सामग्री पर जाएँ

वक्रोक्तिजीवितं चतुर्थोन्मेषः

विकिस्रोतः तः

वक्रोक्तिजीवितं चतुर्थोन्मेषः एवं सकलसाहित्यसर्वस्वकल्पवाक्यवक्रताप्रकाशनानन्तरमवसरप्राप्तां प्रकरणवक्रतामवतारयति---

यत्र निर्यन्त्रणोत्साहपरिस्पन्दोपशोभिनी ।
वृत्तिर्व्यवहर्त्éणां स्वाशयोल्लेखशालिनी । । वजी_४.१ । ।
अप्यामूलादनाशङ्क्यसमुत्थाने मनोरथे ।
काप्युन्मीलति निःसीमा सा प्रबन्धांशवक्रता । । वजी_४.२ । ।

यत्रेत्यादि ।
---"प्रबन्धांशवक्रता" (प्रकरण) वक्रभावो भवतीति सम्बन्धः ।
कीदृशी---"निःसीमा"---निरवधिः, "यत्र"---यस्यां "व्यवहर्त्éणां"---तत्तद्व्यापारपरिग्रहव्यग्राणां प्रवृत्तिः "कापि"---अलौकिकी "उन्मीलति"---उद्भिद्यते ।
किंविशिष्टा---"निर्यन्त्रणोत्साहपरिस्पन्दोपशोभिनी"---निरर्गलव्यवसायस्फुरितस्फारविच्छित्तिः, अत एव "स्वाशयोल्लेखशालिनी" निरुपमनि (ज) हृदयोल्लासितालङ्कृतिः, कस्मिन्सति---"अप्यामूलादनाशङ्क्यसमुत्थाने मनोरथे"---कन्दात्प्रभृत्यसंभाव्यसमुद्भेदे समीहिते ।
तदयममत्रार्थः---यत्र मनाङ्मात्रमप्यनुन्मीलितमनोरथे कथामध्ये निरुपधिमानधनानामध्यवसायपद्धतिः निरन्तरव्यवसायातिस्फारा चेतनचमत्कारिणी तद्विहितवक्रताविच्छित्तिः प्रिकरणस्यालङ्करणायते, प्रबन्धस्य च ।
यथा अभिज्ञानजानकीनाम्नि नाटकेतृतीयेऽङ्के सेतुबन्धेऽनाकलितविद्याबलानामविदितवैदेहीदयितदिव्यास्त्र प्रभावसंपदां वानरप्रवीराणां प्रथममेव मकराकरमालोकयतां बन्धाध्यवसायः ।
तथाहि---तत्र नीलस्य सेनापतेर्वचनम्---

शैलाः सन्ति सहस्त्रशः प्रतिदिशं वल्मीककल्पा इमे दोर्दण्डाश्च कठोरविक्रमरसक्रीढासमुत्कण्ठिताः ।
कर्णास्वादितकुम्भसंभवकथाः किं नाम कल्लोलिनी- कान्ते गोष्पदपूरणेऽपि कपयः कौतूहलं नास्ति वः । । वजी_४.१ । ।

वानराणामुत्तरवाक्यं नेपथ्ये कलकलानन्तरम्---

आन्दोल्यन्ते कति न गिरयः कन्दुकानन्दमुद्रां व्यातन्वानाः कपिपरिसरे कौतुकोत्कर्षतर्षाथ् ।
लोपामुद्रापरिवृढकथाभिज्ञताप्यस्ति किं तु व्रीडावेशः पवनतनयोच्छिष्टसंस्पर्शनेन । । वजी_४.२ । ।

अत्रैव पवनतनयोच्छिष्टे अधिवाचिनि पर्यायवक्रताप्रिकारः स्मर्तव्यः ।
आर्य, दुष्करोऽयमेभिर्मकराकरबन्धाध्यवसाय इति रामेण पर्यनुयुक्तस्य जाम्बवतोऽपि वाक्यम्---

अनङ्कुरितनिस्सीममनोरथपथेष्वपि ।
कृतिनः कृत्यसंरम्भमारभन्ते जयन्ति च । । वजी_४.३ । ।

एवंविधमपरमपि तत एव विभावनीयमभिनवाद्भुताभोगभङ्गीसुभगं सुभाषितसर्वस्वं ।
यथा वा रघुवंशे पञ्चमे सर्गे चतुरु (द) धिकाञ्चीकलापालङ्करणकाश्यपीपरिवृढस्य विश्वजिदाख्यमखदीक्षादक्षिणीकृतसमस्तसंपदः सहजौदार्यरहस्योदाहरणस्य रघोरर्घसंपादितमृण्मयपात्रसमालोकनसमुन्मूलितमनोरथाडम्बरे वरतन्तोरन्तेवासिनि निषिद्धगमने मुनौ

"किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति" । । वजी_४.४ । ।

प्रश्नसमनन्तरं समावेदितचतुर्दशकोटिपरिमाणचामीकरामाचार्यप्रददक्षिणा (माकलय्य)

द्वित्राण्यहान्यर्हसि सोढुमर्हन्यावद्यते साधयितुं त्वदर्थं । । वजी_४.५ । ।

इति निरर्गलगम्भीरतो दारगरिमागोपायितान्तर्गतया गिरग्न्यगारमलङ्कुर्वति कुबेरं प्रति सामन्तसंभावनया जयाध्यवसायः कामपि सहृदयहृदयाह्लादकारितां प्रतिपद्यते ।
सूक्तिसुधावीचयोऽप्यत्र तत (एवा) स्वादनीयाः ।
एतत्प्रकरणप्राणपरिस्पन्दसुन्दरं च किञ्चिदुदाह्रियते ।
यथा---

तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानाथ् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नं । । वजी_४.६ । ।

अत्र दम्भोलिदलितकाञ्चनाचलपादसादृश्यप्रतीयमानापरिमितस्य तपनीयकूटस्य सर्वस्यापि (विश्रा)णनात्, अन्य एव तादृशद्रविणव्यसनवर्तिनो दिलीपनन्दनस्य, कल्पनाकलङ्ककदर्थितार्थवितरणानुच्चतरान्कल्पतरूपनपि तिरस्कुर्वाणः स कोष्यौदार्यसीमाविशेषः समुज्जृम्भते, येन गर्भोकृतगर्वगरिमग्रन्थीशिथिलाद्वितीययशस्सन्दोहदोहदस्य दात्रन्तरासहिष्णोः "गुर्वर्थम्" इत्यादेः प्रथमोदितवाक्यप्रकाण्डस्य प्राणपरिस्पन्दपरिपोषणमेवाधीयते ।
अन्यच्च---

जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रेदयाधिकनिस्पृहोर्ऽथो नृपोऽर्थिकामादधिकप्रदश्च । । वजी_४.७ । ।

इत्यादि ।
अत्रापि गुरुप्रदेयदक्षिणातिरिक्तं कार्तस्वरमप्रतिगृह्णतः कौत्सस्य, रघोरपि प्राथितात्शतगुणं सहस्त्रगुणं वा प्रयच्छतः (परस्परं कलहायमानयो) र्निरवधि(नि) स्पृहत्वौदार्यसंपत्साकेतनिवासिनां अश्रुतपूर्वां कामपि महोत्सवमुद्रामाततान ।
एवमेषा महाकविप्रबन्धेषु प्रकरणवक्रताविच्छित्तिः रसनिष्यन्दिनी सहृदयैः स्वयमुत्प्रेक्षणीया ।
इमामेव प्रकारान्तरेण प्रकाशयति---

इतिवृत्तप्रयुक्तेऽपि कथावैचित्र्यवर्त्मनि ।
उत्पाद्यलवलावण्यादन्या लसति वक्रता । । वजी_४.३ । ।
तथा यथा, प्रबन्धस्य सकलस्यापि जीवितं ।
भाति प्रकरणं काष्ठाधिरूढरसनिर्भरं । । वजी_४.४ । ।

इतिवृत्तेति ।
---"तथा उत्पाद्यलवलावण्यादन्या भवति वक्रता" = तेन प्रकारेण कृत्रिसंविधानकामनीयकादलौकिकी वक्रभावभङ्गी समुज्जृम्भते सहृदयानावर्जयतीति यावथ् ।
(कस्मिन्--) "कथावैचित्र्यवर्त्मनि"---काव्यस्य कथाविचित्रभावमार्गे ।
किंविशिष्टे "इतिवृत्तप्रयुक्तेऽपि"---इतिहासपरिग्रहेऽपि ।
तथेति तथाप्रयोगमपेक्षत अत आह---"यथा प्रबन्धस्य सकलस्यापि जीवितं ।
भाति प्रकरणं" येन प्रकारेण सर्गबन्धादेः समग्रस्यापि प्राणप्रदं भासतेऽङ्गं ।
कीदृग्भूतं---"काष्ठाधिरूढरसनिर्भर (म्) = प्रथमधारोद्भासितशृङ्गारादिपरिपूर्णं ।
तदयमत्र परमार्थः = विख्यातविचित्ररुचिरकथाकरण्डकायमा(ने)महाभारतादौ रससमुद्रमुद्रितायामपि कथायां कस्यचिदुत्तराधरविच्छित्तिकारणविकल्पकाभावात्, सवि(शेष)रसभावजनकाश्चर्यजननकार्यजातानि अतिबन्धुरनिजप्रतिभासमुन्मीलितसमुचितनिरुपमाननिमित्तानि निबन्धनीयानीति ।
तदतिशयवक्रताप्रकारेण प्रकरणेन व्यवहरन्कविः सकलकविरसिकपरिषत्परितोषणमावहति ।
प्रबन्धेऽपि प्रवरनवसंस्कारकारणरमणीयकान्तिपरिपोषः रेखाराजमानपुरातनत्रुटितचित्रदशास्पदसौभाग्यमनुभवति ।
अभिज्ञानशाकुन्तले नाटके इतरतरुणीतिरस्कारकारणाविरोधकत्वेनेक्षणक्षणाकलितललितलावण्यलक्ष्मीललामनिरुपमरूपरेखा सुखप्रत्यभिज्ञा समुज्जृम्भते ।
विस्त्रम्भसंभावनासनाथकथारहस्यरम्यपरस्परानुरूपप्रेमप्रकर्षप्रवर्तितचिरतरविचित्रविहरणव्यापारसुप्राप्तप्रत्यभिज्ञां तांशकुन्तलां प्रति दुष्यन्तस्य विस्मरणकारणमितिवृत्तागदितमपि अल्पमात्रापराधप्रवर्तमानक्रूरक्रुधः करुणापराङ्मुखस्यमुनेर्दुवाससः शापमुत्पादितवान्कविः ।
तत्र हि प्रकरणप्रकाण्डे शकुन्तला किल प्रथमप्रियप्रवासवासरवितीर्णविरहदुःसहदुःखावेशविवशान्तःकरणवृत्तिरुटज(संनिहिता) पर्याकुलेन प्राङ्गणप्रान्ते स्थिते (न) महर्षिणा मन्युसङ्गात्---

विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितं ।
स्मरिष्यति त्वां स न बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव । । वजी_४.८ । ।

इत्थं शप्ता ।
तच्छ्रवणपर्याकुलाभ्यां सखीभ्यां (अनुनीतः) प्रवास्यमानोऽपि मुनिप्रवरः प्रियतमन्यासाङ्गुलीयकविलोकनं (शापा) वसाना (वधि) मकार्षोथ् ।
प्रियं प्रति यान्त्याश्च मुनिदुहितुरलङ्कृताङ्गुलीकिसलयस्याङ्गलीयकस्य कुत्रचित्कुटिलतरतरङ्गिणीपयोवतारादन्तर्जलमलक्षितं परिभ्रष्टस्य ससंभ्रममदभ्रमरीचिमण्डलमाणिक्यसमुल्लसितसरसामिषविशङ्काकुलशकलीकवलितस्य कालान्तरे तदन्तकारिणा कैवर्तनेन पुनरपि (समर्पणम्) ।
एवंविधस्य संविधानकस्य रसनिधानकलशायमानस्य माहात्म्यादिखिलस्यापि नाटकस्य कापि (विच्छित्तिः) समये चञ्चरीकोपालम्भगर्भगीत्यवगमनात्मुनिशापापसारितप्रेयसीस्मृतेरपि तदधिवासवासनापि च परिस्फुरन्ती पौरवस्य पारवश्यं निश्चयामास ।
तथा च

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि । । वजी_४.९ । ।

अत्र संमुग्धसुभगमेनकानन्दिनीस्मरणलेखालावण्यमन्यदेव चमत्कारकारणं सहृदयानां समुद्योतते ।
अपरं च परावर्तितायामपि व्यलीकमभिज्ञकं च, महर्षिशिष्यसमाख्यातकरग्रहणगर्भाधानायां महामन्युसमुन्मेषः ।
मनागुल्लङ्घितसहजलज्जावतारतापसशीघ्रापनीतावगुण्ठनेन (पराङ्गनारचित)तथाविधसकलललनालावण्यावलेपसंपदि संपादितविपञ्चिटङ्कारवल्गुवाग्विलासव्याहृतवनविहरणरहस्याभि ज्ञायां भरतमातरि तथारूपं प्रत्याख्यानपारुष्यमपि राज्ञः शापस्य संपत्स्यमानानुतापं परस्परं प्रकाशीभवदनर्गलानुरागप्रग्भारसङ्गादतीव सहृदयाह्लादकारि ।
शापावसानसमुत्पत्तये प्रसिद्धस्यरणसमुल्लासिदुःसहविरहज्वरपातावेगविकलत्वं च समनन्तरमेवाङ्गुलीयसङ्गमादतीव सहृदयानाह्लादयति ।
नरपतेस्तत्र कञ्चुकिनो वचनम्---

प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते । । वजी_४.१० । ।

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तः पुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरं । । वजी_४.११ । ।

अत्र राज्ञो विशेषणवक्रता, गोत्रेष्विति वचनवक्रत्वं च किमपि चित्तचमत्कारकारि ।
राज्ञोऽपि स्वयंलिखितालेख्यालोकमानविलोचनस्य स्मरणात्मक दयितात्ममुद्रामुद्रितं सहृदयवचनं ।

अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेत्भ्रमर प्रियायाः त्वां कारयामि कमलोदरबन्धनस्थं । । वजी_४.१२ । ।

इत्युदित एवास्वादनीयः ।
अविद्यमाने पुनरेतस्मिन्तत्पाद्यलवलावण्यल्लाम्नि प्रकरणे निष्कारणविस्मरणवैरस्यमितिहासांस्येव रूपकस्यापि विरूपकतापत्तिनिमित्ततामवगाहते ।
उत्पाद्यलवलावण्यादिति द्विधा व्याख्येयं = यथा क्वचिदसदेवोत्पाद्यम्, क्वचिदौचित्यत्यक्तं सदप्यन्यथासंपाद्यं सहृदयहृदयाह्लादनाय ।
यथादात्तराघवे मारीचवधः ।
तच्च प्रागेव व्याख्यातं ।
एवमन्यदप्यस्या वक्रताविच्छित्तेरुदाहरणं महाकविप्रबन्धेषु स्वयमुत्प्रेक्षणीयं ।

निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः ।
गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः । । वजी_४.१३ । ।

(इत्यन्तरश्लोकः) ।
अपरमपि प्रकरणवक्रताप्रकारमाविर्भावयति---

प्रबन्धस्यैकदेशानां फलबन्धानुबन्धवान् ।
उपकार्योपकर्तृत्वपरिस्पन्दः परिस्फुरन् । । वजी_४.५ । ।
असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः ।
सूते नूतनवक्रत्वरहस्यं कस्यचित्कवेः । । वजी_४.६ । ।

"सूते"---समुन्मीलयति ।
(किं) "नूतनक्रत्वरहस्यं"---अभिनववक्रभावोपनिषदं ।
"कस्याचित्"---(न) सर्वस्य ।
"कवेः"---कवयितुः, प्रस्तुतौ (चित्य) चारुरचनाविचक्षणस्येति यावथ् ।
कः "उपकार्योपकर्तृत्वपरिस्पन्दः"---अनुग्राह्यनुग्रहकत्वमहिमा ।
किं कुर्वन्"परिस्फुरन्"---समुन्मीलयन् ।
किंविशिष्टः---"फलबन्धानुबन्धवान्" = प्रधानकार्यानुसन्धानवान्कार्यानुसन्धाननिपुण(इति भावः) ।
कथमेवंविधस्य हत्याह---"असामान्यसमुल्लेखप्रतिभाप्रतिभासिनः"---निरुपमोन्मीलितशक्ति विभवभ्राजिष्णोः ।
केषां "प्रबन्धस्यैकदेशानां" = प्रकरणानां ।
तदिदमुक्तं भवति---प्रातिस्विकसंनिवेशशोभिनामपि प्रबन्धावयवानां प्रधानफलसंबन्धनिबन्धानुग्राह्यानुग्राहकभावः स्वभावसुभगप्रतिभाप्रकाश्यमानः कस्यचिद्विचक्षणस्य वक्रताचमत्कारिणः कवेरलौकिकं (कथाप्राणप्रौढिप्ररूढ) वक्रतोल्लेखलावण्यं समुल्लासयति ।
यथा पुष्पदूषितके द्वितीयेऽङ्के--- प्रस्थानात्प्रतिनिवृत्य निबिडानुरागात्(अन्धकारावृतायां) विभावर्याममन्दमदनोन्मादमुद्रेण समुद्रदत्तेन निजभार्यानिकेतनं तुल्यदिवसं नन्दयन्तीसंगमाय मलीम्लुचेनेव प्रविशता प्रकम्पावेगविकलालसकायनिपातननिहतनिद्रस्य द्वारदेशशायिनः कलहायमानस्य कुवलयस्योत्कोचकारणं स्वकरादङ्गुलीयकदानं यत्कृतं, तच्चतुर्थेऽङ्के मथुराप्रतिनिवृत्तेन तेनैव श्वशुरस्य समावेदितसमुद्रदत्तवृत्तान्तेन कुलकलङ्कातङ्ककदर्थ्यमानस्य सार्थवाहसागरदत्तस्य स्वतनयस्पर्श (समाहित) मान (सस्य) स्नुषाशीलशुद्धिमुन्मीलयत्तदुपकाराय कल्पते ।
तथा च सागरदत्तस्य वचनं

तदङ्गुलीयं सुतनामचिह्नं चरित्रसुद्धिं विशदीकरोति ।
ममापि सामान्यसमुद्यतोऽनु- तापस्तु पापस्य भवेत्स शुद्धिः । । वजी_४.१४ । ।

अत्र भृत्य, किमिति त्वया प्रथममस्माकं (नोक्तमिति पृष्टस्य) कुवलयस्योत्तरं---

तदोपणिकमन्ते राम पणि यात त हिं एव्व पविसंति ।
द्ग्धाच्छादितं च मए स अं एव्व पेख्खिअं छन्वाहनसंपदं पुतन वेदैस्सदि । । वजी_४.१५ । ।

तत एवावधार्यं ।
यथोत्तररामचरिते--- पृथुगर्भभरखेदितदेहाया विदेहराजदुहितुर्विनोदाय दाशरथिना चिरन्तनराजचरितचित्ररुचिं दर्शयता निर्व्याजविजयविजृम्भमाणजृम्भकास्त्राण्युद्दिश्य "सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति" इति यदभिहितं तत्पञ्चमाङ्के प्रवीरचर्याचतुरेण चन्द्रकेतुना क्षणं समरकेलिमाकाङ्क्षता तदन्तरायकलितकलकलाडम्बराणां वरूथिनीनां सहजजयोत्कण्ठाभ्राजिष्णोर्जानकीनन्दनस्य जृम्भकास्त्रव्यापारेण कमप्युपकारमुत्पादयति ।
तथा च तत्र लवः--- "भवतु, कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि" सुमन्त्रः---तत्किमकस्मादुल्लोलाः सैन्ययोधाः प्रशाम्यन्ति ।
लवः---पश्याम्येनमधुना प्रगल्भं ।
सुमन्त्रः---(ससंभ्रमम्) वत्स, सुमारेणानेन जृम्भकास्त्रमभिमन्त्रितं ।
चन्द्रकेतुः---आर्य, कः सन्देहः---

व्यतिकर इव भीमो वैद्युतस्तामसश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।
अबिलिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रं । । वजी_४.१६ । ।

आर्श्चर्यं (आश्चर्यम्)---

पातालोदरकुञ्जपुञ्जिततमः श्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।
कल्पक्षेपकठोरभैरवमरुद्ध्वस्तैरवस्तीर्यते नीलाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव । । वजी_४.१७ । ।

इत्यादि ।
एक एवायमेकदेशानामिति बहुवचनं ।
अत्र द्वयोरपि बहूनामुपकार्योपकारकत्वं स्वयमुत्प्रेक्षणीयं ।

एकप्रकरणप्राप्तप्रकारान्तरशोभितः ।
प्रबन्धो भासते नूत्नपरिस्पन्द इवोदितः । । वजी_४.१८ । ।

(इत्यन्तरश्लोकः) ।
अस्या एव प्रकारान्तरं प्रकाशयति---

प्रतिप्रकरणं प्रौढप्रतिभाभोगयोजितः ।
एक एवाभिधेयात्मा बध्यमानः पुनः पुनः । । वजी_४.७ । ।
अन्यूननूतनोल्लेखरसालङ्करणोज्ज्वलः ।
बध्नाति वक्रतोद्भेदभङ्गीमुत्पादिताद्भुतां । । वजी_४.८ । ।

"बध्नाति"---नियन्त्रयति निबन्धयतीति यावथ् ।
कां---"वक्रतोद्भेदभङ्गीम्"---गम्भीरवक्रभावाविर्भावितां शोभां ।
किंविशिष्टां---"उद्भाविताद्भुताम्" = कन्दलितकुतूहलां ।
कः "एक एवाभिधेयात्मा"---तदेव वस्तुस्वरूपं ।
किं क्रियमाणः---"बध्यमानः"---प्रस्तुतौचित्यचारुरचनामात्रस्पन्दमानः ।
कथं "पुनः पुनः"---वारं वारं ।
क्व---"प्रतिप्रकारणम्" = प्रकरणे प्रकरणे, स्थाने स्थाने इति यावथ् ।
नन्वेवं पुनरुक्ततापात्रतां समासादयतीत्याह---"अन्यूननूतनोल्लेखरसालङ्करणोज्ज्वलः"---अविकलाभिनवोल्लासशृङ्गाररूपकादिपरिस्पन्दभ्राजिष्णुः ।
कीदृशः---"प्रौढप्रतिभाभोगयोजितः" प्रगल्भतरप्रज्ञाप्रकारप्रकाशितः ।
अयमस्य परमार्थः---तदेवं सकलचन्द्रोदया (दि) प्रकरणप्रकारेषु वस्तु प्रस्तुतकथासंविधानकानुरोधात्मुहुर्मुहुरुपनिबध्यमानं यदि परिपूर्णपूर्वविरूपरसालङ्काररामणीयकनिर्भरं भवति तदा कामपि रामणीयकमर्यादां वक्रतामवतारयति ।
यथा हर्षचरिते--अभिनवभङ्गीपरिग्रहग्रथितसौभाग्योपसंपत्(धरा) धर-विभावरीविराम्(दि) रामणीयककर्त्रो नैकस्थानेषु चमत्कुरुते ।
तत एव च तदास्वादनीयं ।
बहुत्वादत्र वर्णयितुमशक्यं ।
राजा---(सकरुणं पुरोऽवलोक्य) हा देवि पादपैरप्यपगतासि

कुरवकतरुर्गाढाश्लेषं, मुखासवलालनां बकुलविटपी, रक्ताशोकस्तथा चरणाहतिं ।
तव सुकृतिनः संभाव्यैते प्रसादमहोत्सवाननुगतदशाः सर्वे, सर्वश्शठो न यथा वयं । । वजी_४.१९ । ।

यथा अन्यत्र हि--- प्रदीप्तान्तः पुरेण कृशानुना कवलितान्विलासशाखिनः पश्यन्नभिनवशोकावेशविवशान्तः करण; "साक्षाद्देवीमनुसरन्तस्ते" इति समुत्पन्नमतिनिर्विकल्पमवयवैकैकप्रसादपात्रेभ्योऽपि अविद्वद्भ्योऽपि समनुष्ठितसमुचितसाहसेभ्यः समुचिततादृशप्रसादसाधनमभ्यस्ततदास्वादानुभवसर्वस्वमप्यात्मानं तत्समय एव प्रियानुगमनमनाचरन्तमधमं मन्यमानो निरुपमव्रीडानिवेशनिर्भरं निर्भर्त्सयति वत्सराजः ।
"धारावेश्मऽ इत्यादि, "कर्णऽ इत्यादि च श्लोकद्वयं प्रागुदाहृतमत्र योज्यं ।
तृतीयेऽङ्के राजा---(सास्त्रं निश्वस्य)

सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते त्रासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तदा ।
हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तथा शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे । । वजी_४.२० । ।

अत्र शान्तेनापि निर्वाणेनापि तेनाम्लानमालतीमुकुलक्ॐअलदेहविदाहानुमीयमाननैर्घृण्येन दहनेनाप्येकव्यापारा(नपगत)करणा वयमद्यापि दह्यामहे इति नूतनोल्लेखविरोधालङ्कारेण करुणा पूर्वं निविष्टापि वक्रतां नीयते ।
अपि च तथा विधातुं क्ॐअलत्वादेव देव्या तदैव दग्धं, वयं पुनर्वज्रसारातिकटोरिमाणोऽद्यापि दह्यामहे न भस्मीभवाम इति विशेषणं प्रस्तुतमेवोल्लासयति ।
चतुर्थेऽङ्के राजा---(सकरुणमात्मगतम्) हा देवि

चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्नर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता ।
येनोक्तासि विना त्वया बत जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमे कर्तुं किमप्युद्यतः । । वजी_४.२१ । ।

इति सखेदमास्ते ।
अत्र हि क्वचिदिति केलिक्लमापनोदननिमित्तं निकेतपृष्ठसंचारणीयासु लीलासु अप्रयत्नसुलभदर्शने तनुमात्रोन्मीलितसंपातबिम्बलावण्यलेशशङ्कमानत्वदाननान्तेवासित्वे चन्द्रमसि दर्शितनिजवाक्योपारूढपदार्थत्वात्पर्यालोचनया (करुणमेव) प्रत्याययति ।
येनेति पर्यङ्कार्धशयनमपि प्रवासपदमिव परिहरतीति तदेव व्यनक्ति ।
क्षणादिति एतावन्तमपि कालं त्वया विरहितस्य जीवतः कियदौग्यं मम ।
(एवं) पुनः सकलोऽप्यलीक एवायं प्रेमबन्धोऽवधार्यतामिति तथैव प्रतिपादयति ।
सोऽयमित्यादि प्रागेव व्याख्यातं । ।
एवमेतत्, अन्तरवाक्यकदम्बकाभिव्यक्तयाभिनवभङ्ग्या पूर्वस्मात्स्वादादास्वादान्तरसम्पदं कामपि करुणस्य कुरुते ।
पञ्चमेऽङ्के--- राजा--(सविशेषोत्कण्ठं निश्वस्य)

भ्रूभङ्गं रुचिरे ललाटफलके तारं समारोपयेत्बाष्पाम्बुप्लुतपीतपत्ररचनां कुर्यात्कपोलस्थलीं ।
व्यावृत्तैर्विनिबद्धचाटुमहिमामालोक्य लज्जानता तिष्ठेत्किं कृतकोपचारकरुणैराश्वासयैनां प्रियां । । वजी_४.२२ । ।

अत्राधिगमप्रत्याशासंभावितपद्मावतीपाणिपीडस्यानङ्कुरितमनोरथलेशस्यापि तत्कालकन्दलितौत्सुक्यपरवशीकृतान्तः करणवृत्तेरुन्माद्यत इव प्राप्तामेव प्रद्योतराजपुत्रीं (मन्वानस्य) राज्ञः प्रसादसमयसमुचितप्रकार (चिन्तनं काष्ठां) करुणस्यावतारयति ।
तत्रैवाङ्के किं प्राणा न मया तवानुगमनं कर्तुं समुत्साहिता बद्धा किं न जटा न वा प्ररुदितं भ्रान्तं वने निर्जने ।
त्वत्संप्राप्तिविलोभनेन पुनरप्यूनेन पापेन किं किङ्कृत्वा कुपिता यदद्य न वचस्त्वं मे ददासि प्रिये । । वजी_४.२३ । ।

"इति रोदिति" इत्यन्तेन मनागुन्मादमुद्राप्युन्मीलिता तमेव प्रोद्दीपयति ।
षष्ठेऽङ्के राजा---हा देवि !

त्वत्संप्राप्तिविलोभनेन सचिवैः प्राणा मया धारिताः तन्मत्वात्यजतः शरीरकमिदं मे नास्ति निःस्नेहता ।
आसन्नोऽवसरस्तदानुगमने जाता धृतिः किं त्वयं खेदो यच्छतधा गतं न हृदयं तद्वत्क्षणे दारुणे । । वजी_४.२४ । ।

अत्र नैराश्येन राशीभूतभूरितरशोकावेगवेदनादह्यमानमानसप्रतीकारकारणं कालिन्दीनामनिम्नगासंगमनं ।
तस्य प्रियानुगममपि वस्तु वाच्यविस्तरं प्रकरणाभरणायते ।
"प्रोच्यते कियत्" इत्युक्त्या विविधैर्वा विलासैः, कुतः कथोपकारकादिति कथायाः समाशङ्कितविच्छेदायाः प्ररोहयतीति (?) ।
किमुक्तं भवति---स्वल्पोऽपि वाच्यविशेषः सविशेषविस्फारितः समुद्धाटितरसकवाटद्वारसरसोक्तिविसरविकासिन्या प्रकरणविच्छित्त्या वितन्यमानः कमपि वक्रिमाणमासादयति ।
यथा रघुवंशे मृगयाप्रकरणे--- अत्र हि तरङ्गिणीतीरलेखास्वाखेटवाटोद्यतेन प्रमाद्यता दशरथेन राज्ञा स्थविरान्धतपस्विबालवधो व्यधीयतेति एकवाक्यशक्यप्रतिपादनोऽप्ययमर्थः पुनः परमार्थसरससरस्वतीसर्वस्वायमानप्रतिभाविधानकुशले कविना तादृश्या प्रकरणविच्छित्त्या विस्फारितश्चेतनचमत्कारकारणतामधितिष्ठति ।
तथाहि---यद्यत्रानेकनक्तन्दिनानुबन्धिविविधमृगयाव्यापारपरवशीकृतान्तः करणकवलितसकलतदितर (व्यापार) व्यावृत्त्यवसरप्रसरदभ्यासरससोदरात्मकमृगयानुरागगरिमातः प्राण्येतादृग्रूपो न प्रतिहन्येत, तदा सदाचारसंपादनचणे त्रिभुवनाभयदीक्षाधिकारिणि किरणमालिनः कुले तिलकायमानस्याखिलविद्यापारावारपारदृश्वनः कीर्तिधनस्य धन्य(दशरथ) नाम्नो धरित्रीपतेः पवित्रितत्रिदिवाधिपार्धासनस्य तथाविधाकरणीयकरणं महर्षिणाप्युदाह्रियमाणमनुपपन्नप्रायमेव प्रतिभासेतापाततः ।
इदं च तत्रैव सकलमुन्मीलितं मनागुदाह्रियते ।

व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया स धन्वी तूणीचकार शरपूरितवक्त्ररन्ध्रान् । । वजी_४.२५ । ।

अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार ।
सपदि गतमनस्कश्छिन्नमाल्यानुकीर्णे रतिविगलितबन्धे केशहस्ते प्रियायाः । । वजी_४.२६ । ।

लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहाथ् ।
आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसंजहार । । वजी_४.२७ । ।

इत्यादि ।
एतैर्हि विचित्रवाच्यवाचकौचित्यचारुभिर्वाक्यविशेषैर्विवधव्यापारपारवश्यमति तरां प्रतीयते ।
यथा---

स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथां ।
वनरति रतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामां । । वजी_४.२८ । ।

अत्र वनरतिरिति विशेषणवक्रता वने स्थित्या विलासगृहकेलीपर्यङ्के प्रेयसी समेत्य मधुगोष्ठीप्रभृत्युपभोगप्रतीतिप्रत्याख्यातप्रतीतिं प्रतिपादयन्त्या प्रस्तुतरसावेश एव वितन्यते ।
त्रियामेति वचनवक्रतोल्लेखेन चिरतरसमयमन्ध (कारः) समुन्मील्यते ।
रूढिवक्रतामहिम्ना च निर्भरान्धकारनिवारितरुचिरव्यापारप्रकारान्तरसान्तरायकारित्वात्तत्प्रतिकूलता प्रतिपाद्यते ।
अत एवातिवाहयांबभूवेति क्रियावक्रत्ववैचित्र्येण दारुणदेहवेदनां शयनगतः अपगमयामास, परमपरिश्रमविधाने निद्रा रसदायिनीत्यभिननन्द ।
यथा च

इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धरापतिं ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी । । वजी_४.२९ । ।

अत्र जहारेति क्रियावक्रत्वविच्छित्त्या, मृगयाया करणीयेतरभावनासुविकलान्तः करणत्वमङ्कुरितं महीभर्तुः ।
तथा

अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण । । वजी_४.३० । ।

अत्र तपस्विगाढामिति विशेषणवक्रतया विविधधर्माचारपरायणतापससंकुलां तमसां पश्यन्नपि शब्दश्रवणमात्रात्शरं व्याकृष्य शरमोक्षमविकलान्तः करणः कथमकुर्वतेति प्रकाश्यते ।
"अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः" इत्यनेन न्यायेन परधाराधिरूढदुर्धरव्यसनरागान्दकारकवलितविवेकदृष्टयस्तथाविधा अशुद्धाध्वनि सञ्चरन्त इत्युपपत्तिरप्युपपादिता ।
उत्तरकथोपकारोऽप्येकदेशस्यास्त्येव ।
तथा हि---

दिष्टान्तमाप्स्यति भवानपि पुत्रशोका- दन्ते वयस्यहमिवेति तमुक्तवन्तं । । वजी_४.३१ । ।

इति विशीर्णतापसवितीर्णशापस्य तापसं प्रति प्रतिवचनं कौसल्यापतेः---तथा हि

शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयं ।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धः बीजप्ररोहजननीं दहनः करोति । । वजी_४.३२ । ।

अत्र शाप इति एवंविधापचारप्राग्भारप्रभवो भवतु नाम ।
सानुग्रह इति अनुग्रहः पुनरयमनुपपन्न एवास्यामवस्थायां ।
भगवतेत्यनर्थदर्शनेन सहजदयालुना ।
यदि वा भगवता शापोऽपि इति शापानुग्रहयोर्दहनवारिणोरिवैककालमेकविषयवर्तित्वमसतोरपि भगवत्(स्वरूप)संपत्सामर्थ्यादेव संभाव्यते, अदृष्टतनयाननपद्मशोभे मयि एतस्मादेवानुग्रहादवश्यंभाविनः सुचिरकालाभिकाङ्क्षितस्य सुतावलम्बनतनोर्जोवितफलस्य विलोकनोत्कण्ठापारवश्यात्(सार्थक्यम्) इत्यलमतिप्रसङ्गेन ।
अस्या एव प्रभेदान्तरमुन्मीलयति---

कथावैचित्र्यपात्रं तद्वक्रिमाणं प्रपद्यते ।
यदङ्गं सर्गबन्धादेः सौन्दर्याय निबध्यते । । वजी_४.९ । ।

"तद्वक्रिमाणं(प्रपद्यते)" किंविसिष्टं---"कथवैचित्र्यपात्रं" = प्रस्तुतसंविधानकभङ्गीभाजनं ।
किं तत्? "यदङ्कंसर्गबन्धादेः सौन्दर्याय निबध्यते" = "यत्"---जलक्रीडादिप्रकरणं ("सर्गबन्धादेः") महाकाव्यप्रभृतेः ("सौन्दर्याय")---उपशोभानिषपत्त्यै ("निबध्यते") निवेश्यते ।
अयमस्य परमार्थः---प्रबन्धेषु जलकेलिकुसुमापचयप्रभृति प्रकरणं प्रक्रान्तसंविधानकानुबन्धि निबध्यमानं निधानमिव कमनीयसंपदः संपद्यते ।
यथा रघुवंशे---

अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव । । वजी_४.३३ । ।

इत्यादि ।
जलक्रीडास्पर्शानन्तरलक्षितत्वातखिलमदविकल(ललना)विलासमूलाध्यास्यमानोत्सवाकुलस्य(कुमुदकन्या)कन्दुकक्रीडालक्षणमुत्सवान्तरमुत्तरकथोपकार्युपपद्यते, तद्विदामाह्लादमावैति च ।
तथा हि राज्ञः करा(स्फालनाभ्युक्षणा)दिवारिविहाररसपरवशान्तः करणस्य (करारविन्दा) दलङ्करणमलक्षितपतनमुत्पन्नकुतूहला कुमुद्वती नाम नागकन्या जगृहे ।
ततस्तस्मिन्नादरोद्रेकादन्विष्टेऽप्यनासादिते पाथोन्तर्वर्तिनं नागनायकमानीय निवेदितं कुमुदमुद्दिश्य दशाननान्तकनन्दनः समधत्त धनुषि धन्वी गारुत्मतमस्त्रं ।
अथ परित्राणपर्याकुलः कुमुदः कुमुद्वतीं स्वसारमाभरणेन समं करकमलालङ्कारिणा विदेहनन्दिनीनन्दनस्यार्(पयामास) ।
अत्र सूक्तानि कानिचिदुदाह्रियन्ते ।

अवैमि कार्यन्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वां ।
सोऽहं कथं नाथ तवाचरेय- माराधनीयस्य धृतेर्विघातं । । वजी_४.३४ । ।

कराभिघातोत्त्थितकन्दुकेय- मालोक्य बालातिकुतूहलेन ।
ह्रदात्पतज्ज्योतिरिवान्तरिक्षा- ददत्त जैत्राभरणं त्वदीयं । । वजी_४.३५ । ।

तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन ।
भुजेन रक्षापरिघेण भूमे- रुपैतु योगं पुनरंसलेन । । वजी_४.३६ । ।

इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुं ।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते । । वजी_४.३७ । ।

एतेषु भुजङ्गराजवाक्येषु आद्ये "विष्णोऽरिति रूढिवक्रतया वक्तृप्रभावात्पर्यङ्कीभूय भुवनाधारेण अनन्तेन निषेव्यमाणस्य सकलाज्ञापालनसंपादने सज्जो भुजङ्गान्तरो भविष्यतीति प्रतिपाद्यते ।
"सऽ इति संवृतिवक्रत्वेन यः सततमेव तव वास्तव्यविषयः स एवेत्यभिव्यज्यते ।
कथं इति पदवक्रतया (त्वयि) भक्तिरिति विधेयतानियन्त्रितस्य मम न केनापि प्रकारेण दुश्चरितापन्नं शीलमाशङ्क्यमिति ।
द्वितीयेऽपि "औत्पातिकज्योतिरिवान्तरिक्षात्" इत्युपमया न कथं किसलयितदिगन्तरालतरलितमरीचिमण्डलतया यावदस्माकं अकारणकमहाभयसंशयसंपादनमपीत्यवगम्यते ।
तृतीयेऽपि तदेतदिति संवृतिवक्रतया यस्य त्वत्पितुरुरस्थलमिव कौस्तुभस्य भद्रजयविभूष्यताविषयः इति "रक्षापरिघेण भूमेः" इति रूपकेण निवारितनिखिलवसुन्धरादुःखस्य त्वद्वाहोरलङ्करणम्, "शुश्रूषया पादयोऽ रिति चरणशुश्रूषापवित्रेण पाणिनां संपादितपरिणयोत्सवां "यवियसीऽ मिति द्रुततरतारुण्यावतारितत्वदनुरागप्राग्भारां ।
अत एव नार्हसि नानुमन्तुमपि ।
तर्ह्यर्हस्यैव गत्यन्तराभावादिति प्रतीयते ।

"अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती" । । वजी_४.३८ । ।

इत्यनन्तरप्रकरणे कथोपकारोऽपि प्रकटमेव वारिविहारस्य दर्शितः ।
नस्मादेव च तदवसरनिदानतया निदाघवर्णनमपि अत्र---

अथास्य रत्नग्रथितोत्तरीय- मेकान्तपाण्डुस्तनलम्बिहारं ।
निश्वासहार्यांशुकमाजगाम घर्मः प्रियावेषमिवोपदेष्टुं । । वजी_४.३९ । ।

इत्यादिना निबध्यमानं न कथावैचित्र्यमात्रमतिक्रामति ।
(अस्मिन्समस्त) प्रबन्धे प्रकरणं प्रक्रान्तसंविधानमपि (नानाप्रियकार्यतन्तुमिलितरूपकारणं प्रसक्तं ।
अस्या निदर्शनान्यपि स्वयमन्यान्युदाहरणणीयानि ।

जलक्रीडादिकाख्यानमपि संदर्भसुन्दरं ।
प्रबन्धस्य कथाप्राणपरिस्पन्दपरं सुखं । । वजी_४.४० । ।

(इत्यन्तरश्लोकः) पुनरप्यस्याः प्रभेदान्तरमुद्भावयति---

यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते ।
पूर्वोत्तरैरसंपाद्यः साङ्कादेः कापि वक्रता । । वजी_४.१० । ।

"साङ्कादेः कापि वक्रता" "अङ्कादेः" = अङ्कसर्गादेः प्रकरणस्य "सा कापि" = अलौकिकी "वक्रता" = वक्रभावो भवतीति संबन्धः ।
"यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि" लक्ष्यते" "यत्र"---यस्यां अङ्गी यः "रसः" प्राणरूपः, तस्य निष्यन्दः प्रवाहः तस्य, काञ्चनस्येव निकषः परीक्षोपलवद्विषयविशेषः "कोऽपि" अभूत---निर्माणनिरुपमो लक्ष्यते (निकष) योजने (काञ्चनस्य रेखो) दयैरिव विशेषः ।
किं विशिष्टः "पूर्वोत्तरैरसंपाद्यः"---प्रक्परवृत्तिभिरङ्काद्यैः संपादयितुमशक्यः ।
इदमत्र तात्पर्यं ।
प्रधानरससर्वस्वक्रीडानिकेतनं तात्किमपि प्रकरणं (यत्र) प्रकटतरं च वक्रताविच्छित्तिर्विद्योतते ।
यदीयलावण्यातिशयं मनाङ्मात्रमपि पूर्वाण्यपराणि वा प्रकरणान्तराणि नानुकर्तुं शक्रुवन्ति ।
यथा विक्रमोर्वश्यामुन्मत्ताङ्कः--- तत्र हि प्रस्तुतरसासाधारण(विभावानुभाव) माधुर्यसंपत्त्या विप्रलम्भशृङ्गारस्याङ्गिनः स कोऽपि (सहृदयहृदया) देः रसनिष्यन्दपरिस्पन्दः परिस्तीर्यते, यः न केवलं प्रकरणान्तरे प्रबन्धान्तरेऽप्यशक्यकामनीयककणिकानुकारः ।
तथा च तदुपक्रम एव--- राजा (ससंभ्रमम्)---आ दुरात्मन्, तिष्ठ तिष्ठ ! क्व नु खलु प्रियतमामादाय गच्छिसि ?(विलोक्य) कथं शैलशिखरात्गगनमुत्प्लुत्य बाणैर्मामभिवर्षति ? (विभाव्य सबाष्पम्) कथं विप्रलब्धोऽस्मि---

नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनं ।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी । । वजी_४.४१ । ।

अनेनोन्मीलितोन्माददशावैशसस्य राज्ञः, कवचितः शिञ्चितकोदण्डदण्डो दर्पादापतन्नक्तञ्चरोऽपि शक्यप्रतीकारो न त्वसौ नवाम्भोद इति, नाराचनिचयोऽपि न तथा मर्माणि कृन्तति यथायमासारधारानिकर इति ।
किं च नभसि वा भूयः सौदामिन्याः अन्वीक्षणदृष्टनष्टायाः क्षणान्तरे दर्शनमासाद्यते, तथाविधस्थैर्यासंभावितभूमेरपि प्रियायाः तत्किमिदमिति चाभिप्रायो वाक्येन प्रतिपाद्यते ।
"तिष्ठेत्कोपवशादि"त्यादि, "पद्भ्याऽ-मिति, "तरङ्गेऽ त्यादिकं (च) प्रागुदाहृतमस्माभिरनुसन्धेयं ।
यथा वा किरातार्जुनीये बाहुयुद्धप्रकरणम्---तत्रापि कवचादिकायरक्षणाद्युपकरणमन्तरेणापि सहजबाहुबलावलेपप्रकाशनप्रस्तावप्राप्तिप्रमोदमानमानसस्य निरुपमनियुद्धनिर्माणनिर्मर्यादनिवेद्यमानसाहससाहाय्यस्य पाण्डुसूनोः स कोऽपि वीररसस्योत्कर्षः प्रकाशते ।
(तिष्ठतु तावत्सर्वमितरं सचेतसामित्यभिप्रायः) ।
परमेश्वरस्यापि केवलमानुषस्य बाहुबलादेवं दूरमुत्क्षिप्य वियत्यान्दोल्यमानस्य कविकल्पितचमत्कारान्तरकारणं (स्पष्टम्) ।
एवमन्यदप्युदाहार्यं ।
पुनरिमामेवान्यथा प्रथयति---

प्रधानवस्तुनिष्पत्त्यै वस्त्वन्तरविचित्रता ।
यत्रोल्लसति सोल्लेखा सापराप्यस्य वक्रता । । वजी_४.११ । ।

"अपराप्यस्य" प्रकरणस्य "वक्रता" वक्रभावो भवतीति संबन्धः ।
"यत्रोल्लसति" = उन्मीलति ।
(कीदृशी) "सोल्लेखा"---अभिनवोद्भेदभङ्गी ।
(सुभगा चासौ सुन्दरप्रतिरूपा) "वस्त्वन्तरविचित्रता" = वस्त्वन्तरमितरद्वस्तु, तस्य विचित्रता वैचित्र्यं नूतनचमत्कार इति यावथ् ।
किमर्थं "प्रधानवस्तुनिष्पत्त्यै" ।
प्रधानमधिकृतं प्रकरणं कमपि वक्रिमाणमाक्रामति ।
यथा मुद्राराक्षसे षष्ठेऽङ्के "ततः प्रविशति रज्जुहस्तः पुरुषः" इत्यादि प्रकरणं ।
तत्र हि स पुमान्निरुपमाननयकेलिकुशलकौटिल्यप्रयोज्यमानो निपुणमतिर्जोर्णोद्याने मुद्रोद्गलनसमुच्चलितविपक्षतारूक्षं राक्षसमाकृष्टकृपाणपाणिमापतन्तमपश्यन्निव स्वयमुदग्रग्रीवावलम्बिना रज्जुवलयेन व्यापादयितुं (आत्मानं) आरेभे ।
राक्षसेनापि कौतुककरुणाक्रान्तमनसा भद्रमुख किमिदमिति पृष्टं ।
आः किं मम महादुःखप्रशमकारणे मरणेऽन्तरायमाचरसीत्याचचक्षे ।
तन्निर्बन्धाच्च वध्यभूमिमानीतस्य महासत्त्व(मुकुट)मणेर्मणिकारश्रेष्ठिनश्चन्दनदासस्य प्रियसुहृदो दुःखावेगमसहिष्णुर्विष्णुदासोऽपि मत्प्रियमित्रं पुरोऽस्य पावकं प्रविष्टुमुद्यतः ।
ततोऽहमपि तद्वदेव शोकावेगमसहमानः प्रथममेवात्मानं व्यापादयामीत्यावेदयामास ।
किं बहुना, विचित्रसंभावनागहने नीतिवर्त्मनि विचक्षणंमन्यस्य राक्षसस्यापि तथा संभ्रमः सन्तापमुज्जनयांबभूवे, यथा वा सः स्वदेहदानेन चन्दनदासदेहमोचनायोपचक्रमे ।
अत्रापि किञ्चिदुदाह्रियते यथा---

छग्गुणसंजोअदिढा उवाअपरिवाडिधडिअपासमुही ।
चाणक्कणीतिरज्जू रिपुसंजमाज्जऽ जादि । । वजी_४.४२ । ।
षङ्गणसंयोगदृढा उपायपरिपाटिघचितपाशमुखी ।
चाणक्यनीतिरज्जू रिपुसंयमनोद्यता जयति । ।
इति छाया । ।

विशेषणवक्रताविशिष्टेन रूपकेण पुरुषस्यायमभिप्रायः प्रकाश्यते ।
यथा--- त एव गुणास्त एवाभ्युपायास्तदेव च नीतितन्त्रम्, तथापि कस्यचिदेवाविकलकौशलप्रसारिता रिपुकुलसंयमनाय संघटना अविदितविविधबन्धयुक्ता नीतिप्रयुक्ता तद्विदामपि विमोहमावहति, अत एव जयतीति ।
तथा च--- "राक्षसः---भद्रमुख अस्याग्निप्रवेशे सुहृदस्ते को हेतुः ? किमौषधपथातिगैरुपहतो महाव्याधिभिः ? पुरुषः---अज्ज णहि णहि (आर्य न हि न हि) राक्षसः---किमग्निविषकल्पया नरपतेर्निरस्तः क्रुधा ? पुरुषः---सन्तं पावं सन्तं पावं, चन्दौत्तस्स जणवदे ण णिसंसा पडिवत्ती ।
(शान्तं पापं, शान्तं पापं ।
चन्द्रगुप्तस्य जनपदेष्वनृशंसा प्रतिपत्तिः) राक्षसः---अलभ्यमनुरक्तवान्कथय किं नु नारीजनं ? पुरुषः---(कर्णौ पिधाय) सन्तं पावं, अभूमि क्खु एसो अविणास्स ।
(शान्तं पापं ।
अभूमिः खल्वेष अविनयस्यः राक्षसः---

किमस्य भवतो यथा सुहृद एव नाशो विषं । । वजी_४.४३ । ।

पुरुषः---अज्ज अह इं ? (आर्य अथ किम्)" अत्र महाव्याधिभिरिति बहुवचनवक्रत्वं, अग्निविषकल्पयेति च (विशेषणवक्रत्वं) तथाविधाराजापथ्यविधायी वध्यस्थानस्थापितोऽपि चन्दनदासः तत्कलत्रमद्यापि याचितो न समर्पयतीति व्यापाद्यत इत्यस्य वक्ष्यमाणस्य प्रधानाभिधेयस्य निमित्तमादत्ते ।
अस्येति सहजसौहार्दनिबर्हणनिहन्यमानस्य ।
"भवतो यथा" विततव्यतिकरोत्सेककारिणः सावत्महत्येच्छा ।
अनेनैव विविधविकल्पनेन योऽयमर्थः समुद्दीप्यमानो नवताभाजनं विभूष्यमाणः सन्प्रिकाशते ।
एवमन्यदपि तत एव विभाव्य व्याख्येयं ।
प्रधानफलसिद्धश्चात्र "...व्यापत्तिं ज्ञातमस्य स्वतनुमहमिमां निष्क्रयं कल्पयमि" इत्युन्मीलिता ततस्तदनन्तरप्रकरणे "तस्येयं मम मृत्युलोकपदवी वध्यस्त्रगाबध्यताम्" इत्यादिना निष्पादिता ।
तामेव भङ्ग्यन्तरेण व्याचष्टे ।

सामाजिकजनाह्लादनिर्माणनिपुणैर्नटैः ।
तद्भूमिकां समास्थाय निर्वर्तितनचान्तरं । । वजी_४.१२ । ।
क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरं ।
सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रतां । । वजी_४.१३ । ।

"सर्वप्रबन्धसर्वस्वकल्पां पुष्णाति वक्रताम्" = सकलरूपकप्राणरूपं समुल्लासयति वक्रिमाणं ।
"क्वचित्प्रकरणस्यान्तः स्मृतं प्रकरणान्तरम्" कस्मिंमश्चित्कविकौशलोन्मेषशालिनि नाटके, न सर्वत्र ।
एकस्य मध्यवर्त्यङ्कान्तरगर्भोकृतं गर्भो वा नामेति यावथ् ।
किंविशिष्टं "निर्वर्तितनटान्तरं" = विभावितान्यनर्तकं ।
नटैः कीदृग्भिः "सामाजिकजनाह्लादनिर्माणनिपुणैः"---सहृदयपरिषत्परितोषपोषणनिष्णातैः ।
(किं कृत्वा) "तद्भूमिकां समास्थाय" सामाजिकीभूय ।
इदमत्र तात्पर्यम्--कुत्रचिदेव निरङ्कुशकौशलाः कुशीलवाः स्वीयभूमिकापरिग्रहेण रङ्गमलङ्कुर्वाणा नर्तकान्तरप्रयुज्यमाने प्रकृतार्थजीवित इव गर्भवर्तिन्यङ्कान्तरे तरङ्गितवक्रतामहिम्नि सामाजिकीभवन्तो विविधाभिर्भावनाभङ्गीभिः साक्षात्सामाजिकानां किमपि चित्तचमत्कारवैचित्र्यमासूत्रयन्ति ।
यथा बालरामायणे चतुर्थेऽङ्केलङ्केश्वरानुकारी प्रहस्तानुकारिणा नटो नटेनानुवर्तमानः---

कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमः शृङ्गारबीजाय तस्मै कुसुमधन्वने । । वजी_४.४४ । ।

इत्यादिना नटान्तराभिनीयमान (विविधभावनाः भङ्गीतरङ्गितवक्रतागरिमणि गर्भाङ्के सामाजिकीभूय (सीता) सखीभिर्विभावनविक्रियाभिरभिनीयमानो मनोरथातिरिक्तमानन्दमुत्पादयति सहृदयानां ।
तत्सूक्तिसर्वस्वं च स्वयमेवोत्प्रेक्ष्य व्याख्येयं ।
प्रबन्धान्तः प्रकरणवक्रताप्यस्य प्रकरणस्य तत्रैव---

श्रवणैः पेयमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः ।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणं । । वजी_४.४५ । ।

इत्यनेन प्रकाश्यते ।
यथा वा उत्तररामचरिते सप्तमेऽङ्के रामभद्रा (नुकारी) लक्ष्मणासहकारिणा नर्तको नर्तकेनोपास्यमानः

"(नेपथ्ये) अज्जौत्त, हा कुमार उक्खण, एआइणिं असरणं अरण्णे आसण्णपसववेअणं हदासं सावदा मं अहिलसन्ति ।
साहं दाणिं मन्दभाइणी भारिररिए अत्ताणं णिक्खिविस्सामि" । । वजी_४.४६ । ।

(हा अर्यपुत्र, हा कुमारलक्ष्मण्, एकाकिनीं मन्दभागिनीमशरणामरण्ये आसन्नप्रसववेदनां हताशांश्वापदा मामभिलषन्ति ।
साहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षिपामि) ।
इत्यादिना नटान्तरेत्यादि पूर्ववथ् ।
अपरमपि प्रकरणवक्रतायाः प्रकारमाविष्करोति---

मुखाभिसन्धिसंह्लादि संविधानकबन्धुरं ।
पूर्वोत्तरादिसंगत्यादड्गानां विनिवेशनं । । वजी_४.१४ । ।
न त्वमार्गग्रहग्रस्तवर्णकाङ्गैः कदर्थितं ।
वक्रतोल्लेखलावण्यमुल्लासयति नूतनं । । वजी_४.१५ । ।
"वक्रतोल्लेखलावण्यमुल्लासयति नूतनम्" = वक्रतोन्मेषकामनीयकमुन्मीलयत्यभिनवं ।
"अड्गानां विनिवेशनम्"---प्रकरणानां विशेषेण न्यासः ।
कस्मात्---"पूर्वोत्तरादिसांगत्यात्"---पूर्वस्य पूर्वस्योत्तरोत्तरेण यत्सांगत्यमतिशयितसंबन्धत्वमुपजीव्योपजीवकभावलक्षणं तस्माथ् ।
किंभूतं "मुखाभिसन्धिसंह्लादि" = मुखानि च तानि अभिसन्धीनि, तैः संह्लादि सुन्दरं हृदयहारि ।
(पुनः कीदृशं)"संविधानकबन्धुरम्" = प्रस्तुतसंविधानरमणीयं ।
इदमुक्तं भवति---प्रबन्धेषु पूर्वं पूर्वं प्रकरणं परस्य परस्य प्रकरणान्तरस्य सरससंपादितसन्धिसंबन्धसंविधानकसमर्प्यमाण(कामनीयक)ताप्राणप्रौढिप्ररूढवक्रतोल्लेखमाह्लादयति ।
यथा पुष्पदूषितके प्रथमं प्रकरणम्--अतिदारुणाभिनवविप्रवासवेदनानिरानन्दस्य नन्दयन्तीमसंमान्य समागतस्य समुद्रतीरे समुद्रदत्तस्योत्कण्ठाप्रकारप्रकाशनं ।
द्वितीयमपि--प्रस्थानात्प्रतिनिवृत्य निशीथिन्यामुत्कोचालङ्कारदानमूकीकृतकुवलयस्य कुसुमवाटिकायामनाकलिताननस्य सहचरीसंगमनं ।
तृतीयमपि---संभावितदुर्विन्यविजयदत्तनन्दिनीनिर्वासनव्यसननि बन्धनं ।
चतुर्थमपि--मथुराप्रतिनिवृत्तकुवलयप्रदर्श्यमानाङ्गुलीयकसमावेदितविमलशीलसंपदः कठोरतरगर्भभारखिन्नायाः स्नुषाया निष्कारणनिष्कासनादनासादिततत्प्रवृत्तेर्महापातकिनमात्मानं मन्यमानस्य सार्थवाहसागरदत्तस्य तीर्थयात्राप्रवर्तनं ।
पञ्चममपि---वनान्तरे वनपालपालिताया नन्दयन्त्याः कुवलयेन समुद्रदत्तकुशलोदन्तकथनं ।
षष्ठमपि---विचित्रसरण्या समागमाभ्युपायसंपादनमिति ।
एवमेतेषामनन्तोपायानां कथारसनिष्यन्दतत्पराणां परिपाटिः कामपि कामनीयकसंपदमुद्भावयति ।
यथा वा कुमारसंभवे--- पार्वत्याः प्रथमतारुण्यावतारवर्णनम्, शङ्करशुश्रूषा, दुस्तरतारकपराभवपारावारोत्तारकारणमरविन्दसूतेरुपदेशः, कुसुमाकरसुहृदः कन्दर्पस्य पुरन्दरोद्देशात्गौर्याः सौन्दर्यबलाद्विप्रहरतो हरविलोचनविचित्रभानुना भस्मीकरणं, दुःखावेशविवशाया रत्या विलापनम्, विक्षतविकलमनसो मेनात्मजायास्तपश्चरणम्, आदृतवृद्धा (चारया सह) मनसिजविषूदनसंवादनिरूपणं, चित्रशिखण्डिभिः शिखरिनाथाभ्यर्थनम्, निरर्गलानुरागप्राग्भारपरिमृष्टचेतसा (परमेश्वरेण) पाणिपीडनम्, इति प्रकरणानि पौर्वापर्यपर्यवसितसुन्दरसमावेशसंबन्धबन्धुराणि रामणीयकधारमधिरोहन्ति ।
एवमन्येष्वपि महाकविप्रबन्धेषु प्रकरणवैचित्र्यमेवमेव विवेचनीयं ।
अस्यैव प्राधान्यमभिधातुं व्यतिरेकमाह--- "न त्वमार्गग्रहग्रस्तवर्णकाङ्गैः कदर्थितम्"---न त्वङ्गानां विनिवेशनं वक्रतोल्लासभाग्भवति ।
किं भूतम्---अमार्गग्रहग्रस्तवर्णकान्तरकदर्थितं ।
उत्तरोत्तरपरस्परान्वयलक्षणसंबन्धनिबन्धनं एतद्वाक्यार्थतात्पर्यमिति वाक्यविचारलक्षणस्योपयोगः, प्रमाणेन प्रत्यक्षादिनैतत्, उपपन्नमिति प्रमाणलक्षणस्योपयोगः ।
युक्तियुक्तत्वं नाम ग्रथनावेशकलितं भरतादिलक्षणयोजनाविलम्बितं, संध्यङ्गप्रभृतिप्रतिपादनाय कथानुपयुक्तैर्वर्णकैराकीर्णं । ।
यथा वेणीसंहारे प्रतिमुखसन्ध्यङ्गभागिनि द्वितीयेऽङ्के भानुमत्याः स्वप्नवृत्तान्तश्रवणसमुत्पन्नदुर्विनयबुद्धेर्दुर्योधनस्य विविधविपक्षवैलक्ष्ये तादृशि समरसंमर्दे समुद्वृत्ते, शरशय्याशायिनि मन्दाकिनीनन्दने, निहन्यमानेषु च कुमारसोदरसंबन्धिसुहृत्सु, तथाविधवीरवृत्तेरभिमानिनोऽस्पन्दमवस्थितिरप्यनुचिता किं पुनर्विलासव्यापृतिः, तत्रापि वेश्यायामिव विलासः महाराजस्य महिष्यां, (वि) चारमन्तरेण तदुचितचित्तपरिचितिं विना च दुर्विनयाध्यासः सकलमिदमसमञ्जसताभाजनमुपेक्ष्यमेव ।
यथा शिशुपालवधे--- उपेन्द्रस्येन्द्रप्रस्थं प्रति प्रतिष्ठमानस्य द्वारवतीव्यावर्णनं ।

औचित्यचारुवचनैरन्यैः प्रकरणैः कवेः ।
रत्नैरलङ्कार इव प्रबन्धः पुष्यति श्रियं । । वजी_४.४७ । ।

विचित्रभङ्गीसंचारकथामूर्त्येकजीवितं ।
रसायनं रसस्येव स्वानुप्रकरणं विदुः । । वजी_४.४८ । ।

(इत्यन्तरश्लोकौ) एवमनेकप्रकारां प्रकरणवक्रतां प्रतिपाद्य समुदायात्मकस्य प्रबन्धस्य तामभिदधाति---

इतिवृत्तान्यथावृत्तरससंपदुपेक्षया ।
रसान्तरेण रम्येण यत्र निर्वहणं भवेथ् । । वजी_४.१६ । ।
तस्या एव कथामूर्तेरामूलोवनमीलिताश्रियः ।
विनेयानन्दनिष्पत्त्यै सा प्रबन्धस्य वक्रता । । वजी_४.१७ । ।

"सा" "प्रबन्धस्य"---नाटकसर्गबन्धादेः "वक्रता"---वक्रभावो भवतीति संबन्धः ।
"यत्र निर्वहणं भवेत्" = यस्यामुपसंहरणं स्याथ् ।
"रसान्तरेण रम्येण" इतरेण रसेन रामणीयक (त्व) विधायिना ।
कया "इतिवृत्तान्यथावृत्तरससंपदुपेक्षया"---"इतिवृत्ते" इतिहासेऽन्यथा---अपरेणप्रकारेण "वृत्ता" निर्व्यूढा या "रससंपत्" शृङ्गारादिभङ्गी "तदुपेक्षया"---तदनादरेण तां परित्यज्येति यावथ् ।
कस्याः "तस्या एव कथामूर्तेः" तस्यैव काव्यशरीरस्य ।
किंभूतायाः---"आमूलोन्मीलितश्रियः"---"आमूलं" प्रारम्भातुन्मीलिता श्रीः = वाच्यवाचकरचनावैचित्र्यसंपत्यस्याः सा तथोक्ता तस्याः ।
किमर्थं "विनेयानन्दनिष्पत्त्यै" = प्रतिबोध्यपार्थिवादिप्रमोदसंपादनाय ।
अनेनेदमभिहितं भवति--इतिवृत्तान्तर्वृत्तायाः कस्याश्चिदेकस्याः कथायाः कविस्तन्निबन्धनिर्वहणगतरसपद्धतिं परित्यज्याभिजातानामाह्लादकारिणा कामनीयकेन केनाप्यन्येन रसेनोपसंहरणमुपपादयन्प्रबन्धे कमपि वक्रिमाणमादधाति ।
यथा वेणीसंहारे-- स हि कामान्तरकवलितसकलभावभावनावारितनिःसारसंसारवासनामहिमनि महाभारते शान्तरसविनासिना निबन्धनि र्(वहण)पद्धतौ पाण्डवकथायास्तथाविधाद्भुताभोगशोभिना वीरेण रणप्राङ्गणनिहताखिलारातिचक्रधाराधिष्ठितराजधर्मधर्मराजाभ्युदयसंपादितां समाप्तमुपपादयन्प्रबन्धप्ररूढप्रौढवक्रताविच्छित्त्याच्छिन्नमभिजातानामाह्लादमावहति ।
ते हि तथाविधव्यसनक्षेत्रीभूतैरपि पुनः स्वपक्षोपबृंहितपराक्रमपराजितपरिपन्थिभिर्भुज्यत एषा राज्यश्रीरिति अखिद्यमाना विपत्स्वपि विपुलोत्साहभाजो भवन्ती ।
यथा वोत्तररामचरितम्--रामायणेऽप्यङ्गिना करुणेन दारुणविरहवेदनाभाजनजनकराजपुत्रीपातालप्रवेशात्, प्रबाहोदर (पतितस्य) सोदरसहितस्य रघुपतेर्निबन्धनिर्वहणविपर्यस्तकथायाः सकलदिव्यास्त्रकुशललवबलदर्शनोत्सवान्तरोपबृंहितत्वेन विदेहनन्दिनीसंभोगशृङ्गारः उपसंहरणमात्रे विच्छित्तिविशेषपोषण (पदवीं) भजनभिजातानामभिनन्दनीयो भवति ।
एवमन्यदपि स्वयमूह्यं ।

विध्वस्तव्यसनानां यो नायकाभ्युदयावहः ।
प्रबन्धः प्रतिपाद्यानां प्रीतिबन्धाय जायते । । वजी_४.४९ । ।

(इत्यन्तरश्लोकः) रामायणमहाभारतयोश्च करुणशान्ताङ्गित्वं पूर्वसूरिभिरेव निरूपितं ।
अस्याः प्रकारान्तरमप्यवतारयतिः---

त्रैलोक्याभिनवोल्लेखनायकोत्कर्षपोषिणा ।
इतिहासैकदेशेन प्रबन्धस्य समापनं । । वजी_४.१८ । ।
तदुत्तरकथावर्तिविरसत्वजिहासया ।
कुर्वोत यत्र सुकविः सा विचित्रास्य वक्रता । । वजी_४.१९ । ।

"सा विचित्रा"---विविधभङ्गीभ्राजिष्णुः ।
"अस्य"---प्रबन्धस्य ।
"वक्रता"---वक्रभावो भवतीति संबन्धः ।
"कुर्वोत यत्र सुकविः" "कुर्वोत"---विदधीत ।
"यत्र"---यस्यां ।
"सुकविः"---औचित्यपद्धति-प्रभावचतुरः ।
"प्रबन्धस्य समापनम्" ("प्रबन्धस्य")सर्गबन्धादेः, "समापनम्"--उपसंहरणं समर्थनमिति यावथ् ।
"इतिहासैकदेशेन" इतिवृत्तस्यावयवेन ।
किंभूतेन "त्रैलोक्याभिनवोल्लेखनायकोत्कर्षपोषिणा" जगदसाधारणस्फुरितनेतृप्रकर्षप्रकाशकेन ।
किमर्थं---तदुत्तरकथावर्तिविरसत्वजिहीर्षया--तस्मादुत्तरा या कथा तद्वृत्ति तदन्तर्गतं यद्विरसत्वं वैरस्यमनार्जवं, तस्य "जिहासया" परिजिहीर्षया ।
इदमुक्तं भवतिः---इतिहासोदाहृतां काञ्चन महाकविः सकलां कथां प्रारभ्यापि, तदवयवेन त्रैलोक्यचमत्कारकारणनिरुपमाननायकयशः समुत्कर्षोदयदायिना तदग्रिमग्रन्थप्रसङ्गतः संभावितविरसभावभयातुपसंहारमाणः तस्य प्रबन्धस्य कामनीयकनिकेतनायमानं वक्रिमाणमादधाति ।
यथा किरातार्जुनीये---

स हि सर्गबन्धः द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । । वजी_४.५० । ।

... रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः । । वजी_४.५१ । ।

एते दुरापं समवाप्य वीर्यमुन्मूलितारः कपिकेतनेन । । वजी_४.५२ । ।

इत्यादिना दुर्योधननिधनान्तां धर्मराजाभ्युदयदायिनीं सकलामपि कथामुपक्रम्य कविना निबध्यमानत्वात्तेजस्विवृन्दारकस्य दुरोदरद्वारा दूरीकृतविभूतेः प्रभूतद्रुपदात्मजानिकारनिरतिशयोद्दीपितमन्योः कृष्णद्वैपायनोपदिष्टविद्यायोगसंपदः पाशुपतादिदिव्यास्त्रप्राप्तये तपस्यतो गाण्डीवसुहृदः पाण्डुनन्दनस्यान्तरा किरातराजसंप्रहरणात्समुन्मीलितानुपमविक्रमोल्लेखं कमप्यभिप्रायं प्रकाशयति ।
तथाहि--- यत्प्रथमम्---प्राप्तपाशुपतप्रभृतिपरमास्त्रसंभारेणाप्येकाकिना (पार्थेन) पिनाकिना (सह) महाहवः, यस्मिन्भुजयोरादायान्दोल्यमानो वियति विषमलोचनोऽपि विस्मयावेशविकलतां विलक्षतां चालब्धपूर्वां लम्भितः ।
तस्य प्रत्यक्षीकृतत्र्यक्षस्य तत्प्रसादासादितदिव्यास्त्रसंपदो व्यापदापातरक्षणविचक्षणचक्रधरसारथेस्तथाविधरथोत्तममास्थितस्य स्थिरतरसमरसंरम्भभीमसेनाद्युपेतानीकिनीपरंपरापरिवारितस्य पुरुस्कृतशिखण्डिनः पराङ्मुखे वर्षोयस्यपि पितामहे, महादयालोः"अर्जुनस्य इमे बाणाः नेमे बाणाः स्यपि पितामहे, महादयालोः "अर्जुनस्य हमे बाणाः नेमे बाणाः शिखण्डिनः" इत्यादिनार्षेण वचसा सूचितं श्वपचादपि (नृशंसवृत्ताचारणम्) ।
औच्तियप्रधानपद्धतिप्रवर्धमानवीररसपरिवृढप्रबन्धनिबध्यमानमयशस्यमेवान्यथा व्यापृतस्य पृथिवीपतेः भूरिश्रवसोऽप्यधीरवर्त्मना भुजदण्डोच्छेदनं ।
तद्वन्मेदिनीनिमग्नस्यन्दनाभ्युद्धरणव्यापृतस्य व्याहृतविरोधिताहवपद्धतेरप्यङ्गभर्तुरुत्तमाङ्गकर्तनं ।
एवमन्यदप्यूह्यं ।

सातिरेकरसोत्सेककर्मनिर्माणकर्मणः ।
प्रत्युहदूरीकरणात्कान्तिं पुष्णाति नायकः । । वजी_४.५३ । ।

इत्यन्तरश्लोकः ।
भूयोऽपि भेदान्तरमस्यां संभावयति---

प्रधानवस्तुसंबन्धतिरोधानविधायिना ।
कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा । । वजी_४.२० । ।
तत्रैव तस्य निष्पत्तेर्निर्निबन्धरसोज्ज्वलां ।
प्रबन्धस्यानुबध्नाति नवां कामपि वक्रतां । । वजी_४.२१ । ।

"प्रबन्धस्य"---सर्गबन्धादेः, "अनुबध्नाति"---द्रढयति ।
"नवाम्"---अपूर्वोल्लेखां, "कामपि" सहृदयानुभूयमानां न पुनरभिधागोचरचमत्कारां, "वक्रतां"---वक्रिमाणं ।
कासौ "कार्यान्तरान्तरायेण विच्छिन्नविरसा कथा" "कार्यान्तरान्तरायेण"---अन्यकार्यकृतेन आधिकारिककथाप्रत्यूहेन "विच्छिन्नविरसा" विच्छिन्ना चासौ विरसा च सा, विच्छिद्यमान (रस) त्वातनावर्जनसंज्ञेत्यर्थः ।
किमभूतेन "प्रधानवस्तुसंबन्ध(तिरोधान) विधायिना"---आधिकारिकफलसिद्धयुपायनिरोधिना ।
कुतः "तत्रैव तस्य निष्पत्तेः" "नत्रैव" कार्यान्तरानुष्ठाने "तस्या" धिकारिकस्य "निष्पत्तेः"---संसिद्धेः ।
तत एव "निर्निबन्धरसोज्ज्वलाम्"---निरन्तरायतरङ्गिताङ्गिरसप्राग्भारभ्राजिष्णुं ।
अयमस्य परमार्थः---या किलाधिकारिककथानिषेधिकार्यान्तरव्यवधानात्झगिति विघटमानालब्धावकाशापि विकाश्यमाना सा प्रस्तुतेतरव्यापारादेव प्रस्तुतवस्तुनिष्पन्नेन्दीवरसितरसनिर्भरा प्रबन्धस्य रामणीयकवक्रिमाणमादधाति ।
यथा शिशुपालवधे ।
स हि सर्गबन्धः ।
त्रैलोक्यरक्षाधिकारव्यापृतबाहुना वासुदेवेन देवर्षिमुखात्

"तदिन्द्रसन्दिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते" । । वजी_४.५४ । ।

इत्यादिना पुरन्दरसंदेशं

"ॐइत्युक्तवतोऽथशार्ङ्गिणः । । वजी_४.५५ । ।

इत्यादिना तत्कालकन्दलितक्रोधानुभावभङ्ग्या निशम्याङ्गीकृतमाधिकारिकं माहिष्मतीनाथमनादृत्य, इंन्द्रप्रस्थं प्रति प्रतिष्ठास्यमानेन निमग्ननिखिलवीरस्थितिर्विषयतामनीयत ।
ततस्तस्मिन्नेव संश्रितसकलराजके धर्मराजस्य राजसूयमण्डपे मधुरिपोर (ग्रपूजासं) मानमसहमानेनातिदुःसहवाक्यपारुष्यावरोधपरंपराविरचनचतुरेण चेदिराजेन "कृतार्थोकृत" इत्यन्तेन च ।
प्रबन्धवक्रतामेव प्रिकारान्तरेण व्याचष्टे---

यत्रैकफलसंपत्तिसमुद्युक्तोऽपि नायकः ।
फलान्तरेष्वनन्तेषु तत्तुल्यप्रतिपत्तिषु । । वजी_४.२२ । ।
धत्ते निमित्ततां स्फारयशः संभारभाजनं ।
स्वमाहात्म्यचमत्कारात्सा पराप्यस्य वक्रता । । वजी_४.२३ । ।

"सा परापि"--अन्यापि न केवलं प्रागुक्ता, "अस्य" रूपकादेः, "वक्रता"---वक्रभावो भवतीति संबन्धः ।
"यत्रैकफलसंपत्तिसमुद्युक्तोऽपि नायकः", "यत्र"---यस्यां, "एकफलसंपत्तिसमुद्युक्तोऽपि"--पराभिमतवस्तुसाधनव्यवसितोऽपि नायकः, "फलान्तरेष्वनन्तेषु" "फलान्तरेषु"---साध्यरूपेषु वस्तुषु, "अनन्तेषु"---गणनातीतेषु ।
"तत्तुल्यप्रतिपत्तिषु धत्ते निमित्तताम्" "तत्तुल्यप्रतिपत्तिषु"---आधिकारिकफलसमानोपपत्तिषु, प्रस्तुतार्थसिद्धेरेवाधिगतसिद्धिष्वति (यावत्) ।
किंभूतः "स्फरायशःसंभारभाजनम्" "स्फारस्य" ब्रह्माण्डोदरभरित्वादतिरिक्तस्य, "यशसः"---कीर्तेः यः "संभारः"---समुदयः, तस्य "भाजनं" पात्रं भूमिरिति यावथ् ।
कुतो हेतोः "स्वमाहात्म्यचमत्कारात्" "स्वमाहात्म्यं" स्वस्य प्रभावः, तस्य "चमत्कारः" आश्चर्यकारित्वं, तस्माथ् ।
एतदुक्तं भवति--निःसीममनोरथमलङ्करिष्णुनैकेनांशकेन फलेन संयुतोऽप्यपरिमितानि तादृशस्वरूपाणि फलान्यगम्यान्यध्यवसायादनिच्छन्नपि स्वप्रभावसंपदा संपादयन्नायकः कमपि कामनीयकनिधानकलशं प्रबन्धस्य वक्रिमाणमावहति ।
यथा नागानन्दे तत्र दुर्निवारवैरादपि वैनतेयान्तकादे (काकिनम्) सकलकारुणिकचूचमणिः शङ्खचूडं जीमूतवाहनो निजदेहदानादभिरक्षन्न (केवलं तं) रक्षितवानपितु सकलं तत्कुलमेव---

आस्तां वस्तुषु वैदग्धी काव्ये कामपि वक्रतां ।
प्रधानसंविधानाङ्कनाम्नापि कुरुते कविः । । वजी_४.२४ । ।

"आस्तां वस्तुषु वैदग्धी" "आस्ताम्"---दूरत एव वर्तताम्, "वस्तुषु"---अभिधेयेषु प्रकरणप्रतिपाद्येषु, "वैदग्धी"--विच्छित्तिः, "काव्यं कामपि वक्रतां कुरुते कविः" ठकाव्येऽ---नाटके सर्गबन्धादौ च, कामपि वक्रतां "कुरुते"---विदधाति ।
"कविःऽ---अद्भुतप्रतिभाप्रसारप्रकाशकः ।
केन---"प्रधानसंविधानाङ्कनाम्नापि" "प्रधानं"--प्रबन्धप्राणप्रायं, "यत्संविधानंऽ---कथायोजनं, "नदङ्कः" चिह्नमुपलक्षणं यस्य यत्र वा तत्तथोक्तं, तच्च तन्नाम च, तेनापि ।
अपिशब्दो विस्मयमुद्द्योतयति ।
इदमस्य रहस्यम्---विचारितविचित्रवस्तुविच्छित्तेः प्रबन्धस्य वक्रताविर्भवति (इति) किमद्भुतं ।
अद्भुतं पुनरिदं यत्सारतरसंविधानकनिबन्धलक्षणा (योजितसर) साक्षरेण नाम्नापि सा निवेश्यते ।
यथा---अभिज्ञानशाकुन्तल--मुद्राराक्षस--प्रतिमानिरुद्ध---मायापुष्पक---कृत्यारावण--छलितराम---पुष्पदूषितकादीनि नामानि ।
एवंविधानि काव्यबन्धानां नामधेयान्यपि निरुपमोल्लेखानि (विलक्षणवक्रतासरसा) क्षराणि निवेदितान्तर्गतविशिष्टसंबन्धतया निबध्नन्त्येव वक्रिमाणम्, न पुनर्हयग्रीववध--शिशुपालवध--पाण्डवाभ्युदय--रामानन्द--रामचरितप्रायाणि सरलस्वरूपाणि ।

अप्येककक्षया बद्धाः काव्यबन्धाः कवीश्वरैः ।
पुष्णन्त्यनर्घामन्योन्यवैलक्षण्येन वक्रतां । । वजी_४.२५ । ।

"पुष्णन्ति"--उल्लासयन्ति, "अनर्घाम्"---अपरिच्छेद्याम्, "वक्रतां"---वक्रभवं ।
केन--"अन्योन्यवैलक्षण्येन"---परस्परवैसादृश्येन ।
के ते "काव्यबन्धाः"---रूपकपुरःसराः ।
किंविशिष्टाः---"अप्येककक्षया बद्धाः"---एकेनापीतिवृत्तेन योजिताः ।
कैः---"कवीश्वरैःऽ---अन्यत्र विस्तीर्णं वस्तु संक्षिपद्भिः संक्षिप्तं वा विस्तारयद्भिः, विचित्रवाच्यवाचकालङ्करणसंकलनया नवतां नयाद्भिरित्यर्थः ।
इदमत्र तात्पर्यम्---एकामेव कामपि कन्दलितकामनीयकां कथां निर्वहद्भिर्बहुभिरपि कविकुञ्जरैर्निबध्यमाना बहवः प्रबन्धा मनागप्यन्योन्यसंवादमनासादयन्तः सहृदयहृदयाह्लादकं कमपि वक्रिमाणमादधति ।
यथा एकस्यामेव दाशरथिकथायां रामाभ्युदय---उदात्तराघववीरचरित--बालरामायण---कृत्यारावण--मायापुष्पकप्रभृतयः ।
ते हि प्रबन्धप्रवरास्तेनैव कथामार्गेण निरर्गलरसासारगर्भसन्दर्भसंपदा प्रतिपदं प्रतिवाक्यं प्रतिप्रकरणं च प्रकाशमानाभिनवभङ्गीप्रायाः भ्राजिष्णवो नवोनबोन्मीलितनायकाद्भुतगुणोत्कर्षाकर्षाः हर्षातिरेकमनेकशोऽप्यास्वाद्यमानाः समुत्पादयन्ति सहृदयानां ।
एवमन्यदपि निदर्शनान्तरमुद्भावनीयं ।

कथोन्मेषे समानेऽपि वपुषीव निजैर्गुणैः ।
प्रबन्धाः प्राणिन इव प्रभासान्ते पृथक्पृथक् । । वजी_४.५६ । ।

इत्यन्तरश्लोकः ।
भूयोऽप्यस्या भेदमुपपादयति---

महाकविप्रबन्धानां सर्वेषामस्ति वक्रता ।
नूतनोपायनिष्पन्ननयवर्त्मोपदेशिनां । । वजी_४.२६ । ।

"महाकविप्रबन्धनाम्"---नवनिर्माणनिपुणनिरुपमकविप्रकाण्ड (विरचितानां) "सर्वेषां" ।
(किंभूतानां)--"नूतनोपायनिषपन्ननयवर्त्मो पदेशिनां"---"नूतनाः"---प्रत्यग्राः, "उपायाः"---सामादिप्रयोगप्रकाराः तद्विदां गोचरा ये "तैर्निष्पन्नंऽ सिद्धं यत्"नयवर्त्म" नीति (मार्गः) तदुपदिशन्ति शिक्षयन्ति ये (ते) तथोक्तास्तेषां ।
किमुक्तं भवति---सकलेष्वपि सत्कविप्रबन्धषु अभिनवभङ्गीनिवेशपेशलिन्या नीत्याः फलमुपपद्यमानं प्रतिपाद्योपदेशद्वारेण किमपि चमत्कारणमुपलभ्यत एव ।
यथा मुद्राराक्षसे--- तत्र हि प्रवरप्रज्ञाप्रभावप्रपञ्चितविचित्रनीतिव्यापाराः प्रगल्भन्त एव ।
यथा च तापसवत्सराजोद्देश एव व्याख्यातः ।
एवमन्यदप्युत्प्रेक्षणीयं ।

वक्रतोल्लेखवैकल्य (मसत्काव्ये वि) लोक्यते ।
प्रबन्धेषु कवीन्द्राणां कीर्तिकन्देषु किं पुनः । । वजी_४.५७ । ।

इत्यन्तरश्लोकः ।
समाप्तप्रायोऽयं ग्रन्थः ।