लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १०

विकिस्रोतः तः
← सर्गः ९ लघुयोगवासिष्ठः
सर्गः १०
[[लेखकः :|]]
सर्गः ११ →

कचोपाख्यानम्।।
दशमः सर्गः।।
वसिष्ठ उवाच।।
एतत्ते सर्वमाख्यातं शिखिध्वजकथानकम्।
अनेन गच्छ मार्गेण न कदाचन खिद्यसे।।[6-10-1]
शिखिध्वजः क्रमेणैव यथा बोधमवाप्तवान्।
कचो बृहस्पतेः पुत्रस्तथा बुध्यस्व राघव।।[6-10-2]
राम उवाच।।
बृहस्पतेर्भगवतः पुत्रोऽसौ भगवान्कचः।
यथा प्रबुद्धो भगवन्समासेन तथा वद।।[6-10-3]
पूर्वं प्रतिबन्धकपापसंक्षयाभावे दुर्लभमपि स्वात्मज्ञानमाचार्यस्य प्रयत्नातिशयाल्लभ्यत इति दर्शयितुं अनेकोपाख्यानगर्भं शिखिध्वजोपाख्यानमाख्यातम्। इदानीं चित्तत्याग एव सर्वत्यागो नाम इति कचोपाख्यानेनाभिधीयते।।[6-10-1,2,3]
वसिष्ठ उवाच।।
बालभावात्समुत्तीर्मः संसारोत्तरणोन्मुखः।
कचः पदपदार्थज्ञो बृहस्पतिमभाषत।।[6-10-4]
बालेति।। बालभावान्मौर्ख्यात् पदपदार्थज्ञः पदपदे तत्त्वंपदे तयोरर्थः पदपदार्थस्तं जानातीति।।
कच उवाच।।
भगवन्सर्वधर्मज्ञ कथं संसृतिपञ्जरात्।
अस्मान्निर्गम्यते ब्रूहि जन्तुना जीवतन्तुना।।[6-10-5]
बृहस्पतिरुवाच।।
अनर्थमकरागारादस्मात्संसारसागरात्।
उत्तीर्यते निरुद्धेगं सर्वत्यागेन पुत्रक।।[6-10-6]
वसिष्ठ उवाच।।
इत्याकर्ण्य कचो वाक्यं पितुः परमपावनम्।
सर्वमेव परित्यज्य जगामैकान्तकाननम्।।[6-10-7]
बृहस्पतेस्तद्गमनं नोद्वेगाय बभूव ह।
संयोगे च वियोगे च न क्षुभ्यन्ति महाशयाः।।[6-10-8]
अथ वर्षेषु यातेषु त्रिषु पञ्चसु चानघ।
पुनः प्राप महारण्ये कस्मिंश्चित्पितरं कचः।।[6-10-9]
परिपूज्याभिवाद्यैनं समालिङ्गितपुत्रकम्।
अपृच्छद्वक्पतिं भूयः स कचः कान्तया गिरा।।[6-10-10]
अद्येदमष्टमं वर्षं सर्वत्यागः कृतो मया।
तथापि तात विश्रान्तिं नाधिगच्छाम्यनिन्दिताम्।।[6-10-11]
वसिष्ठ उवाच।।
एवमार्तं वचस्तस्मिन्कचे वदति कानने।
सर्वमेव त्यजेत्युक्त्वा वाक्पतिर्दिवमाययौ।।[6-10-12]
गते तस्मिन्कचो देहाद्वल्कलाद्यप्यथात्यजत्।
ततो व्यभ्रार्कतारेण शरद्व्योम्ना समोऽभवत्।।[6-10-13]
पुनर्वर्षत्रयेणाथ कस्मिंश्चित्काननान्तरे।
दूयमानमनाः प्राप तमेव पितरं गुरुम्।।[6-10-14]
कृतपूजानमस्कारं तमालिङ्गितपुत्रकम्।
अपृच्छत्तमसौ भूयः खेदगद्गदया गिरा।।[6-10-15]
कच उवाच।।
तात सर्वं परित्यक्तं कन्थां चैव लताद्यपि।
तथापि नास्ति विश्रान्तिः स्वपदे किं करोम्यहम्।।[6-10-16]
बृहस्पतिरुवाच।।
चित्तं सर्वमिति प्राहुस्तत्त्यक्त्वा पुत्र राजसे।
चित्तत्यागं विदुः सर्वत्यागं सर्वविदो जनाः।।[6-10-17]
वसिष्ठ उवाच।।
इत्युक्त्वा वाक्पतिः पुत्रं पुप्लुवे तरसा नभः।
अन्वियेष कचश्चित्तं परित्यक्तुमखिन्नधीः।।[6-10-18]
चिन्तयन्नप्यसौ चित्तं न यदा वेद कानने।
तदा संचिन्तयामास धियैवमविखिन्नया।।[6-10-19]
कच उवाच।।
पदार्थवृन्दं देहादि न चित्तमिति कथ्यते।
तदेतत्किं क्व वा व्यर्थं निरागस्कं त्यजाम्यहम्।।[6-10-20]
पितुः सकाशं गच्छमि ज्ञातुं चित्तं महारिपुम्।
ज्ञात्वा तावत्त्यजाम्याशु ततस्तिष्ठामि विज्वरः।।[6-10-21]
वसिष्ठ उवाच।।
चिन्तयित्वा जगामेति कचः स्वं पितरं गुरुम्।
पप्रच्छ प्रयतो भूत्वा चित्तं तात किमुच्यते।।[6-10-22]
बृहस्पतिरुवाच।।
चित्तं निजमहंकारं विदुश्चित्तविदो जनाः।
अन्तर्योऽयमहंभावो जन्तोस्तच्चित्तमुच्यते।।[6-10-23]
कच उवाच।।
मन्येऽस्य दुष्करस्त्यागो न सिद्धिमुपगच्छति।
कथमेष किल त्यक्तुं शक्यते योगिनां वर।।[6-10-24]
बृहस्पतिरुवाच।।
अपि पुष्पादलनादपि लोचनमीलनात्।
सुकोरोऽहंकृतेस्त्यागो न क्लेशोऽत्र मनागपि।।[6-10-25]
भगवन्निति।। जीवतन्तुना जीवः प्राणधारणं एव तन्तुः चेष्टानिमित्तं सूत्रं यस्य तेन।।[6-10-5 TO 6-10-25]
एकमाद्यन्तरहितं चिन्मात्रममलं ततम्।
खादप्यतितरामच्छं विद्यते सर्ववेदनम्।।[6-10-26]
एतमिति।। सर्ववेदनं सर्वसाक्षिचिन्मात्रमेव वस्तु विद्यत इत्यन्वयः।।
तदेव भावयन्साधुः शान्तस्तिष्ठ गतव्यथः।
मिथ्यारूपो ह्यहंभावो लीयते तत्त्वभावनात्।।[6-10-27]
तदिति।। तत्त्वभावनाच्चित्स्वरूपभावनात्।।
चिति कोऽयमहंभावः कोवा नु कथमुत्थितः।
अन्तः कोऽयमहंभावः कुतो नु कथमुत्थितः।।[6-10-28]
चिदिति।।
क्वाप्सु जातो रजोराशिः क्वानलादुत्थितं जलम्।
अयं सोऽहमिति व्यर्थं प्रत्ययं त्यज पुत्रक।।[6-10-29]
अप्सु जातो रजोराशिरिव अनले जलमिव चित्स्वरूपेऽप्यहंभावो न युज्यत इत्यर्थः। अयं अहं सोऽहमिति।।
तुच्छं परिमिताकारं दिक्कालविवशीकृतम्।।[6-10-30]
दिक्कालविवशीकृतं परिमिताकारं तुच्छं प्रत्ययं त्यज।।
दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम्।
सर्वार्थमयमेकार्थं चिन्मात्रममलं भवान्।।[6-10-31]
वसिष्ठ उवाच।।
इति प्राप्य परं योगमुपदेशमनुत्तमम्।
जीवन्मुक्तो बभूवासौ ततो देवगुरोः सुतः।।[6-10-32]
निर्ममो निरहंकारश्छिन्नग्रन्थिः प्रशान्तधीः।
कचो यथा स्थितो राम तथा तिष्ठाविकारवान्।।[6-10-33]
दिगिति।। सर्वार्थमयमपि यदेकार्थमेकरूपं तदमलं चिन्मात्रं भवानित्यन्वयः।।[6-10-31,32,33]
अहं कारमसद्विद्धि मैनमाश्रय मा त्यज।
असतः शशशृङ्गस्य किल त्यागग्रहो कुतः।।[6-10-34]
इति श्रियोगवासिष्ठसारे निर्वाणप्रकरणे कचोपाख्यानं नाम दशमः सर्गः।। 10 ।।
अहमिति।। शशशृङ्गवदसन्तमहंकारं माश्रय मा त्यजेत्यर्थः।।
इति श्रीयोगवासिष्ठविवरणे निर्वाणप्रकरणे कचोपाख्यानं नाम दशमः सर्गः।। 10 ।।