सामग्री पर जाएँ

लौगाक्षि गृह्य सूत्राणि/कण्डिका ०१-१०

विकिस्रोतः तः



अथ
काठके चरकशाखायां
लौगाक्षिगृह्यसूत्राणि ।
देवपालकृतभाष्योपेतानि ।
प्रथमा कण्डिका ।
नमो नरहरिं घोरदंष्ट्रानखरदारुणम् ।
सन्मार्गोत्सादिदुर्दान्तदैत्यनिर्मूलनोद्यतम् ॥ १ ॥
अवावरीं धीतिमिरस्य पीवरीं
संसारसिन्धोः परमार्थदृश्वरीम् ।
सुधीवरीं सत्पुरुषार्थ संपदां
नमामि भक्त्या परया सरस्वतीम् ॥ २ ॥
पितुः श्रीहरिपालस्य नुत्वा पादौ निबन्धनम्।
समन्त्रकाठगृह्यस्य देवपालोऽभिधास्यते ॥ ३ ॥
एकोनचत्वारिंशताध्यायैर्वैतानिकानि कर्माणि प्रतिपादितानि । सांप्रतं गृह्याग्निसा- ध्यानि कथ्यन्ते । यद्यपि गृह्यानुष्ठानपूर्वाणि वैतानिकानि, तथापि प्रत्यक्षविधिमूलत्वात् सूत्रकृता पूर्वं प्रतिपादितानि । ततो विध्युद्देशवाक्यत्वेन निकटतरत्वादर्थवादानां तद्गम्यं व्रताद्यं विधाय, मन्त्रवर्णगम्यान् संस्कारान् वक्ष्यति । तत्र त्रैवर्णिकानां कृतविवाहानां गृह्यकर्मण्यधिकारः । विवाहोऽप्यधीतवेदस्य
'वेदमधीत्य स्नात्वा भार्यामधिगच्छेत् ।'
इत्यादिस्मृतेः । अध्ययनमप्युपनीतस्य ब्रह्मचारिणः । तत्रोपनयनं वक्ष्यति । संस्कारव्रतानि तावदाह
उपनयनप्रभृति व्रतचारी स्यात् ॥ १ ॥
व्रतशब्दो यमनियमवाचकः । तत्र प्रसक्तिप्रतिषेधात्मका यमाः अमांसभक्षणादयः । नियमास्तु अप्राप्त्यङ्गपरिपूरका भैक्षवृत्त्यादिविषयाः ।
'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः " यमाः ।
'शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि' नियमाः ।
पात० २ पा० ३० सू० )
(पात० २ पा० ३२ सू० )
इति तु यमा नियमाश्च तैरुक्तास्तेऽपि यथा- संभवमिह निर्धार्यन्ते । उपनयनादारभ्य आ वेदाध्ययनपरिसमाप्तेर्व्रतचरणशीलो भवेत् ॥१॥
मार्गवासाः ॥ २ ॥
स्यादित्यनुषङ्गः । उत्तरत्रापि योज्यमेवैतत् । मृगस्येदं मार्ग सामान्यशब्देनाप्येणस्येति विशेषो वक्ष्यमाणत्वात् । वस्ते आच्छादय- तीति वासः परिधानम् । तच्च मृगचर्म, मार्ग वासो यस्येति मार्गवासाः स्यात् ॥ २ ॥
संहतकेशः ॥ ३ ॥
हन्तिहिँसाकर्मा । सम्यक् क्षुरेण नतु कर्त- र्यादिना अपसारिताः केशा यस्य मुण्डितशिरा इत्यर्थः, तेन मुण्डनेन वक्ष्यमाणेन पौनरुक्त्य- मित्याहुः । अथवा संहता एकरूपाः केशा यस्य सः । एतदुक्तं भवति 'मुण्डो जटिलो शिखी वा' इति वक्ष्यति, तत्रैकस्य त्रैवर्णि- कस्य ब्रह्मचारिणः कालभेदेन विकल्पनिवृत्त्यर्थं नियमाभिधानमेतत् एकरूपा एवैकैकेन केशाः कर्तव्याः, जटी चेन्न मुण्डी शिखी वेति । एवं मुण्डादिषु ॥ ३ ॥
भैक्षाचार्यवृत्तिः ॥ ४ ॥
भिक्षाणां समूहो भैक्षम्। आचार्यस्तु 'उपनीय तु यः शिष्यम्' (मनु० २ अ० १४० श्लो) इत्यादिलक्षणः । भैक्षेणैव ब्रह्मचारिणा शरीरं संधारणीयमिति नियमः । आचार्याधीना चास्य वृत्तिः स्थितिरूपा शरीरपोषणरूपा च स्यात् । आचार्यो हि प्रेर्य कांश्चिद्भिक्षांदाप- यतीत्याचार्येणापि तस्य शरीरपोषणलक्षणा वृत्तिरन्यचेष्टावदुपपद्यते, अन्यतो वा कदा- चिद्वैक्षस्यालाभे आचार्य एव भोजनादिकं ददातीति ॥ ४ ॥
सशल्कदण्डः ॥ ५॥
इह सामान्याभिधानेऽपि दण्ड: पाला- शादिः यथायथं वक्ष्यमाणः । सह शल्केन त्वचा वर्तमानो दण्डो यस्य स सशल्कदण्डः स्यादित्यनुषङ्ग एव ॥ ५ ॥
सप्तमुञ्जां मेखलां धारयेत् ॥ ६ ॥
सप्तभिर्मुअव्यक्तिभिनिवृत्त्यावृत्ती भवति तां मेखलां धारयेत् । अत्र मेहनसंबन्धिनः खस्य माला मेखलेति निर्वचनं कुर्वन्ति । मयूर - व्यंसकादित्वात्साधु किल । मिह सेचने,
 
मिते सिच्यते वीर्यादिकमनेनेति मेहन- मानन्देन्द्रियं तस्योपरि नाभेरधोभागे यत्खं
तस्य माला ॥ ६॥
न मधुमांसे अश्नीयात् ॥ ७ ॥
माक्षिकं मांसं न भक्षयेदिति तृप्त्यर्थ - तया प्रसक्तस्य प्रतिषेधः । मधु मद्यमपि तत् क्षत्रियवैश्ययोर्निषिध्यते इत्युपाख्यान- मेकीयम् । तन्न, प्रसक्त्यभावात्
'तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत् ।' इति त्रयाणामपि न निषेधः स्यात् ॥ ७ ॥
क्षारलवणवर्जी ॥ ८ ॥
क्षारं च तलवणमौषरं सामुद्रिकादि तद्वर्जी तद्वर्जनशीलः । सैन्धवसौवर्चलादिकं भक्षये- देव । क्षारद्रव्यं सर्वं च लवणं वर्जयेदिति केचित् ॥ ८ ॥
आचर्यस्याप्रतिकूलः ॥ ९॥
अनुकूल इत्यर्थः ॥ ९ ॥
सर्वकार्यास्वतन्त्रः ॥१०॥
आस्तामध्ययनादिकम्, क्रियामात्रमप्या- चार्यानुज्ञया विना न कुर्यादित्यर्थः ॥ १० ॥
पूर्वोत्थायी जघन्यसंवेशी ॥ ११,१२ ॥
शयनादिकमाश्रिते गुरौ उत्थातुकामे प्रथ-
ममेवोत्तिष्ठेत्, शयनावस्थिते चाचार्ये तत्पाद- संवाहनादिकं च कृत्वा पश्चात् शयनादिकं संविशेत् । जघन्यसंवेशीत्यस्यायमर्थः - यदा- चार्यः खट्टायां तिष्ठति तदा ब्रह्मचारिणा खट्टायाः सकाशाद्यज्जघन्यमासनं पट्टतल- शय्यादिकं तत्र संवेशनीयम् । एवं शय्या - मासीने गुरौ ततो निम्न इत्याद्यनुमन्त- व्यम् ॥ ११,१२ ॥
यदेनमुपेयात्तदस्मै दद्यात् ॥ १३ ॥
यत् सुवर्णादिकं किलैनमुपेयादागच्छेत् तत् ब्रह्मचारी अस्मै आचार्याय दद्यात् ॥ १३ ॥
बहूनां येन संयुक्तः ॥ १४॥
यद्यपि ब्रह्मचारी सकलवेदवेदाङ्गोपाङ्ग- ज्ञानार्थं यथायोग्यं क्रमेण बहूनाचार्यानुपास्ते, तथापि यत् यस्य संनिधौ निवसँल्लभेत तत्तस्मै दद्यात् नतु सर्वदा सर्वं सर्वेभ्यो विभज्ये - त्यर्थः ॥ १४ ॥
नास्य शय्यामाविशेत् ॥ १५ ॥
यस्यां शय्यायामाचार्यः स्थितस्तामपाट- वादिदशायां कारुण्यात् स्नेहातिशयाद्वापाटवे वाचार्यानुज्ञातोऽपि नाधितिष्ठेदित्यर्थः । तेन जघन्यसंवेशीत्यनेन पौनरुक्त्याभावः ॥ १५ ॥
न रथमारुहेत् ॥ १६ ॥
अस्येत्यनुषङ्गः । अयमप्यनुज्ञातस्य प्रति- षेधः । अन्ये तु शय्याग्रहणमाचार्याधिष्ठिता- सनयानाद्युपलक्षणार्थं रथवाक्यं वर्णयन्ति, रथग्रहणं तु करितुरगाद्युपलक्षणार्थं वर्ण- यन्ति, 'न संवत्रयेत' इत्यत्र च स्थितेन द्विती- येन नञा तत्रेणावृत्त्या वा संबन्धयन्ति रथं न समारोहेन किं तर्हि ग्रामादिकं गच्छन्नसमर्थो वाहनान्तरं च न लभते तदाचार्यानुज्ञातस्तेना- धिष्ठितमपि करितुरगं समारोहेदेवेत्यर्थः ॥१६॥
न संवस्त्रयेत ॥ १७ ॥
समानं वस्त्रं न कुर्यात्, आचार्य परिहितं वस्त्रं न परिदधीत । नाप्याचार्य वस्त्रेण सह समाने करण्डादिभाण्डे स्ववस्त्रं संश्रितं कुर्यात् ॥ १७ ॥
सर्वाणि सांस्पर्शिकानि स्त्रीभिः सह वर्जयेत् ॥ १८ ॥
संस्पर्शनिमित्तानि यानि पाणिग्रहणाभ्य- अनादीनि कर्माणि तानि सर्वाण्येव सर्वाभिः स्त्रीभिः सह वर्जयेत् । 'गुराविव तत्पुत्रदारेषु वर्तनीयम्' इत्यस्याः स्मृतेरप्ययमपवादः पाद- संवाहनादिविषयः ॥ १८ ॥
न मुषितां प्रेक्षेत् ॥ १९॥
मुषितामिव नग्नां न पश्येदित्यर्थः ॥ १९ ॥
न विहारार्थं जल्पेत् ॥ २० ॥
विहारः क्रीडा तदर्थं परिहासादिकं न वदेत् । अथवा 'सर्वकार्यास्वतन्त्रः' इत्यनेन सर्वक्रियाखाचार्यानुज्ञाग्रहणपूर्विकायां प्रवृत्तौ स्थितायां विहारं मूत्रमलोत्सर्गमाह विहारार्थं न जल्पेदनुज्ञाग्रहणाय ॥ २० ॥
न रुच्यर्थं किंचन धारयेत् ॥ २१ ॥
रुचिदप्तिः रतिः प्रीतिश्च । तदर्थं द्रव्य- विशेषादिकं न संगृह्णीयात् अलङ्करणं क्रीडा- दिकम् ॥ २१ ॥
न स्नायात् ॥ २२ ॥
रुच्यर्थमित्यनुवर्तते ॥ २२ ॥
उदकं वाभ्युपेयात् ॥ २३ ॥
अयमर्थः - रुच्यर्थं स्नानं निषिद्धं नित्यं तु
कर्तव्यमेव
"
'नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।'
( मनु० २ अ० १७६ श्लो० ) इत्यादिना ब्रह्मचारिणोऽपि विधानात् । तत्र च विकल्पः स्नानं कदाचिन्मत्रसंस्कृतेनोदकेन प्रोक्षणं कदाचिन्मज्जनम् । तत्राद्यमनेनोक्तम् 'उदकं वाभ्युपेयात्' इति ॥ २३ ॥ मज्जनमधिकृत्याह
यदि स्नायाद्दण्ड इवाप्सु परिप्लवेत ॥ २४ ॥
यदिशब्दः प्रतिबद्धो विधायकोऽनुवादं प्रार्थयते 'यदि शालिं भुञ्जीत तदा दध्युपसि चेत्' 'यदि रथन्तरसामा सोमः स्यात् ऐन्द्र- वायवाग्रान् ग्रहान् गृह्णीयात् इत्यादिवत् । तेनायमर्थः यदा मज्जनरूपः स्नानपक्षस्तदा ब्रह्मचारिणा दण्डेनेवाप्सु परिप्लवमात्रं कर्त- व्यम् । नतु कान्त्यादिसिद्धये मलापसारणा- दिना यतनीयम् ॥ २४ ॥
मुण्डो जटिलः शिखी वा ॥ २५ ॥
मुण्डः शिखारहितः ॥ २५ ॥
सायं प्रातः सन्ध्यामुपासीत ॥ २६ ॥
सकलादित्योपलक्षितः कालो दिवसः । आदित्यशून्यकालो रात्रिः । अर्धोदितेनार्धा- स्तंगतेन चादित्येनोपलक्षितः कालः सन्धिः । सन्धौ भवा सन्ध्या । तामुभयमपि प्रत्यह- मुपासीत । उपासनं सेवा ॥ २६ ॥ कथमुपासीतेत्याह
तिष्ठेत्पूर्वाम् ॥ २७ ॥
पूर्वाह्नभागगतां तिष्ठेत् निवृत्तगतिः पूर्वां प्राङ्मुखो जपन्नवतिष्ठेत सनक्षत्रकालादारभ्य आ सूर्यज्योतिर्दर्शनात् ॥ २७ ॥
आसीतोत्तराम् ॥ २८ ॥
अपराह्नसंनिहितामुपविष्टः प्रत्यङ्मुखः स- भास्करकालादारभ्य जपन्नासीत आ तारक- ज्योतिर्दर्शनात् आसीतोत्तरां संध्याकालस्या- तिसूक्ष्मत्वादेवं तदुपासनमिष्टम् ॥ २८ ॥
ओं भूर्भुवः स्वरित्युक्त्वा तत्सवितुरिति सावित्रीं त्रिरन्वाह ॥ २९॥
दिङ्मात्रदर्शनमेतत् । ब्राह्मे मुहूर्तेऽभ्युत्था- यानुष्ठितशरीरधर्मः,
'अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येष दिवा रात्रौ प्रातः स्नानं विशोधनम् ॥'
(दक्षस्मृ० २ अ० ७ श्लो० )
इति स्मरणात् मुख्यं गौणं वा स्नानं विधाय
'त्रिराचम्य द्विरुन्मृज्य खान्युपस्पृश्य प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति'
इति स्मरणात् त्रीन्प्राणायामान् पञ्चदशमात्रापरिमाणान्स्मार्तोक्तान्कृत्वा प्रतिप्रणवयुक्तव्याहृतिसप्तकान्वितसशिरस्कसावित्र्या त्रिरभ्यासेन परिच्छिन्नांस्त्रीन्प्राणायामान्कृत्वा अघमर्ष-णादिसूर्योपस्थानान्तं भूर्भुवःस्वरिति महाव्याहृतित्रययुक्तां तत्सवितुरिति सावित्रीमभ्यस्तां जपेत् । सावित्रीमन्वाहेत्यनुशब्दोऽभ्यासार्थः । तत्सवितुरिति प्रतीकः सवितृदेवताकत्वेऽपि 'आकृष्णेन रजसा' इत्यादीनां सावित्रान्तराणां निवृत्त्यर्थः ॥ २९ ॥
प्रागस्तमयान्निष्क्रम्य समिध आहरेद्धरिणीर्ब्रह्मवर्चसकाम इति श्रुतेः ॥ ३० ॥
अनस्तंगते भानौ ग्राम निष्क्रम्याष्टौ स- मिधो अग्निसमिन्धनार्थं हरितवर्णा आर्द्रा आहरेद्यो वेदाध्ययनतदर्थानुष्ठानादिसमृद्धि- लक्षणं कामयते । एतद्धि श्रुत्यावेदितं श्रुति- मूलत्वात्स्मृतेः ॥ ३० ॥
सायंप्रातः संध्यानिःसरणं भैक्षाचरणमग्नीन्धनम् ॥ ३१ ॥
सायंप्रातः संध्योपासनार्थं ग्रामाद्बहिर्निः- सरणं कर्तव्यम् । सायंप्रातश्च भैक्षाचरणं कर्तव्यम् । उभयकालं हि भोजनमाम्नातम् 'सायंप्रातर्मनुष्याणामशनं देवनिर्मितम् ।'
( संवर्त ० १ ० १२ श्लो०
इति । एवमग्निसमिन्धनं कालद्वयेऽपि कर्त- व्यम् । चतस्रः प्रातः चतस्रः सायं समिधो होतव्याः । एवमन्यकालविशेषविधानार्थान्ये- तानि त्रीणि वाक्यानि । पूर्वश्च मध्याह्नात् प्रातःकालः उत्तरश्च सायंकालः ॥ ३१ ॥
सायमेवाग्निमिन्धीतेत्येके ॥ ३२ ॥
' सायमेवाग्निसमिन्धनम्' इत्येकेषां वेद- विदां मतम् । अत्र च पक्षे चतस्रः समिध आहर्तव्याः ॥ ३२ ॥
भैक्षस्याचरणे दोषः पावकस्यासमिन्धने ।
सप्तरात्रमकृत्वैतदवकीर्णिव्रतं चरेत् ॥ ३३ ॥
उपलक्षणमेतत् । भैक्षस्याचरणे अग्ने श्वास- मिन्धने संध्यालोपादिके च दोषः प्रत्यवायो भवति विहितातिक्रमणात् । यथोक्तम्
'नोपतिष्ठति यः पूर्वा नोपास्ते यश्व पश्चिमाम् । स शूद्रवद्बहिः कार्यः सर्वस्माद्विजकर्मणः ॥'
(मनु० २ अ० १०३ श्लो० )
इति । अथ संध्योपासनभ्रंशे भैक्षार्थमचरणे अनटने अग्नेश्चासमिन्धने सति यत्पापं भवति तस्य विनाशाय अवकीर्णित्रतं प्रायश्चित्तमा- चरेत् । अवकरणमवकीर्णोऽविधानोत्सर्गः कामतो ब्रह्मचारिणो रेतस उत्सर्गः । अवकीर्णं विद्यते यस्य सोऽवकीर्णी । तस्य व्रतमाम्नातम् । 'सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् । तेभ्यो लब्धेन भैक्षेण वर्तयेदेककालिकम् ॥ उपस्पृशंस्त्रिषवणमब्देन स विशुद्ध्यति ।'
इति । एतत्सन्ध्योपासनादिकमकृत्वा अव- कीर्णिव्रतमाचरेत् । किं परिपूर्णमादिकमेव ? नेत्याह सप्तरात्रमिति । अन्ये तु व्याचक्षते संध्योपासनादिकं सप्तरात्रमकृत्वा अवकीर्णि - व्रतं चरेत् परिपूर्णमेवेति । सप्तरात्रान्यूनाधिके वा अवकरणं न्यूनमधिकं चेति । याज्ञवल्क्य
आह
'भैक्षानिकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः । कामाकीर्ण इत्याभ्यां हुत्वा चाज्याहुतिद्वयम् ।। नैर्ऋतं गर्दभं वैतत्संवत्सरवतं चरेत् |' (या० प्रा० २८१ श्लो०) इति । अत्रापि पूर्ववद्योजना ॥ ३३ ॥
इति प्रथमा कण्डिका ॥ १॥
 

अथ द्वितीया कण्डिका ।( ॽॽ)
अधुना सन्ध्योपासनोपयोगिन ओं भूर्भुवः स्वरित्यादीन्मन्त्रान् व्याख्यास्यामः । तत्र सर्व- मन्त्रेषु देवता ऋषिश्छन्द इत्येतत्रयं श्रुतिरा- बोधयति अज्ञाननिन्दामुखेन ज्ञानसंस्तवात् 'यो ह वानधिगतर्षिच्छन्दोदेवतो ब्राह्मणेन मत्रेण वा याजयति वाध्यापयति स स्थाणुं वच्छेति ।' इति । तत्र सर्गादाव भ्रष्टसंस्काराः पुण्य- कर्माणो विदितसकलवेदितव्याः सुप्तप्रबुद्धा- त्मान ऋषयो याज्ञवल्क्याद्याः । हिरण्य- गर्भादिपरम्परया च नित्या वेदाः । तथा च श्रूयते
' तत एव परमेष्ठी प्राजापत्यो यज्ञमपश्यद्दार्शपौर्णमासौ ।' इत्यादि । मन्त्राभिधेया देवताः ।
गायत्र्ष्णगनुष्टुभो बृहतीपंक्तित्रिष्टुभः । जगती जयदेवस्य च्छन्दसां सप्त जातयः ॥ मन्त्रार्थं च सम्यग्बुभुत्समाणेन उपसर्गाणां 'छन्दसि परेऽपि व्यवहिताः' इत्यादिलक्षण- मनुसर्तव्यम् | 'वर्णागम' इत्यादि निरुक्तम् ।
व्यत्ययश्च सप्तजातीनाम् । एवमादि प्रतिमन्त्रं नाम्नाभिधीयमानं ग्रन्थगौरवमातनोतीत्यर्थप्र- दर्शनमेव करिष्यते । ओं भूः ओं भुवः ओं खः ओं महः ओं जनः ओं तपः ओं सत्यम्, - इति सप्त महाव्याहृतयः सप्रणवाः सप्त- लोकनामानि । तत्राद्यास्तिस्रो महाव्याहृतयः महतोऽर्थस्याभिधानात् । महःप्रभृतयस्तु न महत्त्वेन विशेष्यन्ते स्वर्गेक देशाभिधानात् । 'भुवनानां समस्तानामधस्तान्निविडं तमः । लक्षपञ्चाशीत्यधिककोटियोजनसंमितम् ॥ अवीचिर्नाम नरकस्तस्य चोपरि वर्तते । अवीचिनरकादूर्ध्वं मेरुपृष्ठपरावधिः ॥
भूलको भाषितः सर्वैः पुराणेषु महर्षिभिः ।'
सैषा सप्तद्वीपा मेदिनी । तानि पुनरुक्तानि
पौराणिकैः
'जम्बुः शाकः कुंशः क्रौञ्चः शाल्मलिश्च तथापरः । गोमेदः पुष्करचेति सप्तद्वीपगणो मतः ॥'
(लिंगपु० ४६ अ० २ श्लो०)
इति । एषां विभागः पातञ्जले योगशास्त्रे
दर्शितोऽस्माभिर्विभूतिपादे
'अवनज्ञानं सूर्ये संयमात् ' ( ३।२६ )
इत्यत्र सूत्रे । तारानक्षत्रविचित्रस्त्वन्तरिक्ष- लोको भुवोलोको मेरुशिखरादारभ्य ध्रुवा- वधिः । ततः परस्तात्स्वर्गलोकः । स च पञ्चविध इति सप्त लोका भवन्ति । पञ्चविधत्वं च स्वर्गस्य - माहेन्द्र एकः महेन्द्रखामिकत्वात् । एवं प्राजापत्यो द्वितीयः अस्य मह इति नाम । ब्रह्मलोकस्त्रिविधः जनस्तपः सत्यमिति । पञ्चा- नामप्येषां स्वर्गशब्दः साधारणः । अतो व्या- हृतिमत्राणामभिधेयानि भुवनानि देवताः । तासां प्राणायामे विनियोग स्तैत्तिरीये दृश्यते ।
स्मृतावपि
इति ।
,
'प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु । त्रिपदायां च सावित्र्यां न भयं विद्यते कचित् ॥'
'पृथिव्यादिलोकदेवता वीर्यभूताः ।
इति ब्राह्मणात् । ऋषयस्तासां निदर्शिताः
शौनकेन तावत्
'व्याहृतीनां तु सर्वासामृषिराद्यः प्रजापतिः । व्यस्तानां च समस्तानां ब्राह्ममक्षरमोमिति ॥'
इति । अन्येनापि
इति ।
'विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । ऋषिरत्रिर्वसिष्ठश्च कश्यपश्च यथाक्रमम् ॥'
अग्निवायू रविश्चैव वाक्पतिर्वरुणस्तथा । इन्द्रो विश्वे व्याहृतीनां दैवतानि यथाक्रमम् ॥ अग्निः सोमस्तथा सूर्यो वाक्पतिर्वरुणस्तथा । क्वचिदिन्द्रस्तथादित्यो व्याहृतीनां यथाक्रमम् ॥
अन्यो बभाण
'सत्यसंकल्पेन प्रजापतिना लोकनिवासिनां भोगाय सप्त लोकान् सिसृक्षुणा एवं व्याहृतं सप्त लोका भवि ष्यन्ति ।'
इति । तेन प्रजापतिरेवासां ऋषिः व्याहृतित्वं च । तथाच पुराणम्
'चतुर्दशविधं सर्गं सृष्ट्वेदं व्याहृतं स्वयम् ।
सप्त लोका भविष्यन्ति तस्माद्व्याहृतयः स्मृताः ॥' युज्यन्ते चैकत्रानेके द्रष्टारः कालभेदेन युग-
पञ्च ॥
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ओम् ॥
गायत्रं छन्दः, • प्रजापतिऋषिः, सविता देवता, जपोपनयनहोमादिषु विनियोगः । तथाच द्वैपायनः
'विश्वामित्र ऋषिश्छन्दो गायत्रं सविता तथा । देवतोपनये जप्ये विनियोगो हुते तथा ॥'
इति । सर्वमित्रो विश्वामित्रः प्रजापतिरेव विवक्षितः । अभिधेयत्वाच्चात्र सवितुर्देवता- रूपत्वम् । जपमत्राणामपि प्रतीयमानत्वाद्दुर- पहवोऽर्थः यद्यपि जपमन्त्रः प्रतीतस्तथापि जपिता उपमन्त्रेण तदर्थं ध्यायति । युक्ति- युक्तमेतत् जल्पतिजपत्योर्व्यक्तायां वाचि वृत्तेः । एतदेव व्यक्तत्वं यदर्थप्रतिपादनयो- ग्यत्वं, विपर्यये तु अव्यक्तत्वं कुकुटादिवा- चाम् । नच प्रतीयमानोऽप्यविवक्षित इत्यभि - धेयो न भवतीति भणितुं प्रभवति कश्चित् । नहि चक्षुरादिना प्रतीयमानो जलादिरज- लाद्यर्थिनो नेन्द्रियविषयः । नचाविवक्षायाः सवितुः कारणमस्ति ध्यानेन तदर्थजपोपरही- तेनाराधितस्य परापरपुरुषार्थसिद्धिहेतुत्वात्
'य एवं विद्वान् जपति' इति जपमन्त्रेष्वपि विद्वत्ताया अपेक्षणात् । किंच सर्वोपनिषत्सु
पत्वं ब्रह्मणोऽभिधीयते, सर्व- भावात्मकत्वं च गायत्रीप्रणवयोः । तथाच च्छान्दोग्योपनिषदि पठ्यते
'गायत्री वा इदं सर्वं यदिदं किंच, वाग्वै गायत्री, वाग्वा इदं सर्व भूतं, गायति च त्रायते च या सा गायत्रीयं वाव सा येयं पृथिवी, अस्यां हीदं सर्व प्रतिष्ठितम् ।' (३|१२ )
इत्यादि । सामान्यवाच्यपि गायत्रीशब्दः प्रकृ- तायामिह सावित्र्यां वर्तते । अत एव गायन्तं त्रायते इति गायत्रीति तत्र तत्र निर्वचनम् । त्राणं च पालनमुपद्रवनिवारणमुपकाराधानं च । एतां च सन्ध्यादौ जपतोऽनाद्यविद्यावा- सनोपलवोपप्लुतजीवेन्द्रियाद्युपद्रवविद्रवे सति अखिलप्रपञ्चविहीन चैतन्यसुखखभावमयपरब्र- ह्मलक्षणमोक्षप्राप्तिर्भवति । कामिनां च स्वर्गा- दिप्राप्तिरुपात्तदुरितविद्रवणं च । आदावन्ते च वेदवाचां प्रपञ्चस्यापि ओंकारात्मके ब्रह्म- यवस्थिति दर्शयितुमादावन्ते च ओंकारो- च्चारणमिष्यते
'ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोंकृतं पूर्वं पुरस्ताच्च विशीर्यते ॥'
इति । तथाच स्मृतावपि
'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।'
इत्युक्तम् | योगशास्त्रे च
( भ० गी० १७/२३ )
'तस्य वाचकः प्रणवः । '
( ११२७ )
'तजपस्तदर्थभावनम् ।'
( ११२८ )
ईश्वरप्रणिधानाद्वा ।
( ११२३ )
इत्यनन्तरोक्तस्य । ईश्वरस्य च प्रजापतिर्विष्णु- रित्यादि पर्याय मात्रम् | ब्रह्मात्मिकैव गायत्री सर्वभावात्मनापदेशेन व्यवस्थितेति । वाज- सनेयब्राह्मणेऽपि श्रूयते
'भूमिरन्तरिक्षं द्यौरित्यष्टाक्षराणि, अष्टाक्षरं हवा एकं गायत्र्यै पदमेतदु हास्या एतत्स यावदेतेषु लोकेषु तावद्ध जयति योऽस्य एतदेवं पदं वेद ॥ १ ॥
ऋचो यजूंषि सामानि इत्यष्टाक्षराणि, अष्टाक्षरं हवा एकं गायत्र्यै पदमेदु हास्या एतत्स यावतीयं त्रयी विद्या area जयति योsस्या एतदेवं पदं वेद ॥ २ ॥
प्राणापानोदानव्याना इत्यष्टाक्षराणि, अष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हास्या एतत्स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ३ ॥
अथ एतदेव तुरीयं दर्शितं पदं परोरजा य एष तपति इति यद्वै चतुर्थ तत्तुरीयं, दर्शितं पदमिति ददृश इव ह्येष, परोरजा इति सर्वमु ह्येष रज उपर्युपरि तपत्येवं हैव एष श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ४ ॥
सैषा गायत्री एतस्मिंस्तुरीये दर्शिते पदे परोरजसि प्रति- ष्ठिता, तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं, चक्षुर्हि वै सत्यं, तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमद्राक्षमहमश्रौष - मिति य एवं ब्रूयादहमद्राक्षमिति तस्मादेव श्रद्दधाम तद्वै तत्सत्यं बले प्रतिष्ठितं, प्राणो वै बलं तत्प्राणे प्रतिष्ठितं, तस्मादाहुर्बलं सत्यादोघीय इत्येवम्वेषा गायत्र्यध्यात्मं प्रति- ष्ठिता, सा वैषा गायांस्तत्रे, प्राणा वै गायास्तांस्तत्रे यत्तस्मा - गायत्री नाम, स यामेवामूमन्वाषैव सा, स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५॥
तां हैके सावित्रीमेवानुष्टुभमन्वाहुर्वागनुष्टुवेतद्वाचमनुब्रूम इति न तथा विद्याद्गायत्रीमेव सावित्रीमनुब्रूयात् यदि ह वा अप्येवं विद्वह्निव प्रतिगृह्णाति न हैव तद्गायत्र्या एकंचन पदं प्रति ॥ ६ ॥

स य इमांस्त्रील्लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्र- थमं पदमाप्नुयात्, अथ यावतीयं त्रयीविद्या यस्तावत्प्रति- गृह्णीयात् सोऽस्या एतद्वितीयं पदमाप्नुयात्, अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयात्, अथास्या एतदेव तुरीयं दर्शितं पदं परोरजा य एष तपतीति, नैव क्रेनचनाप्यं, कुत एवं तावत्प्रतिगृह्णीयात् ॥ ७ ॥
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदी अपदसि नहि पद्यसे नमस्ते तुरीयाय दर्शिताय पदाय परो- रजसे सावदो मात्रापदिति यं द्विष्यादसावस्मै कामो मा समद्धयेति वा न वा स कामः समृद्ध्यते यस्मा एवमु पतिष्ठतेऽहमद्ः प्रापमिति वा ॥ ८ ॥
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वितराश्विमुवाच यन्नु हो गायत्रीविदथा अथ कथं हस्तीभूतो वहसीति मुख हास्याः सम्राट् न विदांचकारेति होवाच तस्या अग्निरेव मुखं यदि ह वा अपि वह्निवानावभ्यादधाति सर्वमेवैतत्संदहत्येवं
विद्यद्यपि पापं करोति सर्वमेतत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति || ९ ||' ( वृ० आ० ५।१४) इति । अस्यामुपनिषदि 'भूमिरन्तरिक्षं द्यौरित्य- ष्टाक्षराणि' इत्यादिकस्यायं तात्पर्यार्थः - ब्रह्मा- त्मिकाया गायत्र्या त्रैलोक्यं विवर्तः परिणामो वा, अतस्तत्रानेकशक्तिकत्वात् भूम्यादिशक्ति- योगित्वमस्तीति । 'ऋचो यजूंषि सामानि ' इत्यादिकस्यापि यद्यपि त्रय्याः प्रमाणान्त- नवगतार्थप्रकाशकत्वं विद्यते तद्गायत्र्यां ब- ह्मात्मिकायां यच्चैतन्यं तदेव विवृत्तं परिणतं वा प्रथितमिति । 'प्राणापानोदानव्यानाः' इत्या- दिकस्यापि अनन्तरपादप्रतिपादितवाच्यवा- चकभावापन्न लोकत्रयीगतस्य जगत्सूत्राख्यस्य
वायोः प्राणरूपस्य या चेष्टा लक्ष्यते सा ब्रह्मा- ख्यायाः सवितुर्गायत्र्या एव शक्तिः तद्वशेनैव तथा परिणामाद्विवर्तनाद्वा । ' एतदेव तुरीयं दर्शितं पदम्' इत्यादिना तु वेदविदा निखिल - लोकावलोक्य मानविरजस्कपद्गततमस्कविग- लिताखिलकल्लोलालोलजलनिधिनिभपरब्रह्म- निकटविवर्तरूपे सवितरि वाच्यैकभावेन व्य- वस्थिते पादत्रयस्य पर्यवसानं प्रतिपादितम् । य एवं ह्यत्र शब्दानन्तरमर्थः प्रतीयते स एव हि वाक्यार्थः । तेन सवितुरेव देवतात्वमभिधेय - त्वेनेह युक्तमवभासते । एतदुक्तं भवति-पर- मार्थतो ब्रह्म प्रणव गायत्रीशब्दाभिलाप्यतत्त्वा- तिरिक्तमद्वैतवादे तत्त्वं नास्ति । कल्पनया त्वेकत्रैव वाच्यवाचकादिव्यवहारः समाप्यते । तत्र पादत्रयात्मकेन कल्पितेन रूपेण वाच- कत्वं, सवित्रात्मना तु वाच्यत्वम् । तुरीयपाद- वाचोयुक्तिरपि सवितरि कल्पनया पादत्रय- वत्क्रियते पारमार्थिकतत्त्वैकप्रतिपादनाये यल- मतिरसरभसवशप्रसारितरहस्यस्वधास्वादप्रमोदानुभवविभवप्रविततविपिनगहनवेदान्तोद्यानावगाहन नैपुण्यचापल्येन । अस्मिन्नवसरे स्थितमेतत् - जपविनियुक्तायामप्यस्यामृचि स विता देवतेति ।
अयं च पदार्थः - यत्तदिति सामान्यशब्दः, सामान्यं च सर्वभेदानुगतं ब्रह्मरूपं यथार्थम् । यथोक्तम्
'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।'
( भ० गी० १७/२३ )
इति । एतदपि हि सामान्यवचनमेवाविचारि- तसिद्ध्यर्थत्वेन प्रयुज्यमानत्वात् । यत्किलावि- चारितमेव गृह्यते तत्र ओमिति प्रयुज्यते । अवि- चारितसिद्धता चासंदेहवस्तुनि उपपद्यते। संदे- हश्च भेदनिष्ठाने कोट्यवलेहिश्वात् । तस्माद्ब्रह्म- येवाद्वैतेऽविचारित सिद्धत्वमुपपद्यते । अतो यत्तदिति ब्रह्मविधेयौ शब्दौ । य इत्यपि लिङ्ग- व्यत्ययः । धीशब्दश्च कर्मनामसु पठ्यते । तेन धीशब्देन ज्ञानवत्कर्माण्यप्युच्यन्ते । ते च सर्वलोका वयं चेति वयम् । त्यदादिषु परशेषः ।
तेषां नोऽस्माकमस्मद्युक्तानामित्यर्थः । धीम- हीति 'ध्यै चिन्तायाम्', छान्दसं संप्रसारणम्, व्यत्ययेन लडर्थे लिङ्, व्यायामश्चिन्तयामो भावयाम उपास्मह इत्यर्थः । एवं प्रचोदया दित्यत्रापि । अथवा प्रचोदयादिति संभाव- नायां लिङ् । भर्ग इति दीप्तिरुच्यते भासन- प्रकाशादिपर्यायः । ' भा दीप्तौ' इत्यस्य औणा- दिको प्रत्ययः, छान्दसौ च वर्णागम विकारौ, भाति दीप्यते प्रकाशते नित्यानन्दचैतन्यात्म- कतयेति भर्गः । 'भ्राजू दीप्तौ' इत्यस्य वा भ्राजत इति भर्गः । ' भ्रस्ज पार्क' इत्यस्य वा भ्रस्जति पचत्यौषधादिकमिति भर्गः । सर्वं हि सस्यादिकं ब्रह्म आदित्यरूपेण पचति संपाद- यति । जलपवनावपि हि रविरूपौ । तथा च निरुक्तकारः
'पर्जन्यो वायुरादित्यः शीतोष्णवर्षैरोषधीः पचन्ति । २२२ इति । तथारण्यके पर्वणि युधिष्ठिरस्य धौम्येन दिवाकराराधनसमयेऽभिहितम्
'यथोत्तरायणे सूर्यः पृथिव्या रश्मभी रसान् । उद्धृत्यान्नमोषधीः षडुसांश्च सृजति ॥
दक्षिणायने चन्द्रतेजोभिरन्वितो दिवस्तेज उद्धृत्य वारिणान्नादिकं जनयतीत्युक्त्वोक्तम् ' एवं भानुमयं ह्यन्नं लोकानां प्राणधारणम् ।' (३९) इति । 'डुभृञ् धारण पोषणयोः' इत्यस्य वा बिभर्ति धारयति पुष्णाति वा लोकानिति भर्गः । 'गल्भ धाष्टयें' इत्यस्य वा वर्णविकारविपर्यया- भ्यां प्रगल्भते शक्नोति धाष्टर्घ्यं भजते जगदुद्- यस्थितिविलयतत्प्रकाशनादाविति भर्गः साम- र्थ्यम् । 'वृजी वर्जने' इत्यस्य वा वर्जयति अविद्यानिबन्धनभेदप्रपञ्चदुःखमिति भर्गः । तदनेनाध्यात्ममधिदैवतं वा सवितुर्भर्गो रूप- मुक्तम् । तथाच श्रुतिः
' स एष वै सविता य एष तपति ।'
इति । 'वृञ् वरणे' छान्दसः केन्यप्रत्ययः, वरणार्हं वरेण्यं ध्येयतया ध्यानफलकमुक्ति- रूपप्राप्यतया चाभिलषणीयमित्यर्थः । दी- व्यति क्रीडति जगन्निर्माणावस्थापनविलाप- नैर्विजिगीषते व्यवहरति स्तौति चार्थवादादि- भिर्विवर्तात्मना गच्छति च विवर्तसंवर्तरूपमिति देवः, तस्य । सूते सस्यादीनीति सविता, तस्य । एष पदार्थः उक्तः ।
अथ वाक्यार्थः - सवितुर्देवस्य संबन्धि वरे - यं भर्गो धीमहि । तद्धि यत्तद्रूपं सामान्यस्व- भावब्रह्मात्मकं यथायोग्यतां कर्माणि ज्ञानानि च लोकस्य प्रकर्षेण चोदयति प्रवर्तयति प्रचो- दयात् प्रवर्तयेदिति वा संभाव्यते । एषा ताव- देका पघटना । यद्वा तदिति षष्ठ्याः 'सुपां सुलु' (७|१|३९) इति लुक् । य इति यथा- श्रुतमेव । तस्य देवस्य सवितुर्वरेण्यं भर्गो धीमहि । कस्य सवितुः । यः सवितास्माकं कर्माणि ज्ञानानि च प्रकर्षेण चोदयति ॥
आपो हि ष्टा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
गायत्रं छन्दः । अब्दैवतं सूक्तम् | त्वाष्ट्र- स्त्रिशिरा अपश्यदम्बरीषो वा सिन्धुद्वीपः । मार्जनादौ विनियोगः |
मय इति सुखनाम । ऊर्मित्यन्ननाम | 'तेनेह सकलं भोग्यं लक्ष्यम् । हे आपः, हि-र्यस्मादर्थे, यस्माद्ययं मयोभुवः सुखस्य भाव- यित्र्यः स्थ भवथ, तस्मात्ता एवंविशिष्टा भवत्यः कर्मभूतान्नोऽस्मान् दधातन धारयत ‘तप्तनप्तनथनाश्च' (७|१|४५ ) इति तनादेशः । किमर्थं दधातन । ऊर्जे अन्नाद्युपभोगाय । एवं भोगार्थमभ्यर्थ्य अपवर्गार्थमर्थयते - महे रणाय चक्षसे । महे महते | परब्रह्मणोऽन्यस्य महत्त्वमा- पेक्षिकं ब्रह्मण एव तु तात्त्विकं परममहत्त्व - मिति ब्रह्मैव महच्छब्देनोच्यते । दधातनेत्य- नुषङ्गः । कीदृशाय महते । रणाय रमणीयाय नित्यानन्द चैतन्यरूपाय, तथा चक्षसे दर्शनी - याय योगिनां ध्यानजपप्रत्यक्षविषयायेत्यर्थः ।
तेन दर्शनयोग्याय नित्यानन्द चैतन्यस्वभा- वाय महते ब्रह्मणे ब्रह्मप्राप्तये अस्मान् धारय- तेति वाक्यार्थः ॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीखि मातरः ||
अपामाधारभेदेन शिव - शिवतर - शिवतमा
रसाः सन्ति । अथवा अपां रसः परब्रह्मरूपः शिवतमः सुखतमो मतः । स यथायोग्यं त्रैव- र्णिकैरभ्यर्थ्यते - हे आपः, युष्माकं यः सुखतमो रसस्तमस्मान् भाजयत भोजयत प्रापयत वा । नः अस्माकम् द्वितीयार्थे च व्यत्ययेन षष्ठी अंशापेक्षिणी वा । यथावयविसंबन्धे शिवतमर- सांशभागिनोऽस्मान्विधत्तेत्यर्थः । भोगार्थिनां क्षीरादिरसाप्तयेऽभ्यर्थना, मुमुक्षूणां तु परब्रह्म- स्वरूपलाभाय । किंवद्भाजयतेत्याह उशतीरिव मातरः 'वश कान्तौ' यथा मातरो बालापत्य- कानां वृद्धिं कामयमाना वात्सल्यातिशयात् स्तनपानादिदानेन स्वापत्यकान् शिवतमं क्षी - रादिरसं भोजयन्ति तद्वत् ॥
तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
यस्येति व्यत्ययेन कर्मणि षष्ठी । हे आपः, यं रसं प्राणिषु जिन्वथ । 'जि जये' । लट् व्यत्ययेन भ्रुः । ततः शप् बाहुलकात् क्वचिद्विवि- करणादिता 'हुनुवोः सार्वधातुके' (६४९७) इति यणादेशः । अनेकार्था धातवः । तेनाय- मर्थः - जयथोपचिनुथ वा । किमर्थम् । क्षयाय । 'क्षि निवासगत्योः ' भूतानां निवासाय स्थितये गमनाय च नानारूपकर्मोपभोगार्थचेष्टायै ज्ञा- नाय च । तस्मै अरङ्गमाम वः । ' गत्यर्थ - कर्मणि' (२३|१२ ) इति कर्मणि चतुर्थी । तं युष्माकं संबन्धिनं रसं तूर्णमलं पर्याप्तं वा कृत्वा गच्छेम जीवनार्थमासादयामाशास्महे इति भोगासक्रय आशास्यते ।
मुमुक्ष्वभिप्रायेण विरथं योजना- हे आपः, यस्य परमात्मनः क्षयाय नित्यानन्दद्वारेणानु- ज्ञानाय जिन्वथ यतध्वम्, तं युष्माकमेव संबन्धिनं परं स्वभावं वयं युष्मत्प्रसादात्पूर्ण पर्याप्तं वा कृत्वा गच्छेम जानीयाम प्राप्नुयाम च, मोक्षप्राप्तिरस्माकमस्त्वित्याशास्महे इत्यर्थः । आपो जनयथा च नः । यस्माद्युष्मत्प्रसादा- देवमाशास्महे तस्मादस्मान् मोक्षप्राप्तियो - ग्यान् जनयध्वं कुरुध्वम् । महानुभावत्वादे कैव च सर्वत्र देवता ब्रह्मरूपा आदित्यरूपा वा श्रूयते । गमामेति यद्यप्याशीर्लिंङो 'लिङा- शिषि' (३|४|११६ ) इत्यार्धधातुकत्वं, तथापि 'छन्दस्युभयथा' (३|४|११७ ) इति सार्व- धातुकत्वमप्यस्तीति शपः संबन्धः । ' सर्वे - विधयश्छन्दसि विकल्प्यन्ते' (पा० वा० ) इति छत्वाभावः । एवमन्यत्रापि अनुसर्तव्यम् ॥
शन्नो देवीरभिष्टय आपो भवन्तु पीतये ।
शं य्योरभिस्रवन्तु नः ॥
I
अब्दैवत्या । गायत्री । सिन्धुद्वीपस्याम्बरी- स्य वार्षम् ।
दानादिगुणयुक्ता देव्यः आपः नोऽस्माकं शं भवन्तु । शमिति सुखनाम सुखरूपाः सुखकारिण्यो वा भवन्तु, तादर्थ्यं वा ज्ञेयं सुखाय भवत्वित्यर्थः । किंच अभिष्टये शं भवन्तु । इष्यत इतीष्टिः स्वर्गादिफलाभि- मुख्येनेष्टिरभीष्टिः । छान्दस एवादेशवर्णवि- कारः अभीष्टिरिति प्राप्ते । इष्यमाणान्नादि - प्राप्तये आपोऽस्माकं भवन्तु । आपो हि अन्ना- दिरूपेण परिणमन्ति । तथाच ब्राह्मणम् 'आपश्च पृथिवी चान्नम् ।'
'एतन्मयानि वनानि भवन्ति ।'
इति च । तथा पीतये भवन्तु, पानमुपलक्षणं भुक्तपीतसुखपरिणामकारिण्यो भवन्त्वित्यर्थः । अथवा अभियजनमभीष्टिः, पीतिः सोमपानं, ज्योतिष्टोमादियागाय सोमपानाय चास्माक - मापो भवन्त्वित्यर्थः । अधिष्ठात्री देवतेत्थं समभ्यर्थ्यते - शं थ्योरभिस्रवन्तु नः । 'यु मि- श्रणे' यौति मिश्रीभवतीति युर्व्याधिः संसारो ज्वरादिश्च । शमिति लक्षणया दुःखाभावम- त्राह । आपोऽस्माकमभिस्रवन्तु कुर्वन्त्वित्यर्थः । तेनैष वाक्यार्थः - योर्व्याधेः संबन्धिनं दुःखा- भावमापोऽस्माकं कुर्वन्त्विति । अथवा यौति शरीरादिभिर्मिश्रीभवति इति युशब्देनात्मो- च्यते । योरात्मनो यत् शं नित्यसुखं, तद्- स्माकमभिस्रवन्तु व्यञ्जयन्त्वित्यर्थः ॥
र्षम् ।
शन्न आपो धन्वन्याः शत्रः सन्त्वनूप्याः । शन्नः समुद्रिया आपः शमु नः सन्तु कूप्याः ॥ अब्दैवत्या । अनुष्टुप् । सोमपुत्रस्याध्वरस्या-धन्वनि मरौ जङ्गले भवा धन्वन्याः । एवमनूपे जलस्राविणि देशे भवा अनूप्याः । तथा समुद्रे भवा समुद्रियाः । कूपे भवाः इति च । तथा पीतये भवन्तु, पानमुपलक्षणं भुक्तपीतसुखपरिणामकारिण्यो भवन्त्वित्यर्थः । अथवा अभियजनमभीष्टिः, पीतिः सोमपानं, ज्योतिष्टोमादियागाय सोमपानाय चास्माक - मापो भवन्त्वित्यर्थः । अधिष्ठात्री देवतेत्थं समभ्यर्थ्यते - शं थ्योरभिस्रवन्तु नः । 'यु मि- श्रणे' यौति मिश्रीभवतीति युर्व्याधिः संसारो ज्वरादिश्च । शमिति लक्षणया दुःखाभावम- त्राह । आपोऽस्माकमभिस्रवन्तु कुर्वन्त्वित्यर्थः । तेनैष वाक्यार्थः - योर्व्याधेः संबन्धिनं दुःखा- भावमापोऽस्माकं कुर्वन्त्विति । अथवा यौति शरीरादिभिर्मिश्रीभवति इति युशब्देनात्मो- च्यते । योरात्मनो यत् शं नित्यसुखं, तद्- स्माकमभिस्रवन्तु व्यञ्जयन्त्वित्यर्थः ॥
र्षम् ।
शन्न आपो धन्वन्याः शत्रः सन्त्वनूप्याः । शन्नः समुद्रिया आपः शमु नः सन्तु कूप्याः ॥ अब्दैवत्या । अनुष्टुप् । सोमपुत्रस्याध्वरस्या-
धन्वनि मरौ जङ्गले भवा धन्वन्याः । एवमनूपे जलस्राविणि देशे भवा अनूप्याः । तथा समुद्रे भवा समुद्रियाः । कूपे भवाः कूप्याः । ताः सर्वा नोऽस्माकं सुखाय भव- न्त्वित्यर्थः । शमु न इत्यत्रोकारो निपातः पाद- पूरणार्थः ॥
आपो अस्मान्मातरः सूदयन्तु घृतेन मा घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥ त्रिष्टुप् । ऋषिरनन्तरोक्तः । एषैव देवता च । आपो मातरः जगतां निर्मात्र्यः । अस्मा- निति षष्ठ्यर्थे द्वितीया । अस्माकं रिप्रं पापं घृतेन सारेण सूदयन्तु नाशयन्तु । रिप्रनाश- नेन च मां घृतेन पुनन्तु पवित्रीकुर्वन्तु अस्माकं पापं नाशयन्त्विति । एतत्कियद्वा चित्रं यतो विश्वं सर्वं जगत्रयगतमपि पापं प्रव- हन्ति प्रवाहयन्ति अपसारितुं शक्नुवन्ति । ता हि देवीः देव्यो दानद्योतनादिगुणयुक्ताः । उदिदाभ्यः शुचिरापूत एमि इति । इदिति पादपूरणार्थे निपातः । उदिति एमीत्यनेन संबध्यते । अभ्य अद्भ्य आपूतः पवित्रीभूत एव शुचिरुदेमि आगच्छामि स्वर्गापवर्गमाप्नु वानीत्यर्थः ॥
इदमाः प्रवहत यत्किंचिद्दुरितं मयि । याहमभिदुद्रोह यद्वा शेष उतानृतम् ॥
ऋषिः पूर्ववत् । अनुष्टुप् । हे आपः यत्किं - चिन्मय दुरितं दुश्चेष्टितं पापरूपं कर्म तत्प्र- वहतापसारयत । यद्वाहमभिदुद्रोह यत् दुग्धं हिंसितं किंचिन्मया, यच्चानृतमलीकं निष्का- रणमेवाहं किंचनाभिशेप आक्रुष्टवान् तत्सर्वं प्रवहत | दुरितपदेन सामान्याभिधानेऽपि द्रोहाभिशापयोः पुनर्वचनमतिशयार्थम् ॥ द्रुपदादिवेन्मुमुचानः खिन्नः सात्वी मलादिव । पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥ अनुष्टुप् । ऋषिः कोकिलराजपुत्रः । आपो मामेनसः पापाच्छुन्धन्तु मोचयन्तु सुगति - योग्यं कुर्वन्तु । कः कस्मान्मुक्तो यथा यथेष्ट- बिहारी भवति, द्रुपदादिवेन्मुमुचानः । द्रुपदाः पादुकाः, तथाच मन्त्रवर्णः ' कनीनकेव विद्रधे नवे डुपदे (ऋ० ४।३२।२३) इति । यद्वा द्रुतं पदं यत्र सद्रुपदो दस्यूपहतो देशः, द्रुमयं वा पदं द्रुपदं बन्धनकाष्ठम् । इच्छब्दः पादपूरणः । 'मुलु मोचने' व्यत्ययेन लडर्थे लिट् कानच् । यथा- द्रुपदात्पादुकासभयदेशबन्धनकाष्ठलक्षणान्मु- च्यमानो नरः स्वैरविहारी भवति । खिन्नः स्नात्वी मलादिव । खिन्नः प्रखेदयुक्तो निदाघादौ । 'स्नाल्यादयश्च' (७|१|४९) इति स्नात्वी- शब्दो निपातितः । यथा प्रखेदेन व्याप्तगात्रः स्नानं कृत्वा मलाद्विमुक्तो निर्वृतो भवति, यथा वा दर्भपवित्रेण पूतमाज्यं निर्मलं भवति तितउना सक्तव इव, तथा मामापो निर्मलं निष्पापं संपादयन्त्वित्यर्थः ॥
अव ते हेळो वरुण नमोभिरख यज्ञेभिरीमहे हविर्भिः । क्षयमस्मभ्यमसुर प्रचेतो राजन्नेनांसि शिश्रथः कृतानि ॥ त्रिष्टुप् । शुनःशेपस्यार्षं देवासुराणां वा । वरुणो देवता । अवेत्युपसर्गः ईमहे इत्यनेन संबध्यते 'व्यवहिताश्च' (१।४।८२ ) इति स्मृतेः । हे वरुण ते तव हेळः क्रोधमवेम हेऽपनयामः । कैः । नमोभिः स्तोत्रैः, यज्ञेभिः पञ्चमहायज्ञा- दिकैः, हविर्भिः पुरोडाशादिकैः । अतस्त्वमप- सारितकोपः प्रसन्नचित्तः सन् अस्मभ्यं क्षयं निवासमन्नं वा प्रयच्छ । तथाच यान्यस्माभिरे- नांसि निषिद्धसेवनादीनि कृतानि तानि शिश्रथः शिथिलीकुरु नाशयेत्यर्थः । हे असुर, हे प्रचेतः, हे राजन् इत्यामन्त्रणत्रयं वरुणविशेषणम् । असुः प्राणः शक्तिविशेषः स विद्यते यस्य सोऽसुरः, हे बलवन् । प्रकृष्टं चेतो ज्ञानं मनो वा यस्य तस्य संबोधनं हे प्रचेतः । राजन् दीप्यमान ॥
उदुत्तमं वरुणपाशमस्मदवाधमं वि मध्यमं श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥ अनन्तरवत् छन्दोदेवतावगतिः । उत्तरत्रा- प्येवम् । शुनःशेपस्त्रिभिः पाशैर्यूपे मूलमध्य- प्रान्तदेशेषु बद्धो मुक्तये वरुणस्तुतिं चकार । उदित्युपसर्गः श्रथायेत्यनेन संबध्यते । हे वरुण उत्तमं
पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वं शिथिलीकुरु शिथिलं कृत्वा ऊर्ध्वसार- न प्रान्तपाशमपसारयेत्यर्थः । अवाधमम्, अधमं मूलप्रदेशस्थमवश्रथाय शिथिलं कृत्वा - धोनयनेन मूलपाशमपसारयेत्यर्थः । वि मध्यमं, मध्यमं विश्रथाय मध्यप्रदेशस्थं पाशं विविध- रूपेण श्रथय शिथिलं कृत्वा मूलेन प्रान्तेन मध्यमं पाशं यूपान्निसारयेत्यर्थः । अथ पाश- त्रयविमुक्त्यनन्तरं हे आदित्य अदितेः पुत्रः तव व्रते कर्मणि वर्तमाना वयमनागसो नि- पापाः स्याम । किमर्थम् । अदितये दैन्या दैन्यस्य पापनिबन्धनत्वात् ॥
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अळमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥
हे वरुण यद्यजमानो हविर्भिः पुरोडाश- सोमप्रभृतिभिराशास्ते तदहं त्वां यामि त्वां याचे । किं कुर्वाणः । ब्रह्मणा मत्ररूपेण वेदेन वन्दमानः स्तुवन् । तदिह याचनं स्तवनं च बोधि बुध्यख । अहेळमानः 'हेड अनादरे' अनादरमकुर्वन् । शंसनं शंसः उरुभिर्बहुभिः शंसो यस्य स उरुशंसस्तस्य संबोधनं हे उरु- शंस बहुस्तुत | मा न आयुः प्रमोषीः, अस्माक मायुर्विलोपं मा कार्षीः ॥
उदुत्तमं मुमुग्ध नो विपाशं मध्यमं श्रथ । अवधमान जीवसे ||
वारुणी । गायत्री । ऋषिः शुनःशेप एव । पाशविमोचनमभ्यर्थ्याजरामरणमभ्यर्थयते । उदित्युपसर्गे मुमुग्धीत्यनेन संबध्यते । अ- स्माकमुत्तमं पाशमुन्मुमुग्धि ऊर्ध्वं मोचय वि पाशं मध्यमं श्रथ, मध्यमं पाशं विश्रथ । अधमानि च बन्धनानि अवश्रथ अधोभागे विमुच्यापसारय । किमर्थम् । जीवसे 'जीव 'प्राणधारणे' जीवनाय पाशमोचनं कृत्वा बह्वस्मभ्यमायुर्देहि इत्यर्थः । अथवा जीवन- मिह कैवल्यम् । बन्धनानि देवर्षिपितॄणा- मृणानि उत्तमाधममध्यमानि यथासंख्यं, तद्वि- मोचनेन मोक्षः प्रार्थ्यते । यथोक्तम् 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।"
इति ॥
( मनु० ६/३५ )
हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो याखिन्द्रः । - या अग्निं गर्भं दधिरे विरूपास्ता न आपः शंस्योना भवन्तु ॥ अब्दैवत्या । त्रिष्टुप् । हिरण्यस्येव शुद्धो निर्मल वर्णो यासां ता हिरण्यवर्णाः । शुचयः पवित्रभूताः । अत एव पावकाः पवित्रताया आपादिकाः । यासु कश्यपप्रभृतय ऋषयो जाता इन्द्रप्रभृतयश्च देवाः । का गणनान्येषाम् । तथाच मनुः
'अप एव ससर्जादौ तासु वीर्यमथासृजत् ।
तदण्डमभवद्वैमं सहस्रार्कसमद्युति || ' ( मनु० ११९ ) इत्यादि । याश्च विविधरूपा गगनसागरा- दिव्यवस्थिता अपि अग्निं वैद्युतवडवामुखा- दिकं गर्भ दधिरे । तथाच मत्रवर्णः
'आपो ह यन्महतीर्विश्वमायन्गर्भ दधाना जनयन्तीरग्निम् ।
( क० शा ० ४० | १ )
इति । ता आपो नोऽस्माकं शंस्योनाः सुखतमा भवन्तु ॥
यासां देवा दिवि कृण्वन्ति भक्ष्यं या अन्तरिक्षे बहुधा भवन्ति । या अग्निं गर्भ दधिरे विरूपास्ता न आपः शंस्योना भवन्तु ॥
यासामपां त्रैवर्णिकदत्तानां देवाः पितृप्रभृ- तयो दिवि स्वर्गे भक्षणं कुर्वन्ति, भक्षितेन बलेन हविष्यरूपेणापि परिणतानां देवोपयो- गित्वं प्रतीयते । तथाच श्रुतिः
' ततः प्रजनं देवा उपजीवन्ति ।'
इति । तत एव मनुष्येभ्य एवोपजीवन्ति नतु विद्यमानमपि स्वयं गृह्णन्ति मेघादा- वित्यर्थः । याश्चान्तरिक्षे बहुप्रकारा हिमकरक- पानीयरूपा भवन्ति । शेषं व्याख्यातम् ॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जना- नाम् । या अग्निं गर्भं दधिरे विरूपास्ता न आपः शंस्योना भवन्तु ॥
यासामपां मध्ये राजमानो वरुणो याति । किं कुर्वन् जनानां सत्यानृते धर्माधर्मौ पश्यन् ॥
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोपस्पृशत त्वचं मे । मधुश्रुतः शुचयो याः पावकास्ता न आपः शंस्योना भवन्तु || गतार्थम् ॥
हिरण्यवर्णाः शुचयः पावका विचक्रमुर्हित्वावद्यमापः । शतं पवित्रा विततान्यासां ताभिर्मा देवः सविता पुनातु ॥ हिरण्यवर्णाः शुद्धः शुचित्वात् पवित्रत्वा- पादिकाः, आपः अवयवदानार्हं खण्डनयोग्यं पापं त्यक्त्वा विचक्रमुः विविधं क्रान्ता भूल- कमागताः । शतग्रहणमतिबहुत्वोपलक्षणम् । पवित्रा इति लिङ्गव्यत्ययः । अतिविततानि सुभूयांसि च पवित्रीकरणानि रूपाणि आसां यस्मात्तस्मादासामधिपतिः सविता ताभिर- मि पुनातु ॥
एता हिरण्यवर्णाः समाख्याता ऋचः । इत ऊर्ध्वं पावमानीः समाख्याताः षडूचो भविष्य- न्ति । तासामृषिः पवमानः । सोमो देवता अर्धाश्रिताधिष्ठातृरूपेण । अनुष्टुप् छन्दः
यः पावमानीरध्येति ऋषिभिः संभृतं रसम् । सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥
यः पावमानीरध्येति पवित्रीकरणीरपाम् । : तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥ पवित्रीकरणीरपां वाचिका इति कृत्वा ऋच एव पावमान्यः । ऋषिभिर्ज्ञानिभिरेवात्र सं- भृतो ढौकितो यो रसस्तत्स्वभावाः पावमानीः ऋचो यः पठति, स सर्वमेवान्नादिरसमुत्तम- मश्नाति भुङ्के स्वभावपवित्रेण वायुनाप्या- स्वादितं शोधितं पावितम् । तथा सरस्वती वाक् दुहे दुग्धे पूरयति क्षीरं शुद्धत्वादुपचारा- द्धर्मम् । सर्पिरिति स्निग्धत्वसामान्यात् स्वर्गा- दिकं कामम् । मध्विति नित्यानन्दात्मकमप- वर्ग मधुरैकरसत्वात् । उदकमिति क्षीरादिक- मुदकप्रभवमित्यर्थः, -इति केचिदन्ये तु उदक- शब्देन संतानभावात्मको दुःखाभावो लक्ष्यते इत्याहुः ॥
'पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चतः ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हि तत् ।। पाव मान्यः पात्रयित्र्यः । स्वस्त्ययनीः स्वस्ति अविनाशः अविनाशकारिण्यः आयुष्प्रदा इ- त्यर्थः । सुदुघाः सुदोहनाः । घृतश्रुतो घृत- स्राविण्यः । ऋषिभिर्मन्त्रसारवेदिभिरयं संभृत एवात्र राशीकृतो रसो या एताः पावमान्य:- यतो ब्राह्मणेषु तदमृतम्, अमरणकारी आयु- प्रदो भोगासक्तानां मुमुक्षूणां तु मोक्षदोऽयं रस इत्यर्थः ॥
पावमानीः स्वस्त्ययनीर्याभिर्गच्छति नन्दनम् । पुण्यश्च भक्ष्यान्भक्षयत्यमृतत्वं च गच्छति ॥
तथा पावमान्यः स्वस्त्ययन्यः, याभिरधी- ताभिर्नरो नन्दनं वनं देवोद्यानं गच्छति प्राप्नोति तथा भक्ष्यांश्च पुण्यफलभूतान् स्वर्गादिकान् भुङ्क्ते अमृतत्वं च मोक्षलक्षणं लभते ॥
पावमानी र्दिशन्तु न इमं लोकमथो अमुम् । कामान् समर्धयन्तु नो देवैर्देवीः समाहृताः ॥
एवं चैताः पवमान्योऽस्माकमिमं पृथिवी- लोकममुं च स्वर्गलोकं दिशन्तु दर्शयन्तु, कामांश्च काम्यमानान् सर्वानर्थानस्माकं सम्य- वर्धयन्तु देवैद्यतनैऋषिभिः समाहृता एकी- कृताः सत्यः ॥
येन देवाः पवित्रेण आत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु नः ॥
येन पवित्रीकरणेन उदकविशेषात्मना देवा आत्मानं पवित्रीकुर्वन्ति, तेनानन्तधारेणास्मान् पावमान्यः पुनन्तु ॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्डीशात्सर्वस्माद्देवकिल्बिषात् ॥ आथर्वणस्य भिषज आर्षम् । अनुष्टुप् आप उच्यन्ते ऋषिणा । शपथ्याच्छपथप्रभवात् पड्डीशात्पाशात् किल्बिषाच्च । तथा वरुण्या- रुणपाशनिमित्तात् येन पापेन सता वरुणः पाशै- नाति तस्मात् किल्बिषात् तन्निमित्ताच्च पा- शात् । उतेति समुच्चये । तथा यमस्य च संब- न्धिनः पाशात्पापाच्चापो विमुञ्चन्तु माम् । येन पापेन सता यमः प्रभवति तद्यमस्य पाशः । किंच सर्वस्माद्देवकिल्बिषात्, अवश्यकर्तव्यं - यद्देवानां यागहोमादिकं तदकरणाद्यत्पापमु- पजायते तदेवकिल्बिषम्, तस्मात्समग्रात्पापा- दापो मां मुञ्चन्तु ॥
जाग्रद्यत्सुतः पापमभिजगाम । सर्वस्मान्मा तस्मादेनसः प्रमुञ्चतु ॥ गायत्री । आप उच्यन्ते । यत्पापं जाग्रदह-
मभिजगाम आभिमुख्येन कृत्वा कृतवान्,
यच्च सुप्तः सुप्त इव सुप्तः अज्ञानात् तस्मात्सर्वस्मा- देनसो मामापः प्रमुञ्चतु विमुञ्चन्त्वित्यर्थः ॥ तद्वष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥
विष्णोर्व्यापकस्य परमं ब्रह्मरूपं पदं मोक्ष- लक्षणं प्राप्नुयामेत्याशास्महे ।
संमार्जनमत्रा व्याख्याताः । संमार्जनादन- न्तरं 'ऋतं च सत्यम्' इत्यादिकमघमर्षणसूक्तं जपेत् सृष्टिस्थितिसंहारकारिणं सूक्ताभिधेयं प्रजापतिं ध्यायन् । सूक्ताभिधेयाश्च सृष्टि- स्थितिप्रलयाः प्रजापत्यधीना इत्येतदुपनिषत्सु तत्र तत्र प्रतिपादितम् । प्रजापतिर्हि अनेक- शक्तिखचितः संकल्पमात्रेण त्रैलोक्यं खतनो- रेव सृजति, संहारसमये च स्वात्मन्येव पुनः शक्तिरूपेणोपसंहरति । तथाच श्रुतिः
इति ।
'हिरण्यगर्भः समवर्तताग्रे ।' (ऋ० १० १२१ । १ ).
'असद्वा इदमग्र आसीत्ततो वै सदजायत । तदात्मानं स्वयमकुरुत ।' ( तै० आ० ८/७/१)
इति । ब्राह्मणमपि
'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांच प्रहिणोति तस्मै । तंह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
(श्वेत०६।१८ )
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ।।'
( मु० २११३ )
इति । तदेतत्सृष्टिकर्तृकत्वापन्नप्रजापतिप्रकाः
शकं सूक्तं व्याचक्षते ॥
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततः समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौधाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो खः ॥ ऋषिरघमर्षणः । अनुष्टुप् छन्दः । प्रजाप- तिर्देवता जगत्स्रष्टृत्वेन सूक्तजपसमये ध्या- तव्यः । तपो ज्ञानं 'सम्यग्ज्ञानमयं तपः ।' इति श्रुतेः । तस्मादभीद्धात्त्रष्टव्यपदार्थ- सांमुख्येन दीप्ताद्वर्तमानात् ऋतं च सत्यं चाजायत । जगत्सूत्रभूतः प्राणः सत्यं 'प्राणो वै सत्यम्' इति श्रुतेः । ऋतमपि प्राणस्वरूप- मेव गतिमत्त्वात् । ऋतमिति हि गत्यर्थस्यार्ते रूपम् । मनोऽपि ऋतं सत्यं च सत्यसंकपत्वात् विद्युद्वत्सुवेगगामित्वाच्च । संकल्प - मात्रात् मनः सहितः प्राणः प्रजापतिना निर्मित इत्यर्थः । ततः प्राणोत्पत्त्यनन्तरं तत एव संकल्पमात्रात्प्राजापत्याद्वात्रिरजायत । अञ्जनपुञ्जवर्णसाम्याद्रात्रिशब्द आकाशे वर्तते । प्राणोत्पत्त्यनन्तरं तत्र तत्राकाशोत्पत्तिश्रुति- रुपनिषत्सु । तत आकाशोत्पत्त्यनन्तरं समुद्रो अर्णवः जलमर्णवरूपं गतियुक्तं पोलूयमानं जलं जातमित्यर्थः । समुद्रग्रहणं भूतत्रयस्या- न्यस्याप्युत्पत्तिं लक्षयति । तथाच श्रुतिः 'आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्यः पृथिवी' ( तै० २।१ ) इति । क्रमानियमं च तत्र तत्र दर्शयन्नृषिर- विद्यानिर्मितत्वेन भेदविवर्तस्याद्वैते क्रमस्या- पारमार्थिकतामाह - समुद्रादर्णवात् संवत्सरः सम्राट् 'अधिरीश्वरे' (१|४|९७) 'यस्मादधि- कम्' ( २३९) इति समुंद्रशब्दात्सप्तम्यां जातायां व्यत्ययेन पञ्चमी । समुद्रग्रहणं च भूतपञ्चकोपलक्षणम् । अधिभूतेषु सम्राट् जातः भूतखामी भूत इत्यर्थः । किं कुर्वाणः सम्राडजायत । अहोरात्राणि तत्परिच्छेदका- रिणौ सूर्याचन्द्रमसौ विदधत् जनयन् । कथं विराड् जनयति, विनियुङ्क्ते चादित्यादिकं कार्यशेषेषु इति चेत् तत्राह यतोऽसौ मिषतो निमेषोन्मेषवतो विश्वस्य समस्तभुवनस्य धाता निर्मातातो विदधाति, तस्य च वशी- तिकृत्वा यथायोग्यत्वं युङ्क्ते । कथं विदधत् । यथापूर्वं पूर्वकल्पानतिक्रमेण अनादिरेतदीयः सर्गप्रलय इत्यर्थः । अथवा यथापूर्वं पूर्वकर्मा- नुसारेण तेन न मुक्तान् शरीरादिना योज - यति । यद्वा यथापूर्वं यथाक्रमं न सर्वान् तुल्यान् निर्मितवान् उपभोगाभावप्रसङ्गात् किं तर्हि उच्चावचान् अकल्पयत् कल्पितवान् । अथवा पृथिवीमन्तरिक्षं च स्वश्च स्वर्गमिति लोकत्रयं यथाक्रममकल्पयदिति संबन्धः । पृथिव्या उपर्यन्तरिक्षं नक्षत्रादिलोकं, ततः पञ्चविधं पूर्वप्रदर्शितं स्वर्गमिति । किं तस्य जगन्निर्माण प्रयोजनमिति चेदत आह दिवमिति 'दिवु क्रीडायाम् ' क्रीडयेत्यर्थः ।
एवं 'संमार्जनानन्तरभूतमृतं च सत्यं चेत्ये- तयानयुक्त आवर्तयेत्' इति काठकश्रुतेः अघ- मर्षणसूक्तजपः कर्तव्यः । तदनन्तरं प्राण- संयमः । तथाच याज्ञवल्क्येन
'मार्जनं प्राणसंयमः । ( १।२२ )
इति मार्जनोत्तरकालेऽपि प्राणसंयमश्चोदितः । किंच स्नानादावप्यस्योपयोगोऽस्ति । तथा च वसिष्ठेन प्रायश्चित्तार्थत्वमस्य पापक्षयहेतु- त्वेोक्तम्
'आवर्तयेत्सदा युक्तः प्राणायामान्पुनः पुनः । आलोमाग्रान्नखाग्राच्च तपस्तप्स्यन्ननुत्तमम् ॥ प्राणायामान्धारयेत्रीन्यथाशास्त्रमतन्द्रितः । अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥
इति । तथाच
'अहोरात्रं च याञ्जन्तून्हिनस्त्यज्ञानतो द्विजः । ततः स्वात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥' इति । योगशास्त्रेषूपनिषत्सु च प्राणायामैरेव पवनजये सति भूतेन्द्रियजयः प्राधान्येन प्रतिपादितः । तेनास्य प्रयत्नतरेण लक्षणमभि- धेयम् । तच्च तथैव याज्ञवल्क्यादिभिः प्रति- पादितम् ।
'गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः || ( या० १ ( २३ )
इति । वसिष्ठ
'व्याहृतिप्रणवैर्युक्तां गायत्री शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।।'
इति । तत्र कुम्भकेनैव प्राणापानवृत्तेर्निरोध- मिच्छन्ति सन्ध्योपासनप्रायश्चित्तादिषु, समा- धौ कुम्भकेन रेचकेन च । कुम्भको बाह्यवायो- राचमने क्रियमाणे उदरस्य कुम्भवत्पूरणा- द्भवति, रेचकस्त्वान्तरवायोर्निःसारणादुदरस्य रिक्ततापादनात् । तत्रायं क्रमः -ओं भूः
ओं खः ओं
ओं
भुवः
महः । केचित्तु तकारान्तं महच्छब्द पठन्ति ओं महदिति । तथाच पातञ्जलभाष्ये
'ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् । माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः ||' (३।२६) इति । ओं जनः ओं तपः ओं सत्यम् । ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओं आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ॥
एतद्यावता कालेन त्रिः पठ्यते तावन्तं कालं प्राणनिरोधः प्राणायामः सोऽभ्यसनीयः । एतं च प्राणायाममुपक्रमेऽपि सन्ध्योपासन- स्वेच्छन्ति । इयांस्तु विशेषः
'त्रयः प्राणायामाः पञ्चदशमात्रापरिमाणाः'
इत्ययं गौतमोक्तः प्रथममनुष्ठेयः, पश्चादयं गौत- मीयव्यतिरेकेणात्राधिकारात् । यथोक्तं 'प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ।' एवमेव चास्माकं वृद्धेभ्य आगमः - उपक्रम इव सन्ध्योपासनस्य वयमुपनयनकाल एव द्विविधमपि प्राणायामं यत्नेनानुष्ठापिता वेदार्थ- विदुत्तमैः पितृपादैः । तत्र व्याहृतीनां सावि- त्र्याचार्थो व्याख्यातो ब्रह्मरूपः । लोकसप्तक- मपि हि ब्रह्मणो रूपमोंकार सावित्रीवाच्यस्यो- क्तम् । आपो ज्योतिरित्यस्यापि सर्वाङ्गोपरि- स्थितत्वात् प्राधान्याच्च साक्षाद्ब्रह्मशब्दवत्तया शिरः शब्दवाच्यस्य ब्रह्मरूपमेवाभिधेयं ब्रह्मा- द्वैते ज्ञानकाण्डार्थं, द्वैतेऽपि कर्मकाण्डार्थम् । तत्र ब्रह्मेति विशेष्यपदम् | आप इत्यादीनि चत्वारि विशेषणपदानि । 'आपू व्याप्तौ ' इत्य- स्यापः, व्यापकः सर्वकार्यानुबन्धित्वादतो ब्रह्मण एव व्यापकत्वमुक्तम् । ज्योतिरिति ज्ञानप्रकाशकत्वमुक्तम् । रस इति सारत्वम् । अमृतमिति नित्यानन्दात्मकत्वं परमविना- शित्वं च । भूर्भुवः स्वरिति लोकत्रयात्मकत्वम् । अस्य च शिरसः प्रभावोऽप्युक्तः
' षोडशाक्षरकं ब्रह्म गायत्र्यास्तु शिरः स्मृतम् । सदावर्तयन्विप्रः संसारादाशु मुच्यते ॥'
छन्दः शिरसो नास्ति यजुष्वात् । ऋषिस्तु प्रजापतिः । देवतास्त्वग्निब्रह्मवायुसूर्याः । तथाच पाराशर्यः
'गायत्र्यास्तु शिरः प्रोक्तमापो ज्योती रसोऽमृतम् । तत्र प्रजापतेरार्ष छन्दोहीनं यजुः स्मृतम् ॥ ब्रह्माग्निवायु सूर्याश्च देवतास्तस्य कीर्तिताः ।' इति । प्राणायामादनन्तरं समन्त्रकमाचमनं कुर्यात् । यथाह शङ्खः
' एवं संमार्जनं कृत्वा प्रणायामांश्च धर्मवित् । उपस्पृशेत्ततः पश्चान्मत्रेणानेन सन्ध्ययोः ॥ आपश्चरसि भूतेषु गुहायां सर्वमूर्तिषु ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥' इति । ब्रह्मोच्यते तद्रूपा आपः स्तोतुम् । त्वमेव सर्वभूतेषु चरसि । तथाहि त्वमेवापः । त्वमेव गुहायां हृदयाकाशे मन इत्यर्थः । सर्वे - न्द्रियोपलक्षणं चैतत् । सर्वासु च मूर्तिषु ये स्थिता जीवात्मानस्तेऽपि त्वमेव । त्वं यज्ञस्त्वं वषट्कारस्त्वमेव साध्यसाधकरूप इत्यर्थः । त्वं ज्योतिस्त्वं रसस्त्वममृतं, यश्च त्वं ता आप
इति । द्वितीयमब्ग्रहणमाचम्यमानाखप्सु ब्रह्म- रूपोपसंहारार्थम् । गौतमोऽप्याह
'अश्व मादित्यश्च पुनातु' इति सायम् । 'रात्रिश्च मा चन्द्रमा पुनातु इति प्रातः । आचमेदिति शेषः । प्राणायामादनन्तरं
'सूर्यस्य चाप्युपस्थानं ......
इति दर्शनात्
'उदुत्यं जातवेदसं चित्रं देवेत्यृचौ पठन् । द्विजः प्रदद्याद्विधिवद्भास्कराय जलाञ्जलिम् ॥”
इति वचनात्
'उदुत्यं जातवेदसमृषिः प्रस्कण्व उच्यते । गायत्रं छन्द आख्यातं देवता सूर्य उच्यते ॥ चित्रन्देवेत्यत्र त्रितः कुत्सो वा कीर्त्यते ऋषिः । त्रिष्टुप् छन्दो दैवतं च सूर्योऽस्याः परिकीर्तितः ॥ ' 'अतिरात्रेऽश्विने शस्त्रे नियोगोऽस्यास्तथा जपे ।' इति स्मरणात् 'उदु त्यं' 'चित्रन्देवानाम्' इति द्वाभ्यामादित्यमुपतिष्ठेत जलाञ्जलिमादाय ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् ॥
त्यद् शब्दः सर्वनाम । उशब्दो निपातः पाद- पूरणार्थः । उदित्युपसर्गे वहन्तीत्यनेन संब- ध्यते। त्यं तं जातवेदसं जातप्रज्ञानं जातधनं वा, देवं दानादिगुणयुक्तं, सूर्य विक्रान्तिमन्तं केतवो रश्मयोऽश्वा वा वहन्ति | किमर्थं वहन्ति । दृशे दर्शनाय । कस्य । विश्वाय षष्ठ्यर्थे चतुर्थी विश्वस्य सर्वस्य जगत्रयस्य ॥ चित्र देवानामुद्गादनीकं चक्षुर्मित्रस्य वरुणस्यानेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ आदित्यो ब्रह्म । स चात्र परापररूपेण स्थितः स्तूयते । तत्रापररूपेण तावदुदयकालादारभ्य स्तुतिमाह । चित्रमिति क्रियाविशेषणम्। यश्चि- त्रमाश्चर्यभूतमुद्गादुदगमत् शार्वरं तमोऽपहत्य अयादितेजश्चापहृत्य, देवानां च द्योतमा- नानां रश्मीनामनीकं मुखमादाय समूहं वा । कः । सूर्यः । कीदृशः । जगतो जङ्गमस्य चक्षुः । किंवा सामान्येनोच्यते, मित्रावरुणाभिप्रभृती- नामपि नेत्रम् | यश्च द्यावापृथिव्यौ आप्रा आ समन्तात् अप्राः पूरितवान् अन्तरिक्षं च । पररूपेण स्तौति - आत्मा जगतो जङ्गमस्य, तस्थुषः स्थावरस्य । सूर्याद्वैतमनेनोक्तं ब्रह्मा- दित्यरूपेण भावनीयम् । तथाच श्रुतिः 'ये वै तमादित्यं पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिः स ब्रह्मा ।'
इति ॥
'उपतिष्ठेत चादित्यं मत्रैस्तदैवतैर्द्विजः । '
इति वचनादन्यैरप्यादित्यदेवताकैर्मन्त्रैरादित्यः स्तोतव्य इति प्रयुज्यमाना अन्येऽपि व्या- ख्यायन्ते ।
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषदर सहसयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ छन्दो जगती । ऋषिर्वामदेवः । परमात्मरू- पेण स्तूयमानः सूर्यो देवता । हन्ति ध्वान्तं, गच्छति चाध्वानमधिदैवरूपेण वाविद्यामिति हंसः । तथाचोक्तं
'हंसो नारायणः प्रोक्तो हंस आत्मेति निश्चितः । वात्मा स भगवान्विष्णुस्तद्रह्म सर्वगम् ॥'
इति । शुचयो दीप्तयो रश्मयः, स्वर्गे वा शुचिः, नित्यज्ञानसुखं वा तत्र सीदति शुचिषत् । तथा वासयति जगत् वृष्ट्यादिद्वारेण विवर्त परिणतिमुखेन अध्यात्मरूपेणेति वसुरा- दित्यः । अन्तरिक्षे सीदति वाय्वादिरूपेणे- त्यन्तरिक्षसत्, अध्यात्मरूपेण वा सर्वजीवा- त्मनामन्तरिक्षे हृदयाकाश अन्तर्यामिरूपेण सीदतीत्यन्तरिक्षसत् । होतेति हेो रूपम् । सच प्राणिनां रात्रौ प्रसुप्तानां व्यापारसिद्धिषु सांमु- ख्यापादनादाहृतेर्वाधिदैवरूपेणाध्यात्मरूपेण आह्वयति स्पर्धयते जुहोतीति वा अविद्या- मधिक्षिपतीत्यर्थः । वेद्यां सीदत्यग्निरूपेणे- ति - वेदिषत् | अध्यात्मरूपेणापि 'विद ज्ञाने' वेद्यां नित्यज्ञानरूपायां सीदतीति वेदिषत्, अतिथिः सन् दुरोणे गृहे जीवात्मनिवासे सर्व- शरीरे वा सीदति । यद्वा द्रोणकलशे सो- मरसाधानेऽग्न्यादिदेवताभावेनेत्यतिथिर्दुरोण- सत् । अथच ब्रह्माण्डस्थस्य सर्वशरीरगस्य चानित्यत्वादतिथिः, अतिथिरप्यनित्यः यतो गृहागृहान्तरं याति । नृषु मनुष्येषु अन्तर्या- मित्वेन प्राणादिभावेन च सीदतीति नृषत् । नृग्रहणं चेतनोपलक्षणार्थम् । अधिदैवेऽपि नृषु सर्वचेतनेषु सीदति प्रकाशकत्वेन नयन- सहकारितयेति नृषत् । वरे द्युस्थाने सीदत्य- धिदैवात्मनेति वरसत् । तथाच ब्राह्मणम्
'वरं वा एतत्सदनं यस्मिन्नेष आसन्नस्तपति । इति । अथवा वरेषूत्कृष्टेषु स्थानेषु नन्दनवन - महदादिलोकप्रभृतिषु सीदति क्रीडति इन्द्रादिभावेनेति वरसत् | अध्यात्मपक्षे ऋते सत्ये नित्यचैतन्यात्मके तिष्ठतीति ऋतसत् । अधि- दैवपक्षे वा ऋते यज्ञे सौर्यादि के सीदति देव- तात्वेनेत्यृतसत् । व्योम्न्यन्तरिक्षे हृदयाकाशे वा सीदतीति व्योमसत् । स्तुतौ पौनरुक्तये न दोषः । यथोक्तं
'वक्ता हर्ष भयादिभिराकृष्टमनास्तथा स्तुवन्निन्दन् । _ यत्पदमसकद्रूयात्तत्पुनरुक्तं न दोषाय || '
इति । इहापि वेदात्मा वक्ता । तथाच श्रुतिः 'यं सर्वे वेदा न विदुर्यस्य सर्वे वेदाः शरीरं सोऽन्त- र्यामृतः ।'
इति । अथवा पौनरुक्तत्योच्चारणेनेदं बोधयति यदुत सर्वः पदग्रामो ब्रह्माभिधायितयैवंप्राय इति । अप्सु जायते इत्यब्जाः
'अप एव ससर्जादौ
....' (१1८)
इत्यादिमानवशास्त्रानुसारेणादित्योऽब्जाः । अथवा समुद्रतीरस्थदृष्ट्या अब्जाः । तथाच श्रुतिः
'अो वा एष प्रातरुदेत्यपः सायं प्रविशति ।'
इति । वैद्युताग्निरूपो वडवाग्न्यात्मकः सूर्यस्य स्वभावोऽब्जाः । गवि खर्गे इन्द्रादिरूपेण, अन्तरिक्षे वा भानुस्वभावेन, पृथिव्यां वा अन्नौ- बध्यादिरूपेण जायत इति गोजाः । ऋते सत्यज्ञाने जायते तिष्ठतीति ऋतजाः । तथा च श्रुतिः
'सत्यं ज्ञानमनन्तं ब्रह्म ।' ( तैत्ति० २ १ )
इति । एवमद्रौ मेरौ जायते उदयसमये उपलभ्यते इत्यद्रिजाः । किंवा बहुच्यते ऋत- मादित्य एव ऋतं सर्वगतं परब्रह्मरूपं यत् स सूर्य इति । तत्परमं ब्रह्म प्राप्नुयामेति वाक्यं पूरयितव्यम् । बृहद्व्यापकम् ॥
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवन्देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
अनुष्टुप् छन्दः । सूर्यो देवता । उदित्युपसर्गः अगन्मेत्यनेन संबध्यते । वयमुत्तमं ब्रह्मलक्षणं ज्योतिरुद्गन्म | आशीर्लिङोऽर्थे व्यत्ययेन लुङ् उदगन्मेत्याशास्महे ऊर्ध्वं गम्यास्म इत्यर्थः । किं कुर्वन्तः । दीपादिज्योतिरन्तरापेक्षया उत्त- रमुत्कृष्टमुपरिवर्ति वा ज्योतिः सूर्यं पश्यन्तो ध्यायन्तः अनेन सूर्यध्यानेनेत्यर्थः । अन्यच्च कीदृशं सूर्य पश्यन्तः । तमसस्परि तमस उपरि वर्तमानं तमसोऽन्धकारस्या विद्यारू- पस्य च नाशकमित्यर्थः । अन्यच्च कीदृशम् । देवं दानादिगुणयुक्तं द्योतमानं वा । तथा देवत्रा देवानां त्रिदशब्राह्मणलक्षणानां त्राणात् । 'त्रैङ् पालने' 'आतोऽनुपसर्गे कः' (२३) आकारो वर्णागमः 'सुपां सुलु' (७|११३९) इति द्विती- यालुक् । नतु देव एव देवत्रा 'देवपुरुषमनुष्ये- भ्यस्त्रा' (५|४|५६) इति तद्धितस्त्राप्रत्ययः देव- मित्यनेनैव गतार्थत्वात् ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम् ॥
गायत्री
मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमु॒त द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवद्विधेम ॥ इयं त्रिष्टुप् । द्वयोरपि मित्रादित्यौ देवते । अनयोः क्रमेण भाष्यम् । मित्रस्यादित्यस्याकार- स्निग्धस्य श्रवो माहात्म्यं ध्यायामेत्यध्याहारः । श्रूयत इति श्रवः उपनिषत्प्रसिद्धं परब्रह्मरूप- मित्यर्थः । कीदृशं श्रवः । द्युम्नं द्योतमानम् । तथा सानसि समुच्छ्रितम्, चित्रश्रवस्तमं चित्रतम- माश्चर्यतमं श्रवस्तमं च प्रसिद्धतमं सर्वजीवा-
त्मभिरन्तर्यामितयाधिदैवरूपेण चेत्यमानत्वात् । सर्वोऽपि हि मन्यते - केनाप्यहं प्रेरितः कर्म करोमीति । यथोक्तं
'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेच्छु वा स्वर्गमेव वा ।।'

इति । कीदृशस्य । चर्षणीधृतः चर्षणयो मनु- व्यास्तान्धारयति वृष्ट्यादिद्वारेण अधिदैवरू- पेण, अध्यात्मरूपेण तु चैतन्यविवर्तपरिणामा-
द्यात्मना ॥
अथोत्तरा मित्रो जनानीति । जनानीति लिङ्गव्यत्ययः, जायन्त इति जनास्ताना- तयति विस्तारयति क्रियासु प्रवर्तयतीत्यर्थः । किं कुर्वाणः । न परान् प्रकाशयन्नेव क्रियाः कारयति यावता वेदादिरूपेण ब्रुवाणोऽपि विदधत् निषेधश्च । मित्रः पृथिवीं द्यां च दाधार व्यत्ययेन लिट् धारयते वृष्ट्यादिद्वा- रेण । तथा कृष्टीर्मनुष्यान् मित्र एवानि - मिषमनिमीलितं कृत्वा अभिचष्टे आभिमु ख्येन पश्यति कः सुकृतं करोति दुष्कृतं वा यथोक्तमस्माभिर्विष्णुस्तोत्रे 'रविरपि सकलानां कर्मणां साक्षिभूतः ।' इत्यादि । किंचन परं वयं मित्रं ध्यायामो यावतास्मै मित्राय सूर्यायाग्निरूपाय वयं सायं प्रातश्च प्रतिदिनं हव्यं हवनीयं घृतसहितं हविर्विधेम दद्म इत्यर्थः ॥
इत ऊर्ध्वमुदकतर्पणमृषिविहितमवश्यं कर्त- व्यम् । तत् मतभेदेन प्रदर्श्यते । तत्र बौधायन- स्तावदाह
'अतोऽनन्तरं देवतास्तर्पयति । अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्वृहस्पतिः सर्प इत्येतानि प्राग्द्वाराणि सदैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि वश्व तर्पयामि ।
तपनोऽर्यमा भगः सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिणद्वाराणि सदैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि रुद्रांश्च तर्पयामि ।
मित्र इन्द्रो निर्ऋतिः पूषा आपो विश्वे देवा ब्रह्मा विष्णु- रित्येतानि प्रत्यग्द्वाराणि सदैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि आदित्यांश्च तर्पयामि ।
वसवो वरुणोऽजैकपादहिर्बुध्न्यः पूषाश्विनौ यम इत्येतानि उदग्द्वाराणि सदैवतानि सनक्षत्राणि संग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि साध्यांश्च तर्पयामि ।
ब्रह्माणं तर्पयामि, प्रजापतिं चतुर्मुखं तर्प ० परमेष्ठिनं तर्प ० ब्रह्म पार्षदान् तर्प ० ब्रह्मपार्षदीश्च तर्प० । ओं भूः पुरुषं तर्प • ओं भुवः पुरुषं त० ओं स्त्रः पुरुषं त० ओं भूर्भुवः स्वः पुरुषं त० । ओं भूस्त ०ओं भुवस्त० ओं स्वस्तर्पयामि ओं महस्त० ओं जनस्त० ओं तपस्त० ओं सत्यं त० । ओं भवं देवं त० ओं शर्व देवं त० ओं ईशानं देवं त० ओं पशुपतिं देवं त० ओं रुद्रं देवं त० ओं उग्रं देवं त० ओं भीमं देवं त० ओं महादेवं त० । ओं भवस्य देवस्य पत्नीं त० ओं शर्वस्य देवस्य पत्नीं त० ओं ईशा- नस्य देवस्य पत्नीं त० ओं पशुपतेर्देवस्य पत्नीं त० ओं रुद्रस्य देवस्य पत्नीं त० ओं उग्रस्य देवस्य पत्नीं त० ओं भीमस्य देवस्य पत्नीं त० ओं महादेवस्य पत्नीं त० । ओं भवस्य देवस्य सुतं त० ओं शर्वस्य देवस्य सुतं त० ओं ईशानस्य देवस्य सुतं त० ओं पशुपतेर्देवस्य सुतं त० ओं रुद्रस्य देवस्य सुतं त० ओं उग्रस्य देवस्य सुतं त० ओं भीमस्य देवस्य सुतं त० ओं महादेवस्य सुतं त० ओं रुद्रपार्षदान् रुद्रपार्षदीश्च । ओं स्कन्दं सन- त्कुमारं षष्ठीं विशाखं स्कन्दपार्षदान् स्कन्दपार्षदीश्च तर्पया - मि । विघ्नांस्तर्प ० वीरं त० शीलं त० वीरदन्तं त० हस्ति- मुखं त० विघ्नपार्षदान् विघ्नपार्षदीश्च । विष्णुं त० नारायणं श्रियं देवीं सरखतीं पुष्टिं विष्णुपार्षदान् विष्णुपार्षदीश्च । यमं त० कालं वैवस्वतं चित्रगुप्तं वैवस्वतपार्षदान् वैवखत - पार्षदीश्च । भरद्वाजं त" विद्यां धन्वन्तरिं धन्वन्तरिपार्षदान् धन्वन्तरिपार्षदीश्च ॥
अथ ऋषयः । ऋषींस्तर्पयामि महर्षीस्त० परमर्षींस्त० देवषस्त • ब्रह्मषस्त० श्रुतर्षीस्त तापसर्षीन् सप्तर्षीन् कण्व - र्षीन् ऋषिकान् ऋषिपत्नीः ऋषिपुत्रकान् काण्वं बौधायनं आ- पस्तम्भं सूत्रकारं सत्याषाढं हिरण्यकेशं व्यासं प्रणवं गायत्रीं सावित्रीं सरस्वतीं छन्दांसि ऋग्वेदं यजुर्वेद सामवेदं अथर्ववेद अथर्वाङ्गिरसं इतिहासपुराणान् सर्ववेदगणान् सर्वभूतानितर्पयामि ।'
इति ॥
याज्ञवल्कीययोगशास्त्रात्
' सनक सनन्दश्व तृतीयश्च सनातनः । कपिलचारिचैव वोढुः पञ्चशिखस्तथा ॥ एते ब्रह्मसुताः सप्त मनुष्याः परिकीर्तिताः ।' कात्यायनः
'मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥'
अथ पुराणम्
'तर्पणं देवतानां च ऋषीणां च ततः पुनः । कृत्वाधिकारी भवति पितॄणां तर्पणे सदा ॥' एवमेव च स्नानकाले देवतानां तर्पणमवश्यं कर्तव्यमिति । अथाश्वलायनोक्तम्
'देवतास्तृप्यन्तु अग्निस्तृप्यतु वायुस्तृप्यतु सूर्यः प्रजापतिः ब्रह्मा वेदाः ऋषयः ओङ्कारो वषट्कारो व्याहृतयः गायत्री सावित्री सरस्वती यज्ञाः । द्यावापृथिव्यौ तृप्यताम् । अन्त- रिक्षं नक्षत्राणि सांख्याः सिद्धाः साध्याः नद्यः गिरयः क्षे- त्रौषधिवनस्पतयः गन्धर्वाः अप्सरसः विप्राः वयांसि गावः यक्षाः रक्षांसि भूतान्येवमन्तानि तृप्यन्तु ||
अथ ऋषयः । शतर्चिनः माध्यमाः गृत्समदः विश्वा- मित्र: वामदेवः भरद्वाजः वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासूक्तास्तृप्यन्तु । वैशम्पायन पैलसूत्रभाष्यभारतमहा- भारतधर्माचार्यास्तृप्यन्तु । जानकिवाहविगार्ग्यगालव गौतम- शौनकशाण्डिल्यवाभ्रव्यमाण्डूकेयास्तृप्यन्तु । गार्गी वाचक्नवी तृप्यतु । वडवा प्रातिथेयी सुलभा मैत्रेयी तृप्यतु । कहोडं कौषीतकं महाकौषीतकं आश्वलायनं ऐतरेयं महैतरेयं पैजयं वाष्कलं अजातव औदवाहिं महौदवाहिं सौजामि शौनक तर्पयामि । ये चान्ये आचार्यास्ते सर्वे तृप्यन्तु प्रतिपुरुषं पिवंस्तर्पयित्वा ॥'
अथेतिहासः 'ब्रह्मणे नमः विष्णवे नमः महे- श्वराय नमः वह्नये सूर्याय सोमाय वरुणाय वायवे यमाय कुबेराय इन्द्राय पृथिव्यै अद्भ्यः तेजसे वायवे आकाशाय अग्नये आदित्याय वरु- णाय चन्द्रमसे कुमाराय भौमाय विष्णवे बुधाय इन्द्राय बृहस्पतये सरस्वत्यै शुक्राय प्रजापतये शनैश्चराय गणपतये राहवे रुद्राय केतवे ब्रह्मणे ध्रुवाय अनन्ताय अगस्त्याय ध्रुवाय कालाय वि- श्वकर्मणे प्रजापतिभ्यः वसुभ्यः रुद्रेभ्यः आदि- त्येभ्यः मरुद्भ्यः साध्येभ्यः ऋषिभ्यः देवर्षिभ्यः ब्रह्मर्षिभ्यः राजर्षिभ्यः सिद्धेभ्यः विद्याधरेभ्यः गन्धर्वेभ्यः नागेभ्यः वैनतेयेभ्यः अप्सरोभ्यः समुद्रेभ्यः पवर्तेभ्यः नक्षत्रेभ्यः नक्षत्र देवताभ्यः देवमातृभ्यः देवपत्नीभ्यः देवकन्याभ्यः वेदेभ्यः वेदाङ्गेभ्यः यज्ञाङ्गेभ्यः धर्मार्थकाममोक्षेभ्यः सप्तप्रणेतृभ्यः सत्त्वेभ्यः दिग्भ्यः विदिग्भ्यः दिक्पतिभ्यः तीर्थेभ्यः नदीभ्यः सप्तभ्यो लोकेभ्यः सप्तभ्यः पातालेभ्यः विश्वेभ्यो- देवेभ्यः श्रियै सरखत्यै दिवाचरेभ्यो भूतेभ्यो नमः नक्तञ्चरेभ्यो भूतेभ्यो नमः ॥' अथ बौधायनः
'दर्भेष्वासीनो दर्भान्धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेत् शतकृत्वो वापरिमितकृत्वो वा ' इति । प्रणवव्याहृतियुक्तां गायत्रीं च जपेत् । 'ततोsसूत्रमादाय तेनैव गणयेञ्जपम् ।
नीचैर्जपं बुधः कुर्यात्सावित्र्यास्तु विशेषतः ॥ सावित्रीं जयमानस्तु स्वर्ग गच्छति मानवः । शान्त्यर्थं मानसं जप्यमुपांशु स्याच्च पौष्टिकम् ॥ अभिचारे सशब्दं तु ह्युदक्प्राग्दक्षिणामुखम् । ध्यायेत मनसा मत्रं जिह्वौष्ठं नच चालयेत् ॥ न कम्पयेच्छिरोग्रीवं दन्तान्नैव प्रदर्शयेत् । पिण्डीकृत्येन्द्रियग्रामं मत्रार्थधृतमानसः ॥ स्वरवर्णपदवाक्यैः शुद्धमावर्तयेजपम् । दशभिर्जन्मचरितं शतेन च पुराकृतम् ॥ त्रियुगोत्थं सहस्रेण गायत्री हन्ति किल्बिषम् । विना दर्भैश्च यत्नानं यच्च दानं विनोदकम् ॥

असंख्यातं तु यजतं तत्सर्वं निष्फलं भवेत् । हिरण्यदन्तमणिभिर्जप्यं शतगुणं भवेत् ॥ सहस्रगुणमिन्द्राक्षै रुद्राक्षैरयुतं भवेत् । नियुतं प्रयुतं वा स्यात्पद्माक्षैस्तु न संशयः ॥ पुत्रजीवकजप्यस्य परिसंख्या न विद्यते ।'
स एष एतामेवाहरहरहोरात्रं सन्धिषूपतिष्ठमानो ब्रह्मपुत्रो ब्राह्मणः शास्त्रमनुवर्तमानो ब्रह्मलोकमभिजयति य एवं वेद || '
यं ध्यायन्ति चिदात्मानं सततं जप्यपूर्वकम् ।. सोऽस्तु वः श्रेयसे नित्यं जगदादिरजोऽव्ययः ॥
इति द्वितीया काण्डका ॥ १ ॥

 

तृतीया काण्डिका ।
ब्रह्मचर्यव्रतस्याचार्यपूजाविधिद्वारेणावधिमाह
छन्दस्यर्थान् बुद्ध्वा स्नास्यन् गां कारयेदाचार्यमर्हयेत् ॥ १ ॥
छन्दसि वेदे ऋग्यजुःसामलक्षणे मत्रब्रा- ह्मणार्थवादनामधेयभेदयुक्ते ये व्यवस्थिता अर्था द्वादशाध्याय निर्णेयास्तान् बुद्धा तद्यो - ग्यत्वात्, स्नास्यन् दारपरिग्रहार्थं स्नातकधर्मान् ग्रहीतुमिच्छन् आचार्यमधीष्य गां मधुपर्कार्थं कारयेत् स्वधनं दत्त्वा अर्हयेत् । सा मधुपर्को- पयोगिनी सती गुरवे दास्यते । आचार्यो हि शिष्याय सिष्णासवे मधुपर्कं ददाति, शिष्य- श्वाचार्याय दक्षिणामिति केचित् । अन्ये तु गोप्रभवो मधुपर्को गोशब्देन विवक्षित इति व्याचक्षते । तेनाचार्यमधीष्य मधुपर्को में दीयतामिति मधुपर्क कारयेदित्यर्थः । गृही-तमधुपर्कश्च ब्रह्मचारी आचार्यमर्हयेद्दक्षिणा- दिना यथाशक्त्या पूजयेत् । अपरे तु सूत्रभेदेन व्याचक्षते – छन्दस्यर्थान् बुद्धा स्नास्यन् गां कारयेदित्येकम्, आचार्यमर्हयेदिति द्वितीयम् । आचार्यमधीष्यादावात्मने गां मधुपर्कच दापयेदित्याद्यस्यार्थः । आचार्येण च पूजितो गृहीतदक्षिणः सन् ब्रह्मचारी पश्चादाचार्यमर्हयेत् दक्षिणादानादिना । ब्रह्म- चारिणं हि सम्यगधीतावबुद्धवेदमाचार्यः पूर्वं पूजयतीति । तथाच स्मृतिः
'तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा ||' (मनु० ३।३) इति । तं ब्रह्मचारिणं, स्वधर्मेण शिष्यधर्मेण, प्रतीतमभिमुखमागतम्, आचार्यस्य ब्रह्महरं पि- तुर्दायहरं, त्रग्विणं मालाधारिणं, तल्पे खट्टा- यामासीनमुपविष्टं गवा पूजयेदाचार्यः । तस्मान- हीतविद्यो गुरुणानुज्ञातः स्नायात्, स्नात्वा च भार्यामधिगच्छेत् । अनुत्सृष्टस्तु वीर्यं हित्वा उपावर्तते । तथाच श्रुतिः
'इन्द्रो वै प्रजापतौ ब्रह्मचर्यमुवास स वा अनुत्सृष्टो वीर्य हित्वोपावर्तत ॥
इति ।
'आचार्यो ब्रह्मचारिणः प्रजापतिः ।'
इति च ॥ १ ॥
द्विविधो ब्रह्मचारी — उपकुर्वाणो यो ब्रह्म- चर्यं चरित्वा स्नानदारपरिग्रहादिकं संश्र- यते, नैष्ठिको यो ब्रह्मचर्येण निष्ठां गमयति । तत्रोपकुर्वाणकस्य सावधिकं ब्रह्मचर्यमिति त- दपेक्षयोक्तं 'छन्दस्यर्थान्' इत्यादि । नैष्ठिका - पेक्षया त्विदमुच्यते
श्रोत्रियोऽन्यो वेदाध्यायी ॥ २ ॥
अन्यो नैष्ठिको ब्रह्मचारी | श्रोत्रियो वेदा- ध्यायी । 'श्रोत्रियंश्छन्दोऽधीते (पा० सू. ५/२/८४) इति श्रोत्रियशब्दो वेदाध्यायिनि निपातितः । वेदाध्यायीति पुनर्वचनमवधारणार्थं वेदाध्या- य्येव न स्नानाद्याचरति, निधनावधिकमस्य ब्रह्मचर्यव्रतमित्यर्थः ॥ २॥
अत एव स्पष्टार्थमाह
न तस्य स्नानम् ॥ ३ ॥
तस्यानन्तरोक्तस्य नैष्ठिकस्य स्नानं नास्ती- त्यर्थः ॥ ३ ॥
तस्य यस्य तूपकुर्वाणकस्य स्नानादिकमस्ति स्नानकर्तव्यतामाह
अथास्य स्नानं व्रजपरिहितं प्रपाद्य जटाश्मश्रुलोमनखमभिसंहार्य आपो हि ष्ठेति तिसृभिः स्नायात् हिरण्यवर्णा इति च द्वाभ्यां, शं न इति च द्वाभ्याम् ॥ ४ ॥
गोसमूहो ब्रजः, तेन परिहितमधिष्ठितं देशं प्रपाद्य प्रवेश्य प्रयोजक कर्तुराचार्यस्यायं निर्देशः । यथासंभवं जटिलपक्षे जटानां वापनम्, शिखिपक्षे केशानाम् । तेन जटा - दिकमभिसंहार्यापसार्य वापयित्वा आपो हि ष्ठेत्यादिभिस्तिभिः संमार्जनं कुर्वन्तं स्नायात् स्नापयेत् मज्जयेत् । हिरण्यवर्णा इति द्वाभ्यां द्वितीयं मज्जनं कुर्यात्, 'शं न आप' इति द्वाभ्यां तृतीयम् । अत्र च श्मश्रुग्रहणेनौ - ष्ठोपरिगतकेशानामपि ग्रहणम् । लोमग्रहणेन गुप्तस्थानगतानां ग्रहणं नतु वादिवृत्तीनामा- र्यप्रसिद्धिविरोधात् ॥ ४ ॥
ततस्त्रिः स्नातः पवित्री भूत इदमिदं कुर्यादित्याह
द्यौस्ते पृष्ठमिति च्छत्रं धारयेत ॥५॥ इममग्न इति हिरण्यम् ॥ ६ ॥ प्रतिष्ठे स्थो देवते मा मा हिंसिष्टमिति वाराह्योपानहौ प्रतिमुञ्चते ॥ ७ ॥ द्विवस्त्रोअत ऊर्ध्वं तस्माच्छोभनं वासो भर्तव्यमिति श्रुतिः ॥ ८ ॥ वैणवदण्डधारी नित्यम् ॥ ९ ॥ छत्रधारी ॥ १० ॥ अपन्थदायी ॥ ११ ॥ अदत्तहरणं प्रतिषिद्धम् ॥ १२ ॥ अपरया द्वारा निःसरणम् ॥ १३ ॥ मलवद्वाससा सह संभाषा ॥ १४ ॥ रजोवाससा सह शय्या ॥ १५॥ गुरोर्दुरुक्तवचनम् ॥१६॥ अस्थाने स्मयनम् ॥ १७ ॥ सरणम् ॥१८॥ गायनम् ॥ १९ ॥ नर्तनम् ॥ २० ॥ तस्य चेक्षणम् ॥ २१ ॥
अत्र सूत्रगणे पाठक्रमादर्थक्रमस्य बलीय- स्त्वात् उक्तानुक्तपदार्थानामर्थवशेन क्रमवि- शेषयोजना कर्तव्या । तथाहि त्रिःस्नातस्य जलाशयान्नाद्यादेरुत्तीर्णस्य चरणप्रक्षालनाद-
योऽनुक्ताः सूत्रिताश्च धौतवस्त्रपरिधानादयो यथाक्रमेण ज्ञेयाः । द्यौस्ते पृष्टमित्यादि - मन्त्रेण च्छत्रं धारयेत, यथाविभवानुसारेण इममग्न इत्यादिना कटककुण्डलादि हिर- यम् । प्रतिष्ठे स्थ इत्यादिना वाराह्योपानहौ प्रतिमुञ्चते परिधत्ते । वराहशब्दो वराह- चर्मणि वर्तते । वराहचर्मणा निर्वृत्त इत्यण्, तस्य 'अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ( ४।१।७८) इति व्यङ्, 'यङश्चापू' (४|१|७४ ) वारा च ते उपानहौ वारा- ह्योपानहौ । वराहः सूकरः । वराहोपानहौ च राजसूयादावर्थवादादिकादवगम्येते । अन्ये तु वाराह्यशब्दं संनिवेशविशिष्टोपानद्वाचकं व्याचक्षते चतुष्कच्छादितवत् । अपरे लक्ष- या चर्ममात्रम्यत्वं वर्णयन्ति, नहि कश्चिदा- चार्यः सूकरचर्ममय्यावुपान हौ परिदधदृश्यते । केचित्तु पठन्ति वाराघुपानहाविति । तत्र वा- राही उपानहौ इति द्वे पदे । 'छन्दोवत्सूत्राणि भवन्ति' इति प्रथमपदद्विवचनस्य लुक् पूर्व- सवर्णादेशो वा 'सुपां सुलुक पूर्वसवर्ण' (७ १।३९ ) इत्यादिना । द्विवस्त्रोत ऊर्ध्वम्, अतो ब्रह्मचर्यादूर्ध्वं द्विवस्त्रः । ब्रह्मचारी क- वस्त्र आसीत्, मृगाजिनं हि तेनोपरि धारि- तम्, नच तत्र लोके वस्त्र शब्दप्रयोगोऽस्ति । ततश्च वस्त्रद्वयं विभवानुसारेणोत्कृष्टं भर्त व्यम् । तथाच श्रुतिः 'तस्माच्छोभनं वासो भर्तव्यम्' इति । वेणोः संबन्धिनं च दण्डं धारयते तच्छीलो वैणवदण्डधारी । नित्यमिति नत्ववष्टम्भनाद्यर्थितयैव कदाचिदेवेति । एवं छत्रधारी । अपन्थदायी नान्यस्मै पन्थानं दद्यात् दृष्टप्रयोजनव्यतिरेकेण । अपथदायीति तु युक्तः पाठः । यतः 'राज्ञा तु श्रोत्रियाय पन्था देयः' इति गौतमादिभिरुक्तमतः कथमयं श्रोत्रियविशेषः सन्नन्यस्मै प्राणिमात्राय पन्था- नं दद्यात् । अत्तहरणं प्रतिषिद्धं - परकीयं यद्रव्यं तत्परेणादत्तं न गृह्णीयात् 'न पर- स्वमपहरेत्' इति श्रुत्यादिनिषिद्धत्वात् । अपरया द्वारा निःसरणम् । प्रतिषिद्धमिति काण्डिकान्तं यावदनुषङ्गः । प्रसिद्धमविगर्हितं यद्वारं, ततोऽन्यया द्वारा अप्रसिद्धया गुप्तान्त:-
पुरादिनिःसरणप्रवेशाय परिकल्पितया निःस- रणं प्रवेशनं च प्रतिषिद्धम् । मलवद्वासाः श्वप- चादि:, तेन सह संभाषणं प्रतिषिद्धम् । तथा रजोवाससा रजखलया उदक्यापरपर्यायया सह शयनं प्रतिषिद्धं, स्नानस्य विवाहोपक्रमत्वादेव- मुच्यते इतिकर्तव्यतया हि स्नानस्य विवाहमृते नास्ति प्रसक्तिः । गुरोर्मान्यस्य
'वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ (म० २।१३६) इत्यादिकस्य, दुष्टं परुषादि वचनं प्रतिषिद्धम् । अस्थाने गुरुस्त्रीजनादौ स्मयनं हसनं प्रतिषि- द्धम् । एवं सरणं गमनमस्थाने रहस्यगुरुजना- धिष्ठिते । एवं गायनं गीतं नर्तनं चास्थाने प्रतिषिद्धम्, नतूत्सवादौ समानशीलमध्यग- तस्य गुप्तस्थाने । तथाच महाव्रते गीतवाद्यन- र्तनकर्तव्यतावचनम् ।
'तमुद्गाता वाचयित्वा प्रस्तोत्रे प्रयच्छति प्रस्तोताध्वर्य- asध्वर्युरन्यस्मै ब्राह्मणाय ।'
इत्यादिवीणावादनवचनं श्रूयते । याज्ञवल्क्यश्चाह
'वीणावादनतत्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन योगमार्ग निगच्छति ॥' ( ३|११४ )
इति । तस्य च नृत्तगीतादेरस्थानेऽवेक्षणं प्रति- षिद्धं नतूत्सवादौ ॥
'आपो हि ष्ठा' इत्यादयो व्याख्याताः । हिरण्यवर्णा इति शाखान्तरीयत्वात् समस्ताः सूत्रकृता पठिताः ॥
द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षं समुद्रो योनिः । विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यतः ॥
बृहती। अश्वस्तुतौ विनियुक्ता । इह च्छत्र- स्तुतावपि तुल्या । तव द्यौः स्वर्गलोकः पृष्ठ पृष्ठे उपरि । पृथिवी सधस्थं समानस्थानम् । आत्मान्तरिक्षं छत्रावयविनो महत्त्वस्तुतिः । समुद्र उदकं योनिः कारणम् 'अप्सुजोऽश्वः ' इति संस्तवात् अश्वयोनिः सर्वस्योदकप्रभव- त्वान्नेत्रवस्त्रादेश्छत्रमपि तथा । एवं चेन्म- हाप्रभावस्त्वमतश्चक्षुषा विख्याय निरीक्ष्या- भितिष्ठ आकाम अभिभव । कान् । पृतन्यतः पृतना सेना तामिच्छन्ति ये ते पृतन्यन्तः, तान् पृतन्यतः ॥
इमन आयुषे वर्चसे कृधि तिग्ममोजो वरुण संशि- शाधि । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टि- र्यथासत् ॥

इमं सुवर्णालङ्कारमायुषे चिरजीवनाय, वर्चसे च दीप्तये कृधि कुरु । हे वरुण त्वमपि ओजो बलं तिग्मं तीव्रं सम्यक् संपा- द । हे अदिते देवमातः अस्मै स्नातकाय शर्म सुखं यच्छ प्रयच्छ मातेव जननीव । हे विश्वे देवाः सर्वदिवौकसः जरदष्टिर्जराव्याप्ति- यथा येन प्रकारेण असद्भवति, तथा कुरुत जराजर्जरितशरीरा यथा संपद्यामहे तथा कुरुतेत्यर्थः ॥
प्रतिष्ठे स्थो देवते मा मा हिंसिष्टम् ॥
हे देव उपानहौ सुप्रतिष्ठे स्थः शोभन- प्रस्थाने भवतम् । मा मा हिंसिष्टं मम हिंसां

इति तृतीया काण्डका ॥ ३ ॥

 

अथ
चतुर्थी काण्डका ।
अथातोऽष्टाचत्वारिंशत्संमितम् ॥ १ ॥
व्याख्यास्याम इत्यध्याहारः । व्रतमिति च प्रस्तावाद्गम्यते । चतुर्षु वेदेषु यदष्टाचत्वारिंश- त्संवत्सरैः संमितं परिच्छिन्नं व्रतमुक्तं, तस्य प्रतिनिधिभूतं संवत्सर निर्वर्त्यं व्याख्यास्यामः । यस्य वेदमधीयानस्य यथाकालविहितं व्रतं न संपन्नं, तेन चैतत्कर्तव्यमधीतवेदचतुष्टये- न च । अत एव त्रैविद्यकव्रतमिदमुच्यते । स्नानादनन्तरं चास्याभिधाने प्रयोजनं - स्नात- कभूतेनाप्येतत्कर्तव्यं प्राग्विवाहादिति । अन्ये तु यथाकालविहितव्रतसंपत्तावपि एतद्वार्षिकं व्रतं तपोऽतिशय सिद्ध्यर्थं कर्तव्यतया अनेन विधीयते इति व्याचक्षते । अथशब्दो व्रतपू- रणार्थः । यथोक्तम्
'मङ्गले पूरणे हेतावानन्तर्याधिकारयोः ।
षट्स्वर्थेष्यथशब्दोऽयं स्मृतः प्राक्प्रस्तुतेऽपि च ॥' अन्योऽपिचार्थो यथासंभवं योज्यः । अतः-
शब्द हेत्वर्थः । यतोऽध्ययनकाले यथाविहित- व्रतासंपत्तिः कस्यचित्संभाव्यते, अतो हेतोः प्रतिनिधिभूतं व्रतान्तरं वक्ष्याम इति ॥ १ ॥
तत्र विधिविशेषः ॥ २॥
उच्यत इति शेषः ॥ २॥
नियमेष्वाचार्यप्रधानः स्यात् ॥ ३ ॥
स्थानासनादिकान् वक्ष्यमाणान्नियमान् आचार्य मादाय कुर्यात् । आचार्यप्राधान्येन च वेदगुणनार्थाभ्यासावनुवर्तेते ॥ ३ ॥
निलयार्थी यूनबद्धं न प्रविशेत् ॥ ४ ॥
शीतातपभीतो निलयार्थी भूत्वा यूनबद्धं मिश्रवेणुवीरणकाण्डादिनिबद्धं कुटीशालाप- र्णादिकवासविशेषं न प्रविशेत् ॥ ४ ॥
अनिलयः स्यात् ॥ ५॥
न केवलं परनिर्मितमाश्रयविशेषं न प्रवि- शेत् यावता स्वयं निलयमात्रमपि न कुर्वी- तेत्यर्थः ॥ ५ ॥
यद्येवं वात्याकरकदृष्ट्याद्युपलवाद्देहभङ्गः स्यादित्याशङ्कयाह
अन्यत्र वृक्षाद्वल्मीकाद्वा ॥ ६ ॥
वृक्षादिकमाश्रयेदित्यर्थः । वल्मीकं वल्मीभूम्यादि ॥ ६ ॥
निस्तान्तवमित्येके ॥ ७ ॥
तन्तुर्वेणुरिति केचित् शीताद्युपहतो वंश- निर्मितव्यतिरेकेयाश्रयान्तरं विशेत् । रज्जुस्त- न्तुरित्यन्ये, रज्वादिबन्धैर्यन्निर्वृत्तं शालादि, तत्तान्तवम् ॥ ७ ॥
यथोक्तमेकं तु वासः शाणी कुतपं वा ॥८॥
यत्पूर्वमुक्तमेकं वासः, तदेवात्रापि । इयांस्तु विशेष :- इह शाणी कुतपं वा । शाणी वरासिः, न पुनः क्षौमी प्रसिद्धा, क्लिन्नकुट्टितदर्भनिर्मि- तेति त्वन्ये । अजलोमनिर्मितं कुतपम् ॥ ८ ॥ अस्य वाससः परिमाणमाह
परिमितमुरःप्रमाणमुपरिजानु ॥ ९ ॥
उरस आरभ्य जानुनोरुपरिभागं यावळ्या- मोति तावत्परिमितमेतत्कर्तव्यमेकमेव त्रै-
विद्येन । अध्ययनकाले तु अधोभागे पटो- लिका वासीदुपरि तु मार्ग चर्म, तच्च वास इति नोच्यते लोके इत्युक्तम् ॥ ९ ॥
चतुर्थकालपानभक्षः ॥ १० ॥
'सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् |' (संवर्त ० ) इति भोजनकालः । तत्र प्रथमदिनस्य सायंप्रातर्लक्षणं कालद्वयं द्वितीयदिनस्य च प्रातःकालं वर्जयित्वा सायं चतुर्थे काले भोजनपाने कुर्यादित्येके । एकदिन व्यवधा नेन एककालं भुञ्जीतेत्यर्थः । अन्ये त्वाहुः- पीयते इति पानं क्षीरतकादि तदेव चतुर्थ- काले पश्चिमप्रहरे भक्षोऽस्येति, क्षीरादिपानीये भक्षशब्दो दृष्टः 'अब्भक्षो वायुभक्षः' इति ॥
असंचयवान् ॥ ११ ॥
हिरण्यादि संचयं न कुर्वीतेत्यर्थः ॥ ११ ॥
अहरहर्वा भैक्षमश्नीयात् ॥ १२ ॥
भिक्षाणां समूहो भैक्षम् । पूर्वेण भिक्षाणा- मपि संचयस्य प्रतिषेधे प्राप्ते प्रतिप्रसवोऽनेन क्रियते । प्रतिदिनं भैक्षमश्नीयात् । शरीरा-
पाटवे तु कदाचिदेकामपि भिक्षामश्नीयात्, अ- टितुमशक्तः सक्तकणिकादिकं वा । तावन्मात्रं संचिनुयादित्यनेनाभिप्रायेण वाशब्दः ॥ १२ ॥
अहस्तिष्ठेद्रात्रावासीत ॥ १३ ॥
कालाध्वनोरत्यन्तसंयोगे अहः शब्दाद्विती- या । अहनि तिष्ठेदेव ऊर्ध्व एवासीतेत्यर्थः । रात्रावासीतोपविशेत् । अतिश्रान्तः स्वप्यादपि कदाचिदन्तरा मनाक् । अत्यन्तसंयोगाभावात् द्वितीयाविरहः ॥ १३ ॥
उभयं मुनिव्रतः स्यात् ॥ १४ ॥
उभयमहोरात्रं वाक्संयमं कुर्यात् । मुनीनां व्रतमेतत् ॥ १४ ॥
स्त्रीशूद्रपतितरभसरजस्वलैर्वा न संभाषयेतेति च्यवनो भृगुः ॥ १५ ॥
भार्गवस्तु च्यवनो मन्यते ख्यादिभिरेव न संभाषेत, नतु सर्वैः । संभाषयेतेति स्वार्थे 'णिच 'रामो राज्यमकारयत्' इतिवत् । पतिता- त्रैवर्णिका अपि । रभसा अपृष्टवक्तारो भण्डव- न्दिप्रभृतयः । रजखलास्तु ये रक्तेन शरीरम- वलिप्य भोजनादिकं दापयन्ति ॥ १५ ॥
द्वादशरात्रं वोभयतोऽमावस्यां पौर्णमासीं च ॥ १६ ॥
असमर्थापेक्षमेतत् । संवत्सरस्योभयोरार- म्भसमाप्तिलक्षणयोः पार्श्वयोर्द्वादशरात्रमेत- स्थानासनवाग्यमप्रभृतिकं कुर्यात् पौर्णमा- सीममावस्यां च । तेन संवत्सरमध्ये अष्टाच- त्वारिंशदिनानि भवन्ति । उपक्रमोपसंहारयो- दशरात्रद्वयं द्वादश पौर्णमास्यः, द्वादशामावस्याः ॥ १६ ॥
पालाश्यः समिधो नित्याः परिधिवृक्षाणां वा ॥ १७ ॥
या ब्रह्मचारिणो नित्याः समिधः, ता इह पालाश्यः । पलाशालाभे प्रतिनिधिः, प्रतिनि- धाने च परिधिवृक्षाणां वा, परिधिवृक्षाणां संब- न्धिन्यो ग्राह्याः । परिधिवृक्षाश्च यूप्याः बि- 'ल्वखदिरपलाशरोहीत कोदुम्बरबधिरप्रभृतयः । तथाच ब्राह्मणं श्रुतिश्च
'वैल्वो वा खादिरो वा पालाशो वा रौहीतको वा सौम्य - स्वाध्वरस्य यूपः स्यात् । औदुम्बरो यूपो भवति ।' 'खादिरे भाति पालाशे भाति रौहीतके बध्नाति ॥'
इति । यज्ञिया वा सर्वे परिधिवृक्षाः । श्रूयते हि परिब्राह्मणम्
'तस्येन्द्रः परिधीन्यज्ञियेम्यो वृक्षेम्य आजहार' इति । परिधिवृक्षत्वादेव पालाशीनां सिद्धेः पृथग्ग्रहणं तासां नित्यत्वार्थं तथाचेह नित्य- ग्रहणम् । ननु मूलप्रकृतावेव कस्मान्नोक्तम् । साधूच्यते भवता किंतु ज्ञापकार्थं भविष्यति यथा साद्यस्क एवमुक्तं मध्यमायां संस्थि- तायां यूपकर्मेति, प्रकृतौ चोक्तमुपसत्सु यूपकर्मेति । तत्र कालाकाङ्क्षायां सत्यां विकृ- तिरपि प्रकृतिं गृह्णाति इत्येतमर्थमवबोध- यितुमेवं सूत्रितवानाचार्यो विरोधाभावात् । एवमन्यत्रापि तुल्यन्यायत्वाद्योज्यम् । तेनां- होमुग्भिः समिद्दानेऽप्येवं जानीयादेव
'तस्येन्द्रो यज्ञियेभ्यो वृक्षेभ्यः परिधीनाजहार ।
इति ॥ १७ ॥
मेधां मह्यमिति पाणिना मार्ग दत्त्वा त्रिषवणमहोरात्रमुदकोपस्पर्शनम् ॥१८॥
कुर्यादिति शेषः । मेधां मह्यमङ्गिरस इत्यादिभिर्मंत्रैः द्वाभ्यां नाभेरारभ्योर्ध्व ब्रह्मद्वारप- र्यन्तं मार्जनं निघर्षणात्मकं कृत्वा
'नाभेरूर्ध्वमेव पाणिना उन्मार्ष्टि '
इति स्मृतेः प्रातःसवने मध्यन्दिनसवने तृतीयसवने इति सवनत्रयेऽपि रात्रिभागत्रये - प्येवमुदकोपस्पर्शनं कुर्यात् । उपस्पर्शनमिह स्नानम् । उपस्पर्शनशब्दो ह्याचमनस्पर्शनस्त्रानेषु दृष्टः, 'उपस्पृश्य स्वस्त्ययनं भवति' इत्यादावाच- मने, न कुल्याद्यन्तरागमननिमित्तप्रायश्चित्तभूते सदाचारादिसिद्धे; 'उपस्पृश्य सोममालभेरन् ' इत्यत्र स्पर्शे; 'आलभ्य चोपस्पृशेयुः' इत्यत्रा- प्युदकाचमनमात्रे; 'रथ्यादावुपस्पृशेत्' इत्यादौ स्नाने । तत्र प्रकरणवशाद्विशेषव्यवस्था । यथा सैन्धवशब्दादेरश्वलवणमनुष्येषु ।
दिवा वातार्कसंयोगाद्रात्रौ नक्षत्रमारुतैः । सन्ध्ययोरग्निवाताभ्यां पवित्रं सर्वदा जलम् ॥ तत्र चाग्निं प्रतिष्ठाप्य सुवर्ण संनिधायेति वदन्ति । अस्तमिते वसतीवरीग्रहणवत् 'अर्वै वाक्' इत्यभेदात् अग्न्यभावेऽपि वागु- चार्या एवं रात्रावाचमनाद्यपि कुर्यात् ॥ १८ ॥
एवं स्नात्वा
नमो हमाय मोहमायेति चानुसवनमग्नये वैश्वानराय तपाय तापसाय तपन्ताय विन्दवे विन्दाय वसुविन्दाय सर्वविन्दाय नमः पाराय सुपाराय पारयन्ताय शान्ताय, नम ऊर्म्याय सूर्म्याय, नमः च्यवनाय भार्गवाय इत्येता एव देवतास्तर्पयन्नुदकेन ॥ १९ ॥
एता एव देवतास्तर्पयन्नुदकेन तर्पयन्नमः- शब्दावच्छिन्नैर्मत्रैश्चतुर्भिरुपस्पर्शनं कुर्यादिति संबन्धः । आदित्य एवोपाध्यवच्छिन्नोऽत्रानेक- देवतारूपोऽभिमतः । तथाच हम आदित्यो गन्तृत्वेन स्तूयते । 'द्रमहम्ममीमृगतौ' इति हम्मेः रूपं हम इति । 'मीञ् हिंसायाम्' इत्यस्य त्वप्रत्यये रूपं छान्दसम्, मोहमायेति अन्ध- कारापसारकायेत्यर्थः । तपतीति तपः । तप- श्चचारेति तापसः आदित्य एव प्रजापतिरूपेण स्तुतः । तप्यते इति तपः ब्रह्माण्डादिसर्गः, तं तनोति उत्पादयतीति तपन्तः 'सर्वे विधयइछ-
दसि विकल्प्यन्ते' इति सुपो लुक् । विन्दते चेतयते इति विन्दुः, विन्द्यते चेत्यते इति विन्दः चेत्य चेतयितृरूपः प्रजापतिस्तस्मै नमः । वसु विन्दते वसुविन्दः, एवं सर्वविन्दः ' तयोर्विशेषणसमासः । 'पारतीरकर्मसमाप्तौ, पारयतीति पारः । पारयन्तं तनोति पारयन्तः । ऊर्मीन्रश्मिकल्लोलान र्हतीति ऊर्भ्यः । एवं सूर्यः । चयावयतीति च्यवनः । भृज्जति पाच- यति भूतानीति भृगुः, तस्यापत्यं भार्गवः -भानुरेवात्र ॥ १९ ॥
एष संवत्सरं चरित्वा विमलो विपापो भवति ॥ २० ॥
एष ब्रह्मचारी स्नातको वा प्रकृतः संवत्स- रमुक्तं व्रतं चरित्वा, विमलो रागादिमलशून्यो विगतपापश्च भवति ॥ २० ॥
पापाभावप्रदर्शनेनाध्ययनाङ्गत्वविहिताध्य- -यनकालव्रताकरणनिमित्तप्रायश्चित्ततामस्य सं- वत्सरव्रतस्य दर्शयति
सर्वेषां वेदानां चरितब्रह्मचर्यो यदि नान्यत्कुरुते ॥ २१ ॥
यद्यन्तं वेदाध्ययनकाले न कुरुते, तदासिंस्तत्प्रतिनिधिभूते संवत्सरबते कृते सति चतुर्णामपि वेदानामधीतानां चरित- ब्रह्मचर्यः संपयते व्रतपरिपूर्ण वेदचतुष्टयाध्य- नमस्य संपद्यत इत्यर्थः । ये तु स्वतत्रमेवेदं सं- वत्सरव्रतं त्रैविद्यकस्य तपोतिशयार्थं वर्णयन्ति, त एवं व्याचक्षते - पूर्वेण सहास्यैकवाक्यता, एष संवत्सरव्रतं चरित्वा सर्वेषां वेदानां चरितव्रतः सन् विमलो विपापश्च भवति, यदि तन्मध्येऽन्यन्निषिद्धाचरणं न कुरुते ॥ २१ ॥
स तु खलु चरितब्रह्मचर्यो दश दश पुरुषान्पुनाति पूर्वापरान् आत्मानं चैकविंशम् ॥ २२ ॥
तुशब्दः फलान्तरसमुच्चये । खलुर्निश्वये ॥ २२ वैदिकत्वप्रसिद्धि द्योतनाय च फलान्तरमाह
पङ्क्तिं च यावदनुपश्यति यस्यामुपविशति ॥ २३ ॥
पुनातीत्यनुषङ्गः । यान्पश्यति तानपङ्क्तिपाव-
नानपि पङ्गिपावनान्करोति तपोबलात् यांश्चै- कपयुपविष्टान्न पश्यत्यपि, तानपि पावयति २३
समाप्त एतासामेव देवतानामन्नस्य जुहोति । धेनुर्दक्षिणा ॥ २४ ॥
एतस्मिन्व्रते समाप्ते, पूर्वोक्तदेवताभ्योऽन्नं जुहोति तण्डुललक्षणं स्थालीपाकं वा । 'छन्दोवत्सूत्राणि भवन्ति' इति सुब्व्यत्ययः । अन्नशब्दो हि कृते कृते विपक्के च दृष्टः 'हेषिभि निधनं कुर्यादन्नकामाय' इत्यकृतवचनः, 'अन्नं प्रयोति घृतं मधु तण्डुलान्' इत्यादौ कृत- 'योsन्नमश्नीयात्' इत्यादौ विपकव-
वचनः,
चनः । त्रिविधमपि ब्रीहितण्डुलस्थालीपाकरूपं पर्यायेण यथास्वं निर्वाह्यम् ॥
मेधा मामङ्गिरसो मेधां सप्तर्षयो दधुः । मेधामग्निश्च वायुश्च मेधां धाता दधातु मे ॥ १ ॥ मेघां मे वरुणो राजा मेधामनिर्दधातु मे । मेघामिंद्रश्च सूर्यश्च मेधां देवी सरस्वती ॥ २ ॥ या मेधा अप्सरस्सु गन्धर्वेषु च यन्मनः । दैवी मनुष्ये या मेधा सा मामाविशतादिह ॥ ३ ॥
शरीरं मे विचक्षणं वा मधुमहुहे ।
निशामितं निशामये मयि श्रुतम् ॥ ४ ॥ यन्मेऽनूक्तं तद्रमतां शकेयं यदनुबुवे ।
प्रियाः श्रुतस्य भूयास्म मेधया संविधीमहि ॥ ५ ॥ नमो हमाय मोहमाय ||
सयजुष्कः पंचर्चः । अङ्गिरसो देवाः मह्यं मेधां बुद्धिं दधुर्दधतु मदर्थं कुर्वन्तु ददतु वा मह्यम् । कश्यपादयश्च सप्तर्षयो मेधां दधतु । तथाग्निर्वायुः धाता प्रजापतिर्मेधां मे दधातु । एवं राजा वरुणोऽग्निरिन्द्रश्च सूर्यश्च मह्यं मेधां दधातु देवी च सरखती । तथाप्सरःसु च या मेधा स्थिता, गन्धर्वेषु च यत् मनः स्थितं, त- दुभयमिहैव मानुषशरीरे सति मामाविशता- प्रविशतु । या च मनुष्यविशेषे दैवी अमानुषी मेधा, सापि मामाविशतात् । मम च शरीरं विचक्षणं विपश्चित् सकलकलाकोविद्मस्तु । वाक् सरखती त्रयीरूपा मे मम मधुमत् मधु- रविपाकं स्वर्गापवर्गादिकं फलं दुहे दोग्धु । यच्च मयि श्रुतं जातं, निशामितं चावबुद्धं मयासीत्, तत् निशामये निशामयेय स्मरणशक्तिस्तत्र म- मास्त्वित्यर्थः । यच्च ममानूक्तं गुरुणा निगदितं,
तद्रमतां शतशाखं शिष्यप्रशिष्यादीन् प्रसरतु फलपर्यवसायि सत् । यच्चानुबुवे निगदितुमि- च्छामि, तच्छन्नुयाम् । तथा वयं श्रुतस्य प्रियाः भूयास्म श्रुतमस्माकं फलदानप्रसादपरमस्तु । मेधया च संविधीमहि सम्बध्येमहि वयम् । यजुर्व्याख्यातम् ॥ २४ ॥
इति चतुर्थी काण्डका ॥ ४ ॥

अथ
पञ्चमी काण्डिका ।
3
येनाधीयानेन यथाविहितव्रतानि नानुष्ठि - तानि, नापि संवत्सरव्रतं पश्चात् तं प्रति प्रायश्चित्तान्तरं स्वतत्रं वा तपोऽन्तरं पूर्ववत्कृच्छ्रादिकमाह
अथ कृच्छ्रविधिं व्याख्यास्यामः ॥१॥
कृतमकुशलं विहिताकरणप्रतिषिद्धसेवन- लक्षणं कर्म च्छ्रदति इति कृच्छ्रः । तथानन्तरमेव वक्ष्यति 'सर्वाकुशलमोक्षाय' इति । गौत- मोह
'अथैतांस्त्रीन्कृच्छ्रांश्चरित्वा सर्ववेदेषु स्वातो भवति, सर्वेषु तीर्थेषु स्वातो भवति ।'
इति । त्रीनिति कृच्छ्रमहाकृच्छ्रतप्तकृच्छ्रान् । कृतस्य पापस्य च्छ्रदनं वा कृच्छ्रमिति निर्व- चनम् । वर्णलोपश्छान्दसत्वात् कृच्छ्रशब्दस्य । तथाच चारायणिसूत्रम् 'पुरुकृते च्छच्छ्रयोः ' इति पुरुशब्दः कृतशब्दश्च लुप्यते यथासंख्यं
छे छे परतः । पुरुच्छदनं पुच्छम्, कृतस्य
च्छ्रदनं विनाशनं कृच्छ्रमिति ।
दुस्तरं गहनं कृच्छ्रं कष्टं दुष्करमित्यपि । लोकप्रसिद्धपर्याये लिप्याप्यर्थोऽस्य गम्यते ॥ कृच्छ्रस्य विधिः प्रभाव इतिकर्तव्यता कृच्छ्र- विधिः, तं व्याख्यास्याम इति शिष्यबुद्धि- समाधानार्थमिदं वाक्यम् । एवमन्यत्राप्य- नुसर्तव्यम् ॥ १ ॥
स्तुत्यर्थमात्मार्थं चास्य व्रतस्य पुराकल्पार्थ-
वादमाह
देवासो यथाचरन्वसवो रुद्रा आदित्या मरुदङ्गिरसः पुरा ॥ २ ॥
देवादीनामेवात्र व्रते आर्षम् । प्रशस्तं चैतद्देवादिभिः पापविमोक्षायानुष्ठितत्वादिति तात्पर्यार्थः । देवा एव देवासः 'आज्जसेर - सुकू (७|१|५०) । येन प्रकारेण देवादय आ- चरन्तं प्रकारं वक्ष्याम इत्यन्वयः ॥ २ ॥
स्त्रीशूद्रं नाभिभाषेत ॥ ३॥
स्त्रीमात्रं शूद्रमात्रं च न संवादयेत्कृच्छ्रं चरन् ॥ ३ ॥
 देवपालकृतभाष्योपेतानि ।
नक्तमासीत संश्रितः ॥ ४ ॥
कुड्यकाष्ठादिकमालम्बनमात्रमाश्रितः सन् रात्रावासीतैव उपविशेत् श्रमातिशयनिवृत्तये, नतु सुप्यात् । एवं हि सातिशयं तपो भवति । अतिश्रान्तस्तूपविष्ट एवान्तरान्तरा मनाक् स्वापं कुर्वीत शरीरापायस्यावश्यवर्जनीयत्वात् नतु शय्यामारोहेत् ॥ ४ ॥
सर्वाण्यहानि तिष्ठेत् ॥ ५॥
दिनेषु सर्वेषु तिष्ठेदेव, नतूपविशेत् ॥ ५ ॥
ब्रह्मचारी ॥ ६ ॥
ब्रह्मचर्यचरणशीलः । एतेन गृहस्थस्याप्य- धिकारं दर्शयति ॥ ६ ॥
क्षपाशयः ॥ ७ ॥
यदि श्रमातिशयमपनोदयितुं मनाङ्गिद्रां कु- र्यात् तदा क्षपायामेव कुड्याद्यवष्टम्भेनोपविष्टः सन्, नतु कथंचिदपि दिवा शय्यायां वा ॥७॥
मधुमांसलवणश्राद्धानि वर्जयेदविचारयन् ॥ ८ ॥
'अकामोपेतं मधु न दुष्यति'
इति वाजसनेयकादौ यद्दृश्यते, तथा
.............
इति,
6
इति,
•• सैन्धवं तु न दुष्यति ।'
दत्त्वा तु देवविप्रेभ्यः खादन्मांसं न दुष्यति । '
( मनु० ५/३२ )
( मनु० ३।२३४ )
'व्रतस्थमपि दौहित्रं श्राद्धे यत्तेन भोजयेत् ।'
इत्याद्यागममविचारयन्नेव प्रयत्नविशेषेण म-
ध्वादीन्यत्र व्रते वर्जयेत् ॥ ८ ॥
गवाजिनं शाणीचीरं कुतपं मार्गं वा वास उच्यते ॥ ९ ॥
गवाजिनं गोचर्म । शाणीचीरं वरासिखण्डः । मृगस्येदं मार्ग चर्म । कुतपमुक्तम् ॥ ९ ॥
सर्वाकुशलमोक्षाय मरुतोऽप्याचरंस्तथा ॥ १० ॥
अध्ययनकाले वैगुण्यकृतस्येवान्यकाल- कृतस्यापि समस्तस्येह जन्मकृतस्य पूर्वजन्मवि- हितस्य च अकुशलस्य पापस्य कर्मणो मोक्षाय विनाशायैतद्वतं भवति सम्यक् कृतं सत् ।
तथाच मरुदादयोऽपि तादर्थ्येनैवाचरितवन्तो- सम्भाव्यमानव्यामोहा इति दृढप्रमाणकमे-
तत् ॥ १० ॥
त्र्यहं सायं त्र्यहं प्रातस्त्र्यहं भुञ्जेदयाचितम् ।
त्र्यहं नैव तु भुञ्जीत ।
एतद्वसुभी रुद्रैरादित्यैश्चरितं व्रतम् ॥११॥
मरुद्भिश्चेति विज्ञेयम् | त्रीण्यहानि सायमेव भुञ्जीत होमकालादूर्ध्वम्, त्र्यहं प्रातरेव त्र्यहं त्वयाचितं लब्धमेव भुञ्जीत, त्र्यहं तूपवस- नम्, - इति क्रमेणैव द्वादश दिनानि व्रतम् । एतत्कृच्छ्रं व्याख्यातम् । अस्य प्राजापत्यमिति नाम । एवंप्रकारं क्लेशसाध्यमन्यदपि कृच्छ्र- शब्देनोच्यते कूर्चसान्तपनादिकम् ॥ ११ ॥ एतमेव प्रकारमतिकृच्छ्रेऽतिदिशन्नाह
एष एवातिकृच्छ्रस्य विधिरेवं विधीयते ॥ १२ ॥
यः कृच्छ्रस्य प्रकारः स्थानशयनब्रह्मच र्यादिक उक्तः, स एष एवातिकृच्छ्रस्य विधिः ।
यद्येवमभेद एव स्यात् तदत्र कोऽतिदेशावका- शोऽस्य भिन्नविषयत्वादित्याशंक्याह एवं विधी - यते इति, विशेष इति शेषः ॥ १२ ॥
तथाचाह
एतेष्वेव तु कालेष्वेकैकं पिण्डं प्राश्नीयात् ॥ १३ ॥
भोजने विशेष इत्यर्थः । तथाचैतेष्वेव सा-. मादिषु भोजन कालेष्वेकैकं ग्रासमश्नीयाद- तिकृच्छ्रं चरन् । पिण्डंप्रमाणं त्वस्याविकारेण यावद्वासो मुखे वर्तते पाणिपूरणभोजन इति ॥ १३ ॥
इति पंचमी काण्डिका ॥ ५ ॥

अथ षष्ठीकण्डिका ।
तप्तकृच्छमाह
तप्तकृच्छ्रं व्याख्यास्यामः त्र्यहमुष्णाः पिवेदापस्त्र्यहमुष्णं पयः पिवेत् । त्र्यहमुष्णं पिवेत्सर्पिर्वायुभक्षः परं त्र्यहम् ॥ १ ॥
कृच्छ्रकालेष्वेव सायमादिषु उष्णजलपा- नादिकम् । पयः क्षीरम् । सर्पिख्यहमयाचितम् । वायुभक्ष इति वायुमेवोपजीवेत् पवित्रतार्थं शरीरसन्धारणार्थं च, नत्वन्यत्किमपि भुञ्जीत पिवेद्वेति तीव्रोपवासनत्रयविधानमेवैतत् ॥१॥
बृहस्पतेस्तु कूर्चस्य एष एव विधिः स्मृतः ॥ २॥
बृहस्पतेरित्यार्षम् । प्ररोचनार्थं कूर्च इति संज्ञा । यः कृच्छ्रस्य स्थानासनादिप्रकार उक्तः, स एव कूर्चस्यापि । तुशब्दोऽप्यर्थे भिन्नक्रमः॥ २॥
पूर्ववद्विशेषमाह
यवागूं यावकं शाकं
पयः सर्पिः कुशोदकम् ।
त्र्यहं त्र्यहं तु प्राश्नीया-
द्वायुभक्षः परं त्र्यहम् ॥ ३ ॥
यवागूरपातितुषयवसम्पाद्या पेयप्राया प्र सिद्धा । यावकोऽपि तद्वत् स तु भक्तप्रायः कठिनः । शाकं तु हविष्यमेव, नवविशेषेण 1 एवं भोजनेऽपि सायमादौ कृच्छ्रादौ ज्ञेयम् । कुशोदकमिति समाहारनिर्देशात्सहोपयोगः । तेन सप्त त्र्यहा भवन्ति ॥ ३ ॥
इति षष्ठी काण्डका ॥ ६॥
 
अथ
सप्तमी कण्डिका ।
अथ सान्तपनम् ॥ १ ॥
कृच्छ्रविधिं व्याख्यास्याम इति वाक्यशेषः । अथशब्दः पृथक्स्थानतां पूर्वेभ्यो द्योतयति ॥ १ ॥
मरुतां होमो मरुतस्तर्पयेत् ॥ २ ॥
मरुतामेवात्रार्षम् । अतस्तेषामेव होमः । तानेव चोदकेन तर्पयेत् । इयमपि चैतत् स्नाना-
दूर्ध्वम् ॥ २ ॥
गोमूत्रं गोमयं क्षीरं
दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च
कृच्छ्रसान्तपनं स्मृतम् ॥ ३ ॥
कृच्छ्ररूपं च तत्सान्तपनं कृच्छ्रसान्तपनम् । कुशोदकमेकत्राहनि, गोमूत्रादिकमेकैकमहन्य- हनि, एकरात्रोपवासश्चेति सप्तरात्रः ॥ ३ ॥
एतदेव त्रिरभ्यस्तं
महासान्तपनं स्मृतम् ॥ ४ ॥
एतदेव सान्तपनं यथास्थानं गोमूत्रादिभक्ष- णमुखेन त्रिरभ्यस्तं दण्डकलितकेन वा महा- सान्तपनं भवति । तेन भंग्या सान्तपने सप्तो- पवासाः, महासान्तपने चैकविंशतिः पर्यवस्य- न्तीति महदेतत्तपः । यत्तु याज्ञवल्क्ये सान्तप- नस्य यहत्वं, महासान्तपनस्य च सप्ताहत्वं प्रती- यते, तदपि विकल्पेन शक्तिविशेषभावापेक्षया पुरुषान्तर एव कल्प्यते सर्वस्मृतीनां प्रामा- ण्यात् । नत्वेतावता सर्वत्र संकोच व्याख्यया क्लेशोऽनुभवनीयः । तत्र याज्ञवल्क्यवचनम् 'पंचगव्यं तु गोक्षीरं दधि मूत्रं शङ्खतम् । जग्ध्वापरेऽह्नयुपवसेत्कृच्छ्रं सान्तपनं चरन् ॥' (३।३१४) अनेन पंचगव्यादीनामेकत्राहन्युपयोगः, द्वि- तीये तूपवास उक्तः, यतो महासान्तपनमाह 'पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥' (३।३१५) इति । अत्र पंचगव्यादीनां पृथगुपयोगात् षडहानि, सप्तमेऽहन्युपवासः ॥ ४ ॥
इति सप्तमी कण्डिका ॥ ७ ॥

अथ
अष्टमी काण्डिका ।
सर्वेषां कृच्छ्रव्रतानां द्वादशाहादधिकत्वं, गौणत्वं तु द्वादशाहस्येति तेन तदीया एव मादयोऽत्र गुणत्वेन योजयितव्या इत्यभि- प्रायेण गुणविशेषमाह
अथात्र व्रतोपायनम् ॥ १ ॥
एतेषु समस्तेषु कृच्छ्रेषु अत्र यत्पूर्वं व्रतमुक्तं व्रतनियमाश्चेति तस्योपायनं ग्रहणोपाय इति- कर्तव्यता द्वादशाहादित्युच्यते, त्यागोपायश्च तत एवेति ज्ञेयम् ॥ १॥
वसवो व्रतपतयो रुद्रा व्रतपतय आदित्या त्रतपतयो मरुदंगिरसो व्रतपतय इति व्रतमालभ्य, वसूनद्भिस्तर्पयेत प्रथमेsस्मिँस्रित्रात्रे, रुद्रान् द्वितीये, आदित्यांस्तृतीये, मरुदंगिरसश्चतुर्थे ॥ २ ॥
प्रथमस्य त्रिरात्रस्य प्रथमेऽहनि स्नात्वाग्नि-
समीपे ' वसवो व्रतपतयः' इत्यादिभिर्मन्त्रैर्ब्रतं गृह्णीयात् । ' वसवो व्रतपतयो व्रतमालभे तद्वः प्रब्रवीमि तच्छकेयं तेनर्ध्यासम् |' इत्यादि- मन्त्रलिङ्गाद्धि संसिद्व्यन्तत्रतग्रहणानुज्ञासिद्धये देवताभ्यर्थनं प्रतीयते । तथा व्रतान्ते व्रतत्यागः कर्तव्यः 'वसवो व्रातपतयो व्रतमचारिषं तदशकं तद्वः प्रब्रूमस्तन्नो गोपाय' इत्यादिभिः । एवमेतै- चतुर्भिर्मन्त्रैर्व्रतमालभ्य प्रथमे त्रिरात्रे अद्भिर्वसू- न्प्रत्यहं तर्पयेत्, द्वितीये रुद्रान् तृतीये आदि- त्यान् । चतुर्थे त्रिरात्रे मरुदङ्गिरस उदकेन सन्तर्पयेत् ॥ २ ॥
'आ मे गृहाः' इति द्वाभ्यां वसूनां स्थालीपाकस्य जुहोति ॥ ३ ॥
प्रथमे त्र्यहन्यहनि चरुणा मन्त्रद्वयेन वसुभ्यो होमः कार्यो ब्रह्मचारिस्नातकाभ्यां लौकिasa, गृहस्थेनाहवनीये गृह्येन वा ॥३॥
'असंख्याता' इति दशभी रुद्राणाम् ॥४॥
होम: कार्यो द्वितीये त्र्यहे ॥ ४ ॥
'कदाचन स्तरीरसि' इति पंचभिरादित्यानाम् ॥ ५ ॥
तृतीयत्र्यहविषयमेतत् ॥ ५॥
'सान्तपना:' इति षड़भिर्मरुद्गणानां 'त्वामग्ने अंगिरसो ' 'वायुरग्रेगाः ' ॥६॥
चतुर्थे त्र्यहे मरुद्गणानामंगिरसां चाहन्य- हनि होमो यथायोग्यमेतैर्मन्त्रैः कर्तव्य इत्यर्थः॥ ६ ॥
हव्यवाहमिति स्विष्टकृतम् ॥ ७
हव्यवाहमित्यादिमन्त्रेण स्विष्टकृतं जुहुयादविशेषेण सर्वेषु त्र्यहेषु ॥ ७ ॥
वसवो व्रतपतयो व्रतमालभे तद्वः प्रत्रवीमि तच्छकेयं तेनर्ध्यासम् ॥
हे वसवो वासयितारः यतो यूयं त्रतपतयो व्रतस्य पालयितारस्तत्तस्माद्युष्मान्प्रब्रवीम्यभ्य- ये अहं व्रतमाल आरभे, तस्माद्युष्मत्प्रसा- दादहं शकेयं शक्नुयां पारयेय, तेन च व्रतेन संपन्नेन ऋयासं समृद्धिं फलविशेषात्मिकां प्राप्नुयाम् ॥
रुद्रा व्रतपतयो व्रतमालभे तद्वः प्रब्रवीमि तच्छकेयं तेनर्ध्यासम् ॥
पूर्वव्याख्यानेनैव गतार्थः । रुद्रास्त्वभ्यर्थ- नया विशेष्यन्ते । एवमुत्तरयोरादित्या मरुदं- गिरसश्व विशेष्यन्ते । शेषं तुल्यम् ॥
आदित्या व्रातपतयो व्रतमालमे तद्वः प्रब्रवीमि तच्छकेयं तेनर्ध्यासम् ॥ मरुदङ्गिरसो व्रतपतयो व्रतमालभे तद्वः प्रब्रवीमि तच्छकेयं तेनर्ध्यासम् ॥ आ मे गृहा भवन्त्वा प्रजा म आमा यज्ञो विशतु वीर्यावान् । आपो देवीर्यज्ञिया मा विशन्तु
सहस्रस्य मा भूमा मा प्रहासीत् स्वाहा ॥
आ मे गृहा भवन्त्वा पुरोरुक्
स्तुतशस्त्रे माविशतां समीची |
आदित्या रुद्रा वसवो मे सदस्याः
सहस्रस्य मा भूमा मा प्रहासीत् स्वाहा ॥ त्रिष्टुप्छन्दः । मुद्गलस्य भान्यश्वस्यार्षम् । मे मम गृहा दारा आभवन्तु । प्रजाश्च पुत्रा ममाभवन्तु । यज्ञश्च वीर्यवान्मां विशतु । तथा देवीः देव्यः आपो यज्ञिया यज्ञसाधन- भूता मा मां विशन्तु साहाय्यं भजन्ताम् ।
सहस्त्रशब्दोऽतिभूयस्त्वोपलक्षणार्थः । भूमश- ब्दः पुष्कलधनविषयः । सुबहूनां भूरिधनं तन्मा मा प्रहासीत् मां मा त्याक्षीत् । खाहा सुहुत- मस्तु ॥ तथा मम गृहा उपांशुप्रभृतयः आभ- वन्तु । तेषामेव च गृहाणां या पुरोरुक पुरोऽनु- वाक्य हविग्रहणात्पूर्वमन्त्र आभवतु, स्तुतशस्त्रे च मामाविशतां समीची सम्यगञ्चने सम्मु- खमित्यर्थः । आदित्या रुद्रा वसवश्च मम स- दसि भवाः सदस्याः भवन्तु । सहस्रेत्यादि व्या- ख्यातम् ॥
असंख्याता सहस्राणि ये रुद्रा अधि भूम्याम् । तेषां सहस्रयोजनेsa धन्वानि तन्मसि ॥ १ ॥
अग्निप्रकरणे रुद्राभिधानाः षडनुवाकाः पठ्यन्ते 'नमस्ते रुद्र मन्यवे' इत्याद्याः । तन्मध्ये एते दश मन्त्राः । सर्वेषु तेष्वनुवाकेषु देवाना- माम् । तथाच श्रूयते
'रुद्रं वै देवा यज्ञान्निरभजन् । स देवानायतया आया- मवत्या सेनयाभिपर्यावर्तत । एते देवा भीता एतच्छवरु- द्रियमपश्यंस्तेनैनमशमयन्यच्छतरुद्रियं जुहोति तेनैतं रुद्रं विततधन्वानं संहतेषु मन्युमन्तं महाबाहुं शमयति ॥'
इति । ये भूम्यामधि पृथिव्यामीश्वरत्वेना- न्तर्वर्तमाना व्यवस्थिता रुद्रा असंख्याता सहस्राणि असंख्यानि सहस्राणि 'शेश्छन्दसि बहुलम्' ( ६।१।७० ) इति शेर्लुक् अपरिमिता रुद्रा इत्यर्थः तेषां कुपितानामारोपितगुण- धनुष्काणां हननोद्यतानां सतां धन्वानि धनूंषि अवतन्मसि अवतनुमः इदन्तो मसिः, अव- तारितगुणानि कुर्मः स्तुतिद्वारकको प्रशान्त्या सहस्रयोजने अतिदूरे स्थिताः सन्तः । ' ऊध- सोऽनङ्' 'धनुषश्च' (५|४|१३२) इत्यनङ् ।
येऽस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अघि । तेषां सहस्रयोजनेsa धन्वानि तन्मसि ॥ २ ॥
येऽस्मिन्प्रत्यक्षे सर्वेषामन्तरिक्षे आकाशे अर्णवे समुद्रे आकाशं हि सूक्ष्मसमुद्रयुक्तमि- त्याहुः रात्र्यादाववश्यायादिरूपजलपतनदर्श- नात्, अथवा ये समुद्रेऽन्तरिक्षे च महति अधि भवा अधिपतित्वेन वर्तमानाः, तेषां ध- नूंषि अवरोपितज्यानि दूरादेव कुर्म इति पूर्ववत् ॥
ये नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपाश्रिताः । तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ३ ॥ ये रुद्रा नीलग्रीवा अशुक्लगलाश्च दिवं स्वर्गमुपाश्रिताः । शेषं पूर्ववत् ॥
ये नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः । तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ४ ॥ ये शर्वा रुद्रा अधःक्षमाचराः पातालचराः ॥ ये वनेषु शष्पिजरा नीलग्रीवा विलोहिताः । तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५ ॥ ये विपिनेषु तरुगुल्मलतावितानतृणादिग- हनेषु स्थिताः शष्पवत् कोमलतृणवत् पिंजराः कपिलाः नीलग्रीवाश्च, तथा विलोहिता निता- न्तरक्ताः ॥
येनेषु विविध्यन्ति पात्रेषु पिवतो जनान् । तेषां सहस्रयोजनेऽव धन्वानि तन्मंसि ॥ ६ ॥ ये चान्नेषु भुज्यमानेषु, पीयमानेषु क्षीरा- दिषु प्रच्छन्नरूपेणान्तर्गताः सन्तो भोक्तृन् पातॄंश्च जनान् विविध्यन्ति ताडयन्ति व्यथ-
यन्ति ॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः । तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ७ ॥ ये भूतानां पृथिव्यादीनां देवविशेषाणां वाधिपतयो रक्षकाः । विशिखासो मुण्डाः । कपर्दिनो जटिलाः ॥
ये पथीनां पथिरक्षय ऐडमृदा यन्युधः । तेषां सहस्रयोजनेsa धन्वानि तन्मसि ॥ ८ ॥ ये पथीनां अध्वन्यानां पथिरक्षय अध्व- न्याः सन्तो रक्षका आदित्यरूपा इत्यर्थः । इडा अन्नं तत्समूह ऐडं, तन्मृगन्ति कोमलीकुर्वन्ति इति ऐडमृदाः । युधि संग्रामे युवन्ति मिश्री - भवन्तीति यव्युधः योद्धार इत्यर्थः ॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः । तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ९ ॥ ये तीर्थानि प्रचरन्ति तपोतिशयसिद्धये सृकावन्तः सातिशयबुद्धियुक्ताः, निषङ्गाः ख- ङ्गास्तद्युक्ताः ॥
य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितष्ठिरे । तेषां सहस्रयोजनेऽवं धन्वानि तन्मसि ॥ १० ॥ ये रुद्रा एतावन्त इयत्तया अवघृता, भूयांसो वा इयत्तया अनवधृता दिशो वितष्ठिरे दिक्षु विविधं स्थिताः ॥
कदाचन स्तरीरसिनेन्द्र सश्चसि दाशुषे ।
उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥ १ ॥
ऐन्द्री । बृहती । एक उपशब्दः पादपूरणः 'प्रसमुपोदः पादपूरणे (८।१।६) इति पाणिनि- वचनात् । ' स्तरी हिंसायां । हे इन्द्र त्वं न कदाचन नैव कदाचित् स्तरीहिंसको यजमानस्य भवसि प्रत्युत सश्चसि दाशुषे । स- श्रुतिरनुग्रहकर्मा । दाशुषे इति द्वितीयास्थाने व्यत्ययेन चतुर्थी । दाश्वांसं दातारं यजमान- मनुगृह्णासि फलेन योजयसि । एको नुशब्दः क्षिप्रवचनः, द्वितीयो निश्चयार्थः । इच्छब्दोऽव- धारणार्थ एकः, उपेदित्यत्र तु पादपूरणार्थः । घमन्नं धनं च विद्यते यस्य स मघवा । हे मघवन् धनेश ते तव देवस्य दानादिगुणयुक्तस्य सम्बन्धि दानं दीयमानं स्वर्गादिफलं भूयः प्रचुरं क्षिप्र- मेव उपपृच्यते 'पृची सम्पर्के' सम्बध्यते । केन । अर्थाद्दाशुषा यजमानेन । 'दाश्वान्साहान्मीढां श्व' (६|१|१२ ) इति दाश्वाञ्छन्दो निपातितः 'दा दाने' इत्यस्य ॥
कदाच न प्रयुच्छस्युभे निपासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियमास्था अमृतं दिवि ॥ २ ॥ 'इदि परमैश्वर्ये' इत्यस्येन्द्रः । सच पूर्वमं - त्रेऽपि आदित्ये प्रवृत्तः आदित्यानां स्थाली- पाके विनियोगात् । आदित्यो वात्रेन्द्रो ब्रह्मा प्रजापतिस्तस्यैव प्रकाशविभवत्वात् । 'युच्छ प्रमादे' । हे इन्द्र त्वं सम्यक् पूजितः सन् न कदाचित् प्रयुच्छसि प्रमाद्यसि यज्ञे फलवैगु- ण्यादिरूपेण । यत उभे देवमानुषजन्मनी निपासि नितरां रक्षसि । हे तुरीय त्वरमाण चतुर्थगायत्रीपादात्मकपरब्रह्मस्वभाव आदित्य ते तव सम्बन्धि सवनं सूयमानं क्रियमाणं कर्म सूयतेऽनेन फलमिति सवन- मिति कर्म, इन्द्रियमिन्द्रदृष्टं दिवि द्युस्थान- ममृतममरणधर्म कमातस्थौ आस्थितं यज- मानं तत्र प्रापयतीत्यर्थः ॥
यद्वा
यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आ वोर्ध्वाची सुमतिर्ववृत्त्यादंहोश्विद्या वरिवोवित्तरासत् ॥३॥ त्रिष्टुप् । आदित्यदैवत्या । आदित्य एवादि- त्यासः 'आजसेरसुक्' । भवता इति सुब्व्यत्ययः ।
मृडयन्त इति तृचः स्थाने शतृ । हे आदित्या यतो भवन्तो मृडयितारः सुखयितारः 'मृड सुखने' अतो हेतोरयं भवदैवत्यो यज्ञो देवानां यजमानानां सुम्नं सुखं प्रत्येति सुखाभिमुखो गच्छति सुखं साधयतीत्यर्थः । किंच वः युष्मा- कं सम्बन्धिनी सुमतिः कल्याणी बुद्धि: अ- र्वाची अभिमुखा सती आववृत्त्यात् अस्मद- भिमुखा आवर्ततां पुनः पुनरस्माकं कल्याणी मतिर्भवत्वित्यर्थः । कीदृशी मतिः । अंहोश्चिद्या वरिवोवित्तरासत् । चिच्छन्दोऽप्यर्थे । असत् भवति । वरिवो धनम् | या अंहोरपि पापिष्ठ- स्यापि वरिवोवित्तरा धनलब्धितरा भवति ॥ विवस्त्र आदित्यैष ते सोमपीथस्तस्मिन्मन्दख । या दिव्या वृष्टिस्तया खा श्रीणामि ॥ 11
1
तमांसि विवासयतीति कृत्वा विवखान् । हे विवखन् आदित्य अदितेरपत्य एष ते तव सोम- पीथः सोमपानं सोमग्रहे विनियोगात् ज्योति - ष्टोमे सोमपीथः सोमरसः, इहतु ऊहेनोपचारेण वा सोमपीथः स्थालीपाकस्तस्मिन्स्थालीपाके मन्दख तृप्तिं भजख । अनेनैव कर्मानुष्ठानेन
१६
या दिव्या वृष्टिः, तया त्वां श्रीणामि मिश्रीक- रोमि मेघादिद्वारेण वृष्ट्या संयोजयामीत्यर्थः ॥
अदब्धेभिः सवितः पायुभिष्टुं
शिवेभिरद्य परिपाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे
रक्षा मा किर्नो अघशंस ईशत ॥ ५ ॥ हे सवितः अद्यास्मिन्नहनि नः अस्माकं गयं गृहं परिपाहि परिपालय । कैः । पायुभिः पाल- नशीलैः पानशीलैर्वा रश्मिभिः । अदब्धेभिः अनुपहिंसितैः । यतस्त्वं हिरण्यजिह्वः सत्य- वादी, तेन सुविताय फलप्रसवनाय यज्ञाय नव्यसे नवाय गयं गृहं रक्ष । किंच मा नः अस्मान् किः कश्चित् अघं पापं शंसतीत्यघ- शंसः पापिष्ठ ईशत प्राभूत् ॥
सान्तपना इटुं हविर्मरुतस्तजुजुष्टन । युष्माको रिशादसः ॥ १ ॥
हे मरुतः इदं हविः युष्माकं तत्तस्मात् जुजुष्टन जुषत भजध्वं ऊती रक्षाश्चास्माकं कुरुत । सम्यक् तापयन्ति विघ्नकारिणो रक्षः- प्रभृतीनिति सान्तपनाः । यतो रिशादसः रि-
शतिहिंसाकर्मा 'दसु उपक्षये' हिंसाकारिणाम- पक्षयकारिणः ॥
यो नो मर्तो मरुतो दुर्हृणायुस्तिरचित्ता वो वसवो जिघांसत् । द्रुहः सपाशं प्रतिषूमुचीष्ट तपिष्ठेन तपसा हन्तना तम् ॥ २ ॥
हे मरुतः यो नः अस्मान् मर्तो मरणध- र्मा मनुष्यो, दुष्टं हृणं कार्यमपकारं काम- यमानः, तिरः निकटे वर्तमानः गुप्तरूपो वा चित्ता चित्तेन तिरश्चित्तो वा अस्पष्टचित्तः जिघांसत् जिघांसेत् वः युष्माकं सम्बन्धी युष्मानपि वा यो जिघांसेत् - हे वसवः वास- यितारः - अन्यच्च कीदृशो मर्तः, द्रुहः स्वभावेन हिंसकः - तं प्रतिषूमुचीष्ट सुष्ठु प्रतिमुंचत नीत । तथा हन्तन हिंसत । केन । तपिष्ठेन तपसा अतिशयेन तपसा । कीदृशं तम् । सपाशं पाशयति पाशः पुत्रदारादिः स्ववर्गः, सह पाशेन वर्तमानं सपशुबान्धवमित्यर्थः ॥
गृहमेधा रिशादसो मरुतो मापभूतन । प्रमुञ्चन्तो नो अंहसः ॥ ३॥
गायत्री | हे मरुतः गृहमेधा अस्माकं भवत
गृहं मेधयन्तीति गृहमेधाः । कीदृशाः सन्तः ।
रिशादसः हिंसानां क्षयकारिणः अस्मान्
3
अंहसः पापात् प्रमुञ्चन्तः सन्तः । मा अपभूतन अस्माकं अभिभवं मा कार्षुः ॥
प्रबुनया व ईरते महांसि
प्र नामानि प्रयज्यवस्तिरध्वम् । सहश्रियं दम्यं भागमेतं
गृहमे धीयं मरुतो जुषध्वम् ॥ ४ ॥ त्रिष्टुप् । हे मरुतः एतं भागं हविलक्षणं स्थालीपाकं जुषध्वं भजध्वम् । गृहमेधीयं गृहदेवतार्ह प्रयाजानुयाजहीनम् । एतेन च भागेन प्रयज्यवः इज्यमानाः सन्तः अस्मभ्यं दयं दमनार्ह अभिनवकरितुरगप्रभृतिकं प्रतिरध्वं ददत सहश्रियं कनकमणिमुक्ता- कलापादिलक्ष्मीयुक्तम् । महांसि च तेजांसि नामानि च 'यज्वानो मी धार्मिकाः सत्पुत्राः ' इत्यादीनि प्रतिरध्वम् । यतो बुने भवा बुझ्या भूमिलोके वर्तमाना जना वो युष्मान् प्र ईरते प्रेरते उपसर्पन्ति युष्मदधीनाः सिद्धि- वित्यर्थः ॥
क्रीडं वश्शर्धो मारुतमनर्वाणं रथेशुभम् । कण्वा अभि- प्रगायत ।। ५ ।।
रिशादसः हिंसानां क्षयकारिणः अस्मान्
3
अंहसः पापात् प्रमुञ्चन्तः सन्तः । मा अपभूतन अस्माकं अभिभवं मा कार्षुः ॥
प्रबुनया व ईरते महांसि
प्र नामानि प्रयज्यवस्तिरध्वम् । सहश्रियं दम्यं भागमेतं
गृहमे धीयं मरुतो जुषध्वम् ॥ ४ ॥ त्रिष्टुप् । हे मरुतः एतं भागं हविलक्षणं स्थालीपाकं जुषध्वं भजध्वम् । गृहमेधीयं गृहदेवतार्ह प्रयाजानुयाजहीनम् । एतेन च भागेन प्रयज्यवः इज्यमानाः सन्तः अस्मभ्यं दयं दमनार्ह अभिनवकरितुरगप्रभृतिकं प्रतिरध्वं ददत सहश्रियं कनकमणिमुक्ता- कलापादिलक्ष्मीयुक्तम् । महांसि च तेजांसि नामानि च 'यज्वानो मी धार्मिकाः सत्पुत्राः ' इत्यादीनि प्रतिरध्वम् । यतो बुने भवा बुझ्या भूमिलोके वर्तमाना जना वो युष्मान् प्र ईरते प्रेरते उपसर्पन्ति युष्मदधीनाः सिद्धि- वित्यर्थः ॥
क्रीडं वश्शर्धो मारुतमनर्वाणं रथेशुभम् । कण्वा अभि- प्रगायत ।। ५ ।।
हे प्रकृता मरुतः वः युष्माकं सम्बन्धि शर्धः बलं क्रीडं क्रीडयत्वस्मान् । कणतिः शब्द- कर्मा, कणन्तीति कण्वा वायवः यूयमेव मारुतं मरुतां सम्बन्धि शर्धः प्रगायत क- यत यादृशं तदिति । कीदृशं शर्धः । रथेशुभं रथविमानादीनामनुकूलं गमने, तथानवीणं लिंगव्यत्ययः । अनर्व अप्रच्युतमित्यर्थः ॥ अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्र वत्सासो न प्रक्रीडिनः पयोधाः ॥ ६ ॥
त्रिष्टुप् । अन्तत्या अश्वाः । नशब्दः सर्वत्रोपमार्थीयः । ये मरुतः अश्वा इव स्वञ्चः शोभनगतयः, ये च यक्षदृश इव शुभयन्तः शुभमिच्छन्तः सम्यगवलोकनं कुर्वन्ति यक्षा यज्वानः मर्या मर्त्याः, ते हर्म्येष्ठा भवन्तु यज्ञमण्डपस्था भवन्तु तत्र क्रीडन्त्वित्यर्थः । शिशव इव शुभ्रा अनाहार्यशोभायुक्ताः । प्रक्रीडनशीला वत्सा इव वत्सासः, अत एव प्रक्रीडनशीलाः । पयोधाः पयो धयन्ति पिवन्ति ये ते पयोधाः अभिनवाः । ते हि प्रक्रीडन - शीला भवन्ति वत्साः शिशवश्च ॥
त्वामने अंगिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वने वने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमंगिरः। हे त्वामंगिरसः गुहाहितं अंगारेषु गुप्त- मन्वविन्दन् लेभिरे वने वने शिश्रियाणं तेषां वनस्पत्यादीनां वनेष्वाश्रितम् । सहो महत् महता सहसा बलेन मथ्यमानस्त्वं जायसे । यस्मात्स त्वमेवंभूतः, तस्मात्त्वामृषयः सहसो बलस्य पुत्रमाहुः । अंगिरः अंगारेषु जातः ॥ वायुरग्रेगा यज्ञप्रीस्साकं गन्मनसा यज्ञम् । शिवो नि- युद्भिः शिवाभिः ॥
वायुरेव सर्वदेवतानामग्रे गच्छति यस्मात्, तस्मात्स एव प्रथमं यज्ञप्रीः यज्ञे प्रीयते तर्प्यते । तेन 'अंगिरोभ्यो दीयमाने हविषि तन्मध्ये वायवेऽपि हविर्दीयते' इति लिंगाडा - योरपि देवतात्वं प्रतीयते यतो वायुरेव मनसा साकं सह यज्ञं गत् गच्छति । शिवः शान्तः । रूपेण यज्ञोपकारिणा नियुज्यन्ते इति नियुतः अश्वाः ताभिरश्वाभिस्तुल्यं कृत्वा गच्छति ॥ हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दतं पुरन्धिमग्निं स्विष्टकृतमाहुवेम ।।
वयमग्निमाहुवेम आह्वयामः हव्यवाहं यो देवानां पितॄणां च हव्यं वहति तम् । अ- भिमन्यते इति अभिमाः शत्रुः, तं प्रसहते अभिभवति यस्तमभिमातिषाहम् । रक्षसां हन्तारम् । पृतनासु परसेनासु जयनशीलम् । ज्योतिष्मन्तं ज्वालाकरालम् । दीद्युतं अतिश- येन द्योतमानम् । पुरं समूहं धत्ते धयति वा पुरन्धिस्तम् । यजनमिष्टं, शोभनमिष्टं करोतीति स्विष्टकृत् तम् ॥
वस्तूंस्तर्पयामि रुद्रांस्तर्पयामि आदित्यांस्तर्पयामि मरुदं- गिरस्तर्पयामि ॥
वसवो व्रतपतयों व्रतमचारिषं तदशकं
तद्वः प्रब्रूमस्तन्नो गोपायत ॥
रुद्रा तपतयो व्रतमचारिषं तदशकं तद्वः प्रब्रूमस्तन्नो गोपायत || आदित्या व्रातपतयो व्रतमचारिषं तदशकं तद्वः प्रब्रूमस्तन्नो गोपायत ॥
मरुदङ्गिरसो व्रातपतयो व्रतमचारिषं तदशकं तद्वः प्रब्रूमस्तन्नो गोपायत ||
हे वसवः वासयितारः व्रतपतयो व्रतस्य पालयितारः युष्मत्प्रसादादहं व्रतमचारिषं
चरितं सम्पादितं मया व्रतम् । तद्व्रतमहमशकं युष्मत्प्रसादादशक्नवं शक्तिं पारितं मया व्रत- मित्यर्थः । तत्तस्माद्वयं वः युष्मान् ब्रूमः तद्व्रत- मामाकीनं व्रतं यूयं गोपायत रक्षत । एतेनै- वान्यदपि मन्त्रत्रयं व्याख्यातम् ॥
इति अष्टमी काण्डका ॥ ८ ॥

 
अथ
नवमी काण्डिका ।

वर्षासु श्रवणेनाध्यायानुपाकरोति ॥१॥
अत्र 'अन्तेवासिनां योगमिच्छन्' इति वक्ष्यमाणं सम्बन्धनीयम् । यद्यदध्ययनाध्याप- नांगं स्मर्यते, तत्तत्किल वक्तव्यम् । उपाकरणं चाध्ययनाध्यापनयोरप्यंगम् । तथाच 'अन्ते- वासिनां योगमिच्छन्' इत्यतोऽध्येतुः फल- सम्बन्धः प्रतीयते । 'अमुष्मै कामायायुषे त्वा' इत्यतश्च मन्त्रलिंगादुपाकर्त्राचार्येण प्रयुज्यमा - नाद्वयोरपि शिष्याचार्ययोरविशेषेण फलं प्रती- यते । तत्र त्रैविद्यकत्वसिद्ध्यर्थं वेदाध्ययनां- भूतानि व्रतानि प्रतिपादितानि । अधीतवेद- स्यापि च शिष्यस्यांगोपांगग्रहणार्थं गुरोर्वास इष्यते शिल्पादिशिक्षार्थं च । तथाच स्मृतिः 'कृतशिल्पोऽपि निवसेत्कंचित्कालं गुरोर्गृहे ।
अन्तेवासी...
॥ ( या० २।१८४ )
इत्यादि । तत्रान्तेवासिनां योगं सम्वन्धमि-
च्छन्नाचार्य उपाकरणं वेदानां कुर्यात् । उपा- करणं खीकरणं, मनसा संकल्पनं, एतत्स्थानक - विशेषादि मया अस्मै शिष्याय प्रवक्तव्य - मिति । शिष्यो हि शिल्पांगोपांगपरिज्ञाना- यापि गुरौ वसन् स्थानक विशेषादिकमपि गुरोः सकाशादधीते, तमध्यापयता गुरुणा उपाकरणं कर्तव्यम् । शिष्यो यदि कस्मैचिद- ध्यापयति, तदा तेनापि कर्तव्यम् । सोऽपिहि शिष्यस्य गुरुः । नच वक्तव्यं शिष्यस्याचार्य- वृत्तित्वान्नानाद्रह्मचारिणि गुरौ कथं वृत्तिस्तस्य भोजनास्तरणादिदानसामर्थ्याभावादिति, यतो भैक्षवृत्तित्वमप्यानाम् । सम्भवति च त्रै- विद्यकस्य ब्रह्मचारिणोऽपि धनविशेषप्रात्या ज्ञानादिना वा स्वशिष्यपोषणसामर्थ्यम्। तस्मा- तेनाप्युपाकरणं. कर्तव्यं यथासंभवम् । श्राव- भाद्रपद मासौ वर्षाः । तत्र यत् प्रथममेव श्रवणनक्षत्रं, तत्रैवोपाकरणं कर्तव्यं प्रथमपरि- त्यागे कारणाभावात् 'प्रथमं वा नियम्येत कारणादतिक्रमः स्यात्' इति नयेन । किं कुर्वता । अन्तेवासिनां सांगोपांगादिशिक्षार्थं गुरौ निवसतां योगं सम्बन्धमध्यापयित्रध्याप्यलक्षण- मिच्छता अन्तेवासिनश्च प्रज्ञातिशयसम्बन्ध- मिच्छतेति फलतो व्याख्या ॥ १ ॥
स जुहोति 'अपवा नामासि तस्यास्ते जोष्ट्रीयं गमेयमहमिद्धमेधस्परि मेधामृतस्य जगृहुरहं सूर्य इवाजनि स्वाहा' रन्तिर्नामासि, युक्तिर्नामासि, योगो नामासि, इत्युत्तरास्तिस्रः । तस्यास्त इति सर्वत्रानुषजति ॥ २ ॥
स जुहोति य उपाकरोति 'अपना नामासि' इत्यादिभिर्यजुर्भिः । अन्यास्तिस्रः । एतेषु यजुषुः प्रथममत्रस्थं 'तस्यास्ते' इत्येतदनुषज्यते वाक्य- परिपूरणसामर्थ्यात् अनुषंगो वाक्यसमाप्ति सर्वेषु तुल्ययोगित्वादिति नयेन । तेन 'रन्ति- र्नामासि तस्यास्ते' इत्यादीनि त्रीणि वाक्यानि भवन्ति । समस्तपाठः शाखांतरीयत्वात् ॥ २ ॥
युजे स्वाहोद्युजे स्वाहा युक्त्यै स्वाहा योगाय स्वाहेत्यन्तेवासिनां योगमिच्छन् ॥ ३ ॥
अन्तेवासिनां योगमिच्छन्निति प्रत्येकं सम्बध्यते ॥ ३ ॥
'दधिक्राव्ण' इति त्रिर्दधि भक्षयित्वा दर्भपाणिः सावित्रीं त्रिरन्वाहादितश्च त्रीननुवाकान् 'कस्त्वा युनक्ति' इति च ॥ ४ ॥
'दधि क्राव्ण ' इति मन्त्रः सकृत् । दधिभक्ष- मेवावर्तते त्रिः । सावित्री सवितृदैवत्या तत्सवितुरित्यादिकैव महाप्रभावत्वात् । नान्या 'आकृष्णेन रजसा' इत्यादिका । आदावा- दितः ये त्रयोऽनुवाकः 'इषे त्वा' इत्यादिरेकः, 'देवस्य त्वा' इत्यादिर्द्वितीयः, 'वसोः पवित्र- मसि' इत्यादिस्तृतीयः । ‘कस्त्वा युनक्ति' इति वाश्वमेधे परिधिनियोजने नियुक्तः । उभय- त्रान्वाहेत्यनुषंगः ॥ ४ ॥
तस्यानध्यायः ॥ ५ ॥
तस्याध्यापयितुरध्येतुश्चानध्याय उच्यते ॥५॥
न विद्योतमाने न स्तनयति ॥ ६ ॥
वर्तमाननिर्देशात्तात्कालिकमेतदनध्ययन-
म् । विद्योतमाने वैद्युते तेजसि । स्तनयति गर्जति मेघे ॥ ६ ॥
आकालिकं देवतुमुलं विद्युद्धन्वोल्का ॥७॥
आकालिकं समानकालमुच्यते । य एवादिः स एव चेदन्तो भवति, तस्य वचने आका - लिक्शब्दो निपातितः 'आकालिकडाद्यन्त- वचने' ( पा० ५।१।११४ ) इति सूत्रेण, टकारो ङीबर्थः । आकालिकी विद्युत्, य एवोपक्र मकालः, स एव विनाशकालो विद्युत इ- त्यर्थः । एवमिहापि यस्मिन्प्रथमार्धप्रहरादौ देवतुमुलादिकमुत्पद्यते स तस्यादिकालः स एव द्वितीय दिवसेऽन्तकालो भवति एतदा- कालिकशब्देनोक्तम् । एतदुक्तं भवति यावति काले देवतुमुलादिकमुत्पद्यते, तावत्येव काले द्वितीयदिवसेऽध्ययनयोग्यता भवति अन्तरा त्वनध्यायः । ये त्वाकालिकशब्द 'न विद्यो - तमाने न स्तनयति आकालिकम्' इत्येवं पूर्वेण सम्बन्धयन्ति, यावद्देवतुमुलादि श्रूयते ताव- न्मात्रकालं चानध्ययनमिति व्याचक्षते; तेषा- मुत्तरत्राहोरात्रिकमनध्ययनं शब्दतः प्रयोज्यं, वर्तमाननिर्देशलब्धस्य च पुनर्वचनं पुनरु- तम् । तत्रान्तरिक्षे गीतवाद्यात्मकं गन्धर्वा -
दिकृतं देवतुमुलम् । विद्युदिति विद्युत्पातो विवक्षितोऽत्राहोरात्रादिकाध्ययनावसरे, धन्व- शब्देनापीन्द्रधनुर्वर्षा कालादन्यत्र । वर्षासु ता- त्कालिकत्वं सदाचाररूढम् । उल्कयापि मह- त्या उल्कायाः पातो विवक्षितः । तारकामा- त्रपतनेऽपि ह्युल्काशब्दप्रयोगोऽस्ति ॥ ७ ॥
आचारेणान्ये ॥ ८ ॥
अन्येऽप्यनध्ययनहेतव आचाराध्यायोक्ता अनुसर्तव्याः भूकम्पचन्द्रार्कोपरागनृपतिमहा- पुरुषप्रमयप्रभृतयः ॥ ८ ॥
तद्यथा
अत्यक्षराः शब्दाः सन्ततवलीकप्रस्रावाः ॥ ९ ॥
अतिक्रान्ता अक्षराणि अत्यक्षराः शब्दाः निर्घातहुंकारतलास्फोटनप्रभृतयः । सन्ततस्य वलीकस्य प्रस्त्रावो, नतु प्रस्रावमात्रं तस्य प्रायेण भावात् । एतद्वयमाकालिकस्यानध्यय- नस्य निमित्तम् ॥ ९ ॥
अर्धपञ्चमान्मासानधीत्य पंचार्धषष्ठान्वोत्सृजते, उत्सृजामहेऽध्यायान् प्रतिविश्वसन्तु छन्दांसि, कस्त्वा विमुञ्चतीति च ॥ १० ॥
अर्ध पंचमो येषां तेऽर्धपंचमा मासाः सा- र्धचत्वारः। एवमर्धषष्ठाः सार्धपंच । मासानुक्त- विधिनाधीत्याध्ययनार्थप्रयोजकव्यापाराध्ययनं निर्वर्त्य अध्याप्येति यावत्, उत्सृजते अध्या- यान् उत्सर्गसंकल्पनं करोतीत्यर्थः नच वेदा- ध्ययनस्य त्यागोऽस्ति, अनध्यायविशेषेभ्योऽ- पिवा उत्सर्गे मद्वयसम्बन्धमाह 'उत्सृजामहे ' इत्यादि ॥ १० ॥
तस्यानध्यायोऽमावस्यां पक्षिणीं नाधीते ॥ ११ ॥
अयमन्योऽनध्यायः । पक्षाविलोभयपार्श्ववर्ति- तया अमावस्यायाश्चतुर्दशी प्रतिपञ्च । यद्यपि - चाचाराध्याये द्वे पौर्णमास्यौ हे अमावस्ये इति चतुर्दशीसहिते पौर्णमास्यमावस्ये उक्ते, तथापि प्रतिपद्विधानार्था पुनः श्रुतिः । तदुक्तं 'गुणा- न पुनः श्रुतिः' (५० मी० १/२/४१ ) इति ॥ ११ ॥
नात ऊर्ध्वमभ्रेषु ॥ १२॥
अत उत्सर्गादूर्ध्वमभ्रदर्शनमात्रेऽपि सति नाध्येतव्यं, का कथा विद्योतमानादिषु ॥
अपना नामासि तस्यास्ते जोष्ट्रीयं गमेयमहमिद्धमेधः परि मेधामृतस्य जगृहुरहं सूर्य इवाजनि खाहा ॥ रन्तिर्नामासि, युक्तिर्नामासि, योगो नामासि, युजे स्वाहा उद्युजे स्वाहा युक्त्यै स्वाहा योगाय स्वाहा || ब्राह्मी विद्या देवता । पवते स्वरूपाच्चयवते इति पवा अध्रुवा, तत्प्रतिषेधेन अपवा ध्रुवा विद्या । केचिदप्वेति पठन्ति तत्राप्यय- मेवार्थः । अपना नामासि नित्यानन्दा, तस्या- स्तव सम्बन्धि यदेधः इद्धं रूपं, तदहं गमेयं प्राप्नुयाम् । इद्धमेध इति पुनर्वचनमनादित्व- ख्यापनार्थम् । कीदृशमेधः । जोष्ट्रीयमतिशयेन सेवनीयम् । एतस्य अमृतस्य मरणरहितस्य ब्रह्ममयस्य विद्यारूपस्य मेधां परिजगृहुर्विपश्चितः मेधावन्तो विद्यास्वरूपं ब्रह्म लेभिरे इत्यर्थः, अथवा ऋतस्य सत्यस्य ब्रह्मणो मेधां परिज- गृहुर्विपश्चितः । अतश्चाहमपि सूर्य इवाजनि सूर्य इवाहमुत्तमप्रकाशो ब्रह्मरूपनिकटः स्या
मित्यर्थः । स्वाहा सुहुतमस्तु ॥ रमते की- डति जगद्विवर्तादिना इति रन्तिः ब्रह्ममयी विद्या । युज्यते लोके विवर्तपरिणामशक्तिभि- रिति युक्तिः । एवं योगो, युक्, उद्यगि- त्यादि व्याख्येयम् | पुनर्वचनं स्तुत्यर्थम् ॥ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥ अनुष्टुप् । अस्याश्च ऋचः सुरभिमतीति नाम । तथाच श्रुतिः
'ऋत्विजो यजमानाश्च सुरभिमतीमृचमन्वाहुर्वाचमेव पुनते ' इति । अन्यत्राश्वसंस्कारोत्तरकालमृत्विग्य- जमानयोर्दधिभक्षणसमयादावियमभ्यर्थना इ- हापि यथायोग्यत्वं योजयितव्या । क्रामतीति कावा । जयनशीलो जिष्णुः । व्यात्यर्थस्य अश्नोतेरश्वः, वेजनवान्वाजी अन्यत्राश्वः, इह तु प्रजापतिः। यत्काव्णो जिष्णोरश्वस्य वाजिनः अश्वस्य संस्कारकाले अश्लीलाभिभाषणेन मुखाण्यपवित्रीभूतानि दधिदना पवित्राणि अकारिषं व्यत्ययेनैकवचनं उत्तरत्र च बहुव- चनदर्शनात् वयं अकारिष्म । प्रजापतेर्वा सर्वा-
त्मकस्य वेदात्मनो वा अज्ञानेनापभाषणेन बाल्यादितया अपवित्राणि मुखा मुखानि 'शेश्छन्दसि बहुलमिति लुक् नः अस्माकं सुरभि सुरभीनि पवित्राणि करत् लोडर्थेलेट् 'इतश्च लोपः परस्मैपदेषु' ( ३।४।९७) इति तेरि- कारलोपः 'लेटोssicौ' (३ | ४ | ९४ ) इत्यडागमः करोतु । किञ्च अश्वः प्रजापतिर्वा अस्माक मायूंषि प्रतारिषत् प्रतरतु करोतु । ' तृप्लवन - तरणयोः पूर्ववत्पंचमलकारादि 'सिप् बहुलं लेटि' ( ३|४|३४ ) इट् गुणः वर्णव्यत्यये-
नाकारः ॥
इषे त्वोर्जे त्वा वायवस्थोपायवस्स्थ देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ॥
आप्यायध्वमन्नया देवभागं प्रजावतीरनमीवा अयक्ष्माः ॥ मा वस्स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥ ध्रुवा अस्मिन्गोपतौ स्यात बह्वीर्यजमानस्य पशून्पाहि यजमानस्य पशुपा असि ॥ १ ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ता- भ्यामाददे गोषदसि प्रत्युष्टं रक्षः प्रत्युष्टारातिः प्रेयमगाद्धि- षणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा ॥
उर्वन्तरिक्षं वीहीन्द्रस्य परिषूतमसि माधो मोपरि परुस्त ऋद्ध्या समाच्छेत्ता ते मा रिषत् ॥
देव वर्हिश्शतवशं विरोह सहस्रवल्शा वि वयं रुहेम ॥ अदित्या रात्रासीन्द्राण्यास्सन्नहनं पूषा ते ग्रन्थि ग्रनातु स ते मा स्थादिन्द्रस्य त्वा बाहुभ्यामुद्यच्छे बृहस्पतेस्त्वा मूर्ध्नाहरामि देवंगममसि ॥
तदाहरन्ति कवयः पुरस्तादेवेभ्यो जुष्टमिह बर्हिरासदे ॥ २ ॥ वसोः पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधा - रम् || अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः । मधुमद्धृतवत्पिन्वमाना जीवा जीवन्तीरुप वस्सदेम || मातरिश्वनो धर्मोऽसि द्यौरसि पृथिव्यसि विश्व- धायाः परेण धाम्नाहुतासि मा ह्वास्सा विश्वायुस्सा विश्वव्य- चास्ता विश्वधाया हुतस्स्तोको हुतो द्रप्सोऽनये वृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् ॥
सम्पृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । मंद्रा धनस्य
सातयः ||
इन्द्रस्य त्वा भागं सोमेनातनम्यधस्तमसि विष्णवे विष्णो हव्यं रक्षस्वापो जागृत ॥ ३ ॥
'इषेत्' इत्यादयो मन्त्रा दार्शपौर्णमासयोः शाखाच्छेदनादौ विनियुक्ताः श्रुतिलिंगादिभिः । तत्र परमेष्ठिनः प्राजापत्यस्यार्षम्, शाखादि- रभिधेयो देवता । यजुषां छन्दो नास्तीत्येके । केचित्तु वैशेषिकं छन्द इच्छन्ति पिंगल परि- पठितं दैव्येकमित्यादि । तत्र च सर्वसं- ख्याया व्यवहारः पाद इत्यधिकारात् ।
इषे त्वा ॥
दैवी, अनुष्टुप, त्र्यक्षरा, शाखाच्छेदने वि- नियुक्ता । 'इषे त्वेति च्छन्दन्ति' इति । 'इषु इच्छायाँ' क्विप् तादर्थ्ये चतुर्थी 'सावे- काचस्तृतीयादिर्विभक्तिः (६।१।१६८) इत्यन्तो- दात्तम् 'इषे' इति पदम्, अथवा इड्डिय यस्य स इषः इष्यमाणोऽन्नादिः । अकारः प्र- त्ययः। निमित्तात्कर्मसंयोगे सप्तमी । 'आगुणः । 'एकादेश उदात्तेनोदात्तः' (८/२/५) इत्यन्तो- दात्तत्वम् । 'वा' इति कर्मपदं युष्मदादेशः । कर्म च क्रियायाम् । तत्र क्रियाया अश्रवणादि- नियोगबलाच्छिन्दन्ति इत्यध्याहारः । अन्नादि - सिद्धये त्वां छिन्दन्तीति समुदायार्थः । अन्नादि- निमित्तत्वं तु
'अग्नेर्धूमो जायते धूमादभ्रमभ्राद्वृष्टिः ।' इत्यादिश्रुतिकथितप्रणालिकया ॥
ऊर्जेत्वा ॥
'ऊर्ज बलप्राणनयोः' क्विबन्तः अन्नस्य बलस्य च नामधेयत्वेन प्रसिद्धः । शाखासन्नमने परि- मार्जने च द्विपदस्यास्य मन्त्रस्य यक्षराया दैव्या
अनुष्टभो विनियोगः । परिमार्जिम सन्नमया - मीति पर्यायेणाध्याहारः । बलार्थं त्वां परि- मामि सन्नमयामीति वाक्यार्थः ॥
वायवस्थोपायवस्स्थ ||
अनुष्टुप् । वत्सदैवत्या । चतसृणां गवां सम्बन्धिनो वत्सान् शाखयोपस्पृशन् देशादे - शान्तरं नयति कृतप्रस्रवणान् । हे वत्साः वा- यवः इव स्थ भवत कृतप्रस्रवणाः सन्तो वेगे- नापसरत यावदहं क्षीरं गृह्णामि, उपायवस्स्थ उपगच्छत मातुः समीपे अनुसरत पुनः क्षीरं पातुमित्यर्थः ॥
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ॥ धृतिश्छन्दः, गावो देवता, अनेन धेनूः प्राचीं गमयति । हे धेनवः वो युष्मान् देवो दानादिगुणकः, सविता कर्मणोऽनुज्ञाता फल- प्रसविता वा प्रार्पयतु शरीरान्तरसम्बन्धं समर्पयतु देशान्तरं प्रापयतु, नत्वहं मानुषमात्र इत्यर्थः । किमर्थम् । श्रेष्ठतमाय कर्मणे यज्ञार्थं 'यज्ञो वै श्रेष्ठतमं कर्म' इति श्रुतिः ॥
'आप्यायध्व' इत्यादि यजुः । हे अन्याः अहन्तव्याः अघस्य पापस्य हन्यो वा देवस्ये- न्द्रस्य सम्बन्धिनं भागं भजनीयं सान्नाय्यल- क्षणमाप्यायध्वम् 'प्यायी वृद्धौ' वर्धयत । यतो यूयं प्रजावतीः प्रजावत्यः पुत्रवत्यः, अनमीवा 'अम रोगे' इत्यस्यामीवाशब्दः व्याधिविशेष- शून्याः, अयक्ष्माः यक्ष्मो व्याधिविशेषः राजय- क्ष्माख्यस्तच्छून्याः, अथवा अयनमयः क्ष्मायां पृथिव्यां यासां ताः अयक्ष्माः । ' मा वस्स्तेन ई- शत' वः युष्माकं स्तेनश्चौरो मा प्राभूत् । 'मा- घशंसः - अयं पापं शंसतीत्यघशंसः चाण्डा- लादिः मा वः ईशत । 'परि वो रुद्रस्य हेति- बृणक्तु' परिवृणक्तु परिवर्जयतु | 'ध्रुवा अस्मि न्गोपतौ स्यात वही : ' अस्मिन्यजमाने स्थिरा भवत बह्वीः बह्वयश्च भवतास्मिन् । 'यजमानस्य पशून्पाहि यजमानस्य पशुपा असि ।' अनेन शाखां स्थापयति, हे शाखे यतस्त्वं स्वभा- वेनैव यजमानस्य पशुपाः अतो यजमानस्य पशून्पाहि ॥ प्रथमोऽनुवाकः ॥ १ ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ता- भ्यामाददे ॥
अनेन हविर्निदधाति । संकृतिश्छन्दः । हे धान्यादिक देवस्य सवितुरादित्यस्य प्रस- वेऽनुज्ञायां वर्तमानस्तेन प्रकाशद्वारेण कर्मसु प्रवर्तनात्, अश्विनोः सम्बन्धिभ्यां बाहुभ्यां, पूष्णश्च हस्ताभ्यां नतु स्वकाभ्यां चर्मादिमया- भ्यां त्वामाददे । प्रतिग्रहादावप्यस्य विनियोगः ॥ गोपदसि ॥
वर्हिर्लवणीमश्वपशूनामाह गावः सीदन्त्य- स्यामिति गोषत् तथा बर्हिलवण्या गावो वर्तन्ते इत्येवमुक्तम् ॥
'प्रत्युष्टं रक्षः प्रत्युष्टारातिः' इत्यग्निमभ्यर्थ- यते पशूंस्तापयन् । 'उष दाहे' रक्षः राक्षस उपलक्षणमेतत् राक्षस पिशाचादिकं प्रति- दग्धमस्तु । न विद्यते रातिः धनं यत्र सोऽरा- तिरर्थाभावः अलक्ष्मीरित्यादिपर्यायः, अदानं कार्पण्यं वा अरातिः शत्रुर्वा अरातिः स दग्धो
भवतु ॥
बर्हिलवनायोत्तिष्ठन्नाह
प्रेयमगाद्धिपणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा ॥
इयं मम धिषणा बुद्धिः बर्हिः कर्मभूतं अच्छ प्रागात् आभिमुख्येन गन्तुं प्रवृत्ता । 'अच्छाभेः शाकपूणिः' इत्यच्छशब्दोऽभेरर्थे आभिमुख्ये वर्तते । कीदृशी धिषणा । मनुना प्रजापतिना कृता, तथा स्वधया अन्नेन वितष्टा तीक्ष्णी-
कृता ॥
बर्हिः स्थानं गच्छति
उर्वन्तरिक्षं वीहि ॥
हे चरणयुगलक उरु विस्तीर्णमन्तरिक्षं
वीहि गच्छ ॥
दर्भस्तम्वं त्रिः परिलिखति
इन्द्रस्य परिषूतमसि ।।
हे दर्भस्तम्व त्वमिन्द्रस्य कृते परिपूतं
जातः ॥
पक्कं मध्येन योजयति ॥
माधो मोपरि परुस्ते ॥
हे दर्भस्तम्ब ते तव परुः पर्व अधः उपरि मा भूत् परशुधारासाम्येन वर्ततामित्यर्थः ॥ लुनाति
ऋद्ध्या समाच्छेत्ता से मा रिषत् ॥
'रुष रिष हिंसार्थः ' ते तव समाच्छेत्ता लविता ऋद्धिं मा रिषत् मा हिंसीत् यज्ञ- साधनशक्तिं माच्छैत्सीदित्यर्थः । ऋद्ध्येति व्यत्ययेन तृतीया ॥
छिन्नशेषाणि भूमिलग्नानि पुनः प्ररोहण- समर्थानि बर्हिर्मूलानि अभिमृशति
देव बर्हिः शतवशं विरुह सहस्रवल्शा वि वयं रुहेम ॥ हे देव बर्हिः त्वं जातं सत् शतवल्शं शत- शाखं विरुह वर्धस्व, वयमपि त्वत्प्रसादात् सहस्रवल्शाः सहस्रशाखाः विरुहेम वर्धि- महि ॥
बन्धनार्थं रज्जुं करोति अदित्या रास्नासि ॥
असि त्वं अदित्याः पृथिव्या रास्ता रज्जुः ॥ बर्हिः सन्नह्यति
इन्द्रायाः सन्नहनं पूषा ते ग्रन्थि प्रश्नातु स ते मा स्थात् ॥ यतस्त्वमिन्द्राण्याः सन्नहनं बन्धनमतस्ते पूषा इन्द्रो ग्रन्थिं ग्रश्नातु ते वर्हिषः, त्वा-
मिन्द्रो बन्नात्वित्यर्थः । सच ग्रन्थिर्यथितः सन् तव चिरं मा स्थात् शीघ्रमेव तव विमु- तस्य यज्ञोपयोगोऽस्त्वित्यर्थः ॥
उद्यच्छति बर्हिः
इन्द्रस्य स्खा बाहुभ्यामुद्यच्छे ॥
बर्हिः त्वामहमिन्द्रस्य सम्बन्धिभ्यां बा- हुभ्यामुद्यच्छामि, नतु स्वकाभ्यां चर्मादिमया- भ्यामिति ॥
प्रोत्साहेन उद्धृतं मूर्ध्नि निधत्ते बृहस्पतेस्त्वा मूर्ध्नाहरामि ॥
त्वामहं बृहस्पतेः सम्बन्धिना मूर्ध्ना शि रसाहरामि धारयामीति ॥
पूर्ववद्दहिंराह
देवङ्गममसि ॥
असि त्वं बर्हिर्देवङ्गमं देवार्थं तव नयन-
मित्यर्थः ॥
न केवलं वयमेव देवार्थं त्वा नयामः, पूर्वैरप्येवमनुष्ठितमित्याह
तदाहरन्ति कवयः पुरस्तात् ॥
कवयः क्रान्तदर्शनाः सम्यग्विदितानुष्ठित- सकलवेदार्थाः तद्बर्हिरेवमेवाहृतवन्त इति
तात्पर्यार्थः ॥
वेद्यामासादयति
देवेभ्यो जुष्टमिह बर्हिरासदे ||
इदं बर्हिर्देवेभ्यो जुष्टमिति रुचितमिह वेद्यामासादयामीति ॥ द्वितीयोऽनुवाकः ॥ २ ॥ क्षीरपावनार्थं दर्भपवित्रं करोति
वसोः पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् ॥ हे पवित्र वसोर्धनस्य क्षीरस्य त्वं पवित्रं पावनं असि । शतसहस्रग्रहणमपरिमितत्वोपलक्ष- णार्थम्, अपरिमितच्छिद्रत्वादपरिमितधारमि- त्यर्थः । वसूनामिति, आस्तामिदमेकयज- मानसम्भृतमल्पं पयः, यावज्जगतीगताना- मितरयजमानसम्भृतानां पयसां पावनमसि । यद्वात्र मरुतो वसव उच्यन्ते इन्द्रसाहाय्येन वर्तमानाः, ते हि वसते आच्छादयन्तीति
वसवः । तथाच ब्राह्मणम्
'वसूनां वा एतद्भागधेयम्'
इति ॥
वत्सैः संगृह्यमाणा गा अनुमन्त्रयते
अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः ॥
हे अयक्ष्माः व्याधिविशेषहीनाः अवध्य- धना वा वो युष्मान् प्रजया संसृजामि | रायो धनस्य भक्ष्यविशेषात्मकस्य पोषेण ब- हुलाः प्रवृद्धदेहा भवन्तीः, यद्वा धनपुष्ट्या सह बहुलाः प्रचुराः भवन्तीः ॥ दुह्यमानासु जपति
मधुमद्धृतवत्पिन्वमाना जीवा जीवन्तीरुप वः सदेम ॥ हे गावः वो युष्मान्वयमुपसदेम अनवर- तमित्याशास्महे । कीदृशीः । जीवन्तीः दीर्घा - युषः, जीवाः प्राणयुता वलवतीरित्यर्थः । किं कुर्वतीः । मधुमत् मधुररससंयुक्तं, घृतव- च्चातिस्निग्धं क्षीरं पिन्वमानाः स्रवन्त्यः ॥ गार्हपत्यादंगारराशिं पृथक्करोति
मातरिश्वनो घर्मो ऽसि ॥
हे अंगारराशे त्वं मातरिश्वनो वायोः धर्मः तेजः । तथाच ब्राह्मणम्
'अन्तरिक्षं वै मातरिश्वनो धर्मः ।'
इति । अत्रान्तरिक्षशब्दः तात्स्थ्यादन्तरि- क्षस्थे भानुतेजसि वर्तते ॥
उद्धृतेऽङ्गारराशौ उखामधिश्रयति
द्यौरसि पृथिव्यसि विश्वधायाः परेण धाम्नाहुतासि
माह्वाः ॥
'उपस्तीत्येवैनामेतत्' इति श्रुतिः । यदा दि वः पतितेनोदकेन सम्पाद्यते तदा द्यौरिति स्तूयते । पृथिव्यवयवनिर्मितत्वात्पृथिवीति । EX विश्वं सर्वं धत्ते इति विश्वधा पृथिवी, तस्याः सम्बन्धिना परेणोत्कृष्टेन
धाम्ना
तेजसा सारेण असि त्वं अता ' कौटि - ल्ये' अकुटिला । यतश्च त्वमकुटिला, अतः माह्वाः द्रव्यधारणे व्यापृता सती कुटिला मा भूः ॥
तिसृषु धेनुषु दुग्धासु कां दुग्धवानसीति प्रश्ने अमूमिति चोत्तरे दोग्धाभिहिते अध्व-
राह
सा विश्वायुः सा विश्वव्यचाः सा विश्वधाया ॥
या प्रथमं दुग्धा, सा विश्वायुः सर्वस्यायुषो धात्री क्षीरादिद्वारेण । तथाच श्रुतिः 'आयु- घृतम्' इति । या द्वितीयस्थानदुग्धा, सावि- श्वव्यचाः 'व्यच सम्भवे' विश्वं ततः सम्भ- वति यज्ञद्वारेण । या तृतीयस्थानदुग्धा, सा विश्वधाया विश्वं धापयतीति विश्वधाया सर्वस्य क्षीरेण तृप्तिं करोतीत्यर्थः ॥ पृथग्भवतो दुग्धविप्रुषोऽनुमन्त्रयते
हृतः स्तोकोऽहुतो द्रप्सोऽनये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् ||
यः स्तोको बिन्दुः, यश्च द्रप्सः स्थूलो भूमौ पतितः, स सर्व एवाहुतोऽपि हुतोऽस्तु । कस्मै । अग्नये, बृहते महते, तथा नाकाय ना- स्मिन् अकं दुःखमस्तीति कृत्वा स्वर्गाय । द्यावापृथिवीभ्यां च स्वाहा सुहुतमस्तु ॥
द्यौरन्तरिक्षमिति यत्र पात्रे दोहः कृतस्त-
स्मादुखायां क्षीरे आसिक्ते सति यत्किंचन दोहभाण्डे लग्नं, तदद्भिः प्रक्षाल्य स्थाल्यां निक्षिपति
सम्पृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । मन्द्रा धनस्य
सातयः ॥
हे आपः संपृच्यध्वं पयसोखास्थेन । ऋ- तावरीः सत्यवत्यः, यज्ञवत्यो वा तत्साधन- त्वात् । केन । ऊर्मिणा कल्लोलैः । मधुमत्तमा मधुरतम रससंयुक्ताः । मंद्राः 'मदी हर्षे' माद- पित्र्यः, तथा धनस्य सातयः साधिकाः ॥ दुग्धे दध्यासिञ्चति
इन्द्रस्य त्वा भागं सोमेनातनच्मि ॥
हे पयः त्वां सोमेन दना आतनच्मि सं- कोचयामि, तञ्चिः संकोचनार्थः । कीदृशं त्वाम् । इन्द्रस्य भागं भजनीयम् ॥
गार्हपत्यसमीपे पयः स्थापयति अदस्तमसि विष्णवे ।।
'दसु उपक्षये' अदस्तमनुपक्षीणं हे पयः यतस्त्वं विष्णवे विष्ण्वर्थं यज्ञोपयोगीत्यर्थः । 'यज्ञो वै विष्णुः' इति श्रुतिः ॥
हविरभिमन्त्रयते
विष्णो हव्यं रक्षख ॥
हे विष्णो इदं हव्यं हवनीयं रक्षख ॥
सजलेन दारुपात्रेण उखां पिदधाति
आपो जागृत ॥
हे आपः जागृत रक्षार्थं जागरूका भवत ॥ तृतीयोऽनुवाकः ॥ ३ ॥
कस्त्वा युनक्ति सत्वा युनक्तु विष्णुस्त्वा युनक्त्वस्य यज्ञस्य ॥
यज्ञादिकं प्रस्तुतं कर्मैवमुच्यते । कः प्रजा- पतिः, हे कर्मन्, त्वां युनक्ति संपादयति फलेन वा योजयति । स इत्यपि प्रजापतेरेव निर्देशः परोक्षरूपेण । अभ्यासे भूयांसमर्थं मन्यन्ते यथा अहो रमणीया अहो रमणीयेति । विष्णुर्यज्ञः, स च प्रजापतिरेव । यज्ञस्त्वा युनक्तु फलेन संवर्धयतु | किमर्थम् । अस्य प्रारब्धस्य यज्ञा- दिकस्य कर्मणः समृद्ध्यै माहात्म्याय । सावि- त्र्यनुवाकवदनुवचनमस्य ॥
1
अमुष्मै कामायायुषे त्वा प्राणाय त्वा व्यानाय त्वापा- नाय त्वा व्युष्ट्यै त्वा रय्यै त्वा राधसे त्वा पोषाय वा घोषाय नाराद्धोषाय त्वा प्रच्युत्यै वा ॥
अत्र प्रत्येकं तर्पयामीत्यध्याहृत्य योजनी - यम् । अमुष्मै कामाय त्वां प्रजापति तर्प- यामि । असावित्युक्ते नाम प्रतीयात् । तेन 'अमुष्मै' इत्यस्मात्काम्यमानपशुपुत्रादिफल- विशेषनामानि प्रत्येतव्यानि । आयुषे आयु- रर्थं त्वां तर्पयामि । सर्वत्र तादर्थे चतुर्थी । व्युष्ट्यै त्वां तर्पयामि 'उष दाहे' विशेषेण अविद्यास्मितारागद्वेषाभिनिवेश लक्षणानां शानां उष्टिः, तदर्थम् । रयिर्धनं, तदर्थम् । राधोऽन्नम् । पोषस्तत्त्वज्ञानस्य, तदर्थम् । प्रक- र्षेण च्युतिः संसारस्य तदर्थं त्वां प्रजापतिं तर्पयामि ॥
अग्नये वायवे सूर्याय ब्रह्मणे इन्द्राय प्रजापतये भवाय शर्वाय ईशानाय ईश्वराय विष्णवे वृहस्पतये यजुर्वेदाय च्छन्दोभ्य ऋषिभ्यो वेदेभ्यो ब्राह्मणेभ्यः सोमेभ्यः सोमपेभ्य आचार्येभ्यो नमो नमः ॥
-
-इत्युदकतर्पणमाचाराध्यायोक्तमदोऽप्यध्या-
योपाकरणम् ॥
इति नवमी काण्डिका ॥ ९ ॥

अथ
दशमी कण्डिका ।
अथोपनिषदर्हाः ॥ १ ॥
शिष्या उच्यन्ते इति शेषः । अध्यायोपा- करणानन्तरमध्ययनप्रसंगेनोपनिषदं रहस्य - शास्त्रं येऽर्हन्ति, ते उपनिषदर्हाः शिष्याः नैष्ठि कब्रह्मचार्यादय उच्यन्ते ॥ १ ॥
ब्रह्मचारी सुचरिती मेधावी कर्मकृद्धनदः प्रियो विद्यया वा विद्यामन्विच्छंस्तानि तीर्थानि ब्रह्मणः ॥ २ ॥
ब्रह्मचारी नैष्ठिकब्रह्मचर्ययुक्तः, सुचरित - मस्यास्तीति सुचरिती सदाचारो गृहस्था- दिरपि । मेधावी ग्रहणधारणशक्तियुक्तः । कर्मकृत् नित्यनैमित्तिककर्मानुष्ठानरतः गुरु- परिचर्यावरणकारी च । धनदः प्रचुरधनदाने समर्थः ग्रहणान्ते गुरुदक्षिणावसाने, नतु पूर्व निषिद्धत्वात्
'न पूर्व गुरवे किञ्चिदुपकुर्वीत धर्मवित् ।'
इति । प्रियः पुत्रादिः सदाचारः । यश्च विद्यया विद्यान्तरमादित्सते, तानि ब्रह्मणस्तीर्थानि वेदस्य रहस्यरूपस्य दाने निपानानि ग्रहणे चोपाया इत्यर्थः । तीर्थं हि निपानं स्मृतम् ।
'तीर्थाभिधानमिच्छन्ति त्रितयं कृतबुद्धयः । शास्त्रं चैव निपानं च वारि चाप्यृषिसेवितम् ॥'
इति ॥ २ ॥
इति दशमी काण्डिका ॥ १० ॥