वक्रोक्तिजीवितं तृतीयोन्मेषः

विकिस्रोतः तः
Jump to navigation Jump to search

वक्रोक्तिजीवितम् तृतीयोन्मेषः

एवं पूर्वस्मिन् प्रकरणे वाक्यावयवानां पदानां यथासंभव वक्रभावं विचारयन् वाचकवक्रताविच्छित्तिप्रकारणां दिक्प्रदर्शनं विहितवान् ।
इदानीं वाक्यवक्रतावैचित्र्यमासूत्रयिर्तु वाच्यस्य वर्णनीयतया प्रस्तावाधिकृतस्य वस्तुनो वक्रातास्वरूपं निरूपयति, पदार्थावबोधपूर्वकत्वाद् वाक्यार्थावसितेः---

उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम् ।
वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रता // वजी३.१ ।।

वस्तुनो वर्णनीयतया प्रस्तावितस्य पदार्थस्य, यदेवंविधत्वेन वर्णनं सा तस्य वक्रता वक्रत्वविच्छित्तिः ।
किंविधत्वेनेत्याह---उदारस्वपरिस्पन्दसुन्दरत्वेन ।
उदारः सोत्कर्षः सर्वातिशायी यः स्वपरिस्पन्दः स्वभावमहिमा तस्य सुन्दरत्वं सौकुमार्यातिशयस्तेन, अत्यन्तरमणीयस्वाभाविकधर्मयुक्तत्वेन ।
वर्णनं प्रतिपादनम् ।
कथम्---वक्रशब्दैकगोचरत्वेन ।
वक्रो यो ऽसौ नानाविधवक्रताविशिष्टः शब्दः कश्चिदेव वाचकविशेषो विवक्षितार्थसमर्पण समर्थस्तस्यैवैकस्य केवलस्य गोचरत्वेन प्रतिपाद्यतया विषयत्वेन ।
वाच्यत्वेनेति नोक्तम्, व्यङ्ग्यत्वेनापि प्रतिपादनसंभवात् ।
तदिदमुक्तं भवति---यदेवंविधे भावस्वभावसौसुमार्यवर्णनप्रस्तावे भूयसां न वाच्यालङ्काराणामुपमादीनामुपयोगयोग्यता संभवति, स्वभावसौकुमार्यातिशयम्लानताप्रसङ्गात् ।
ननु च सैषा सहृदयाह्लादकारिणी स्वभावोक्तिरलङ्कारतया समाम्नात्, तस्मात् किं तद्दषणदुर्व्यसनप्रयासेन ? यतस्तेषां सामान्यवस्तुधर्ममात्रमलङ्कार्यम्, सातिशयस्वभावसौन्दर्यपरिपोषणमलङ्कारः प्रतिभासते ।
तेन स्वभावोक्तेरलङ्कारत्वमेव युक्तियुक्तमिति ये मन्यन्ते तान् प्रति समाधीयते---तदेतन्नातिचतुरस्त्रम् ।
यस्मादगतिकगतिन्यायेन काव्यकरणं न यथाकथञ्चिदनुष्ठेयतामर्हति, तद्विदाह्लादकारिकाव्यलक्षणप्रस्तावात् ।
किञ्च---अनुत्कृष्टधर्मयुक्तस्य वर्णनीयस्यालङ्करणमप्यसमुचितभित्तिभागोल्लिखितालेख्यवन्न शोभातिशयकारितामावहति ।
यस्मादत्यन्तरमणीयस्वाभाविकधर्मयुक्तंवर्णनीयवस्तु परिग्रहणीयम् ।
तथाविधस्य तस्य यथायोगमौचित्यानुसारेण रूपकाद्यलङ्कारयोजनया भवितव्यम् ।
एतावांस्तु विशेषो यत् स्वाभाविकसौकुमार्यप्राधान्येन विवक्षितस्य न भूयसा रूपकाद्यलङ्कारौपकाराय कल्पते, वस्तुस्वभावसौकुमार्यस्य रसादिपरिपोषणस्य वा समाच्छादनप्रसङ्गात् ।
तथा चैतस्मिन् विषये सर्वाकारमलङ्कार्यं विलासवतीव स्नानसमय-विरहव्रतपरिग्रह-सुरतावसानादौ नात्यन्तमलङ्करणसहतां प्रतिपद्यते, स्वाभाविकसौकुमार्यस्यैव रसिकहृदयाह्लादकारित्वात् ।
यथा

तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहिते ऽपि नार्यः // वजी_पू३.१ ।।

अत्र तथाविधस्वभाविकसौकुमार्यमनोहरः शोभातिशयः कवेः प्रतिपादयितुमभिप्रेतः ।
अस्या अलङ्करणकलापकलनं सहजच्छायातिरोधानशङ्कास्पदत्वेन संभावितम् ।
यस्मात् स्वाभाविकसौकुमार्यप्राधान्येन वर्ण्यमानस्योदारस्वपरिस्पन्दमहिम्नः सहजच्छायातिरोधानविधायि प्रतीत्यन्तरापेक्षमलङ्करणकल्पनं नोपकारितां प्रतिपद्यते ।
विशेषतस्तु---रसपरिपोषपेशलायाः प्रतीतेर्विभावानुभावव्यभिचार्यौचित्यव्यतिरेकेण प्रकारान्तरेण प्रतिपत्तिः प्रस्तुतशोभापरिहारकारितामावहति ।
तथा च प्रथमतरतरुणीतारुण्यावतारप्रभृतयः पदार्थाः सुकुमारवसन्तादिसमयसमुन्मेषपरिपोषपरिसमाप्तिप्रभृतयश्च स्वप्रतिपादकवाक्यवक्रताव्यतिरेकेण भूयसा न कस्यचिदलङ्करणान्तरस्य कविभिरलङ्करणीयतामुपनीयमानाः परिदृश्यन्ते ।
यथा

स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ।
गतानामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः // वजी_पू३.२ ।।

यथा वा

अव्युत्पन्नमनोभवा मधुरिमस्पर्शोल्लसन्मानसा भिन्नान्तः करणं दृशौ मुकुलयन्त्याघ्रातभूतोद्भ्रमाः ।
रागेच्छां न समापयन्ति मनसः खेदं विनैवालसा वृत्तान्तं न विदन्ति यान्ति च वशं कन्या मनोजन्मनः // वजी_पू३.३ ।।

यथा च

दोर्मूलावधि इति // वजी_पू३.४ ।।

यथा वा

गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः // वजी_पू३.५ ।।

यथा वा

हंसानां निनदेषु इति // वजी_पू३.६ ।।

यथा च

सज्जेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खसहे ।
अहिणअसहआरमुहे णवपल्लवपत्तले अणङ्गस्स सरे // वजी_पू३.७ ।।
सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् ।
अभीनवसहकारमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ।।
इति छाया ।।

एवंविधविषये स्वाभाविकसौकुमार्यप्राधान्येन वर्ण्यमानस्य वस्तुनस्तदाच्छादनभयादेव न भूयसा तत्कविभिरलङ्करणमुपनिबध्यते ।
यदि वा कदाचिदुपनिबध्यते तत्तदेव स्वाभाविकं सौकुमार्यं सुतरां समुन्मीलयितुम्, न पुनरलङ्कारवैचित्र्योपपत्तये ।
यथा

धौताञ्जने च नयने स्फटिकाच्छकान्तिर्- गण्डस्थली विगतकृत्रिमरागमोष्ठम् ।
अङ्गानि दन्तिशिशुदन्तविनिर्मलानि किं यन्न सुन्दरमभुत्तरुणीजनस्य // वजी_पू३.८ ।।

अत्र "दन्तिशिशुदन्तविनिर्मलानि" इत्युपमया स्वाभाविकमेव सौन्दर्यमुन्मीलितम् ।
यथा वा

अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनःिति // वजी_पू३.९ ।।

एतदेवातीव युक्तयुक्तम् ।
यस्मान्महाकवीनां प्रस्तुतौचित्यानुरोधेन कदाचित् स्वाभाविकमेव सौन्दर्यमैकराज्येन विजृम्भयितुमभिप्रेतं भवति, कदाचिद् विविधारचनावैचित्र्युक्तमिति ।
अत्र पूर्वस्मिन् पक्षे, रूपकादेरलङ्कारणकलापस्य नात्यादृतत्वम् ।
अपरस्मिन् पुनः स एवसुतरां समुज्जृम्भते ।
तस्मादनेन न्यायेन सर्वातिशायिनः स्वाभाविकसौन्दर्यलक्षणस्य पदार्थपरिस्पन्दस्यालङ्कार्यत्वमेव युक्तियुक्ततामालम्बते, न पुनरलङ्कारणत्वम् ।
सातिशयत्वशून्यधर्मयुक्तस्य वस्तुनो विभूषितस्यापि पिशाचादेरिव तद्विदाह्लादकारित्वविरहादनुपादेयत्वमेवेत्यलमतिप्रसङ्गेन ।
यदि वा प्रस्तुतौचित्यमाहात्म्यान्मुक्यतया भावस्वभावः सातिशयत्वेन वर्ण्यमानः स्वमहिम्ना भूषणान्तरासहिष्णुः स्वयमेव शोभातिशयशालित्वादलङ्कार्यो ऽप्यलङ्करणमित्यभिधीयते तदयमास्माकीनएव पक्षः ।
तदतिरिक्तवृत्तेरलङ्कारान्तरस्य तिरस्कारतात्पर्येणाभिधानान्नात्र वयं विवदामहे ।
एवमेषैव वर्ण्यमानस्य वस्तुनो वक्रतेत्युतान्या काचिदस्तीत्याह--

अपरा सहजाहार्यकविकौशलशालिनी ।
निर्मितिर्नूतनोल्लेखलोकातिक्रान्तगोचरा // वजी३.२ ।।

अपरा द्वितीया वर्ण्यमानवृत्तेः पदार्थस्य निर्मितिः सृष्टिः ।
वक्रतेति संबन्धः ।
कीदृशी---सहजाहार्यकविकौशलशालिनी ।
सहजं स्वाभाविकमाहार्यं शिक्षाभायाससमुल्लासितं च शक्तिव्युत्पत्तिपरिपाकप्रौढं यत् कविकौशलं निर्मातृनैपुणं तेन शालते श्लाघ्यते या सा तथोक्ता ।
अन्यच्च कीदृशी---नूतनोल्लेखलोकातिक्रान्तगोचरा ।
नूतनस्तत्प्रथमो यो ऽसावुल्लिख्यत इत्युल्लेखस्तत्कालमुल्लिख्यमानातिशयः, तेन लोकातिक्रान्तः प्रसिद्धव्यापारातीतः को ऽपि सर्वातिशायी गोचरो विषयो यस्याः सा तथोक्तेति विग्रहः ।
निर्मितिस्तेन रूपेण विहितिरित्यर्थः ।
तदिदमत्र तात्पर्यम्--- यन्न वर्ण्यमानस्वरूपाः पदार्थाः कविभिरभूताः सन्तः क्रियन्ते, केवलं सत्तामात्रेणैव परिस्फुरतां तेषां तथाविधः को ऽप्यतिशयः पुराधीयते, येन कामपि सहृदयहृदयहारिणीं रमणीयतामधिरोप्यन्ते ।
तदिदमुक्तम्

लीनं वस्तुनि // वजी_पू३.१० ।।

इत्यादि ।
तदेवं सत्तामात्रेणैव परिस्फुरतः पदार्थस्य को ऽप्यलौकिकः शोभातिशयविधायी विच्छित्तिविशेषो ऽभिधीयते, येन नूतनच्छायामनो हारिणा वास्तवस्थितितिरोधानप्रवणेन निजावभासोद्भासितस्वरूपेण तत्कालोल्लिखित इव वर्णनीयपदार्थपरिस्पन्दमहिमा प्रतिभासते, येन विधातृव्यपदेशपात्रतां प्रतिपद्यन्ते कवयः ।
तदिदमुक्तम्

अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते // वजी_पू३.११ ।।

सैषा सहजार्यभेदभिन्ना वर्णनीयस्य वस्तुनो द्विप्रकारा वक्रता ।
तदेवमाहार्या येयं सा प्रस्तुतविच्छित्तिविधाप्यलङ्कारव्यतिरेकेण नान्या काचिदुपपद्यते ।
तस्माद् बहुविधतत्प्रकारप्रभेदद्वारेणात्यन्तविततव्यवहाराः परिदृश्यन्ते ।
यथा

अस्याः सर्गविधौ प्रजपतिरभूच्चन्द्रो नु कान्तद्युतिः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः // वजी_पू३.१२ ।।

अत्र कान्तायाः किमपि कान्तिमत्त्वमसमविलाससंपदां पदं च रसवत्त्वमसामान्यसौष्ठवं च सौकुमार्यं प्रतिपादयितुं प्रत्येकं तत्परिस्पन्दप्राधान्यसमुचितसंभावनानुमानमाहात्म्यात् पृथक् पृथगपूर्वमेव निर्माणमुत्प्रेक्षितम् ।
तथा च कारणत्रितयस्याप्येतस्य सर्वेषां विशेषणानां स्वयम् इति संबध्यमानमेतदेव सुतरां समुद्दीपयति ।
यः किल स्वयमेव कान्तद्युतिस्तस्य सौजन्यसमुचितादरोचकित्वात् कान्तिकत्कार्यकरणकौशलमेवोपपन्नम् ।
यश्च स्वयमेव शृङ्गारैकरसस्तस्य रसिकत्वादे रसवद्वस्तुविधानवैदग्ध्यमौचित्यं भजते ।
यश्च स्वयमेव पुष्पाकरस्तस्याभिजात्यादेव तथाविधः सुकुमार एव सर्गः समुचितः ।
तथा चोत्तरार्धे व्यतिरेकमुखेन त्रयस्याप्येतस्य कान्तिमत्त्वादेर्विशेषणैरन्यथानुपपत्तिरुपपादिता ।
यस्माद् वेदाभ्यासजडत्वात् कान्तिमद्वस्तुविधानानभिज्ञत्वम्, विषयव्यावृत्तकौतुकत्वाद् रसवत्पदार्थे विहितवैमुख्यम्, पुराणत्वात् सौकुमार्यसरसभावविरचनवैरस्यं प्रजापतेः प्रतीयते ।
तदेवमुत्प्रेक्षालक्षणो ऽयमलङ्कारः कविना वर्णनीयस्य वस्तुनः कमप्यलौकिकोल्लेखविलक्षणमतिशयमाधातुम निबद्धः ।
स च स्वभावसौन्दर्यमहिम्ना स्वयमेव तत्सहायसंपदा महार्घमहनीयतामीहमानः सन्देहसंसर्गमङ्गीकरोतीति तेनोपबृंहितः ।
तस्माल्लोकोत्तरनिर्मातृनिर्मितत्वं नाम नूतनः को ऽप्यतिशयः पदार्थस्य वर्णयमानवृत्तेर्नायिकास्वरूपसौन्दर्यलक्षणस्यात्र निर्मितः कविना, येन तदेव तत्प्रथममुत्पादितमिव प्रतिभाति ।
यत्राप्युत्पाद्यं वस्तु प्रबन्धार्थवदपूर्वतया वाक्यार्थस्तत्कालमुल्लिख्यते कविभिः, तस्मिन् स्वसत्तासमन्वयेन स्वयमेव परिस्फुरतां पदार्थानां तथाविधपरस्परान्वयलक्षणसंबन्धोपनिबन्धनं नाम नवीनमतिशयमात्रमेव निर्मितिविषयतां नीयते, न पुनः स्वरूपम् ।
यथा

कस्त्वं भो दिवि मालिको ऽहमिह किं पुष्पार्थमभ्यागतः किं तेनास्तु महान् क्रयो यदि महच्चित्रं तदाकर्ण्यताम् ।
संग्रामेष्वलभाभिधाननृपतौ दिव्याङ्गनाभैः स्त्रजः प्रोज्झन्तीभिरविद्यमानकुसुमं यस्मात्कृतं नन्दनम् // वजी_पू३.१३ ।।

तदेवंविधे विषये वर्णनीयवस्तुविशिष्टातिशयविधायी विभूषणविन्यासो विधेयतां प्रतिपद्यते ।
तथा च---प्रकृतमिदमुदाहरणमलङ्करणकल्पनं विना सम्यङ् न कथञ्चिदपि वाक्यार्थसङ्गति भजते ।
यस्मात् प्रत्यक्षादिप्रमाणोपपत्तिनिश्चयाभावात् स्वाभाविकं वस्तु धर्मितया व्यवस्थापनंन सहते, तस्माद्विदग्धकविप्रतिभोल्लिखितालङ्करणगोचरत्वेनैव सहृदयहृदयाह्लादमादधाति ।
तथा च, दुःसहसमरसमयसमुचितशौर्यातिशयश्लाघया प्रस्तुतनरनाथविषये वल्लभलाभरभसोल्लसितसुरसुन्दरीसमूहसमर्प्यमाणमन्दारादिकुसुमदामसहस्त्रसंभावनानुमाननन्दनोद्यानपादपप्रसूनसमृद्धिप्रध्वंसभावसिद्धिः सुत्प्रेक्षिता ।
यस्मादुत्प्रेक्षाविषयं वस्तु कवयस्तदिवेति तदेवेति वा द्विविधमुपनबध्नन्तीत्येत (त्त)ल्लक्षणावसर एव विचारयिष्यामः ।
तदेवमियमुत्प्रेक्षा पूर्वार्धविहिताप्रस्तुतप्रशंसोपनिबन्धबन्धुरा प्रकृतपार्थिवप्रतापातिशयपरिपोषप्रवणतया सुतरां समुद्भासमाना तद्विदावर्जनं जनयतीति सातिशयत्वम् ।

उत्प्रेक्षातिशयान्विता // वजी_पू३.१४ ।।

इत्येतस्याः, स्वलक्षणानुप्रवेश इत्यतिशयोक्तेश्च

कालङ्कारो ऽनया विना // वजी_पू३.१५ ।।

इति सकलालङ्करणानुग्राहकत्वम् ।
तस्मात् पृथगतिशयोक्तिरेवेयं मुख्यतयेत्युच्यमाने ऽपि न किञ्चिदतिरिच्यते ।
कविप्रतिभोत्प्रेक्षितत्वेन चात्यन्तमसंभाव्यमप्युपनिबध्यमानमनयैव युक्त्या समञ्जसतां गाहते, न तपुनः स्वतन्त्र्येण ।
यद्वा कारणतो लोकातिक्रान्तगोचरत्वेन वचसः सैवेयमित्यस्तु, तथापि प्रस्तुतातिशयविधानव्यतिरेकेण न किञ्चिदपूर्वमत्रास्ति ।
तदेवमभिधानस्य पूर्वमभिधेयस्य चेह वक्रतामभिधायेदानीं वाक्यस्य वक्रत्वमभिधातुमुपक्रमते---

मार्गस्थवक्रशब्दार्थगुणालङ्कारसंपदः ।
अन्यद्वाक्यस्य वक्रत्वं तथाभिहितिजीवितम् // वजी३.३ ।।
मनोज्ञफलकोल्लेखवर्णच्छायाश्रियः पृथक् ।
चित्रस्येव मनोहारि कर्तुः किमपि कौशलम् // वजी३.४ ।।

अन्यद्वाक्यस्य वक्रत्वम्---वाक्यस्य परस्परान्वितवृत्तेः पदसमुदायस्यान्यदपूर्वं व्यतिरिक्तमेव वक्रत्वं वक्रभावः ।
भवतीति संबन्धः, क्रियान्तराभावात् ।
कुतः---मार्गस्थवक्रशब्दार्थगुणालङ्कारसंपदः ।
मार्गाः सुकुमारादयस्तत्रस्थाः केचिदेव वक्राः प्रसिद्धव्यवहारव्यतिरेकिणो ये शब्दार्थगुणालङ्कारास्तेषां संपत् काप्युपशोभा तस्याः पृथग्भूतं किमपि वक्रत्वान्तरमेव ।
कीदृशम्---तथाभिहितजीवितम् ।
तथा तेन प्रकारेण केनाप्यव्यपदेश्येन याबिहितिः काप्यपूर्वैवाभिधा सैव जीवितं सर्वस्वं यस्य तत्तथोक्तम् ।
किस्वरूपमित्याह---कर्तुः किमपि कौशलम् ।
कर्तुर्विधातुः किमप्यलौकिकं यत्कौशलं नैपुणं तदेव वाक्यस्य वक्रत्वमित्यर्थः ।
कथञ्चिद् चित्रस्येव, आलेख्यस्य यथा, मनोहारि हृदयरञ्जकं प्रकृतोपकरणव्यतिरेकि कर्तुरेव कौशलं किमपि पृथग्भूतं व्यतिरिक्तम् ।
कुत इत्याह---मनोज्ञफलकोल्लेखवर्णच्छायाश्रियः ।
मनोज्ञाः काश्चिदेव हृदयहारिण्यो याः फलकोल्लेखवर्णच्छायास्तासां श्रीरुपसोभा तस्याः ।
पृथग्रूपं किमपि तत्त्वान्तरमेवेत्यर्थः ।
फलकमालेख्याधारभूता भित्तिः, उल्लेखश्चित्रसूत्रप्रमाणोपपन्नं रेखाविन्यसनमात्रम्, वर्णा रञ्जकद्रव्यविशेषाः, छाया कान्तिः ।
तदिदमत्र तात्पर्यम्---यथा चित्रस्य किमपि फलकाद्युपकरणकलापव्यतिरेकि सकलप्रकृतपदार्थजीवितायमानं चित्रकरकौशलं पृथकत्वेन मुख्यतयोद्भासते, तथैव वाक्यस्य मार्गादिप्रकृतपदार्थसार्थव्यतिरेकि कविकौशललक्षणं किमपि सहृदयहृदयसंवेद्यं सकलप्रस्तुतपदार्थस्फुरितभूतं वक्रत्वमुज्जृम्बते ।
तथा च, भावस्वभावसौकुमार्यवर्णने शृङ्गारादिरसस्वरूपसमुन्मीलने वा विविधविभूषणविन्यासविच्छित्तिविरचने च यः परः परिपोषातिशयस्तद्विदाह्लादकारितायाः कारणम् ।
पदवाक्यैकदेशवृत्तिर्वा यः कश्चिद्वक्रताप्रकारस्तस्य कविकौशलमेव निबन्धनतया व्यवतिष्ठते ।
यस्मादाकल्पानामेव तावन्मात्रस्वरूपनियतनिष्ठतया व्यवस्थितानां रसस्वभावालङ्करणवक्रताप्रकाराणां नवनवोल्लेखविलक्षणं चेतनचमत्कारकारि किमपि स्वरूपान्तरमेतस्मादेव समुज्जृम्भते ।
येनेदमभिधीयते---

आसंसारं कैपुङ्गवेहिं पडिदिअहगहिअसारो वि ।
अज्जवि अभिन्नमुद्दो व्व जऐ वाआं परिप्फन्दो // वजी_पू३.१६ ।।
आसंसारं कविपुङ्गवैः प्रतिदिवसगृहीतसारो ऽपि ।
अद्याप्यभिन्नमुद्र इव जयति वाचां परिस्पन्दः ।।
इति छाया ।

अत्र सर्गारम्भात् प्रभृति कविप्रधानैः प्रातिस्विकप्रतिभापरिस्पन्दमाहात्म्यात् प्रतिदिवसगृहीतसर्वस्वो ऽप्यद्यापि नवनवप्रतिभासानन्त्यविजृम्भणादनुद्धाटितप्राय इव यो वाक्यपरिस्पन्दः स जयति सर्वोत्कर्षेण वर्तते इत्येवमस्मिन् सुसङ्गते ऽपि वाक्यार्थे कविकौशलस्य विलसितं किमप्यलौकिकमेव परिस्फुरति ।
यस्मात् स्वाभिमानध्वनिप्राधान्येन तेनैतदभिहितम् यथा---आसंसारं कविपुङ्गवैः प्रतिदिवसं गृहीतसारो ऽप्यद्याप्यभिन्नमुद्र इवायम् ।
एवमपरिज्ञाततत्त्वतया न केनचित किमप्येतस्माद् गृहीतमिति मत्प्रतिभोद्धाटितपरमार्थस्येदानीमेव मुद्राबन्धोद्भेदो भविष्यतीति लोकोत्तरस्वपरिस्पन्दसाफल्यापत्तेर्वाक्यपरिस्पन्दो जयतीतिसंबन्धः ।
यद्यपि रसस्वभावालङ्काराणां सर्वेषां कविकौशलमेव जीवितम्, तथाप्यलङ्कारस्य विशेषतस्तदनुग्रहं विना वर्णनाविषयवस्तुनो भूषणाभिधायित्वेनाभिमतस्य स्वरूपमात्रेण परिस्फुरतो यथार्थत्वेन निबध्यमानस्य तद्विदाह्लादनिधानानुपपत्तेर्मनाङ्मात्रमपि न वैचित्र्यमुत्प्रेक्षामहे, प्रचुरप्रवाहपतितेतरपदार्थसामान्येन प्रतिभासनात् ।
यथा

दूर्वाकाण्डमिव श्यामा तन्वी श्यामालता यथा // वजी_पू३.१७ ।।

इति च नूतनोल्लेखमनोहारिणः पुरेतस्य लोकोत्तरविन्यसनविच्छित्तिविशेषितशोभातिशयस्य किमपि तद्विदाह्लादकारित्वमुद्भिद्यते ।
यथा

अस्याः सर्गविधौ // वजी_पू३.१८ ।।

इति ।
यथा

किं तारुण्यतरोः // वजी_पू३.१९ ।।

इति ।
तदेवं पृथग्भावेनापि भवतो ऽस्य कविकौशलायत्तवृत्तित्वलक्षणवाक्यवक्रतान्तर्भाव एव युक्तियुक्ततामवगाहते ।
तदिदमुक्तम्

वाक्यस्य वक्रभावो ऽन्यो भिद्यते यः सहस्त्रधा ।
यत्रालङ्कारवर्गो ऽसौ सर्वो ऽप्यन्तर्भविष्यति // वजी_पू३.२० ।।

स्वभावोदाहरणं यथा

तेषां गोपवधूविलाससुहृदां राधारहः साक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मानाम् ।
विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगे ऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः // वजी_पू३.२१ ।।

अत्र यद्यपि सहृदयसंवेद्यं वस्तुसंभवि स्वभावमात्रमेव वर्णितम्, तथाप्यनुत्तानतया व्यवस्थितस्यास्य विरलविदग्धहृदयैकगोचरं किमपि नूतनोल्लेखमनोहारि पदार्थान्तर्लोनवृत्ति सूक्ष्मसुभगं तादृक् स्वरूपमुन्मीलितं येन वाक्यवक्रतात्मनः कविकौशलस्य काचिदेव काष्ठाधिरूढिरुपपद्यते ।
यस्मात्तद्व्यतिरिक्तवृत्तिरर्थातिशयो न कश्चिल्लभ्यते ।
रसोदाहरणं यथा

लोको यादृशमाह साहसधनं तं क्षत्रियापुत्रकं स्यात्सत्येन स तादृगेव न भवेद्वार्ता विसंवादिनी ।
एकां कामपि कालविप्रुषममी शौर्योष्मकण्डूव्यय- व्यग्राः स्युश्चिरविस्मृतामरचमूडिम्बाहवा बाहवः // वजी_पू३.२२ ।।

अत्रोत्साहाभिधानः स्थायिभावः समुचितालम्बनविभावलक्षणविषयसौन्दर्यातिशयश्लाघाश्रद्धालुतया विजिगीषोर्वैदग्ध्यभङ्गीभणितवैचित्र्येण परां परिपोषपदवीमधिरोपितः सन् रसतां नीयमानः किमपि वाक्यवक्रभावस्वभावं कविकौशलमावेदयति ।
अन्येषां पूर्वप्रकरणोदाहरणानां प्रत्येकन्तथाभिहितिजीवितलक्षणं वाक्यवक्रत्वं स्वयमेव सहृदयैर्विचारणीयम् ।

वक्रतायाः प्रकाराणामौचित्यगुणशालिनाम् ।
एतदुत्तेजनायालं स्वस्पन्दमहतामपि // वजी_पू३.२३ ।।
रसस्वभावालङ्कारा आसंसारमपि स्थिताः ।
अनेन नवतां यान्ति तद्विदाह्लाददायिनीम् // वजी_पू३.२४ ।।
इत्यन्तरश्लोकौ ।

एवमभिधानाभिदेयाभिधालक्षणस्य काव्योपयोगिनस्त्रितयस्य स्वरूपमुल्लिख्य वर्णनीयस्य वस्तुनो विषयविभागं विदधाति---

भावानामपरिम्लानस्वभावौचित्यसुन्दरम् ।
चेतनानां जडानां च स्वरूपं द्विविधं स्मृतम् // वजी३.५ ।।

भावानां वर्ण्यमानवृत्तीनां स्वरूपं परिस्पन्दः ।
कीदृशम्---द्विविधम् ।
द्वे विधे प्रकारौ यस्य तत्तथोक्तम् ।
स्मृतं सूरिभिराम्नातम् ।
केषां भावानाम्---चेतनानां जडानां च ।
चेतनानां संविद्वतां प्राणिनामिति यावत्॑ जडानां तद्व्यतिरेकिणां प्राणचैतन्यशून्यानाम् ।
एतदेव च धर्मिद्वैविध्यं धर्मद्वैविध्यस्य निबन्धनम् ।
कीदृक्स्वरूपं---अपरिम्लानस्वभावौचित्यसुन्दरम् ।
अपरिम्लानः प्रत्यग्रपरिपोषपेशलो यः स्वभावः पारमार्थिको धर्मस्तस्य यदौचित्यमुचितभावः प्रस्तावोपयोग्यदोषदुष्टत्व तेन सुन्दरं सुकुमारं तद्विदाह्लादकमित्यर्थः ।
एतदेव द्वैविध्यं विभज्य विचारयति---

तत्र पूर्वं प्रकाराभ्यां द्वाभ्यामेव विभिद्यते ।
सुरादिसिंहप्रभृतिप्राधान्येतरयोगतः // वजी३.६ ।।

तत्र द्वयोः स्वरूपयोर्मध्यात् पूर्वं यत्प्रथमं चेतनपदार्थसंबन्धि तद् द्वाभ्यामेव राश्यन्तराभावात् प्रकाराभ्यां विभिद्यते भेदमासादयति, द्विविधमेव संपद्यते ।
कस्मात्---सुरादिसिंहप्रभृतिप्राधान्येतरयोगतः ।
सुरादयः त्रिदशप्रभृतयो ये चेतनाः सुरासुरसिद्धविद्याधरगन्दर्वनरप्रभृतयः, ये चान्ये सिंहप्रभृतयः केसरिप्रमुखास्तेषां यत्प्राधान्यं मुख्यत्वमितरदप्राधान्यं च ताभ्यां यथासंख्येन प्रत्येकं यो योगः संबन्धस्तस्मात् कारणात् ।
तदेवं सुरादीनां मुख्यचेतनानां स्वरूपमेकं कवीनां वर्णनास्पदम् ।
सिंहादीनाममुख्यचेतनानां पशुमृगपक्षिसरीसृपाणां स्वरूपं द्वितीयमित्येतदेव विशेषेणोन्मीलयति---

मृख्यमक्लिष्टरत्यादिपरिपोषमनोहरम् ।
स्वजात्युचितहेवाकसमुल्लेखोज्ज्वं परम् // वजी३.७ ।।

मुख्यं यत्प्रधानं चेतनसुरासुरादिसंबन्धि स्वरूपं तदेवंविधं सत् कवीनां वर्णनास्पदं भवति स्वव्यापारगोचरतां प्रतिपद्यते ।
कीदृशम्---अक्लिष्टरत्यादिपरिपोषमनोहरम् ।
अक्लिष्टः कदर्थनाविरहितः प्रत्यग्रतामनोहरो यो रत्यादिः स्थायिभावस्तस्य परिपोषः शृङ्गारप्रभृतिरसत्वापादनम्, "स्थाय्येव तु रसो भवेदिऽ ति न्यायात् ।
तेन मनोहरं हृदयहारि ।
अत्रोदाहरणानि विप्रलम्भशृङ्गारे चतुर्थे ऽङ्के विक्रमोर्वश्यामुन्मत्तस्य पुरूरवसः प्रलपितानि ।
यथा

तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनों सा चात्यन्तमगोचरं नयनयोर्यातेति को ऽयं विधिः // वजी_पू३.२५ ।।

अत्र राज्ञो वल्लभाविरहवैधुर्यदशावेशविवशवृत्तेस्तदसंप्राप्तिनिमित्तमनधि गच्छतः प्रथमतरमेव स्वाभाविकसौकुमार्यसंभाव्यमानमनन्तरोचितविचारापसार्यमाणोपपत्ति किमपि तात्कालिकविकल्पोल्लिख्यमानमनवलोकनकारणमुत्प्रेक्षमाणस्य तदासादनसमन्वयासंभवान्नैराश्यनिश्चयविमूढमानसतया रसः परां परिपोषपदवीमधैरोपितः ।
तथा चैतदेव वाक्यान्तरैरुद्दीपितं यथा

पद्भ्यां स्पृशेद्वसुमतीं यदि सा सुगात्री मेघाभिवृष्टसिकतासु वनस्थलीषु ।
पश्चान्नता गुरुनितम्बतया ततो ऽस्या दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का // वजी_पू३.२६ ।।

अत्र पद्भ्यां वसुमतीं कदाचित् स्पृशेदित्याशंसया तत्प्राप्तिः संभाव्येत ।
यस्माज्जलधरसलिलसेकसुकुमारसिकतासु वनस्थलीषु गुरुनितम्बतया तस्याः पश्चान्नतत्वेन नितरां मुद्रितसंस्थाना रागोपरक्ततया रमणीयवृत्तिश्चरणविन्यासपरंपरा दृश्येत, तस्मान्नैराश्यनिश्चितिरेवसुतरां समुज्जृम्भिता, या तदुत्तरवाक्योन्मत्तविलपितानां निमित्ततामभजत् ।
करुणरसोदाहरणानि तापसवत्सराजे द्वितीये ऽङ्के वत्सराजस्य परिदेवितानि ।
यथा

धारावेश्म विलोक्य दीनवदनो भ्रान्त्वा च लीलागृहा- न्निश्वस्यायतमाशु केसरलतावीथीषु कृत्वा दृशः ।
किं मे पार्श्वमुपैषि पुत्रक कृतैः किं चाटुभिः क्रूरया मात्रा त्वं परिवर्जितः सह मया यान्त्यातिदीर्घां भुवम् // वजी_पू३.२७ ।।

अत्र रसपरिपोषनिबन्धनविभावादिसंपत्समुदयः कविना सुतरां समुज्जृम्भितः ।
तथा चास्यैव वाक्यस्यावतारकं विधूषकवाक्यमेवंविधं प्रयुक्तम्---

पमादो एसो क्खु देवीए पुत्तकिदको दरिणपोदो अत्तभवन्तं अणुसरदि // वजी_पू३.२८ ।।
प्रमादः ! एष खलु देव्याः पुत्रकृतको हरिणपोतो ऽत्रभवन्तमनुसरति ।।
इति छाया ।
एतेन करुणरसोद्दीपनविभावता हरिणपोतकधारागृहप्रभृतीनां सुतरां समुत्पद्यते ।
तथा च "अयमपरः क्षते क्षारावक्षेपः" इति रुमण्वद्वचनानन्तरमेतत्परत्वेनैव वाक्यान्तरमुपनिबद्धम्, यथा

कर्णान्तस्थितपद्मरागकलिकां भूयः समाकर्षता चञ्च्वा दाडिमबीजमित्यभिहता पादेन गण्डस्थली ।
येनासौ तव तस्य नर्मसुहृदः खेदान्मुहुः क्रन्दतो निःशङ्कंन शुकस्य किं प्रतिवचो देवि त्वया दीयते // वजी_पू३.२९ ।।

अत्र शुकस्यैवंविधदुर्ललितयुक्तत्वं वाल्लभ्यप्रतिपादनपरत्वेनोपात्तम् ।
"असौऽ इति कपोलस्थाल्याः स्वानुभवस्वदमानसौकुमार्योत्कर्षपरामर्शः ।
एवंविधोद्दीपनविभावैकजीवितत्वेन करुणरसः काष्ठाधिरूढिरमणीयतामनीयत ।
एवं विप्रलम्भशृङ्गारकरुणयोः सौकुमार्यादुदाहरणप्रदर्शनं विहितम् ।
रसान्तराणामपि स्वयमेवोत्प्रेक्षणीयम् ।
एवं द्वितीयमप्रधानचेतनसिहादिसंबन्धि यत्स्वरूपं तदित्थं कवीनां वर्णनास्पदं संपद्यते ।
कीदृशम्---स्वजात्युचितदेवाकसमुल्लेखोज्ज्वलम् ।
स्वा प्रत्येकमात्मीया सामान्यलक्षणवस्तुस्वरूपा या जातिस्तस्याः समुचितो यो हेवाकः स्वभावानुसारी परिस्पन्दस्तस्य समुल्लेखःसम्यगुल्लेखनं वास्तवेन रूपेणोपनिबन्धस्तेनोज्ज्वलं भ्राजिष्णु, तद्विदाह्लादकारीति यावत् ।
यथा

कदाचिदेतेन च पारियात्र- गुहागृहे मीलितलोचनेन ।
व्यत्यस्तहस्तद्वितयोपविष्ट- दंष्ट्राङ्कुराञ्चच्चिबुकं प्रसुप्तम् // वजी_पू३.३० ।।

अत्र गिरिगुहागेहान्तरे निद्रामनुभवतः कैसरिणः स्वजातिसमुचितं स्थानकमुल्लिखितम् ।
यथा वा

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरंस्तोकमुर्व्यां प्रयाति // वजी_पू३.३१ ।।

एतदेव प्रकारान्तरेणोन्मीलयति---

रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरम् ।
चेतनानाममुख्यानां जडानां चापि भूयसा // वजी३.८ ।।

चेतनानां प्राणिनाममुख्यानामप्रधानभूतानां यत्स्वरूपं तदेवंविधं सत्, वर्णनीयतां प्रतिपद्यते प्रस्तुताङ्गतयोपयुज्यमानम् ।
कीदृशम्रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरम् ।
रसाः शृङ्गारादयस्तेषामुद्दीपनमुल्लासनं परिपोषस्तस्मिन् सामर्थ्यं शक्तिस्तया विनिबन्धनंनिवेशस्तेन बन्धुरं हृदयहारि ।
यथा

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य // वजी_पू३.३२ ।।

जडानां चापि भूयसा---जडानामचेतनानां सलिलतरुकुसुमसमयप्रभृतीनामेवंविधं स्वरूपं रसोद्दीपनसामर्थ्यविनिबन्धनबन्धुरं वर्णनीयतामवगाहते ।
यथा

इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातोन्मूलितापाण्डुपत्रै- रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु // वजी_पू३.३३ ।।

यथा वा---

उद्भेदाभिमुखाङ्कुराः कुरवकाः शैवालजालाकुल-प्रान्तं भान्ति सरांसि फेनपटलैः सीमन्तिताः सिन्धवः ।
किञ्चास्मिन् समये कृशाङ्गि विलसत्कन्दर्पकोदण्डिक-क्रीडाभाञ्जि भवन्ति सन्ततलताकीर्णान्यरण्यान्यपि // वजी_पू३.३४ ।।

एवं स्वाभाविकसुन्दरपरिस्पन्दनिबन्धनं पदार्थस्वरूपमभिधाय तदेवोपसंहरति--

शरीरमिदमर्थस्य रामणीयकनिर्भरम् ।
उपादेयतया ज्ञेयं कवीनां वर्णनास्पदम् // वजी३.९ ।।

अर्थस्य वर्णनीयस्य वस्तुनः शरीरमिदम् उपादेयतया ज्ञेयं ग्राह्यत्वेन बोद्धव्यम् ।
कीदृशं सत् --- रामणीयकनिर्भरम्, सौन्दर्यपरिपूर्णम्,औपहत्यरहितत्वेन तद्विदावर्जकमिति यावत् ।
कवीनामेतदेव यस्माद्वर्णनास्पदमभिधाव्यापरागोचरम् ।
एवंविधस्यास्य स्वरूपशोभातिशयभ्राजिष्णोर्विभूषणान्युपशोभान्तरमारभन्ते ।
एतदेव प्रकारान्तरेण विचारयति---

धर्मादिसाधनोपायपरिस्पन्दनिबन्धनम् ।
व्यवहारोचितं चान्यल्लभते वर्णनीयताम् // वजी३.१० ।।

व्यवहारोचितं चान्यत् ।
अपरं पदार्थानां चेतनाचेतनानां स्वरूपमेवंविधं वर्णनीयतां लभते कविव्यापारविषयतां प्रतिपद्यते ।
कीदृशम्---व्यवहारोचितम्, लोकवृत्तयोग्यम् ।
कीदृशं सत्---धर्मादिसाधनोपायपरिस्पन्दनिबधनम् ।
धर्मादेश्चतुर्वर्गस्य साधने संपादने उपायभूतो यः परिस्पन्दः स्वविलसितं तदेव निबन्धनं यस्य तत्तथोक्तम् ।
तदिदमुक्तं भवति---यत् काव्ये वर्ण्यमानवृत्तयः प्रधानचेतनप्रभृतयः सर्वे पदार्थाश्चतुर्वर्गसाधनोपायपरिस्पन्दप्राधान्येन वर्णनीयाः, ये ऽप्यप्रधानचेतनस्वरूपाः पदार्थास्ते ऽपि धर्मार्थाद्युपायभूतस्वविलासप्राधान्येन कवीनां वर्णनीयतामवतरन्ति ।
तथा च राज्ञां शूद्रकप्रभृतीनां मन्त्रिणां च शुकनासमुख्यानां चतुर्वर्गानुष्ठानोपदेशपरत्वेनैव चरितानि वर्ण्यन्ते ।
अप्रधानचेतनानां हस्तिहरिणप्रभृतीनां संग्रममृगयाद्यङ्गतया परिस्पन्दसुन्दरं स्वरूपं लक्ष्ये वर्ण्यमानतया परिदृश्यते ।
तस्मादेव च तथाविधस्वरूपोल्लेखप्राधान्येन काव्यकाव्योपकरणकवीनां चित्रचित्रोपकरणचित्रकरैः साम्यं प्रथममेव प्रतिपादितम् ।
तदेवंविधं स्वभावप्राधान्ये रसप्राधान्येन च द्विप्रकारं सहजसौकुमार्यसरसं स्वरूपं वर्णनाविषयवस्तुनः शरीरमेवालङ्कार्यतामेवार्हति, न पुनरलङ्कारणत्वम् ।
तत्र स्वाभाविकं पदार्थस्वरूपमलङ्करणं यथा न भवति तथा प्रथममेव प्रतिपादितम् ।
इदानीं रसात्मनः प्राधानचेतनपरिस्पन्दवर्ण्यमानवृत्तेरलङ्कारकारान्तराभिमतामलङ्कारतां निराकरोति---

अलङ्कारो न रसवत् परस्याप्रतिभासनात् ।
स्वरूपादतिरक्तस्य शब्दार्थासङ्गतेरपि // वजी३.११ ।।

अलङ्कारो न रसवत् ।
रसवदिति यो ऽयमुत्पादितप्रतीतिर्नामालङ्कारस्तस्य विभूषणत्वं नोपपद्यते इत्यर्थः ।
कस्मात् कारणात्---स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात् ।
वर्ण्यमानस्य वस्तुनो यत् स्वरूपमात्मीयः परिस्पन्दस्तस्मादतिरिक्तस्याभ्यधिकस्य परस्य अन्यस्य अप्रतिभासनादनवबोधनात् ।
तदिदमत्र तात्पर्यम्---यत् सर्वेषामेव सत्कविवाक्यानामिदमलङ्कार्यमिदमलङ्करणम् इत्यपोद्धारविहितो विविक्तभावः सर्वस्य यस्य कस्यचित् प्रमातुश्चेतसि परिस्फुरति ।
रसवदलङ्कारवदित्यस्मिन् वाक्ये पुनरवहितचेतसो ऽपि न किञ्चिदेतदेव बुध्यामहे ।
तथा च---यदि शृङ्गारादिरेव प्राधान्येन वर्ण्यमानो ऽलङ्कार्यः ततस्तदन्येन केनचिदलङ्करणेन भवितव्यम् ।
यदि वा तत्स्वरूपमेव तद्विदाह्लादनिबन्धनत्वादलङ्करणमित्युच्यते तथापि तद्व्यतिरिक्तमन्यदलङ्कार्यतया प्रकाशनीयम् ।
तदेवंविधो न कश्चिदपि विवेकश्चिरन्तनालङ्कारकाराभिमते रसवदलङ्कारलक्षणोदाहरणमार्गे मनागपि विभाव्यते ।
तथा च

रसवद्दर्शितस्पष्टशृङ्गारादि // वजी_पू३.३५ ।।

इति रसवल्लक्षणम् ।
अत्र दर्शिताः स्पृष्टाः स्पष्टं वा शृङ्गारादयो यत्रेति व्याख्याने काव्यव्यतिरिक्तो न कश्चिदन्यः समासार्थभूतः संलक्ष्यते ।
यो ऽसावलङ्कारः काव्यमेवेति चेत् तदपि न सुस्पष्टसौष्ठवम् ।
यस्मात् काव्यैकदेशयोः शब्दार्थयोः पृथक् पृथगलङ्काराः सन्तीत्युपक्रम्येदानीं काव्यमेवालङ्करणमित्युपक्रमोपसंहारवैषम्यदुष्टत्वमायाति ।
यदि वादर्शिताः स्पष्टं शृङ्गारादयो येनेति समासः, तथापि वक्तव्यमेव---को ऽसाविति ।
प्रतिपादनवैचित्र्यमेवेति चेत्, तदपि न सम्यक् समर्थनार्हम् ।
यस्मात् प्रतिपाद्यमानादन्येदेव तदुपशोभानिबन्धनं प्रतिपादनवैचित्र्यम्, न पुनः प्रतिपाद्यमानमेव ।
स्पष्टतया दर्शितं रसानां प्रतिपादनवैचित्र्यं यद्यभिधीयते, तदपि न सुप्रतीपादनम् ।
स्पष्टतया दर्शने शृङ्गारादीनां स्वरूपपरिनिष्पत्तिरेव पर्यवस्यति ।
किञ्च रसवतः काव्यस्यालङ्कार इति तथाविधस्य सतस्तस्यासाविति न किञ्चिदनेन तस्याभिधेयं स्यात् ।
अथवा तेनैवालङ्कारेण रसवत्त्वं तस्याधीयते, तदेवं तर्ह्यसौ न रसवतो ऽलङ्कारः प्रत्युत रसवानलङ्कार इत्यायाति, तन्माहात्म्यात् काव्यमपि रसवत् संपद्यते ।
यदि वा तेनैवाहितरससम्बन्धस्य रसवतः काव्यस्यालङ्कार इति तत्पश्चाद्रसवलङ्कारव्यवदेशमासादयति---यथाग्निष्टोमयाज्यस्य पुत्रो भवितेत्युच्यते, तदपि न सुप्रतिबद्धसमाधानम् ।
यस्माद् "अग्निष्टोमयाजिऽ-शब्दः प्रथमं भूतलक्षणे विषयान्तरे निष्प्रतिपक्षतया समासादितप्रसिद्धिः पश्चाद् भविष्यति वाक्यार्थसबन्धलक्षणयोग्यतया तमनुभवितुं शक्नोति ।
न पुनरत्रैवं प्रयुज्यते ।
यस्माद्रसवतः काव्यस्यालङ्कार इति तत्संज्ञन्धितयैवास्य स्वरूपब्धिरेव ।
तत्संबन्धिनिबन्धनं च काव्यस्य रसवत्त्वमित्येवमितरेतराश्रयलक्षणदोषः केनापसार्यते ।
यदि वा रसो विद्यते यस्यासौ तद्वानलङ्कार एवास्तु इत्यभिधीयते, तथाप्यलङ्कारः काव्यं वा नान्यत् तृतीयं किञ्चिदत्रास्ति ।
तत्पक्षद्वितयमपि प्रत्युक्तम् ।
उदाहरणं लक्षणैकयोगक्षेमत्वात् पृथङ् न विकल्प्यते ।

मृतेति प्रेत्य सङ्गन्तुं यया मे मरणं स्मृतम् ।
सैवावन्ती मया लब्धा कथमत्रैव जन्मनि // वजी_पू३.३६ ।।

अत्र रतिपरिपोषलक्षणवर्णनीयशरीरभूतायाश्चित्तवृत्तेरतिरिक्तमन्यद्विभक्तं वस्तु न किञ्चिद्विभाव्यते ।
तस्मादलङ्कार्यतैव युक्तिमती ।
यदपि कैश्चित्

स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् // वजी_पू३.३७ ।।

इत्यनेन पूर्वमेव लक्षणं विशेषितम्, तत्र स्वशब्दास्पदत्वं रसानामपरिगतपूर्वमस्माकम् ।
ततस्त एव रससर्वस्वसमाहितचेतसस्तत्परमार्थविदो विद्वांस एवं प्रष्टव्याः---किं स्वशब्दास्पदत्वं रसानामुत रसवत इति ।
तत्र पूर्वस्मिन् पक्षे---रस्यन्तैति रसास्ते स्वशब्दास्पदास्तेषु तिष्ठन्तः शृङ्गारादिषु वर्तमानाः सन्तस्तज्ज्ञैरास्वाद्यन्ते ।
तदिदमुक्तं भवति---यत् स्वशब्दैरभिधीयमानाः श्रुतिपथमवतरन्तश्चेतनानां चर्वणचमत्कारं कुर्वन्तीत्यनेन न्यायेन घृतपूरप्रभूतयः पदार्थाः स्वशब्दैरभिधीयमानास्तदास्वादसंपदं संपादयन्तीत्येवं सर्वस्य कस्यचिदुपयोगसुखार्थिनस्तैरुदारचरितैरयत्नेनैव तदभिधानमात्रादेव त्रैलोक्यराज्यसंपत्सौख्यसमृद्धिः प्रतिपाद्येतैति नमस्तेभ्यः ।
रसवतस्तदास्पदत्वं नोपपद्यते, रसस्यैव स्ववाच्यस्यापि तदास्पदत्वाभावात्, किमुतान्यस्येति ।
तदलङ्कारत्वं च प्रथममेव प्रतिषिद्धम् ।
शिष्टं स्थाय्यादि पूर्वलक्षणं व्याख्यातमेवेति न पुनः पर्यालोच्यते ।
यदपि

रसबद्रससंश्रयात् // वजी_पू३.३८ ।।

इति कैश्चिल्लक्षणमकारि तदपि न सम्यक् समाधेयतामधितिष्ठति ।
तथा हि---रसः संश्रयो यस्यासौ रससंश्रयः, तस्मात् कारणादयं रसवदलङ्कारः संपद्यते ।
तथापि वक्तव्यमेव---को ऽसौ रसव्यतिरिक्तवृत्तिः अन्यपदार्थः? काव्यमेवेति चेत् तदपि पूर्वमेव प्रत्युक्तम्, तस्यस्वात्मनिक्रियाविरोधादलङ्कारत्वानुपपत्तेः ।
अथवा रसस्य संश्रयो रसेन संश्रियते यस्तस्माद् ।
रससंश्रयादिति ।
तथापि को ऽसाविति व्यतिरिक्तत्वेन वक्तव्यतामेवा (याति) ।
उदाहरणजातमप्यस्य लक्षणस्य पूर्वेण समानयोगक्षेमप्रायमिति (न) पृथक् पर्यालोच्यते ।

रसपेशलम् // वजी_पू३.३९ ।।

इति पाठे न किञ्चिदत्रातिरिच्यते ।
अथ (वस्तुस्वभावरसादि-) प्रतिपादकवाक्योपारूढपदार्थसार्थस्वरूपमलङ्कार्यं रसस्वरूपानुप्रवेशेन विगलितस्वपरिस्पन्दानां द्रव्याणाम् इव कथमलङ्करणं भवतीत्येतदपि चिन्त्यमेव ।
किञ्च तथाभ्युपगमे ऽपि प्रधानगुणभावविपर्यासः पर्यवस्यतीति न किञ्चिदेतत् ।
अत्रैव (दूषणान्तरमु) पक्रमते---शब्दार्थासङ्गतेरपि ।
शब्दार्थासङ्गतेरपि ।
शब्दार्थयोरभिधानाभिधेययोरसमन्वयाच्च रसवदलङ्कारोपपत्तिर्नास्ति ।
अत्र च रसो विद्यते (तिष्ठ) ति यस्येति मतुप्प्रत्यये विहिते तस्यालङ्कार इति षष्ठिसमासः क्रियते, रसवांश्चासावलङ्कारश्चेति विशेषणसमासो वा ।
तत्र पूर्वस्मिन् पक्षे---रसव्यतिरिक्तं किमन्यत् पदार्थान्तरं विद्यते यस्यासावलङ्कारः ।
काव्यमेवेति चेत्, तत्रापि तद्व्यतिरिक्तः को ऽसौ पदार्थो यत्र रसवदलङ्कारव्यपदेशः सावकाशतां प्रतिपद्यते ? विशेषातिरिक्तः पदार्थो न कश्चित् परिदृश्यते यस्तद्वानलङ्कार इति व्यवस्थितिमासादयति ।
तदेवमुक्तलक्षणे मार्गे रसवदलङ्कारस्य शब्दार्थसङ्गतिर्न काचिदस्ति ।
यदि वा निदर्शनान्तरविषयतया समासद्वितये ऽपि शब्दार्थसङ्गतियोजना विधीयते, यथा

तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद् विश्रान्तपुष्पोद्गमा ।
चिन्तामौनमिवास्थिता मधुकृतां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा // वजी_पू३.४० ।।

यथा वा

तरङ्गभ्रूभङ्गा (क्षुभित) विहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् ।
यथाविद्धं याति स्खलितमभिसंधाय बहुशो नदीभावेनेयं ध्रुवमसहना सा परिणता // वजी_पू३.४१ ।।

अत्र रसवत्त्वमलङ्कारश्च प्रकटं प्रतिभासेते ।
तस्मान्न कथञ्चिदपि तद्विवेकस्य दुरवधानता ।
तेन रसवतो ऽलङ्कार इति षष्ठीसमासपक्षे शब्दार्थयोर्न किञ्चिदसङ्गतत्वम्, रसपरिपोषपरत्वादलङ्कारस्य तन्निबन्धनमेव रसवत्त्वम् ।
रसवांश्चासावलङ्कारश्चेति विशेषणसमासपक्षे ऽपि न किञ्चिदसङ्गत्वम् ।
तथा चैतयोरुदाहरणयोर्लतायाः सरितश्चोद्दीपनविभावत्वेन वल्लभाभावितान्तः करणतया नायकस्य तन्मयत्वेन (निश्चेतन?) मेव पदार्थजातं सकलमवलोकयतः तत्साम्यसमारोपणं तद्धर्माध्यारोपणं चेत्युपमारूपककाव्यालङ्कारयोजनं विना न केनचित् प्रकारेण घटते, तल्लक्षणवाक्यत्वात् ।
सत्यमेतत्, किन्तु "अलङ्कारऽ-शब्दाभिधानं विना विशेषणसमा (सप) क्षे केवलस्य रसवानिति (अस्य) प्रयोगः प्राप्नोति ।
रसवानलङ्कार इति चेत् प्रतीतिरभ्युपगम्यते, तदपि युक्ति (युक्ततां नार्हति), रूपकादेरभावात् ।
रसवतो ऽलङ्कार इति षष्ठीसमासपक्षो ऽपि न सुस्पष्टसमन्वयः ।
सर्वस्य कस्यचित् काव्यस्य रसवत्त्वमेव ।
यस्मात्सातिशयत्वनिबन्धनं तथाविधं तद्विदाह्लादकारि काव्यं करणीयमिति तस्यालङ्कार इत्याश्रिते सर्वेषामेव च रूपकादीनां रसवदलङ्कारत्वमेव न्यायोपपन्नतां प्रतिपद्यते ।
अलङ्कारस्य च यस्यकस्यचित्सर्वस्य रसवत्त्वाद् विशेषणसमासपक्षे ऽप्येषैव वार्त्ता ।
कीञ्च तदभ्युपगमे ऽपि प्रत्येकमुत्स्खलितलक्षणानां प्रकृतपरिपोषपरतया लब्धात्मनामलङ्कारणां प्रातिस्विकलक्षणाभिहितातिशयव्यतिरिक्तमनेन न किञ्चिदाधिक्यमाधीयते ।
तस्मात्तत्तल्ल(क्षण) करणवैयर्थ्यमप्रतिवारितप्रसरमेव परापतति ।
न चैवंविधविषये रसवदलङ्कारव्यवहारस्यावकाशः, तज्ज्ञैस्तथानवगमात्, अलङ्कारान्तराणां च मुख्यतया व्यवस्थानात् ।
अथवा चेतनपदार्थगोचरतया रसवदलङ्कारस्य, निश्चेतनवस्तुविषयत्वेन चोपमादीनां विषयविभागो व्यवस्थाप्यते, तदपि न विद्वज्जनावर्जनं विदधाति ।
यस्मादचेतनानामपि रसोद्दीपनसामर्थ्यसमुचितसत्कविसमुल्लिखितसौकुमार्यसरसात्वादुपमादीनां प्रविरलविषयता निर्विषयत्वं वा स्यादिति शृङ्गरादिरसनिस्यन्दसुन्दरस्य सत्कविप्रवाहस्य च नीरसत्वं प्रसज्यत इति प्रतिपादितमेव पूर्वसूरिभिः ।
यदि वा वैचित्र्यान्तरमनोहारितया रसवदलङ्कारः प्रतिपाद्यते, यथाभियुक्ततरौस्तैरेवाभ्यधायि---

प्रधाने ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः // वजी_पू३.४२ ।।

इति ।
यत्रान्यो वाक्यार्थः प्राधान्यादलङ्कार्यतया व्यवस्थितस्तस्मिन् तदङ्गतया विनबध्यमानः शृङ्गारादिरलङ्कारतां प्रतिपद्यते ।
यस्माद् गुणः प्रधानं भावाभिव्यक्तिपूर्वमेवंविधविषये विभूषयति, तस्माद् भूषणविवेकव्यक्तिरुज्जृम्भते, यथा

क्षिप्तो हस्तावलग्नः प्रसभमभिहतो ऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभिः सास्त्रनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः // वजी_पू३.४३ ।।

अत्र सास्त्रनेत्रोत्पलादिशब्दग्म्यवैक्लव्यस्य शाम्भवशराग्निदह्यमानासुरसुन्दरीणां, त्रिपुररिपुप्रभावप्रख्यापनपरस्य प्रयोजकत्वेन करुणो रसः अङ्ग, न पुनरीर्ष्याविप्रलम्भशृङ्गारः, तस्याननुभूयमानत्वात् ।
तदयमत्र परमार्थः---कविप्रतिभापरिपोषितप्रकर्षगम्यमान-करुणरसोपबृंहित-सौन्दर्यधाराधिरूढो भगवत्प्रभावातिशयः कामपि सहृदयहृदयहारितां प्रतिपद्यते ।
न च शब्दवाच्यत्वं नाम समानं कामिशराग्नितेजसोः संभवतीति तावतैव तयोस्तथाविधविरुद्धधर्माध्यासादिवरुद्धस्वभावचोरैक्यं कथञ्चिदपि व्यवस्थापयितुं पार्यते, परमेश्वरप्रयत्नेनापि स्वबावस्यान्यथाकर्तुमशक्यत्वात् ।
न च तथाविधशब्दावाच्यतामात्रादेवं तद्विदां तदनुभवप्रतीतिरस्तिः गुडखण्डादिशब्दाभिधानादपि प्रीतिविषादादेस्तदास्वादप्रसङ्गात् ।
तदनुभवप्रतीतौ सत्यां रसद्वयसमावेशदोषो ऽप्यनिवार्यतामाचरति ।
रसद्वयसमावेशादोषो ऽप्यत्र गुणप्रधानभावस्य प्र(योजक इति वक्तुं न पार्यते) ।
यदि वा भगवत्प्रभावस्य मुख्यत्वे द्वयोरप्येतयोरङ्गत्वाद् भूषणत्वमित्युच्यते तदपि (न) समञ्जसम् ।
यस्मात् करुणस्य वास्तवत्वादेक एव स्यात् निर्मूलत्वादेव तयोर्भावाभावयोरिव न कथञ्चिदपि साम्योपपत्तिरित्यलमनुचितचर्वणचातुर्यचापलेन ।
यदि वा निदर्शने ऽस्मिन्ननाश्वसन्तः समाम्नातलक्षणोदाहरणसङ्गतिं सम्यक् समीहमानाः सविमर्षणा उदाहरणान्तरं रसवदलङ्कारस्य व्याचक्षते, यथा

किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः ।
स्वप्नान्तेष्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो बुद्ध्वा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः // वजी_पू३.४४ ।।

"अत्र भवद्विनिहतवल्लभो वैरिविलासिनीसमूहः शोकावेशाद(शर)णः करुणरसकाष्ठाधिरूढिविहितमेवं विधवैशसमनुभवती"ति तात्पर्ये स एव प्राधान्येन वाक्यार्थः, तदङ्गतया विनिबध्यमानः करुणः ।
प्रवासविप्रलम्भशृङ्गारपरत्वमत्र न परमार्थः ।
परस्परान्वितपदार्थसार्थसमर्प्यमाणवृत्तिर्गुणभावेनावभासनादलंङ्करणमित्युच्यते ।
तस्य च निर्विषयत्वाभावाद् रसालम्बनविभावादिस्वकारणसामग्रीविरहविहिता लक्षणानुपपत्तिर्न संभवति ।
रसद्वयसमावेशदुष्टत्वमपि दूरमपास्तमेव ।
द्वयोरपि वास्तवस्वरूपस्य विद्यमानत्वात्तदनुभवप्रतीतौ सत्यां नात्मविरोधः स्पर्धित्वाभावात् ।
तेन तदपि तद्विदाह्लादविधानसामर्थ्यसुन्दरम्, करुणरसस्य निश्चायकप्रमाणाभावात् ।
प्रवासविप्रलम्भस्य स्वकारणभूतवाक्योपारूढालम्बनविभावादिसमर्प्यमाणत्वं स्वप्नान्तसमये, प्रबोधावसरे च तथाविधत्वं युक्त्या संभवतस्तस्य करुणस्येत्युभयमुपपन्नमिति प्रथमतरमेव कथमसौ समुद्भवतीति चैतदपि न समञ्जसप्रायम् ।
यस्माच्चाटुविषयमहापुरुषप्रतापाक्रान्तिचकितचेतसामितस्ततः स्ववैरिणां तत्प्रेयसीनां च पलायनैरपि पृथगवस्थानं न युक्तिप्रयुक्ततामतिवर्तते ।
करुणरसस्य सत्यपि निश्चये, तस्यैव तथाविधपरिपोषदशाधाराधिरूढेरेकाग्रतास्तिमितमानसस्य तथाभ्यस्तव्यसनाधिवासितचेतसा सुचिरात्समासादितस्वप्नसमागमः पूर्वानुभूतवृत्तान्तुसमुचितसमारब्धकान्तसंलापः कथमपि संप्रबुद्धः प्रबोधसमनन्तरसमुल्लसितपूर्वापरानुसंधानविहितप्रस्तुतवस्तुविसंवादविदारितान्तः करणो भवद्वैरिविलासिनीसार्थो रोदितीति करुणस्यैव परिपोषपदवीसमधिरोहः तथाविधव्यभिचार्यौचित्यचारुत्वं तत्स्वरूपानुप्रवेशोवेति कुतः प्रवासविप्रलम्भस्य पृथग्व्यापारे रसगन्धो ऽपि ? यदि वा प्रेयसः प्राधान्ये तदङ्गत्वात् करुणरसस्यालङ्करणत्वमित्यभिधीयते तदपि न निरवद्यम् ।
यस्माद् द्वयोरप्येतयोरुदाहरणयोर्मुख्यभूतो वाक्यार्थः करुणात्मनैव विवर्तमानवृत्तिरुपनिबद्धः ।
पर्यायोक्तान्यापदेशन्यायेन वाच्यताव्यतिरिक्तयोः प्रतीयमानतया, न करुणस्य रसत्वाद् व्यङ्ग्यस्य सतो वाच्यत्वमुपपन्नम् ।
नापि गुणीभूतव्यङ्ग्यस्य विषयः, व्य(ङ्ग्यस्य प्राधान्येन क)रुणात्मनैव प्रतिभासनात् ।
न च द्वयोरपि व्यङ्ग्यत्वम्, अङ्गाङ्गिभावस्यानुपपत्तेः ।
एतच्च यथासंभवमस्माभिर्विकल्पितम्, न पुनस्त(न्न्यायमत्र प्रयोजकमित्यलं वि) स्तरेण ।
किञ्च "काव्ये तस्मिन्नलङ्कारो रसादिःऽ इति रस एवालङ्कारः केवलः न तु रसवदिति मतुत्प्रत्ययस्य जीवितम् न किञ्चिदभिहितं स्यात् ।
एवं सदि शब्दार्थसङ्गतेरभावादनवस्थैव तिष्ठतीत्येतदपि न किञ्चित् ।
एवमलङ्कारतां रसवतः प्रत्याख्याय वर्ण्यमानार्थशरीरत्वात् तदेकयोगक्षेमस्य प्रेयसः संप्रति (तां) वा (रयति)॒---न "प्रेयस्तद्विरुद्धः स्यादप्रेयःऽ इति---

न प्रेयस्तद्विरुद्धः स्यादप्रेयो(ऽसावलङ्कृतिः) ।
अलङ्कारान्तरे स्यातामन्यत्रादर्शनादपि // वजी३.१२ ।।

यश्चिरन्तनैरलङ्कारः समाम्नातः तस्य न तद्भवाः संभवति ।
यस्मात् कैश्चित्"प्रेयः प्रियतराख्यान"मिति लक्षणं प्रेयसः समाख्यातम् ।
कैश्चित्तस्योदाहरणमात्रमेव लक्षणं मन्यमानैस्तु(ता) वदेव प्रदर्शितम् ।
यथा

प्रेयो गृहागतं कृष्णमवादीद्विदुरो यथा ।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात् पुनः // वजी_पू३.४५ ।।
इति ।

पूर्वेषां चैतदेवोदाहरणमभिमतम् ।
तथा च तैरुक्तम्--- अद्य या मम गोविन्द जाता त्वयि गृहागते // वजी_पू३.४६ ।।

इति ।
तदेव न क्षोदक्षमतामर्हति ।
तथा च कालेने (त्यादिनो)च्यते (यत्) तदेव वर्ण्यमानविषयतया वस्तुनः स्वरूपं, तदेवालङ्करणमित्यलङ्कार्यं न किञ्चिदवशिष्यते ।
तस्यैवोभयमलङ्कार्यत्वमलङ्करणत्वं चेत्ययुक्तियुक्तम् ।
एकक्रियाविषयं युगपदेकस्यैव वस्तुनः कर्मकरणत्वं नोपपद्यते ।
यदि दृश्यन्ते तथाविधानि वाक्यानि येषामुभयमपि संभवति---

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे // वजी_पू३.४७ ।।

इत्यभिधीयते, तदपि निःसमन्वयप्रायमेव ।
यस्मादत्र वास्तवे ऽप्यभेदे काल्पनिकमुपचारसत्तानिबन्धनं विभागमाश्रित्य तद्व्यवहारः प्रवर्तते ।
किं च विश्वमयत्वात् परमेश्वरस्य परमेश्वरमयत्वाद्वा विश्वस्य, पारमार्थिके ऽप्यभेदे माहात्म्यप्रतिपादनार्थं प्रातिस्विकपरिस्पन्दविचित्रां जगत्प्रपञ्चरचनां प्रति सकलप्रमातृतामस्य संवेद्यमानो भेदावबोधः स्फुटावकाशतां न कदाचिदप्यतिक्रामति ।
तस्मादत्र परमेश्वरस्यैव रूपस्य कस्यचित्तदाप्यमानत्वात् वेदनादेः क्रियायाः कर्मत्वं कस्यचित्साधकतमत्वात् करणत्वमिति न किञ्चिदसंगतम् ।
उदाहरणेपुनरपोद्धारबुद्धिपरिकल्पनयापि न कथञ्चिदपि विभागो विभाव्यते ।
तस्मात् "स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात्" इति दूषणत्रापि संबन्धनीयम् ।
अविभागपक्षे च तदेवालङ्कार्यं तदेवालङ्करणमिति प्रेयसो रसवतश्च स्वात्मनि क्रियाविरोधात् "आत्मैव नात्मनः स्कन्धं क्वचिदप्यधिरोहति" इति स्थितमेव ।
अथ दूषणान्तरं ददाति तद्विरुद्धः स्यादिति ।
(अनेन न्यायेन वर्ण्यमानत्वात्तद्विरुद्धस्य प्रेयसः प्रतिपक्षो ऽपि अप्रेयः प्रसादाधिकृतः ॑तस्मादलङ्कारो भवेत्) ।
तथापि को दोषः स्यादिति चेत्तदपि न सम्यक्, तैरेव तथानभ्युपगमात् ।
अन्यच्च लैङ्किकमलङ्कार्यालङ्करणव्यवहारं पर्यालोच्य तथाविधत्वसामान्यमात्रं समाश्रित्य पूर्वसूरयः काव्ये प्रवर्तिततद्व्यवहाराः संवृत्ताः ।
लोके त्रिभुवनान्तरवर्तिपदार्थजातमनन्तं सिद्धविद्याधराद्यलङ्कार्यम्, अलङ्करणानि कटककेयूरादीनि कतिचिदेव, तदेवमेव काव्ये वर्णनाविषयस्य वस्तुनः शरीरमपर्यवसितमलङ्कार्यम्, तथैवालङ्करणान्युपमादीनि कतिचिदेव ।
वर्णनीयस्य प्रयेः प्रभृतेरलङ्कारत्वे वर्ण्यमानादन्यालङ्करणानामानन्त्यप्रसङ्गः ।
ततः परिसमाप्त्यभावे संभावनावदभिधादीनामनारम्भः ।
तस्माल्लौकिकव्यवहारान्यूनानतिरिक्तमेवालङ्कार्यालङ्कारव्यवहारः काव्यविषये ऽपि वाच्यतामर्हति ।
अत्रैव दूषणान्तरमुपन्यस्यति---"अलङ्कारान्तरे" इति ।
संसृष्टिसंकरौ स्याताम् ।
प्रथमः (मं) प्रियतराख्यानमात्रसाधनस्य वर्ण्यमानत्वादलङ्कार्यस्याप्यलङ्करणत्वे सति, अलङ्कारान्तरं रूपकादि यदा विधीयते तदा तस्मिन् विधीयमाने प्रेयसः संसर्गसंकीर्णतानिबन्धने संसृष्टिसङ्करावलङ्कारविशेषौ स्याताम् भवेताम् ।
प्रेयोभणितयुक्तेषु वाक्येषु तज्ज्ञैर्न संसृष्टिसकरव्यवहारः कदाचिदपि प्रवर्तितपूर्वः तथा प्रतिभासाभावात् ।
यथा

इन्दोर्लक्ष्म स्मरविजयिनः काण्ठमूलं मुरारिः दिङ्नागानां मदजलमषीभाञ्जि गण्डस्थलानि ।
अद्याप्युर्वोवलयतिलक श्यामलिम्नानु(वि) लिप्ता० न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः // वजी_पू३.४८ ।।

अत्र प्रेयोभिहितरलङ्कार्या, व्याजस्तुतिरलङ्करणम्॑ न पुनरुभयोरलङ्कारप्रतिभासो येन संसृष्टिव्यपदेशः संकरव्यपदेशो वा प्रवर्तते तृतीयस्यालङ्कार्यतया वस्त्वन्तरस्याप्रतिभासनात् ।
एतदेव प्रकारान्तरेण प्रत्याख्यातुमुपक्रमते "अन्यत्रादर्शनादपि"(इति) ।
"अन्यत्र" अन्यस्मिन् विषये प्रेयोभणितिविविक्ते वर्णनीयान्तरे प्रेयसो विभूषणत्वात्(त्वे) उपमादेरिवोपनिबन्धः प्राप्नोति ।
न च क्वचिदपि तथा दृश्यते, तस्मादन्यत्रादर्शनादपि न च युक्तियुक्तमलङ्कारणत्वं, रसवतो ऽपि तदेकयोगक्षेमत्वात् एवमेव विभूषणत्वमनुपपन्नम् ।
एवंमलङ्करणतां प्रेयसः प्रत्यादिश्य वर्णनीयशरीर त्वात्तदेकरूपाणामन्येषां प्रत्यादिशति---

ऊर्जस्व्युदात्तयोस्तद्वद् भूषणत्वं न विद्यते ।
तथा समाहितस्यापि प्रकारद्वयशोभिनः // वजी३.१३ ।।

ऊर्जस्व्युदात्ताभिधानयोः पौर्वापर्यप्रणीतयोरंलकरणयोः "भूषणत्वं"-अलङ्करणत्वं "न विद्यते"---न संभवति ।
कथं "तद्वत्" ।
तद्वदित्यनन्तरोक्तरसवदादिपरामर्शः, तेन तद्वत् तयोरिव प्रथमप्रतिषिद्धविभूषणभाव-रसादिवदेतयोर्विभूषणत्वं नास्तीत्यर्थः ।
(यद्यपि) चिरन्तनैर्लक्षणोदाहरणदर्शनपूर्वकमेतयोरलङ्करणत्वमाख्यातं, तथाप्ययुक्तियुक्तत्वात् (तत्) नोपपद्यते---तथा च कैश्चित् प्रथमस्य लक्षणमुदाहरणं च दर्शितं यथा

अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते // वजी_पू३.४९ ।।
तथा कामो ऽस्य ववृधे यथा हिमगिरेः सुताम् ।
संगृहीतुं प्रववृते हठेनापास्य सत्पथम् // वजी_पू३.५० ।।
इति ।

कैश्चिदुदाहरणमेव वक्तव्यत्वाल्लक्षणं मन्यमानैस्तदेव प्रदर्शितम् ।
यथा वा

ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः ।
द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः // वजी_पू३.५१ ।।

यथा वा

अपकर्ताहमस्मीति हृदि ते मास्म भूद्भयम् ।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति // वजी_पू३.५२ ।।
इति ।

तत्र प्रथमयोर्लक्षणोदाहरणयोस्तावदेतत् पर्यालोचनीयम् किं तदनौचित्यं नाम्, येन (तथा) प्रवृत्तानां रसादीनामुपनिबन्धनमलङ्कारः संपद्यते ।
यस्मादौचित्यप्रतियोगिना तेन प्रतीयमानानां तेषां (न केवलं) परिपोषपरिहाणिः, प्रत्युत सौकुमार्यविरहः सावकाशतां प्रतिपद्यते ।
तदिदमुक्तम्---

अनौचित्यादृते नान्यद्रभङ्गस्य कारणम् // वजी_पू३.५३ ।।
इति ।

यदि वा न पारमार्थिकमनौचित्यमत्र विवक्षितमपि तु विभावानुभावव्यभिचार्यौ चित्याभिव्यङ्ग्यप्रस्तावान्तराविषयनिरवद्यरसापेक्षया किमपि प्रस्तुतानुगुणमेव, तथा च "कामक्रोधादिकारणात्" इति युक्तिरुपन्यस्तेत्युच्यते, तदपि न सु स्थितसमाधि ।
यस्मादौचित्यपरिपोषपुष्कलरसापेक्षया किञ्चिदनौचित्ययुक्तरसभावोपनिबन्धनं परिमितसत्त्वप्रायप्राणिमात्रविषये कामादिकारणात् करणीयतामर्हति न पुनरुदाहृते विषये ।
(पुष्क) लविभावादिसमुदयसमुल्लासितः सहजकविशक्तिकौशलसमुद्भासितसौकुमार्यसमर्पितस्वाभाविकरामणीयकः सरसमतिमतः चन्द्रकान्तकौमुदीप्रकाशवदाश्चर्यविलासापसार्यमाणोपपत्तेः समुचितो ऽपि रसः परमसौन्दर्यमावहति ।
तत् कथमनौचित्यपरिम्लानः कामादिकारणकल्पनोपसंहतवृत्तिरलङ्कारताव भासतां प्रयास्यति ? तथा च तथाविधे विषये वर्णनीयान्तरसमानतया रसवत्तां परिकल्पयन्तः सत्कवयो नितान्तं (वि) राजन्ते ।
यथा

पशुपतिरपि तान्यहानि कृच्छ्रा- दगमयदद्रिसुतासमागमोत्कः ।
कमपरवशं न विप्रकुर्युः विभुमपि तं यदमी स्पृशन्ति भावाः // वजी_पू३.५४ ।।

तदेतदवसरापतितमस्माभिः पर्यालोचितम् ।
ननु भतनयनिपुणमानसानां परमार्थविदां तत्रभवतां (अस्मिन्विषये) वयं विवदामहे, यो ऽयमत्रोदाहृतः स भगवान् रसाभासविषयतया वर्णनीयतामर्हति न वेति ? किमौचित्यानौचित्यपरिकल्पनेन ।
सर्वथा यथा तत्रभवद्भ्यः प्रतिभासते तत्तथैवास्ताम् ।
तथापि तथाविधस्तदीयश्चित्तवृत्तिविशेषः प्राधान्येन वर्ण्यमानत्वात् अलङ्कार्यतां नातिक्रामति ।
"द्विः सन्दधाति" इत्यादौ वीरस्य वक्तुर्लोकोत्तरपौरुषाभिधानव्यसनिनः सहजोत्साहोत्सिक्तचित्तवृत्त्यतिशयव्यतिरेकेण न किञ्चिदन्यन्मुक्यतया वाक्यार्थतामुपनीतम् ।
तथाहि---सायकसन्धानक्रियाभ्यावृत्तिगणनमकस्मादपि स्वपरिस्पन्दतिरस्कारकारणं मन्यमानः किमित्यनेन परिहरति ।
कर्ण इत्यभिमानप्रतीतिः (प्रधानं पुरुषवक्रभावोपबृंहितं) रूढिवैचित्र्ययोगिनः शल्येत्यामन्त्रणपदस्याभिप्रायः ।
पार्थायेति सामान्यस्य कस्यचिदाकारान्तरशब्द(र?) प्रतीकारस्य शत्रोः कृते तत्प्रतिघातसमर्थोपाध्यन्तरोपकरणं कदाचित्संभाव्येतापि इति प्रकरणात् प्रतीयते ।
आगत इति तत्प्रतिनिय-तार्थं)मनार्थं) प्रयत्नेनाभिमानेनान्यो ऽपि स्वयमागतः सन् अपाकृत इत्यभिमानोत्कर्षप्रतीतिः प्रकरणाद्गम्यते ।
उदाहरणमेवोर्जितम् ।
तदेवमयं प्रधानचेतनलक्षणोपकृतातिशयविशिष्टचित्तवृत्तिविशेषः वस्तुस्वभाव एव मुख्यतया वर्ण्यमानत्वातलङ्कार्यो न पुनरलङ्कारः ।
तदिदमुक्तम्--- उदारस्वपरिस्पन्दसुन्दरत्वेन वर्णनम् ।
वस्तुनो वक्रशब्दैकगोचरत्वेन वक्रिता ।।
इति ।
तस्मादेवंविधस्य चित्तवृत्तिविशेषत्वात् रसभावतदाभासानां यथायोगमेकतमस्मिन् विवक्षावशादन्तर्भावः संभवतीत्यलङ्कार्यत्वमेव युक्तम् न त्वलङ्कारभाव इति ।
तस्मान्न रसवदाद्यभिहितदूषणपात्रतामतिक्रामति ।
तदेतदुक्तमत्र सर्वमेव योजनीयम् ।
तद्वद्"अपकर्ताहमस्मि" इत्यपरमुदाहरणमनेनैव न्यायेन समानयोगक्षेमप्रायमिति गतार्थमेव ।
एवमुदात्तस्योभयप्रकारस्याप्यलङ्कार्यतैव युक्तिमती न पुनरलङ्करणत्वं, तत्र प्रथमस्य तावल्लक्षणवाक्यमेव दुरधिगमसमन्वयम्

उदात्तमृद्धिमद्वस्तु // वजी_पू३.५५अ ।।
इति ।

अत्र यद्वस्तु तदुदात्तम्, अलकरणं कीदृशमित्याकाङ्क्षायाम् ऋद्धिमदित्यनेन यदि विशेष्यते तत्तदेव संपदुपेतं वस्तु वर्ण्यमानमलङ्कार्यं तदेवालङ्करणमिति स्वात्मनि क्रियाविरोधलक्षणस्य दोषस्य दुर्निवारत्वात् स्वरूपादतिरिक्तस्य वस्त्वन्तरस्याप्रतिभासनात् ऊर्जस्विवदुदात्ते ऽ(पि भूष)णभावानुपपत्तिः ।
अथवा ऋद्धिमद्वस्तु यस्मिन् यस्येत्यपि व्याख्यानं क्रियते, तथापि तदन्यपदार्थलक्षणं वस्तु वक्तव्यमेव यत्समासार्थोपनीतम् ।
तत्काव्यमेव तथाविधं भविष्यतीति चेत्तदपि न किञ्चिदेव, यस्मात् काव्यस्यालङ्कार इति प्रसिद्धिर्न पुनः काव्यमेवालङ्करणमिति ।
यदि वा ऋद्धिमद्वस्तु यस्मिन् यस्य वा इत्यसावलङ्कारः (एव) समासार्थेनोपनीयते तथापि वर्णनीयादलङ्करणमतिरिक्तमलङ्करणकल्पमन्यदत्र (न किं) चिदेवोपलभ्यते इत्युभयथापि शब्दार्थासंगतिलक्षणो दोषः संप्राप्तावसरः संपद्यते ।
किं चोदात्तस्यालङ्करणत्वे सति, अलङ्करणान्तरविधानात् तदपेक्षानिबन्धनस्य संसृष्टिसंकरव्यपदेशस्याप्रसिद्धेरन्यस्मिन् विषये वर्णनीयान्तरे रूपकादिवत् तद्विरुद्धस्य समृद्धिरहितस्य वर्णनीयान्तरस्य चालङ्कारत्वप्रसंगात् उदात्तस्य न कथञ्चिदपि भूषणत्वोपपत्तिरस्ति ।
तथा द्वितीयस्याप्युदात्तप्रकारस्यालङ्कार्यत्वमेवोपपन्नं, न पुनरलङ्कारभावः ।
तथा चैतस्य लक्षणम्---

"..........चरितं च महात्मनाम् ।
उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्" // वजी_पू३.५५ब्च्द् ।।

इति ।
तत्र वाक्यार्थपरमार्थविद्भिरेवं पर्यालोच्यताम्, यन्महानुभावानां व्यवहारस्य लक्षणमात्रवृत्तेरन्वयः प्रस्तुते वाक्यार्थे कश्चिचत् विद्यते न वेति ।
तत्र पूर्वस्मिन् पक्षे तत्र तदलीनत्वात् पृथगभिधेयस्यापि पदार्थान्तरवत् तदवयवत्वेनैव व्यपदेशोन्याय्यः,पाण्यादेरिव शरीरे, न पुनरेवालङ्कारभावो ऽपि इति ।
द्वितीयस्मिन् पक्षे तदन्वयाभावादेव वाक्यान्तरवर्तिपदार्थवत् तत्र तस्य सत्तैव न संभवति इति न पुनरलङ्कारचर्चा ।
ननु च रूपकादेरलङ्कारस्यापि तत्रान्वयो विद्यते, ततस्तस्यापि तदन्वितत्वात् अलङ्कारता निवर्तते ।
सत्यमेतत्, किं तु तदन्वितस्य द्वैविध्यं विद्यते, अपकर्षान्तरवत् प्रस्तुततात्पर्याङ्गभावेन, विभूषणान्तरवत् तदुपशोभाकारित्वमात्रेणैव च ।
तत्र पूर्वस्मिन् पक्षे युक्तरुक्तैव ।
तद्विच्छत्तिविधायित्वमात्रे महापुरुषचरितस्य दूषणानीति न दुष्परिहारण्येव ।
तद्विरुद्धवृत्तेर्वर्णनीयान्तरस्यालङ्कारत्वप्रसङ्गः ।
अलङ्कारान्तरसंनिधाने तदपेक्षानिबन्धनसंसृष्टिसंकरव्यपदेशयोग्यता, विषयान्तरे ऽप्यलङ्कारान्तरवत् प्रवर्तनं चेति ।
यदपि समञ्जसोदाहरणबन्धनव्यसनितया पूर्वसूरिभिरत्रादरप्रथनपूर्वकं प्रतिष्ठितम्, तदपि प्रस्तुततात्पर्यपरायत्तवृत्तित्वादेव (सहृदयभाव) नां प्रति मनागपि न पात्रतां प्रतिपद्यते ।
यथा

नेथा कुन्थपृथक् तर्जरत्ता... ...मस्थापत्तेः विच्छित्ति...(?) // वजी_पू३.५६ ।।

महेन्द्रकन्दरक्वणत्कर्णेषु टङ्कान्विताः ते नीला...शेखरशरक्षेपैकवीथीभुवा... दुर्गा अविगाहिताः शशिरुचा कीर्त्या वसन्त्यास्तव (?) // वजी_पू३.५७ ।।

(अत्र पूर्वापरवर्णितः महापुरुषचरितलक्षणपदार्थो (व्यतिरेकोपबृंहितः?) प्रस्ततवाक्यार्थतात्पर्यमेव विघटते, न पुनस्तदुपशोभामात्रमेव ।
तथाचायमत्राभिप्रायो यदस्खलितैः लैखमहापुरुषपुरुष (प्रभृतिः सकलसंचारितचरितापसरणं संरंभमात्मसात्कृते च कार्ये तदतिरिक्तवृत्तान्तपुरुषान्तरव्यतिरेकेण न कस्यचिदन्यस्य निःसामान्यवृत्तेरपि प्रकाशते ।
तस्मात्तथाविधमहासत्त्वापदानमहमुदितेष्वपि तेषु प्रदेशेषु भवतः परं प्रतापः प्रथितुं प्रगल्भत इति ?) एवं समाहितस्याप्यलङ्कार्यत्वमेव न्याय्यम् न पुनरलङ्करणभावः ।
तदाह---"तथा समाहितस्यापि" ।
"तथा"---तेनैव प्रकारेण पूर्वोक्तेनसमाहिताभिधानस्य चालङ्कारस्य "भुषणत्वम्" अलङ्करणत्वं न विद्यते नास्तीत्यर्थः ।
तथाहि तस्येदं लक्षणम्---

रसभावतदाभासप्रशमो ऽविदितक्रमः (?) अन्यानुभावनिश्शून्यरूपो यस्तत्समाहितम् // वजी_पू३.५८ ।।

रसभावतदाभासानां प्रशमव्यपदेशविषयो दशाविशेषः, तदनन्तररसावतारतरङ्गवर्जितो निजव्यञ्जकव्यापारविरामविश्रान्तविभ्रमः प्रथमपरिस्पन्दैः परिसमाप्तेः उत्तरसमुदायादनभिव्यक्तेरसंवेद्यमानक्रमः सन्ध्यासमयनिभसंनिवेशविशेषः सत्कविभिरपि कथञ्चिदुन्नेयवृत्ति (र) निमित्तमनोहरः समाहितमलङ्करणम् ।
तथा

अक्ष्णोः स्फुटाश्रुकलुषो ऽरुणिमा विलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या ।
भावान्तरस्य (तव) गण्डगतो ऽपि कोपो नोद्गाढवासनतया प्रसरं ददाति // वजी_पू३.५९ ।।

तदपि न संपत् (सम्यक्) समाहितम् ।
यस्माद्रसादिविशेषस्य सतस्तस्य स्वरूपलोभः ।
तेषां च चित्तवृत्तिविशेषत्वात् भूषणत्वे निपिद्धस्यापि तदेकरूपत्वात् कथं तदुपपद्यते ।
किं च प्रधानचेतनस्वरूपत्वात् वर्णनीयस्वभावभूतस्य (तदन्यविधस्य) अर्थात्मनः सहजव्यञ्जकासहिष्णोः व्यतिरिक्तपदार्थान्तरसंपर्कसहत्वं स्वच्छस्वभावत्वादेव न कथञ्चिदपि समञ्जसतां समासादयतीत्येवं स्वरूपादतिरिक्तपदार्थान्तरस्याप्रतिभासनादित्यादि यथासंभवमनिवार्यम् ।
यदपि कैश्चित्प्रकारान्तरेण समाहिताख्यमलकरणमाख्यातं तस्यापि तथैव भूषणत्वं न विद्यते, तदभिधत्ते---

"तथा समाहितस्यापि प्रकारद्वयशोभिनः" // वजी_पू३.६० ।।

पूर्वोक्तेन प्रकारेण अनेन चापरेणेति द्वाभ्यां प्रकाराभ्यां शोभमानस्य समाहितस्यालङ्करणत्वं न सभवति ।
तथाचास्य लक्षणोदाहरणे---

किञ्चिदारभमाणस्य कार्यं दैववशात् पुन ।
तत्साधनसमापत्तिर्यत्तमाहुः समाहितम् // वजी_पू३.६१ ।।

इति ।
स्पष्टार्थमिदं वाक्यम् ।

मानमस्या निराकर्तुं पादयोर्मे पतिप्यतः ।
उपकाराय दिष्टयैतदुदीर्णं घनगर्जितम् // वजी_पू३.६२ ।।

अत्र पूर्वस्य पूर्वस्य वस्तुनः प्रधानं समर्थनमुत्तरत्र समाहित (मिति) यदुच्यते तदास्तां, समाहितशब्दवाच्यत्वे न केनचित् (निवार्)यते ।
अलङ्करणत्वं पुनर्द्धयोरपि सरसवृत्तत्वात् गुणप्रधानभावस्याभावान्न किञ्चिदुपपद्यते ।
द्वयोरपि वस्तुधर्मतया वर्णनीयत्वमेव समानं (तदर्थं घनगर्जितमु)दीर्णमिवेति प्रतीतावुत्प्रेक्षा भविष्यति इत्यलमतिप्रसङ्गेन ।
तदेवं चेतनाचेतनपदार्थभेदभिन्नं स्वाभाविकसौकुमार्यमनोहरं वस्तुनः स्वरूपं प्रतिपादितम् ।
इदानीं तदेव कविप्रतिभोल्लिखितलोकोत्तरातिशयशालितया नवनर्मितं मनोज्ञतामुपनीयमानमालोच्यते ।
तथाविधभूषणविन्यासविहितसौन्दर्यातिशयव्यतिरेकेण भूष्यत्वनिमित्तभूतं न तद्विदाह्लादकारितायाः कारणम् ।

प्रसिद्धो वस्तुधर्मो यो न विच्छित्त्याश्रयो भवेत् ।
तदेवं कविमुख्यानां वर्णनायोगमास्थितः // वजी_पू३.६३ ।।

तस्य लोकोत्तरोत्कर्षलेखालगितवृत्तिभिः ।
गुणैः (श्च) भासमानस्य नवत्वमुपपद्यते // वजी_पू३.६४ ।।

इत्यन्तरश्लोकौ ।
तदेवं नूतनातिशयविधायिनः काव्यार्थस्वरूपस्य अलङ्काराः ।
ततस्तानेवोपक्रमते---

अभिधायाः प्रकारौ स्तः को ऽप्येनं स्फुटयत्यसौ ।
काव्यस्य कश्चिद्विच्छित्तिं द्योतयत्यङ्गतः स्थितः // वजी३.१४ ।।

अभिधाया इत्यादि ।
रसवदलङ्कारादिः कश्चिदंशेन वर्तमानो विभूष्यस्य शोभातिशयमावहति ।
कश्चिदङ्गतो व्यवस्थितस्तस्य मुख्यतां द्योतयन्नात्मनो विभूषणभावमाविष्करोतीति चोदाहरिष्यामः ।
इदानीमेतदेव विभज्य विचारयति---

यथा स रसवन्नाम सर्वालङ्कारजीवितम् ।
काव्यैकसारतां याति कथेदानीं विचार्यते // वजी३.१५ ।।

यथेत्यादि ।
"यथा स रसवन्नाम"---ठयथाऽ येन प्रकारेण "सःऽ---पूर्वप्रख्यातवृत्तिरलङ्कारो (रसवन्नाम) रसवदभिधानः "काव्यैकसारतां याति" कविकर्मैकसर्वस्वतां प्रतिपद्यते ।
"सर्वालङ्कारजीवितं"---सर्वेषामलङ्काराणामुपमादीनां "जीवितं" स्फुरितभूतं च संपद्यते, "तथा"---तेनप्रकारेण"इदानीं" अधुना "विचार्यते"---विवच्यते, लक्षणोदाहरणभेदेन वितन्यते ।
तमेव रसवदलङ्कारं लक्षयति---

रसेन वर्तते तुल्यं रसवत्त्वविधानतः ।
यो ऽलङ्कारः स रसवत् तद्विदाह्लादनिर्मितेः // वजी३.१६ ।।

रसेनेत्यादि ।
यो ऽलङ्कारः स रसवदिति ।
यः किलैवंस्वरूपो रूपकादिः स रसवदभिधीयते ।
किंस्वभावः? "रसेन वर्तते तुल्यं"---रसेन शृङ्गारादिना तुल्यं वर्तते समानमातिष्ठति ।
यथा ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत् क्षत्रियस्तथैवसौ रसवदलङ्कारः ।
कस्मात् ? "रसवत्त्वविधानतः"---रसो ऽस्यास्ति इति रसवत् काव्यं, तस्य भावस्तत्त्वं, तद्विधानतः---सरसत्वसंपादनात् ।
(कुतः?) "तद्विदाह्लादनिर्मितेः"---तत् काव्यं विदन्तीति तद्विदः तज्ञाः, तेषामाह्लादनिर्मितेरानन्दनिष्पादनात् ।
यथा रसः काव्यस्य रसवत्तां तद्विदाह्लादं च विदधात्येवमुपमादिरप्युभ्यं निष्पादयन् रसवदलङ्कारः संपद्यते ।
यथा उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद्गलितं न लक्षितम् // वजी_पू३.६५ ।।

अत्र स्वावसरसमुचितसुकुमारस्वरूपयोर्निशाशशिनोर्वर्णनीयत्वं प्राधान्येन वाक्यार्थशरीरम् ।
तत्कान्तिकारितया रूपकालङ्कारः समारोपितकान्तवृत्तान्तः कविनोपनिबद्धः ।
स च श्लेषच्छायामनोज्ञविशेषणवक्रभावात् विशिष्टलिङ्गसामर्थ्याच्च सुतरां समुद्भासमानः काव्यस्य सरसतां समुल्लासयन् तद्विदामाह्लादमादधानः स्वयमेव रसवदलङ्कारतां समासादितवान् ।
यथा विलासिनीवल्लभादिशब्दाभिधान(मन्तरेणापि) तत्स्वरूपसमर्पणसामर्थ्यरूपकस्य सम्भवति तथैकदेशविवर्तिरूपकविचारावसरे सुतरां समुन्मीलयिष्यामः ।
न चात्र पूर्वोक्तानि दूषणानि (संसृष्टिसंकरादीनि) प्रभवितुं शक्नुवन्ति ।
"तथा चान्यत्र दर्शनात्" इति विषयान्तरे परिदृश्यमानत्वादनेनैवोदाहरणेन (तत्) परिहृतम् ।
"स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात्" इत्यलङ्कार्यालङ्करणयोरपृथग्भावस्य अलङ्कार्यत्वे स्वात्मनि क्रियाविरोधात्तस्यैवालङ्करणत्वानुपपत्तिरुदाहरणान्तरैः परिहृता ।
यथा

चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकरचः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती // वजी_पू३.६६ ।।

अत्र परमार्थः---प्रधानवृत्तेः शृङ्गारस्य भ्रमरसमारोपितकान्तवृत्तान्तो (रूपकं) रसवदलङ्कारः शोभातिशयमाहितवात् ।
यथा वा

कपोले पत्राली // वजी_पू३.६७ ।।

इत्यादौ ।
तदेवमनेन न्यानेन

"क्षिप्तो हस्तावलग्न" // वजी_पू३.६८ ।।

इत्यत्र रसवदलङ्कारप्रत्याख्यानमयुक्तम् ।
सत्यमेतत्, कितुं विप्रलम्भशृङ्गार (स्याङ्ग) ता तत्र निवार्यते, शेषस्य पुनस्तत्तुल्यवृत्तान्ततया रसवदलङ्कारत्वमनिवार्यमेव ।
न चालङ्कारान्तरे सति रसवदपेक्षानिबन्धनः संसृष्टिसंकरव्यपदेशप्रसङ्गः प्रत्याख्येयतां प्रतिपद्यते ।
यथा

अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
सुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी // वजी_पू३.६९ ।।

अत्र रसवदलङ्कारस्य रूपकादीनां च संनिपातः सुतरां समुद्भासते ।
तत्र "चुम्बतीव रजनीमुखं शशी"ति उत्प्रेक्षालक्षणस्य रसवदलङ्कारस्य प्राधान्येनोपनिबन्धः ।
तदङ्गत्वेनोपमादीनाम् ।
केवलस्य प्रस्तुततरसपरिपोषापरिनिष्पत्तेः ।

ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार // वजी_पू३.७० ।।

इति ।
अत्र समयसंभवः पदार्थस्वभावः तद्वाचकेवादिशब्दाभिधानं विना प्रतीयमानोत्प्रेक्षालक्षणेन रसवदलङ्कारएम कविनाकामपिकमनीयतामधिरोपितः ॑ प्रतीत्यन्तरमनोहारिणां सकलङ्कादीनां वाचकानामुपनिबन्धात्, पाण्डुपयोधरेणार्द्रनखक्षताभमैन्द्रं धनुः दधानेति श्लेषोपमयोश्च तदानुगुण्येन विनिवेशनात् (च) ।
एवं सकलङ्कमपि प्रसादयन्ती परस्याभ्यधिकं तापं चकारेत्येवंरूपः प्रकारो हि रूपकालङ्कारनिबन्धनः प्रकटाङ्गनावृत्तान्तसमारोप (रमणीयः) सुतरां समन्वयं समासादितवान् ।
अत्रापि प्रतीयमानवृत्तेः रसवदलङ्कारस्य प्रधान्यं, तदङ्गत्वमुपमादीनामिति पूर्ववदेव सङ्गतिः ।
यत्रापि प्रथमोद्भेदमनोहररत्यादिवदाचरणमलङ्काराणां तत्राप्ययमेव समन्वयः सहृदयैः स्वयमनुसन्धेयः ।
यथा

लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं निवेश्य ।
रागेण बालारुणकोमलेन चुतप्रवालोष्ठमलञ्चकार // वजी_पू३.७१ ।।

अत्र समारोपितनायिकावृत्तान्तस्य श्लेषच्छायासहायस्य रूप (कस्य तद्वदा) चरणात् रसवदलङ्कारत्वम् ।
यदपि नीरसप्रायं पदार्थजातं तदपि सर्वमनेनैव सरसतामुपपद्यते ।
यथा

"बालेन्दुवक्राणि" // वजी_पू३.७२ ।।
इति ।

तदेवमयं सकलकाव्योपनिषद्भूतः काष्ठकुड्योपमानां पदार्थानामलङ्काराणां किमपि स्फुरितं समर्थयंश्चेतनचमत्कारकारितायाः कारणतां प्रतिपद्यते ।

अयं स रसवन्नाम सर्वालङ्करणाग्रणीः ।
चूडामणिरिवाभाति कायोत्कर्षैककारणम् // वजी_पू३.७३ ।।

कविकौशलसर्वस्वमद्योद्धाटितमञ्जसा ।
विपश्चितां विचारस्य गोचरत्वं गमिष्यति // वजी_पू३.७४ ।।
इत्यन्तरश्लोकौ ।

एवं नीरसानां पदार्थानां सरसतां समुल्लासयितुं रसवदलङ्कारं समासादितवान् ।
इदानीं स्वरूपमात्रेणैवावस्थितानां वस्तूनां कमप्यातिशयमुद्दीपयितुं दीपकालङ्कारमुपक्रमते ।
तच्च प्राचीनाचार्यैरादिदीपकं मध्यदीपकम् अन्तदीपकमिति दीप्यमानपदापेक्षया वाक्यस्यादौ मध्ये ऽन्ते च व्यवस्थितं, दीपयतीति क्रियापदमेव दीपकाख्यमलङ्करणमाख्यात्म् ।
यथा

मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् ।
स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् // वजी_पू३.७५ ।।

मालिनीरंशुकभृतः स्त्रियो ऽलङ्कुरुते मधुः ।
हारीतशुकवाचश्च भूधराणामुपत्यकाः // वजी_पू३.७६ ।।

चीरीमतीररण्यानीः सरितः शुष्यदम्भसः ।
प्रवासिनां च चेतांसि शुचिरन्तं निनीषति // वजी_पू३.७७ ।।

अत्र क्रियापदानां दीपकत्वं प्रकाशकत्वम्, यस्यमात् क्रियापदैरेव प्रकाश्यन्ते स्वसंबन्धितया ख्याप्यन्ते ।
तदेवं सर्वस्य कस्यचिद्दीपकव्यतिरेकिणो ऽपि क्रियापदस्यैकरूपत्वात् दीपकाद्वैतं प्रसज्यते ।
किं च शोभातिशयकारित्वस्य युक्तशून्यत्वे अलङ्करणत्वानुपपत्तिः ।
अन्यच्चास्तां तावत्क्रिया ।
एवं यस्य कस्यचिद्वाक्यवर्तिनः कदस्य संबन्धितया पदान्तरद्योतनं स्वभाव एव ।
परस्परान्वयसंबन्धनिबन्धनत्वात् वाक्यार्थस्वरूपस्येति पुनरपि दीपकवैश्वरूप्यमायातम् ।
आदौ मध्ये चान्ते वा व्यवस्थितं क्रियापदमतिशयमासादयति येनालङ्कारतां प्रतिपद्यते (इति चेत्) तेषां च वाक्यादीनां परस्परं तथाविधः कः स्वरूपातिरेकः (विशेषः) संभवति क्रियापदप्रकारभेदनिबन्धनं वाक्यस्य यदादिमध्यान्तं तदेतदर्थकवाक्यादिष्वपि संभवतीत्येवमपि दीपकप्रकारानन्त्यप्रसङ्गः ।
दीपकालङ्कारविहितवाक्यान्तर्वर्तिनः क्रियापदस्य भ्वादिव्यतिरिक्तत्वमेव काव्यत्वव्यपदेशः ।
यदि वा समानविभक्तीनां बहूनां कारकाणामेकं क्रियापदं प्रकाशकं दीपकमित्युच्यते, तत्रापि काव्यच्छायातिशयकारितायाः किं निबन्धनमिति वक्तव्यमेव ।
प्रस्तुताप्रस्तुतविषयसामर्थ्यसंप्राप्तप्रतीयमानवृत्तिसाम्यमेव नान्यत्किञ्चिदित्यभियुक्ततरैः प्रतिपादितमेव ।
यथा

आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः ।
अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः // वजी_पू३.७८ ।।

उदाहृतं च ग्रन्थान्तरे यथा

चङ्कम्मन्ति करीन्दा दिसागअमअगन्धहारिअहिअआ ।
दुःख बणे च कैणो भणिइविसममहाकैमग्गे // वजी_पू३.७९ ।।
चङ्क्रम्यन्ते करीन्द्रा दिग्गजमदगन्धहारितहृदयाः ।
दुःखं वने च कवयो भणितिविषममहाकविमार्गे ।।
इति छाया ।

अत्र (प्रस्तुताप्रस्तुतविषयसामर्थ्यसंप्राप्त) साम्यसमुल्लसितं सहृदयहृदयाह्लादकारि काव्यरामणीयकं स्वरूपमेव ।
क्रियापदं पुनर्वाक्याविनाभावि वाक्यान्तरवद् व्यवस्थितम्, अत्रैव पदान्तरवच्च ।
(अयम)त्र वाक्यार्थः ।
यथा दिक्कुञ्जरमदामोदसुहितमानसाः करीन्द्राः कानने कथमपि दुःखं चङ्क्रम्यन्ते, तथा भणितिविषमे वक्रोक्तिविचित्रे महाकविमार्गे कवय इति चशब्दस्यार्थः ।
ते हि साभिमानाः सन्तः तदतिरिक्तपरिस्पन्दतया वर्तितुमीहमानाः कृच्छ्रेण समाचक्षिरे इत्यभिप्रायः ।
तस्मात् साम्यैकजीवितमलङ्करणमिदं प्रतीयमानत्वान्मनोहारि प्रकारान्तरम् ।
(यत्र) त्रिविधं हि प्रतीयमानवृत्तिसाम्यं समुद्भासते तत्रायमेव न्यायो ऽनुसन्धेयः ।
शिष्टं पुनर्वार्तामात्रमेव, यथा

गतो ऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः // वजी_पू३.८० ।।

इति ।
तदिदानीं दीपकमलङ्कारान्तरकरणं कलयन् कामपि काव्यकमनीयतां कल्पयितुं प्रकारान्तरेण प्रक्रमते---

औचित्यावहमम्लानं तद्विदाह्लादकारणम् ।
अशक्तं धर्ममर्थानां दीपयद्वस्तु दीपकम् // वजी३.१७ ।।

औचित्यावहमित्यादि ।
"वस्तु दीपकं" वस्तु सिद्धरूपमलङ्करणं ।
भवतीति संबन्धः, क्रियान्तराश्रवणात् ।
तदेवं सर्वस्य कस्यचिद्वस्तुनः सद्भावात्तदापत्तिरित्याह---"दीपयत्" प्रकाशयदलङ्करणं संपद्यते ।
किं कस्येत्यभिधत्ते---"धर्मं" = परिस्पन्दविशेषम्, "अर्थानां" = वर्णनीयानाम् ।
कीदृशं---"अशक्तम्" = अप्रकटम्, तेनैव प्रकाशमानत्वात् ।
किंस्वरूपं च---"औचित्यावहं" = औचित्यमौदार्यमावहतियः तं तथोक्तम् ।
अन्यच्च किंविधम्---"अम्लानं" = प्रत्यग्रमनालीढमिति यावत् ।
एवंविधस्वरूपत्वात् "तद्विदाह्लादकारणं" = काव्यविदानन्दनिमित्तम् ।
अस्यैव प्रकारान्तरान् निरूपयति---

एकं प्रकाशकं, सन्ति भूयांसि भूयसां क्वचित् ।
केवलं पङ्क्तिसंस्थं वा द्विविधं परिदृश्यते // वजी३.१८ ।।

एकमिति ।
"द्विविधं परिदृश्यते" = द्विप्रकारमवलोक्यते लक्ष्ये विभाव्यते ।
कथं ?"केवलं" = असहायं, "पङ्क्तिसंस्थं वा " पङ्क्तौ व्यवस्थितं तत्तुल्यकक्षायां सहायान्तरोपरचितायां वर्तमानम् ।
कथम् ? "एकं" (भूयसा) बहूनां पदार्थानामेकं "प्रकाशकं" दीपकं केवलमित्युच्यते ।
यथा वा

असारं संसारम् // वजी_पू३.८१ ।।

इत्यादि ।
अत्र "विधातुं व्यवसितः" कर्ता संसारादीनामसारत्वप्रभृतीन् धर्मान् उद्योतयन् दीपकालङ्कारतामवाप्तवान् ।
पङ्क्तिसंस्थं (?) "भूयांसि" = बहूनि वस्तूनि दीपकानि "भूयसां" प्रभूतानां वर्णनीयानां "सन्ति वा क्वचित्" भवन्ति वा कस्मिंश्चिद्विषये ।
यथा

कैकेसरी वअणाणा मोतिअरअणाणा आइवेअटिओ ।
ठाणाठाण जाणै कुसुमाण अ जीणमालारो // वजी_पू३.८२ ।।
कविकेसरी वचनानां मौक्तिकरत्नानामादिवैकटिकः ।
स्थानास्थानं जानाति कुसुमानां च जीर्णमालाकारः ।।
इति छाया ।

चिरन्तनैरेतदेवोदाहृतं, तच्चायुक्तमिति पूर्वपक्षतां प्रापितमिदानीं किमेतस्याप्यतिरिक्तत्वमायाति, येन सिद्धान्तसिद्धमनुपादेयतामधितिष्ठति ? युक्तमुक्तम् ।
किं तु तैर्वाक्यैकदेशवृत्ति क्रियापदं कारकाणि बहूनि स्वसंबन्धितया प्रकाशयदेकं दीपकमित्यभिहितम्, (वयं)पुनस्तान्येव कारकाणि वर्णनीयानां वस्तूनां कमप्यतिशयं प्रकाशयन्ति बहूनि दीपकानीति ब्रूमः ।
तथा च "स्थानास्थानं जानाति" इत्यस्यायमभिप्रायः ।
प्रस्तुतवस्तुशोभातिशयावहं कमप्यवकाशविशेषं वेत्तीति ।
किमुक्तं भवति ? कविकेसरी पदानामुपनिबन्धविदग्धतया कमपि छायातिशयमुत्पादयति, मौक्तिकरत्नानां चादिवैकटिकः, कुसुमानां च जीर्णमालाकार इति ।
यद्यपि पदानां केसरिप्रभृतीनां च सजातीयापेक्षया परस्परप्रतीयमानवृत्तिसाम्यं समुद्भासते, तथापि प्राधान्याद्दीपकं तात्पर्यपर्यवसितम् ।
वाक्यार्थेन साम्यं पुनः नात्र परिभासते ।
यथा वा

चन्द्रमऊएहिंणिसा णलिनी कमलेहिं कुसुमगुच्छेहिं लआ ।
हंसेहिं सारअसोहा कव्वकहा सज्जनेहिं करै गरुरि // वजी_पू३.८३ ।।
चन्द्रमयूशैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता ।
हंसैश्शारदशोभा काव्यकथा सज्जनैः क्रियते गुर्वो ।।
इति छाया ।

अत्र ऐ(न्दव मयूखादिभि) रेताः सर्वाः समुल्लासितशोभातिशयाः संपद्यन्त इति कर्तृपदान्येव बहूनि दीपकानि ।
शिष्टं पूर्ववदेव सर्वं समादेयम् ।

(अपरं त्रिप्रकारं च क्वचिद्भूयांसि भूयसा ।
दीपकं दीपयत्यन्यत्तदन्यद्दीपयन्मतम्) // वजी३.१९ ।।

तदपरं पङ्क्तिसंस्थं नाम (अवस्थाभेद) कारणात् "त्रिप्रकारं" त्रयः प्रकाराः प्रभेदाः यस्येति विग्रहः ।
तत्र प्रथमस्तावत् अनन्तरोक्तो भूयांसि भूयसां क्वचिद्भवन्तीति ।
द्वितीयो "दीपकं दीपयत्यन्यत्तदन्यत्" इति (यद) न्यस्यातिशयोत्पादकत्वेन दीपकम् ।
यद्विहितं तत्कर्मभूतमन्यत् कर्तृभूतम् ।
"दीपयति" = प्रकाशयति, "तदुप्यन्यद्दीपयति" इति ।
द्वितीयदीपकप्रकारो यथा--- क्षोणीमण्डलमण्डनं नृपतयस्तेषां श्रियो भूषणं ताः शोभां गमयत्यचापलमिदं प्रगल्भ्यतो राजते ।

तद्भूष्यं नयवर्त्मना तदपि चेत् शौर्यक्रियालङ्कृतं बिभ्राणं यदियत्तया त्रिभुवनं छेत्तुं व्यवस्येदपि // वजी_पू३.८४ ।।

अत्रोत्तरोत्तराणि पूर्वपूर्वपददीपकानि मालायां कविनोपनिबद्धानि ।
यथा वा

शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलङ्क्रिया ।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभषणः // वजी_पू३.८५ ।।

यथा च

चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः // वजी_पू३.८६ ।।

तृतीयप्रकारो ऽत्रैव श्लोकार्धे दीपकशब्दस्थाने दीपितमिति पाठान्तरं विधाय व्याख्येयः ।
तदयमत्रार्थो य "द्दीपितं" यदन्येन केनचिदुत्पादितातिशयसं (पन्नं) वस्तु तत्कर्तृभूतमन्यत् दीपयत् उत्तेजयत् तदन्यदिति ।
यथा

"मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम्" // वजी_पू३.८७ ।।

इत्यादि ।
(ननुपूर्वाचार्यैश्चैतदेव पूर्वमुदाहृतं, तदेव प्रथमं प्रत्याख्यायेदानीं समाहितमित्यस्याभिप्रायो व्याख्यातव्यः ।
सत्यमुक्तम् ।
तदयं व्याख्यायते---क्रियापदमेकमेव दीपकमिति तेषां तात्पर्यम्, अस्माक पुनः कर्तृपदानि दीपकानि बहूनि संभवन्ति इति) ।
(अत्र) प्रीत्यादीनां प्रागभावात्, तेषां सतामभूतप्रादुर्भावं विदधातीति नाभिधीयते, मदादिनियतकारणत्वाभावात् ।
अपि तु स्वसंवृत्तानां कमप्यपूर्वमतिशयमुत्पादयति ।
जनयतीति क्रियापदस्यार्थः यौवनं परमङ्गनानां लावण्यं जनयतीति ।
अथवा ज्वलयतीति पाठान्तरं परिकल्प्योदाहार्यम् ।
इदानीमेतदेवोपसंहरति---

यथायोगिक्रियापदं मनः संवादी तद्विदाम् ।
वर्णनीयस्य विच्छित्तेः कारणं वस्तु दीपकम् // वजी३.२० ।।

"यथायोगिक्रियापदम्" = यथा येन प्रकारेण युज्यते इति यथायोगि, क्रियापदं यस्य तत्तथोक्तं तेन यथासंबन्धमनुभवितुं शक्नोति ।
यथा दीपके क्रिया, "तद्विदां" काव्यज्ञानां ("मनःसंवादि")मनसि संवदति = चेतसि प्रतिफलति यत् (तदपि) तथोक्तम् ।
(एवं दीपकमभिधाय) साम्यप्रायं रूपकं विविनक्ति---

उपचारैकसर्वस्वं (यत्र तत्) साम्यमुद्वहन् ।
यदर्पयति रूपं स्वं वस्तु तद्रुपकं विदुः // वजी३.२१ ।।
वर्णनीयस्य विच्छित्तेः कारणं (द्विविधं स्मृतं) ।
समस्तवस्तुविषयमेकदेशविवर्ति च // वजी३.२२ ।।

उपचारेत्यादि ।
"वस्तु तद्रूपकं विदुः"---"तद्वस्तु" = पदार्थस्वरूपं "रूपकं" = रूपकाख्यमलङ्कारं विदुर्जना इति ।
कीदृशं---"यदर्पयति" "यत्" कर्तृभूतम् "अर्पयति" विन्यस्यति ।
किं---"स्वं" = आत्मीयं "रूपं" वाच्यस्य वाचकात्मकं परिस्पन्दम्, अलङ्कारप्रस्तावादलङ्कारस्यैव स्वसंबन्धित्वात् ।
किं कुर्वत्---"साम्यमुद्वहत्" = समत्वन्धारयत् ।
अन्यच्च (कीदृशं साम्यं) "वर्णनीयस्य विच्छित्तेः कारणम्" "वर्णनीयस्य" = प्रस्तावाझिकृतस्य पदार्थस्य "विच्छित्तेः" = उपशोभायाः "कारणं" = निमित्तभूतम्, न पुनर्जन्यत्व प्रमेयत्वादिसामान्यं, यस्मात्तेनैव पूर्वोक्तलक्षणसाम्येन वर्णनीयं सहृदयहृदयाह्लादकारितामवतरति ।
"उपचारैकसर्वस्वं" "उपचारः" = तत्त्वाध्यारोपः, तस्यैकं सर्वस्वं केवलमेव जीवितं, तन्निबन्धनत्वात् रूपकप्रवृत्तेः ।
यस्मादुपचारवक्रताजीवितमेतदलङ्करणमिति प्रथममेव समाख्यातं "यन्मूलासरसोल्लेखा रूपकादिरलङ्कृतिः " इति ।
तदेव पूर्वसूरिभिरभ्यधायि ।
तदेवं मुखमिन्दुरिति रूपकमलङ्करणम् ।
तत्किमन (योः) (विशेषणविशेष्ययोः) भिन्नस्वरूपयोः सामानाधिकरण्यस्य कारणम् ? उच्यते ।
इन्दुशब्दः प्रथममाञ्जस्येन चन्द्रमसि वर्तमानः प्रत्यासत्तिनिबन्धन (त्वाद्) अतिकान्तिमत्त्वादिगुणवृत्तितामवलम्बते ।
ततस्तस्मादेतत्सदृशवक्तृगतगुणवृत्तिः सन् वदनविशेषणतां प्रतिपद्यमानश्चेतनचमत्कारितां प्रतिपद्यते ।
(उपमेयशब्दः) स्वाभिधे (याविना) भूतवृत्तितां (उपमान)शब्दस्य नियमयतीत्येतस्मादेव विशेषणविशेष्यभावनिबन्धनात् मुखेन्दुरित्यत्र समासोपपत्तिः ।
तस्मादेव च सहृदयहृदयसंवादमाहात्म्यात् "मुखमिन्दुः" इत्यादि न केवलं रूपकं, यावत् "किं तारुण्यतरोः" इत्येवमाद्यपि ।
एवं रूपकसामान्यलक्षणस्वरूपमुल्लिख्य प्रकारपर्यालोचनेन तदेवोन्मीलयति--- "समस्तवस्तुविषयम्" इति ।
समस्तवस्तुविषयो यस्य तत्तथोक्तं॑ तदयमत्र वा (क्यार्)थः---यद् सर्वाण्येव प्राधान्येन वाच्यतया सकलवाक्योपारूढान्यभिधेयानि अलङ्कार्यतया सुन्दरस्वपरिस्पन्दसमर्पणेन गोचरो यस्येति तत् ।
विशेषणानां विशेष्यायत्तत्वात् अस्वातन्त्रयेण पृथगलङ्कार्यत्वाभावात्तेषामविषयत्वात् ।
यथा

तडिद्वलयकक्ष्याणां बलाकामालभारिणाम् ।
पयोमुचां ध्वनिर्धोरो दुनोति मम तां प्रियाम् // वजी_पू३.८८ ।।

इति ।
अत्र विद्युद्वलयस्य कक्ष्यात्वेन, बलाकानां तन्मालात्वेन रूपणं विद्यते॑ पयोमुचां पुनर्दन्तिभावेन नास्तीत्येक (देश) विवर्तिरूपकमलङ्कारः ।
तदत्यर्थं युक्तियुक्तम् ।
यस्मादलङ्कारणस्यालङ्कार्यशोभातिशयोत्पादनमेव प्रयोजनं नान्यत्किञ्चिदिति ।
तदुक्तरूपकप्रिकारापेक्षया किञ्चिद्विलक्षणमेतेन यदि संपाद्यते तदेतस्य रूपकप्रकारान्तरत्वोपपत्तिः स्यात् ।
तदेतदास्तां तावत् ॑प्रत्युत कक्ष्यादिरूपणोचितमुख्यवस्तुविषये विघटमानत्वादलङ्कारदोषत्वं दुर्निवारतामवम्बते ।
तस्मादन्यथैवैतदस्माभिः समाधीयते ।
रूपकालङ्कारस्य परमार्थस्तावदयं, यत्प्रसिद्धसौन्दर्यातिशयपदार्थसौकुमार्यनिबन्धनं वर्णनीयस्य वस्तुनः साम्यसमुल्लिखितं स्वरूपसमर्पणग्रहणसामर्थ्यमविसंवादि ।
तेन मुखमिन्दुरित्यत्र मुखमेवेन्दुःसंपद्यते तेन रूपेण विवर्तते ।
तदेवमयमलङ्कारः (पदपूर्वार्धवक्रतानिबन्धनः प) दार्थमात्रवृत्ति) "अलङ्कारोपसंस्कार-"इत्यादिना पर्यायवक्रभावान्तर्भावात् वाक्यवक्रभावविचारावसरे वक्तव्यतामेव कदाचिन्नाधिगच्छेदिति ।
द्वैविध्यमस्योपपादयति---(समस्तवस्तुविषयं एकदेशविवर्ति चेति) सर्वे वाक्योपयोगिनः पदार्थाः (प्रत्येकं) विभूष्यतया विषया यस्येति प्रत्येकं यथायोगमेतस्मिन्नुपनिबध्यमाने समस्ते ऽपि वर्तन्तेरूपान्तरेणावतिष्ठन्ति ।
यथा

मृदुतनुलतावसन्तः सुन्दरवदनेन्दुबिम्बसितपक्षः ।
मन्मथमातङ्गमदो जयत्यहो तरुणतारम्भः // वजी_पू३.८९ ।।

अत्रैव प्रकारान्तरं विचारयति--- "एकदेशविवर्ति च" इति ।
अत्र पूर्वाचार्यैर्व्याख्यातम्---यथा यदेकदेशेन विवर्तते विघटते विशेषेण वा वर्तते तत्तथोक्तमिति ।
उभयथाप्येतदुक्तं भवति---यद्वाक्यस्य कस्मिंश्चिदेव स्थाने स्वपरिस्पन्दसमर्पणात्मकं रूपणमादधाति ।
क्वचिदेवेति तदेकदेशविवर्तिरूपकम् ।
यथा

हिमाचलसुतावल्लीगाढालिङ्गितमूर्तये ।
संसारमरुमार्गैककल्पवृक्षाय ते नमः // वजी_पू३.९० ।।

एकदेशविवर्तो यत्र तत्तथोक्तम्, एकदेश एव विवर्तते यत्र रूपान्तरेणावतिष्ठते (वा तदेकदेशविवर्ति) रित्यर्थः ।
तेषां विशेषणसामर्थ्यनिबन्धनायाः पदार्थशोभायाः (अत्र) रूपातिशयकारिरूपकालङ्कारनिष्पत्तेः ।
यथा "उपोढरागेण" इत्यादौ तिमिरांशुकमित्यत्रैकदेशविवर्ति(रूपणं) विद्यते ।
शिष्टं पुनः शशिनः कामुकत्वं, निशायाश्च कामिनीत्वं रूपणीयमपि प्रतीत्यन्तरविधायि विशेषणविशिष्टिलिङ्गसामर्थ्यमात्रसमधिगम्यं शब्देनाभि(धीयमानं) पुनरुक्तता ग्राम्यता चाधिरोहति ।

तस्मात् वाच्यं सामर्थ्यलभ्यं च प्रतीत्या च समर्पितम् ।
अलङ्कृतीनामात्मानं त्रिविधं तद्विदो विदुः // वजी३.२३ ।।

तत्र वाच्यं समस्तवस्तुविषयं रूपकं पूर्वमेवोदाहृतम् ।
सामर्थ्यलभ्यं तद् (तु) एकदेशविवर्ति तदेव "उपोढरागेणे"त्यादि ।
प्रतीयमानं यथा

लावण्यकान्तिपरिपूरितदिङ्मुखे ऽस्मिन् स्मेरे ऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जल (ड) राशिरयं पयोधिः // वजी_पू३.९१ ।।

अत्र त्वन्मुखमिन्दुरिति रूपकं प्रतीयमानतया कविनोपनिबद्धम् ।
एकदेशवृत्तित्वमनेकदेशवृत्तित्वं च रूपकस्य दीपकत्वमेव समालक्ष्यमिति तदनन्तरमस्योपनिबन्धनम् ।
तदेव विच्छित्त्यन्तरेण विशिनष्टि---

नयन्ति रूपकं काञ्चिद्वक्रभावरहस्यताम् ।
अलङ्कारान्तरोल्लेखसहायं प्रतिभावशात् // वजी३.२४ ।।

एतदेव रूपकाख्यमलङ्करणं "काञ्चित्" = अलौकिकीं "वक्रभावरहस्यतां" वक्रत्वपरमार्थतां कवयो "नयन्ति" (प्रापयन्ति) ।
तत्रोपनिबन्धनवक्रताविच्छित्त्यन्तराधिरूढायाः रमणीयता(याः) तदेव तत्त्वं परं प्रतिभासते ।
कीदृशम् ?"अलङ्कारान्तरोल्लेखसहायम्"---अलङ्कारान्तरस्य" = अन्यस्य ससन्देहोत्प्रेक्षाप्रभृतेः, "उल्लेखः", समुद्भेदः, (तत्र)"सहयः"काव्यशोभोत्पादने सहकारी यस्य (तत्तथोक्तम्) ।
कस्मान्नयन्ति---"प्रतिभावशात्"---स्वशक्तेरायत्तत्वात् ।
तथाविधे लोकातिक्रान्तकान्तिगोचरे विषये तस्योपनिबन्धो विधीयते ।
यत्र तथाप्रसिद्ध्यभावात् सिद्धव्यवहारावतरणं साहसमिवावभासते ।
विभूषणान्तरसहायस्य पुनरुल्लेखत्वेन विधीयमानत्वात् सहृदयहृदयसंवादसुन्दरी परा प्रौढिरुत्पद्यते ।
यथा

निर्मोकमुक्तिरिव गगनोरगस्य लीलाललाटिकामिव त्रिविष्टपविटस्य // वजी_पू३.९२ ।।

इति ।
अत्र कविप्रतिभाप्रतिभासस्यायमभिप्रायः---यत् लोकोत्तरसौन्दर्यातिशयश्लाघितया वर्णनीयस्य वस्तुनः प्रकारान्तरेणाभिधातुमशक्यत्वम् ।
एवंविधया रूपकालङ्काररेखयापि तथा प्रसिद्ध्यभावादेव निष्कम्पतया व्यवहर्तुं न युज्यते ।
तस्मादस्माकमेवंस्वरूपमेवेदं वर्णनीयंवस्तु प्रतिभातीत्यलङ्कारान्तरमुत्प्रेक्षालक्षणमत्र सहायत्वेनोल्लिखितम् ।
यथा वा

"किं तारुण्यतरोः" // वजी_पू३.९३ ।।

इत्यादि ।
अत्राप्ययमेव न्यायो ऽनुसन्धेयः ।
केवलमनेन कविना सर्वातिशायितया वर्णनीयस्य प्रकारान्तरस्य प्रस्तुतसौकुमार्यसमर्पणसामर्थ्यासंभवादेवंस्वरूपस्य रूपकस्य मुखेन्दुरित्यादिवदप्रसिद्धेः ।
केवलस्योपनिबन्धे "चकितत्वादेवंविधं किमतद्वस्तु स्यादिति सन्दिह्यते मम चेतसा" इति विच्छित्त्या ससन्देहालङ्कारसहायमेतदेवोपनिबद्धमिति चेतस्विनां स्वसंवेदनमेवात्र प्रमाणम् ।
रूपकरूपङ्क नाम---

"भ्रूलतानर्तकी" // वजी_पू३.९४ ।।

इत्यादि लक्षणान्तरस्यासंभवात् उदाहरणमात्रादेव पृथङ् नोपपद्यते, लक्षणानन्त्यप्रसङ्गात्, पुनरपि रूपकान्तरावतारोपपत्तेश्चानवस्थाप्रवर्तनात् ।
एवं रूपकं विचार्य तत्सदृशसाम्यनिर्वचनामप्रस्तुतप्रशंसां प्रस्तौति---

अप्रस्तुतो ऽपि विच्छित्तिं प्रस्तुतस्यावतारयन् ।
पदार्थो वाथ वाक्यार्थः प्राप्यते वर्णनीयताम् // वजी३.२५ ।।
यत्र तत्साम्यमाश्रित्य संबन्धान्तरमेव वा ।
अप्रस्तुतप्रशंसेति कथितासावलङ्कृतिः // वजी३.२६ ।।

अप्रस्तुतेत्यादि ।
"अप्रस्तुतप्रशंसेति (कथितासाव) लङ्कृतिः" "अप्रस्तुतप्रशंसेति" नाम्नासौ कथितालङ्कारविद्भिरलङ्कृतिः ।
कीदृशी---"यत्रऽ-यस्याम्"अप्रस्तुतो ऽपिऽ---अविवक्षितः (अपि) पदार्थः "वर्णनीयताम् प्राप्यते"---वर्णनाविषयः संपद्यते ।
किं कुर्वन् ?"प्रस्तुतस्यऽ-विवक्षितस्यार्थस्य "विच्छित्तिम्ऽ-उपशोभाम् "अवतारयन्ऽ-समुल्लासयन् ।
द्विविधो हि तत्त्वभूतः पदार्थः संभवति ।
वाक्यान्तर्भूतपदमात्रसिद्धोर्ऽथः सकलवाक्यव्यापककार्यो विविधस्वपरिस्पन्दातिशयत्वविशिष्टप्राधान्येन वर्तमानश्च ।
तदुभयरूपमपि प्रस्तुतं प्रतीयमानतया चेतसि निधाय पदार्थान्तरमप्रस्तुतं तद्विच्छित्तिसंपत्तये वर्णनीयतामस्यामलङ्कृतौ कवयः प्रापयन्ति ।
किं कृत्वा ? "तत्साम्यमाश्रिताय"--"तत्"---अनन्तरोक्तं रूपकालङ्कारोपकारि "साम्यं"---समत्वं, आश्रित्य---निमित्तीकृत्य, "संबन्धान्तरमेव वा " "संबन्धान्तरम्"---अपरं वा (संबन्धं) निमित्तभावादि संश्रित्य ।
"वाक्यार्थः"---असत्य (भू) तो वा परस्परान्वितपदसमुदायलक्षणवाक्यकार्यभूतः ।
साम्यं संबन्धान्तरं वा समाश्रित्याप्रस्तुतं प्रस्तुतशोभायै वर्णनीयतां यत्र नयन्तीति ।
तत्र साम्यसमाश्रयणाद्वाक्यान्तर्भूताप्रस्तुतपदार्थप्रशंसोदाहरणं यथा

लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदणडाः // वजी_पू३.९६ ।।

इति ।
अत्र साम्यसमाश्रयणात् वाक्यान्तर्भूताप्रस्तुत (प्रशंसया) कविविवक्षितमुख्यपदार्थः प्रतीयते ।
सकलवाक्यव्यापकाप्रस्तुतार्थप्रशंसोदाहरणं यथा--- छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा ग्रीष्मोष्मापदि शीतलस्तलक्षुवि स्पर्शो ऽनिलादेः कुतः ।
वार्ता वर्षशते गते किल फलं भावीति वार्तेव सा द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयम् // वजी_पू३.९६ ।।
ठ्ठ ।।
संबन्धान्तरसमाश्रयणात् वाक्यान्तर्भूताप्रस्तुतपदार्थप्रशंसोदाहरणं यथा---

इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा ।
कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सहर्हा इव // वजी_पू३.९७ ।।

अत्र इन्दुप्रभृतीनां निमित्तिनां विच्छायता निमित्तम् ।
सीतायाः संबन्धी शोभातिशयसौकुमार्यमनोहरो मुखाद्यवयवसमूहः प्रकृताङ्गभूतभूषणान्तरोपनिबन्धसहायः प्रस्तुतप्रशंसां समर्पयन् सोत्कर्षः प्रतीयते ।
एवमस्मादेव संबन्धा (न्तर) समाश्रयणात् सकलवाक्य-व्यापकाप्रस्तुतप्रशंसोदाहरणम् यथा---

परामृशित सायकं क्षिपति लोचनं कार्मुके विलोकयति वल्लभास्मितसुधार्द्रवक्त्रं स्मरः ।
मधोः किमपि भाषते भुवननिर्जयायावनिं गतो ऽहमिति हर्षितः स्पृशति गात्रलेखामहो // वजी_पू३.९८ ।।

अत्र प्रकारान्तरप्रतिपादनागोचरस्तरुणीतारुण्यावतारस्तथाविधमन्मथचेष्टातिशयनिमित्तवतः तन्निमित्त(रूपसंबन्धाश्रयणात् प्रतीयते) ।
असत्यभूतवाक्यार्थतात्पर्यप्रस्तुतप्रशंसोदाहरणं यथा---

तण्णत्थि किंपि पैणो पकप्पिअं जं ण णिऐ घरणीए ।
अणवरअगअणसीलस्स कालपहिअस्स पाहिज्जं // वजी_पू३.९९ ।।
तन्नास्ति किमपि पत्युः प्रिकल्पितं यन्न नियतिगेहिन्या ।
अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ।।
(छाया)

अत्र साम्यं, निमित्तनिमित्तिभावः, सामान्यविशेषभावश्चेति त्रितयमपि अन्तर्भावयितुं युज्यते ।
यस्मात् प्रहस्तवधे श्रावयितव्ये साक्षादभिधानानुचितत्वात् विच्छित्त्यैवमभिधीयते ।
तदेवमयमप्रस्तुतप्रशंसाव्यवहारः कवीनामतिविततप्रपञ्चः परिदृश्यते ।
तस्मात् सहृदयैश्च स्वयमेवोत्प्रेक्षणीयः ।
प्रशंसाशब्दो ऽत्रार्थप्रकाशादिवत् विपरीतलक्षणया गर्हायामपि वर्तते ।
वर्णना सामान्यमात्रवृत्तिर्वा ।
एवमप्रस्तुतप्रशंसां विचार्य विवक्षितार्थप्रतिपादनाय प्रकारान्तराभिधानत्वादनयैव समच्छायप्रायं पर्यायोक्तं विचारयति---

यद्वाक्यान्तरवक्तव्यं तदन्येन समर्प्यते ।
येनोपशोभानिष्पत्त्यै पर्यायोक्तं तदुच्यते // वजी३.२७ ।।

यद्वाक्यान्तरेत्यादि---"पर्यायोक्तं तदुच्यते" = पर्यायोक्ताभिधानमलङ्करणं तदभिधीयते ।
"यद्वाक्यान्तरवक्तव्यं" = वस्तु वाक्यार्थलक्षणं पदसमुदायान्तराभिधेयं "तदन्येन" = वाक्यान्तरेण येन "समर्प्यते" = प्रतिपाद्यते ।
किमर्थम् ?"उपशोभानिष्पत्त्यै" = विच्छित्ति (विशेष) संपत्तये ।
तत्पर्यायोक्तमित्यर्थः ।
नन्वेवं पर्यायवक्रत्वात् किमत्रातिरिच्यते ? पर्यायवक्रत्वस्य पदार्थमात्रं वाच्यतया विषयः, पर्यायोक्तस्य पुनर्वाक्यार्थो ऽप्यङ्गतयेति तस्मात् पृथगभिधीयते ।
उदाहरणं यथा---

चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् इति // वजी_पू३.१०० ।।

एवम्---

यत्र वाच्यतया निन्दा विच्छित्त्यै प्रस्तुतस्य सा ।
स्तुतिर्व्यङ्ग्यतया चैव व्याजस्तुतिरसौ मता // वजी३.२८ ।।

"यत्रऽ = यस्यां, "वाच्यतयाऽ = शब्दाभिधेयत्वेन "निन्दाऽ = गर्हा, "व्यङ्ग्यतया स्तुतिःऽ = प्रतीयमानत्वेन प्रशंसा "प्रस्तुतस्य विच्छित्त्यैऽ = शोभायै, तदेवमसौ द्विप्रकारा "व्याजस्तुतिःऽ अलङ्कृतिः "मताऽ = स्मृता ।
यथा

भूभारोद्वहनाय शेषशिरसां सार्थेन संनह्यते विश्वस्य स्थितये स्वयं स भगवान् जागर्ति देवो हरिः ।
अद्याप्यत्र च नाभिमानमसमं राजंस्त्वया तन्वता विश्रान्तिः क्षणमेकमेव न तयोर्जातेति को ऽयं क्रमः // वजी_पू३.१०१ ।।

यथा वा

इन्दोर्लक्ष्म // वजी_पू३.१०२ ।।

इत्यादि ।
विपर्यये विभूष्यस्यालङ्कृतिरेषैव विहिता ।
यथा

हे हेलाजित // वजी_पू३.१०३ ।।

इत्यादि ।
यथा वा

नामाप्यन्ततरोः // वजी_पू३.१०४ ।।

इति ।
यथा वा

दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे परमुपकृतं वक्तुं रोषं ह्रिया न वयं क्षमाः ।
भवतु सुकृतैरध्वन्यानामशोषजलो भवा- नियमपि पुनश्छायाभूया तवोपतटं शमी // वजी_पू३.१०५ ।।

अत्र स्तुतिशब्दः पूर्ववद्विपरीतलक्षणया निन्दायामपि वर्तते ।
एवं व्याजस्तुतिं व्याख्याय प्रक्रमोपसंहारानन्यत्वसामान्यात् अनयोप(मा)समानकक्ष्यां (उत्प्रेक्षां) विवक्षुराह---

संभावनानुमानेन सादृश्येनोभयेन वा ।
निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया // वजी३.२९ ।।
वाच्यवाचकसामर्थ्याक्षिप्तस्वार्थैरिवादिभिः ।
तदिवेति तदेवेति वादिभिर्वाचकं विना // वजी३.३० ।।
समुल्लिखितवाक्यार्थव्यतिरिक्तार्थयोजनम् ।
उत्प्रेक्षा, (काव्यतत्त्वज्ञैरलङ्करणमुच्यते) // वजी३.३१ ।।

संभावनेत्यादि ।
"समुल्लिखितवाक्यार्थव्यतिरिक्तार्थयोजनमुत्प्रेक्षा"---"समुल्लिखितः"---सम्यगुल्लिखितः, स्वाभाविकत्वेन समर्पयितुं प्रस्तावितः ।
"वाक्यार्थः"---पदसमुदायाभिधेयं वस्तु, तस्माद् "व्यतिरिक्तस्यार्थस्य"--वाक्यान्तरतात्पर्यलक्षणस्य, "योजनम्"---उपपादनम् ।
"उत्प्रेक्षा"---उत्प्रेक्षाभिधानमलङ्करणम् ।
उत्प्रेक्षणमुत्प्रेक्षेति विगृह्यते ।
(के) न साधनेनेत्याह---"संभावनानुमानेन" संभावनया यदनुमानं, संभाव्यमानस्यार्थस्य ऊहनं तेन ।
तदवश्यं तस्य वस्त्वन्तरत्वापादनं तत्समानकार्यदर्शनादिति भावः ।
प्रकारान्तरेणाप्येषा संभवतीत्याह---सादृश्येनेति ।
"सादृश्येन"---साम्येनापि हेतुना "समुल्लिखितवाक्यार्थव्यतिरिक्तार्थयोजनम्" उत्प्रेक्षैव ।
द्विविधं सादृश्यं संभवति वास्तवं काल्पनिकं चेति ।
तत्र वास्तवमुपमादिविषयम्, काल्पनिकमिहाश्रीयते, सातिशयत्वेन प्रस्तावात् ।
सादृश्यस्योभयाश्रयत्वाविनाभावात्, प्रस्तुतव्यतिरिक्तस्य पदार्थान्तरस्यासंभवात्, तस्य च धर्मत्वे सति पराश्रितत्वात् केवलस्य कल्प्य(त्व) मेवानुपपन्नमिति तदाश्रयः कश्चिदपरः कल्पनीयः ।
सो ऽपि को ऽसाविति नियमासिद्धिः ।
एकस्य कस्यापि कल्पने ऽप्यनवस्थाप्रसङ्गात्, गुणसमन्वयाभावादप्रतिपत्तेश्च वास्तवसादृश्याधारभूतधर्म्यन्तरसदृशः पारिशेष्यात् परिकल्पनीयतामर्हतीति सचेतसः प्रमाणम् ।
तस्मात्तथाविधधर्मिणः सादृश्येनेति व्यक्तम् ।
क्वचिदवास्तवेनापि प्रौढिवादेन उक्तविधप्रकारान्तरममपरमस्याः प्रतिपादयति---"उभयेन वा" संभावनानुमानसादृश्यलक्षणोभयेन वा कारणद्वितयेन संवलिवृत्तिना प्रस्तुतव्यतिरिक्तार्थान्तरयोजनमुत्प्रेक्षा ।
प्रकारात्रितयस्याप्यस्य केनाभिप्रायेणोपनिबन्धनमित्याह---"निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया"---वर्णनीयोत्कर्षकाष्ठाधिरूढिसमर्पणाकाङ्क्षया ।
कथम् ? "तदिवेति तदेवेति वा "द्वाभ्यां प्रकाराभ्याम् ।
"तदिव" अप्रस्तुतमिव ।
तदतिशयप्रतिपादनाय (या) प्रस्तुतसादृश्योपनिबन्धः ।
"तदेवेति"---अप्रस्तुतमेव प्रस्तुतमिति ।
(समारोपित) स्वरूपप्रसरणपूर्वकमप्रस्तुतस्वरूपसमारो(पस्य) प्रस्तुतोत्कर्षधाराधिरोहप्रतिपत्तये तात्पर्यान्तरयोजनम् ।
कैः उत्प्रेक्षा प्रकाश्यत इत्याह---"इवादिभिः"---इवप्रभृतिभिः शब्दैः यथायोगं प्रयुज्यमानैरित्यर्थः ।
"वाच्या" इति ।
पक्षान्तरमभिधत्ते---"वाच्यवाचकसामर्थ्याक्षिप्तस्वार्थैः " तैरेव प्रयुज्यमानैः प्रतीयमानवृत्तिभिर्वा ।
तत्र संभावनानुमानोदाहरणं यथा---

आपीडलोभादुपकर्णमेत्य प्रत्याहितोपांशुरुतैर्द्विरेफैः ।
अभ्यस्यमानेव महीपतीनां संमोहमन्त्रं मकरध्वजेन // वजी_पू३.१०६ ।।

काल्पनिकसादृश्योदाहरणं यथा---

"राशीभूतः प्रतिदिनमिव त्र्यंबकस्याट्टहासः" // वजी_पू३.१०७ ।।

यथा वा---

"निर्मोकमुक्तिरिव गगनोरगस्य" // वजी_पू३.१०८ ।।

इत्यादि ।
वास्तवसादृस्योदाहरणं यथा---

आकर्णकिसलयकर अलमलं च चलं तारआदि ।
हिन्दु अलीलं वस स चाल भवादिहि आसति // वजी_पू३.१०९ ।।

(छाया ?) उभयोदाहरणं यथा---

तिक्खारुणं तथारण्ण अणजअं राण्ति प्रलारि ।
अन्तिरे उदे अअसे अवन्दिलग्ग रिउरूढिरले सव्व महुरेउणा // वजी_पू३.११० ।।

(छाया ?) (तिक्खारुणं तम् इति ।
आरात् दूरात् भेद एव भेदो द्रुतिरेव विदारणं तत्रेत्यर्थः ।
लोके हि तीक्ष्णः शरादिपदार्थो ऽङ्गविदारणे लग्नरुधिरलेशो दृश्यते ।
इति तद्धर्मसादृश्ये नयनयुगगततीक्ष्णारुणात्तत्वस्य विद्यमाने प्रस्तुतवस्तुधर्मो ऽप्रस्तुतवस्तुधर्मत्वेन संभावित इत्युभयसाधनेयमुत्प्रेक्षा ।
यथा वा---

णीसासा खणविरहे फुरन्ति रमणीणसुरहिणो तस्स ।
कड्ढिअ हिअअट्ठिअ कुसुमबाणमअरन्दलेसव्व // वजी_पू३.१११ ।।
निःश्वासा क्षणविरहे स्फुरन्ति रमणीनां सुरभयस्तस्य ।
कृष्टहृदयस्थितकुसुमबाणमकरन्दलेशा इव ।।
छाया ।

अत्र वास्तवसादृश्योदाहरणं यथा---

उत्फुल्लचारुकुसुमस्तबकेन नम्रा येयं धुता रुचिरचूतलता मृगाक्ष्या ।
शङ्के न वा विरहिणीमृदुमर्दनस्य मारस्य तर्जितमिदं प्रतिपुष्पचापम् // वजी_पू३.११२ ।।

अत्रासूत्रितार्थव्यतिरेकिवस्त्वन्तरविधानादपह्नुतिभ्रान्तिर्न विधातव्या, यतस्तस्याः प्रथमोद्भेदजीवितमुत्प्रेक्षा न पुनरपह्नुतिरेतस्याः ।
तदेवानन्तरं व्यक्तिमायास्यति ।
तदिवेत्यत्र वादिभिर्विनोदाहरणं यथा---

चन्दनासक्तभुजगनिःश्वासानिलमूर्छितः ।
मूर्च्छयत्येष पथिकान् मधौ मलयमारुतः // वजी_पू३.११३ ।।

यथा वा---

"देवि त्वन्मुखपङ्कजेन" // वजी_पू३.११४ ।।

इत्यादि ।
यथा वा---

"त्वं रक्षसा भीरु" // वजी_पू३.११५ ।।

इत्यादि ।
तदेवेत्यत्र वाचकं विनोदाहरणम् ।
यथा---

"एकैकं दलमुन्नमय्य" // वजी_पू३.११६ ।।

इत्यादि ।
एतस्याः प्रकारान्तरमुपक्रमते---

प्रतिभासात्तथा बोद्धुः स्वस्पन्दमहिमोचितम् ।
वस्तुनो निष्क्रियस्यापि क्रियायां कर्तृतार्पणम् // वजी३.३२ ।।

"प्रतिभासादित्यादि" ।
तदिदमुत्प्रेक्षायाः प्रकारान्तरं परिदृश्यते-"क्रियायाम्"---साध्यस्वरूपायां, "कर्तृतार्पणम्"---स्वतन्त्रत्वसमारोपणं ।
कस्य ? "वस्तुनः"---पदार्थस्य ।
"निष्क्रियस्यापि" क्रियाविरहितस्यापि ।
कीदृशं ? "स्वभावोत्कर्षः, तस्योचितमनुरूपम् ।
कस्मात् ? ("बोद्धुः तथा प्रतिभासात्") "बोद्धुः"---अनुभवितुः "तथा"---तेन प्रकारेण ।
"प्रतिभासात्"---अवबोधनात् ।
"निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया ।
तदिवेति तदेवेति वादिभिर्वाचकं विना" इति पूर्ववदिहापि संबन्धनीये ।
उदाहरणं यथा---

"लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः " // वजी_पू३.११७ ।।

यथा वा---

तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ // वजी_पू३.११८ ।।

यथा वाः---

वियति विसर्पतीव कुमुदेषु बहुभवतीव योषिताम् प्रतिफलतीव जरठशरकाण्डपाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका // वजी_पू३.११९ ।।

(उत्प्रेक्षावाचकानामि) वादीनां परिगणनमत्र दण्डिना विहितमिति न पुनर्विधीयते ।
सेयमुत्प्रेक्षा वर्णनीयस्य स्वभावविसंवादसुन्दरं कमप्यतिशयमुल्लासयति ।
कविप्रतिभासापरपर्यायप्रायाणामन्येषामपि भूषणानां केषाञ्चिदियं सारस्वरूपमासूत्रयन्ती प्रथमोल्लेखकारणतां स्वयमेव समाक्रामति, तन्निबन्धनत्वाद्विच्छित्तिविशेषानाम् ।

अपहृत्यालङ्कारलावण्यातिशयश्रियः ।
उत्प्रेक्षा प्रथमोल्लेखजीवितत्वेन जृम्भते // वजी_पू३.१२० ।।

इत्यन्तरश्लोकः ।
एवमुत्प्रेक्षां व्याख्याय सातिशयत्वासादृश्यसमुल्लसितावसराम् अतिशयोक्तिं प्रस्तौति ।

उच्यते ऽतिशयोक्तिः सा सर्वालङ्कारजीवितम् ।
यस्यामतिशयः को ऽपि विच्छित्त्या प्रतिपाद्यते ।
वर्णनीयस्य धर्माणां तद्विदाह्लाददायिनाम् // वजी३.३३ ।।

"उच्यते ऽतिशयोक्तिः सा"---अतिशयोक्तिरलङ्कृतिरभिधीयते ।
कीदृशी? "यस्यामतिशयः"---प्रकर्षकाष्ठाधिरूढः को ऽप्यतिक्रान्तप्रसिद्धव्यवहारसरणिः ।
"विच्छित्त्या प्रतिपाद्यते"---वैदग्ध्यभङ्ग्या समर्प्यते ।
कस्य ? "वर्णनीयस्य धर्माणां"---प्रस्तावाधिकृतस्य वस्तुनः स्वभावानुसंबन्धिनां परिस्पन्दानाम् ।
कीदृशानां ? "तद्विदाह्लाददायिनां"---काव्यविदानन्दकारिणाम् ।
यस्यात् सहृदयाह्लादकारिस्वस्पन्दसुन्दरत्वमेव वाक्यार्थः, ततस्तदतिशयपरिपोषिकायाम् अतिशयोक्तावलङ्कारकृतः कृतादराः ।

एवंविधस्वरूपास् ते यथोल्लासितकान्तयः ।
रसस्वभावालंकाराः परां पुष्णन्ति वक्त्रतां // वजी३.३४ ।।

"एवंविधस्वरूपास्ते यथोल्लासितकान्तयः" समुद्दीपितशोभातिशयास्त्रयो ऽपि" परां वक्रतां"---अलौकिकं काव्यरहस्यभूतवक्रभावं "पुष्णन्ति" उद्भासयन्ति ।
यथा

चन्द्रकान्तमणिदुर्दिने (सद्मनि ?)त्यजद् राजहंसमनुबध्नती गिरा ।
ज्योत्स्नया जनितसंशया पुनः वक्रदूतिरिव रौति सारसी // वजी_पू३.१२१ ।।

यथा वा---

खपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः ।
अन्वमीयन्त भृङ्गालिवाचा सप्तच्छदद्रुमाः // वजी_पू३.१२२ ।।

अत्र भावस्वभावातिशयः परं परिपोषमधिरोपितः ।
यथा वा---

यस्य प्रज्वलति प्रतापतपने तेजस्विनामित्यलं लोकालोकधराधरे ऽप्यतिशयः शीतांशुबिम्बे वृथा ।
त्रैलोक्यप्रथितापदानमहिते क्षोणीशवंशोद्भवे सूर्याचन्द्रमसौ स्वयं कृशतरच्छायां समारोहतः // वजी_पू३.१२३ ।।

यथा च

हिमाम्बुनिर्वृत्तनिमज्जनानां बालातपस्पर्शननिर्मलानाम् ।
सावित्रभासा विहताङ्गरग- मङ्गं किमप्यङ्कुरितं स्थलीनाम् // वजी_पू३.१२४ ।।

अत्र पूर्वस्मिन् रूपकालङ्कारातिशयपरिपोषप्रकर्षः ।
तथा प्रथमे ऽपरस्मिंश्च रसवदलङ्कारपरिपुष्टिः ।
तथा च तुहिनसलिलक्षालनक्षपितकलङ्कितया नूतनातपपिहतांशुकेनाभिव्यक्तविमलभावेनांभः स्नानादिसरसरमणीव्यपारसमारोपणेन किमपि सौकुमार्यमारोपितम् ।
यता च--

शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
अप्रगल्भयवसूचिकोमला छेत्तुमग्रनखसंपुटैः कराः // वजी_पू३.१२५ ।।

अत्र रसपरिस्पन्दसौन्दर्यातिशयः समुद्भासते ।
तथा च नूतनोदयानां दर्शितसौकुमार्याणां शशाङ्ककिरणानामन्यादृशः को ऽप्यतिशयः संप्रति समुज्जृम्भते, येनात्यर्थं कपोलकर्णालकसंपर्कश्लाघनीयां कर्णपूररचनाविच्छित्तिमर्हतीति पार्वतीपतिः प्रियायाः प्रतिपादयंस्तद्वदनेन्दुसौन्दर्यदर्शनेन तत्कालोदितशशाङ्ककरावलोकनेन च रसोच्चलितचित्तवृत्तिः प्रतीयते ।
एवमलङ्कार्यस्य वस्तुनः प्रधानभूतस्याङ्गभावेन व्य (वस्थि)-तो ऽप्यलङ्कारवर्गः किञ्चिदतिरिक्तवृत्तितयोपनिबध्यमानः संनिवेशसौकुमार्यमाहात्म्यादुद्रिक्तभावेन परिस्फुरन् गुणभूतो ऽपि मुख्यतामिवापद्यमानः निबन्धनप्रभावात्तु प्राधान्येनावभासमानो व्याख्यातः ।
इदानीं साम्यसमुद्भासिनो विभूषणवर्गस्य विन्यासविच्छित्तिं विचारयति---

विवक्षितपरिस्पन्दमनोहारित्वसिद्धये ।
वस्तुनः केनचित्साम्यं तदुत्कर्षवतोपमा // वजी३.३५ ।।
तां साधारणधर्मोक्तौ वाक्यार्थे वा तदन्वयात् ।
इवादिरपि विच्छित्त्या यत्र वक्ति क्रियापदम् // वजी३.३६ ।।

विवक्षितेत्यादि---"यत्र"---यस्यां, "वस्तुनः"---प्रस्तावाधिकृतस्य, "केनचित्"---अप्रस्तुतेन पदार्थान्तरेण, "साम्यम्" सोपमा---उपमालङ्कृतिरित्युच्यते ।
किमर्थमप्रस्तुतेन साम्यमित्याह---"विवक्षितपरिस्पन्दमनोहारित्वसिद्धये" "विवक्षितः"---वक्तुमभिप्रेतो यो ऽसौ "परिस्पन्दः"---कश्चिदेव धर्मविशेषः (तस्य "मनोहारित्वं"---हृदयाह्लादकत्वं तस्य "सिद्धिः"---निष्पत्तिः) तदर्थम् ।
कीदृशेन पदार्थान्तरेण---"तदुत्कर्षवता"॑ तदिति मनोहारित्वं परामृश्यते, तस्य "उत्कर्षः" (अतिशयः) स विद्यते यस्य स तथोक्तः, तेन तदुत्कर्षवता, मनोहारित्वातिशयवता ।
तदिदमत्र तात्पर्यम्---वर्णनीयस्य विवक्षितधर्मसौन्दर्यसिद्ध्यर्थं अप्रस्तुतपदार्थेन धर्मिणा साम्यं युक्तियुक्ततामर्हति ।
धर्मेणेति नोक्तं, केवलस्य तस्यासंभवात्॑ तदेवमयं धर्मद्वारको धर्मिणोरुपमानोपमेयलक्षणयोः फलत॑ साम्यसमुच्चयः पर्यवस्यति ।
एवंविधामुपमाङ्कः प्रतिपादयतीत्याह---क्रियापदमित्यादि ।
"क्रिया"---धात्वर्थः ।
(क्रियापदशब्देन) वाचकसामान्यमात्रमत्राभिप्रेतं न पुनराख्यातपदमेव ।
यस्मात् अमुख्यभावेनापि क्रिया यत्र वर्तते तदप्युपमावाचकमेव ।
तथा च पाचकः इत्यत्र पाकशक्तेः प्राधान्येन तदन्तर्लोनवृत्तिः प्रकृत्यर्थो विद्यत एव, पचति इति पाचक इति ।
तथा पचतीत्यत्र क्रियायाः प्राधान्ये ऽपि कारकार्थ अपि अन्तर्लोनः ।
तदेवमुभयरूपमपि क्रियापदपरिस्पन्दस्पन्दिनी "तां"---अपमां, "वक्ति"---अभिधत्ते ।
कथं ?"विच्छित्त्या"---वैदग्ध्यभह्ग्या ।
विच्छित्तिविरहेणाभिधानेन तद्विदाह्लादकत्वं न संभवतीति भावः ।
क्रियापदं न केवलं तां वक्ति यावद् "इवादिरपि"(इवृ) प्रभृतिरपि तत्समर्पणसामर्थ्यसमन्वितो यः कश्चिदेव शब्दविशेषः, समासो बहुब्रीहयादिः, प्रत्ययो ऽपि वत्यादिः विच्छित्या तां वक्तीति ।
अपिः समुच्चये ।
कस्मिन् सति ?"साधारणधर्मोक्तौ"---"साधारणः" समानः यो (ऽ सौ) तयोरुपमानोपमेययोरुभयोरनुयायी धर्मः (तदुक्तौ) ।
धर्मान्वययोः क्रियायोः कर्तृभेदेन सुबन्तस्योपमा ।
कुत्र ? "वाक्यार्थे वा "---परस्परान्वयसंबन्धेन पदसमूहो वाक्यं, तदभिधेयं वा वस्तु विभूष्यत्वेन विषयो गोचरः तस्मिन् ।
कथं ? "तदन्वयात्"---तदिति पदार्थपरामर्शः, तेषां पदार्थानां "समन्वयात्" अन्योन्यमभिसंबध्यमानत्वात् ।
वाक्ये हि बहवः पदार्थाः संभवन्ति ।
तत्र परस्पराभिसंबन्धमाहात्म्यात् कस्यचिदेकेन केनचिदेव साम्यनिबन्धन)मुपमोत्प्रेक्षयोः) ।
तदेवं तुल्ये ऽस्मिन् वस्तुसाम्ये सति, उपमोत्प्रेक्षावस्तुनोः कीदृक् पृथक्त्वमित्याह---

उत्प्रेक्षावस्तुसाम्ये ऽपि तात्पर्यान्तरगोचरः // वजी३.३७ ।।

उत्प्रेक्षायाः साम्यसंबन्धे विद्यमाने ऽपि "तात्पर्यं" पदार्थव्यतिरिक्तवृत्ति वाक्यार्थजीवितभूतं वस्त्वन्तरमेव "गोचरो" विषयः तद्विदामन्तः प्रतिभासः यस्य, तथा चैवोदाहृतः ।
उपमोत्प्रेक्षावस्तुनोरत्र केवले करणे कर्मणि वा अवर्तिनोरुभयोरपि तुल्यत्वेनाभिसंबध्यमानत्वात् ।
एवमुपमितिरुपमेति भावमात्रे व्यवतिष्ठते ।
तथा च वर्ण्यस्य नि (तराम् अवर्णनीये) न साम्यं यस्यामिति लक्षणतात्पर्यम् ।
उभयमेव निश्चितं प्रतिपादयति ।
अमुख्यक्रियापदप्रतिपन्न ।
पदार्थानामुदाहरणं यथा---

पूर्णेन्दोस्तव संवादि वदनं वनजेक्षणे ।
पुष्णाति पुष्पचापस्य जगत्त्रयजिगीषुताम् // वजी_पू३.१२६ ।।

इवादिप्रतिपाद्यपदार्थोपमोदाहरणं यथा

"निपीयमानस्तबका शिलीमुखैः" // वजी_पू३.१२७ ।।

इत्यादि ।
आख्यातपदप्रतिपाद्यपदार्थोपमोदाहरण यथा---

ततो ऽरुणपरिस्पन्देत्यादि // वजी_पू३.१२८ ।।

तथाविधवाक्योपमोदाहरणं यथा--

मुखेन सा केतकपत्रपाण्डुना कृशाङ्गयष्टिः कपिमेयभूषणा ।
स्थिताल्पतारां तरुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् // वजी_पू३.१२९ ।।

इवादिप्रतिपाद्यपदार्थोपमोदाहरणं यथा---

चुम्बन् कपोलतलमुत्पुलकं प्रियायाः स्पर्शोल्लसन्नयनमामुकुलीचकार ।
आविर्भवन्मधुरनिद्रमिवारविन्द- मिन्दुरस्पृशास्तमितमुत्पलमुत्पलिन्याः // वजी_पू३.१३० ।।

तथाविधवाक्योपमोदाहरणं यथा---

पाण्ड्यो ऽयमंसार्पितलम्बहारः ।
कॢप्ताङ्गरागो हरिचन्दनेन ।।
आभाति बालातपरक्तसानुः ।
सनिर्झरोद्गार इवाद्रिराजः // वजी_पू३.१३१ ।।

एतयोर्द्वयोरपि वाक्ययोः यद्यप्युपमेयेनोपमानैः सह प्रत्येकं स्वसंबन्धिनं प्रति परस्पर (साम्य) समन्वयलक्षणसंबन्धिनाभिसंबन्धः, तथापि पूर्वस्मिन् साम्यसमन्वयावसायपूर्वको वाक्यार्थावसायः, परस्मिन् पुनः वाक्यार्थावसितपूर्वकसाम्यसमन्वयावसितिः ।
अस्मिन् वाक्ये समासादि ।
विषयप्रत्ययान्तरनिरपेक्षत्वात् पदार्थावबोधसमनन्तरतया परस्परसाम्यसमन्वयस्याप्युद्भिद्यमानत्वात्, पदार्थोपमाव्यपदेशः प्रवर्तते ।
नात्र प्रथमार्धे एव वाक्यार्थपरिसमाप्तिर्वेदितव्या, कविविवक्षाविषयार्थनिष्पत्तेरननुभूतत्वात् ।
तत्र "सालङ्कारस्य काव्यता" इति च न्यायः ।
अपरस्मिन् पुनः परस्परान्वयलक्षणसंबन्धनिबन्धनवाक्यार्थावधारणपूर्वकत्वात् उपमानोपमेयपरस्परसाम्यसमन्वयावगतेः वाक्योपमाव्यपदेशः युक्ततां प्रतिपद्यते ।
(क्रियापदप्रतिपाद्योपमोदाहरणानामुपमावार्ताद्युक्तमित्यलमतिप्रसङ्गेन) ।
आदिग्रहणादिवादिव्यतिरिक्तेनापि यथादिना शब्दान्तरेणोपमाप्रतीतिर्भवतीति (उक्तमेव) ।
(समासे ऽनुक्तौ उक्तौ) वाद्वयं यथा---

पूर्णेन्दुकान्तिवदना नीलोत्पलविलोचना // वजी_पू३.१३२ ।।

यथा च---

यान्त्या मुहुर्वलितकन्धरमाननं त- दावृत्तवृत्तशतपत्रनिभं वहन्त्या ।
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः // वजी_पू३.१३३ ।।

प्रत्ययप्रतिपाद्योपमोदाहरणं यथा---

माञ्जिष्ठीकृतपद्मसूत्रसदृशः पादानयं पुञ्जयन् यात्यस्ताचलचुम्बिनीं परिणतिं स्वैरं ग्रहग्रामणीः ।
वात्या चक्रविवर्तिताम्बुजरजच्छत्रायमाणः क्षणं क्षीणज्योतिरितो ऽप्ययं स भगवानम्भोनिधौ मज्जति // वजी_पू३.१३४ ।।

यथा वा---

इत्याकर्णितकालनेमिवचना (दाघर्घरो) दुर्धरो हुङ्कारः पदयो.....पुरः प्रख्यापितस्यागमः ।
धैर्यस्तम्भविजृम्भितोद्धुरमदप्रोन्माथपर्याकुलं क्रोधः कुञ्जरवन्महासुरपतेः स्वच्छन्दमा (लोक्यते) // वजी_पू३.१३५ ।।

यथा---

इतिदमाकर्ण्य तपस्विकन्या (विलोल) मुद्वीक्षितमुत्सुकस्य ।
तस्यातिमुक्ताकुलपुष्पकालं गतागतास्या हृदयं मुमोह (?) // वजी_पू३.१३६ ।।

यथा वा---

रामेण मुग्धमनसा वृषभध्वजस्य यज्जर्जरं धनुरभाजि मृणालभञ्जम् ।
तेनामुना त्रिजगदर्पितकीर्तिभारो रक्षः पतिर्ननु मनाङ् न विडम्बितो ऽबूत् // वजी_पू३.१३७ ।।

प्रतीयमानोपमोदाहरणे परस्य रसस्य संबन्धसमन्वितान्यूनामतिरिक्तपरिस्पन्दोभयपदार्थवाचकवाच्यसामर्थ्यादेव क्रियापदादिप्रतिपादकविधीनाप्युपमाप्रतीतिरुपपद्यते ।
यथा---

महीभृतः पुत्रवतो ऽपि दृष्टि- स्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा // वजी_पू३.१३८ ।।

अत्र यस्मात्तथाविधानन्तसामग्रीकस्य मधोरपि तत्समानोप (नीतचूते प्रतीतिरुप) लप्स्यते इति न्याय्यमेतयोः सुव्यक्तमेव साम्यमुपगमयति, तथाचासंख्यकुसुमत्वादिधर्मसौकुमार्यातिरेकात् साम्यसंपत्त्यादिर्विवक्षितेत्याद्युपमालक्षणतात्पर्य (म) विकल्पमेवात्र समर्प्यते ।
न चार्थान्तरन्यासभ्रान्तिरत्रोद्भावनीया, तस्य वाक्यार्थतात्पर्य (साम्य) लक्षणसामान्यमात्रविषयत्वात् ।
तस्मादनेन न्यायेन समानवस्तुन्यासोपनिबन्धना प्रतिवस्तूपमापि न पृथग्वक्तव्यतामर्हति, पूर्वोदाहरणेनैव समानयोगक्षेमत्वात् ।
तथा च लक्षणोदाहरणे तस्याः समानवस्तुन्यासेन प्रतिवस्तूपमा यथा---

कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः ।
स्वदुपाकफलानम्राः कियन्तो वाध्वशाखिनः // वजी_पू३.१३९ ।।

अत्र समानविलसितानामुभयेषामपि कविविक्षित (ता) विरलत्वलक्षणसाम्यव्यतिरेकि (न) किञ्चिदन्यन्मनोहारि जीवितमतिरिच्यमानमुपलभ्यते ।
तदेवं प्रतिवस्तूपमायाः प्रतीयमानोपमायामन्तर्भावोपपत्तौ सत्यामिदानीमुपमेयोपमादेरुपमायामन्तर्भावो विचार्यते ।

उपमेयोमपा येयमुपमानोपमेययोः ।
सामान्या प्रस्तुतत्वात्तु लक्षणानन्यथास्तितेः // वजी३.३८ ।।

उपमेयोपमेत्यादि---"उपमेयोपमा नाम" = काचिदलङ्कृतिः "सामान्या"---न व्यतिरिक्ता ।
कुतः---प्रस्तुतत्वादुपमायाः ।
कस्मात् कारणात् ? "लक्षणानन्यथास्थितेः"---तत्स्वरूपस्य असाधारणमभिधानं लक्षणं, तस्य अनन्यथासिद्धेरपि = अतिरिक्तभावानवस्थानात् ।
तथा चोपमेयमुपमानं यस्यामिति विग्रहे (स्व) यमुपमानमुपमेयं संपद्यते, यदुपमानं तदुपमेयमुदितम् ।

"प्रसुप्तमथावा निद्रा च शोकात्मतामापन्नस्य हृदयहारीति रतेराश्वासनाभूमयः" // वजी_पू३.१४० ।।

एतदादेस्तुल्ययोगिताप्रकारत्वमुपपद्यते न वेत्याह--

तत्तुल्ययोगिता नाम नासौ पृथगलङ्कृतिः ।
एतस्यां बहवो द्वौ पदार्थास्तुल्ययोगिनः // वजी३.३९ ।।
प्रकारत्वं प्रपद्यन्ते प्राधान्यस्य निवर्तनात् ।
(वस्तु मुख्यतया वर्ण्यं, किं स्यात् कस्य भूषणम्) // वजी३.४० ।।

येयं तुल्ययोगिता नाम नासावलङ्कृतिः यस्मात् "एतस्यां द्वौ बहवो वा पदार्थाः तुल्ययोगिनः प्रकारत्वमुपपद्यन्ते, "वर्णनीयतां नीयन्ते ।
अत्र वर्ण्यते मुख्यतया वर्णनीयं वस्तु (इति) किं कस्य विभूषणं स्यात् अलङ्करणं भवेत् ।
प्रत्येकं प्राधान्ये नियमा निश्चितेः न किंचित् कस्यचिदित्यर्थः ।
यदि वा सर्वस्य कस्यचिद्भूषणत्वं स्यादित्यभिधीयते, तत्रैतदपि नोपपद्यते ।
कस्मात्---"प्राधान्यस्य" = परितो मुख्यभावस्य "निवर्तनात् " ।
यस्माद्भूषणत्वे सति पराङ्गत्वमेव ।
तेन वस्तुनः प्राधान्यं निवर्तते ।
मुख्यं हि वस्तु येनैव रूपेणप्राधान्यमनुभवति, न तेनैव पराङ्गत्वमनुभवितुमर्हति, रूपान्तरं विना परस्पराविरुद्धयोरेकत्रानुपपत्तेः ।
यदि वा राजानुचरादावेकस्मिन् मुख्यत्वं गुणभावश्च संभवतीत्यभिधीयते, तत्र रूपद्वयस्य संभाव्त, तथा च राजानुचरेषु स्वाम्यपेक्षया भृत्यभावः स्वभृत्यापेक्षया स्वामिभावश्चेति धर्मद्वयं विरुद्धव्यपेक्षाद्वितयलक्षणस्य रूपद्वयस्य विद्यमानत्वादुपपन्नमेव ।
तदेवमिहापि स्वरूपान्तरसद्भावे भूषणत्वं केन वार्यते ।
सत्यमेततत् ।
भूषणत्वं न वार्यते तुल्ययोगिताप्रकारत्वं पुनरपसार्यते इत्याह---

वर्ण्यत्वमेषामथवा साम्यं यद्यतिरिच्यते ।
एतेषां प्रस्तुतानां सा भवत्युपमितिः स्फुटम् // वजी३.४१ ।।

वर्ण्यत्वमित्यादि = "अथवा" इत्यनेन प्रकारान्तरस्योपपत्तेः ।
अवर्ण्यत्वे ऽपि वर्णनीयभावे भवत्यप्येतेषां प्रस्तुतानां पदार्थानां यदि "साम्यं" = सादृश्यं कदाचिततिरिच्यते = वर्ण्यमानत्वादधिकतां प्रतिपद्यते ।
ततः किं स्यादित्यत्राह---"सा भवत्युपमितिः स्फुटम्" प्रकटा चासावलङ्कृतिः साम्यसमन्वयादिसंवादादुपमैव नान्या काचिदित्यर्थः ।
तथा समुच्चितोपमायां---समुच्चितेन वर्ण्यमानतयार्ऽथेनाभिसंबध्यमाने सति समुच्चिता उपमा यस्यां सा तथोक्ता समुच्चितोपमा, तद्वत्तया तुल्यं वर्तते ।
उपमाभिधानमत्रोपमाने वर्तते न समुच्चितोपमायाम् ।
उपमानं प्रस्तुतत्वात् वर्णनीयं साम्यसमन्वयातिरेकात् अलङ्करणाय कल्पते यथा---

पररैमत्तअ अमहे पुणो स्सणो देइ दारि अअर् पसणनु विनुदि खिलासिणिओ अणो हुच्छणं यदुसदं च दप्पणो बहुणि अरे (?) // वजी_पू३.१४१ ।।

तदेतदेवमिहापि वर्ण्यमानत्वे ऽपि साम्यातिरेकादुपमैव भवतुमर्हतीति भावः ।
यथा---

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिः स्पृहोऽ र्थो नृपो ऽर्थिकामादधिकप्रदश्च // वजी_पू३.१४२ ।।

रुचिरसौकुमार्यातिरेकसुभगधर्मान्तरविषयमुपमानं कल्पितं विवक्षितोपमेयातिशयन्वसंपत्तये समुल्लसति यथा---

उभौ यदि व्योम्नि पृथक्-प्रवाहा- वाकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनील- मामुक्तमुक्तालतमस्य वक्षः // वजी_पू३.१४३ ।।

(ए) तद्द्वयोरपि निदर्शनम् ।
तदेवमनन्वये ऽपि वर्ण्यमानसौकुमार्यमाहात्म्यात् काल्पनिकमप्युमानं नोपपन्नमिति मन्यमानाः तत्स्वरूपसमारोपितव्यतिरेकामुपमां तां वर्ण्यन्ति ।
यथा---

तत्पूर्वानुभवे भवन्ति लघवो भावाः शशाङ्कादयः तद्वक्त्रोपमिते परं परिणमेच्चेतो रसायाम्बुजात् ।
एवं निश्चिनुते मनस्तव मुखं सौन्दर्यसारावधि बध्नाति व्यवसायमेतुमुपमोत्कर्षं स्वकान्त्या स्वयम् // वजी_पू३.१४४ ।।

तदेवमभिधावैचित्र्यप्रकाराणामेवंविधं वैश्वरूप्यं न पूनर्लक्षणभेदानाम् ।

अभिधायाः प्रकाराणामानन्त्यं प्रतिभोद्भवम् ।
वक्तुं न पार्यते कान्तालीलावैचित्र्यवत्स्फुटम् // वजी_पू३.१४५ ।।

अन्तरश्लोकः ।
तुल्ययोगिताप्यत्रैवान्तर्भावान्नातिरिच्यते ।
तथा च लक्षणं निदर्शनं चैतस्याः---

न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ।
तुल्यकालक्रियायोगादित्युक्ता तुल्ययोगिता // वजी_पू३.१४६ ।।

इति ।
तैः प्रतिपादिता, यस्मात् साम्यातिशयात् ।
यथा---

शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः ।
जात्वलङ्घितमर्यादाः चलन्तीं बिभृथ क्षितिम् // वजी_पू३.१४७ ।।

अत्र लक्षणे तावदुपमान्तर्भावं तुल्ययोगितायाः प्रतिपादयति-(असि)-द्वातिशयस्य वस्तुनः सिद्धातिशयेन साधर्म्यसमन्वयो निबन्धनमुपमायाः॑ पुररस्या गुणसाम्यविवक्षया तुल्यकालक्रियायोगः प्रस्तुताप्रस्तुतसाम्यव्यतिरेकेण न किञ्चिदत्र तात्पर्यं प्रतिपादयति ।
निदर्शनमप्येवंप्रायमेव ।
वर्णनाविषयस्य वर्ण्यमानवृत्तिश्लेषादिसाम्यव्यतिरेकेण अतिरिक्ततया न किञ्चिदपि प्रतिभासते ।
तेन चैतदुदाहरणं विवक्तार्थवृत्तिश्लिष्टताप्रतिभासमाहात्म्यात् न च निदर्शनान्तरमिति यदभियुक्ततरैः तैरेवाभ्यधायित, न तदपि युक्तियुक्तम् ।
यथा---

यैर्दृष्टा सा न वा दृष्टा मुषिताः सममेव ते ।
हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् // वजी_पू३.१४८ ।।

एतदलङ्कारवार्तामात्रानभिज्ञस्य कस्यचित्प्रलपितमिति सचेतसां प्रतिभासते ।
यस्माद्वैदग्ध्यस्य भङ्ग्या तरुणीलावण्यातिशयप्रतिपादनपरेयं अप्रस्तुतप्रशंसा कविचेतसि परिस्फुरति ।
यदि वा निदर्शनान्तरविषयत्वेन तुल्ययोगिता संभवति ।
यथा---

यत्काव्यार्थनिरूपणं प्रयिकथालापा रहो ऽवस्थितं कण्ठान्तं मृदुगीतमादृतसुहृददुःखान्तरावेदनम् // वजी_पू३.१४९ ।।

अनन्वयो ऽप्युपमायामेवान्तर्भवतीति विवेच्यते ।
तथा चास्य लक्षणमुदाहरणं च---

यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातस्तमित्याहुरनन्वयम् // वजी_पू३.१५० ।।

ताम्बूलरागवलयं स्फुरद्दशनदीधिति ।
इन्दीवराभनयनं तवेव वदनं तव // वजी_पू३.१५१ ।।

एतस्य लक्षणानन्यत्वमेव (वं) (तत्सहाय) मभिधावैचित्र्यविधायकत्वं चेति द्वितयमप्युपमान्तर्भावमेव साधयति ।
तत्रोपमानोपमेयभावव्यवस्थितेः ।
उपमान्तरेण सह लक्षणान्वितत्वमनन्वयस्य न संभवतीत्यभीधीयते तदपि न समाधानं, यस्मात्समारोपितरूपस्य (द्वित्वस्याभ्युपगमादु) पमानोपमेयभावसंबन्धनिबन्धनमेव (साम्यं) भवतामनन्वयलश्रणस्य प्रवृत्तिनिमित्तम्, अस्माकं केवलेनापि साध्यते तदित्याह---

कल्पितोपमया तुल्यं कवयो ऽनन्वयं विदुः // वजी३.४२ ।।

"कल्पिता"---उल्लिखिता (वा) "उपमा" यस्याः सा तथोक्ता ।
तथा कल्पितोपमया "तुल्यं" अन्यूनानतिरिक्तमनन्वयमलङ्करणं "कवयः"---तद्विदः "विदुः"---जानन्ति ।
तथा च कल्पितोपमायां वर्णनाविषयस्य वस्तुनः सौन्दर्यधाराधिरूढस्वसाम्य समन्वयः समुद्भवति ।
सातिशयत्वसमर्पणसामर्थ्यविरहात् सर्वेषां पदार्थानां भूतानामसद्भतं किमपि काल्पनिकमुपमानमुल्लिखन्तो यथारुचि रुचिराशयाः कवयः परिदृश्यन्ते ।
(असद्भूतं) समुल्लिखितमिति च पुनरपि परस्परसाम्यनिबन्धनस्तयोरुपमानोपमेयभावः पर्यवस्याति, नान्यत्किञ्चिदतिरिक्तं मनोहारितायाः कारणम् ।
तथा च लक्षणमुदाहरणं च

उपमेयोपमां नाम ब्रुवते तां यथोदिताम् // वजी_पू३.१५२ ।।

सुगन्धि नयनानन्दि मदिरामदपाटलम् ।
अम्भोजमिव ते वक्त्रं त्वदास्यमिव पङ्कजम् // वजी_पू३.१५३ ।।

नाप्यत्र लक्षणमुपमालङ्कारादलङ्कारान्तरस्य कारणम् ।
पूर्वोक्तया नीत्या तस्य निराकृतत्वात् ।
(उपमानोपमेयभावश्चात्र पर्यायतो भवेत्) ।
(ते) नोपमानोपमेयभावे (भेद) प्रतिभासो ऽभेदप्रतिभासो ऽपि सप्र (माणः) ।
न च उपमानान्तरनिरासलक्षणतात्पर्यादलङ्कारान्तरत्वम्, मुखमिन्दुरित्यादौ उपमानेतरस्वभावगन्धस्याप्यविद्यमानत्वा (त्) ।
(प्रतिभा) प्रतिभासि प्रौढिप्रतिपादितमभिधाप्रकारवैचित्र्यमात्रमेवात्र विजृम्भते न पुनरलङ्करणान्तरत्वम् ।
वाच्यान्तरेष्वपि वैचित्र्यान्तरदर् (शनात्) ।
यथा---

तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामाधिरोहतां द्वे ।।
प्रस्पन्दमानपरुषेतरतारमन्तः चक्षुस्तव प्रचलितभ्रमरं च पद्मम् // वजी_पू३.१५४ ।।

यथा---

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिः स्पृहोऽ र्थो नृपो ऽर्थिकामादधिकप्रदश्च // वजी_पू३.१५५ ।।

अत्र द्वयोरपि प्रस्तुतत्वाद्वर्णनीयसाम्यसद्भावः (न) पुनरलङ्कारभावः ।
यथा वा---

हेलावभग्नहरकार्मुक एष सो ऽपि हेला (पदान) परितोषितचन्द्रचूडः ।
तस्यैव सो ऽस्य च....सख्य वा स्यात् श्लाघ्यं द्वयोरुभयथापि तवाद्य तेषाम् // वजी_पू३.१५६ ।।

अत्र पूर्वोक्तमेवानुसन्धेयम् ।
यद्यप्युपमालक्षणावसरे भावमात्रमित्युभयनिष्ठमलङ्करण माख्यातम्, तथापि तत्राप्रस्तुतत्वादुपमानस्य पराङ्गत्वमुपपन्नम् ।
इह पुनः प्रस्तुतस्य मुख्यत्वम् ।
कथं तदिति विचारितमेव ।
परिवृत्तिरप्यनेन न्यायेन पृथङ् नास्तीति निरूप्यते ।
तथा च लक्षणं परिवृत्तेः---

"अर्थानां यो विनमयः परिवृत्तिस्तु सा मता " // वजी_पू३.१५७ ।।

इति ।
परिवर्तनं च सावन्तरावकाशे वस्त्वन्तरस्यावस्थानम् ।
असौ परिवृत्तिरलङ्कारो ऽभिधीयते ।
सा च बहुप्रकारा---एकस्यैव विषयिणा समुचितविषयावकाशे विषयान्तरं परिवर्तते ।
यथा---

स्वल्पं जल्प बृहस्पते सुरगुरो नैषा सभा विज्रिणः // वजी_पू३.१५८ ।।

क्वचिदेकस्यैव क्रमेण समुच्चितधर्मगोचरे धर्मान्तरं परिवर्तते ।
यथा---

विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः // वजी_पू३.१५९ ।।

अत्र गौर्याः करकललक्षणो धर्मः परिवर्तितः क्वचिदेकस्यैव धर्मिणः सुचितस्वसंवादिधर्मावकाशे धर्मान्तरं परिवर्तते ।
यथा---

किमित्यपास्याभरणानि यौवने ।
त्वया धृतं वार्धकशोभि वल्कलम् // वजी_पू३.१६० ।।

क्वचिद्वहूनामपि धर्मिणां परिस्पर्धिना पूर्वोक्ताः सर्वे ऽपि परिवर्तन्ते ।
तथा च लक्षणकारेणात्रैवोदाहरणं दर्शितम् ।
यथा--- शस्त्रप्रहारं ददता भुजेन तव भूभुजा ।
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् // वजी_पू३.१६१ ।।

तदेवं परिवृत्तेरलङ्करणत्वं (न) युक्तमित्याह---

विनिवर्तनमेकस्य यत्तदन्यस्य वर्तनम् ।
तदलङ्करणं न स्यात् पूर्ववत् परिवर्तनात् // वजी३.४३ ।।

विनिवर्तनमित्यादि---"यदेकस्य" पदार्थस्य "विनिवर्तनं" अपाकरणं "तदन्यस्य" तद्व्यतिरिक्तस्य परस्य, "वर्तनं" तदुपनिबन्धनं तदलङ्करणं न भवति ।
कस्मात् उभयोः "परिवर्तमानत्वात्" मुख्येनाभिधीयमानत्वात् ।
कथं "पूर्ववत्" यथापूर्वं प्रत्येकं प्राधान्यान्नियमानिश्चितेश्च (यथा) न किञ्चित् कस्यचिदलङ्करणं, तद्वदिहापि विचारितम् ।
न च तावन्मात्ररूपतया तयोः परस्परविभूषण (विभूष्य) भावः, (तथा सति) प्राधान्यनिवर्तनप्रसङ्गात् ।
रूपान्तरानिरोधेषु पुनः साम्यसद्भावे भवत्युपमितिरेषा चालङ्कृतिः समुच्चितोपमावत् पूर्ववदेव ।
यथा---

सदयं बुभजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव // वजी_पू३.१६२ ।।

अत्र समतया (ध्रियमाणः) सानुरागः पृथिवी (वधूभोग) यत्नः पार्थिवस्य प्रतीयते, द्वयोरपि वर्ण्यमानत्वात्, तथा परिवृत्तावपि साम्यप्रतितेरुपमैव ।
यथा---

अयं रणश्चारणजीवितान्तकृत् ननन्द (तुश्चैव) नरस्य सैनिकाः ।
इह व्रतो शक्तिशिरोभिरादरात् नवासिधारा न खलूत्पलस्त्रजः // वजी_पू३.१६३ ।।

साम्यप्रतिभासमात्रं (अत्र) मनोहारितायाः कारणमित्यलङ्करणम् ।
यस्मादेवंविधे विषये विच्छित्तिविधानस्य संनियत (साम्यं) प्रतीयमानमलङ्करणमुपनिबध्नन्ति, न पुनरभिधीयमानमेव ।
प्रतीयमानत्वं परिवृत्तेरपि दृश्यते ।
यथा---

निर्दिष्टां कुलपतिना स पर्णशाला- मध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय // वजी_पू३.१६४ ।।

अत्र सर्वाण्यपि पदानि यथास्वमाक्षिप्तपरिवर्तनीयपदार्थान्तराण्युपनिबद्धानि, ततः प्रतीयमानत्वात्तद्विदाह्लादकारित्वमपि ( न च) संवादिनी परिवृत्तिः कथम् अमुपपद्यमानत्वात् अन्यथा ? (सत्यं) युक्तमेतत् ।
न परिवृत्तेरत्यन्ताभावो ऽस्माभिरभिधीयते, वर्णनीयत्वादलङ्कृतिर्न भवतीत्यस्माकमभिप्रायः ।
न च प्रतीयमानतामात्रमलङ्करणसाधनम्, अलङ्कार्यवस्तुमात्रे ऽपि तस्याः संभवात् ।
तथाचैतदेवोदाहरणम् ।
न च यत्प्रतीयमानं तदलङ्करणं तद्विदाह्लादकारित्वात् इति युज्यते वक्तुम् ।
अलङ्कार्ये ऽपि तद्विदाह्लादकारित्वस्य दर्शनात् ।
वस्तुमात्रमलङ्कारो रसादयश्चेति भेदत्रितयानुपपत्तेश्च ।
किं च परिवृत्तेरलङ्कारत्वे तदुपशोभायै भूषणान्तरं नोपयुज्यते, "किमित्यपास्याभरणानि" इत्यादौ ।
यदि वा "वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते" इति ।
यदि वा भूषणे ऽपि विभूषणान्तरमसन्तोषादुपनिबध्नन्तीत्यभिधीयते, तदपि न युक्तियुक्तम् ।
यस्मादन्यस्मिन् विभूष्ये संभवति यत्र भूषणोपनिबन्धः, तत्र भूषणान्तरमसन्तोषादुपपद्यते, न पुनरन्यस्मिन् ।
नेयं पूर्वोक्तया नीत्या प्रत्येकमेव परस्परं द्वयोरपि भूषणभावे प्रत्यारखाते परिवृत्तेर्विभूषा संभवति, यत्र भूषणत्वमेवावशिष्यते ।
तस्मादुपशोभार्थमुपमाख्यमलङ्करणमुपनिबद्धम् ।
तथा चायमत्र वाक्यार्थः---यौवनोद्भेदसमयसमुचिताभरणापसारणपूर्वकं वार्धकोपपन्नचीरपरिधानग्रहणं प्रकटशशाङ्कतारकया (विभावर्या प्रदोषे ऽरुणसमागमकल्पमिति) किमपि काव्यस्फुरितभूतं तद्विदाह्लादकारित्वमुन्मीलयति ।
तदयमत्र परमार्थः---लक्षणोल्लिखितरेखया विभूषणविन्यासो विधातव्यः ।
प्रतिभाप्रतिभासमानभणितिवक्रताप्रकारवैचित्र्येणापि यथा---

सिविणविव्खेण...(?) // वजी_पू३.१६५ ।।

क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् ।
ज्ञेया निदर्शनैवासौ यथेववतिभिर्विना // वजी_पू३.१६६ ।।

इति (लक्षिता) निदर्शनाप्युपमितिरेव ।

अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् // वजी_पू३.१६७ ।।

अत्र तथैवेति कविप्रतिभार्पिततात्पर्यान्तरनिश्चयलक्षणस्य वस्तुनः तदिवेति तदेवेति वा सादृश्यस्य प्रतिपादकं विना तत्प्रतिपादनप्रगल्भवाक्य प्रयोगमाहात्म्यादुत्प्रेक्षायाः प्रतीयमानत्वात् ।
यथा--- पवाण चल विज्जु च दुलिं राइआसु खनअन्ति मे अआसो उवाण उरुलिसव्दयमि हिऌइआसुक जिल्लै विरहए ।

(?) // वजी_पू३.१६८ ।।

अत्र गर्जितशब्दं श्रुत्वा महिलासु कासुचित्...चलविद्युद्भाविका (ल) रात्रिषु मेघान् विलोकयन्तीति....महिलानामभिप्रायनिश्चयस्यागोचरत्वात् वाक्यार्थस्यान्यथानुपपत्तेश्च पूर्वोक्तमनुसर्तव्यम् ।

तमिन्दुरर्धोदितबिम्बशोभा .........शो ऽपि ।
मन्दप्रभालङ्घितकामपाल- ललाटपट्टश्रियमाचकर्ष // वजी_पू३.१६९ ।।

अत्रार्धोदितेन्दुबिम्बशोभायाः सादृश्योल्लङ्घितकामपालललाटपट्टश्रियः.....तदप्यतिरिक्तवृत्तिधम्यर्न्तरेण चमत्कारकारणमन्यथा न किञ्चनापि उपपद्यते ।
नानार्थमुपमायाः क्रियापदमेवंविधप्रतिपादकतां प्राप्नोति ।
ततश्च गतार्थत्वाभिधायिनः शब्दस्याप्रयोगः साक्षाद्विलोचनरथवृत्तिर्न भवतीत्युपचारपारंपर्येण तद्विशेषणतां प्राप्यते ।
तथा च धर्मधर्मिभावलक्षणायाः प्रत्यासत्तेः प्रथमं स्वाभिधेयलक्षणलक्षणाया गुणमात्रेणैव ततश्च सादृश्यनिबन्धनायाः प्रत्यासत्तेरेव तत्सदृशे विलोचनच्छायातिशयवृत्तिमासादयति ।
तद्विशेषणत्वादेव समासे ऽस्मिन् नीलोत्पलशब्दस्य पूर्वनिपातः सप्तमीविशेषणे बहुव्रीहाविति ।
इन्दुमुखीत्यत्र इन्दुरिव मुखं यस्याः सा तथोक्ता ।
सकललोकविलोक्यमानाखिलमृगाङ्कमण्डलसंस्थानसादृश्ये निमित्तभावे पूर्वोक्तयैव (नीत्या) इन्दुशब्दस्यैव विशेषणत्वमिति पूर्ववदेव समासोपपत्तिः ।
यदि वा इन्दुमुखमिव मुखं यस्याः सा तथोक्तेत्यत्र इन्दुशब्दस्तदेकदेशे मुखे विशेषणम् (भवति) यथा ग्रामो दग्ध इति ।
शिष्टं पूर्वोक्तमेवानुसन्धेयम् ।
"पुरुषव्याघ्रः" इत्यत्र साधारणधर्मो ऽपि प्रतीयते ।
संबन्धं विनोपमानोपमेयभावस्यानुपपत्तेः॑ पदाभिसंबन्धसामर्थ्यात्तस्यावगतौ गतार्थत्वात् सामान्यशब्दस्याप्रयोगः ।
तदिदमुक्तम् "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति ।
इन्दुरिव कान्तं मुखं यस्याः सा इन्दुकान्तमुखीत्यत्र सामान्यशब्दस्य श्रूयमाणतया युक्तिरभिधीयते ।
"इन्दुरिव कान्तमिन्दुकान्तम्" इति "उपमानानि सामान्यवचनैः" इत्यनेन समासे विहिते पश्चादिन्दुकान्तं मुखं यस्याः सा तथोक्तेति ।
सामान्यशब्दस्य वृत्तिवाक्ययोर्द्वयोरपि उपपद्यमानत्वान्न केनचिन्न्यायेन श्रूयमाणता विचारयितुं पार्यते, यतस्तेनैव सह पदान्तरं समस्यते, न पुनरन्येनेति कुतस्तस्य श्रूयमाणवृत्तेः प्रतीयमानता कल्पेत ? ।
तदेवं विवक्षावशात् क्वचिद्गम्यमानता, क्वचित्प्रयुज्यमानत्वम् ।
एवमादीनां सादृश्यनिबन्धनोभयविषय (सामान्य) संबन्धाभिधायिनां गम्यमानत्वाद प्रयुज्यमानत्वम् ।
अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगः क्रियते ।
स चेत् कविकौशलकल्पितात् प्राकारान्तरात् प्रतिपन्नः ततः किं शब्दप्रयोगेण ? ।
तथाच यत्र अन्यूनातिरिक्तच्छायाविशेषमर्थतः शब्दतश्चोपमानोपमेययोः साम्यसमर्पण सामर्थ्य सुभगप्रसादसुन्दरमुपनिबन्धबन्धुरं वाक्यं श्रुतिसमनन्तरमेव वर्णानुपूर्व्याः प्रतिभासवदर्थप्रतिपत्तिपूर्वकमलङ्कार प्रतीति मुत्पादयति, तत्र तदुपपादकानामिवादीनां गतार्थत्वादप्रयुक्तिः ।
यथा--

महीभृतः पुत्रवतो ऽपि // वजी_पू३.१७० ।।

यत्राप्यलङ्कारान्तरभेदनिबन्धनमन्तरेण पदार्थपरिवर्तनादौ कविकौशलोल्लासितातिरिक्तसाम्यसमन्वय माहात्म्यादुपमानोपमेयभावावगतिरुद्भिद्यते, तत्राप्यभिधानप्रकारवैचित्र्यवशादलङ्करणविच्छित्तिरेव तद्विदां तत्प्रतीतिकारिणाञ्चमत्कृतिकारितामावहतीति प्रतीयमानत्वमलङ्कारस्य ।
तदभिधायिनामिवादीनामप्रयोगो यथा---

महासिदधारा न खलूत्पलस्त्रजः // वजी_पू३.१७१ ।।
/इति

यत्र पुनर्वाच्यमलं (करणं), तत्रेवादिकं प्रतिपादनवैचित्र्यात् बहुप्रकारं प्रयोगमर्हति ।
तथाच पदार्थविषयायामुपमायां वाक्यैकदेशवर्तिनोरुपमानोपमेययोः परस्परसाम्यवाच्के प्रयुक्ते, तस्मिन्नेव वाक्ये स्तनान्तरवर्तिनोरुपमानोपमेययोः सादृश्यसंबन्धाभिधायी पुनरिवादिः प्रयुज्यते ।
(यद्यपि) प्रतियुगलमुपमानोपमेयभावस्य परिसमाप्तिः, तथापि वाक्यार्थनिष्पत्तावुपमानोपमेयभावस्य संभवे प्रथमाभिहितैव युक्तिरनुसर्तव्या ।
यथा---

ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यन् रसानिव // वजी_पू३.१७२ ।।

क्वचित्पदार्थोपमायामेव वाक्यैकदेशव्यवस्थितयोरुपमानोपमेययोः सादृश्यसमन्वयः वाचिकः ।
वाचकयुक्ते तस्मिन्नेव वाक्ये तयोरेकतरस्य धर्म्यन्तरेण सह धर्मान्तरं (र) सादृश्यनिबन्धनत्वात् उपमानोपमेयभावः संभवति ।
पूर्वोक्तया नीत्या तदभिधायी पुनरिवादिः प्रयुज्यते ।
यथा---

निर्याय विद्याथ दिनादिरम्या- द्विम्बादिवार्कस्य मुखन्महर्षेः ।
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे // वजी_पू३.१७३ ।।

क्वचित्पदार्थोपमायामुपमेयानामुपमानानां च समसंख्याकानां सूहद्वये प्रथमं विवक्षितसमूहसंख्याभेदसमाहि (त) द्वित्वमेव समाश्रित्य परस्परसाम्यसमन्वयादुपमानोपमेयभावमभिधातुमेकस्मिन् वाचके प्रयुक्ते समुदायधर्माणां समुदायपूर्वकत्वात्तु पश्चादेतेषां प्रत्येकं स्वसंबन्धिनं प्रति साधारणधर्मसंबन्धसामर्थ्यादुपमानोपमेयभावः पर्यवस्यति ।
यथा---

"चुम्बन् कपोलम्" // वजी_पू३.१७४ ।।

इत्यादौ ।
अत्र स्पर्शोल्लसदिति क्रियाविशेषणं चेति द्वाभ्यां प्रकाराभ्यामुभयनिष्ठतयान्योन्यं (साधारणधर्मसंबन्धादुपमानोपमेयभावः) ।
क्वचित्पदार्थोपमायाम् एकस्य वस्तुनः बहुविधपदार्थविशेषणविशिष्टतया मुख्यभावेन वर्ण्यमानवृत्तेरुपमेयत्वे तावन्मात्रविशेषणैः स्वैर्विशिष्टं पदार्थान्तरमुपमानतां यदा प्राप्नोति, तदा तयोरुभयोरपि तथाविधयैव परस्परसाम्यधर्मतयान्वयात् उपमानोपमेयभावः ।
तदभिधानार्थमिवादिरेव प्रियुज्यमानतामर्हति ।
तद्विशेषणानां परस्परसाम्यसंबन्धाभिधाने पूर्वोक्तैव युक्तिरनुसन्धेया ।
यथा---

"पाण्ड्यो ऽयम्" इत्यादौ // वजी_पू३.१७५ ।।

तदेवंवि(ध)पक्षे अभिधाप्रिकारवैचित्र्यात् वाचकशक्तिवैचित्र्याच्च सर्वमेतदुपपद्यते ।
उपमादोषणां तु लक्षणस्येव सुघटितत्वात् दूरोत्सारितत्वेन नेयार्थादिवदपरिगणनम् ।

(विवक्षाविषयो धर्मश्चेतोहारी यदोच्यते ।
तदा दोषा भवन्त्येते दूरोत्सारितवृत्तयः) // वजी_पू३.१७६ ।।

इत्यन्तरश्लोकः ।
एवं प्रसुताप्रस्तुतवाच्यसादृश्यजीवितमुपमाख्यमलङ्करणमभिधाय समानच्छायाप्रायं वाचकसादृश्यसर्वस्वं श्लेषमभिधत्ते---

तदेकशब्दवाच्यत्वमर्थयोर्धार्यते द्वयोः ।
श्लेषाभिधानो ऽलङ्कारः तादृग्वाचकवाच्यता // वजी३.४४ ।।

तदेकशब्दवाच्यत्वमित्यादि तदित्यनेन श्लेषोपनिबध्यमानवृत्तेर्वाचकस्य परामर्शः ।
तेन तस्यैवोक्तस्य शब्दस्य पदात्मनो वाचकत्वम् ।
तेन "वाच्यत्वम्" अभिधेयत्वम् ।
"अर्थयोः" = वस्तुनोरभिधीयमानयोः द्वयोः सत्यभूतयोः वाक्यार्थतात्पर्यस्वरूपयोः "धार्यते" यस्मिन् स श्लेषाभिधानो ऽलङ्कारः ।
"तादृग्वाचकवाच्यता" = स इव दृश्यते यः स तादृगुच्यते, तादृक्चासौ वाचकश्च स तथोक्तः, तेन वाच्यता वाच्यत्वं अभिधेयत्वम् ।
तादृशार्थवाचकत्वं यत्र यस्मिन् सो ऽपि श्लेष उच्यते ।
यः श्रुतिसाम्यात् स इवानुभूयते ऽसौ तादृगुच्यते ।
पुनः स एव स्वरादिधर्माणामुदात्तादीनामन्यत्वाद् भिद्यते ।
अत्र परस्परापेक्षत्वमेव द्वयोरपि सादृश्यम् ।
यादृगेको ऽस्य वाचकः तादृक् एवासाविति समाश्रितो वास्तवपदवृर्तिर्वा यत्रैकस्मिन् क्वचिद्वाक्यैकदेशे, तदेकशब्दवाच्यत्वं द्वयोः ।
अथ तयोः तादृग्वाचकवाच्यत्वाविशेषे ऽपि श्लेष एवेति कथम् ।
अतस्त्रिभिः प्रकारैस्त्रिविधैः पदार्थैरेव तत्प्रतीतेः ।
अर्थश्लेषः शब्दश्लेषः उभयश्लेषः इति ।
तदेवंविधस्यास्य प्रतिपादकं किमित्याहः---

पदार्थान्तरमेतस्य कवयः प्रतिपादकम् ।
वाच्यसामर्थ्यमपरमिवादि प्रतिजानते // वजी३.४५ ।।

पदार्थान्तरमित्यादि ।
"पदार्थान्तरं" = श्लिष्टपदव्यतिरिक्तं "अपरं" तत्समर्पणसामर्थ्यसमेतमेतस्य श्लेषालङ्कारस्य प्रतिपादकं समर्पकं कवयस्तद्विदः"प्रतिजानते" प्रत्यवबुद्ध्यन्ति ।
वाचकविशेष "मपरं इवादि" इवप्रभृति वा पदार्थान्तरादिव्यतिरिक्तं वाच्यसामर्थ्यमेववा केवलं वाक्यं सकृत्प्रतिपादितम् ।
तस्य स्वरूपसामर्थ्यविवक्षितार्थ समर्पणशक्तियुक्तार्थं प्रतिजानते ।
प्रतिपादकमिति संबन्धः ।
त्रिष्वप्येतेषु प्रकारेषु द्वयोरर्थयोः प्राधान्येन च वर्ण्यमानत्वे तथाविधशब्दवाच्यत्वलक्षणसाम्यसमन्वयस्वरूपं शोभानिमित्तं वाक्यसामर्थ्यलभ्यं प्रतीयमानमलङ्करणं, वाचकसद्भावे पुनः वाच्यमेव ।
प्रस्तुताप्रस्तुतयोरर्थयोः प्रधानगुणभावे सति तथैव तथाविधशब्दवाच्यत्वसाम्यसमन्वय एव ।
मुख्यतया वर्ण्यमानस्याप्येकतरस्योपमानत्वे समुच्चितोपमाद्या(लोचनयान्यस्योपमेयत्वसमन्वयो ऽनु) सन्धेयः ।

अर्थयोरेकमुल्लेखि पदं शब्दतदर्थयोः ।
एकावभासयोः साम्यं तन्त्रत्वादत्र जृम्भते // वजी३.४६ ।।
तुल्यशब्दस्मृतेरर्थः तस्मादन्यः प्रतीयते ।
शब्दस्योद्भूतनष्टत्वात् स्मृतिः सर्वत्र वाचिका // वजी३.४७ ।।

तत्र प्रथमस्योदाहरणं यथा---

स्वाभिप्रायसमर्पणप्रवणया माधुर्यमुद्राङ्कया विच्छित्त्या हृदये ऽभिजातमनसामन्तः किमप्युल्लिखत् ।
आरूढं रसवासनापरिणतेः काष्ठां कवीनां परं कान्तानां च विलोकितं विजयते वैदग्ध्यवक्रं वचः // वजी_पू३.१७७ ।।

द्विदीयस्य यथा---

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः यश्चोद्वृत्तभुजङ्गाहरवलयो गङ्गां च यो ऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदो-माधवः // वजी_पू३.१७८ ।।

तृतीयस्य यथा---

मालामुत्पलकन्दलैश्च विकचैरायोजितां बिभ्रती नेत्रेणासमदृष्टिपातसुभगेनोद्दीपयन्ती स्मरम् ।
काञ्चीदामनिबद्धभङ्गि दधती व्यलम्बिना वाससा मूर्तिः कामरिपोः सिताम्बरधरा पायादपायाज्जगत् // वजी_पू३.१७९ ।।

असत्यभूतार्थश्लेषोदाहरणं यथा---

दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिः गोप्येवं गदितः स लेशमवताद्गोष्ठे हसन्त्या हरिः // वजी_पू३.१८० ।।

एवं वाक्यबन्धवैचित्र्यशक्तबुद्धिविरचितं चर्वणीयं श्लेषमभिधाय, साम्यैकनिबन्धनत्वादुपमारूपकश्लेषकारणैकं व्यतिरेकमभिधत्ते--- सति तच्छब्दवाच्यत्वे धर्मसाम्ये ऽन्यथास्थितेः ।

व्यतिरेचनमन्यस्मात् प्रस्तुतोत्कर्षसिद्धये ।
शाब्दः प्रतीयमानो वा व्यतिरेको ऽभिधीयते // वजी३.४८ ।।

सतीत्यादिः ।
स चासौ शब्दश्चेति विगृह्य तच्छब्देन शक्त्या श्लेषनिमित्तभूतः शब्दः परामृश्यते, तस्य "वाच्यत्वे" अभिधेयत्वे "सति" "धर्मसाम्ये" परस्परपरिस्पन्दसादृश्ये विद्यमाने, (विकल्पना) यां तथाविधशब्दवाच्यत्वस्य धर्मसाम्यस्य चोभयनिष्ठत्वादुभयोः प्रकृतत्वात् ।
प्रस्तुताप्रस्तुतयोरेव तयोः धर्मादेकस्य यथारुचि केनापि विवक्षि(तधर्मान्त) रेण "अन्यथास्थैतेः" अन्यथाभावेनावस्थितेः "व्यतिरेचनं"---पृथक्करणं "अन्यस्मात्" उपमेयस्योपमानात्, उपमानस्य वा तस्मात् ।
सः "व्यतिरेकः" व्यतिरेकनामा अलङ्कारो "ऽभिधीयते" कथ्यते ।
किमर्थं---"प्रस्तुतोत्कर्षसिद्धये", "प्रस्तुतस्य" वर्ण्यमानवृत्तेः "उत्कर्षसिद्धये" छायातिशयनिष्पत्तये ।
स द्विविधः संभवति "शाब्दः प्रतीयमानो वा" = "शाब्दः" = कविप्रवाहप्रसिद्धः तत्समर्पणसमर्थाभिधानेनाभिधीयमानः ।
"प्रतीयमानः" = वाक्यार्थसामर्थ्यमात्रावबोध्यः ।
तत्र प्रथमतारतम्यादुपमाव्यतिरेको यथा---

एमेअ जणो तिस्सा देइ कवोलोवमाइ ससिबिंबम् ।
परमत्थविआरे उण चन्दो विअ वराओ // वजी_पू३.१८१ ।।
एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् ।
परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ।।
(छाया)

यथा वा---

दिदृक्षवः पक्ष्मलताविलासमक्ष्णां सहस्त्रस्य मनोहरं ते ।
वापीषु नीलोत्पलिनी-विकासरम्यासु नन्दन्ति न षट्पदौघाः // वजी_पू३.१८२ ।।

यथा वा---

प्राप्तश्रीरेष कस्मात् पुरनपि मयि ते मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातः त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः // वजी_पू३.१८३ ।।

अत्र वर्ण्यमानस्य नारायणत्वसमारोपं विना तदारम्भसंभावना न संभवतीति तस्य तत्त्वाध्यारोपणात् प्रतीयमानतया रूपकमेव पूर्वसूरिभिः समाम्नातम्॑ वाच्यव्यतिरेकः तत्कथमस्योपपद्यते ।
सत्यमुक्तम्, किन्तु युक्तिरत्राभिधीयते, तस्माद्दिविधं प्रतीयमानं वस्तु, प्रतिपादनगुणीभूतस्वार्थवाचकव्यापारगोचरः, तथाविधार्थसामर्थ्यविषयो वा ।
तत्र वाचकमुपमानमित्यालोच्य विवक्षितार्थोपपत्तिनिमित्तं वाच्यसामर्थ्यमेव समाश्रित्य पूर्वसूरिभिरतदाम्नातम् ।
वाचकव्यापारः पुनरन्यथैव व्यवस्थितः ।
तथा च प्राप्त(श्री) प्रभृतीनि पदानि आक्षिप्तप्रतियोगितयोपनिबद्धानि, प्रस्तुतस्य प्राक्तनपरिस्पन्दविशिष्टतरदेवतात्वप्रतिपादकपराणि प्रकटमेव रूपकव्यतिरेकं गमयन्ति ।
तदिदमुक्तम्--

यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः सध्वनिरिति सूरिभिः कथितः // वजी_पू३.१८४ ।।

तस्मान्न किञ्चिदनुपपन्नम् ।
श्लेषव्यतिरेको यथा---

श्लाघ्यासेषतनुं सुदर्शनकरः सर्वङ्गलीलाजित- त्र्यैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्राणा मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणीवो ऽवतात् // वजी_पू३.१८५ ।।

अयैस्व प्रकारान्तरमाह--

लोकप्रसिद्धसामान्यपरिस्पन्दाद्विशेषतः ।
व्यतिरेको यदेकस्य परस्तदविवक्षया // वजी३.४९ ।।

लोकप्रसिद्धेत्यादिः---"परः" अन्यः स व्यतिरेकालङ्कारः ।
कीदृशः "यदेकस्य" वस्तुनः "व्यतिरेकः "पृथक्करणं ।
कस्मात् "लोकप्रसिद्धसामान्यपरिस्पन्दात् = "लोकप्रसिद्धः "---जगत्प्रतीतः सामान्यभूतः सर्वसाधारणः यः"परिस्पन्दः " व्यापारः तस्मात् ।
कुतो हेतोः "विशेषतः" कुतश्चिदतिशयात् ।
कथं "तदविवक्षया" तदित्युपमादीनां परामर्शः, तेषाम् "अविवक्षया" तान्यविविक्षित्वा यो विहितः ।
अयमत्राभिप्रायः---यदयमेव (विवक्षितः) सामान्यभूतत्वेन ते पुनरस्यैव शेषाः प्रस्तावपूर्वमभिहिताः ।
परस्योदाहरणं यथा---

चापं पुष्पितभूतलं सुरचिता मौर्वो द्विरेफावली पूर्णेन्दोरुदये ऽभियोगसमयः पुष्पाकरो ऽप्यासरः ।
शस्त्राण्युत्पलकेतकीसुमनसो योधात्मनः कामिनां त्रैलोक्ये मदनस्य को ऽपि ललितोल्लेखो जीगिषाग्रहः // वजी_पू३.१८६ ।।

अत्र सकललोकप्रसिद्धशस्त्राद्युपकरणकलापाज्जिगीषा व्यवहारान्मन्मथस्य सुकुमारोपकरणत्वाज्जिगीषाव्यवहारो व्यतिरिच्यते ।
ननु भूतलादीनां चापादिरूपणाद्रूपकव्यतिरेक एवायम् ? नैतदस्ति ।
रूपकव्यतिरेके हि रूपणं विधाय तस्मादेव व्यतिरेचनं विधीयते ॑ एतस्मिन पुनः सकललोकप्रसिद्धात् सामान्यतात्पर्याद्व्यतिरेचनम् ।
भूतलादीनां चापादिरूपणं विशेषणान्तरनिमित्तमात्रमवधार्यताम् ।
एवं व्यतिरेकं विचार्य श्लेषाभिसंभिन्नत्वादुचितावसरं विरोधं विचारयति---

विरोधो यो विरुद्धार्थवाचिनां संगतिं पुनः ।
समर्पयन्नुल्लिखति प्रतीतेर्युक्तियुक्तताम् // वजी३.५० ।।

विरोधेत्यादि ।
यो ऽलङ्कारः परस्परविरुद्धार्थप्रतीत्या, "विरुद्धार्थवाचिनां" विरुद्धवस्तुवचनानां युक्तियुक्ततामुल्लिखति तदभिधायिना पदान्तरेण अर्थसामर्थ्येन वा समर्पयन् युक्त्या प्रकारेणोपपद्यमानतया सङ्गतिं विदधाति ।
तस्य पदार्थत्वात् समन्वयं करोति विरोधाभिधानः स भण्यते ।
यथा

"कुपतिमपि कलत्रवल्लभम्, महादोषमपि सकलकलाधिष्ठानम्" // वजी_पू३.१८७ ।।

अत्र "अपि" शब्देन विरोधप्रतिपत्तिः ।
क्वचिदर्थसामर्थ्येन विरोधः प्रतीयते ।
यथा

"गौर्यादि भवता" // वजी_पू३.१८८ ।।

श्लेषादिसंभेदे ऽपि विरोधः संभवति ।
यथा

"मौलावर्तान्तमते विचित्तोयरे अणं अपरिहत्वेन परि लञ्चितकमन्ता विसेससाहोति अहं ।
" (?) // वजी_पू३.१८९ ।।

रूपकादिष्वप्येते भेदाः संभवन्तीति स्वयमुत्प्रेक्षणीयम् ।
एवं विरोधं विचार्य समासोक्त्यादेर्विरोधच्छायानुप्रवेशप्रसङ्गतः तद्विचारमारचयति---

समासोक्तिः सहोक्तिश्च नालङ्कारतया मता ।
अलङ्कारान्तरत्वेन शोभाशून्यतया तथा // वजी३.५१ ।।

समासोक्तिरित्यादि ।
येयं "समासोक्तिः" अलङ्कृतिर (भिहिता) (सा) "नालङ्कारतया मता" न विभूषणभावेन प्रतिभाता, यस्मात् पृथङ् नोपपद्यते ।
केन हेतुना "अलङ्कारान्तरत्वेन" विभूषणान्तरभावेन ।
"शोभाशून्यतया तथा" कान्तिरहितत्वेन च ।
तदिदमुक्तं भवति--यदि रामणीयकत्वं संभवति प्रकरान्तरविहिते तस्मिन् भूषणान्तरे ऽन्तर्भवति ।
रमणीयत्वाभावे शोभाशून्यत्वं पर्यवस्यति तस्याः ।
तथा च लक्षणोदाहरणे---

यत्रोक्तेर्गम्यते ऽन्योर्ऽथस्तत्समानविशेषणः ।
सा समासोक्तिरुदिता संक्षिप्तार्थतया यथा // वजी_पू३.१९० ।।

स्कन्धवान् ऋजुरव्यालः स्थिरो ऽनेकमहाफलः ।
जातस्तरुरयं चोच्चैः पातितश्च नभस्वता // वजी_पू३.१९१ ।।

अत्र तरोः महापुरुषस्य च द्वयोरपि मुख्यत्वे महापुरुषपक्षे विशेषणानि सन्तीति विशेष्याभिधायि पदान्तरमभिधातव्यम् ।
अथवा विशेषणान्यथानुपपत्त्या प्रतीयमानतया विशेष्यं परिकल्प्यते ।
तदेवंविधकल्पनस्य स्फुरितं न किञ्चिदिति स्फुटमेव शोभाशून्यता ।
तथाविधस्वभावयोरनयोः प्राधान्येनैकवाक्योपावरोहयुक्तिरभिधेया, यतः परस्पराभिधानसंबन्धं विना न किञ्चिदेतदुपपद्यते ।
न च कामरिपोर्मूर्तिरुमा वा जगत् पायादित्यनेन न्यायेन तयोः सङ्गतिर्घटते, यस्मात्तत्र द्वयोरपि परमेश्वरयोः पालनसामर्थ्योपपत्तेः तथाविधस्याप्यर्थस्याप्युचितत्वेनाशंसनीयत्वात्तथाविधशब्दवाच्यत्वान्न किञ्चिदनुपपन्नम् ।
एतस्मिन् पुनः परस्पराभिसंबन्धं विना तुल्यकालमेकवाक्योपावरोहे न किञ्चिन्नबन्धनमिति यत्किङ्कचिदेतत् ।
अथ तथा कश्चिदेवंविधो विधिना पुमान् पातितः, यथायं नभस्वता तरुः इत्याश्रीयते, तदेवं स्फुटमेवोपमानोपमेयभावः ।
तस्मादलङ्कारान्त (रान्तर्) भावः (केन) वार्यते ।
यदि वा महापुरुषस्य प्रतीयमान (त्वे), वाच्यतया तरुरुपपद्यते, तदेवमप्रस्तुतप्रसंसैषा ।
तस्मात्पुनरपितदेव व्यवस्थितम् ।
विशेषणा(ना)मुभयार्थत्वे श्लेषानुप्रवेशो दुर्निवारः (इति) तेनापि तदेवापतति ।
निदर्शनान्तरमपि समासोक्तेः पृथक्कृतनिबन्धनं यथा---

अनुरागवती सन्ध्या दिवसस्तत्पुरः सरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः // वजी_पू३.१९२ ।।

अत्र सन्ध्यादिवसयोर्मुख्यतया प्रस्तुतत्वेन, समानविशेषणप्रस्तुतकान्तावृत्तान्तप्रतीतिः प्रस्तुतयोः साम्यसमन्वयात्तथाभावं समर्पयन्ती प्रतीयमानोपमास्वरूपं नाति वर्तते ।
कान्तावृत्तान्तस्य वा मुख्यतया प्रतीयमानत्वे सन्ध्यादिवसयोरुपदिश्यमानत्वमित्यप्रस्तुतप्रशंसैव ।
"सहोक्तिश्च नालङ्कारतया मता" पूर्वोक्तेनैव हेतुद्वयेन ।
तथा च लक्षणमुदाहरणं चैतस्याः---

तुल्यकालक्रिये यत्र वस्तुद्वयसमाश्रये ।
वाक्येनैकेन कथ्येते सा सहोक्तिर्मता यथा // वजी_पू३.१९३ ।।

हिमपाताविलदिशो गाढालिङ्गनहेतवः ।
वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह // वजी_पू३.१९४ ।।

अत्र परस्परसाम्यसमन्वयो मनोहारितानिबन्ध (न) मित्युपमैव तदभावे, "शिष्येण सहोपाध्यायः पठति", "पुत्रेण सह पिता तिष्ठति " इत्यादौ शोभाशून्यत्वे ऽपि सा स्यात् ।
तदेवमेतयोः युक्तियुक्तमलङ्करणत्वमपसार्य प्रमाणोपपन्नमभिधत्ते ।
तत्र सहोक्तेस्तावत्---

यत्रैकेनैव वाक्येन वर्णनीयार्थसिद्धये ।
उक्तिर्युगपदर्थानां सा सहोक्तिः सतां मता // वजी३.५२ ।।

यत्रेत्यादि ।
सा सहोक्तिरलङ्कृतिः, "मता" = प्रतिभाता, "सतां" तद्विदां संमतेत्यर्थः ।
कीदृशी---"यत्र" = यस्यां, "एकेनैव वाक्येन" अभिन्नेनैव पदसमूहेन "अर्थानां" वाक्यार्थतात्पर्यभूतानां वस्तूनां "युगपत्" = तुल्यकालम् "उक्तिः" = अभिहितिः ।
किमर्थं---"वर्णनीयार्थसिद्धये" = "वर्णनीयस्य" = प्रधानत्वेन विवक्षितस्यार्थस्य "सिद्धये" = संपत्तये ।
तदिदमुक्तं भवति---यत्र वाक्यान्तरवक्तव्यमपि वस्तु प्रस्तुतार्थनिष्पत्तये विच्छित्त्या तेनैव वाक्येनाभिधीयते ।
यथा

हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य पाणिरसि निर्भरगर्भखिन्न- देवीविवासनपटोः करुणा कुतस्ते // वजी_पू३.१९५ ।।

अत्र मुख्यार्थसिद्धये यद्(वाक्यांन्तरा)भिधेयं वस्तु विच्छित्त्या तदेकेनैव (वाक्येनो) पनिबद्धम् ।
यदि च न्याय्यत्वा दवश्यं करणीयमपि निकृतिलक्षणं वस्तु करुणास्पदत्वादकरणीयकल्पं (तथापि) नैवोपेक्षणीयानुष्ठानम्॑ निर्भरगर्भखिन्नदेवीविवासनपटोः दाशरथेः पाणिरसीत्युचितानुरोधित्वात् कुतस्ते करुणा(संभवः)तदवध्यस्यापि शूद्रमुनेः ब्राह्मणशिशुजीवितरक्षणाय मण्डलाग्रं समर्पयेत्येकं वस्तु ।
द्वितीयं, यदि न्याय्यमवश्यकरणीयमपि तथाविधकारुणिकत्वादुदारचेतसा न करणीयमेवेति मन्यसे, तथापि रामस्य निर्भरगर्भखिन्नदेवीविवासनपटोः निष्करुणचूडामणेः करस्त्वमिति मुनिमारणं कियन्मात्रं तवेति विप्रलम्भशृङ्गारपरिपोषात् किमपि रामशब्दस्य रूढिवैचित्र्यवक्रत्वमुभयत्रापि स्फुरति ।
तथा च---

उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः // वजी_पू३.१९६ ।।

किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः ।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे // वजी_पू३.१९७ ।।

अत्र विच्छित्त्या तात्पर्यार्थवाचकमुपनिबद्धम् ।
तथाहि---नायिकायाः सख्याश्चावबद्धयोरपि प्रत्येकं वल्लभतत्सन्धानप्रवणतया सकलमेव वाक्यं (वाचक) मिति प्रतीयते ।
यथा वा---

सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्या वनोद्देशे मया विरहिता त्वया // वजी_पू३.१९८ ।।

अत्र प्रधानभूतविप्रलम्भशृङ्गाररसपरिपोष (विच्छित्त) ये वाक्यार्थद्वयमुपनिबद्धम् ।
ननु चानेकार्थसंभवे ऽत्र श्लेषानुप्रवेशः कथं न भवतीति ? अभिधीयते ।
तत्र यस्मात् द्वयोरेकतरस्य वा मुख्यभावे श्लेषः, अत्र पुनस्तथाविधाभावात्, बहूनां द्वयोर्वा सर्वेषां गुणभावः प्रधानार्थपरत्वेनावसानात् ।
अन्यच्च तस्मिन्नेकेनैव शब्देन युगपत् प्रदीपप्रकाशवदर्थद्वयप्रकाशनं शब्दार्थद्वयप्रकाशनं वेति शाब्दस्तत्र सामान्यार्थो विजृम्भते ।
सहोक्तौ पुनस्तथाविधस्याङ्गभावादेकेनै(व) वाक्येन पुनः पुनरावर्तमानतया वस्त्वन्तरप्रकाशनं विधीयते, तस्मादावृत्तिरत्र शब्द (स्य) प्राधान्यतां प्रतिपद्यते ।
(यदि) "सर्वक्षितिभृतां नाथ" इत्यत्र वाक्यैकदेशे श्लेषानुप्रवेशः संभवतीत्युच्यते, तथापि न कश्चिद्दोषः, यस्मादलङ्करणमलङ्करणान्तरं क्वचिदङ्गभावं गमयतीति ।
अत्र वाक्यैकदेशे श्लेषस्याङ्गत्वं, मुख्यभावः पुनः सहोक्तेरेव ।
(ननु) तदेवमावृत्त्या वस्त्वन्तरावगतौ सहोक्तेः सहभावाभावादर्थान्येपरिहाणिः प्रसज्यते, नैतदस्ति ।
यस्मात् सहोक्तिरित्युक्तम्, न पुनः सहप्रतिपत्तिरिति ।
तेनात्यन्तसहभावाभिधानमेव (सं) प्रतिपन्नमुत्कर्षावगतेरिति न किञ्चिदसंबद्धम् ।

कैश्चिदेषा समासोक्तिः सहोक्तिः कैश्चिदुच्यते ।
अर्थान्वयात्सा विद्वद्भिरन्यैरन्यत्वमेतयोः // वजी_पू३.१९९ ।।

इत्यन्तरश्लोकः ।
एवं गुणभूतादपि स्वरूपोत्कर्षमाहात्म्यादलङ्कारसामान्यस्वभावात् ।
कांश्चिदलङ्कारानमिधायेदानीं विभूषणत्वादेव तथविधान् गुणभूतानुपक्रमते ।
तत्र दृष्टान्तं तावदभिधत्ते---

वस्तुसाम्यं समाश्रित्य यदन्यस्योपदर्शनम् ।
इवाद्यसंभवे तत्र दृष्टान्तः सो ऽभिधीयते // वजी३.५३ ।।

वस्तुसाम्येत्यादि ।
"यदन्यस्य" ("यस्मात्") वर्ण्यात् प्रस्तुतात् "अन्यस्य" व्यतिरिक्तवृत्तेः पदार्थान्तरस्य "उपदर्शनम्" = उपनिबन्धनं स दृष्टान्तनामालङ्कारो ऽभिधीयते ।
कथं "वस्तुसाम्यं समाश्रित्य" "वस्तुनोः" पदार्थयोः दृष्टान्तदार्ष्टान्तिकयोः "साम्यं" सादृश्यं "समाश्रिताय" निमित्तीकृत्य ।
लिङ्गसंख्याविभक्तिस्वरूपलक्षणसाम्यवर्जितमिति (बोधनार्थं) वस्तुग्रहणम् ।
"तत्र" उपन्ते "इवाद्यसंभवे" सादृश्याभिधायिनामिवप्रभृतीनां विरहे ।
तदेवमुपमायाः वाचकमग्रे व्यतिरिच्यते ।
यथा---

सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् // वजी_पू३.२०० ।।

(अत्र) पादत्रयमेवोदाहरणं, चतुर्थे भूषणान्तरसंभवात् ।
दृष्टान्तमभिधाय तत्संभद्धविभूषणप्रस्तावात् समानच्छायमर्थान्तरन्यासमभिधत्ते ।

वाक्यार्थान्तरविन्यासो मुख्यतात्पर्यसाम्यतः ।
ज्ञेयः सोर्ऽथान्तरन्यासः यः समर्पकतयाहितः // वजी३.५४ ।।

वाक्यार्थेत्यादि ।
"ज्ञेयः सोर्ऽथान्तरन्यासः" = (अर्थान्तरन्यास) नामालङ्कारो "ज्ञेयः" = परिज्ञातव्यः ।
कीदृशः---"वाक्यार्थान्तरविन्यासः"---परस्परान्वितपदसमुदायाभिधेयं वस्तु वाक्यार्थः तस्मादन्यस्मात् = अप्रकृतत्वात् प्रस्तुतव्यतिरेकि वाक्यार्थान्तरं, तस्य "विन्यासः" = विशिष्टं न्यसनं = तद्विदाह्लादकारितयोपनिबन्धः ।
कस्मात् कारणात् "मुख्यतात्पर्यसाम्यतः"," मुख्यं" = प्रस्तावाधिकृतत्वात् प्रधानभूतं वस्तु, तस्य "तात्पर्यं" = यत्परत्वेन तत्संमतं, तस्य "साम्यतः" = सादृश्यात् ।
कथं "समर्(पकत) याहितः" = समर्पकत्वेनोपनिबद्धः, तदुपपत्तियोजनेनेति यावत् ।
अत्र सामान्ये समर्थनीये विशेषः समर्थको, विशेषे वा सामान्यं, (त) योः परस्पराव्यभिचारात् ।
यथा---

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः // वजी_पू३.२०१ ।।

यथा वा---

"किमिव हि मधुराणआं मण्डनं नाकृतीनाम् // वजी_पू३.२०२ ।।

एवमर्थान्तरन्यासमभिधाय (तत्समानच्छायं विशेषविषयवा) क्यसमन्वयादाक्षेपमभिधत्ते---

निषेधच्छाययाक्षेपः कान्तिं प्रथयितुं पराम् ।
आक्षेप इति स ज्ञेयः प्रस्तुतस्यैव वस्तुनः // वजी३.५५ ।।

निषेधच्छाययेत्यादि ।
"आक्षेप इति स ज्ञेयः" = सो ऽप्यमाक्षेपालङ्कारोज्ञातव्यः ।
स कीदृशः---"प्रस्तुतस्यैव वस्तुनः आक्षेपः" = प्रकृतस्यैवार्थस्य आक्षेपः = अपाकरणम् = अभिप्रेतस्यार्थस्यापि निवर्तनमिति (यावत्) ।
कया ? "निषेधच्छायया" = प्रतिषेधविच्छित्त्या ।
किमर्थम् ? "कान्तिं प्रथयितुं परां" = प्रकृष्टामुपशोभां प्रकटयितुम् ।
यथा---

सुहअ विलंवसु थोअं जाव इमं विरहकाअरं हिअअं ।
संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो // वजी_पू३.२०३ ।।
सुभग विलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम् ।
संस्थाप्य भणिष्याम्यथवापक्रम किं भणामः ।
(इति छाया)

अत्र वाक्यार्थः--- सुभगेति बहुवल्लभताप्रतिपादनपरमामन्त्रणपदम् ।
(नायिकाप्रतिवचनं) नासूत्रितम्, (तद्धि) साक्षादभिधीयमानतया न तथा चेतनचमत्कारितां प्रतिपद्यते, यथैतदाक्षेपमात्रं भणितिवैचित्र्येण प्रतीयमानतया नियमात् तद्विदाह्लादविधायित्वं पुष्णाति ।
तदेवमाक्षेपस्वरूपमभिधाय साधारणवक्तव्यशेषमेतेषामभिधत्ते---

वक्ष्यमाणोक्तविषयाः संभवन्ति विवक्षया ।
दृष्टान्ताद्यास्त्रयो ऽप्येते हेतौ सत्यथवासति // वजी३.५६ ।।

वक्ष्यमाणेत्यादि ।
वक्ष्यमाणोक्तौ विषयौ येषां ते वक्ष्यमाणोक्तविषयाः, "दृष्टान्तप्रभृतयश्च "त्रयो ऽप्येते" अभिधास्यमानाभिहितगोचराः संभवन्तीति संबन्धः ।
केन हेतुना"विवक्षया" = वक्तुमिच्छया = कवेर्यथाप्रतिभासमभिधातुं वाञ्छया ।
तदिदमत्र तात्पर्यम्---यदा संनिवेशवैचित्र्यमात्रमेतन्न पुनरत्र लक्षणातिरेकः कश्चिदस्ति ।
मध्यमस्य विशेषान्तरमभिधातुमाह--- "हेतौ सत्यथवासति" हेताविति ।
"हेतौ" हेतुवाचिनि हिशब्दादौ "सति" संभवति = प्रमुज्यमाने, "अथवा" कदाचित्, "असति" असभवति---अप्रयुज्यमाने ।
एवं (हेतोरभिधानेनानभिधानेन) वार्थान्तरन्यासः प्रकारद्वयेन विद्यते ।
अर्थान्तरन्यासमात्रमभिभूषणमित्यर्थः ।
निदर्शनजातमत्र पूर्वोक्तव्यतिरेकि न प्रदर्शितम्, तस्मात्स्वयमेवोत्प्रेक्षणीयम् ।
एवं स्वरूपविशेषप्रतिषेधबोधितछायातिशयमलङ्करणमभिधाय कारणप्रतिषेधोत्तेजित(छाया)तिशयमभिधत्ते---

स्वकारणपरित्यागपूर्वकं कान्तिपुष्टये ।
भावनार्थस्य केनापि विशेषेण विभावना // वजी३.५७ ।।

स्वकारणेत्यादि ।
"अर्थस्य" वर्णनीयस्य = प्रस्तुतस्य, "विशेषेण केनापि" अलौकिकेन रूपान्तरेण "भावना" = "विभावना" विभावनेत्यलङ्कृतिरभिधीयते ।
तदयमत्रार्थः---या विना भाव्यते, का सा ? तत्समर्थकारणरूपप्रयोजकव्यापारलक्षणां क्रियां (विना भाव्यते सा) विभावना ।
"स्वकारणपरित्यगपूर्वकम्" = तस्य विशेषस्य स्वमात्मीयं कारणं यन्निमित्तं तस्य परित्यागः प्रिहाणं पूर्वं प्रथमं यत्र तत्कृतेत्यर्थः ।
किमर्थं "कान्तिपुष्टये" शोभा(वृद्धये) ।
तदिदमुक्तं भवति---यथा लोकोत्तरविशिष्टतां वर्णनीयं नीयते इति ।
यथा---

असंभृतं मण्डनमङ्गयष्टे- रनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे // वजी_पू३.२०४ ।।

अत्र कृत्रिमकारणपरित्यागपूर्वकं लोकोत्तरसहजविशेषविशिष्टता वर्णनीयस्य कवेरभिप्रेता ।
तदेवमसंभाव्यकारणत्वादविभाव्यमानस्वभावां विभावनां विचार्य विचारगोचरस्वरूपतया स्वरूपसन्देहसमर्पितातिशयं ससन्देहमभिधत्ते---

यस्मिन्नुत्प्रेक्षितं रूपमुत्प्रेक्षान्तरसंभवात् ।
सन्देहमेते विच्छित्त्यै ससन्देहं वदन्ति तम् // वजी३.५८ ।।

यस्मिन्नित्यादि ।
"यस्मिन्" = अलकारे, "उत्प्रेक्षितं" संभावनानुमानात् साम्यसमन्वयाच्च स्वरूपान्तरसमारोपद्वारेण प्रतिभोल्लेखितं "रूपं" पदार्थपरिस्पन्दलक्षणं "सन्देहमेति" संशयं समारोहति ।
कस्मात् कारणात्---"उत्प्रेक्षान्तरसंभवात्" = उत्प्रेक्षाप्रकर्षपरस्यापरस्यापितद्विषयस्य सद्भावात् ।
किमर्थं---"विच्छित्त्यै" = शोभायै ।
तदेवमभिधावैचित्र्यं ससन्देहाभिधानं वदन्ति ।
यथा---

रञ्जिता नु विविधास्तरुशैलाः नामितं नु गगनं स्थागितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण // वजी_पू३.२०५ ।।

यथा वा---

निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे // वजी_पू३.२०६ ।।

यथा वा---

अविभाविअछरभअञ्जवैण जणत्समयमन्थरं हि अवरम् ।
भिस्वै शिशावे गुणआ मुहा सर्वयन्ति अहणरै तम् // वजी_पू३.२०७ ।।

(छाया ?) यथा वा---

किं सौन्दर्यमहार्थसञ्चितजगत्कोशैकरत्नं विधेः किं शृङ्गारसरस्सरोरुहमिदं स्यात्सौकुमार्यावधि ।
किं लावण्यपयोनिधेरभिनवं बिम्बं सुधादीधितेर्- वक्तुं कान्तततमाननं तव मया साम्यं न निश्चीयते // वजी_पू३.२०८ ।।

ससन्देहस्यैकविधत्वमुत्प्रेक्षामूलकत्वात् ।
एवं स्वरूपसन्देहसुन्दरं ससन्देहमभिधाय स्वरूपापह्नवरमणीयामपह्नुतिमभिधत्ते---

अन्यदर्पयितुं रूपं वर्णनीयस्य वस्तुनः ।
स्वरूपापह्नव्वो यस्यामपह्नुतिरसौ मता // वजी३.५९ ।।

अन्यादित्यादि ।
पूर्ववदुत्प्रेक्षामूलत्वमेवास्याः ।
संभावनानुमानात् सादृश्यसमन्वयाच्च "वर्णनीयस्य वस्तुनः" = प्रस्तुतस्यार्थस्य, "अन्यत्" = किमप्यपूर्वं, "रूपमर्पयितुम्" = रूपान्तरं समारोपयितुं, "स्वरूपापह्नवः" = स्वभावापलापः संभवति, "यस्याम्" "असौ" = एषा एवंविधभणितिरेव, "अपह्नतिः" "मता" = प्रतिभाता तद्विदाम् ।
यथा--

भास्वानेष जगत्यशेषनयनं तेजस्विनामग्रणीः नायं कान्ततमाननाप्तसुरुचिर्नेत्रोत्सवश्चन्द्रमाः ।
पर्यायेण मनोभुवा विरहिणां वेद्धुं मनो निर्दयं पुष्पेषून्निशिताग्रतां विजयिनी नेतुं नियक्तो मम // वजी_पू३.२०९ ।।

स्वरूपेण धर्मिणः तादवस्थ्ये धर्ममात्रापह्नुतिर्यथा---

तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैस्त्वमपि कुसुभबाणान् वज्रसारीकरोषि // वजी_पू३.२१० ।।

अत्र भणितिवैचित्र्यवशादशाब्दम् अपह्नवप्रतिपादनं विहितम्, यस्माद्धर्मस्य कुसुमशरत्वादेः स्वभावसमुचितं सुकुमारकार्यकारित्वमपसार्य तद्विरुद्धमतिकरालकार्यकारित्वमुपनिबद्धम् ।
क्वचिच्च सादृश्यसमन्वयादपह्नतिर्यथा---

पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभुयुदेति गगनाभोगे जिगीषोर्जगत् ।
मारस्योचितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः // वजी_पू३.२११ ।।

एवमलङ्काराणां तन्त्रतया प्रत्येकमलङ्कार्यं प्रति विच्छित्तिविधायित्वमभिधायेदानीं समुदितानां तदेवाभिधत्ते---

राजन्ति यत्रालङ्कारा अन्योन्यान्वितवृत्तयः ।
यथा पदार्था वाक्यार्थे संसृष्टिः साभिदीयते // वजी३.६० ।।

राजन्तीत्यादि ।
"यत्र" = यस्याम्,"अलङ्काराः" = प्रस्तुतसंपदुपेताः सन्तः "राजन्ति" शोभन्ते, "संसृष्टिः साभिधीयते" संसृष्टिसंज्ञालङ्कृतिः सोच्यते ।
कथं राजन्तीत्याह---"यता पदार्था वाक्यार्थे" = तात्पर्यलक्षणे वस्तुनि "यथा" = येन प्रिकारेण "पदार्थाः" प्रविभक्तस्वरूपाः वाक्यैकदेशभूतपदाभिधेयाः सन्तोवा स्वात्मना स्फुरन्तो ऽपि परस्परान्वयलक्षणसंबन्धनिबन्धनस्वभावाः प्रधाने हि पारतन्त्र्यमनुभवन्तस्तदेव समुदायात्मकमेकवाक्यार्थतात्पर्यं प्रतिपादयन्ति, यथा तेन प्रकारेण यदेतयोरविसंवादिसमवाये संबन्धितया संसृष्टावन्योन्यान्वितवृत्तयः परस्परसंबन्धावगतसामर्थ्यात् पृथग्भूतवाक्यार्थावयवैकदेशवर्तिनो ऽप्यलङ्काराः कामपि सहृदयसंवेद्यपरस्परसंसर्गात्मतामेवं (व) सकलवाक्यार्थविषयां विच्छित्तिमुपपादयन्तः परतन्त्राः परिस्फुरन्ति इत्यभिप्रायः ।
यथा---

आश्लिष्टो नवकुङ्कुमारुणरविव्यालोकितैर्विस्तृतो लम्बान्ताम्बरया समेत्य भुवने ध्यानान्तरे सन्ध्यया ।
चन्द्रांशूत्करकोरकाकुलपतद्ध्वान्तद्विरेफो ऽधुना देव्येवार्पितदोहदः कुरवके भाति प्रदोषगमः // वजी_पू३.२१२ ।।

अत्र रूपकादिना स्वात्मना पृथक्कृतकृत्येन परस्परसंसर्गसंपदुपार्जिता वाक्यार्थवक्रताविच्छित्तिः काचिदेव परिस्फुरति ।
यथा वा---

म्लानिं वान्तविषानलेन नयनव्यापारलब्धात्मना नीता राजभुजङ्ग पल्लवमृदू रम्भा तथेयं त्वया ।
अद्यापीश्वरशेखरेन्दुकिरणस्मेरस्थलीलाञ्छिते कैलासोपवने यथा सुगहने नैति प्ररोहं पुनः // वजी_पू३.२१३ ।।

अत्र पूर्ववदेव रूपकादीनां परस्परसंसर्गसंपदुपार्जिता वक्रताविच्छित्तिः विभाव्यते ।
एवं संसृष्टिमभिधाय तथाविधच्छायाविच्छित्तिविधायिनं संकरालङ्कारमभिधत्ते---

अलङ्कारकलापो ऽयमन्यैः संकीर्णतां गतः ।
स्फुरन्ननेकधा वाक्ये संकरः सो ऽभिधीयते // वजी३.६१ ।।

अलङ्कारेत्यादि ।
पूर्वोक्तलक्षणमाक्रान्तवृत्तिः "अलकारकलापो ऽयं" रसवदाद्यलङ्कारनिकुरम्बः "संकराख्यो ऽभिधीयते" संकरनामा निगद्यते ।
कीदृशः---"संकीर्णतां गतः" = संमिश्रतां प्राप्तः, सबलत्वेन प्रतिभासत्वमधिरूढः ।
किं कुर्वन्---"स्फुरन्" = आत्मनः स्फुरितं समुपदर्शयन्---प्रतिभासमानतामुपसरन्,"वाक्ये" संकीर्णतामुपपद्यते ।
तत्संवेशनविशेषस्यानुपपत्तेः भणितान्तर्वर्तो यः कश्चिदलङ्कारो यथोपपत्ति विभूषणान्तरेण संकीर्णः संकर संज्ञाविषयतां प्रतिपद्यते ।
तेन सकलस्याप्यलङ्कारकलापस्य (संकर इत्यभिधानं संपद्यते) ।
यथा---

रोहन्मूलातिगौरैरुरगपतिफणैस्तत्र पातालकुक्षौ प्रोद्यद्वालङ्कुरश्रीः दिशि दिशि दशनैरेभिराशागजानाम् ।
अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणआं नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधार्द्रम् // वजी_पू३.२१४ ।।

अत्र कीर्तिवल्लीति रूपकालङ्कारः सिद्धबद्धतत्साम्याशङ्कां विना न युक्तयुक्ततां प्रतिपद्यते ।
तेन तदाशङ्कानिबन्धनतथाविधपरिस्पन्दकीर्तिसन्दर्शितसमुद्भुततसंभावनानुमानमाहात्म्यात् प्रतीयमानवृत्तिरुत्प्रेक्षात्र कवेरभिप्रेता ।
यस्मादेतयोर्द्वयोरपि परस्परसंभावनां विना स्वरूपलब्धिरेव न (पर्य) वस्यतीति, संकीर्णयोरथ संवादादेवंविधविषये संकरोक्तिः प्रवर्तते ।
वाक्यैकदेशे यथा "निर्मोकमुक्तिरिव गगनोरगस्य" इति निष्कम्पतया व्यवहर्तुमशक्यत्वात्, निर्मोकमुक्तिरिवेत्युत्प्रेक्षया रूपकालङ्कारस्य स्वरूपलाभावकाशः (समर्प्यते) ।
तथैवोत्प्रेक्षायाः, यस्मादत्रापि संकरालङ्कारव्यवहारः ।
ननु चानेनन्यायेन "अस्याः सर्गविधौ" इति "किं तारुण्यतरोः" इत्यादेः संकरालङ्कारोक्तिः प्रवर्तताम् ? न प्रवर्तते, यस्मादत्रार् (थसामर्थ्यावगतो) त्प्रेक्षायाः ससन्देहं विनानुपपत्तेः, परस्मिंश्च तथैव रूपकस्येति द्वयोरप्येतयोः तत्त्वं तुल्यम् ।
ससन्देहस्य पुनस्तद्विभूषणत्वेनान्तर्विधाने मणिमयपदकबन्धबन्धुरहारादिरमणीयत्वमित्युक्तमेव ।
संसृष्टेर्नानाविधच्छायमणिमालामनोहरता, संङ्करालङ्कारस्य विविधकान्तिरत्नविन्यासविच्त्रबहुलातुलकान्तिकल्पत्वमिति सर्वमेव विभक्तम् ।
एवं यथोपपत्त्यलङ्कारान् लक्षयित्वा केषाञ्चिदलक्षितत्वात् लक्षणाव्याप्तिदोषं परिहर्तुमुपक्रमते ।

भूषणान्तरभावेन शोभाशून्यतया तथा ।
अलङ्कारास्तु ये केचिन्नालङ्कारतया मनाक् // वजी३.६२ ।।

भूषणेत्यादि ।
"ये" = पूर्वोक्तव्यतिरिक्ताः"केचिदलङ्काराः" ते "नालङ्कारतया मनाक्" न विभूषणत्वेनाभ्युपगताः ।
केन हेतुना "भूषणान्तरभावेन" = अन्यद्भूषणं "भूषणान्तरं", तेभ्यो व्यतिरिक्तम्॑ "तद्भावेन" = तत्स्वभावत्वेन तदनन्यत्वेन पूर्वोक्तानामेवान्यतमत्वेनेत्यर्थः ।
"शोभाशून्यतया तथा" = शोभा कानतिः तया शून्यं रहितं शोभाशून्य तस्य भावः शोभाशून्यता तया हेतुभूतया ।
न केवलं ताभ्यामेव, यावदलङ्कार्यतया विभूष्यत्वेनापि तेषामलङ्करणत्वमनुपपन्नम् ।
एवं च---

यथासंख्यमलङ्कारः पूर्वैराम्नात् एव यः ।
कारणद्वितयेनापि नालङ्कारः स संमतः // वजी३.६३ ।।

"यथासंख्यमलङ्कारः पूर्वैराम्नातः" तुल्य (क्रमं) कैश्चित्स्वशब्देनाभिहितः स्वनाम्ना "स नालङ्कारः,कारणद्वितयेनापि" भूषणान्तरभावेन शोभाशून्यतया च ।
तथा च तस्योदाहरणम्---

पद्मेन्दुभृङ्गमातङ्गपुंस्कोकिलकलापिनः ।
वक्त्र कान्तीक्षणगतिस्वरकेशैस्त्वया जिता // वजी_पू३.२१५ ।।

अत्रात्मकृतलक्ष्ये भणितिवैचित्र्यविरहात् न काचित् कान्तिर्विद्यते ।
सत्यामप्येतस्यां साम्यं व्यतिरेको वा जीवितमाम्नातं न पुनः समानसंख्यात्वम् ।
(केवल) समानसंख्यात्वे "यथासंख्यमनुदेशः समानाम्" इति सूत्रोदाहरणन्यायात् संख्यातानुदेशात् न किञ्चिदतिरिच्यते ।
केषाञ्चिदाशीः प्रभृतीनामलङ्कारतया मतानां भूषणत्वानुपपत्तेः ।
आसिषस्तु लक्षणोदाहरणानि नेह पठ्यन्ते ।
तेषु चाशंसनीयस्यैवार्थस्य मुख्यतया वर्णनीयत्वादलङ्कार्यत्वमिति प्रेयोलङ्कारोक्तानि दूषणान्यापतन्ति ।

न प्रेयसो विरुद्धः स्यादलङ्कारान्तरे सति ।
संसृष्टिसंकरौ स्यातामन्यत्रादर्शनादपि // वजी_पू३.२१६ ।।

(अन्तरश्लोकः) ।
विशेषोक्तेरप्युक्तालङ्कारान्तर्भावेनालङ्कार्यतया च भूषणत्वानुपपत्तिः ।
तथा चोदाहरणमेतस्याः---

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् // वजी_पू३.२१७ ।।

अत्र सकललोकप्रसिद्धजयित्वव्यतिरेकिकन्दर्पस्वभावमात्रं लोकोत्तरत्वेन वाक्यार्थः ।
(एवं) सूक्ष्मलेशहेतवः (नालङ्काराः ।
तथा च) भामहः---

हेतुश्च सूक्ष्मो लेशो ऽथ नालङ्कारतया मतः ।
समुदायाभिधेयस्य वक्रोक्त्यनभिधानतः // वजी_पू३.२१८ ।।

तथा च सूक्ष्मस्योदाहरणम्---

संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् // वजी_पू३.२१९ ।।

अत्र वर्णनीयात्मा सूक्ष्मो न पुनरलङ्कारणम्, कस्मात्---साक्षादभिधया वक्तव्यार्थस्तथाविधया युक्त्या प्रतिपाद्यते ।
लेशस्योदाहरणं यथा---

राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः ।
अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम् // वजी_पू३.२२० ।।

अत्राप्येतदेव वक्तव्यं वस्तु कथं विभूषणतामर्हति ? ।
"यत्परः शब्दः स शब्दार्थः" इति न्यायात् ।
हेतोरुदाहरणम्---

अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः // वजी_पू३.२२१ ।।

एवमुपमारूपकमपि नालङ्करणम् ।

समग्रगगनायाममानदण्डो रथाङ्गिनः ।
पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः // वजी_पू३.२२२ ।।

अत्र रसवदलङ्कार (वत्) वाच्यवाचकयोः संगतिरेव नास्ति ।
तथा च उपमा च रूपकं चेति विग्रहे द्वन्द्वो वा विवक्षितः स्यात्, विशेषणसमासो वा ।
तत्र द्वन्द्वपक्षे क्वचिद्वाक्यैकदेशे रूपकं क्वचिदुपमेति (द्वितिय) प्रणिबन्धनं न किञ्चिदेकस्मिन् ।
तत्रापि प्रत्येकं परिस्पन्दतया स्वस्थाने समं विभातीति परस्परापेक्षां विना समुदायात्मकस्य विशेष्यस्यासंभवात् द्वन्द्वपक्षो ऽनुपपन्नः ।
विशेषणसमासे ऽपि सर्वस्मिन् वाक्ये, एकदेशे वा द्वितयमपीति द्वयोरेकस्मिन् वस्तुनि युगपत् परस्परविरुद्धयोश्छायातपयोरिव समावेशानुपपत्तिः ।
एकतरपक्षावलम्बिन्या वाचा प्रत्येकं वाच्यवाचकस्वरूपनिश्चितावपरस्यावकाशभङ्गो ऽपि न सम्भवतीति परस्परापेक्षां विना समुदायात्मकविशेषणसमासो ऽप्यकिचित्करः ।
कथञ्चित्तत्रैकतरनिश्चये प्रमाणाभावादन्यतरकल्पनेन दोषायोगात्संकरव्यवहारः ।
प्रस्तुते पुनरेवंविधस्वरूपनिष्पत्तावपि संसिद्धिविवक्षया यस्यात्मसिद्धआवपि सन्देहदोलाधिरूढिस्तत्राप्यसम्भूताद्वस्तुतो ऽव्यवस्थितैव कदाचिदस्तीति यत्किञ्चिदेव वाक्यसामर्थ्यादवसेयः ।
प्रतीयमानप्रकारात्तृतीयं रमणीयमलङ्करणकलापमिति वाक्यवक्रतासर्वस्वं समाख्येयम् ।
समुदायात्मकवाक्यवक्रतास्वरूपमासूत्रयति---

लावण्यादिगुणोज्ज्वला प्रतिपदन्यासैर्विलासाञ्चिता विच्छित्त्या रचितैर्विभूषणभरैरल्पैनोहारिणी ।
अत्यर्थं रसवत्तयार्द्रहृदया (शक्नोत्युदाराभिधा वाग्वक्रा सुकवेस्तथैव च) मनो हर्तुं यथा नायिका // वजी३.६४ ।।

लावण्यादीत्यादि ।
आसामेवंविधवाक्यस्वरूपायत्तावगमनोदाहरणं प्रवक्ष्यति ।
तत्समुदायात्मकस्य (वाक्यस्य) रसवत्तया (मनः चेतः) हर्तुं च सक्नोति यता नायिका तथा ।
कीदृशी---"लावण्यादिगुणोज्ज्वला" (लावण्यादिभिः) लावण्यप्रभृतिभिः "गुणैः" प्रथमोल्लेखलक्षणैर्गुणैः "उज्ज्वला" भ्राजिष्णुः "प्रतिपदन्यासैः" "प्रतिपदन्यासः" प्रतिसुप्तिङन्तोपनिबन्धानानि, तैः "विलासाञ्चिता" शोभातिशयेनाभ्यञ्चिता "विच्छित्त्या" वैदग्ध्यभङ्ग्या कयाचित् "रचितैः" उपनिबद्धैः "अल्पैः" परिमितैः (विभूषणभरैः) अलङ्करणैरुपमादिभिः, "मनोहारिणी" हृयपरञ्जिका वाक् विच्छित्तिविहितपरिमितालङ्कारणविन्मयासा शोभातिशयनिधानतां प्रतिपद्यते ।
कीदृशी वाक्---"उदाराभिधा" औदार्यगुणयुक्ताभिहिता ।
"अत्यर्थं रसवत्तया" रागादिमत्त्वेन "आर्द्रहृदया" सरसाभिप्राया कान्तापि तथाविधविलासाञ्चिता भवति ।
नायिकापक्षे लावण्यादयः सौन्दर्यप्रभृतयः, पदन्यासः पादविक्षेपः, विलासः चेष्टाविशेषः (वाक्पक्षे) विच्छित्तिः वैदग्ध्यम्, वाक् वाक्यम्, भूषणानि अलङ्काराः, कव्यभिधा वचनम् ।
प्रबन्धसामर्थ्यमिति ।
इति श्रीराजानककुन्तकविरिचिते वक्रोक्तिजीविते काव्यालङ्कारे तृतीय उन्मेषः /