लघुशब्देन्दुशेखरः

विकिस्रोतः तः
लघुशब्देन्दुशेखरः
नागेशभट्टः

नागेशभट्टकृतः लघुशब्देन्दुशेखरः

संज्ञाप्रकरणम्‌[सम्पाद्यताम्]


पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः ।
शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः ॥ १ ॥
याचकानां कल्पतरोररिकक्षहुताशनात् ।
शृङ्गवेरपुराधीशाद् रामतो लब्धजीविकः ॥ २॥
नत्वा फणीशं नागेशस्तनुतेऽर्थप्रकाशकम् ।
मनोरमोमार्द्धदेहं लघुशब्देन्दुशेखरम्।।
ग्रन्थसमाप्तिग्रन्थप्रचारादिप्रतिबन्धकदुरितप्रशमाय समुचितऋषित्रयनमस्काररूपं मङ्गलमाचरन् शिष्यशिक्षायै व्याख्यातृश्रोतृणामनुषङ्गतो मङ्गलाय च निबध्नाति-मुनित्रयमिति। कारकविभक्तेर्बलवत्त्वाद् द्वितीया। परिभाव्येति। तच्छब्दस्य बुद्धिस्थपरामर्शकत्वात् प्राचामुक्तीस्तिरस्कृत्येत्यर्थः, मुनित्रयोक्तीविचार्येत्यर्थो वा। 'परिभावस्तिरस्क्रिया' इति कोशात्तिरस्कारार्थकस्य धातोर्विचारार्थकत्वेऽपि न बाधकम्। धातूनामनेकार्थत्वात्। अत एव 'परौ भुवोऽवज्ञाने' ( ३।३।५५ ) इति सङ्गच्छते। एतेन स्वग्रन्थस्य प्राचीनग्रन्थैरगतार्थता समूलत्वञ्च ध्वनितम्। भाविनोऽपि बुद्ध्या विषयीकरणादियमिति निर्देशः। सिद्धान्तप्रकाशकत्वेनातिदुरूहग्रन्थान्तरेभ्यः सिद्धान्तज्ञाने जायमानस्य क्लेशरूपसन्तापस्य शामकत्वेन च कौमुदीसादृश्यम्। अनेन वैयाकरणसिद्धान्ता विषयाः, तज्ज्ञानं प्रयोजनं तज्जिज्ञासुरधिकारीत्यादि सूचितम्।
अइउण् (मा० सू० १) एषां क्रमबोधकत्वेऽपि 'आदिरन्त्येन' (१।१।७१) इत्यनेनैकवाक्यतया वृत्तिपरिच्छेदकत्वेन संज्ञासूत्रत्वम्। क्रमस्य संज्ञाद्वारैवोपयोगात्। एकवाक्यता चादिरकारादिरन्त्येनेता तत्सदृशेन णकारादिना सहोच्चार्यमाण आद्यन्ताक्षिप्तानां संज्ञेति। 'स्वौजस' (१।१।२) इत्यादीनामप्येतदेकवाक्यतया सुबादिसंज्ञासूत्रत्वं स्वादिविधायकत्वञ्चेति बोध्यम् । एषु संहिताया अविवक्षया
न संहिताकार्यम्। अनुकरणत्वेन सौत्रत्वाच्च वर्णेभ्यो न विभक्त्युत्पत्तिः। कारप्रत्ययोऽपि न, बाहुलकात् ।
यत्तु उपजीव्यविरोधात् सन्धिर्न । तथा हि अजादिसञ्जाग्रहकाले 'आद् गुणः' (६।११८७) इत्यादीनामनिष्पत्त्या तदप्रवृत्तावविकृतरूपाकारादिषु गृहीताजादिपदशक्तिः पश्चादच्प्रत्याहारे ज्ञाते उपेन्द्र इवात्रापि तत्प्रवृत्तौ विरुद्ध्येत । न हि सन्धिकार्ये कृतेऽविकृतरूपश्रवणं भवति' इति ।
तन्न । पुनरच्पदस्यार्थान्तरे शक्त्यग्रहेण तद्विरोधाभावात् । न च सन्धौ सन्देहः । व्याख्यानतो निर्णयसम्भवात् ।
ननु चतुर्दशसूत्र्यामक्षरसमाम्नाय इति व्यवहारानुपपत्तिराम्नायसमाम्नायशब्दयोर्वेदे एव प्रसिद्धेरित्यत आह-माहेश्वराणीति। महेश्वरादागतानीत्यर्थः। महेश्वरप्रसादलब्धानीति फलितम् । एवञ्चैवमानुपूर्वीका श्रुतिरेवैषा । तत्प्रसादात्पाणिनिना लब्धा । श्रुतिमूलकत्वादस्यैव वेदाङ्गत्वम्। प्रमाणम् -
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तम् ' (पा० शि० ५७) । इति शिक्षावचनम् ।
'लण्सूत्रे णकारविषयाचार्यप्रवृत्तिर्ज्ञापयति- व्याख्यानत इति' इत्यादावाचार्यपदेन महेश्वरः ।
अनुबन्धाश्च महेश्वर्थवत्, किञ्चिच्छुद्धादृष्टार्थवत्, सर्वथाऽनर्थकं न किञ्चिदिति तदर्थः। वृद्धिसूत्रस्थे-'वर्णनाप्यनर्थकेन न भवितव्यम्' बोध्यार्थराहित्यरूपमिति न निष्प्रयोजन स्वरूपानर्थक्येन तत्र तत्र प्रत्याख्यानपरभाष्यासङ्गतिः ।
अत एव सोयमक्षरसमाम्नायः पुष्पितः फलितश्चन्द्रतारकवत् प्रतिमण्डितो ब्रह्मराशिः' इति भाष्यमुपादायोक्तं भर्तृहरिणा-
यथैवेदमव्युच्छिन्नं चन्द्रतारकादि एवमस्याक्षरसमाम्नायस्य न कश्चिद् आधुनिकः कर्ताऽस्ति एवमेव वेदपारम्पर्येण स्मर्यमाणः' इति । आधुनिकः शरीरी। पुष्पितत्वं तन्मूलक शब्दशास्त्रद्वारेण । शब्दप्रयोगेण च फलितत्वम् ।
उक्तञ्चैतच्चतुर्दशसूत्रव्याख्यायां नन्दिकेश्वरकृतकाशिकायाम् -
'नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्च वारम् ।
उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ।।
अत्र सर्वत्र सूत्रेषु अन्त्यं वर्णचतुर्दशम् ।
धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये ॥ इति ।
धात्वर्थं धातुमूलकशब्दशास्त्रप्रवृत्त्यर्थम्। अत एव “अनुबन्धकरणार्थश्च वर्णानामुपदेशः' इत्युक्तं भाष्ये। अत्र करणशब्दप्रयोगेणानुबन्धानां सादित्वं सूचितम्। तत्करणञ्चोपदेशकर्तृकर्तृकमेव प्रत्यासत्तेः। तेन तद्व्यतिरिक्तस्य सर्वस्यानादित्वं सूचितम् ।
अत्र सनकाद्युद्धरणेच्छयाऽस्य ब्रह्मोपदेशरूपत्वं सूचितम्। तच्च श्रुतित्वाभावे न सङ्गच्छते। 'श्रोतव्यः श्रुतिवाक्येभ्यः' इत्युक्तेः।
ऋक्तन्त्रव्याकरणे शाकटायनोऽपि-'इदमक्षरच्छन्दो वर्णशः समनुक्रान्तं यथाऽऽचार्या ऊचुः- ब्रह्मा बृहस्पतये प्रोवाच बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्य ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नायमित्याचक्षते, न भुक्त्वा न नक्तं प्रब्रूयाद् ब्रह्मराशिः' इति। ब्रह्मराशिरित्यस्य ब्रह्मपतिपादको वर्णराशिरित्यर्थः। तत्त्वञ्च नन्दिकेश्वरकृतकाशिकायां स्पष्टम् ।
अत एव 'वृत्तिसमवायार्थो वर्णानामुपदेशः कर्त्तव्यः' इति भाष्ये उक्तम् । पाणिनेर्लाघवेन शास्त्रप्रवृत्तिफलको यः समवायो वर्णानां क्रमेण सन्निवेशस्तदर्थ इति तदर्थः । स चाणादिप्रत्याहारद्वारा शास्त्रप्रवृत्त्यर्थः। एवाञ्चायमुपदेशः पाणिनेरन्यकृत इति स्पष्टमेवोक्तम् ।
मन्त्रोपदेश इतिवच्चात्रोपदेशपदप्रयोगः। अत एवास्य ज्ञाने सर्ववेदपारायणजं पुण्यं फलमिति भाष्ये उक्तम्। व्याकरणमुपक्रम्य 'वेदानां वेदः' इति छन्दोगश्रुतिरप्येतत्परैवेति दिक् ।
तत्प्रयोजनमाह - सज्ञार्थानीति। एतच्चोपपादितम्। संज्ञाप्रणायनश्च लाघवेन शास्त्रप्रवृत्त्यर्थमिति बोध्यम् ।
सञ्ज्ञार्थत्वोपपत्तये आह-एषामिति ।
अकारश्चेति । तेन रप्रत्याहारसिद्धिः। अनन्त्यत्वात्पृथगुक्तिः। इदं 'तुल्यास्य (१।१।९) सूत्रस्थ (१)कैयटानुरोधेन ।
परे त्वस्यानुनासिकत्वे 'अतो ल्रा' ( ७।२।२) इति सूत्रे पाणिनिर्लकारं नोच्चारयेत् । प्रत्याहारेणैव निर्वाहात् ।
किञ्चास्येत्संज्ञकत्वे बहुषु यण्पदघटितसूत्रेष्वर्द्धमात्रालाघवानुरोधेन यप्रत्याहारेणैव व्यवहरेत्।
किञ्चानुबन्धानामच्प्रत्याहारे ग्रहणाभावे 'आचारादप्रधानत्वाल्लोपश्च बलवत्तरः इति भाष्योक्तस्य तृतीयहेतोरव्यापकत्वापत्तिः। तव लोपस्य बलवत्वेऽपि हल्पत्याहारसिद्धेः प्रागच्पदार्थनिष्पत्त्यभावेन। उपदेशेऽज' (११३१२) इत्यस्य वाक्याभावेन लणित्यकारस्येत्सञ्जालोपयोरभावेन प्रत्याहारेषु जातिग्रहणपक्षस्यैव भाष्यकृता सिद्धान्तितत्वेन हरूप्रत्याहारे लणित्यकारप्रवेशे ‘मामाँस्त्रायस्व' इत्यत्रानुनासिकपक्षेऽनुस्वारापत्तिर्दुर्वारा, 'सोऽस्ति' इत्यादौ सुलोपाद्यापत्तिश्च । अत एव--
'प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न ।'
इत्यनेन प्रत्याहारे वर्णसमाम्नाये य एतेऽक्षु अज्बोधकसूत्रेषु प्रत्याहारा अनुबन्धाः क्रियन्ते तेषामज्ग्रहणेन ग्रहणं कस्मान्नेत्यर्थकेनाच्प्रत्याहारे शङ्का कृता, न हत्प्रत्याहारे । भाष्ये च 'अइउण्' ( मा० सू० १ ) इत्यादि सूत्रचतुष्टयोपादानेनैवास्य प्रवृत्तिर्दर्शिता । तत्र प्राधान्यं प्रत्याहारेषु ग्रहणार्थत्वरूपं, हल्षु च तथोपदेशस्तेषाम् , अक्षु तु स्वराणामेव तथोपदेश इति प्राधान्यात् तेषामेव सज्ञित्वमिति भाष्ये स्पष्टम् । न च हशादिप्रत्याहारे टग्रहणस्यापत्तिरिति वाच्यम्, हकारादिषु पुनःपुनरकारोच्चारणेन उच्चारणार्थवर्णरहितहलां तद्घटितप्रत्याहारे ग्रहणाभावस्य वक्तुं शक्यत्वात्; तद्विषयप्रयोगाणामनभिधानाच्च। तस्मादस्यानुनासिकत्वमप्रामाणिकम्। 'उरण् रपरः' (१।१।५१ ) इत्यत्र लग्रहणं कर्तव्यमेव । ऋलवर्णयोः सावर्ण्यवदित्याहुः ।
ननु 'हय' (मा० स० ५) इत्यादावकारोच्चारणेन तस्य हल्त्वप्रसङ्गोऽत आह-हकारादिष्विति। 'न पुनरन्तरेणाचं व्यजनस्योच्चारणमपि भवति' इति 'उच्चैरुदात्तः' (१।२।२९) इतिसूत्रस्थभाष्यात् 'एषा ह्याचार्यस्य शैली लक्ष्यते, यत्तुल्यजातीयांस्तुल्यजातोयेषुपदिशति अचोऽक्षु हलो हल्षु' इति प्रत्याहारेऽनुबन्धानामित्यत्र भाष्याच्चेति भावः ।

स्यादेतत् । 'न विभक्तौ' ( १।३।४ ) इत्यादेः सार्थक्याय 'हलन्त्यम्' (१।३।३) इत्यस्योपदेशेऽन्त्यं हल् इदित्यर्थम्यावश्यकत्वेन हलन्त्यम्' (११३।३) 'आदिरन्त्येन' (१।१।७१) इत्यनयो: परस्परापेक्षत्वेनाऽन्योन्याश्रयाल्लकारे इत्संज्ञामबोधयित्वा हलामित्संज्ञाबोधनं पाणिनेरयुक्तम् ।

न च 'हयवरट्' (मा० सू०५) इत्यादेरावृत्त्या 'शषसर् (मा० सू०१३) इत्यन्तं समुदायमुद्दिश्य 'हल्' (मा० सू० १४) इत्यनेन हल्संज्ञाऽपि विधेयेति वाच्यम्; दशसूत्राऽऽवृत्तौ गौरवात्।

ननु 'उपदेशे इदन्त्यम्, अच्, अनुनासिकः' इति सूत्रत्रयमस्तु, अजित्यनन्त्यार्थम्, तृतीयेऽजित्यनुवृत्तिसामर्थ्यादच्चेदिद्भवति तर्ह्यनुनासिक एवेति नियमाश्रयणाद्रुप्रभृतौ न दोषः। योगविभागसामर्थ्याच्चानन्तरस्येति न्यायं बाधित्वा व्यवहितस्यापि तेन नियमः। 'मिदचोऽन्त्यात्' (११४७) इति ज्ञापकाच्च न विपरीतनियमः, एवञ्च हल्ग्रहणमपि व्यर्थमन्योन्याश्रयश्च न।
 
न च पाणिनिसूत्रभेदे पारायणादावदृष्टहानिः, तथा च तत्र तत्र भाष्यम्' अपाणिनीयन्तु भवति'-इति वाच्यम्; कल्प्यमानन्यासस्य लघुत्वेऽस्यादोषत्वात् । सूत्रभेदं तमुपाचरन्ति यत्र तदेवान्यत् सूत्रं क्रियते भूयो वा यदि तदेवोपसंहृत्य क्रियते नासौ सूत्रभेदः इति अच उपसर्गात्तः सूत्रभाष्यात्। नासौ सूत्रभेद इत्यस्य दोषाय इति शेषः। सति सम्भवे दृष्टद्वारैवाङ्गानामदृष्टार्थत्वमिति तदाशयः। अत एव तत्र तत्र ज्ञापकपरसकलमाष्योच्छेदो नेति चेन्न; योगविभागनियमज्ञापकाश्रयणेऽतिगौरवात्‌ । न हि वर्णाभिव्यक्तिजनककण्ठाद्यभिघातगौरवमेवादर्त्तव्यम्‌, न तु ज्ञानजनकमनोव्यापारगौरवमिति राजाज्ञाऽस्ति । न च सह आ समन्ताद्‌ एति गच्छतीति सहेता मध्यमो वर्ण इत्यर्थ इति, अतो नान्योन्याश्रय इति वाच्यम्‌; अन्योन्याश्रय तत्परिहारादीन्‌ वदता भाष्यकारेण कटी' ( भ्वा० धा० ३२०) वी" ( भ्वा धा १०४८) इत्यत्र प्रश्लिष्टात्‌, ईङ् गतौ' (दि० धा० ११४३) इत्यतश्च सह -आङ्पूर्वात्‌-तृजभावबोधनात्‌। किच्च योगमर्यादया तत उक्तार्थालाभः। आ समन्तादित्यस्यानन्वितार्थत्वं व्यर्थत्वञ्च। रूढौ तु न मानमतः सूत्रावृत्त्या तं परिहरति-हलन्त्यमिति।
भाष्येप्यन्योन्याश्रयमाशङ्क्य "हलन्त्यमित्संज्ञं भवति लकारश्चेद्भवतीति वक्तव्यम् इत्युक्त्वा एकशेषनिर्देशाद्वा सिद्धम्‌ - हल् च हल्‌ च हल्, हलन्यमित्‌ इत्युक्तम्। तस्यायं भावः--कृतैकशेषेण हल्पदेन सम्बन्धसामान्यषष्ठ्या समासोऽन्त्यशब्दस्य च द्वन्द्वान्ते श्रूयमाणस्येवोभयत्रान्वयः। एवं च हल्सूत्रान्त्यं हल्रूपान्त्यं चेति बोधः। अन्त्ये 'राहोः शिरः' इतिवत् षष्ठीति। अत्रोच्चारयितुरेकशेषनिर्देशः, बोद्धुस्त्वावृत्त्या बोधः। हसमीपो लकार इत् हलरूपान्त्यञ्च' इति कैयटोक्तव्याख्यायां तु हल् इत्संज्ञं भवति हलन्त्यं चेदिति वदेदित्यूह्यम्।
नन्वेवमपि 'न विभक्तौ' ( १।३। ४) इति विभक्तिपदबोद्ध्यसुप्तिङ्बोधो 'हलन्त्यम्' (११३१३) इति वाक्यार्थबोधोत्तरम्, तद्बोधश्चापवादवाक्यार्थबोधोत्तरम्-इत्यन्योन्याश्रयस्तदवस्थ एवेति चेत्? न; अपवादवाक्यार्थबोधात् पूर्वं पदपदार्थोपस्थितावुत्सर्गवाक्यार्थबोधे प्रतिबन्धकाभावात्। न ह्यभावज्ञाने प्रतियोगिज्ञानस्येव प्रतियोगिज्ञानेऽभावज्ञानस्य कारणता कस्यापि सम्मता। प्रतियोगिज्ञानं विना निषेधवाक्यार्थासम्भवाच्च।
'पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः' इत्यस्य त्वयं भावः-लक्षणैकचक्षुष्कस्य उद्देश्यतावच्छेदकावच्छिन्ने सर्वत्रोत्सर्गकृतसंस्कारबुद्धावुत्सर्गापवादयोर्विषयव्यवस्थानापत्त्या 'भुक्तवन्तं प्रति मा भुक्था' इति वाक्यस्येवापवादशास्त्रवैयर्थ्यापत्त्या चापवादशास्त्रपर्यालोचनेन तद्विषयलक्ष्यसंस्कारं निर्णीय तदविषयं तत्तल्लक्ष्यं तत्तद्विषयवाक्योपप्लवद्वारोत्सर्गेण संस्करोति, अन्यथा विकल्पापत्तिरिति।
यद्यपि भुक्तवन्तं प्रति' इति न्यायो लुगादिना जातनिवृत्तेर्व्यभिचरितः, तथापि तत्राप्यनुत्पत्तिरेवेति न दोषः, न्यायानङ्गीकारेऽपि विकल्पापत्तेः सत्त्वाच्च। 'अभिनिविशन्ते' इत्यस्य बुद्ध्यारूढा भवन्तीत्यर्थः।
लक्ष्यैकचक्षुष्कस्तु तत्तच्छास्त्रपर्यालोचनं विनापि अपवादविषयं परित्यज्योत्सर्गेण लक्ष्यसंस्कारञ्जानीते, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोगे एव धर्मोत्पत्तेः। तदुक्तम् -'प्रकल्प्य चापवादविषयं तत उत्सर्गः प्रवर्तते' इति। प्रकल्प्य - परित्यज्य।
यत्तु 'प्रकल्प्य च' इत्यस्यायमर्थ:-यथा 'न सम्प्रसारणे' (६।१। ३७ ) इति वचनात् 'परस्य यणः पूर्व सम्प्रसारणं पूर्वस्य तु तन्निमित्तः प्रतिषेधः' इति अभ्यस्तसंज्ञासूत्रे कैयटः। तत्र; 'न सम्प्रसारणे' (६।१।३७) इति सूत्रस्थभाष्यविरोधात्। तत्र हि 'एतदेव ज्ञापयति परस्य न पूर्वस्येति, यद्वा सम्प्रसारणाश्रयस्य प्रतिषेधः' इत्याद्युक्तम्। न हि न्यायेन सिद्धे एवमुक्तिरुचिता। तस्माद् न्यायस्य मदुक्त एव विषय इति बोद्ध्यम्। यद्यपि 'अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थः' इति। तदपि न उक्तयुक्तेः। 'न विभक्तौ तुस्माः' (१।३।४) इति शास्त्रे तुस्मपदार्थज्ञानमात्रेण पादीनामेव तद्विषयत्वाभावबुद्ध्या तेषु हलन्त्यसूत्रप्रवृत्त्या सुप्तिङ् रूपविभक्तिपदार्थज्ञानं सुलभमिति दिक् ।
अत्राप्युपदेश इति सम्बद्ध्यते । तद्बललभ्यमर्थमाह --सूत्रे इति।।
आदिरन्त्येन (१।१।७१)। आदिरिति किम्? अन्त्यशब्देन पूर्वेषामाक्षेपादिगादिप्रत्याहारेऽकारादिग्रहणं मा भूदिति। एवमादिशब्देन परेषामाक्षेपादिणादिप्रत्याहारेषु ञादीनां ग्रहणं मा भूदित्यन्त्येनेति। आदिः, अन्त्येन-इत्युभयोपादाने तु न दोषः; अयमादिरन्त्यो वेत्युक्तेऽवशिष्टमपि किञ्चिदस्तीति नियमेन प्रतीतेः। परस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः, पूर्वस्मिन् सति यस्मात्परो नास्ति सोऽन्त्य इति अकारादिग्रहणे इकार-णकारादीनामाद्यन्तत्वस्यैवानापत्तेः।
अत्राद्यन्ताभ्यामवयवत्वेन बोधकाभ्यां स्वघटितः समुदाय आक्षिप्तः संज्ञी। तस्य चैकत्र लक्ष्ये प्रयोगाभावात् प्रत्येकं संज्ञित्वम्। अन्त्यस्य तु न तत्कार्यम्; तस्येत्संज्ञालोपाभ्यामपहारात्। एतत्फलितकथनमेव भाष्ये मूले च-स्वस्य च रूपस्य इति।
स्वमित्यनुवृत्तिपरत्वेन व्याख्यानं तु हेयमेव; अनुवृत्तौ फलाभावात्।
इतेति किम् ? ञमङणनम्' (मा० सू० ७) इति णकारादिभिः प्रत्याहारो मा भूदिति ।
सहग्रहणाच्च समुदाय एव संज्ञेति समुदायादेव 'इकः' इत्यादौ विभक्त्युत्पत्तिः नादिमात्रात्। न चान्त्यस्येत्संज्ञालोपाभ्यामपहारात् 'आदिरन्त्येन' (१।१७१) इत्यसङ्गतम्; सूत्रेष्वित्संज्ञायामपि इगादिशब्देषु तदभावात्। अन्त्येनेत्यस्य इदन्त्यसदृशेनेत्यर्थात्, व्यक्तिपक्षे एवमेवौचित्यात्, सादृश्यमूलिकैव चात्र तत्त्वप्रत्यभिज्ञेत्याहुः।।
'अचि श्नुधातु' (६ । ४ । ७७ ) इति सूत्रे इण इत्येव सिद्धे 'य्वोः' इति निर्देशादिण् परेणैवेति लण्' (मा० सू० ६ ) सूत्रे भाष्ये स्पष्टम्।
हलन्त्यम् (१।३।३)। अत्र पदद्वयम्, समासेऽन्त्यशब्दस्य पूर्वनिपातापत्तेः, कर्मधारययोग्यपदानां समासाभावस्य सूत्रकारशैलीसिद्धत्वाच्च।
यद्यपि सर्वोऽपि हल् तं तं समुदायं प्रत्यन्त्यो भवति, तथाप्यन्त्यपदोपदेशपदाभ्यां प्रत्यासत्याऽज्ञातस्वस्वरूपज्ञापकोच्चारणविषयसमुदायं प्रत्यन्त्य इह गृह्यते।
अत एव मकारेत्संज्ञापरित्राणार्थस्थमोरुकारश्चरितार्थः। समुदायोपदेश एव सर्वत्र ऋषितात्पर्येणावयवानां नान्तरीयकतया तेषामज्ञातस्वस्वरूपज्ञापकत्वाभावात्।
उपदेशेऽन्त्य इति। तत्र विद्यमानमन्त्यमित्यर्थः। तेन 'अइउण् (मा० सू०१) इत्यादौ णादीनां हल्प्रत्याहारसिद्ध्युत्तरं तत्सिद्धिः। अन्यत्र त्वन्तरङ्गत्वात् प्राय उच्चारणेनाभिव्यक्तस्य तदव्यवधानेनैवेत्संज्ञा। पदार्थोपस्थितिरनुबन्धविनिर्मुक्तस्यैव 'उपदेशोत्तरकाला इत्संज्ञा' इति 'नाज्झलौ' (१११११०) इति सूत्रभाष्यात्।
'धुट्' इत्यादौ सानुबन्धाद्विभक्तिस्तु तेनैवानुबन्धविनिर्मुक्तोपस्थितेस्तस्यैवार्थवत्त्वात् सुलभा।
इत्संज्ञाकार्यं तु यत्र संज्ञा तत्राऽऽनर्थक्यात् तदुपस्थाप्य एव। स्पष्टञ्चेदं 'तित्स्वरितम्' (६।१।१८५) इत्यत्र कैयटे।
वैयाकरणे चित्स्वरस्तु न तस्येच्चकारसदृशत्वेऽपि तत्त्वाभावात्। विभक्त्यादिसंज्ञापि सूत्रान्तर्गतानामेवेति तत्रैव 'न विभक्तौ' (१।३।४) इत्यादीनां प्रवृत्तिः।
अत एव 'इदम इश् (५ । ३।३) इत्यादावण्त्वात् सवर्णग्रहणं प्राप्तमप्रत्यय इत्यनेन निषिद्धयते' इति भाष्योक्तं सङ्गच्छते।
यत्तु ‘अनेकाल्' (१।१ । ५५ ) सूत्रे 'इशि शिद्ग्रहणाभावेऽपि शित्करणादेव सर्वादेशत्वम्' इति भाष्ये उक्तम्, तस्येत्संज्ञकशकारकरणाद् भूतपूर्वानेकाल्त्वमादाय सर्वादेशत्वमित्यर्थ इति न तद्विरोधः।
अत्र केचित्-अनुबन्धा अनेकान्ताः, अनवयवाः। यो एकान्तः स कदाचिन्नोपलभ्यत एव । अयं तु न तथा, तदर्थंभूते विधेये कदाऽप्यदर्शनात्।
'हलन्त्यम् (१।३।३) इत्यत्रान्त्यशब्दः परसमीपबोधकः, 'चुटू' (१।३।७ ) इत्यादावादिशब्दः पूर्वसमीपबोधकः, 'अनेकाल् शित्' (१।१।५५) इत्यादौ समीपे सामीप्यमूलकावयवत्वारोपेण बहुव्रीहिः।
स्पष्टञ्चेदं उपदेशेऽजनुनासिकः' (१।३।२) इति सूत्रे भाष्ये, 'मपर्यन्तस्य' (७।२।९१) इति सूत्रे कैयटे च। तेन डा-णलादो इशादौ च न दोषः। अत एव 'उपदेशेऽच् (१।३।२) इति सूत्रे उपदेशग्रहणं चरितार्थम् । तद्धि 'अभ्र आँ अटितः' इत्यादौ 'आदितश्च' (७।२।१६ ) इतीट्प्रतिषेधाभावाय। अनैकान्तत्वे हि तत्प्राप्तिरित्याहुः।
परे तु-एकान्ता एव; शास्त्रे तत्रोपलम्भादन्यत्रानुपलम्भाच्च। अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते, नैवमयम्।
किञ्च अनवयवत्वे ण-श-क-प्रत्ययादौ णादेरित्त्वानापत्तिः; प्रत्ययादित्वाभावात्। एवमन्त्यत्वाभावादिशादेः शस्येत्त्वानापत्तिः। उक्तार्थलाक्षणिकत्वे तु लक्षणैव दोषः।
किञ्च दघ्नचश्चकारवैयर्थ्यापत्त्याऽवयवत्वमेव न्याय्यम् । अत एव 'वुञ्छण्कठच्' ( ४।२।८०) इति सूत्रविहित-के णित्त्वप्रयुक्तवृद्धिर्न।
'तस्य लोपः' (१।३।१) इति भाष्ये 'एकान्तत्वमेव न्याय्यम्' इत्युक्तेश्च।
'उपदेशेऽज' (१।३।२) इति सूत्रे उपदेशग्रहणं तु स्पष्टार्थमेवेत्याहुः।
सर्वत्रानुबन्धसहितनिर्देशे विधौ ‘गुप्तिकिद्भ्यः' (३।१।५) इत्यादौ 'नकारेत्संज्ञकः सो भवति' इत्यादिक्रमेण बोधः। अनुवादे 'सन्यतः' (७ ॥ ४॥ ७९ ) इत्यादौ च 'नकारत्संज्ञके सशब्दे परे' इत्यादिक्रमेण बोधः।
स्पष्टञ्चेदं निष्ठासंज्ञासूत्रे भाष्ये। अत एव 'आटश्च' (६।१।९०) इत्यादे - सङ्गतिः। अन्यथा यत्राऽऽट्सूत्रे तत्र नाच्परः, नेष्यते च तत्र वृद्धिः, यत्र प्रयोगे इष्यते वृद्धिस्तत्र नाडिति तदसङ्गतिः स्पष्टैव।
अन्त्यङ्किम् ? वाचालः। हल्किम् ? 'चिरिणोति' इत्यादौ धातोरन्त्यस्य मा भूत्।
डो. रूपा.वि.
हल्किम् । चिरिणोतीत्यादी धातारन्त्यस्य मा भूत् ॥
आद्योचारणमिति । आद्यमुच्चारणमित्यर्थः। भावे धञ् इति भावः । तच्च प्रत्यासत्यतच्छास्त्रप्रवर्तकाचार्याणामेव । आद्यत्वञ्चाज्ञातस्वस्वरूपज्ञापकत्वम् । उपस्याऽऽद्यर्थत्वदिशेरुच्चारणक्रियत्वात् । अत एव "एकाच उपदेशे" इति सूत्रे कैयटेनोक्तम् "इत्सज्ञाविधावुच्चारणवचन उपदिशिय॒ते" इति । "आदेच" इति सूत्रेऽपि "येषां स्वरूपज्ञापनायापूर्वमुच्चारणं तेषामेवोपदेशव्यवहारः" इति । तत्र सूत्रे भाष्येऽपि "उद्देशश्च प्रातिपदिकानां नोपदेशः" इति । प्रकृतसूत्रे भाष्येऽपि "प्रत्यक्षमाख्यानमुपदेशः" इत्युक्तम् । तस्य यत्तु लाजित्येव सिद्ध इति तन्न । अतद्धित इत्यनेन तद्धितादिलकारस्येत्त्वाभावबोधनात् एवमस्तातौसस्येत्त्वे सिति चेति पदत्वेऽथस्तादित्यत्र जश्त्वापत्तिरवस्तादित्यत्र लोपश्शाकल्यस्येत्यस्यापत्तिश्चेत्यपि बोध्यम् ।
      हल्किमिति । अन्योन्याश्रयपरिहारोपयोगितया पूर्वोक्तयोगविभागादिना सिद्धमिति प्रश्नः । तच्च गुरुभूतमित्याशयेनोत्तरयति। चिरिण एतीति । तथा सति नुम्स्यादिति भावः। न चेदित इति सूत्रे नपुंसकस्य झलच इति सूत्रे झल् ग्रहणमपकृष्य झलन्तस्य धातोर्नुमिति व्याख्यानेन नादित्वस्य फलमितीत्संज्ञा न भवति, झल्ग्रहणापकर्षस्योगिदचामित्यत्रावश्यकत्वादिति वाच्यम् । धिनोतीत्यादौ नुमनापत्तेः॥
   प्रत्यक्षमाख्यानमिति । शास्त्रमात्रविषयं तत्त्वं च मुनित्रयोच्चारितपदविशिष्टविधेयताकबोधानुकूलत्वम्|।वैशिष्ट्यम् च स्वजन्यशाब्दबोधीयत्वस्वजन्योपस्थितिविषयतावच्छेदकधर्मावच्छिन्नत्वोभसम्बन्धेन |यत्तु स्वावच्छिन्नविधेयताकशाब्दबोधानुकूलत्व, स्वप्रकारकप्रत्यक्षानुकूलत्वोभय सम्बन्धेन धर्मविशिष्टव्यापारत्वं तत्त्वमिति तन्न, ङमुडुच्चारणे तत्त्वाभावात् । उपदेशशब्दो भावघञन्तस्तस्य चोत्तरत्र सम्बन्ध इति प्राचीनमतं निराकुर्वस्तस्य करणघजन्ततामुत्तरत्रासम्बन्धं च व्यवस्थापयति । परेत्वित्यादिना । उपदेश इति किमिति प्रकृतस्त्र विषयकोयं प्रश्नः। अभ्र आँ अप इति । यद्यपि तत्र फलाभावानेवमित्यपि सुवचं, तथाप्यभ्र ऑ अटित इत्यत्रानेकान्तत्वे फलं सुवचमिति तदुपलक्षणमेतदिति बोध्यम् । लूटस्सद्देति । न च लटश्शनशानचावित्यत्र तयोरुचारणमस्त्येवेतीत्वं सुलभमिति वाच्यम् । अन्यशब्दार्थसम्बन्ध्यपत्यस्यानुक्तस्वरूपशेषत्वोक्त्या प्रकृतेऽपि लट्स्थानिकत्वादिसम्बद्धाभ्यां ताभ्यामन्याविमौ सत्पदोपस्थितौ शत्रृशानचाविति स्वीकारेण तयोः प्रत्यक्षाख्यानाभावात् । न च शतृशानचोरनुवृत्त्यैव सिद्धे पुनस्तौ ग्रहणेन पूर्वत्र यादृशावित्संज्ञकशकाराद्युपलक्षितावदानौ तयोः परामर्शन सत्पदेन तादृशयोर्विधानेन पुनरनेवप्रवृत्तेर्नावश्यकतेति वाच्यम् । तथा सति पूर्वत्र लट्स्थानिकत्वादिसम्बन्धस्यापि तयोस्सत्त्वेन तद्विशिष्टयोरेव परामर्शापया बहूपप्लवापत्ते रूपमात्रस्यैव परामर्शनीयत्वात् । तदुक्तं वार्तिककृता तौग्रहणमसंसर्गार्थमिति । अत एव शतृत्शानचो रूपमात्रं परामृश्यत इत्युक्तं कैयटे। एवञ्च सत्पदेन विधानानन्तरमित्संज्ञयावश्यंभाव्यमिति बोध्यम् । निष्टतीति । न च तक्तवतू निष्ठेति सूत्रभाष्यत इत्संज्ञकककाराग्रुपलक्षित क्त क्तवतोस्संज्ञालाभेन तयोरेव निष्ठापदेन विधानात्पुनर्नेत्रप्रवृत्तेरिहावश्यकतेति वाच्यम् । निष्ठासंज्ञायां तयोविर्धानं विहितयोस्तयो: निष्ठासंज्ञे.त्यन्योन्याश्रयपरिहाराय सूत्रशाटकन्यायेन तौ भवतो ययोविहितयो :निष्ठासंज्ञेत्यावश्यकत्वेनेदानीम् निष्ठेति विहितयोरुपदेशत्वाभावेनेत्वाभावे इत्संज्ञकककारादिविशिष्टस्य निष्ठासंज्ञेति वक्तुमशक्यत्वेन विहितयोरित्त्वप्रवृत्तेरावश्यकत्वात् । न च यत्र निष्ठापदं तत्र तक्तवतू उपतिष्ठते इत्यर्थकतयाऽस्य परिभाषारवं विहितानां शतृशानक्तक्तवतूनामवयवस्येत्सज्ञानापत्तिः । तथा "राजसूयसूर्य" "चित्याग्निचित्ये” इत्यादिनिपातनानुमितक्यबादीनां पादेरित्त्वानापत्तिः । बदः सुपीत्यत्रोच्चारितस्तु नैतत्संबन्धी । अत एव "तस्यापत्यमत इञ्" इति न्यासेऽन्यशब्दसम्बद्धापत्यार्थस्यानुक्तरूपशेषत्वमुक्तमाकरे । तस्मादत्र सूत्रे उपदेशशब्देनोद्देशस्यापि ग्रहणं वक्तव्यम् । एवम् अभ्रआँ अप इत्यादावपि प्राप्नोतीति तेषां सङ्ग्रहोऽस्य व्यावृत्ति : येन भवति स विशेष: क इति प्रश्नः । तत्सङ्ग्रहार्थमेव लोकव्यवहारेणापि तयोः सङ्कीर्णत्वस्वीक्रियते, अनुवृत्तयोरिव परिभाषोपस्थितयोरप्युपदेशत्वमङ्गीक्रियते, एवञ्चेत्त्वं सुलभमिति वाच्यम् । एवं सति सर्वसंज्ञाशास्त्राणां तुल्ययुक्त्या परिभाषात्वापत्तौ संज्ञाशास्त्रत्वस्यैव विलयापत्तेः । तत्र तत्र निष्ठापदस्य बोधीयविषयताप्रयोजकस्त्वानापत्तेः । बोधीयवियत्वाप्रयोजकानां परिभाषोपस्थितिमात्रप्रयोजनकानां सूत्रघटकपदात्मकलिङ्गानां क्वाप्यदर्शनाच्च । तत्र तत्र निष्ठापदोत्तरं विभिन्नविभक्तिनिर्देशस्य वैय्यर्थ्ययापत्तेश्च । सामर्थादुपस्थापकगतविभक्तरुपस्थाप्येऽनुसन्धाने क्लेशाच्च । प्रत्ययानां स्वप्रकृत्यर्थान्वयित्वनियमभङ्गापत्तेश्च । पादेरित्त्वानापत्तिरिति । इत्संज्ञाया निपातनेनानुमाने गौरवमिति भावः। यत्तु कालेभ्योभववचरणेभ्यो धर्मवदित्यतिदिष्टप्रत्ययघटकानामित्त्यानापत्तिर्दोष इति तन्न। इत्संज्ञकतत्तद्वोपलक्षितानामेव भवाद्यर्थे विधानेन तादृशानामेवात्रातिदेश इति वक्तुं शक्यत्वेन पुनरित्त्वप्रवृत्तेरिहानावश्यकत्वात् । आवश्यकश्च तत्र प्रकृत्यादिसम्बद्धानामेवातिदेश इति दिक् । आकर इति । तस्यापत्यमत इनित्येकयोगेऽदन्तशब्दार्थसम्बन्ध्यपत्यस्य तेनोक्तत्वेन भानुशब्दार्थसम्बन्ध्यपत्यस्यानुक्तत्वेन तस्य शेषत्वावृद्धाच्छ इति छप्रत्ययो भानुशब्दादापते दतो योगविभाग इत्यर्थकं तत्रोक्तम् । लोकव्यवहारेणेति । उद्दिष्टो मेऽनुवाक उपदिष्ठो मे पन्था इत्यादिव्यवहारेणेत्यर्थः । ननु आ इत्युच्चारणे आकारस्यापि करणत्वात्करणघान्तेऽपि दोष इत्यत आह । प्रयोगशासनकरणभूता इति । प्रयुज्यमानस्य परिनिष्ठितस्य साधुत्वशासनकरणभूता इत्यर्थः । भगवता कृतमिति ।
एवञ्च भाष्यविरुद्धकल्पनाऽयुक्तेति भावः । एवं भावघञन्तवादं सामान्यतो निराकृत्योत्तरसूत्रे तादृशस्यानुवृत्तौ सुतरां दोष इत्याशयेनाह । किंचेत्यादिना । तत्तत्समुदायान्त्यस्येत्त्ववारणायाज्ञातस्वस्वरूपज्ञापकोच्चारणप्रयोजकतात्पर्यविषयतापर्याप्त्यधिकरणसमुदायान्त्यमित्यर्थयावश्यकत्वेन द्वन्द्वनिर्देशस्थले वृक्षप्रचलनन्यायेन समुदायोचारणतात्पर्यकल्पनाया आवश्यकत्वेनावयवोच्चारणस्य नान्तरीयकतया तत्र तात्पर्यस्थानावश्यकत्वात् । तादृशतात्पर्यविषयतापर्याप्त्यधिकरणतायास्समुदाय एव सत्त्वेन तादृशसमुदयान्त्यत्वस्य कादावभावादित्त्वानापत्तिरिति भावः। तदेतत्सूचयति । परस्येत्यादिना। एतेनोपदिश्यमानसमुदायान्त्यत्वमुपदिश्यमानसमुदायघटकत्वे सत्युपदिश्यमानसमुदायघटक वर्णप्रागभावाधिकरणक्षणावृत्तित्वरूपम् । ठकमादाय विशेषणस्य सत्वेऽपि छसमादाय विशेष्याभाव इत्याशयं मूलस्य परिकल्प्य यदि तु प्रत्यासत्या यत्तु द्वन्द्वनिर्देशस्थले प्रत्येकं विधेयतालाभार्थं प्रत्येकमुच्चारणे तात्पर्य परिकल्प्यमिति तन्न । उक्पदं ठग्बोधकं भवतु छस्पदं छस्वोधकं भवत्विति तात्पर्ययोः प्रत्येकं विधेयतालाभार्थमावश्यकत्वेऽपि द्वन्द्वस्थले ठक्छस्पदं साहि. त्यावच्छिन्न ठक्छसोर्वा ठक्छस्समुदायस्थवा बोधकं भवत्विति तात्पर्यस्याप्यावश्यकत्वेन तादृशतात्पर्यस्यैव निरुक्तसमुदायोचारणे प्रयोजकता स्वीक्रियते, तत्तत्सर्वोच्चारणानुगतत्वात् । न तत्पत्येकतात्पर्ययोः प्रयोजकत्वमनुगतसमुदायतात्पर्येण तदुच्चारणसम्भवेऽननुगततत्तत्तात्पर्याणां गौरवेण प्रयोजकत्वानङ्गी. कारात् । न च प्रत्येकोच्चारणस्यापि समुदायतात्पर्यप्रयोज्यत्वेन तादृशतात्पर्य विषयसमुदायत्वं प्रत्येकमस्तीति वाच्यम् । तादृशतात्पर्यविषयतापर्याप्त्यधिकरणत्वस्य विवक्षणात्तस्य च प्रत्येकमभावेन दोपध्रौव्यात् । तत्तत्समुदायान्त्यस्येत्त्ववारणाय पर्याप्तनिवेशनीयत्वात् । अत एव वाक्यतात्पर्यस्थले प्रत्येक बोधीयविषयतानुपपत्तिरिति दिक् ॥
पूर्वोक्तदोषवारणोपायस्योपदेशपदानुवृत्तिवैयर्थ्यसम्पादकतया तादृशोपायो भावधान्तत्वस्थापनोपायतयानाश्रयणीय इत्याह । यदित्वित्यादिना । अत एवेति । निष्कर्षे फलासत्त्वादेवेत्यर्थः । करणघअन्तोपदेशपदानुवृत्तौ वार्तिकविरोधमाशङ्कय परिहरति । नचेत्यादिना । यत्तु किंचेत्यायेतदवधिकग्रन्थात् । भाष्यकृता चान्त्यग्रहणसामयेन प्रत्याख्यातम् । तत्रानुबन्धविशिष्टानां धातुत्वादिस्योत्तरसूत्रे उपदेशपदाननुवृत्तितात्पर्यकत्ववर्णनं तत्त्वेतद्ग्रन्थेन सन्दर्भविरोधादुपेक्ष्यम् । अनुत्थानमेवति । उपदेशनेऽन्त्यमित्युक्तौ प्रत्यासत्या तदन्त्यमित्यर्थलाभाद्वार्तिकानुत्थानं, मम त्वायोच्चारणस्यान्त्यासम्भवात्प्रत्यासत्तिराश्रयतुं न शक्यत इति यस्य कस्य चित्समुदायान्त्यस्येत्यर्थापत्या तदुत्थितिः । यथाकथंचित्प्रत्यासत्तिसम्भवेऽप्याद्योच्चारणकर्मीभूतसमुदायत्वं प्रत्येकमप्यस्तीति तदुत्थितिरितिभावः । समुदायद्वारोति । परंपरयावयवानामपि करणत्वमापाद्य वार्तिकं प्रणीतम् । अन्यथावार्तिकयोः परस्परविरोधापत्तिरिति भावः। परिगणनं त्वषयकव्यावृत्त्यर्थमेवेति वार्तिकाशयः । अन्त्यग्रहण सामथ्येनेति । आदिव्यावृत्त्यर्थ तु न तत, चुटूइत्यादिनियमेनैव तद्वारणसम्भवादिति केचित् । वस्तुतो भाष्ये सर्वोपि हल तं तं समुदायं प्रत्यन्त इत्यत्र सर्वपदप्रयोगादादेपि व्यपदेशिवद्भावेनान्तत्वान्नान्त्यपदेन तयावृत्तिरित्याशयवर्णनमुचितम् । एवं च नियमप्रयुक्तं गौरवमपि नास्तीति प्रतिभाति । ननु न धातुलोप इति सूत्रभाष्यादनुबन्धविनिर्मुक्तस्यैव धातुत्वलाभान्नधातुरित्संज्ञायां निमित्तं भवितुमर्हतीतीदं परिगणनमसम्बद्धमेवेत्यत अह । तत्रेत्यादिना । एवं चात्र धातुत्वादिकमन्यादृशमेवेति भावः । यत्तु परिगणनवाक्ये धात्वादिपदं धात्वादिबोधकपरमिति वक्तुं युक्तम् । अत एव लोपश्चेति प्रश्लिष्टशकारस्यादेशबोधकत्वान्ङमो इस्वादित्यत्र उम् , उडिति पदद्वयमिति कल्पे आगमबोधकत्वाच्च शकारटकारयोरिवासिद्धिरिति तन्न । तु धातुत्वादियोग्यघटितत्वाबोध्यम् । निपातानां द्योतकत्वेन ब्राह्मणवसिष्ठन्यायेन च पृथग् ग्रहणम् । व्यवसितत्वञ्च धातुत्वादिना परिच्छिन्नत्वादिति कैयटः। एवञ्चोदश्विदादिप्रातिपदिकान्त्य
एवं सतिप्रातिपदिकानां प्रतिषेधोऽकृत्तद्धितान्तानामिति वार्तिकेऽकृत्तद्धितान्तानामित्यस्य वैयपित्तेः । ताहाशवार्तिकस्यान्याशार्थकरणं त्वक्षरस्वारस्यविषटकम् । किश्च कृदित्यादीनां प्रत्ययादिबोधकत्वेन तकारस्येत्त्वापत्ती कुत्सु सर्वत्र तित्स्वरापत्तेः। बोधकवृत्तितित्वस्य बोध्येयारोपात् । न चानीयरादीनां रित्वं व्यर्थ स्यादिति वाच्यम् । तत्र विशेषविहितेन रित्त्वेन बाध इत्यपि वक्तुं शक्यत्वात् । एवंरीत्या तृचश्चकारस्य सार्थक्यसम्भवेन चश्चकारस्य वैयोपपादनं भाष्यकृतामसम्बद्धमेव स्यात् । न च तव्यतस्तकारस्य वैयर्यमिति वाच्यम् । पूरणगुणेति निषेधाभावार्थं तच्चारितार्थ्यात् । यतस्तकारस्येद्यतीत्यादौ विशेषणार्थता स्यात् । किञ्च तिङः प्रत्ययबोधकत्वेन उस्येत्त्वापतौ भविषीष्टे त्यादौ गुणानापक्तिः । सार्वधातुकमपिदिति तु श्यन्नाद्यर्थ स्यात् । तत्र ज्ञापकादिना वारणे तु गौर. वम् । किञ्च लोपश्चेत्यत्रत्यशस सर्वादेशतागमकत्वं नादेशबोधकत्वमिति तत्रत्वं दुर्लभम् । एवं मुडिति पदद्वयमिति कल्पेऽपि न तस्यागमबोकत्वम् । किंतु वसमभिव्याहृतस्याद्यवयवताबोधकत्वमित्यास्तां विस्तरः। नन्वनर्थकनिपातानामपि प्रातिपदिकसंज्ञाया इष्टत्वेन प्रातिपदिकत्वेनैवसिद्धे निपातानां पृथग्ग्रहणं व्यर्थमत आह । ब्राह्मणवसिष्ठन्यायेनेति । धातुत्वादिना परिच्छिन्नत्वादिति । शास्त्रकृता तत्वेन बोधितत्वादित्यर्थः । विशिष्टस्य तस्वेन बोधने शास्त्रकृत्तात्पर्ये गमकं तु थमोरुकार एवेति बोध्यम् । यद्वाधातुस्वादिना बद्धत्वात्तद्धटितत्वादित्यर्थः । एवं स्वमते प्रसक्तं वार्तिकविरोधं परिहत्योत्तरत्र भावधजन्तोपदेशपदानुवृत्तौ वार्तिकविरोधं दर्शयति । एवञ्चेत्या
पूर्वग्रन्थस्याननुवृत्तिप्रतिपादनतात्पर्यकत्वे न चेत्यादितदुत्तरग्रन्थानुत्थितेः पूर्वमुपपादितत्वेनैतादृशावतरणस्यासम्बद्धत्वात् । एवञ्चेत्यक्षरार्थाननुगुणत्वाच । प्रातिपदिकानामिति । न च चित्रादेरनेन निषेधस्स्यादिति वाच्यम । एतच्चात्र युक्तं यदीत्कार्याभावादित्संज्ञा न स्यात् । यत्रेत्कार्थ भवति तत्संज्ञा, तद्यथा आगस्त्यकोण्डन्ययोरगस्तिकुण्डिनजिति तदुत्तरभाष्येण वार्तिकारम्भे कुण्डिनचश्चकारस्थेत्संज्ञा न स्यादित्येवंपरेणैतदोषस्य दत्तप्रायत्वादित्याचार्याः। श्रीधरस्त्वश्रूयमाणौ कृत्तद्धितावकृत्तद्धितौ तदन्तानामिति मध्यमपदलोपिसमासमाश्रित्याभूयमाणकृत्तद्धितान्तानामेव निषेध इति समादधौ ।।
यत्तूदश्विदादीनामव्युत्पन्नत्वस्य कैयटेनोक्तत्वात्तद्विरुद्धत्वादिति श्रीधरोक्तिखण्डनम् । तन्न । कैयटविरोधस्य प्रामाण्याभञ्जकत्वात् । व्युत्पत्तितात्पर्यगैव तद्वार्तिकं प्रवृत्तमित्यांप शक्यत्वाच्च । यदपि प्रातिपदिकवृत्तिवोध्यताविशिष्टबोधकतावतामित्यर्थः । वैशिष्ट्यश्च स्वावच्छेदकरूपावच्छिन्नत्व, स्वनिरूपितत्वोभयसम्बन्धेन । तेन न पूर्वोक्तदोषावकाशः । अथ वा स्ववृत्तिप्राति. पदिकवृत्त्यानुपूयंवच्छिन्नविषयताप्रयोजकानामित्यर्थः । अथ वा स्वविषयकबोधप्रयोजकत्व स्वाघटकाघटितत्वसम्बन्धाभ्यांशातिपदिकविशिष्टानामित्यर्थः । अकृदित्यादि तात्पर्यग्राहकमेव । न च कल्पत्रयेऽप्युदश्वितोन्यतरस्यामित्यादा. वित्संज्ञालोपाभावाधीनंप्रातिपदिकनिष्ठबोधकत्वादि, तत्प्रयोज्यप्रतिषेधप्रयोज्यश्वेत्संज्ञालोपयोरभाव इत्यन्योन्याश्रय इति वाच्यम् । इत्संज्ञालोपाभावसम्भावनाप्रयोज्या या प्रातिपकनिष्ठयोध्यताविशिष्टबोधकतावत्त्वादिसम्भावना तद्वि
द्वितान्तानाम्" इति वार्तिककृतोक्तम् । कुम्भकार इत्यादावपवादविषयपरिहारेणोत्सर्गप्रवृत्तेःपूर्व प्रातिपदिकत्वे णादिलोपोनस्यादिति अकृदित्यादि । तच्च फलाभावान्नेत्स ल्यादिना भाध्ये प्रत्याख्यातम् । पयाणामित्यस्य विवक्षणेनादोषात् । उदश्विदादीनामुदश्चित्कतिपयेत्यादौ ताहशानुपूर्वीकाणां प्रयोगस्य चित्रकादीनामप्रयोगस्य च दर्शनेन सम्भावनासम्भावनयोस्सम्भवादित्याहुः । तदपि न । अकृदित्यादेस्तात्पर्यग्राहकत्वकल्पनानौचित्यात् । अत्र पक्षे कुण्डिनचि दोषतात्पर्यकोत्तरभाष्यासङ्गन्तेः । राजश्वशुराद्यदित्यादिप्रयोगे राजेत्यदन्तस्यापि प्रातिपदिकस्य लाभ इति वक्तुं शक्यत्वेन राजन्शब्दे नकारस्येत्त्वस्य दुर्वारत्वाच । ज्ञापकादिना तत्समर्थनन्तु गौरवग्रस्तम् | तसादाचार्योक्त एव परिहारो न्याय्य इति प्रतिभाति । नन्वनुबन्धविनिर्मुक्तपदार्थोपस्थितेस्तव मते स्वीकारात्कुम्भकारादौ प्रातिपदिकसंज्ञाप्रवृत्तिकाले णादीनामसन्निधानादकदित्यादिवयर्थ्यमित्यत आह । कुम्भकार इत्यादावित्यादिना । अत्रादिपदेनाशब्दादाचारविचन्ताद्वजि निप्पन्नस्याशब्दस्याशब्दादिजि निष्पन्नस्येशब्दस्य च सङ्ग्रहो बोध्यः । अपवादविषयपरिहरेणेति । अनुबन्धविनिर्मुक्तपदार्थोपस्थितिरिति न स्वतन्त्रं वचनम् । किन्त्वन्तरङ्गत्वादिसंज्ञालोपयोः प्रथमप्रवृत्तिलभ्यम् । एवञ्च प्रकृते उपसञ्जनिष्यमाणन्यायेन पूर्वमित्संज्ञालोपयोरप्रवृत्ती तद्विशिष्टस्यैव लक्ष्ये प्रवृत्त्या तत्र प्राप्तनिषेधवाधार्थमकृदित्यादीति भावः । अत्र सङ्कोचश्चोपदेशपदार्थे प्रातिपदिकातिरिक्तत्वेन हल्पदार्थे प्रातिपदिकान्त्यहलतिरिक्तत्वेन वा बोध्यः । एतेनैतद्विरोधादनुवन्धविनिर्मुक्तपदार्थोपस्थितिरयुक्तेत्याचार्योक्तमपास्तम् । फलाभावादिति । तिति प्रत्ययग्रहणात्, नित्यादिरित्यत्र भीहीभृमदत्यतः प्रत्ययादित्यनुवर्त्य सप्तम्यन्तत्वेन विपरिणमव्य लितीत्यत्रेव नितो विशेषणाचेत्यादिरूपेण फलाभावोऽन्यतोऽवसेयः । ननु पस्पशास्थभाष्यात्प्रातिपदिका
गुरुप्रसादसहिते लघुशब्देन्दुशेखरे अबाधोच्चारणार्थकोपदेशपदानुवृत्ती त्वस्य वार्तिकस्यानुत्थानमेव स्यात् । “उद्देशश्च प्रातिपदिकानां नोपदेश" इति “आदेच" इति सूत्रभाष्ये उतः। एतद्भाष्थैकवाक्यतया पस्पशाह्निकान्तस्थे “अग्रहणप्रातिपदिकानामुपदेशः कर्तव्यो मञ्चको मञ्जक इति मा भूत्" इति भाव्य उपदेशशब्दो ग्रहणं कर्तव्यमित्यर्थकः । तच्चानुवादरूपमेव सन्देहनिवर्तकामति बोध्यम् ।
नन्वेवं "तस्मिन्निति निर्दिष्टे" इति सूत्रे षष्ठीप्रकल्पकत्वं तस्येति पक्षे “गुप्तिकिझ्य" इत्यादावपि षष्ठीप्रक्लुप्त्यापत्तिः । न च सनः सनेवादेशो भविष्यतीति बाधकाभाव इति वाच्यम् । “उपदेशे इत्युच्यमाने इत्सज्ज्ञान प्रकल्पत" इत्युक्तं भाष्ये, तद्विद्ध्येतात्रोपदेशपदाननुवृत्ताविति चेन्न । तस्यैकदेश्युक्तित्वनासाधकत्वात् ।
नामप्युपदेशत्वं लभ्यत इति न वार्तिकानुत्थितिरित्यत आह । उद्देशश्चेत्यादि । ननु पस्पशास्थभाष्यस्य का गतिरित्यतस्तद्भाष्यं योजयति । एतद्भाष्यत्यादिना। उपदेशशब्द इति । उपदेश इति शब्दो यस्मिन्वाक्य इति बहुव्रीहिः । उपदेशः कर्तव्य इति शब्द इत्यर्थः, तेन न कर्तव्य इत्यनेन नान्वयानुपपत्तिदोषापातः । ननु तथाप्युपदेशत्वमायातीत्यत आह । तच्चानुवादेति । एवञ्चाज्ञातस्वस्वरूपज्ञापकत्वाभावान्नोपदेशत्वमिति भावः । करणसाधनोपदेशपदानुवृत्तौ सर्वथाऽननुवृत्तौ भाष्यविरोधमाशङ्कय परिहरति । नन्वेवमित्यादिना। सनस्सनेवति । सननुवादसामोदनुमितस्यान्तरतम्यात्सनेवादेशो भविष्यतीति भावः । उपदेश इत्युच्यमान इति । उपदेश इत्यनुवर्त्य विधीयमान इत्यर्थः । न प्रकल्पेतेति । अन्तरतमपरिभाषालब्धस्य
तथा हि। तन्त्र "ङमो हस्वादचि" इत्यादौ यत्र सप्तमी पञ्चमी चेत्युभयं निर्दिश्यते तत्र किं पूर्वस्य कार्यमथ परस्येति सन्देहे परत्वानवकाशत्वाभ्यां पञ्चमीनिर्देशो बलवानिति सिद्धान्तिनोत्तम्। तत एकदेशिना यथार्थ वा षष्ठीनिर्देशः कर्तव्य इति समाधानान्तरमुक्तम् । यथाविषयं प्रागुक्तेषु कार्यिणः षष्ठ्या निर्देष्टव्या इति तदर्थः । तेषु सप्तमीनिर्देशस्य कचित्पूर्वत्र कचिदुत्तरत्राऽवश्यकत्वे. नोभयनिर्देशे गौरवेणैषैकदेश्युक्तिः । ततः परेणैकदेशिना षष्ठीपदानुवृत्त्या तस्मिन्नित्यादेरेव षष्ठीप्रकल्पकत्वमाश्रित्य यथार्थ वा षष्ठीत्येकदेश्युक्तिः प्रत्याख्याता । षष्ठीपदानुवृत्तौ गौरवादुभयोः प्रकल्पकत्ववारणाय परत्वानवकाशत्वयो रेकः पूर्वपरयोरितिपूर्वपरग्रहणस्य युगपत्प्रकल्पकत्वाभावे ज्ञापकस्य चावश्यकत्वाचेयमप्ये. सन्देह इति । न च मन्तपदात्परस्याचः पूर्वस्योदासीनस्येत्यर्थे न सन्देहावकाशः। विरोधाभावात्परत्वादित्युक्तिरनुपपन्नेति वाच्यम् । ङम उत्तरस्याचो ऽचि परतो ङम इति सन्देह इति भाष्यप्रामाण्यादुदासीने तात्पर्याभावकल्पनेन सन्देहविरोधयोस्सत्त्वात् । आदिपदग्राह्येदास इत्यादौ सन्देहविरोधयोरवश्यं सत्त्वाच्च । तथाहि तत्रहि अङ्गस्येति वर्तते । तच्च प्रत्यासत्याऽऽननिमित्तकमेव ग्राह्यम् । तथाचाङ्गानयोर्मध्ये ईदादेशनिवर्त्यस्य कस्याप्यसम्भवात्पूर्वस्य परस्यवा निवृत्तिरिति सन्देहस्य विरोधस्य सत्वम् । यत्वेतत्परिभाषायोपस्थाप्यांशेषु योऽ. शस्सिद्धो निष्फलो बाधितो वा तदंशानुपस्थितेस्सिद्धान्तितत्वनोभयानर्देशस्थले उभाभ्यां षष्ट्यंशोपस्थितेः फलाभावेनान्यतरेणैकेनोपस्थितिरित्यत्र विनिगमनाविरहेण तयोरुपपत्तिरिति समादधुः, तत्तु ङम उत्तरस्याचोऽचि परतो डम इति सन्देह इति भाष्याक्षराननुगुणत्वादुपेक्ष्यम् । कचित्पूर्वत्रेति। आनेमुक्, तुरिष्ठेमेयस्वित्यादौ । कचिदुत्तरत्रेति । त्रेस्त्रयः, मय उज इत्यादौ । उभयनिर्देश
गुरुप्रसादसहिते लघुशब्देन्दुशेखरे कदेइयुक्तिः । ततः पूर्वेणैकदेशिना तत्पक्षे गुप्तिजित्यादौ दोषः शङ्कितः । ततः षष्ठीप्रक्लप्तिवादिनैकदेशिनोक्तम्-" स्यादेष दोषो यदीत्सञ्ज्ञा आदेशं प्रतीक्षेत। तत्र खलु कृतायामित्सञ्ज्ञायां लोपे च कृते आदेशो भविष्यति उपदेश इति हीत्सझोच्यते" इति । एवञ्च त्वदुक्तिाहतेत्याशयः। तदने उपदेशपदाननुवृत्तिमभिप्रेत्य "अथवा नानुत्पन्ने सनि प्रक्लचत्या भवितव्यम् । यदा चोत्पन्नः सन् तदा कृतसामाा पञ्चमीति प्रक्लप्तिन भविष्यति" इति समाधानान्तरं
इति । यथायोगमिति भावः। एवं भावयजन्तोपदेशपदानुवृत्तितात्पर्यकभाष्यस्यैकदेश्युक्तित्वप्रदर्शनार्थ तद्भाष्यमनूद्य प्रत्युत करणघअन्तोपदेशपदानुवृत्तिरप्येतद्भाप्यारूटेतिसूचयंस्तदुत्तरभाप्यमनुवदति । स्यादेष दोष इत्यादिना । अयमत्र भाप्याशयः। भावधजन्तोपदेशपदानुवृत्तौ सननुवादेनानुमीयमानसन उपदेशत्वाभावादिवानापत्तौ सनस्सनेवादेशो भविष्यतीत्यादेशे इत्त्वस्यापेक्षितत्वाद्भवदुक्तदोषस्स्यात् । करणसाधनोपदेशपदानुवृत्त्याऽनुमीयमानसनोपि प्रत्ययत्वेनान्तरङ्गत्वादित्संज्ञालोपयोः कृतयोरान्तरतम्यात्स एव भविष्यतीति तत्त्वं नापेक्षितमिति । युक्तं चैतद्भाष्याशयवर्णनम् । अन्य थेवाभावे हेतुप्रदर्शनपरतया पूर्वोक्तस्योपदेश इतिहीत्संज्ञोच्यत इति वाक्यस्य तदोषवारणोपायपरतया पुनर्लेखनस्यासाङ्गत्यापत्तेः । मम तु पूर्ववाक्ये उपदेशशब्दो भावसाधनपरः, उत्तरत्र करणसाधनपर इति नासाङ्गत्यम् । ननु स्यादेष इति भाष्यस्य करणसाधनपरत्वे तत्पले दोषस्य वारितत्वादथवेतिपक्षानुधावनं निरर्थकम् । अतो भावधजन्तत्वपक्ष एवाथवेति पक्षान्तरानुधावनेन लभ्यत इत्याशङ्कां मनसि निधाय वस्तुत उपदेशपदाननुवृत्तिरेवैतद्भाष्यादन्ततो लभ्यत इत्याशयेन तदुत्तरभाष्यमनुवदति । अथवेत्यादिना। एतेनैकदेश्युक्तित्वस्य पर्वभाष्यत एव लाभेन स्यादेप इत्यादिकैयटआहेत्यन्तो ग्रन्थः प्रकृतोपपादकृतम् । तत्र परत्वविशिष्टस्य सन उत्पादने पञ्चम्या उपक्षयात्प्र. वृत्त्यन्तराभावान्नास्ति तस्याः प्रकल्पकत्वमिति तदर्थ कैयट आह। एवञ्च प्रकृतसूत्रस्थस्य सूत्रार्थप्रतिपिपादयिषया प्रवृत्तस्य भाष्यवार्तिकस्यैकदेश्युक्ततद्भाष्यबलेन प्रौढिवादत्वकल्पनं नोचितम् । लक्ष्यासिद्धेश्च । अइउणित्यादीनामपि क्रमबोधकत्वेनार्थवत्त्वात्प्रातिपदिकत्वम् । चित्रङश्चोः कुरित्यादेरपि प्रातिपदिकत्वम् । लोपश्चेत्यत्रापि शकारस्य स्वरूपेणार्थवत्त्वात्प्रातिपदिकत्वम् । अनुबन्धानामेकान्तत्वे तु "लोपो यि" इत्यतो लोपग्रहणेऽनुवर्तमाने पुन : लॊपग्रहणात्सर्वादेशत्वं बोध्यम् । एकाच उपदेश इत्यत्रत्यः कैयटोऽपि चिन्त्य एव । अन्योऽपि तजातीयश्चिन्त्य एव । “ एकाच उपदेशे"
नानुपयोगीति काचिच्छङ्का निरस्ता । एवंचेति । भावसाधनपरस्यैकदेश्युक्तित्वस्य वस्तुतस्तदननुवृत्तेश्च सिद्धौ चेत्यर्थः। प्रकृतेति । प्रकरणस्य प्राबल्यादिति भावः। सूत्रार्थेति । अर्थप्रतिपादनपरेणैवार्थनिर्णयो न्याय्यः, न तु प्रसङ्गान्तरे परोक्तिखण्डनमानपरेणेति भावः । परोक्तिखण्डनपरताया उभयत्र तौल्येऽपि प्राकरणिकत्वार्थप्रतिपादनपरत्वे अत्र प्रामाण्यनिर्वाहके इति बोध्यम् । लक्ष्यासिद्धेश्चति। लटस्सद्वेति विहितेष्वित्त्वानापत्तौ वक्ष्यमाणेत्यादिलक्ष्यासिद्धेरित्यर्थः। ननु भवन्मतेऽपि अइउणित्यादेः परिगणितेष्वसङ्ग्रहालक्ष्यासिद्धिरुभयसाधारणीत्यत आह । लोपश्चेति । नन्वेकान्तत्वे शस्य बोधकघटकत्वेन तत्र न स्वरूपबोधकत्वं, रामादौ रेफादिवत् । तथा च तस्य कथं प्रातिपदिकत्वमित्याशङ्कय तत्पक्षेऽस्यानावश्यकत्वमेवेत्याह । अनुबन्धानामित्यादि । नन्वेकाच उपदेश इति सूत्रकैयटानुगृहीतो भावजन्तवाद इत्यत आह । एकाच इत्यादि । उपदेशेवत इत्यादाविति पाठः । आदेच इति
 गुरुप्रसादसहिते लघुशब्देन्दुशेखरे "आदेच उपदेशे" इत्यादौ तु भावसाधन एवेति सुधियो विभावयनिवत्याहुः॥
त्वपपाठः, तस्य कर्मसाधनत्वात् । आहुरिति ॥
यत्त्वन्ये तु लटस्सद्वेत्यत्रेत्संज्ञकशकारादिविशिष्टयोस्तच्छन्देन परामर्शातयोविधानान्नेत्वापेक्षा, तक्तवतू निष्ठेति परिभाषेति न दोषः। निपातनेनेसंज्ञककाद्युपलक्षितस्यैवानुमानम् । भवतष्ठक्छसावित्यत्र प्रत्येकमुपदिश्यमानत्वमिति न दोषः । चोकुरित्यादौ व्याकरणान्तरीयसंज्ञेति न दोषः । लोपश्चेत्यत्र प्रश्लेषसापादित्वं कल्प्यते । अ, इ, उ इत्यादावुणिति' समुदायस्योकारादिसाधुत्वविधायकत्वेनेत्संज्ञा । चित्रङित्यत्र डिति पृथक्पदं तच्च डिदित्यर्थकम् । क्यच्सन्नियोगेन ङित्त्वं विधीयत इति न तत्त्वायेक्षेति दोपाभावात् भावसाधन एवोचितः। अइउणित्यादौ विशिष्टस्यार्थबोधकत्वाभावान्न प्रातिपदिकत्वम् । लोपश्चत्यत्र शस्य प्रातिपदिकत्वेऽपि न तद्बोधकत्वं, परिगणने धात्वादिबोधकानामेव ग्रहणमिति करणसाधने दोष इति मनोरमोक्तं प्रौढिवादत्वमुचितमित्याहुरिति । तन्न । लटस्सद्वा, निष्टा, राजसूय, भवतष्ठक्छसावित्यादौ दोषाणां तव्याख्यानावसर एच स्थिरीकृतत्वात् । निपातनेनैवेत्संज्ञायाः कल्पने गौरवाच चोः कुरित्यादावित्संज्ञकोकार इति मते दोषध्रौव्यात् । प्रश्लेषसामर्थ्यकल्पने गौरवात् । अ इ उ इत्यादेस्साधुत्वविधायकतायाः पूर्वमेव निराकरणात् । चित्रङि लक्षणाश्रयणे वाक्यान्तरकल्पने गौरवाच । परिगणनस्थधात्वादिपदानां तत्तद्धोधकपरत्वस्य पूर्वमेव निराकरणात् । अ इ उ णित्यादेः क्रमबोधकत्वेन प्रातिपदिकत्वस्य ग्रन्थकृतवोक्तत्वाच्च, प्रकृतसूत्रस्थभाष्यस्य प्रौढिवादत्वकल्पकदृढतरप्रमाणाभावाच। यदपि प्रथमस्थलचतुष्टयेऽन्येत्वित्यादिमतरीत्या दोपमुद्धत्य लोपश्चेत्यत्र शस्य सर्वादेशत्वरूपविशेषसमर्यकत्वेनाज्ञातत्वेन तदुचारणमपूर्वमित्युपदिश्यमानत्वम् । चित्रङित्यस्यानुबन्धघटितं रूपमज्ञातमिति
। ननु शास्त्रेऽनुनासिकोचारणाभावात्तत्त्वज्ञानं दुर्लभमत आह । प्रतिज्ञेति । प्रतिज्ञाविषयानुनासिक्यवन्त इत्यर्थः। पाणिनीया इत्यस्य पाणिनिप्रभृतिमोक्ता वर्णा इत्यर्थः । प्रतिज्ञा चायमेवमिति कथनं, वर्णानां तत्त्वज्ञापको व्यवहारश्च । ताभ्यां तज्ज्ञानं सुलभमिति भावः। प्रतिज्ञातारश्च प्रत्यासत्यतच्छास्त्रकार एवेति दिक। निर्देशादिति । तेषां तत्र ग्रहणे हि नासिकादौ यणापत्तिरिति भावः । न चेत्त्व
न तत्र दोष इति वदन्ति । तदप्यनेन प्रत्युक्तमित्युपाध्यायानुयायिनः ।।
अनुनासिकोच्चारणाभावादिति । इदानीमिति शेषः। तथाचेदानी तत्पाठस्य परिभ्रष्टत्वादित्यर्थः । एतेनासदादीनां तज्ज्ञानाभावादित्यर्थः । यथाश्रुतं तु न सम्यक्, पाणिन्यादीनामनुनासिकस्यैवोच्चारणमितिनियमाभावादित्यपास्तम् । तत्त्वज्ञानमित्यनेन पौनरुक्त्यापत्तेश्च । आनुनासिक्यवन्त इति । असुव्वत इति भाष्यप्रयोगान कर्मधारयादिति क्वाचित्कमिति भावः । अयमेवमिति । अडादेशेऽनुनासिकोपधत्वं क्रियत इत्यादिनेत्यर्थः । व्यवहार इति । स्वतन्त्रः कर्तेत्यादिः । यणायापत्तिरिति । नासाशब्दात्स्वार्थे के यस्येतिलोपे केऽपा इति ह्रस्वे च प्राप्ते ऽपवादत्वात्केण इति ह्रस्वे पश्चादुत्सर्गप्रवृत्तावपवादशास्त्रवैयर्थ्यसम्भावनायास्सत्त्वेनोत्सर्गाप्रवृत्ती प्रत्ययस्थादितीत्वे पश्चादप्यपवादशास्त्रवैयर्थ्यसम्भावनया यस्येतिचेत्यप्रवृत्तौ यणापत्तिरितिभावः। न च निषाइकधूक इत्यादौ ह्रस्वस्य चारितार्थ्यमिति नापवादत्वमिति वाच्यम् । तत्राप्योर्गुणस्य प्राप्त्या चारितार्थाभावात् । न चापवादप्रवृत्त्यव्यवहितोत्तरकालप्रवृत्तिकोत्सर्गशास्त्रमेवापवादशास्त्रवैयर्थ्यसम्भावनया न प्रवर्तत इति हस्वोत्तरं लोपस्याप्रवृत्तावीत्वोत्तरं लोपो दुर्वार एवेति वाच्यम् । उत्सर्गशास्त्रप्रवृत्तिसम्भावनायामपवादशास्त्रवैयर्थ्यसम्भावना यत्र तत्रोत्सर्गशास्त्रं न प्रवर्तत इत्यर्थस्यापवादशास्त्रवैयर्थ्यमूलकतया व्यवहितोत्तरकालिकप्रवृत्तिम्भावनयापि यत्रापवादवैयर्थ्यसम्भावना तत्र व्यवहितोत्तरकालिक प्रवृत्तेरपि वारणात् । न च निपादकधूक इत्यादौ हस्बप्रवृत्त्यव्यवहितोत्तरकालप्रवृत्तिकगुणाप्रवृत्याऽपवादचारितार्थ्यमिति व्यवहितोत्तरप्रवृत्तिकयस्येतिलोपस्याप्रवृतिकल्पने मानाभाव इति वाच्यम् । अण्प्रत्याहारग्रहणेनाकारविषयकतयापप्लुतचाक्यस्य तावताप्यचारितार्थ्यात् । यद्वा यचि भमिति सूत्रे यकारसाहचर्यादच्त्वहल्त्वधर्मद्वयानवच्छिन्न एवाजगृह्यत इति श्रीधरोक्तदिशा यस्येति लोपस्याप्राप्त्या यणाद्यापत्तिरिति बोध्यम् । एतेनाङ्गत्वाद्यस्येति लोप आपादनीय इत्याचार्याः, तन्मतपरिपालनपरप्रकाशकाराश्च परास्ताः। न च पूर्वोक्तसाहचर्येण वारणे पूर्वस्य पदत्वाच्छाकलप्रकृतिभावापत्तिरिति वाच्यम् । न समास इति तनिषेधात् । यत्तु प्रकाशकृता न समास इति निषेधस्तु न, परमचक्रि अत्र, समिअचिचदित्यादौ प्रकृतिभावाय तत्समासघटकोत्तरपदाद्यच्येच निषेधप्रवृत्तेराश्रयणीयत्वादित्याक्षिप्य पदेऽन्त इति व्याख्यानेन प्रकृतिभावो वारितस्तन्न । तत्समासावयवाच्येव निषेध इत्यर्थेनैव पूर्वोक्तस्थले निषेधाप्रवृत्ताबुत्तरपदइति विशेषणवैयथ्यात् । न च समि अचिचदित्यत्राचस्समासघटकत्वेन तत्र निषेधापत्तिरिति वाच्यम् । अटश्चङन्तोद्देश्यकत्वेन समासानुद्देश्यकत्वेन समासावयवस्वाभावात् । न च गर्भिणीस्थो गर्भो गर्भिणीग्रहणेन गृह्यत इति दृष्टान्तेन तन्मध्यपतितत्वं तत्सत्तोत्तरकालिकसत्ताकत्वमेव,न तूदेश्यविधेयभावघटितमित्यकारस्थ समासावयवत्वं दुर्वारमिति वाच्यम् । एवमपि त्वयोत्तरपदत्वस्थार्थवचघटितस्य प्रकृतस्थलेऽजित्यस्योत्तरपदत्वाभवार्थमवश्यं वक्तव्यतया निषेधस्योत्तरपदत्वनिमित्तकत्वकल्पनापेक्षया लाघवादर्थवदाद्यवयवाच्येव निषेध इत्यर्थसौचित्येन प्रकृते निषेधसिद्धेः। किंचोत्तरपदाद्यवयवत्वमपेक्ष्य लाघवादुत्तरपदावयवत्वमेवाचि निवेश्यत इति प्रकृते निषेधस्सिद्ध्यति । समि अचिचदित्यत्र तन्मध्यपतितन्यायेन समासावयवत्वस्य लाभेप्युत्तरपदावयवत्वस्यालाभेन निषेधाप्रवृ विधानसामर्थ्याद्यणभावः सिद्धः । तस्यापि प्रत्याहारेष्वनुबन्धा. ग्रहणज्ञापनद्वारैव यणभावकल्पकत्वौचित्यात् । साक्षाच्छास्त्रबाधकल्पनापेक्षयाऽस्यार्थस्यौचित्यात् । निर्देशादित्यस्य तन्मूलभूतेत्त्वविधानसामर्थ्यादित्यर्थ इति तात्पर्यम् । आदिना तृषिमूषिकुषेरेकः पूर्वेत्यादिसङ्ग्रहः । ननु “प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न" त्तिः । किं चतत्र दोपवारणार्थ पदेऽन्त इत्यर्थस्वीकारे उत्तरसूत्रेऽर्थाधिकारानुरोधात्तादृशार्थस्य उक्तपाठे तु न किंचिदप्यनुपपत्तिः। ननु बाहुलकमगतिकगतिरित्यत आह । अर्शआद्यजिति । अन्ये हाते । अत्रासचिवीजन्त्वस्याआदित्वकल्पनं बाहुलकादविशिष्टम् । परं तु वृत्तिद्वयकल्पने क्लेश इति । मात्रचोऽत्र लोपो द्रष्टव्यः। अर्धहस्वमात्रमर्धहस्वमितिभाष्यतो विशिष्टस्यैवार्धमात्रिकार्थकत्वप्रतीतेराह । ह्रस्वपदेति । मूले बहुव्रीहिरिति भावः । अर्धहस्त्रशब्दोऽर्धमात्रारूपप्रमाणवाची, तदुत्तरमात्रचः प्रमेयमर्थः । तस्य प्रमाण इति लुकि अर्धमात्रिको भाग इति लभ्यते, स्पष्टं चेदं कैयटे, तदेतदाह । स्वशास्त्रसंकेतितरूपेणेति । मात्राकालिकस्साचोऽर्धमित्येवरूपेणेत्यर्थः । किंवर्धमात्रारूपेति। मात्रच्प्रकृत्यर्थविवरणमिदं, विशिष्टार्थविवरणपरत्वं तु न सङ्घटते । अर्धमात्रायाः परिमाणरूपत्वेन तखोदात्तत्वरूपधर्मसम्बन्धाभावात् । अस्य शास्त्रसङ्केतितरूपेणाबोधकत्वादेव तस्य ग्रहणं चरितार्थम् । स्वरित इत्यनुदीर्घादिष्वप्यर्धमात्रैवोदात्ता। इत आरभ्य नवलूच्या "अ" इत्यतः प्रागुत्कर्षेणास्य त्रिपाद्यामपि प्रवृत्तिः। सर्वश्चेदं भाष्ये स्पष्टम् । अर्धमुदात्तमिति वृत्तिस्तु सत्या सत्यभामेतिवद्ध्याख्यया । उत्तरार्धमित्यस्य चार्धमात्रातोऽवशिष्ट उत्तरो भाग इत्यर्थः । वेदे तु यथाप्रयोग प्रातिशाख्यादस्माच व्यवस्था । तस्य चेति । अनुदात्तस्येत्यर्थः । उदात्तेति । उदात्तस्वरितयोः परत्वे सतीत्यर्थः । तयोः . परत्वञ्चोपस्थितानुदात्तापेक्षयैव । अन्यत्र । उदात्तस्वरितयोः परत्वाभावे । प्रातिशाख्ये इति। लोके त्वनुदात्त एवेति भावः । हस्वस्वरितमुदाहरति । केति । किमोदित्यत् "काति" इति कादेशे "तित्स्वरितम्" इति स्वरितः। दीर्घ तमुदाहरति । रथानामेति । येरा इति। "स्वरितो वा अनुदात्ते पदादी" इत्येकारः स्वरितः। नोदात्तस्वरितोदयमिति निषेधस्तु "उदात्तादनुदात्तस्य स्वरित" इत्यस्यैवानन्तरस्येति
वर्त्य षष्ठ्या विपरिणामेनैव सिद्धे दीर्धादिखरितसङ्ग्रहार्थं तत् । शास्त्रसङ्केतितरूपेणैव बोधकदीर्घादिषु हस्वस्थासम्भवात्तदसङ्गतिरस्पष्टैव । ननु चैपादिकस्वरितानामसिद्धत्वात्तेष्वेतत्सूत्राप्रवृत्त्यापत्या तत्सङ्ग्रहार्थं तस्येति चरितार्थमित्यत आह । इत आरभ्येत्यादि । तथाचासिद्धत्वमेव नेति न तत्सङ्ग्रहार्थं तदिति भावः । अ अ इत्यतः प्रागिति । यद्यप्युदात्तादनुदात्तस्य स्वरित इत्युत्तरमुत्कर्षों भाष्ये दृश्यते. तथापि नोदात्तस्वरितोदयमित्यत्र निषेध्यलाभार्थ व्यवहितपरत्वं सायवादतत्सूत्रपरत्वं वा भाष्याभिप्रेतमित्याशयेनैवमुक्तम् । उत्कर्षे च ज्ञापकं देवब्रह्मणोरनुदात्त इति सूत्रम् । अन्यथा देवा ब्रह्माण इत्यत्रोदात्तादनुदात्तस्य स्वरित इति स्वरितस्यास्मिन्कर्तव्येऽसिद्धत्वे तदसङ्गतिस्स्पष्टैव। उत्कर्षे फलान्याकरतोऽवसेयानि । लक्ष्यविसंवादं परिहरति । वेदे विति ।
गुरुप्रसादसहिते लघुशब्देन्दुशेखरे न्यायात् । स्वरितपरमुदाहरति । शतचक्रमिति । अहेरित्यर्थेऽह्यः । वृत्रस्येत्यर्थः । “छन्दसि वा वचनं प्राङ् णौ चङ्युपधायाः" इति वचनाद् गुणाभावः उदात्तस्वरितयोरिति स्वरितः। उदात्तयणो हल्पूर्वादिति तु न, छान्दसत्वात् । यच्छब्दः फिष इत्यन्तोदात्तस्तदेकादेशश्च वा स्वरितः । स इति । उदात्तादिहस्वादिसञ्ज्ञक इत्यर्थः ।।
मुख । उच्यतेऽसौ वचनः । बाहुलकात् कर्मणि ल्युट् । मुखअहेरित्यर्थ इति । अह व्याप्तावित्यतो प्यति छान्दसत्वाद्ध्य भावे सुपां सुलुगिति सुरिति त्वर्थासङ्गतेदभाष्यविरोधाचोपेक्ष्यम् । उदात्तस्वरितयोरिति । अहिशब्दस्योञ्छादित्वादन्तोदात्ते यण उदात्तस्थानिकत्वेनेति भावः । यत्तुअहिरिव भोगेरित्यत्राद्युदात्तत्वश्रवणेन ग्रामादित्वावृषादित्वाद्वाऽऽधुदात्तत्वे शेपनिघातेनानुदात्तस्येकारस्योदात्तादानुदात्तस्य स्वरित इति स्वरितत्वे तत्स्थानिकयणःपरत्वात्स्वरितसिद्धिरिति भाव इति प्राकाशकारः । तन्न । उदात्तादनुदातस्योदात्तस्वरितयोरित्यनयोस्पादिकत्वेन तद्विषये शेषनिघाताप्रवृत्तावादेरकारस्यानुदात्तत्वस्य दुर्लभतया स्वरितो वेत्यस्यापवृत्तौ यकारौकारस्य स्वरितत्वानापत्तेः। उदात्तयणो हल्पूर्वादित्याधुत्तरग्रन्थासङ्गतेश्च । एतेन वा स्वरित इति प्रतीकमुपादायोदात्तस्वरितयोरिति स्वरितोत्तरं शेषानुदात्तेन सहैकादेशस्य स्वरितो वानुदात्ते पदादावित्यनेनेति भाव इति प्रकाशकृदुक्तिः परास्ता । अस्योञ्छादित्वे मानन्तु प्रकृतलक्ष्य ओकारस्य स्वरितश्रुतिरेवेति गृहाण ।।
कर्मणि ल्युडिति । इदं वृत्त्यनुसारेण । भाष्ये करणल्युडन्तवचनशब्देन बहुव्रीहिदर्शितः । यद्यपि बहुव्रीहेस्तत्पुरुषो लघुस्तथापि बाहुलकात्कर्मणि ल्युटोऽगतिकगतित्वेन बहुव्रीहिरेव ज्यायान् । अत एव भट्टैरिदं वृत्त्यनुसारेणेत्युक्त्वा भाप्ये त्वित्यादिना सिद्धान्ततया बहुव्रीहिरेव दर्शितः । एतेन कर्मल्युटि लाघवमिति वदन्तः परास्ताः । न च करणल्युटि डीप्स्यादितिसहिता नासिकेति विग्रहः । तया वचन इति, साधनं कृतेति समासस्तदाह । मुखसहितेत्यादि। मुखेति किम् । यमानुस्वारा. णामेव प्रसज्येत । एवञ्चाङोऽनुनासिक इत्यत्रानुस्वारः स्यात् । नरसिकेति किम् । शक्तत्यादौ "अनुदात्तोपदेश" इत्यादिना कलोपो मा भूत् । अष्टादशेति । यद्यपीदं न व्यतिपक्षे व्यक्तीनामानन्त्यात् तथाप्यष्टादशधर्मवत्त्वमकारजातीयादेरित्यर्थः । वाच्यम् । सामान्ये नपुंसकान्तेन समासस्वीकारेणादोपात् । स्पष्टं चेदं कैयटे । कुक्कुटाण्डवद्वा समासः । इति विग्रह इति । इत्यर्थको मुखद्वितीया नासिकेति विग्रह इत्यर्थः । उत्तरपदलोपस्य शाकप्रियपार्थिव इत्येतन्यावृत्यर्थत्वस्योत्तरत्र वक्ष्यमाणतया तस्य नित्यतालाभेन मुखसहितनासिकयेति मूलभ्यासङ्गत्यापत्त्या यथाश्रुतन्तु न सम्यक् । तदर्थकविग्रहप्रदर्शनन्तु भाष्योक्तद्वितीयाशब्दस्साहित्यवाचीति द्योतनार्थमिति ध्येयम् । साधनं कृतेति । यद्यप्यत्र कर्तृकरणे कृतेत्यनेनापि सिद्धं तथापि पादहारक इत्यत्रापादानपञ्चम्यन्तस्य समासार्थमावश्यकं वार्तिकमिति सूचनायैवमुक्तम् । अनुस्वारस्स्यादिति । विधेयस्स्यादित्यर्थः । यम इव यम इत्यन्वर्थसंज्ञावलाधमानापागमत्वदर्शनेन स्थानषष्ठ्यननुगुणत्वान्न तेषां प्रसक्तिरिति भावः । इदं सूत्ररीत्या । भाष्ये तु प्रासादवासिन्यायेन मुखग्रहणं प्रत्याख्यातम् । शक्तेति । निष्टान्ताट्टावन्तमिदम् । शक्त इत्यपि क्वचित्पाठः । ननु मूलेऽइ उ इत्येवं हस्वस्य च कस्याश्चियक्तेः पाठात्तस्यैकत्वेनाष्टादशभेदकथनासङ्गतिः। लक्ष्यस्थानामनुकरणत्वे तु तेषामानन्त्यानाष्टादशत्वसङ्गतिः । व्यक्तिपक्षे हस्वानुकरणत्वेन तवृत्तिधर्माणामपि नाष्टादशत्वमिति कथं मूल सङ्कतिरित्याशयेन शङ्कते । यद्यपीत्यादि । आनन्त्यादिति । इदमुपलक्षणम् । तदृत्तितव्यक्तित्वानामपि तथात्वादुदात्तत्वादीनां षट्वादित्यस्य । ननु जातिपक्षेपि जातेरेकत्वात्तदाश्रयव्यक्तीनामानन्त्यात्कथ
इस्वत्वादीनां तत्तत्समानाधिकरणोदात्तत्वानुनासिकत्वादीनाश्च भेदमाश्रित्येदम्बोद्ध्यम् । एवमग्रेऽपि । लवर्णस्येति। विवृतस्येत्यर्थः । तेन "लति ल. वा” इति विधेयस्येषत्स्पृष्टस्य दीर्घत्वेऽपि न क्षातः । दीर्घाभावादिति । अत एव तुल्यास्यसूत्रे भाष्ये "लतिमष्टादशत्वसङ्गतिरित्यत आह । अष्टादशधर्मवत्वमिति । जातिपक्षेऽत्वादिजात्याश्रयाणामुपस्थितौ तेषामष्टादशधर्मवत्वमव्याहतमिति भावः। तद्भुनयनाह ! अकारजातीयादेरित्यर्थ इति । एतेनेदं चिन्त्यम् । जातिपक्षेऽपि तजातिपुरस्कारेण यावश्यक्तीनामेकज्ञानविषयत्वेऽप्यानन्त्यम्य दुर्वारत्वेन तत्पक्षे. ऽपि धर्म एवाष्टादशत्वस्य वक्तव्यत्वात् । एवं तथापीत्यादिग्रन्थोऽपि व्यक्तिपक्षतात्पर्येणासङ्गत एव । तत्र पक्षे तब्यक्तित्वस्यैव शक्यतावच्छेदकतया तब्याप्य. त्वस्य चाष्टादशसु धर्मेष्वभावेन खव्याप्यमिथोविरुद्धयावद्धर्मबोधनात्मकविभागासम्भवात् । न च नानातव्यक्तित्वान्यतमत्वव्याप्यत्वेन तदुपपत्तिः। व्यक्तीनामानन्त्येन यावत्तव्यक्तित्वग्रहासम्भवात् । तस्माद्यक्तिपक्ष इत्युपलक्षणं, जातिपक्षस्यापीति अाकाशकृदुक्तमपास्तम् । विभागे मिथोविरोधानिवेशस्य प्रागुपदर्शितत्वाच्च । ननु धर्माणामप्यष्टविधत्वमेवेत्यत आह । ह्रस्वत्वादीनामिति । स्वसमानाधिकरणोदाचत्वापेक्षयेत्यर्थः। तत्समानाधिकरणोदात्तत्वेति । दीर्धत्वसमानाधिकरणोदात्तत्वापेक्षयेत्यर्थः। अत एवाष्टादशथा भिन्नामवर्णस्य प्रतिपत्तिं वक्ष्यामीति पस्पशास्थं भाष्यं सङ्गच्छत इति भट्टाः। अन्ये त्वनुनासिकत्वसमानाधिकरणोदात्तत्वसामानाधिकरणहस्वत्वमित्येवंरीत्याऽष्टादशधर्मास्स • म्पादनीया इत्याहुः । यद्यपीदं न शेखराक्षरानुगुणं, तथापि स नवविधोपीति मलानुरोधेन शेखरग्रन्थ एवमेव यथाकथंचिद्योजनीयः। वस्तुतस्तु भट्टोक्तमेव न्याय्यं, स नवविधोपीति मूलन्तु हखत्वादीनां तत्समानाधिकरणोदात्तत्वादीनां च भेदमनाश्रित्य प्रवृत्तम् । अन्योक्तार्थस्य शेखरतः कथमप्यलाभात् । अत एव
सवणे" इत्यनेन पक्षे द्विलकारकाभावे "अकः सवर्णे" इति दीर्घत्वे होतृकार इति ऋकारघटितप्रयोगः सङ्गच्छते । ह्रस्वाभावादिति । इदमेओङित्यादौ भाष्ये स्पष्टम् । गानरोदनादौ चतुर्मात्रार्धमात्रा. दीनामुपलम्भेऽपि शास्त्रीयकार्ये उपयोगाभावाल्लोके प्रयोगेष्वप्रयोगाच नोक्ताः । अत एवानुदात्ततरस्यानुक्तिः । एकश्रुतेः स्वरान्तरत्वे इदमुपलक्षणं, तस्या लोकेऽपि सत्त्वात् ॥
तुल्यास्य । तुल्यावास्यप्रयत्नौ यस्येत्यर्थः । आस्ये भवमास्यं,
नवविधोऽयीत्येतद्वैलक्षण्यार्थमिदमित्युक्तमिति प्रतिभाति । ऋकारघटित इति । स एवेत्यर्थः । अन्यथा लकारवृत्त्यान्तरतम्यात्पर्यायेण लकारघटितोऽपि प्रयोगस्स्यादिति भावः । लति लवेति वार्तिकप्रत्याख्यानपरं भाष्यमप्यत्र मानम् । अन्यथा लकारवत्त्वविवृतत्वरूपधर्मद्वयेनान्तरतम्याद्विवृतदीर्घ एवं स्यादिति तदसङ्गतिस्स्पष्टैव । माकायां लकारदीर्घ ईषत्स्पृष्ट एवेति बोध्यम् । लोके प्रयोगेष्विति । प्रयुज्यमानेषु वाक्येष्वित्यर्थः। खराणापविभागेनावस्थानमेकश्रुतिरिति स्वरप्रकरणे वक्ष्यमाणरीत्या स्वर्येऽन्तर्भावं मत्वाह । स्वरान्तरत्व इति । त्रैस्वर्याभावरूपत्वे दोषादाहेति प्रकाशकुदुक्तावतरणन्तु न सम्यक् । तथासति स्थर्याभावस्थाप्युपलक्षणीयत्वेन ग्रन्थासङ्गतेः । उदा. त्तादिभिस्स्वयमेव राजन्त इत्यन्वर्थसंज्ञया स्वरव्यवहारानुपपत्तेश्च । लोकेपीति । प्लुतावैच इदुतावित्यादिविषये ।।
तुल्याविति। न च नपुंसकमनपुंसकेनेत्येकशेष तुल्याविति पुंस्त्वमसङ्गतमिति वाच्यम् । अर्थतन्त्रस्थले नानाशब्दप्रयोगस्याग्रसक्तत्वेनैकशेषाभावात् । अत्रैकशेषाभावाभिप्रायेणैव घटा इत्यादौ न लक्षणा, घटत्वेन रूपेण नानाघटोपस्थितिसम्भवादित्युक्तं न्यायसिद्धान्तमुक्तावल्याम् । “बहुत्वा
तुल्यास्य-। तुल्यावास्यप्रयत्नौ यस्येत्यर्थः । आस्ये भवमास्यं, व्याख्यानात् । तच्च-वर्णोपयोगित्वात्स्थानेमव, प्रयत्नस्य पृथगुपादानात्‌ । प्रकृष्टो यत्नः -आम्यन्तरः, तस्य वर्णोत्पत्त्यविहितप्राग्भावित्वरूप्रकर्षवत्त्वात्‌ । जनकत्वं षष्ठ्यर्थः तत्तत्कार्यगतभेदं स्थानेष्वारोप्य भेदघटिततुल्यत्वस्य निर्वाहः । वस्तुतः “सादृश्यं न भेदघटित'मिति भाष्यसम्मतमिति न कश्चिद्दोषः । स्पष्टञ्चेदं भाष्ये। तदाह-ताल्वादोति ।
शिक्षायाङ्कण्ठादीनाङ्कण्ठत्वादिनैव स्थानतोक्त्या तद्रूपेणैवाऽऽ स्यशब्देन ग्रहणमिति तद्धागभेदमादाय नोदात्तादिषु॒॑ सावर्ण्यभङ्ग इति बोध्यम् । यस्स्यैतद्द्वयं येन यदीयेनैतद्द्वयेन तुल्यमित्यर्थः । यजुष्येकेषामिति निर्देशाद्यावदास्यभवतुल्यत्वं ग्राह्यम्‌ । अत एवैचोः सावर्ण्यमाशङ्क्य- नैतौ तुल्यस्थानौ" इति भाष्ये समाहितम्।
अत एव वलयोर्न सावर्ण्यम्‌ । तेन तद्वानासामित्यादौ तोर्लीति न । अत एव प्रयत्नशब्देन यत्नमात्रग्रहण"मिति पक्षे--यक्किञ्चिप्रयत्नभेदे यत्किञ्चित्प्रयत्नैक्यमादाय सवर्णसंज्ञेत्यर्थो “झरो झरि सवर्णे इति सवर्णग्रहणेन ज्ञापकेन साधितो भाष्ये। तेन स्थानांशे यावत्स्थानसाम्ये इत्येव स्वारसिकोऽर्थ इति प्रतीयते ।
न च यावदास्यभवतुल्यत्वविवक्षणे प्रयत्नग्रहणं व्यर्थ, प्रयत्नस्याप्यास्यभवत्वादिति वाच्यं, हस्वदीर्घयोः सावर्ण्यानापत्तेः, तयोर्जनकानामास्यभवानां वायुसयोगानामतुल्यत्वात्‌ । तस्मादास्यभवानाङ्कण्ठादीनामेव ग्रहणमिति बोधनाय तत्सार्थक्यात्‌ ।
आस्येति किं ? तर्प्ता । झरो झरी'ति लोपो मा भूत्‌ । प्रयत्नेति किं ? वाक्श्चोतति ।
प्रेति किं ? शचयोः श्वासाघोषविवाराख्यबाहय्प्रयन्साम्येन तत्रैव दोषात्‌ ।
कस्य किं स्थानमित्याशङ्कायामाह--अकुहेति । यद्यपि सर्ववर्णोचचारणे कण्ठव्यापार आवस्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽपि तथा, अकारादीनामुच्चारणे तु नेति भावः । कचयोस्तु न सावर्ण्यं, यावत्स्स्थानसाम्याभावात्‌ , भिन्नस्थानकथनवैयर्थ्यापत्तेश्च ।
अत्र कण्ठपदं कण्ठस्थानतासमीपजिह्वामूलस्थानोभयपरं, तेन "कण्ठ्याबहौ" “जिह्वामूले तु कुः प्रोक्त' इति शिक्षया न विरोधः । जिद्वामूलीयपदस्य च -वर्णविशेषे रूढिरिति न व्यवहारातिप्रसङ्गः । अत एवायोगवाहेषु जिह्वामूलीयगणनं भाष्ये । तत्तद्वर्णोत्पत्तेः प्राक्तत्तस्थानादौ जिह्वास्पर्शाद्यनुभवेन तत्द्रर्णानां तत्तस्थानत्वनिर्णयेप्यकुहेत्यादिकथनं साधारणधर्मबोधनायानुवादकं, न त्वेतदेव कठादिस्थानविधायकमिति भ्रमितव्यम्। विसर्जनीयपदेनात्र साहचर्यादकाराश्रयस्य ग्रहणम्‌ । अत एव अयोगवाहा विज्ञेया आश्रयस्थानभागिनः' इति शिक्षया न विरोधः । दन्ता इति ॥
दन्तसंयुक्तदेशा इत्यर्थः। अतो भग्नदन्तस्याप्युच्चारणं भवत्येव । “उश्च पश्च ध्मायेते अनेन तत्र भव' इति योगेनोपध्मानीयस्यौष्ठ्यत्वमित्याह - उपूपेति। रूढत्वाच्च न व्यवहारातिप्रसङ्गः । नासिका चेति । चेन स्वस्ववर्गानुकूलं ताल्वादि गृह्यते । अत एवैषां प्रातिशाख्ये नासिकायां भवः इत्यर्थकनासिक्यशब्देन व्यवहारः ।
यत्तु - ‘अनुस्वारयमानां च नासिका स्थानमिष्यते |’
इति शिक्षोक्तेरेषां नासिका करणम्‌ । किञ्च - स्थानत्वे कङयोः सावर्ण्यानापत्तिः, यावत्स्थानैक्याभावात्‌ । यत्किञ्चित्स्थानैक्येन तत्त्वे तु -ञमामपि पररपरं सावर्ण्यापत्तिरिति', तन्न; कण्ठादीनामपि करणत्वस्यैव 'अस्यन्त्यनेन वणान्‌" इति भाष्यात् प्रतीतेः । स्थानत्वव्यवहारस्तु - वर्णाभिव्यक्तिजनकताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपेण।
तत्तत्स्थानजिह्वाग्रादिसम्बन्धेन वर्णोत्पत्या जिह्वाग्रादौ,तत्सम्बन्धजनकप्रयत्नविशेषे स्पृष्टतादौ
च करणत्वव्यवहारः । वर्णाभिव्यक्त्त्यनन्तरभावी सावर्ण्यानुपयुक्तः आन्तरतम्यपरीक्षोपयुक्तश्च - कण्ठविवरादिनिष्ठविकासादेरास्यबहिर्देशावच्छिन्नकार्यस्य जनको यत्नो गुणशब्देनोच्यते । अकारादिनिष्ठानुनासिक्यस्य भेदकत्वाद्गुणस्ये' त्यादौ गुणत्वेन व्यवहारस्तु कण्ठाद्यवच्छिन्नवायुसंयोगेनोत्पन्नेषु नासावच्छिन्वायुसंयोगेन तद्रूपधर्मोत्पत्त्या । एवञ्च नासिकायास्तत्र गुणजनकत्वादनुनासिकाकारादीनां नासिकास्थानं नोक्तं मूले ।
'एकोऽयमात्मोदकन्नाम तस्य गुणभेदादन्यत्वं भवति, अन्यदिदंशीतमन्यदिदमुष्ण'मिति दृष्टान्तपरभाष्येण तथेव प्रतीतेः। आत्मात्र द्रव्यम्। उदात्तत्वादीनां गुणत्वव्यवहारस्तु सावर्ण्यानपयुक्तत्वान्तरतम्यपरीक्षोपयोगित्वरूपसादृश्येनेति बोध्यम्। ङादीनान्तु तद्गुणरहितस्वरूपानुपलम्भेन उभय़ावच्छेदेन वायुसंयोगोत्तरमेव स्वरूपोत्पत्त्या विनिगमनाविरहेणोभयोः स्थानत्वम्। अनुस्वारयमानाञ्चेति' शिक्षायां चेन डादीनामपि सङ्ग्रह इति युक्तम्‌ । अत एव “कण्ठयोऽकार इत्याद्युक्त्वा नासिक्यान्नासिक्ययमानानुस्वारानिति स्थानानी'त्युक्तं प्रातिशाख्ये। “नासिक्या-डञणनमा' इति तद्वयाख्यातारः । कड्योः सावर्ण्यन्तु भवत्येव | आस्ये तुल्यदेशप्रयत्नम्‌' इति वार्तिके- किमास्योपादाने प्रयोजनमिति प्रश्ने -प्रयत्नविशेषणमास्योपादान'मित्युक्त्वा- तद्व्यावर्त्यत्वेन बाह्यप्रयत्नान् प्रदर्श्य - यथा तृतीयास्तथा पञ्चमा आनुनासिक्यमेषामधिको गुण इति भाष्येण तस्य बाह्यप्रयत्नत्वोक्त्याऽत्र सूत्रे नासिकाया आस्यशब्देन, तत्रत्यप्रयत्नस्य च प्रयत्नशब्देनाग्रहणबोधनात्। नासिका आस्यबाह्ये'ति वदतां मते तद्ग्रहणाभावाच्च ।
अत एव बाह्यप्रयत्नानुपक्रम्य--
“अमोऽनुनासिका न ह्रौ नादिनो ह झषः स्मृताः ।
ईषन्नादा यणश्चैव श्वासिनस्तु खफादयः ॥
ईषच्छ्वासाश्चरो विद्यात् ----” इत्युक्तं शिक्षायाम्‌ ।
नादेति - संवारघोषयोरुपलक्षणम्‌ | श्वासेति विवाराघोषयोः । न ह्रावित्युपलक्षणम्‌ - ऐचः सर्वस्य प्लुतलृकारस्य च अनुनासिकस्यादशनादित्यलम्‌।
एदैतोरित्यादौ लोकानुभवसिद्धार्थानुवादके तपरशास्त्राप्रवृत्या प्लुतानामपि तत्स्थानत्वं बोध्यम्। तथा च पाणिनीयशिक्षा--
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसा स्मृताः॥
जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः ।
ए ऐ तु कण्ठ्यतालव्यावो औ कण्ठोष्ठजौ स्मृतौ ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिहामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु च ॥
हकारं पञ्चमैर्युक्तमन्तस्थामिश्च संयुतम्‌ ।
उरस्य तं विजानीयात्कण्ठयमाहुरसंयुतम्‌ ।- इति ।
यत्तु -दन्तोष्ठादि समुदितं स्थानमिति, तन्न । शिक्षायां "दन्त्योष्ठ्य'मित्यादि कण्ठ्यतालव्यावित्यादौ तत्र भव इत्यधिकारविहितयतः प्रत्येकमनुत्पत्त्यापत्तेः। दन्त्योष्ठ्यमित्यादि त्वसङ्गतमेव, स्वाङ्गसमुदायस्य स्वाङ्गत्वाभाववच्छरीरावयवसमुदायस्य शरीरावयवत्वाभावात्। एतेन - दन्त्योष्ठरूपमतिरिक्तं स्थानमित्यपास्तम्। अष्टौ स्थानानीति प्रतिज्ञाविरोधाच्चेति दिक्।
सूत्रे प्रशब्देन विलक्षणार्थबोधे अपि लोके यत्नप्रयत्नयोः पर्यायतेति ध्वनयन्नाह - प्रयत्नो द्विधेति। क्वचिद्यत्न इत्येव पाठः। चतुर्धेति। यत्तु -
स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्‌ ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥'
इति शिक्षावाक्याद्विवृततमयोः प्रतीत्या, नाज्झलाविति सूत्रभाष्यादूष्मणामीषद्विवृतत्वस्य च प्रतीत्या चतुर्धेत्यसङ्गतमिति, तन्न। नाज्झलाविति सूत्रेण विवृतत्वव्याप्यानेषां सवर्णसज्ज्ञानुपयुक्तत्वबोधनमित्याशयात्‌ । भाष्यमते तु सन्तु सप्त
प्रयत्नाः । एवञ्चैदैतोश्च न सावर्ण्यप्रसक्तिः, प्रयत्नभेदादिति बोद्ध्यम्‌ । नाज्झलाविति सूत्रमपि प्रयत्नभेदप्राप्तसावर्ण्याभावानुवादकं सत्तस्यैव बोधकम्‌ । अत एव भाष्ये तन्न वक्तव्यमिति नोक्तम्‌ । स्पृष्टादीनामाभ्यन्तरत्वन्त्वोष्ठप्रभृतिकाकलकपर्यन्तरूपास्यान्तर्गततत्तस्थानेषु जिह्वाग्रादीनां स्पर्शेषत्स्पर्शदूरावस्थानसमीपावस्थानरूपाभ्यन्तरकार्यकारित्वाद्वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम्। तत्र बहूनामेकस्थानत्वेऽपि कस्य॒चिदुच्चारणे सम्यक्स्पर्शः कस्यचिदीषदिति शिक्षाकारोक्तिमनुभवञ्चानुसृत्य विवेक्तव्यम्‌ । प्रयतन'मिति नपुंसके भावे ल्युट्‌ । प्रयत्न'मित्यपपाठः, नङन्तस्य पुंस्त्वात्‌ । तथा च शिक्षा-
“स्वराणामूष्मणाञ्चेत्यनन्तरम्‌-
“अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्ताः--'"इति ॥
अचोऽस्पृष्टाः - स्पर्शाभावरूपविवृत्ववन्तः । 'यणस्त्वीषदित्यनेन - तेषामीषत्स्पृष्टत्वमीषद्विवृतत्वञ्च बोधितम्। नेम इत्यर्धे । तेन शलामीषद्विवृतत्वं यणपेक्षयाधिकविवृतत्वञ्चेति बोध्यम्। अत्र शिक्षोक्तव्याप्यधर्मवतां व्यापकधर्ममादाय न सावर्ण्यमिति यणां चवर्गादिभिर्न सावर्ण्यम्‌ । तेनाञ्चित इत्यादौ न यादिः परसवर्ण: ।
विवृतमेवेति । प्रक्रियादशायां विवृतत्वं प्रतिज्ञेयमित्यर्थः । तेन दण्डाढकादौ दीर्घसिद्धिः। अन्यथा संवृतस्य हस्वाकारस्य विवृतेन दीर्घेण सावर्ण्याभावात्स न स्यादिति भावः ।
दीर्घाकारस्य विवृततरत्वन्तु पाणिनिशिक्षायामुक्तत्वान्नैतच्छास्त्रप्रक्रियोपयोगीति दिक्‌ ।
तस्य प्रयोगे संवृतत्वे मानमाह-- अ अ । प्रयत्नभेदाद्दीर्घाभावः । अत्रोद्देश्ये
सवर्णग्रहणं, जातिनिर्देशो वा न, व्याख्यानात्‌ । अधिकारत्वे फलमाह- त्रिपाद्यामपीति ।
अन्यथा ` “गोधुङ्मा'नित्यत्र घत्वजश्त्वानुनासिकेषु -- भष्भावानापत्तिरिति भावः । वस्तुतो घत्वे कृते “झय इति वत्वापत्तिर्दोषः। न च ततः परत्वाज्जश्त्वानुनासिकत्वयोस्तदप्राप्तिरिति वाच्यं, “विप्रतिषेधे परमित्यस्य यथोद्देशत्वेन त्रिपाद्यामप्रवृत्तेः। पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्येत्यनेन तस्या यथोद्देशत्वस्यैव बोधनात्‌ । अन्यथा परस्यासिद्धत्वेऽपि विप्रतिषेधसूत्रस्य सिद्धत्वात्परिभाषान्तराणामिवास्या अपि कार्यकालपक्षे तेनाकर्षणापत्तेः। अत एव भाष्ये वत्वमेवापादितम्‌। अधिकारत्वादेव -श्चुत्वं धुटि सिद्धं वाच्यमित्यादि चरितार्थम्‌ । एवञ्च यत्रानुवृत्तिस्तस्यासिद्धत्वं, पूर्वत्वञ्च क्वचित्सपादसप्ताध्याय्याः, क्वचित्सूत्रान्तरसहितायाः। तत्रायमर्थः- “हो ढ इत्यादावस्योपस्थितौ
बाह्यभेदेनान्वयः- “हस्य ढो भवति, इदञ्च शास्त्रं पूर्वत्रासिद्ध'मिति । अत एव न मु ने' इत्यादिभिस्तन्निषेध उपपद्यते । पूर्वत्रेति सङ्गाहकमेव । श्रृङ्गग्राहिकयेैव तु ततच्छास्त्रं प्रति तस्यासिद्धत्वं प्रतिपाद्यते । तेनापवादस्य यं प्रत्यपवादत्वं तत्रासिद्धत्वाभावेऽप्यन्यत्रासिद्धत्वं भवत्येव । असिद्धमिति । सिद्धं = निष्पन्नं, प्रवृत्तम्। सिद्धश्च प्रत्ययविधावित्यादौ तथा दर्शनात्‌। तद्भिन्नम्‌--असिद्धमनिष्पन्नमप्रवृत्तम्‌ । यद्यपि लोकेऽनाहार्यज्ञानस्यैव प्रवर्त्तकत्वं निवर्त्तकत्वञ्च दष्टं, तथापीह शास्त्रप्रामाण्यादाहार्यारोपोऽपि शास्त्रप्रवृत्तावप्रवृत्तौ च नियामक इति बोध्यम् । अत्र कार्यासिद्धत्वे अमू इत्याद्यसिद्धिः । अद अ औ' इति स्थिते परत्वान्मुत्वे तस्य सपादसप्ताध्यायीस्थकार्यदृष्ट्याऽसिद्धवेऽपि 'देवदत्तहन्तृहतन्यायेनाकाराभावेन पररूपाद्यनापत्तिः । अतिदेशस्याऽऽरोपरूपत्वान्निरधिष्ठानारोपासम्भवेन कार्यप्रवृत्तेरत्र पक्षे आवश्यकत्वात् । शास्त्रासिद्धत्वे तु-- यत्राप्यन्तरङ्गत्वात्त्त्रैपादिकं प्रवृत्तं तत्रापि-- तत्तच्छास्त्रे एवाभावारोपेण तन्निवृत्तिवुद्धेरभावः आदेशबुद्ध्यभावो लक्ष्ये जातत्वबुद्ध्यभावश्च। जायमानं कार्यन्त्वादेशे एव स्थानिबुद्ध्या प्रवर्त्तते । “न हि रजतभ्रमप्रयुक्ता प्रवृत्तिः शुक्तिं न गोचरयतीति न दोषः । यत्र तु॒ सहप्रसङ्गस्तत्राप्रवृत्तावपिरेव, अभावारोपात्। न च पूर्वत्र नेत्येव सूत्रमस्त्विति वाच्यम्‌, पूर्वशास्त्रप्राप्तौ निषेध इत्यर्थे "नलोपः सुबिति सूत्रासङ्गतेः, तद्धि नियमार्थम्, त्वद्रीत्या "राजन्‌--अश्व' इत्यस्यां दशायाङ्कस्यापि पूर्वशास्त्रस्याप्राप्त्यैतन्निषेधाप्रवृत्तौ नलोपे जाते भुक्तवन्त'मिति न्यायेनैतदप्रवृत्तौ राजाश्वे दीर्घसिद्ध्या नियमानुपयोगात्‌ । राजभ्यामित्यादावपि दीर्घापत्तेश्च! पूर्वशास्त्रविषयसम्भावनायामित्यर्थे राजभ्यामित्यादावपि नलोपे सुब्विधि-दीर्घ-विषयसम्भावनया सर्वथा नलोपानापत्तिरिति दिक्‌ ।
बाह्यप्रयत्न इति । काकलकाधस्ताद्गलविवरविकास-सङ्कोच -श्वासोत्पत्ति-ध्वनिविशेष-रूपनाद-तद्विशेषरूप-घोषाल्पधोष-प्राणाल्पत्व-महत्त्व-रूपकार्यकरत्वमेषाम्‌ । तथाहि--
“आत्मा बुध्या समेत्यार्थान्मनो युङ्कते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्‌ ॥
सोदीर्णो मूर्ध्न्यभिहतो वक्रमापद्य मारुतः ।
वर्णान्‌ जनयते--'" इति शिक्षायामुक्तम्‌ ।
 आत्मा = अन्तःकरणं, संस्काररूपेण स्वगतानर्थान्बुद्ध्या = स्वप्रवृत्त्या, समेत्य = एकबुद्धिविषयान्कृत्वा तद्बोधनेच्छया मनो युक्तं करोति, तदिच्छावन्मनः--कार्याग्निञ्जाठरमग्निमभिहन्ति, सः-कायाग्निः, सोदीर्णः-स मारुतः उदीर्णः ऊर्ध्वं प्रेरित -इत्यादिस्तदर्थः। एवञ्च शब्दप्रयोगेच्छयोत्यन्नयत्नाभिहताग्निना नाभिप्रदेशात्प्रेरितो वायुर्वेगान्मूर्धपर्यन्तङ्गत्वा प्रतिनिवृत्तो वक्त्रं प्राप्य उक्तयत्नसहायेन तत्तत्स्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्य वर्णानभिव्यनक्ति । ततो यत्नविशेषेण गलविवरविकासादीन्करोति । तत्र ये तत्तत्स्थानाभिघातका यत्नास्ते आस्यान्तर्गततत्तत्कार्यकारित्वादाभ्यन्तरा इत्युच्यन्ते । गलविवरविकासादिकराश्चास्यबहिर्भूतदेशे कार्यकरत्वाद्बाह्या इति । मात्राकालिकत्वादिरूपह्रस्वत्वादिकन्तु वाय्वल्पत्वमहत्त्वकृतमिति-नाभिप्रदेशात्प्रेरकयत्न एव कश्चिविलक्षणोऽल्पं वायुं प्ररयति कश्चिदधिकमिति-तस्य वायुप्रेरणारूपङ्कार्यमास्यबाह्यदेशमिति तदपि बाह्यमेव ।
अत एव अइउण् सूत्रे भाष्ये - ह्रस्वत्वादि जनकयत्नस्यास्यविशेषणेन सवर्णसूत्रे अण्ग्रहणमित्युक्तम्। यद्यपि-“एक एव यत्नः सर्वकार्यजनको वर्णनाशकश्चेति “परः सन्निकर्ष इति सूत्रे भाष्ये उक्तं- तथापि तत्त्कार्येणोपाधिना एकस्मिन्नपि भेदमारोप्य तथा व्यवहार इति बोद्ध्यम् । उदात्तादिजनकयत्नस्याभ्यन्तरकार्यकरत्वेऽपि -- उदात्तादिशब्दैर्विना बोधितानां तेषाम्‌-. अनङुदात्त इत्यनेनाविवक्षाबोधनात्सवर्णसंज्ञानुपयुक्तत्वान्तरतम्यपरीक्षोपयुक्तत्वरूपसादृश्येन बाह्येषु गणनम्‌ । इदं --हस्वत्वादेरानुनासिक्यस्य चोपलक्षणम्‌।
शर इति । शषसाः । अनुप्रदानं - बाह्यप्रयत्नः । विवृण्वते इति । तदभिव्यक्त्युत्तरञ्जायमाने कण्ठविवरविकासे तेषां कर्तृत्वविवक्षा बोध्या । विवार एषां प्रयत्न इति भावः। अन्ये त्विति । वर्गतृतीयचतुर्थपञ्चमाः, तद्यमाः, हकारानुस्वारौ, यरलवा इत्यर्थः ।
नादभागिनः - तत्प्रयत्नकाः । यद्यपि खयादिषु घोषाघोषान्यतरप्रयत्नमात्रेणापि प्रक्रियांशनिर्वाहस्तथापि शिक्षानुरोधेनान्येषामुक्तिः । अल्पासवः - अल्पप्राणाः, यत एतदुच्चारणोत्तरं प्राणानामल्पत्वमिव भवति। वर्गेष्विति । "विद्यमानाना'मिति शेषः । चतुर्णामिति ।
निर्धारणे षष्ठी, 'अन्यतमा'दिति शेषः । पूर्वसदृश इति। सादृश्यं --यत्नकृतम्‌ । अत एवायोगवाहेषु यमानां गणनं भाष्ये, “चत्वारश्च यमाः स्मृता' इति पाणिनिशिक्षा च सङ्गच्छते । अयञ्च वेदे एव तदाह-प्रातिशाख्ये इति । अन्येषामिति । अचाम्‌ उक्तान्यहलाञ्चेत्यर्थः। यरलवाश्चेति । चेनाचामपि ग्रहणम्‌ । सुपां सुलुगिति सूत्रे इकारस्यान्तर्यतो दकार" इति भाष्यात्- घोषसंवारनादाल्पप्राणत्वमचाम्‌ । अन्यथा तदौ पर्यायेण स्याताम्‌, अल्पप्राणत्वानङ्गीकारे दधौ पर्यायेण स्याताम्‌ । अचां घोषत्वं “परः सन्निकर्ष" इति सूत्रे भाष्येऽपि स्पष्टम्‌ । अन्ये इति । द्वितीयचतुर्थौ, तद्यमौ, शषसहा, अयोगवाहाश्चेत्यर्थः । जिह्वामूलीययमादीनां स्थानबाह्यप्रयत्नकथनन्तु--स्वरूपनिर्णयाय,
न तु सावरण्यान्तरतम्यपरीक्षादावुपयोगीति बोद्ध्यम्। अनुपयुक्ता इति । तुल्यास्यसूत्रे प्रशब्दग्रहणात्‌ । उपयुक्तत्वे हि श-छयोरपि सावर्ण्यं स्यादिति भावः । आन्तरतम्यपरीक्षा च-*घोषवत इत्यादिना तत्र तत्र स्फुटीभविष्यति । स्पर्शाः - तत्पदवहार्याः । अन्तस्था- शब्द आदन्तः । स्पर्शोष्मणोरन्तर्मध्ये तिष्ठन्तीति तदर्थः । ऊष्माण इति । ऊष्मा वायुस्तत्प्रधाना इत्यर्थः । एवं “सोप्माण'इत्यस्य "वायुना सह वर्तन्त इत्यर्थ इति प्रातिशाख्यभाष्ये स्पष्टम्‌। यद्यपि वर्गद्वितीयचतुर्थयोरपि स्थानेन्तरतमः सूत्रभाष्यादु्ष्मत्वं तथापि विवृतमूष्मणा'मित्यत्रैत एव गृह्यन्ते । अन्यथा कण्ठ्यादीनां सावण्यानापत्तौ “नाज्झला'वित्यादिनिर्देशासङ्गतिरिति भावः । अचः स्वरा इति । उदात्तादिभिः स्वयमेव राजन्त इति व्युत्पत्तेः। तद्धर्मत्वादुदात्तादयोऽपि 'स्वारा इत्युच्यन्ते । कपाभ्यामिति - खफयोर्युपलक्षणम्। अं अः इत्युपलक्षणमिकारादेरपि। तदाह-अचः पराविति।
ऋलृवर्णयोरिति । आ च लृवर्णश्चेति विग्रहः, ऋत्यकः इति प्रकृतिभावः । एतदर्थमेव वर्णोपदेशे लृकारपाठः, अन्यथा तस्यासत्वशङ्कयाऽस्य वचनस्यैवाशङ्क्यं स्यात्‌।
ध्वनितञ्चेदम्‌ “एओङिति सूत्रे भाष्ये । तत्र हि संयन्तेत्यादौ “हलोनन्तरा' इति सूत्रे प्रत्याहारघटकेष्वपि ग्रहणकशास्त्रदृष्ट्या मात्राकालिकस्य यद्वयादेरणुदित्सूत्रेण यादिग्रहणेन ग्रहणात् व्यञ्चनाश्रयो विधिर्न प्राप्नोतीत्याशङ्क्य - मात्रिकव्यञ्जनानुपदेशादनुपदिष्टस्यासत्त्त्वादसत्प्रतिपत्तेरशक्यत्वान्नाणुदित्सूत्रेण तद्रहणमि्ुक्तम्‌ ।
न च क्लृ३्प्तशिखेत्यादावनृत इति निषेधात्प्लुतानापत्तिः, ऋलृवर्णयोः पृथगनुबन्धत्वकरणेन क्वचित्परस्पराग्राहकलत्वकल्पनेनादोषात्‌
अकारहकारयोरिति । एकारस्य तालव्यत्वमोकारस्यौष्ठ्यत्वमिति मते एकारशकारादीनामप्युपलक्षणमिदम्‌। एतेन “'नाक्शलौ" इत्येव सूत्रयितुमुचितमित्यपास्तम्‌ । हशि चेत्येव सिद्धे∫तोरोरित्याकारेव्यावृत्यर्थम्‌ । सूत्रे द्विवचनोपपत्तये मध्यमपदलोपिसमासं दर्शयति।
आकारसहित इति । अत एव वेलास्विति निर्देश उपपद्यते । समाहारद्वन्दे तु टच्प्रसङ्गो∫ज्झलिति समाहारद्वन्द्वं कृत्वा आ पदेन द्वन्द्वे तु अज्भिरप्याकारस्य सावर्ण्य न स्यादिति भावः। अत एव भाष्ये प्रयत्नभेदेनैषां सावर्ण्याभावः साधितः ।
एतेषु परेष्विति । इदमुपलक्षणम्‌, एतेषु विदयमामानस्येत्यपि वोध्यम्‌ । तेन हकारादीनामकारादिषु परतो दीर्घादिसङ्ग्रहः।
अच्त्वं स्यादिति । अच्पदवोध्यत्वं स्यादित्यर्थः । इदं प्रत्याहाहारघटकेष्वपि ग्राहकशास्त्रप्रवृत्तित्तिरिति मते व्यक्तिपक्षे च वोध्यम्‌ ॥
अणुदि । अणमुद्दिश्य सवर्णवोधकता∫त्र विधीयते । सवर्णेत्यस्य बोधकः इति शेषः । आदेशादौ सवर्णग्रहणवारणायाह ।
प्रतीयत इति । परे तु प्रत्ययग्रहणमेकदेशानुमत्या “ भाव्यमानेन सवर्णानां ग्रहणं न ” इति परिभाषां ज्ञापयतीति युक्तम्‌ ।प्रत्ययपदस्य तदर्थत्वन्तु न युक्तं वार्तिककृता टित्किन्मिन्मित्सूपसंख्यानोक्तेः। भाष्यकृता चाप्रययग्रहणमेतत्परिभाषाज्ञापकमित्युक्तेः । “ ज्यादादीयसः “ इति सूत्रे भाष्ये ध्वनितमिदम्‌ । तत्र हि किमर्थमादित्युच्यते ज्याद इत्येवोच्यतां, का रूपसिद्धिः, आन्तर्यतो दीर्घस्य दीर्घो भविष्यति, एवन्तर्हीदमेव ज्ञापयति भवत्येषा परिभाषा भाव्यमानेनेत्यादि । त्वदुक्तव्याख्याख्याने हि पूर्वपक्षसिद्धान्तयोरभयोरपि निर्दलत्वापत्तिः। जातिपक्षे∫प्यनयैव परिभाषया सवर्ण॑ग्रहणं वारणीयम् । व्यक्तिपक्षे गुणाभेदकत्वप्राप्तञ्च वारणीयम्‌ । तेन घटवदित्यादौ नानुनासिको वकारः। एतेनाजुदिदित्येव सिद्धे∫ण्ग्रहणेन यण्सु गुणभेदकत्वं ज्ञाप्यत इति परास्तमित्याहुः । ननु चोरित्यादावनुवादे कथमुदित्वमिति चेन्न । व्याकरणान्तरे एषामुदित्संज्ञकत्वेनादोषात्‌। उपदेशशब्दस्य करणसाधनत्वेन शास्त्रपरत्वे∫स्यापि शास्त्रत्वेनेत्वप्रवृत्तेः सुलभत्त्वाच्च । चो भिन्नक्रम इत्याह ।
उदिच्चेति । यद्यपि समुदायसवर्णिनो∫प्रसिद्धास्तथापि तदवयवचादिसवर्णा एवात्र तत्वर्णा बोध्याः। ह्रस्वाकाराद्योरपि कालपुरुषाद्युपाधिभेदेन स्थानेषु भेदमारोप्य तुल्यस्थानत्वं सूपपादस्‌ ।
अत्रेति । ग्राहकसूत्र एवेत्यर्थः । व्याख्यानादिति भावः। उपसर्गादृतीत्यादि तपरकरणादिति तु न युक्तम्‌ । लृकारग्रहणेन चारितार्थ्यात्‌ । एवमिणपि परेणैव । अचि श्न्विति सूत्रे इण इत्येव सिद्धे य्वोरिति गुरुनिर्देशाद्व्याख्यानाच्चेति लण्सूत्रे भाष्ये स्पष्टम्‌ । नन्वेवं “ अस्य च्वौ” इत्यादौ सवर्णग्रहणं न प्राप्नोति । अण्ग्रहणेन वर्णसमाम्नायस्थानामेव ग्रहणेन णकारादिचिह्नेन प्रत्याहारे तत्प्रत्यभिज्ञानेन तत्रत्याद्यवणोपस्थितेषु उच्चारिताभेदेन गृहीतेषु सूत्रस्य चारितार्थ्येन व्यक्तिपक्षे तत्रत्यात्रत्यव्यक्त्योर्भेदेन प्रकृते प्रत्याहारघटकद्वितीयवर्णादौ चोच्चारितस्यैव ग्राहकत्वादप्रवृत्तेरिति चेन्न । जातिपक्षाश्रयणेनादोषात्‌ । अत एवानेकतकारादीनं झल्त्वादिसिद्धिः। सूत्रे∫ण्ग्रहणं च न कार्यम्‌ । ‘ऋलृवर्णयोः सावर्ण्यम्’ इत्यनेन समानजातित्वस्यैवातिदेशेनोपसर्गादृत्यादौ न दोषः । एतद्व्यतिरिक्तसवर्णे समानजातित्वसत्वात्‌ । पृथगनुबन्धकरणाच्च न ऋदिल्लृदित्प्रयुक्तकार्यसङ्करः। अत्र पक्षे अइउण् सूत्रशेषोक्तभाष्यरीस्या तपरसूत्रस्य जातिग्रहणप्राप्सवर्णग्रहणनियामकत्ववदप्रत्यय इत्यस्य योगविभागेन तत्प्राप्तसवर्णग्रहणनिषेधकत्वात्‌ “त्यदादीनामः" इत्यादौ विधेये न दोषः। एवं गुणाभेदकत्वप्राप्तसवर्णग्रहणनिषेधकत्वमप्यस्य बोद्ध्यम्‌ । अत एव घटवदित्यादौ मतोर्मस्य नानुनासिको वकारः।
सामर्थ्यादिति । “ एचो∫यवायावः" इत्यादौ स्थाने∫न्तरतम सूत्रेणैव निर्वाह्‌ इति वक्ष्यते । न य्वाभ्याम्‌” इत्यत्र ऐऔस्वरूपेण पाठ्यौ । “वृद्धिरादैच्‌ " इत्यत्राप्येङित्येव पाठ्यम्‌ | तत्र गुणसूत्रे च परस्परसवर्णसञ्ज्ञावादिमते चतुर्णा ग्रहणसत्वात्‌ । अत्रैतत्सूत्रवैयर्थ्योपन्यासेन तन्मूलकस्य गुणवृद्धिसञ्ज्ञाविधौ प्रत्याहारद्वयग्रहणवैयर्थ्यस्य प्लुचावैच एचो∫प्रगृस्येत्यत्र तद्ग्रणवैयर्थ्यस्य च सङ्गहो बोध्यः । प्रयत्नभेदेनाप्यसावर्ण्यमेतयोः प्रागुक्तं न विस्मर्तव्यम्‌ ॥
यद्यपीति । इदं व्यक्तिपक्षे । “वर्णानामुपदेशस्तावत्, उपदेशोत्तरकालेत्संज्ञा तदुत्तरकालमादिरन्त्येनेति प्रत्याहारः। तदुत्तरकाला सवर्णसंज्ञा तदुत्तरकालमणुदिदिति, एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानाङ्ग्रहणं भवति, न चात्रेकारः शकारं गृह्णाति” इति ना∫∫ज्झलौ इति सूत्रभाष्योक्तवाक्यापरिसमाप्तिन्यायादित्यर्थः । अयं भावः । आदिरन्त्येनेति प्रत्याहारसिद्धौ नाज्झलावित्येतद्वाक्यार्थबोधे सति निर्णीतैतद्विषयपरिहारेण सवर्णसंज्ञाबोध्यनिश्चये अणुदित्सूत्रेण तावतां ग्रहणं बोधनीयम् । अन्यथा बाधकसंभावनया तुल्यास्यसूत्रजशक्तिग्रहे∫प्रामाण्यसन्देहेनाणुदिच्छास्त्रजबोधानापत्तिः। न चैतद्वाक्यार्थबोधात्प्राक् तन्निश्चय इति ।
होढ इति । हकारेणा∫कारग्रहणे सति यद्यत्प्राप्नोति तस्य सर्वस्याप्युपलक्षणमिदम्‌ । ननु यण्सवर्णिनामप्रसिद्धेरज्ग्रहणेनैव सिद्धे∫ण्ग्रणं व्यर्थमत आह्‌ ।
यवला इति । “ अमो∫नुनासिका न ह्रौ" इति शिक्षोक्तेर्यण इति नोक्तम्‌ । तेन सँय्यन्तेत्दादौ परसवर्णनिष्पन्नानुनासिकयवलानाम् “ अनचि च" इति द्वित्वं सिद्ध्यति । हलो यमामिति लोपस्तु वैकल्पिकः । अत्रेदं बोद्ध्यम्‌ । व्यक्तिः पदार्थो युणा भेदका इत्यभिभानेनात्र सुत्रे∫ण्ग्रहणमिति ॥
“अतो भिस इत्यादौ” तपरकरणात्सहिवहोरितिसूत्रस्थवर्णग्रहणद्वयाख्यानाच्च तपरपदे बहुव्रीहीपञ्चमीतत्पुरुषावित्याह –
तः पर इत्यादिना । वर्णग्रहणे तु तत्सामार्थ्यादत्वावाच्छिन्नसर्ववर्णग्रणबोधनेन तपरसूत्रा प्रवृत्तिः। आद्योदादरणमतो भिस इति, अन्त्योदादरणं वृद्धिरादैजिति । यद्यप्यत्र सञ्ज्ञा तात्परा, न च तत्समकालस्तत्सवर्णो वा प्रसिद्धस्तथापि तपरकरणाद्‌ भाष्यप्रामाण्याच्च तात्परराब्दबोद्ध्यो वर्णः स्वसमकालग्राहक इत्यर्थेनादोषः । इदं च विद्ध्यर्थमेवाण्ग्रहणाननुवृतेः । गुणानां भेदकतया∫नणि विधित्वे∫पि वृद्धिरादैचित्यादावाकारांशे सावकाशेनानेनातो भिस इत्यादौ परत्वेनाणुदित्सूत्रबाधः । संख्याकृतव्यहारस्य परस्पर परिहारेणैव दृष्टतयेह विरोधस्य सत्त्वात्‌ । गुणानामभेदकत्वेत्वनवकाशत्वाद्बाध इति बोद्धयम्‌ । अत्रावध्यवधिमतोः साजात्येन वर्णस्यैव सज्ञात्वे∫पि विशिष्टाद्विभक्त्युत्पत्तिः सौत्रत्वाद्बोध्या । तत्कालस्येत्यस्य तदुच्चारणकालसमकालस्येत्यर्थस्तदाह ।
समकालस्यैवेति । एवकारो न्यायसिद्धबाध्यबाधकभावस्यानुवादक इति भावः । जातिपक्षे तु नियमार्थमेव, सवर्णग्रहणानुवृत्तेः । एवं गुणानामभेदकत्वत्वमिति “वृद्धिरादैच्‌ ” इति सूत्रभाष्यसम्मतसिद्धान्तपक्षे∫पि नियमार्थमेव । इदम्‌ " आद्गुणः” इत्यादौ विभक्तितकारे न प्रवर्तते । “ उपसर्गादृति” इति तपरकरणात्‌ । “ ऋदोरप्‌” इत्यादौ दकार एवेति न दोषः | स च पञ्चमीसमासाभावे तकार इवोच्चारणार्थो मुखसुखार्थो वा । तपरसूत्रे दकारप्रश्लेषपक्षे तु धकारादिस्थानिको दकारो बोध्यः॥
वृद्धिरा । वृद्धिः आत्‌ ऐजिति पदत्रयमिति न समासान्तादि प्रवृत्तिशङ्का। तपरकरणमसन्देहार्थतया पूर्वाथम्‌। प्रकृतसूत्रे भाष्ये∫त्र गुणानामभेदकत्वं ज्ञापकादाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात्‌। कृष्णौत्कण्ठ्यं गङ्गौघ इत्यादौ त्रिमात्रव्यावृत्तये परार्थ॑मपि । वृद्धिराब्दो∫त्र पदपरो∫र्थपरत्वासम्भवात्‌ । आदैचो वृद्धिपदाभिन्ना इति वाक्यार्थः, पदपदार्थयोस्तादात्म्यस्याङ्गीकारात्‌ । “ रामेति द्यक्षरं नाम मानभङ्गः पिनाकिनः" इत्यादौ तयोरभेदप्रतीतेरनुभवसिद्धत्वादित्यन्यत्र विस्तरः । वृद्धिशब्दस्य सज्ञात्वं तु व्याख्यानात्‌। विधेयत्वे∫पि तस्य पूर्वपाठो मङ्गलार्थः । “अपृक्त एकाल्‌,” इत्यादौ तथा करणं विधेयस्य प्रथमं प्रयोगे∫साधुत्वभ्रमवारणायेति भाष्ये स्पष्टम्‌ । सर्वशब्दानां सर्वार्थवाचकत्वे∫पि वाचकत्वस्य गृहीतस्यैव बोधजनकतया सज्ञासूत्राणामज्ञातशक्तिज्ञापकतया विधित्वम्‌। किञ्च सर्वे सर्वार्था इत्यभ्युपगमो योगिदृष्ट्या नास्मद्दृष्ट्या, सर्वशब्दानामर्थानाञ्च विशिष्यज्ञानाभावात्‌। सामान्यतस्तथा ज्ञानञ्च न बोधोपयोगि । शास्त्रं त्वस्मदाद्युद्देशेनैव प्रवृत्तमिति बोद्धयम्‌ ! तत्रैव सङ्केतशास्त्रकरणं स्वेच्छयैवेत्येषां यदृच्छा शब्दत्वेन व्यवहारः, स्वेच्छया सञ्ज्ञाः क्रियन्त इति च । एतदुपदेशरूपसङ्कतात्प्राक् तत्र सञ्ज्ञात्वाग्रहेण तासामनित्यत्वव्यवहारः । अत एव तत्तत्संज्ञाकरणज्ञानरूपप्रकरणादन्यार्थाग्रहणरूपनियमः कृत्रिमाकृत्रिमन्यायमूलतयोक्तः सं॑ख्यासञ्ज्ञासूत्रे भाष्ये । आर्थिकमेवामुं नियममादाय सञ्ज्ञासूत्रेषु नियमत्वव्यवहारो व्यवहाराय नियमः सञ्ज्ञायाः सज्ञिनि क्वचिदित्यादिना कृतः वाचकताबोधकत्वे∫पि तदनुत्पादकत्वान्न शब्दार्थसंबन्धनित्यता हानिः । आसाञ्च शिष्टप्रयुक्तत्वात्साधुत्वमित्यन्यत्र विस्तरः । कार्यकालपक्षे∫पि '“मृजेर्वृद्धिः" इत्यादौ वृद्धिपदार्थजिज्ञासायां वृद्धिरादैजित्युपस्थित्या तदर्थबोधरूपे शक्तिग्रहे वृत्ते विधिवाक्यार्थबोधः। अत एव “ष्यङः संप्रसारणम्‌" इति सूत्रेभाष्ये “कार्यकालं संज्ञापरिमाषं भस्येत्युपस्थितमिदं भवति यचि भमिति" इत्युक्तम्‌ । “ईदूदेत् " इति सूत्रे भाष्ये∫पि ““ कार्यकालं सञ्ज्ञापरिभाषं प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति ईदूदेद्‌ द्विवचनं प्रगृह्यमिति” । निष्ठेति सूत्रे कैयटो∫पि निष्ठेत्युक्ते संज्ञावाक्यं क्तवतु निष्ठेति स्मर्यते " इत्याह । अत्र पक्षे एकत्र राक्तिग्रहे वृत्ते∫पि तत्प्रदेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रदेशान्तरस्थे बोधो न स्यादिति सर्वप्रदेशेषु तत्तद्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थबोधः । यथोद्देशे तु एकदैव शक्तिग्रहात्सर्वत्र बोध इति विशेषः । एतेन “ कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव । आदैच्पदार्थस्य वृद्धिविषेशणतया विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठते इति क्रमेण सज्ञासूत्राणमर्थात्‌ “ इत्यपास्तमित्यन्यत्र विस्तरः । अत्रातद्भावितानामप्यादैचां ग्रहणं तेन शालीयादिसिद्धिः ॥
भूवादयो । क्रियावाचिनः किम् । - विकल्पार्थकवाशब्दस्य निपातस्य धातुत्वे∫प्रातिपदिकत्वात्सुबभावे पदत्वानापत्तेः। तदुक्तौ तु न दोषः | वार्थस्य विकल्पस्य भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावात्‌। अस्त्याद्यर्थस्यापि तत्वं भूतभविष्यत्कालसंबन्धात्‌। भ्वादयः किम्‌ । आणवयति वट्टयतीत्यादीनां धातुत्वे शास्त्रविषयतया साधुत्वापत्तेः। सूत्रशेषे भाष्ये स्फुटमेतत्‌। स्तम्भ्वादीनामुदित्त्वेन धात्वधिकारविहितकार्योद्दे्श्यत्वादिना स्थितपाठभ्रंशानुमानान्न तेषु दोषः॥
प्राग्रीश्व। “अधिरीश्वरे” इत्यभिव्याप्य प्राङ्निपाता इत्यधिकारः। प्राक् निपाताः सन्तो गत्यादिसज्ञका इत्यर्थः । तेन ताभिः समवेशः “अधिरीश्वरे” "विभाषा कृञि" इत्यत्र निपातपदसंबन्धश्च सिद्धः। एषां द्ततकत्वं वाचकत्वञ्च यथाकार्यं यथाप्रयोगं बोद्धयमित्यन्यत्र विस्तरः ॥
सुप्तिङ् (पा सू १-४-१४)। सुबिति सुपः पकारेण प्रत्याहारो व्याख्यानात् । यद्यपि “प्रत्ययग्रहणे तदन्तग्रहणम्" (प० २३) इत्युक्तेः शब्दरूपं विशेष्यमादाय तदन्तग्रहणं सिद्धम् । प्रत्ययेन स्वप्रकृत्यवयवकसमुदायस्याक्षेपातद्विशेषणत्वेन तदन्तविधि रिति न युक्तम् । 'इयान्' इत्यादौ तस्य तादृशसमुदायेन व्यभि. चारेणाक्षेपासम्भवात, आक्षिप्तस्य शाब्देऽनन्त्रयाच । तथाऽपि सज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावज्ञापनार्थमन्तग्रहणम् । तेन घसज्ञा तरसमपोरेव, न तदन्तस्य । तेन 'गौराबामणितरा' इत्यत्र न हस्तः। एतनिषेधसामचोदेव प्रदेशेष्वपिन तदन्त. विधिः । न च ज्ञापितेऽपि व्यर्थम्, पदप्रदेशे प्रत्ययग्रहणे तदन्तग्रहणेनैव सिद्धेरिति वाच्यम्। पदत्वस्य प्रकृति साधारणतया पदग्रहणे प्रत्ययग्रहणस्यैवाभावात् । यस्मात्प्रत्ययविधि इत्याधनुवृत्तेः पदसमुदायस्य न पदत्वम्। इयान् इत्यादौ यस्मात्मत्ययविधिस्तदादितद्धितान्तत्वं व्यपदेशिवद्भावेन बोध्यम् । तेनाशास्त्रीय स्याप्येकाच्वादेतिदे. शात् । विशिष्टनिष्टव्यवहारनिमित्त कार्याणि असहायेऽपि कर्तव्या. नीति तदर्थात् । अत एव 'इयामात्रम्' इत्यादौ 'वत्वन्तात्स्वार्थ' इति मात्रसिद्धिः । हरिषु' इत्यादौ सोस्तु नैवं पदलं, "हलि सर्वेषाम्" (पा०९०४-३-२२) इति निर्देशन ससहाये तदप्रवृत्तेः । “निजौ चत्वार एकाचः" इति भाष्यत्वभ्युपेत्यवादेन । ध्वनितञ्चेदम "आ. देच उपदेशे" (पा० सू०६-१-१५)"तास्यनुदात्तत" (पा० सू०६१-१८६) इत्यादौ भाष्ये । तत्र हि दौकते' इत्यौकारस्य हिता इत्यादाकारस्यजन्तोपदेशत्वमकारान्तोपदेशत्वं व्यपदेशिवद्भावेनाशझ्यार्थवत्ता व्यपदेशिवद्भाव इत्युक्तम् । यो वर्णोऽर्थवांस्तेन व्यपदेशिवद्भावः । वर्णस्यार्थवत्त्वच 'इयाय' इत्यादावसहाये एव, न तु प्रकृते इति तदर्थः । एवं वैकस्मिन्नित्यस्यार्थवतेत्यनेनोके इति दिक् ।
हलोऽनन्तरा (पा००१-१-७)। 'गर्गाः शतं दण्ड्यन्ताम्' इत्यत्र समुदाये शतदण्डनबदन समुदायस्यैव सज्ज्ञा, न प्रत्येकम्, अनन्तरा इत्युक्तेश्च तस्य विशेषणताया एवौचित्यात् । यत्तु "सं. युज्यन्ते वर्णा यत्रेत्यन्वर्थसज्ञाबलान प्रत्येक संज्ञा" इति, तन्न, घटपटौ संयुज्यते यत्रत्यादौ संयुज्यमानपदार्थातिरिक्तस्यैवान्यपदार्थतया प्रतीतव्युत्पन्नत्वेन तदतिरिक्ततद्घटितपदवा. क्यरूपसमुदायस्य सज्ञाऽऽपत्तावनिष्टापत्ते । महासज्ञा तु प्राचा. मनुरोधादेव । तेन 'सुहषद्धाति' इत्यत्र संयोगान्त लोपो नेत्यन्यत्र विस्तरः । 'हला' इति बहुवचनं सौत्रम् ।
यद्वा, हलौ च हलश्चेत्येकशेषः । "स्वरितात्संहितायाम्" (पा० सू०१-२-३९)इति सूत्रेऽनुदात्तानामिति पदे तथैकशेषस्य
(पा० ० ३-३-१०३) इति अप्रत्ययः सिद्ध्यति । यत्रापि बहवः श्लिष्टास्तत्रापि द्वयोदयोरेव न बहूनाम्, अलि परे संयोगादिलोपविधानात् । बहूनामपाति चिन्त्यमेव, फलाभावात् । तत्र तत्राङ्गपदधात्ववयव संयोगस्यैवाश्रयणेन ताशस्थ च त्रयाणां
आनन्तयं व्यवधानाभावः, व्यवधानञ्च विजातीयेनैवेत्याच. येनाह-अजिभरिति । अत्र कुत्वं न्याय्यम् । अत एव "इयनस्ट (मा०म० ५) भूत्र "अचोऽक्षु"इति माध्यप्रयोगे कुस्त्वं दृश्यते । खरैरव्यवहिता इति तुचिता वृत्तिः । हला किम् ? तितउ देव । अत्र "गुरोः" (पा० स०८-२-८६) इति प्लुनः स्यात् । अनन्तराः किम् ? सम् । अत्र सकारमकारयोः संयोगत्वे "क" इति लोप: स्यात् ।
संयोग गुरू (पा०स० १-४-१९) 'भेत्ता' इत्यादौ गुणस्तु क्नोः किश्वसामर्थन भूतपूर्वलघूपधग्रहणाद बोध्यः ।
। इति सनति । प्रथमाध्यायस्थानों सन्धिकार्योपयोगिनीनां सज्ञानां प्रकरणमिति समाप्तमित्यर्थः । तेनादंडितप्रगृह्य मस. ज्ज्ञालोपसज्ञायनुपन्यासेऽपि न क्षतिः । “अ अ" (पा० सू०८४-६८) इत्याधुपन्यासस्तु प्रासङ्गिकः।

इति संज्ञाप्रकरणम् ।

"https://sa.wikisource.org/w/index.php?title=लघुशब्देन्दुशेखरः&oldid=271556" इत्यस्माद् प्रतिप्राप्तम्