

अत्रोद्धुरता धारणलक्षणक्रिया कर्तुः फणीश्वरमस्तकस्य प्रस्तुतौचित्यमाहात्म्यादन्तर्भावं यथा भजते तथा नान्या काचिदिति क्रियावैचित्र्यवक्रतामावहति ।
यथा वा

किं शोभिताहमनयेति पिनाकपाणेः पृष्टस्य पातु परिचुम्बनमुत्तर वः । । वजी_२.८३ । ।

अत्र चुम्बनव्यतिरेकेण भगवता तथाविधलोकोत्तरगौरी शोभातिशयाभिधानं न केनचित्क्रियान्तरेण कर्तुं पार्यत इति क्रियावैचित्र्यनिबन्धनं वक्रभावमावहति ।
यथा च

रुद्दस्स तैअणाणं पव्वैपरिचुम्बिअं जाइ । । वजी_२.८४ । ।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति । ।
इति छाया ।

यथा वा सिढिलिअचॉ जाइ मारद्धओ । । वजी_२.८५ । ।
शिथिलीकृतचापो जयति मकरध्वजः । ।
इति छाया ।

एतयोर्वैचित्र्यं पूर्वमेव व्याख्यातं ।
अयमपरः क्रियावैचित्र्यवक्रतायाः प्रकारः---कर्त्रन्तरविचित्रता ।
अन्यः कर्ता कर्त्रन्तरं तस्माद्विचित्रता वैचित्र्यं ।
प्रस्तुतत्वात्सजातीयत्वाच्च कर्तुरेव ।
एतदेव च तस्य वैचित्र्यं यद्क्रियामेव कर्त्रन्तरापेक्षया विचित्रस्वरूपां संपादयति ।
यथा

नैकत्र शक्तिविरतिः क्वचिदस्ति सर्वे भावाः स्वभावपरिनिष्ठिततारतम्याः ।
आकल्पमौर्वदहनेन निपीयमान- मम्भोधिमेकचुलकेन पपावगस्त्यः । । वजी_२.८६ । ।

अत्रैकचुलकेनाम्भोधिपानं सतताध्यवसायाभायासकाष्ठाधिरूढिप्रौढत्वाद्वाडवाग्नेः किमपि क्रियावैचित्र्यमुद्वहत्वक्रतामुन्मीलयति ।
यथा वा

प्रपन्नार्तिच्छिदो नखाः । । वजी_२.८७ । ।

यथा वा

स दहतु दुरितं शाम्भवो वः शराग्निः । । वजी_२.८८ । ।

एतयोर्वैचित्र्यं पूर्वमेव प्रदर्शितं ।
अयमन्यः क्रियावैचित्र्यवक्रातायाः प्रभेदः---स्वविशेषणवैचित्र्यं ।
मुख्यतया प्रस्तुतत्वात्क्रियायाः स्वस्यात्मनो यद्विशेषणं भेदकं तेन वैचित्र्यं विचित्रभावः ।
यथा---

इत्युद्गते शशिनि पेशलकान्तिदूती- संलापसंवलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः । । वजी_२.८९ । ।

अत्र मण्डनविधिग्रहणलक्षणायाः क्रियाया विपरीतभूषाविन्यासहासितसखीजनमिति विशेषणेन किमपि सौकुमार्यमुन्मीलितं ।
यस्मात्तथाविधादरोपरचितं प्रसाधनं यस्य व्यञ्जकत्वेनोपात्तं मुख्यतया वर्ण्यमानवृत्तेर्वल्लभानुरागस्य सोऽप्यनेन सुतरां समुत्तेजितः ।
यथा वा

मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः । । वजी_२.९० । ।

अस्य वैचित्र्यं पूर्वमेवोदितं ।
एतच्च क्रियाविशेषणं द्वयोरपि क्रियाकारकयोर्वक्रत्वमुल्लासयति ।
यस्माद्विचित्रक्रियाकारित्वमेव कारकवैचित्र्यं ।
इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरम्---उपचारमनोज्ञता ।
उपचारः सादृश्यादिसमन्वयं समाश्रित्य धर्मान्तराध्यारोपस्तेन मनोज्ञता वक्रत्वं ।
यथा

तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च ।
दृशोर्लोलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः । । वजी_२.९१ । ।

अत्र स्खलदमललावण्यजलधौ समुल्लसद्विमलसौन्दर्यसंभारसिन्धौ परिस्फुरपरिस्पन्दतया प्लवमानत्वेन लक्ष्यमाणानि पारप्राप्तिमासादयितुं व्यवस्यन्तीवेति चेतनपदार्थसंभविसादृश्योपचारात्तारुण्यतरलतरुणीगात्राणां तरणमुत्प्रेक्षितं ।
उत्प्रेक्षायाश्चोपचार एव भूयसा जीवितत्वेन परिस्फुरतीत्युत्प्रेक्षावसर एव विचारयिष्यते ।
प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च (इति)-अत्र स्तनजघनं कर्तृ प्रथिम्नः प्रागल्भ्यं महत्त्वस्य प्रौढिमुन्मुद्रयत्युन्मीलयति ।
यथा कश्चिच्चेतनः किमपि रक्षणीयं वस्तु मुद्रयित्वा कमपि समयमवस्थाप्य समुचितोपयोगावसरे स्वयमुन्मुद्रयत्युद्धाटयति, तदेवं तत्कारित्वसाम्यात्स्तनजघनस्योन्मुद्रणमुपरितं ।
तदिदमुक्तं भवति यद्तदेव शैशवदशायां शक्त्यात्मना विमीलितस्वरूपमनवस्थितमासीत्, तस्य प्रथिम्नः प्रागल्भ्यस्य प्रथमतरतारुण्यावतारावसरसमुचितं प्रथनप्रसरं समर्पयति ।
दृशोर्लोलारम्भाः स्फुटमपवदन्ते सरलतां (इति)---अत्र शैशवप्रतिष्ठितां स्पष्टतां प्रकटमेवापसार्य दृशोर्विलासोल्लासाः कमपि नवयौवनसमुचितं विभ्रममधिरोपयन्ति ।
यथा केचिच्चेतनाः कुत्रचिद्विषये कमपि व्यवहारं समासादितप्रसरमपसार्य किमपि स्वाभिप्रायाभिमतं परिस्पन्दान्तरं प्रतिष्ठापयन्तीति तत्कारित्वसादृश्याल्लीलावतीलोचनविलासोल्लासानां सरलत्वापवदनमुपचरितं ।
तदेवंविधेनोपचारेणैतास्तिस्त्रोऽपि वक्रताप्रकाराः प्रतिपदं संभवन्तीत्यवसरान्तरे विचार्यन्ते ।
इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरम्--कर्मादिसंवृतिः ।
कर्मप्रभृतीनां कारकाणां संवृतिः संवरणम्, प्रस्तुतौचित्यानुसारेण सातिशयप्रतीतये समाच्छाद्याभिधा ।
सा च क्रियावैचित्र्यकारित्वात्प्रकारत्वेनाभिधीयते ।
कारणे कार्योपचाराद्यथा---

नेत्रान्तरे मधुरमर्पयतीव किञ्चित्कर्णान्तिके कथयतीव किमप्यपूर्वं ।
अन्तः समुल्लिखति किञ्चिदिवासिताक्ष्या रागालसे मनसि रम्यपदार्थलक्ष्मीः । । वजी_२.९२ । ।

अत्र तदनुभवैकगोचरत्वादनाख्येयत्वेन किमपि सातिशयं प्रतिपदं कर्म संपादयन्त्यः क्रियाः स्वात्मनि कमपि वक्रभावमुद्भावयन्ति ।
उपचारमनोज्ञताप्यत्र विद्यते ।
यस्मादर्पणकथनोल्लेखनान्युपचारनिबन्धनान्येव चेतनपदार्थधर्मत्वाथ् ।
यथा च---

नृत्तारम्भाद्विरतरभसस्तिष्ठ तावन्मुहूर्तं यावन्मौलौ श्लथमचलतां भूषणं ते नयामि ।
इत्याख्याय प्रणयमधुरं कान्तया योज्यमाने चूडाचन्द्रे जयति सुखिनः कोऽपि शर्वस्य गर्वः । । वजी_२.९३ । ।

अत्र "कोऽपिऽ इत्यनेन सर्वनामपदेन तदनुभवैकगोचरत्वादव्यपदेश्यत्वेन सातिशयः शर्वस्य गर्व इति कर्तृसंवृतिः ।
जयति सर्वोत्कर्षेण वर्तते इति क्रियावैचित्र्यनिबन्धनं ।

इत्ययं पदपूर्वार्धवक्रभावो व्यवस्थितः ।
दिङ्मात्रमेवमेतस्य शिष्टं लक्ष्ये निरूप्यते । । वजी_२.९४ । ।

इति संग्रहश्लोकः ।
तदेवं सुप्तिङन्तयोर्द्वयोरपि पदपूर्वार्धस्य प्रातिपदिकस्य धातोश्च यथायुक्ति वक्रतां विचार्येदानीं तयोरेव यथास्वमपरार्धस्य प्रत्ययलक्षणस्य वक्रतां विचारयति ।
तत्र क्रियावैचित्र्यवक्रातायाः समनन्तरसंभविनः क्रमसमन्वितत्वात्कालस्य वक्रत्वं पर्यालोच्यते, क्रियापरिच्छेदकत्वात्तस्य ।

औचित्यान्तरतम्येन समयो रमणीयतां ।
याति यत्र भवत्येषा कालवैचित्र्यवक्रता । । वजी_२.२६ । ।

एषा प्रक्रान्तस्वरूपा भवत्यस्ति कालवैचित्र्यवक्रता ।
कालो वैयाकरणादिप्रसिद्धो वर्तमानादिर्लट्प्रभृतिप्रत्ययवाच्यो यः पदार्थानामुदयतिरोधानविधायी, तस्य वैचित्र्यं विचित्रभावस्तथाविधत्वेनोपनिबन्धस्तेन वक्रता वक्रत्वविच्छित्तिः ।
कीदृशी---यत्र यस्यां समयःकालाख्यो रमणीयतां याति रामणीयकं गच्छति ।
केन हेतुना--औचित्यान्तरतम्येन ।
प्रस्तुतत्वात्प्रस्तावाधिकृतस्य वस्तुनो यदौचित्यमुचितभावस्तस्यान्तरतम्येनान्तरङ्गत्वेन, तदतिशयोत्पादकत्वेनेत्यर्थः ।
यथा

समविसमणिव्विसेसा समन्तओ मन्दमन्दसंचारा ।
ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा । । वजी_२.९५ । ।
समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्चाराः ।
अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः । ।
इति छाया ।

अत्र वल्लभाविरहवैधुर्यकातरान्तः करणेन भाविनः समयस्य संभावनानुमानमहात्म्यमुत्प्रेक्ष्य उद्दीपनविभावत्वविभवविलसितं तत्परिस्पन्दसौन्दर्यसन्दर्शनासहिष्णुना किमपि भयविसंष्ठुलत्वमनुभूय शङ्काकुलत्वेन केनचिदेतदभिधीयते---यदचिराद्भविष्यन्ति पन्थानो मनोरथानामप्यलङघनीया इति भविष्यत्कालाभिधायी प्रत्ययः कामपि परार्धवक्रतां विकासयति ।
यथा वा

यावत्किञ्चिदपूर्वमार्द्रमनसामावेदयन्तो नवाः सौभाग्यातिशयस्य कामपि दशां गन्तुं व्यवस्यन्त्यमी ।
भावास्तावदनन्यजस्य विधुरः कोऽप्युद्यमो जृम्भते पर्याप्ते मधुविभ्रमे तु किमयं कर्तेति कम्पामहे । । वजी_२.९६ । ।

अत्र व्यवस्यन्ति जृम्भते कर्ता कम्पामहे चेति प्रत्ययाः प्रत्येकं प्रतिनियतकालाभिधायिनः कामपि पदपरार्धवक्रतां प्रख्यापयन्ति ।
तथा च--प्रथमतरावतीर्णमधुसमयसौकुमार्यसमुल्लसितसुन्दरपदाथ्रसार्थसमुन्मेषसमुद्दीपितसहजविभवविलसितत्वेन मकरकेतोर्मनाङ्मात्रमाधवसामर्थ्य समुल्लसितातुलशक्तेः सरसहृदयविधुरताविधायी कोऽपि संरम्भः समुज्जृम्भते ।
तस्मादनेनानुमानेन पुनः परं परिपोषमधिरोहति ।
कुसुमाकरविभवविभ्रमे मानिनीमानदलनदुर्ललितसमुदितसहजसौकुमार्यसंपत्संजनितसमुचितजिगीषावसरः किमसौ विधास्यतीति विकल्पयन्तस्तत्कुसुमशरनिकरनिपातकातरान्तः करणाः किमपि कम्पामहे चकितचेतसः संपद्यामह इति प्रियतमाविरहविधुरचेतसः सरसहृदयस्य कस्यचिदेतदभिधानं ।
एवं कालवक्रतां विचार्य क्रमसमुचितावसरां कारकवक्रतां विचारयति---

यत्र कारकसामान्यं प्राधान्येन निबध्यते ।
तत्त्वाध्यारोपणान्मुख्यगुणभावाभिधानतः । । वजी_२.२७ । ।
परिपोषयितुं काञ्चिद्भङ्गीभणितिरम्यतां ।
कारकाणां विपर्यासः सोक्ता कारकवक्रता । । वजी_२.२८ । ।

सोक्ता कारकवक्रता सा कारकवक्रत्वविच्छित्तिरभिहिता ।
कीदृशी---यत्र यस्यां कारकाणां विपर्यासः साधनानां विपरिवर्तनम्, गौणमुख्ययोरितरेतरत्वापत्तिः ।
कथम्---यत्कारकसामान्यं मुख्यापेक्षया करणादि तत्प्राधान्येन निबध्यते मुख्यभावेन प्रयुज्यते ।
कया युक्त्या तत्त्वाध्यारोपणाथ् ।
तदिति मुख्यपरामर्शः, तस्य भावस्तत्त्वं तदध्यारोपणात्मुख्यगुणभावाभिधानतः ।
मुख्यस्य यो गुणभावस्तदभिधानादमुख्यत्वेनोपनिबन्धादित्यर्थः ।
किमर्थम्---परिपोषयितुं काञ्चिद्भङ्गीभणितिरम्यतां ।
काञ्चिदपूर्वां विच्छित्युक्तिरमणीयतामुल्लासयितुं ।
तदेवमचेतनस्यापि चेतनसभविस्वातन्त्र्यसमर्पणादमुख्यस्य करणादेर्वा कर्तृत्वाध्यारोपणाद्यत्र कारकविपर्यासश्चमत्कारकारी संपद्यते ।
यथा

याञ्चां दैन्यपरिग्रहप्रणयिनीं नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः ।
सर्वं तद्विहितं तथाप्युदधिना नैवोपरोधः कृतः पाणिः संप्रति मे हठात्किमपरं स्प्रष्टुं धनुर्धावति । । वजी_२.९७ । ।

अत्र पाणिना धनुर्ग्रहीतुमिच्छामीति वक्तव्ये पाणेः करणभूतस्य कर्तृत्वाध्यारोपः कामपि कारकवक्रतां प्रतिपद्यते ।
यथा वा

स्तनद्वन्द्वं इत्यादौ । । वजी_२.९८ । ।

यथा वा

निष्पर्यायनिवेशपेशलरसैरन्योन्यनिर्भर्त्सिभिर्हस्ताग्रैर्युगपन्नपत्य दशभिर्वामैर्धृतं कार्मुकं ।
सव्यानां पुनरप्रथीयसि विधावस्मिन्गुणारोपणे मत्सेवाविदुषामहंप्रथमिका काप्यम्बरे वर्तते । । वजी_२.९९ । ।

अत्र पूर्वंवदेव कर्तृत्वाध्यारोपनिबन्धनं कारकवक्रत्वं ।
यथा वा

बद्धस्पर्द्ध इति । । वजी_२.१०० । ।

एवं कारकवक्रतां विचार्य क्रमसमन्वितां संख्यावक्रतां विचारयति, तत्परिच्छेदकत्वात्संख्यायाः---

कुर्वन्ति काव्यवैचित्र्यविवक्षापरतन्त्रिताः ।
यत्र संख्याविपर्यासं तां संख्यावक्रतां विदुः । । वजी_२.२९ । ।

यत्र यस्यां कवयः काव्यवैचित्र्यविवक्षापरतन्त्रिताः स्वकर्मविचित्रभावाभिधित्सापरवशाः संख्याविपर्यासं वचनविपरिवर्तनं कुर्वन्ति विदधते तां संख्यावक्रतां विदुः तद्वचनवक्रत्वं जानन्ति तद्विदः ।
तदयमत्रार्थः---यदेकवचने द्विवचने प्रयोक्तव्ये वैचित्र्यार्थं वचनान्तरं यत्र प्रयुज्यते, भिन्नवचनयोर्वा यत्र सामानाधिकरण्यं विधीयते ।
यथा

कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयं । । वजी_२.१०१ । ।

अत्र "न त्वहम्ऽ इति वक्तव्ये, "न तु वयम्ऽ इत्यनन्तरङ्गत्वप्रतिपादनार्थं ताटस्थ्यप्रतीतये बहुवचनं प्रयुक्तं ।
यथा वा

वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती । । वजी_२.१०२ । ।

अत्रापि पूर्ववदेव ताटस्थ्यप्रतीतिः ।
यथा वा

फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः । । वजी_२.१०३ । ।

अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यलक्षणः संख्याविपर्यासः सहृदयहृदयहारितामावहति ।
यथा वा

शास्त्राणि चक्षुर्नवं इति । । वजी_२.१०४ । ।

अत्र पूर्ववदेवैकवचनबहुवचनयोः सामानाधिकरण्यं वैचित्र्यविधायि ।
एवं संख्यावक्रतां विचार्य तद्विषयत्वात्पुरुषाणां क्रमसमर्पितावसरां पुरुषवक्रतां विचारयति---

प्रत्यक्ता परभावश्च विपर्यासेन योज्यते ।
यत्र विच्छित्तये सैषा ज्ञेया पुरुषवक्रता । । वजी_२.३० । ।

यत्र यस्यां प्रत्यक्ता निजात्मभावः परभावश्च अन्यत्वमुभ्यमप्येतद्विपर्यासेन योज्यते विपरिवर्तनेन निबध्यते ।
किमर्थम्---विच्छित्तये वैचित्र्याय ।
सैषा वर्णितस्वरूपा ज्ञेया ज्ञातव्या पुरुषवक्रता पुरुषवक्रत्वविच्छित्तिः ।
तदयमत्रार्थः---यदन्यस्मिन्नुत्तमे मध्यमे वा पुरुषे प्रयोक्तव्ये वैचित्र्यायान्यः कदाचित्प्रथमः प्रयुज्यते ।
तस्माच्च पुरुषैकयोगक्षेमत्वादस्मादादेः प्रातिपदिकमात्रस्य च विपर्यासः पर्यवस्यति ।
यथा

कौशाम्बीं परिभूय नः कृपणकैर्विद्वेषिभिः स्वीकृतां जानाम्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः ।
स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे वक्तुं नोत्सहते मनः परमतो जानातु देवी स्वयं । । वजी_२.१०५ । ।

अत्र "जानातु देवी स्वयम्ऽ इति युष्मदि मध्यमपुरुषे प्रयोक्तव्ये प्रातिपदिकमात्रप्रयोगेण वक्तुस्तदशक्यानुष्ठानतां मन्यमानस्यौदासीन्यप्रतीतिः ।
तस्याश्च प्रभुत्वात्स्वातन्त्र्येण हिताहितविचारपूर्वकं स्वयमेव कर्तव्यार्थप्रतिपत्तिः कमपि वाक्यवक्रभावमावहति ।
यस्मादेतदेवास्य वाक्यस्य जीवितत्वेन परिस्फुरति ।
एवं पुरुषवक्रतां विचार्य पुरुषाश्रयत्वादात्मनेपदपरस्मैपदयोरुचितावसरां वक्रतां विचारयति ।
धातूनां लक्षणानुसारेण नियतपदाश्रयः प्रयोगः पूर्वाचार्याणां "उपग्रहऽ-शब्दाभिधेयतया प्रसिद्धः ।
तस्मात्तदभिधानेनैव व्यवहरति---

पदयोरुभयोरेकमौचित्याद्विनियुज्यते ।
शोभायै यत्र जल्पन्ति तामुपग्रहवक्रतां । । वजी_२.३१ । ।

तामुक्तस्वरूपामुपग्रहवक्रतामुपग्रहवक्रत्वविच्छित्तिं जल्पन्ति कवयः कथयन्ति ।
कीदृशी---यत्र यस्यां पदयोरुभयोर्मध्यादेवकमात्मनेपदं परस्मैपदं वा विनियुज्यते विनिबध्यते नियमेन ।
कस्मात्कारणात्---औचित्याथ् ।
वर्ण्यमानस्य वस्तुनो यदौचित्यमुचितभावस्तस्मात्, तं समाश्रित्येत्यर्थः ।
किमर्थम्---शोभायै विच्छित्तये ।
यथा

तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि । । वजी_२.१०६ । ।

अत्र राज्ञः सुललितविलासवतीलोचनविलासेषु स्मरणगोचरमवतरत्सु तत्परायत्तचित्तवृत्तेराङ्गिकप्रयत्नपरिस्पन्दविनिवर्तमानो मुष्टिर्बिभिदे भिद्यते स्म ।
स्वयमेवेति कर्मकर्तृनिबन्धनमात्मने पदमतीव चमत्कारकारिणीं कामपि वाक्यवक्रतामावहति ।
एवमुपग्रहवक्रतां विचार्य तदनुसंभविनीं प्रत्ययान्तरवक्रतां विचारयति---

विहितः प्रत्ययादन्यः प्रत्ययः कमनीयतां ।
यत्र कामपि पुष्णाति सान्या प्रत्ययवक्रता । । वजी_२.३२ । ।

सान्या प्रत्ययवक्रता सा समाम्नातरूपादन्यापरा काचित्प्रत्ययवक्रत्वविच्छित्तिः ।
अस्तीति संबन्धः ।
यत्र यस्यां प्रत्ययः कामप्यपूर्वां कमनीयतां रम्यतां पुष्णाति पुष्यति ।
कीदृशः---प्रत्ययात्तिङादेर्विहितः पदत्वेन विनिर्मितोऽन्यः कश्चिदिति ।
यथा

लीनं वस्तुनि येन सूक्ष्मसुभगं तत्त्वं गिरा कृष्यते निर्मातुं प्रभवेन्मनोहरमिदं वाचैव यो वा बहिः ।
वन्दे द्वावपि तावहं कविवरौ वन्देतरां तं पुनर्- यो विज्ञातपरिश्रमोऽयमनयोर्भारावतारक्षमः । । वजी_२.१०७ । ।

"वन्देतराम्ऽ इत्यत्र कापि प्रत्ययवक्रता कवेश्चेतसि परिस्फुरति ।
ततएव "पुनःऽ-शब्दः पूर्वस्माद्विशेषाभिधायित्वेन प्रयुक्तः ।
एवं नामाख्यातस्वरूपयोः पदयोः प्रत्येकं प्रकृत्याद्यवयवविभागद्वारेण यथासंभवं वक्रभावं विचार्येदानीमुपसर्गनिपातयोरव्युत्पन्नत्वादसंभवद्विभक्तिकत्वाच्च निरस्तावयवत्वे सत्यविभक्तयोः साकल्येन वक्रतां विचारयति---

रसादिद्योतनं यस्यामुपसर्गनिपातयोः ।
वाक्यैकजीवितत्वेन सापरा पदवक्रता । । वजी_२.३३ । ।

सापरा पदवक्रता---सा समर्पितस्वरूपापरा पूर्वोक्तव्यतिरिक्ता पदवकत्वविच्छित्तिः ।
अस्तीति संबन्धः ।
कीदृशी---यस्यां वक्रतायामुपसर्गनिपातयोर्वैयाकरणप्रसिद्धाभिधानयोः रसादिद्योतनं शृङ्गारप्रभृतिप्रकाशनं ।
कथम्---वाक्यैकजीवितत्वेन ।
वाक्यस्य श्लोकादेरेकजीवितं वाक्यैकजीवितं तस्य भावस्तत्त्वं तेन ।
तदिदमुक्तं भवति---यद्वाक्यस्यैकस्फुरितभावेन परिस्फुरति यो रसादिस्तत्प्रकाशनेनेत्यर्थः ।
यथा

वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव । । वजी_२.१०८ । ।

अत्र रघुपतेस्तत्कालज्वलितोद्दीपनविभावसंपत्समुल्लासितः संभ्रमो निश्चितजनितजानकीविपत्तिसंभावनस्तत्परित्राणकरणोत्साहकारणतां प्रतिपद्यमानस्तेदेकाग्रतोल्लिखितसाक्षात्कारस्तदाकारतया विस्मृतविप्रकर्षः प्रत्यग्ररसपरिस्पन्दसुन्दरो निपातपरंपराप्रतिपाद्यमानवृत्तिर्वाक्यैकजीवितत्वेन प्रतिभासमानः कामपि वाक्यवक्रतां समुन्मीलयति ।
तु-शब्दस्य च वक्रभावः पूर्वमेव व्याख्यातः ।
यथा वा

अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्- भवितव्यं च निरातपत्वरम्यैः । । वजी_२.१०९ । ।

अत्र द्वयोः परस्परं सुदुःसहत्वोद्दीपनसामर्थ्यसमेतयोः प्रियाविरहवर्षाकालयोस्तुल्यकालत्वप्रतिपादनपरं "चऽ-शब्दद्वितयं समसमयसमुल्लसितवह्निदाहदक्षदक्षिणवातव्यजनसमानतां समर्थयत्कामपि वाक्यवक्रतां समुद्दीपयति ।
"सुऽ -"दुःऽ-शब्दाभ्यां च प्रियाविरहस्याशक्यप्रतीकारता प्रतीयते ।
यथा च

मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामं ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु । । वजी_२.११० । ।

अत्र नायकस्य प्रथमाभिलाषविवशवृत्तेरनुभवस्मृतिसमुल्लिखिततत्कालसमुचिततद्वदनेन्दुसौन्दर्यस्य पूर्वमपरिचुम्बन स्खलितसमुद्दीपितपश्चात्तापदशावेश द्योतनपरः "तुऽ-शब्दः कामपि वाक्यवक्रतामुत्तेजयति ।
एतदुत्तरत्र प्रत्ययवक्रत्वमेवंविधप्रत्ययान्तरवक्रभावान्तर्भूतत्वात्पृथक्त्वेन नोक्तमिति स्वयमेवोत्प्रेक्षणीयं ।
यथा

येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विषणोः । । वजी_२.१११ । ।

अत्र "अतितराम्ऽ इत्यतीव चमत्कारकारि ।
एवमन्येषामपि सजातीयलक्षणद्वारेण लक्षणनिष्पत्तिः स्वयमनुसर्तव्या ।
तदेवमियमनेकाकारा वक्रत्वविच्छित्तिश्चतुर्विधपदविषया वावयैकदेशजीवितत्वेनापि परिस्फुरन्ती सकलवाक्यवैचित्र्यनिबन्धनतामुपयाति ।

वक्रतायाः प्रकाराणामेकोऽपि कविकर्मणः ।
तद्विदाह्लादकारित्वहेतुतां प्रतिपद्यते । । वजी_२.११२ । ।

इत्यन्तरश्लोकः ।
यद्येवमेकस्यापि वक्रताप्रकारस्य यदेवंविधो महिमा, तदेते बहवः संपतिताः सन्तः किं संपादयन्तीत्याह---

परस्परस्य शोभायै बहवः पतिताः क्वचिथ् ।
प्रकारा जनयन्त्येतां चित्रच्छायामनोहरां । । वजी_२.३४ । ।

क्वचिदेकस्मिन्पदमात्रे वाक्ये वा वक्रताप्रकारा वक्रत्वप्रभेदा बहवः प्रभूताः पतिताः कविप्रतिभामाहात्म्यसमुल्लसिताः ।
किमर्थम्---परस्परस्य शोभायै, अन्योन्यस्य विच्छित्तये ।
एतामेव चित्रच्छायामनोहरामनेकाकारकान्तिरमणीयां वक्रतां जनयन्त्युत्पादयन्ति ।
यथा

तरन्तीव इति । । वजी_२.११३ । ।

अत्र क्रियापदानां त्रयाणामपि प्रत्येकं त्रिप्रकारं वैचित्र्यं परिस्फुरति---क्रियावैचित्र्यं कारकवैचित्र्यं कालवैचित्र्यं च ।
प्रथिमस्तन-जघन-तरुणिम्नां त्रयाणामपि वृत्तिवैचित्र्यं ।
लावण्यजलधि-प्रगल्भ्य-सरलता-परिचय-शब्दानामुपचारवैचित्र्यं ।
तदेवमेते बहवो वक्रताप्रकारा एकस्मिन्पदे वाक्ये वा संपतिताश्चित्रच्छायामनोहरामेतामेव चेतनचमत्कारकारिणीं वाक्यवक्रतामावहन्ति ।
एवं नामाख्यातो पसर्गनिपातलक्षणस्य चतुर्विधस्यापि पदस्य यथासंभवं वक्रताप्रकारान्विचार्येदानीं प्रकरणमुपसंहृत्यान्यदवतारयति---

वाग्वल्ल्याः पदपल्लवास्पदतया या वक्रतोद्भासिनी विच्छित्तिः सरसत्वसंपदुचिता काप्युज्ज्वला जृम्भते ।
तामालोच्य विदग्धषट्पदगणैर्वाक्यप्रसूनाश्रयं स्फारामोदमनोहरं मधु नवोत्कण्ठाकुलं पीयतां । । वजी_२.३५ । ।

वागेव वल्ली वाणीलता तस्याः काप्यलौकिकी विच्छित्तिर्जृस्भते शोभा समल्लसति ।
कथम्---पदपल्लवास्पदतया ।
पदान्येव पल्लवानि सुप्तिङन्तान्येव पत्राणि तदास्पदतया तदाश्रयत्वेन ।
कीदृशी विच्छित्तिः---सरसत्वसंपदुचिता, रसवत्त्वातिशयोपपन्ना ।
किंविशिष्टा च---वक्रतया वक्रभावेनोद्भासते भ्राजते या सा तथोक्ता ।
कीदृशी---उज्ज्वला, छायातिशयरमणीया ।
तामेवंविधामालोच्य विचार्य विदग्धषट्पदगणैर्विबुधषट्चरणचक्रैर्मधु पीयतां मकरन्द आस्वाद्यतां ।
कीदृशम्---वाक्यप्रसूनाश्रयं ।
वाक्यान्येव पदसमुदायरूपाणि प्रसूनानि पुष्पाण्याश्रयः स्थानं यस्य तत्तथोक्तं ।
अन्यच्च कीदृशम्---स्फारामोदमनोहरं ।
स्फारः स्फीतो योऽसावामोदस्तद्धर्मविशेषस्तेन मनोहरं हृदयहारि ।
कथमास्वाद्यताम्--नवोत्कण्ठाकुलं नूतनोत्कलिकाव्यग्रं ।
मधुकरसमूहाः खलु वल्ल्याः प्रथमोल्लसितपल्लवोल्लेखमालोच्य प्रतितचेतसःसमनन्तरोद्भिन्नवस्तु सुकुमारकुसुममकरन्दपानमहोत्सवमनुभवन्ति ।
तद्वदेव सहृदयाः पदास्पदं कामपि वक्रताविच्छित्तिमालोच्य नवोत्कलिकाकलितचेतसो वाक्याश्रयं किमपि वक्रताजीवितसर्वस्वं विचारयन्त्विति तात्पर्यार्थः ।
अत्रैकत्र सरसत्वं स्वसमयसंभवि रसार्द्रत्वम्, अन्यत्र शृङ्गारादिव्यञ्जकत्वं ।
वक्रतैकत्र बालेन्दुसुन्दरसंस्थानयुक्तत्वम्, इतरत्र रूढ्यादिवैचित्र्यं ।
विच्छित्तिरेकत्र सुविभक्तपत्रत्वम्, अन्यत्र कविकौशलकमनीयता ।
उज्ज्वलत्वमेकत्र पर्णच्छायातिशय युक्तत्वं अपरत्र संनिवेशसौन्दर्यसमुदयः ।
आमोदः पुष्पेषुसौरभम्, वाक्येषु तद्विदाह्लादकारिता ।
मधु कुसुमेषु मकरन्दः, वाक्येषु सकलकाव्यकारणकलाप संपत्समुदय इति ।
इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे द्वितीय उन्मेषः ।