लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १८

विकिस्रोतः तः
← सर्गः १७ लघुयोगवासिष्ठः
सर्गः १८
[[लेखकः :|]]

वसिष्ठरामचन्द्रसंवादः
अष्टादशः सर्गः।।
भरद्वाज उवाच।।
ज्ञातं तव प्रसादेन सर्वमेतदशेषतः।
न वैराग्यात्परं भाग्यं न संसारात्परो रिपुः।।[6-18-1]
इदानीं श्रोतुमिच्छामि वसिष्ठेनोपपादितम्।
ज्ञानसारमशेषेण ग्रन्थेनोक्तं यदात्मना।।[6-18-2]
वाल्मीकीरुवाच।।
भरद्वाज शृणुष्वेदं महाज्ञानं विमुक्तिदम्।
यस्य श्रवणमात्रेण भवाब्धौ न निमज्जसि।।[6-18-3]
संहृतिस्थितिसंभूतभेदैर्योऽनेकधा स्थितः।
एकोऽपि सन्नमस्तस्मै सच्चिदानन्दमूर्तये।।[6-18-4]
कृते प्रपञ्चविलये यथा तत्त्वं प्रकाशते।
तदोपायं प्रवक्ष्यामि संक्षेपाच्छ्रुतिशासनात्।।[6-18-5]
शान्तो दान्तश्चोपरतो निषिद्धात्पापकर्मणः।
विषयेन्द्रियसंश्लोषसुखाच्च श्रद्धयान्वितः।।[6-18-6]
मृद्वासने समासीनो जितचित्तेन्द्रियक्रियः।
ओमित्युच्चारयेत्तावन्मनो यावत्प्रसीदति।।[6-18-7]
प्राणायामं ततः कुर्यादन्तःकरणशुद्धये।
इन्द्रियाण्याहरेत्पश्चाद्विषयेभ्यः शनैःशनैः।।[6-18-8]
देहेन्द्रियमनोबुद्धिक्षेत्रज्ञानां च संभवः।
पश्चाद्भवति तद्भावात्तेषु पश्चाद्विलापयेत्।।[6-18-9]
विराजि प्रथमं स्थित्वा तत्रात्मनि ततः परम्।
अव्याकृते स्थितः पश्चात्स्थिते परमकारणे।।[6-18-10]
मांसादिपार्थिवं भागं पृथिव्यां प्रविलापयेत्।
आप्यं रक्तादिकं चाप्सु तैजसं तेजसि क्षिपेत्।।[6-18-11]
वायव्यं च महावायौ नभस्यं नभसि क्षिपेत्।
पृथिव्यादिषु विन्यस्य चेन्द्रियाण्यात्मयोनिषु।।[6-18-12]
श्रोत्रादिलक्षणोपेताः कर्तुर्भोक्तुः प्रसिद्धये।
दिक्षु न्यस्यात्मनः श्रोत्रं त्वचं विद्युति निक्षिपेत्।।[6-18-13]
चक्षुरादित्यबिम्बे च जिह्वामप्सु विनिक्षिपेत्।
प्राणं वायौ वाचमग्नौ पाणिमन्द्रे विनिक्षिपेत्।।(6-18-14]
विष्णौ तथात्मनः पादौ पायुं मित्रे तथैव च।
उपस्थं कश्यपे न्यस्य मनश्चन्द्रे निवेशयेत्।।[6-18-15]
बुद्धिं ब्रह्मणि संयच्छेदेताः करणदेवताः।
इन्द्रियव्यपदेशेन व्यादिश्यन्त्येव देवताः।।[6-18-16]
श्रुतिवाक्यमनुस्मृत्य न स्वतः प्रकटीकृताः।
एवं न्यस्यात्मनो देहं विराडस्मीति चिन्तयेत्।।[6-18-17]
ब्रह्माण्डान्तः स्थितो योऽसावर्धनारीश्वरः प्रभुः।
आधारः सर्वभूतानां कारणं तदुदाहृतम्।।[6-18-18]
स यज्ञसृष्टिरूपोऽसौ जाग्रद्वृत्तौ व्यवस्थितः।
द्विगुणाण्डाद्बहिः पृथ्वी पृथिव्या द्विगुणं जलम्।।[6-18-19]
सलिलाद्द्विगुणं तेजस्तेजसो द्विगुणोऽनिलः।
वायर्द्विगुणमाकाशमूर्ध्वमेकैकशः क्रमात्।।[6-18-20]
व्यस्तेन च समस्तेन महता ग्रथितं जगत्।
क्षितिं चाप्सु समावेश्य सलिलं चानले क्षिपेत्।।[6-18-21]
अग्निं वायौ समावेश्य वायुं च नभसि क्षिपेत्।
नभश्च महदाकाशे समस्तोत्पत्तिकारणे।।[6-18-22]
स्थित्वा तस्मिन्महायोगी लिङ्गमात्रशरीरधृक्।
वासनाभूतसूक्ष्माश्च कर्माविद्ये तथैव च।।[6-18-23]
दशेन्द्रियमनोबुद्धिरेतल्लिङ्गं विदुर्बुधाः।
ततश्चाण्डाद्बहिर्वायौ सूत्रात्मास्मीति चिन्तयेत्।।[6-18-24]
चतुर्मुखोग्रके वायौ भूतसूक्ष्मव्यवस्थितः।
लिङ्गमव्याकृते सूक्ष्मे न्यस्याव्यक्ते च बुद्धिमान्।।[6-18-25]
नामरूपविनिर्मुक्तं यस्मिन्संतिष्ठते जगत्।
तामाहुः प्रकृतिं केचिन्मायामेके परे त्वणून्।।[6-18-26]
अविद्यामपरे प्राहुस्तर्कविभ्रान्तचेतसः।
तत्र सर्वे लयं गत्वा तिष्ठन्त्यव्यक्तरूपिणः।।[6-18-27]
निःसंबोधा निरास्वादाः संभवन्ति ततः पुनः।
तत्स्वरूपेण तिष्ठन्ति यावत्सृष्टिः प्रवर्तते।।[6-18-28]
आनुलोम्यात्स्मृता सृष्टिः प्रातिलोम्येन संहृतिः।
अतः स्थानत्रयं त्यक्त्वा तुरीयं पदमव्ययम्।।[6-18-29]
ध्यायेत्तत्प्राप्तये लिङ्गं प्रविलाप्य परं विशेत्।
भूतेन्द्रियमनोबुद्धिवासनाकर्मवायवः।।[6-18-30]
अज्ञानं च प्रविष्टाः स्युर्लिङ्गमव्याकृते सति।
इदानीं लिङ्गनिगडान्मुक्तोऽहं सर्वथा यतः।।[6-18-31]
चिदंशत्वात्प्रविष्टोऽहं चैतन्यानन्दसागरे।
अभेदात्परमात्मास्मि सर्वोपाधिविवर्जितः।।[6-18-32]
कूटस्थः केवलो व्यापी चिदचिच्छक्तिमानहम्।
घटाभावे घटाकाशकलशाकाशयोर्यथा।।[6-18-33]
तमाहुः श्रुतयो ब्रह्म एवमेवैक्यमादरात्।
यथाग्निरग्नौ संक्षिप्तः समानन्तवमनुव्रजेत्।।[6-18-34]
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः।
यथा तृणादिकं क्षिप्तं रुमायां लवणं भवेत्।।[6-18-35]
अचेतनं जगन्न्यस्तं चैतन्ये चेतनीभवेत्।
यथा वै लवणग्रन्थिः समुद्रे सैन्धवो यथा।।[6-18-36]
नामरूपाद्विनिर्मुक्ताः प्रविश्यापः समुद्रताम्।
यथा जले जलं न्यस्तं क्षीरे क्षीरं घृते घृतम्।।[6-18-37]
अविनष्टा भवन्त्येते गृह्यन्ते न विशेषतः।
तथाहं सर्वभावेन प्रविष्टश्चेतने सति।।[6-18-38]
नित्यानन्दे समस्तज्ञे परे परमकारणे।
नित्यं सर्वगतं शान्तं निरवद्यं निरञ्जनम्।।[6-18-39]
निष्कलं निष्क्रियं शुद्धं तद्ब्रह्मास्मि परं पदम्।
केवलं सत्यसंकल्पं शुद्धं ब्रह्मास्म्यहं परम्।।[6-18-40]
पुण्यपापविनिर्मुक्तं कारणं जगतः परम्।
अद्वितीयं परं ज्योतिर्ब्रह्मास्म्यानन्दमद्वयम्।।[6-18-41]
एवमादिगुणैर्युक्तं सत्त्वादिगुणवर्जितम्।
आविष्टं सकलं ब्रह्म सदा ध्यायेत्सुकर्मकृत।।[6-18-42]
एवमभ्यसतः पुंसो मनोऽस्तं याति तत्र वै।
मनस्यस्तं गते तस्य स्वयमात्मा प्रकाशते।।[6-18-43]
प्रसादे सर्वदुःखानां हानिः स्यात्सुखमात्मनि।
स्वयमात्मात्मनात्मानमानन्दं प्रतिपद्यते।।[6-18-44]
इति ते वर्णितं सर्वं वसिष्ठस्योपदेशितम्।
अनेन ज्ञानमार्गेण योगमार्गेण पुत्रक।।[6-18-45]
भरद्वाज महाप्राज्ञ सर्वं ज्ञास्यसि निश्चितम्।
परामर्शेन शास्त्रस्य गुरुवाक्यार्थबोधनात्।।[6-18-46]
अभ्यासात्सर्वसिद्धिः स्यादिति वेदानुशासनम्।
तस्मात्त्वं सर्वमुत्सृज्य कुर्वभ्यासे स्थिरं मनः।।[6-18-47]
भरद्वाज उवाच।।
रामः प्राप्तः परं योगं स्वात्मनात्मनि हे मुने।
कथं वसिष्ठदेवेन व्यवहारः परः कृतः।।[6-18-48]
इति ज्ञात्वाहमप्येवमभ्यासार्थं यते यथा।
तथैव व्यवहारोऽपि व्युत्थाने मे भविष्यति।।[6-18-49]
वाल्मीकिरुवाच।।
यदा परिणतः साधुः स्वस्वरूपे महामनाः।
विश्वामित्रस्तदोवाच वसिष्ठमृषिसत्तमम्।।[6-18-50]
विश्वामित्र उवाच।।
हे वसिष्ठ महाभाग ब्रह्मपुत्र महानसि।
गुरुत्वं शक्तिपातेन तत्क्षणादेव दर्शितम्।।[6-18-51]
दर्शनात्स्पर्शनाच्छब्दात्कृपया शिष्यदेहके।
जनयेद्यः समादेशं शांभवं स हि देशिकः।।[6-18-52]
रामोऽप्ययं विशुद्धात्मा विरक्तः स्वात्मनैव हि।
विश्रान्तिमात्राकाङ्क्षी च संवादात्प्राप्तवान्पदम्।।[6-18-53]
शिष्यप्रज्ञैव बोधस्य कारणं गुरुवाक्यतः।
मलत्रयमपक्वं चेत्कथं बुद्ध्यति पक्ववत्।।[6-18-54]
ज्ञानं प्रत्यक्षमेवेदं गुरुशिष्यप्रयोजनम्।
उभावपि ततस्तज्ज्ञौ सर्वेषां मादृशामपि।।[6-18-55]
इदानीं कृपया राम व्युत्थानं कर्तुमर्हसि।
परेण परतस्त्वं हि कार्याविष्टोऽर्चयं यतः।।[6-18-56]
स्मर कार्यं मम विभो यदुद्दिश्याहमागतः।
प्रार्थितश्चातिकष्टेन राजा दशरथः स्वयम्।।[6-18-57]
तद्वृथा मा कृथाः सर्वं शुद्धेन मनसा मुने।
देवकार्यं च रामान्यदवतारप्रयोजनम्।।[6-18-58]
सिद्धाश्रमं मयानीतो रमो राक्षसमर्दनः।
करिष्यति ततोऽहल्यामुक्तिं च जनकात्मजाम्।।[6-18-59]
परिणेष्यति कोदण्डभङ्गेन कृतनिश्चयः।
रामस्य जामदग्न्यस्य कर्ता नैश्चित्यमात्मनः।।[6-18-60]
पितृपैतामहं राज्यं त्यक्ष्यतेऽत्रैव निःस्पृहः।
वनवासच्छलेनेव दण्कारण्यवासिनः।।[6-18-61]
उद्धिरिष्यति तीर्थानि प्राणिनो दुःखिनो हि ये।
सीताहरणदौर्गत्यच्छलेन भुवि शोच्यताम्।।[6-18-62]
दर्शयिष्यति सर्वेषां रावणादिवधादपि।
स्त्रीसङ्गिनां समासङ्ग वानरादिपरार्थताम्।।[6-18-63]
सीताविशुद्धिमन्विच्छंल्लोकानुगतमात्मनः।
जीवन्मुक्तो निःस्पृहोऽपि क्रियाकाण्डपरायणः।।[6-18-64]
भविष्यति परिप्रष्टुं ज्ञानकर्मसमुच्चयम्।
यैर्दृष्टो यैः स्मृतो वापि यैः श्रुतो बोधितस्तु यैः।
सर्वावस्थागतानां तु जीवन्मुक्तिं प्रदास्यति।।[6-18-65]
इति कार्यमशेषेण त्रैलोक्यस्य समापि हि।
अनेन रामचन्द्रेण पुरुषेण महात्मना।।[6-18-66]
नमोऽस्मै जितमेवैते कोऽप्येवं चिरमेधताम्।
वसिष्ठ कृपया त्वं हि व्यवहारं परं कुरु।।[6-18-67]
वाल्मीकिरुवाच।।
इत्युक्वावस्थितस्तूष्णीं विश्वामित्रो महामुनिः।
वसिष्ठस्तु महातेजा रामचन्द्रमभाषत।।[6-18-68]
वसिष्ठ उवाच।।
राम राम महाबाहो महापुरुष चिन्मय।
नायं विश्रान्तिकालो हि लोकानन्दमयो भव।।[6-18-69]
यावल्लोकपरामर्शो निरूढो नास्ति योगिनः।
तावद्रूढसमाधित्वं न भवत्येव निर्मलम्।।[6-18-70]
तस्माद्राज्यादिविषयान्पर्यालोच्य विनश्वरान्।
देवकार्यादिभारांश्च त्यज पुत्र सुखी भव।।[6-18-71]
वाल्मीकीरुवाच।।
इत्युक्तोऽपि यदा रामः किंचिन्नोचे लयं गतः।
तथा सुषुम्नया सोऽपि प्रविष्टो हृदयं शनैः।।[6-18-72]
शक्तिप्राणमनःप्रशान्तकरणो जीवप्रकाशात्मको नाडीरन्ध्रसुषुप्तसर्वकरणः प्रोन्मील्य नेत्रे शनैः।
हृष्टोत्कृष्टवसिष्ठमुख्यविदुषो निर्मुक्तसर्वैषणः कृत्याकृत्यविचारणाद्विरहितः सर्वान्प्रतीक्ष्य स्थितः।।[6-18-73]
राम उवाच।।
न विधिर्न निषेधश्च त्वत्प्रसादादहं पुनः।
तथापि तव वाक्यं तत्करणीयं च सर्वदा।।[6-18-74]
वेदागमपुराणेषु स्मृतिष्वपि महामुने।
गुरुवाक्यं विधिः प्रोक्तो निषेधस्तद्विपर्ययः।।[6-18-75]
वाल्मीकिरुवाच।।
इत्युक्त्वा चरणौ तस्य वसिष्ठस्य महात्मनः।
शिरस्याधाय सर्वात्मा सर्वान्प्राह घृणानिधिः।।[6-18-76]
सर्वे शृणुत भद्रं वो निश्चयेन सुनिश्चितम्।
आत्मज्ञानात्परं नास्ति गुरोरपि च तद्विदः।।[6-18-77]
सिद्धा ऊचुः।।
रामैवमेव सर्वेषां मनसि स्थितिमागतम्।
त्वत्प्रसादाच्च सकलं संवादेन दृढीकृतम्।।[6-18-78]
सुखी भव महाराज रामचन्द्र नमोऽस्तु ते।
वसिष्ठेनाप्यनुज्ञाता गच्छामोऽद्य यथागतम्।।[6-18-79]
एवमुक्त्वा गताः सर्वे रामसंस्तवने रताः।
रामचन्द्रस्य शिरसि पौष्पी वृष्टिः पपात ह।।[6-18-80]
वाल्मीकिरुवाच।।
एतत्ते सर्वमाख्यातं रामचन्द्रकथानकम्।
अनेन क्रमयोगेण भरद्वाज सुखी भव।।[6-18-81]
इति रघुपतिसिद्धिः प्रोदिता या मया ते वरमुनिवचनालीरत्नमाला विचित्रा।
निखिलकविकुलानां योगिनां सेव्यरूपा परमगुरुकटाक्षान्मुक्तिमार्गं ददाति।।[6-18-82]
य इदं शृणुयान्नित्यं विधिं रामवसिष्ठयोः।
सर्वावस्थोऽपि श्रवणान्मुक्तिमार्गं निगच्छति।।[6-18-83]
इह वैराग्यमुमुक्षुव्यवहारोत्पत्तिकस्थितयः।
उपशमनिर्वाणाख्ये वासिष्ठे षट् प्रकरणानि।।[6-18-84]
इति श्रीतर्कवागीश्वरसाहित्याचार्यगौडमण्डलालांकारश्रीमदभिनन्दपण्डितसमुद्धृते वासिष्ठरामायणे मोक्षोपाये सारोद्धारे भरद्वाजोपाख्याने निर्वाणप्रकरणे श्रीवसिष्ठरामचन्द्रसंवादो नाम अष्टादशः सर्गः।। 18 ।।
समाप्तोऽयं ग्रन्थः।।