ललितापञ्चरत्नम् (मूलसहितम्)

विकिस्रोतः तः
ललितापञ्चरत्नम् (मूलसहितम्)
शङ्कराचार्यः
१९१०

॥श्रीः॥

॥ ललितापञ्चरत्नम् ॥


प्रातः स्मरामि ललितावदनारविन्द
 बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
 मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ १॥

प्रातर्भजामि ललिताभुजकल्पवल्ली
 रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
 पुण्ड्रेक्षुचापकुसुमेषुमृणीर्दधानाम् ॥ २ ॥

प्रातर्नमामि ललिताचरणारविन्दं
 भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं
 पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥

प्रात: स्तुवे परशिवां ललितां भवानीं
 त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
 विद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४ ॥

प्रातर्वदामि ललिते तव पुण्यनाम
 कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति
 वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५ ॥

यः श्लोकपञ्चकमिदं ललिताम्बिकाया:
 सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
 विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
ललितापञ्चरत्नं संपूर्णम् ।।