सामग्री पर जाएँ

लघुभूषणकान्तिः

विकिस्रोतः तः
लघुभूषणकान्तिः
[[लेखकः :|]]

-0मनुदेवापराभिधगोपालदेवकृतलघुभूषणकान्तिः
(भू.सा. मङ्गलम्)
।।श्री गणेशाय नमः।।
नमस्कृत्य गणाध्यक्षं नृसिंहं कमलायुतम्।
बुद्धिप्रभावर्धयित्रीं संहर्त्रीं दुरितस्य च।।
संपादयित्रीं कामानां प्रपय्त्रीं श्रियः श्रियम्।
तातं शम्भुं सतीं दुर्गां पाणिनिप्रभृतीन् मुनीन्।।
बालम्भटाटभिधं -01-0पायगुण्‍डाख्यं परमं गुरुम्। (1. पायगुण्डोपाख्यं परं)
गोपालदेवनामासौ पण्डितो बालबुद्धये।।
कृष्णदेवानुजो लोके मनुद्वपराभिधः।
अनुसृत्य नयं प्राचां नव्यानां लेशतस्तथा।
लघुनो भूषणस्येमां कान्तिम वितनुते सुधीः।।
प्रारिप्सितप्रतिबन्धकदुरितोपशमनाय शिष्यशिक्षायै व्याख्यातृश्रोतॄणामनुषङ्गतो मङ्गलाय च समुचितदेवतानत्यात्मकं मङ्गलमुपनिबध्नाति - " श्री लक्ष्मीति" - "रूपमिति"।। ताच्छील्यणिनिः; नत्विनिर्मत्वर्थीयः। "तदस्यास्तीति" (सू. 5-2-94) सिद्धे मतुपि "रसादिभ्यश्च" (सू. 5-2-95) ति पिनः मतुब्विधानात् ज्ञापकात् रसादिभ्य -01-0अन्यतमत्वर्थीयनिवृत्तेः। (1L. अन्य नास्ति।) -02-0अत एव बहुव्रीहिणैवसिद्धे वृत्तिद्वयकल्पनवैयथ्र्यशङ्का। (2L. 'अत एव' इत्यारभ्य .......... 'इति भाव' इत्यन्तं नावलोक्यते। तन्मते लौकिके प्रयोगे क्वच्चिल्लाघवानादरेण "असुब्वत" इति भाष्यप्रयोगेण च वृत्तिद्वय कल्पनेपि क्षत्यभाव इति भावः। वस्तुत "एभ्य इनिठनावपिष्येते" इति "रसादिभ्यश्चे" (सू. 5-2-95) ति सूत्रे भाष्ये स्पष्ठम्। अनेन च विष्णुशिवयोः अभेदः सूचितः।। -2स्फोटरूपमिति-2।। तत्वञ्च अन्य6 स्पष्टम्। विवेचयिष्यते चाग्रे स्फोटवादे। -2विवर्तत इति-2।। एतेन जगतो ब्रह्मविवर्ताकारतोक्ता। विवर्त शब्दार्थे हि अतार्थिकोऽन्यथाभावः। वस्तुतः सोप्यन्य एवेति स्फोटे निरूपयिष्यामः। -2शेषेति-2।। शेषस्य -03-0येऽशेषार्थस्तल्लाभार्थस्तमित्यर्थः। -2द्वैतेति-2।। (Vi 'तम्' - न दृश्यते।) द्वैतं द्वैतवादस्तदेव घ्वान्ततमस्तन्निवारणादि फलमस्या इत्यर्थः आदि शब्देन मोक्ष सुखम्। द्वैतस्य घ्वान्तत्वं चाविदयकत्वात्।। -2पुम्भावेति-2।। पुमसो भावो यस्यास्तादृशीं वाग्देवतामित्यर्थः। एतेन -04-0पुरुषरूपत्वमपि (4L. रूपमपि क. 'दृश्यन्ते हयन्ये रसादिभ्यो मत्वर्थीयाः' म।भा. पृ. 590 द्वि.ख.।) सरस्वत्या उक्तं भवति।। -2उपपत्तिभिः-2।। युक्तिभिः।।
-0(भू.सा.धा.नि. 1)-0
-0 -0फणीति।। तत्स्फुरणन्तु प्रकृतशास्त्रनिर्मातृत्वेन सर्वोत्तर मुनित्वेन च अभ्यर्हितत्वात् ।। -2अस्माभिरिति-2।। भट्टोजिदीक्षितैरित्यर्थः। एतेन भट्टोजिदी7ितकर्तृत्वं मूलस्य दर्शितम्। अत एवाह - -2शब्दकौस्तुभ उद्धृत इति-2।। -2फलमिति-2।। -01-0फलत्वञ्च (1. V1 फलञ्च) कर्तृप्रत्ययसमभिव्याहृतधात्वर्थनिष्टविशेष्यतानिरूपितप्रकारतावत्वे सति तद्धात्वर्थजन्यत्वं बोध्यम्। जन्यता च आरोपितानारोपिता विषयत्वादि साधारणानि -02-0बोध्या। (2. l. बोध्या ......... वारणा - नावलोक्यते।) विभागजन्यसंयोगादिरूपे पतत्याद्यर्थे विभागसंयोगयोः फलत्ववारणाय विशेषणविशेष्ययोरुपादानम्। कर्मप्रत्ययसमभिव्याहारेऽपि सत्वात् धातोश्च तदवच्छिन्नावाचकत्वादाह - -2व्यापारस्त्वीति-2।। अत्र फले व्यापारे च धातोः प-थक् शक्तिः। न च एकपदोपस्थाप्यत्वात्परस्परमन्वयो न स्यादिति वाच्यम्। व्युत्पत्तिवैचित्र्यात्तिङुपस्थाप्ययोः कर्त्रैकत्वयोरिवान्वयाभ्युपगमात्। अन्यथा कर्तृप्रत्ययसमभिव्याहारे फलावच्छिन्नव्यापारे धातुशक्तेरिव -01-0कर्मप्रत्ययसमभिव्याहारे व्यापारावच्छिन्नफले तच्छक्तेरावश्यकत्वेन गुरुशक्यतावच्छेदकशक्तिद्वयकल्पनापत्तिः। (1L. व्याहारे - नास्ति) वस्तुतः प्रामाणिकगौरवस्यादोषत्वाच्छक्तिद्वयकल्पनैव ज्यायसी, अन्यथा पृथगुपस्थितयोरुद्देश्यविधेयभावेनान्वयस्यौत्सर्गिकत्वात्फलव्यापारयोरपि तिङर्थकर्त्रैकत्वयोरिव तथान्वयापत्तेः। तत्तद्विशेषणकबोधे कर्तृप्रत्ययादिसमभिव्यादृतधातुजन्योपस्थितेश्च कारणताद्वयकल्पनापत्तिश्चेति।।
-0क -0"यावत्सिद्धमिति"।। (क. वा.प. III. क्रिया. सं. का. 1) यावत् = सर्वम्। सिद्धम् = अपाक्षीदित्यादौ। असिद्धम् पचति, पक्ष्यतीत्यादौ। साध्यत्वेनाभिधीयमानं क्रिया। 'घटः क्रियते' इत्यादौ क्रियाद्वारैव घटस्यसाध्यत्वप्रतीतिः। घट
इत्येतावन्मात्रत्साध्यत्वाप्रतीतेः।। "-2आश्रितेति-2"।। क्रियते अवयवानां क्रमेणोत्पद्यते या सेति योगप्रदर्शनपरम्। समुदायस्य च साक्षात् क्रियाविषयत्वाभावेप्यवयवद्वारकं क्रियाविषयत्वं, क्रियाशब्दस्य "कृञः श च" (सू. 3-3-100) कर्मणिशप्रत्ययान्तत्वात्।
तथा च क्रमिकावयवोत्पत्तिद्वारोत्पाद्यत्वेन विवक्षितत्वं -01-0क्रियात्वं (1L. 'क्रियात्वं' इत्यादितः 'पाक इत्यादौ' इत्यन्तं न दृश्यते।) पर्यवसन्नमिति भावः।। -2पचति-2 -2पाक-2 -2इति-2 ।। 'पचती'त्यादौ क्रियान्तराकाङ्क्षाया अदर्शनमिति 'पाक इत्यादौ' क्रियान्तराकाङा7यादर्शनमिति व्युत्करमेणान्वयः।। -02-0-2तथा-2 -2चेति-2 ।। ( 2V1. तथा च। ) -03-0क्रियान्तराकाङ्क्षया ( 3. Vi. क्रियान्तराकाङ्क्षया) अनुत्थापिका पचतीशब्दोपात्ता क्रिया तदवच्छेदकरूपं पचत्यादिशब्दस्तद्बोध्यत्वरूपं तद्वत्वञ्च तत्करियायामस्ति। अथवा क्रियान्तराकाङ्क्षानुथापकतावच्छेदकरूपं तत् क्रियागत वैजात्यं यत् तद्वत्वञ्च तत्करयायामिति लक्षणसङ्गतिः। न चैवं धातुतो निरूपकत्वैजात्येन क्रियोपस्थितौ 'कृष्णं नमेच्चेत् सुखं यायादि'त्यादौ निराकाङाक्षतयाऽनन्वयप्रसङ्ग इति वाच्यम्। चेच्छब्धसमभिव्याहारवशादाकाङ्क्षोत्थानात्। एवं यच्छब्दादावपि ऊह्यम्। 'भुक्त्वे'ति धातुसम्बन्धे विधीयमानक्त्वादिसमभिव्याहारवत्। -04-0क्रियान्तराकाङ्क्षत्वञ्च (4. Vi. क्रियान्तराकाङ्क्षत्वञ्च) क्रियात्वेन क्रियोपस्थितिं विना शाब्दबोधाननुभावकत्वम्। तेन 'पश्य मृगो धावति', 'पचति भवति' इत्यादौ धावनक्रियाभवनक्रिययोः साध्यत्वासत्वभूतत्वयोः न हानिः। केचित्तु क्रियात्वेन क्रियानिवेशमपहायस्तित्वन्तराकाङ्क्षानुत्थापकतावछेदकवैजात्यमेव तत्परिष्करणीयम्। 'आस' इत्यादौ साध्यत्वासत्वभूतत्वयोः वारणायान्तरेति विजातीयार्थकं विजातीयास्तित्वाकाङ्क्षेत्यर्थः। पचति, भवति, अस्तीत्यादौ चाव्याप्तिवारणार्थं पूर्ववदेवाकाङ्क्षा नर्वक्तव्या। -02-0'पश्य मृगे' (L. 'पश्य' आरभ्य 'इत्युक्तौ' पर्यन्तं न दृश्यते।) तु यथा श्रुतेऽपि न दोषः। लिङ्गसंख्याकारकान्वयित्वमसत्वभूतत्वमित्युक्तौ तु निरुक्तक्रिययोः क्रमेण कर्मत्वकर्तृत्वान्वयदर्शनात्, 'हत शायिक्त्रः शय्यते' इत्यादौ सङ्ख्यान्वयदर्शनाच्चासत्वभूतत्वं व्याहन्येतेति भावः। कर्तुकर्मेतरकारकानन्वयित्वमित्युक्तौ तु गौरवमेव, केचित्तु, अनायत्या गौरवमङ्गीकृत्यपि उक्तमेव क्रियानाधारकारकानन्वयित्वमिति शब्दान्तरेणाहुः। तदुक्तम् =
"क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः।
असत्वरूपता तस्या इयमेवावधार्यताम्।।" (वा.प. इति।)
अत्र कारकशब्दः शक्तिपरः। क्रियाधारकारके कर्तृकर्मणी एव। तदतिरिक्तकरणादिकारकैरित्यर्थ इति। लिङ्गसङ्ख्यानन्वयित्वमेव असत्वभूतत्वमित्यन्ये। वस्तुतः क्रियायाः अनुपमत्वमेवासत्वभूतत्वम्। अत एव 'रोदितीव पठती'त्यादौ नोपमा कर्त्रोस्तु सा न। क्रियांप्रति विशेषणत्वात्। अपि तूत्प्रेक्षाव्यञ्जक इव शब्दाः। अत एव -0क -0"सन्" (सू. 3-1-7) (सन् सूत्रम् = धातोः कर्मणः समानकर्तृकादिच्छायां वा (सू.3-1-7) सूत्रे "न वै तिङन्तेनोपमानमस्ती"ति -0ख-0भाष्यकारः (म.भा.द्वि.ख.पृ.27।)। तत्र संभावनार्थ इव शब्द इति कैयटश्चाह। उपमेयत्वन्तु क्रियाया अस्त्येव, 'ब्राह्मणवदधीते' इत्यादौ तथा प्रतीतेः। अत एव -0ग -0"चानद्यतने लुङि"ति (अनद्यतने लुड् (सू 3-3-15.)) सूत्रभाष्ये (म.भा.द्वि.ख.पृ.210।) 'इयं तु कदा गन्ता यैवं पादौ निदधाती'त्यादावद्यतनभविष्यद्विषये लुट् कथमित्याशङ्क्य 'गन्तेव गन्ते'ति परिहारं 'न वै -0ङ-0तिङन्तेनोपमानमस्ती'ति दूषयित्वाऽ'मद्यतन इवानद्यतन' इति परिहृतम्। ननु 'यता वैस्योनोनिपत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यम् (निपत्या) आदत्ते यमभिचरति श्येनेने'त्यादौ स्येनकर्तृकादानक्रियायजमानकर्तृकादानक्रिययोरस्त्येवोपमानोपमेयभाव इति चेन्न - यथा शब्दस्य भेदकधर्मविशेषरूपवद्वाचकतया यत् = प्रकारवत् स्येनकर्तृकं पक्ष्यादानं तत्पर्कारवद्यजमानकर्तृकं रिप्वादानमिति बोधोत्तरं, तमेव प्रकारभूतं भेदकधर्ममादाय तत्प्रयुक्तां वाऽऽदानक्रियामादायोपमानश्येनभिन्नयजमानउपमेयमिति अभिधानमूलव्यञ्जनया बोध्य इत्युभयोरपि शाब्दत्वमेवादावेव क्रिययोरुपमाबोधे तूक्तभाष्यविरोध आपद्येत। कर्त्रोरपि स न, विशेषणत्वात्। न च तत्वादेव तयोर्द्वितीयबोधेऽपि न सम्भवतीति वाच्यम्। वैयञ्जनिकबोधे कस्यापि प्रतिबन्धकस्याभावादिति गृहाण। ये तु थालः सादृश्यार्थकत्वं वदन्ति तेषां 'यत् सदृशो हरिस्तत् सदृशो हर' इति बोधेऽपि 'हरिसदृशो हर' इति, 'यथा हरिस्तथा हर' इत्यतो बोधानापत्तेः। अन्यथा सर्वथेत्यादौ सादृश्यानापत्तेश्च। मम तु "प्रकारवचने थालि" (सू. 5-3-23) त्यत्र वचनग्रहणात्थालः प्रकारवद्वाचकतया 'यत्प्रकारवान्हरिस्तत्प्रकारवान्हर' इति बोधे पश्चादुक्तरीत्या स बोधः। अत एवालङ्कारिका अपि -0क-0'लिम्पती'वेत्यादावुत्प्रेक्षामेवोदाहरन्तीति दिक्।। (क. लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। दण्डिनः काव्यादर्शे द्वितीयपरिच्छेदे 226 कारिका।)
-2एतदेवेति-2।। निरुक्तासत्वभूतत्वमित्यर्थः।।
-2तिङ्पदैरिति-2।। क्रियाप्रधानकैः पदैरित्यर्थः। तेन -01-0भाष्यकृत्सम्मत (1. भाष्योक्तं) "क्रियाप्रधानमाख्यातमि" (नि.अ.1.पा.1) ति निरुक्तबलादाख्यातव्यवहार्याणां भावकृत्यान्तानामेधितव्यमित्यादीनां नासङ्ग्रहः। यद्वा तिङ्पदैरित्यस्य तिङन्तपदरित्येवार्थः। आख्यातपदव्यवहार्याणामप्येधितव्यमित्यादीनामस्तिभवतीत्यादि-क्रियान्तराकाङ्क्षादर्शनान्नसाध्यत्वा- सत्वभूतत्वे। अत एव तदर्थे न कारकाणामन्वयः। क्रिया-प्रधानत्वव्यवहारस्तु क्रियामात्रविशेषणत्वात्। -01-0वस्तुतस्तु (1.वस्तुतः) साध्यत्वं कर्मव्युत्पत्या निष्पाद्यत्वमेव। तद्रूपेणैव धातुतो बोधात्। तदेव च कारकान्वयप्रयोजकम्। हिरुगित्यादितौ वर्जनार्थस्य साध्यत्वेनाप्रत्ययान्न कारकान्वयः। -02-0'एधितव्यमि'त्यादौ च (L. 'एधितव्यमित्यादौ च' - न दृश्यते।) तत्वेन बोधात्कारकान्वयः। 'पचतिकल्पमि'त्यादावपि साध्यत्वेनैवक्रियाप्रतीतिरिति मूलोक्तन्तु कारकान्वयप्रयोजकवैजात्यं न युक्तम्। गुरुभूतनिरूक्ताकाङ्क्षाघटितवैजात्यस्वीकारे मानाभावत्। 'कृष्णं नमेच्चे'दित्यादावपि चेत्पदबलेन तया कारकान्वयानापत्तेश्च। 'एधितव्यं','पचतिकल्पमि'त्यादौ दोषाच्चेति। 'पचतिकल्पं देवदत्त' इत्यादौ बोधास्तु आख्यातार्थे देवदत्तस्य विशेषणतया बोध्यः। अभेदबोधस्तु । प्रत्ययस्य द्योतकत्वेन क्रियाप्रधानत्वेन प्रत्ययान्तस्य (बोधात् -) बाधात्। नामार्थयोरित्यस्य नामजन्यप्रतीतिविशेष्यार्थयोरित्यर्थात्। ननु धातुसामान्यस्य -01-0व्यापारसामान्यवाचकत्वे (V1वाचकत्वं) निखिलव्यापारबोधस्य धातुमात्रादापत्तिरित्यत आह -
अयञ्चेति।। तत्तद्रूपेणेति।। अत्र
'बुद्ध्या प्रकल्पिताऽभेद' (वा.प.तृ.क्रि.4) इति हर्युक्तिरपि प्रमाणम्। फूत्काराद्यवयवभेदस्य समुदाये ततः प्रतीतेः। स च अभेदसल्लापो धातुतः फूत्कारत्वादि - तत्तद्रूपेण व्यापारस्या - प्रतीतावकिञ्चित्करः स्यादिति। एतेन क्रियात्वं शक्यतावच्छेदकमिति निरस्तम्। -2तत्तद्धातविति-2। एते पाचित्वादिकमेव शक्यतावच्छेदकमित्युक्तं भवति। तेन धातुत्वं शक्यतावच्छेदकम् इत्यपि निरस्तम्। अनेक शक्यतावच्छेदकत्वे सति एक शक्यतावच्छेदकत्वं नानार्थत्वमित्याशयेनाशङ्कते - -2न चेति-2।। अनुगतशक्यतावच्छेदकत्वे सति एकशक्यतावच्छेदकत्वं -02-0तदित्याशयेन (L. आशयेन समाधत्ते - न दृश्यते) समाधत्ते ।। -2तदादीति-2।। बुद्धिविषयत्वोपलक्षितघटत्वादिधर्मावच्छिन्नवाचकं तदादिपदमिति तदादिपदे शक्तिग्रहः। घटत्वपटत्वादीनामनुगमकबुद्धिविषयत्वरूपधर्मावच्छिन्नशक्यतावच्छेदकतासत्वाच्छक्तेरैक्यम्।-01-0नानाघटव्यक्तिविषयघटत्वरूपानुगतधर्मावच्छिन्नशक्यत्यैकत्ववत्। (L. घटव्यक्तविषय - न दृश्यते) इयांस्तु विशेषः = तत्र घटत्वादिप्रकारकबोधानुभवात्तेषां घटत्वादीनां धर्मितावच्छेदकत्वरूपविषयतया शक्तिग्रहविषयत्वं, शक्तिविषये बोधे विषयतया प्रकारत्वञ्च। बुद्धिस्थत्वस्य तु -0 2-0शाब्दबोधेऽभानाद्धर्मितावच्छेदकतावच्छेदकत्वरूपविषयतया (2. V1 तावच्छेदक - न दृश्यते) न शक्तिग्रहविषयत्वं, नापि तथा प्रकारत्वमिति बुद्धिविषयत्वस्य उपलक्षणत्वम्। ननु तर्हि, कथं -03-0क्वचित् (3. V1 तर्हि) बुद्धिस्थत्वेन बोधः। तस्यापि बुद्धिस्थत्वस्य बुद्धिस्थत्वेनोपलक्षणात्। अत एव -04-0तव (4. V1 तव - नास्ति) तदादिभ्यः कदाचिघ्घट इति -05-0कदाचिज्जातिमानिति (5. V1 'कदाचित् ........ जीतिमान्घट' - नावलोक्यते।) कदाचित् जातिमान्घट इति कदाचित् बुद्धिस्थो घट इति बोधः। न च नानार्थत्वेनाभिमतहरिपदार्थतावच्छेदकानामिन्द्रत्वादीनामपि बुद्धिस्थत्वेनानुगमान्नानार्थोच्छेदप्रसङ्ग इति शङ्क्यम्। तदादि सर्वनामभ्य उक्तरीत्या नानारूपेणैकस्य बोधोऽनुभूयते, न हर्यादिपदेभ्यः शब्दशक्तिस्वाभाव्यादिति विशेषात्। अत एव तेभ्यो न कदाचिदपि 'जातिमान् हरि'रित्यादि क्रमेण बोध इति स्पष्टं -0क-0भट्टाचार्यनिर्मित'शक्तिवादे'। (क. शक्तिवादः - विशेषकाण्डम् - पृ.91)
वस्तुतस्तेषां घटत्वादिधर्माणां विशिष्यज्ञानाभावेन तत्तद्रूपेण शक्तिग्रहासम्भवात् तथा बोधस्यासम्भवान्न बुद्धि - विषयत्वोपलक्षितघटत्वाद्यवच्छिन्ने तदादिपदशक्तिः, अपि तु बुद्धिविषयत्वेन बुद्धिविषये तदादेः शक्तिः। सर्वस्यापि बुद्धि-विषयत्वेनैव बोधश्च। अत एव "तस्यापत्यमि" (सू. 4-1-91) ति सूत्रे -0ख-0भाष्ये (म.भा.द्वि.ख.पृ.370) 'सर्वनामनिर्देशे विशेषाऽसम्प्रत्ययः सामान्यनिर्देशात् ततश्च तच्छब्दादेवप्रत्ययः स्यादि'त्याशङ्क्य अपत्य शब्दस्य सम्बन्धिविशेषाकाङ्क्षतया "तस्यापत्यमि" (सू 4-1-92) त्युक्तावपि आकाङ्क्षाया अनिवृत्तेस्तेन तदादिनाऽपत्यस्य विशेषणायोगात्तत्र तद्विशेषवाचिन उत्पत्तिरिति सिद्धान्तितम्। अत एव च "तस्मिन्निति" (सू 1-1-66) सूत्रे -0ग-0भाष्ये (म.भा.द्वि.ख.पृ. 508) "सर्वनाम्नाऽयं निर्देशः क्रियते सर्वनाम च सामान्यवाचि" इत्युक्तम्। द्विविधादपि भाष्यात् सकलसाधारणबुद्धिविषयत्वरूपसामान्यमेव प्रवृत्तिनिमित्तमिति लभ्यते, त्वदुक्तौ तु एतद्भाष्यविरोधः स्पष्ट एव। किञ्च नानार्थतायाः तदादीनां वारणायैतावान्प्रयासस्तव। तच्च लघुना मदुक्तप्रकारेणापि वारितमेवेत्यलम्।
ननु फूत्कारत्वादीनामनुगमकं बुद्धिस्थत्वमित्यत्र किं विनिगमकमित्यत आह - -2क्रियैकत्वेति-2।। फूत्कारत्वाद्यवच्चिन्नेषु नानाव्यापारेषु एकाक्रियेति व्यवहारान्यथानुपपत्या फूत्कारत्वादीनां बुद्धिस्थत्वमनुगमकं मन्तव्यम्। तदेव च शक्तिग्रहविषयतानामप्यनुगमकम्। अनुगतवस्तुविषयताननुगमस्याप्रामाणिकत्वात्। अन्यथा घटादिविषयतानामननुगमेन शक्त्यानन्त्यप्रसङ्गात्। वस्तुतः 'काष्टं पचति', 'स्थाली पचति' इत्यादौ तत्तद्व्यापारविशेषमात्रबोधात् हर्यादिपदवन्नानार्थत्वमिष्टमेवेत्ययं प्रयासो वृथैवेति बोध्यम्।। -0क -0-2गुणभूतैरिति-2।। (वा.प. III क्रि. 4) क्रमजन्मनां = क्रमोत्पन्नानाम् उक्तव्यापाराणाम्, समूहो गुणभूतैस्तादृशसमूहं प्रति गुणभूतैस्तत्तद्रूपेण -01-0भासमानैः (1. V1 आभासमानैः) स्वावयवैर्युक्तः। ननु क्षणनश्वराणामवयवानां समूहो न सम्भवतीत्यत आह - -2बुद्ध्येति -2- संकलनात्मिकयैकत्वबुद्ध्या प्रकल्पिताभेदरूपः सन् क्रियेति व्यवह्रियत इत्यर्थः। अत्र अवयवाश्रयं पौर्वापर्यं समुदायाश्रयं चैकत्वमिति बोध्यम्। -01-0'अस्ति', (L अस्ति--------- क्रमवत्वमिति - न दृश्यते) 'भवति' 'विद्यतीनाम'र्थस्य सत्तायाः एकत्वेऽपि तदधिक्षनानेककालगतपौर्वापर्यस्य तस्यामारोप इति तस्या अपि क्रमवत्वमिति सिद्धम् क्रियात्वम्। अथवा सत्ताविषयव्यापारार्थकत्वमेव 'अस्ति' - 'भवति'- 'विद्यतीनाम'। सत्ता चा़ऽऽषड्भावविकाराद्यनुस्यूतं सदिति प्रत्ययवेद्यं यद्रूपं तत्। तद्विषयव्यापारश्चात्मभरणस्वस्वरूपधारणपदाभ्यामुच्यते। आत्मा स्वरूपञ्च सत्तैव। सा चात्र स्थूलरूपात्मिका। म्रियतौ तत्त्यागानुकूलव्यापारस्येवात्र तद्वैपरीत्येन तद्धारणानुकूलव्यापारस्य प्रतीतेः। स्पष्टं चेदं "भूवादि" (सू. 1-3-1) सूत्रे -0क-0भाष्ये। (म.भ.प्र.ख.पृ. 116) उत्पत्यर्थकभूधात्वादियोगे 'घटो भवति' इत्यादौ तूत्पत्यनुकूलव्यापारोऽर्थो व्यापारश्चान्ततः आश्रयतैव 'साध्यत्वेनाभिधीयमाने' (वै.सि.का.14) त्यादि 'अस्त्यादावपि' (वै.सि.का.12) कारिकायां मूले एव स्पष्टम्। उपपादयिष्यते च तत्रैव।
ननु फलाश्रय - व्यापाराश्रय - अन्यतमे स्वरूप- सम्बन्धविशेषरूपस्याश्रयत्वस्याश्रयरूपतया नानात्वादाह - -2तत्तच्छक्तिरूपमिति-2।। कर्तृत्वकर्त्वाद्यखण्डधर्मरूपमित्यर्थः। सा च शक्तिराश्रयनिरूपकभेदेप्येकैवेति "गत्यर्थ लोटे" (सू. 8-1-51) ति सूत्रकैयटोक्तिस्तु, "सप्तमी पञ्चम्यावि" (सू. 2-3-7) ति सूत्र तद्भाष्यादिविरोधात् उपेक्ष्या। तस्मात् सा तद्भेदभिन्ना अपि कर्तृत्वेनानुगतेति बोध्यम्।।
किं मानमित्यग्रे न च प्रतीतिः मानमिति पूरणीयम्। मीमांसक्तमतेनाह - -2लक्षणयेति-2।। सङ्ख्यादौ शक्तिराश्रये लक्षणेति तेषां मतम्। अर्थापत्तिवादमतेनाह - -2आक्षेपदिति-2।। कर्तारमन्तरा व्यापाराद्यसम्भवादिति भावः। नैयायिकमतेनाह - -0क-0-2प्रथमान्तपदाद्वेति - सूत्रमेव मानमिति-2।। -2एवः-2 (म.भा.तृ.ख.पृ.333 'तिडोरेकद्रव्याभिधानात्) प्रसिद्धावप्यर्थे वा। 'तिङ्भ्यामेकं द्रव्यमभिधीयते' इत्यादि, "गत्यर्थ लोटे" (सू. 8-1-51) ति सूत्रभाष्यमपि मानम्। ननु अस्मात् धर्मिपरत्वलाभेऽपि शक्तिपरत्वालाभ इति चेन्न - शक्तिशक्तिमतोरभेदात्। स एव प्रत्ययार्थः। अत एव कर्त्रादिबोधकतृतीयादिविभक्त्या शक्तिमदभेदमापन्नाया एव शक्तेरभिधानमिति "सार्वधातुके यगि" (सू. 3-1-67) ति सूत्रे -0क-0कैयटः। (म.भा.द्वि.ख.पृ.91)
ननु स्फोटवादिनो वैयाकरणस्य मते आदेशानामेव वाचकत्वात् लकाराणाम् अर्थः - कथं वा कर्तेव्यत्र आह - -2बोधकतारूपामिति-2।। तस्याः तद्रूपत्वं चाग्रे वक्ष्यते।। -2तत्स्थानित्वेन-2।। तिबाद्यादेशस्थानित्वेन।। -2विसर्गादिनिष्ठोति-2।। तदन्तादि (नि-) ष्टेप्यर्थः। नैयायिकमतेनाशङ्कते -
-2न चेति-2।। कर्तृप्रत्ययसमभिव्याहारे फलातिरिक्तो व्यापारो धात्वर्थः। कृतिराख्यातार्थः। आश्रयः प्रथमान्तपदलभ्यः। कर्मप्रत्ययसमभिव्याहारे व्यापारो धात्वर्थः। फलमाक्यातार्थः। आश्रयः प्रथमान्तपदलब्यः। यन्तस्तु चैत्रेणेत्यादि तृतीयार्थतया लभ्य इति हि तेषां मतम्।। -2अयोगदिति-2।। कृतेरपि व्यापारविशेषत्वादिति भावः। मिश्रमतेनाशङ्कते -
-2अभेति-2।। एतन्मते फलमात्रं धात्वर्थः। भावना च आख्यातार्थस्तदाश्रयत्वादेव च देवदत्तादेः कर्तृष्वम्। -2कृतामपीति-2 ।। तत्रापि कर्त्रादिपदस्याकर्तृत्वादिपरत्वापत्तेरिति भावः।
ननु "कर्तरिकृदि" (सू 3-4-67) ति शास्त्रं कर्त्रर्थकत्वे मानमित्यत आह - -01 -0-2कर्त्तरीति-2।। (L कर्तेति) अर्थाधिकारानुरोधेन "कर्तरिकृदि" (सू . 3-4-67)ति पूर्वसूत्रेऽपि कर्तृपदस्य कर्तृत्वपरत्वस्य वक्तव्यत्वात्।। -2योगक्षेममिति-2।। अलब्यलाभो योगः, लब्धस्य परिपालनं क्षेमः।
ननु 'पाटको देवदत्त' इति सामानाधिकरण्यानुरोधात् तत् कर्तृवाचकत्वमङ्गीक्रियत इत्यस्वरसादाह - -2अपि चेति-2।। यत्नार्थकत्वादिवादिनस्तार्किकादेर्मतं निराकृत्य -0 2 -0प्राधान्येन ('प्राधान्येन' इत्यारभ्य 'तया' पर्यन्तं L मातृकायां नावलोक्यन्ते। )
मीमांसकमतं दूषयति - -2मीमांसका(दी)नामिति-2।। -2भावनाया एवेति-2।। इदमेव युक्तम्। भावनायास्तिङर्थत्वं स्वीकृत्य तया क्रियया कर्तुराक्षेपे तु कारकाणां क्रियान्वयनियमात्कारकान्तराणामप्याक्षेपापत्तौ करणादिबोधकतृतीयादीनामानर्थक्यापत्तेः। मम तु कर्ता भावनयैव सम्बद्धो न कारकान्तरेण 'गुणानामि'ति न्यायादिति न कारणा {दी -}नामाक्षेप इति -03 -0न ('न' इत्यारभ्य 'कर्मणीति' पर्यन्तं L मातृकायां नावलोक्यन्ते।) तद्बोधकतृतीयादि वैयर्भ्यम्। किञ्च कर्तुराक्षेपलब्यत्वे तत्र प्रत्ययार्थ एकत्वान्वयो न स्यादशाब्दत्वात्। किञ्च "लः कर्मणी" (सू 3-4-69) ति व्याकरणस्मृतिविरोधश्च। यत्तु बावना नियमेन कर्त्रा सम्बद्धेति कर्तारमेवाक्षिपति न करणादीनिति न तद्बोधकवैयर्भ्यमिति तन्न। तिष्ठतीत्यादौ करणाद्यभावेऽपि भातलाद्यधिकरणसत्वेन तदाक्षेपापत्तौ तब्दोधकसप्तम्यादिवौयर्थ्यापत्तेः। आत्मनेत्यादैः करणस्य सम्भवाच्च। यदपि लक्षणया लब्धकर्तरि -01-0तिबर्थसंख्यान्वयेन (V1 संक्यान्वये तत् शाब्दीति) 'म शाब्दीति न्यायविरोधः। अत एव' देवदत्तः पचतीति सामानाधिकरण्यमुपपद्यते। अन्यथाऽऽख्यातार्थः कर्तेतिवादिनस्तवापिमते सामानाधिकरण्यं न स्यात्। आक्यातेन तृतीयावन्निष्कृष्ट-शक्तिमात्ररूपकर्तृकारकाभिधानात्, -0क-0शक्तिमध्रव्यस्या'कृत्यधिकरणन्यायेना'नबिधानादिति, (आकृत्यधिकरणम् जै.सू. 1-3-9 मी.शा.भा पृ. 229), तदपि न। कर्त्रर्थे सूत्रभाष्यादिसिद्धशक्तिं विहाय लक्षणास्वीकारे प्रमाणाभावात्, शक्तिमात्राभिधानेऽपि शक्तिशक्तिमतोरभेदाल्लक्षणांविनैव सामानाधिकरण्योपपत्तेश्च। एतेन भावनाया वाच्यत्वे विनिगमनाविरहप्रसक्तौ लाद्यवात्कर्तृपदस्योक्तरीत्या कृतिपरत्वं विनिगमकमिति तदक्तमपास्तम्। -0ख-0'तिङ्भ्यां द्रव्यमभिधीयते'त्युक्तभाष्यविरोधेन तस्याः (म.भा.तृ.खं.पृ.333. सू = "गत्यर्थलोटा लृण्न चेत्कारकसर्वाऽन्यत्" 8-1-51) असार्वत्रिकत्वाच्च। "कर्तृकरणयो" (सू 2-3-18) रित्यादौ तृतीयाविधायके कर्तृपदस्य तथात्वेऽपि "कर्तरि कृदि" (सू 3-4-67) त्यादौ तत्पदस्य तथात्वे प्रमाणाभावाच्च। -0क -0'न ह्याकृतिः पदार्थस्य द्रव्यं न पदार्थ' ('सरूपाणामेकशोष एकविभक्तौ' (1-2-64) म.बा.प्र.ख.पृ.) इत्यादि - भाष्यप्रामाण्येन विशिष्टस्यैव वाच्यत्वलाभाच्चेति दिक्।। -2कृदादिवदिति-2।। कृदादौ बावना यताऽक्षिप्यते कर्त्रा, तथेहाप्यस्त्विति भावः।
शङ्कते - -2तथा सतीति-2।। आक्षिप्तत्वात्प्रत्ययार्थत्वाभावाच्चेति भावः।। -01-0-2आक्षेपित -2(आक्षिप्त -)-2व्यक्तेरिति-2।। (आक्षेपित ------ भावः L न दृश्यते) -0 ख-0'आकृत्याधिकरणे' 'जातावेव शक्तिरि'ति तैः (जै.सू. 1-3-9. मी.शी.भा.पृ. 229) सिद्धान्तितत्वेन व्यक्तेराक्षेपेणैवबोधाङ्गीकारादिति भावः। शङ्कते - -2पचतीति-2।। -2कर्त्तुरपीति-2।। पचतीत्यस्य 'पाकं करोति' 'पाचक' इत्यादिना विवरणात्।। -2समुच्चयांशेति-2।। -02-0धवखदिरावित्यादावाशब्दार्थसमुच्चयांशस्य (L धवश्चरवदिरणवदित्यर्थः।) 'धवश्चखदिरश्चे'ति चेन विवरणवदित्यर्थः। तद्रीत्यैवेदम् न तु सिद्धान्तरीत्या। तत्र वृत्तौ एकार्थीभावस्य सिद्धान्तयिष्यमाणत्वेनाशब्दार्थत्वाभावादिति बोध्यम्। तत् = विवरणम्। -2तुल्यत्वादिति-2।। कर्तुः शब्दार्थविवरणं, भावनायास्तात्पर्यार्थविवरणमित्यस्यापि वक्तुं शक्त्यत्वेन तुल्यत्वादित्यर्थः।
नन्वेवं सर्वत्र विवरणस्य शक्तिग्राहकत्वोच्छेदापत्तिरित्यस्वरसादाह - -2किञ्चेति-2।। अन्यथाऽन्यस्मिन्नपि पचति सति देवदत्तः पचतीति प्रयोगापत्तेः।। -2तच्चेति-2।। तिङः कर्तृवाचकत्वसाधकं समानविभक्तिकत्वरूपं सामानाधिकरण्यमित्यर्थः।।
।।-2इत्यादाविति-2 नामधात्वोः राजपुरुषयोश्च निरुक्तसामानाधिकरण्याभावादिति भावः।। -2सोमेनेति-2।। समानविभक्तिकत्व रूपसामानाधिकरण्यासत्वादित्यर्थः। तस्मात् नामार्थयोरेवासामानाधिकरणयोः साक्षाद्भेदातिरिक्तसम्बन्धेनान्वयो नास्तीति परैरभ्युपगन्तव्यमिति न कश्चिद्दोषः।।
।।-2लक्षणयेति-2।। इदमुपलक्षणमाक्षेपादेः। तथा च भावनाक्षिप्तकर्तरमादाय सामानाधिकरण्योपपत्तेर्नैतत्साधकं कर्तृवाचित्वे इति शङ्कार्थः।। -2पिङ्गाक्ष्यादीति-2।। 'पिङ्गे अक्षिणी यस्या' इति षष्टयन्तेन विग्रहेऽ"नेकमन्यपदार्थे" (सू. 2-2-24) इत्यत्तेन षष्ट्यर्थे समासविधानात् पिङ्क्षाक्षिसम्बन्ध इत्येवार्थः स्यात्। अतो गवादिसामानाधिकरण्यानुरोधात् -01-0सम्बन्धाक्षिप्तसम्बन्धी (V1 सम्बन्धास्थितमसम्बन्धि) बहुव्रीहि समासार्थ इत्यरुणाधिकरणस्थितसिद्धान्तासङ्गतिः। सम्बन्धवाचकेनलक्षणयालब्धसम्बन्धिनमादायैव सामानाधिकरण्योपपत्तेरिति भावः।। -2षष्ट्यर्थे एवेति-2।। -02-0अन्यपदार्थ (V1 'अन्य' आरब्य ----- 'प्राधान्यमि'त्यन्तं न दृश्यते।) इत्यत्र पदं सुप्तिङन्तं, पदे (व -) (च -) प्रत्ययार्थस्य प्राधान्यम्, तथा चान्यपदार्थे इत्यस्य पदजन्यप्रतीतिविशेष्यार्थे, वर्तिपदार्थभिन्ने इत्यर्थेन बहुव्रीहेः -03-0सम्बन्धार्थस्य (V1 अर्थस्य प्राधान्यकत्व - न दृश्यते।) प्राधान्यकत्वमनुशासनतो लब्यते इति भावः।।
-2द्रव्याऽनुक्तेति-2।। अयं चोच्छेदापत्तेर्हेतुः।। -2आरुप्यस्योति-2।। तन्मते जातेरेव शब्दार्थत्वात्।। -2उपात्तद्रव्ये = गवि-2, -2उक्तरीत्या-2 = सम्बन्धिन आक्षेपेण इति।। -2प्रपञ्चितमिति-2।। भावनायातिङर्थत्वे तिङा कर्तुरनबिहिदतत्वेन 'पचति चैत्रेणे'ति
कर्तरि तृतीयापत्तिः।.
न च "लः कर्मणीति" (सू 3-4-69) स्मृतिविरोधवारणाय "लः कर्मणी" (सू. 3-4-69) त्यस्य "द्वेकयो" (सू 1-4-22) रित्यनेनैकवाक्यतया कर्तृगत - एकत्वे लकारो भवतीत्यर्थेन "अनभिहिते" (सू 2-3-1) इत्यस्यापि कर्तृगतैकत्वेऽनभिहिते इत्यर्थापत्या एकत्वस्याभिधानात्तृतीया वारणमिति वाच्यम्।
एकवचनादिसंज्ञाया आदेशनिष्ठत्वेन, लकारे तदभावेनोक्तैकवाक्यत्वासम्भवात्। 'पचन्देवदत्त' इत्यादौ शत्रादिनापि संख्याभिधानापत्तेश्च। "तिप्तस्झी" (सू 3-4-78) त्यनेनैकवाक्यत्वेऽपि तत्र कर्त्राद्यर्थबोधकपदानावात्। त्रयाणामेकवाक्यतयोक्तरीत्या तृतीयावारणमिति चेत् एवमपि 'कर्ता देवदत्त' इत्यादौ तृतीयापत्तेः।
न "चानभिहिते" (सू 2-3-1) इत्यस्याबोधिते कर्त्रादावित्यर्थः। बोधश्च कर्त्रादेः कृतिशक्त्या तिडि आक्षेपादिति नोक्तदोषावकाश इति वाच्यम्।
'शाब्दायामी'त्यनुभवविरोधेनाक्षेपस्यैवायुक्तत्वात्। -01-0आक्षिप्तशाब्दे (L आक्षेपेऽशाब्दे) शाब्दसंख्यान्वयायोगाच्च। आक्षेपस्याग्रे सर्वविधस्य दूषयिष्यमाणत्वाच्च।
न "चानभिहिते" (सू. 2-3-1) त्यनेन कृत्यनभिधानं विवक्ष्यत इत वाच्यम्।
"कर्तरि कृदि" (सू 3-4-67) त्यत्र कर्तृपदस्य कृत्यर्थपरत्वेऽपि "कर्तृकरणयो" (सू. 2-3-18) रित्यत्र कर्तृपदस्य तत्परत्वे मानाभावात्। कृते"रनभिहिते" (सू.2-3-1) त्यनेन अन्वयायोगाच्च। तस्माद्भावनायाः तिङर्थत्वे उक्ता तृतीयापत्तिः दृढेवेत्यपि बोध्यम्। इदं वाचकत्वाभिधानम्।। मूले फले इति सप्तम्यर्थो निरूपितत्वम्। तदाह -
-2फलं प्रतीति-2।। एतच्च कर्तृप्रत्ययसमभिव्याहारे। कर्मप्रत्ययसमभिव्याहारे 'पक्व' इत्यादौ व्यापारं प्रति फलस्यैव प्राधान्यस्य वक्ष्यमाणत्वात्। एतदर्थमेव फलव्यापारयोः पृथक् शक्तिरुक्ता, न तु फलावच्छिन्ने व्यापारे इति निरूपितं प्रागिति बोध्यम्।। -2कर्त्तरीति-2।। वचनव्यत्ययेन विशेषणमित्यनुषज्यते। एवमग्रेऽपि।। -2समानप्रत्ययोपात्तत्वादिति-2।। अनेन -01-0शब्दान्तराननुसन्धानप्रयुक्तं लाघवं सूचितम्। "लः कर्मणि" (सू. 3-4-69) "तिप्तस्झि" (सू. 3-4-78) "द्वेकयो" (सू.1-4-22) रित्येतेषां पदेकवाक्यतयेकत्वादिविशिष्टकर्त्रादौ -02-0तद्विधानादित्यपि (V1 'तदारभ्य ---- कर्त्रादौ' पर्यन्तं न दृश्यते।) बोध्यम्।।
-2तथा चेति-2।। कर्त्राद्युपस्थितिः विशेष्यतासम्बन्धेन यत्र तत्र कर्त्रादौ प्रकारतया संख्याबोध इति भावः।.
।।-2इतराऽविशेषणत्वघटित इति-2।। तथा च निरुक्तबोधं प्रति इतराविशेषणीभूतप्रथमान्तपदजन्योपस्थितिर्हेतुरित्येवं वाच्य इत्यर्थः। 'चन्द्र श्वे'त्यादौ इवशब्दार्थे सादृश्ये प्रतियोगितया चन्द्रस्य, देवदत्तपदार्थे क्त्वार्थस्य च विशेषणत्वान्न आख्यातार्थसङ्ख्यान्वयः। अपि तु मुखदेवदत्तयोरेवेति भावः। अत्रत्यं तत्वं निपातार्थवादे वक्ष्यामः।। -2इदमपि -2= उक्तविशेषणानिवेशप्रयुक्तलाघवमपि। वस्तुतो लकाराः कर्मादौ भवन्ति, तेषां च स्थाने एकत्वादौ विबादयः इत्येवं -01-0रूपया (L रूपमालायाः) "लः कर्मणि" (सू. 3-4-69) इत्यादैः वाक्यैकवाक्यतयान्वयः।।
न हि तत्र -02-0द्वये (V1 द्वितीय कर्मणि) कर्तृकर्मणीत्यादि -03-0पदमस्ति, (V1 पदमारभ्य ----- 'कस्य' इत्यन्तं न दृस्यते।), यस्य सङ्ख्या विशेषणं स्यात्। आवृत्तौ च न मानम्। तस्मात् सङ्ख्यायाः धात्वर्थे एवान्वयः। एकत्वादौ तिबादय इत्युक्ते कस्येत्याकाङ्क्षायामुपस्थितप्रकृत्यर्थस्यैव अन्वयौचित्यात्। सुब्विषये प्रातिपदिकार्थ - -04-0गतैकत्वादावित्यन्वयस्य (V1 गतैक मारभ्य------ 'ध्यत्वात्' इत्यन्तं न दृश्यते।) कृप्तत्वात्। तेनाकरूपता च सम्पद्यते। कर्मण एकत्वे द्वितीयेति भाष्यविरोधस्तु न। कर्मत्वशक्तिमत्वेन प्रातिपदिकार्थस्यैव कर्मपदबोध्यत्वात्। विधेयविभक्तिं प्रति कर्मणो गुणत्वेन गुणानां च परार्थत्वात् इति न्यायेन कर्मादौ एकत्वाद्यन्वयासम्भवाच्च। क्रियायां स्वप्रकृतिकप्रत्ययवाच्यसाधनगतसङ्ख्यायाः आरोपात् -01-0न (V1 न द्वित्वादि ----- सङ्ख्यायाः - नावलोक्यते) द्वित्वादिसङ्ख्याबाधः।
न च "सङ्ख्यावान् सत्वभूतोऽर्थः सर्व एवाभिधीयते। भेदाभेदविभागो हि लोके सङ्ख्यानिबन्धनः" (वा.प. III.सं.सं.1) इति सङ्ख्याप्रकरणे हर्युक्तेः कथमसत्वभूतक्रियायाः सङ्ख्यावत्वमिति वाच्यम्।
यथा न्यायनये गुणश्च 'यद्रव्यगतगुणस्यैव' सङ्ख्यायाः द्वित्वादि सङ्ख्यायाः आरोपेण गुणादौ द्वित्वादिव्यवहारः। 'गुणे गुणानङ्गीकारात्' - आरोपानङ्गीकारे अनिर्वाहात्। तथा क्रियायामपि तत्सम्भवात्। क्रियायां सङ्ख्याऽयोग्यत्वव्यवहारस्तु अनारोपितसङ्ख्याऽनाश्रयत्वेन सर्वसङ्ख्याऽनाश्रयत्वेन वा बोध्यः। अत एव "ङयाप्" (सू. 4-1-1) -0क -0सूत्रे (म.भा.द्वि.ख.पृ.278) भाष्ये तत्सूत्राऽभावेऽपि 'पचति', 'पश्येदि'त्यादौ तिङन्तात् स्वाद्युत्पत्तिमाशङ्क्य एकत्वादीनामुक्तत्वात्
नेत्युक्तम्। सङ्ख्यायाः कर्त्रादावन्वये तु तद्गतायाः तस्याः उक्तत्वे.़पि क्रियागतायाः अनुक्त्या तदापत्तिर्दुवारा। सुपां प्रकृत्यर्थविशेष्यगतसङ्ख्याभिधायित्वनियमात्। तथा "रूपप्" (सू. 5-3-66) सूत्रे भष्येऽपि "तिङन्तप्रकृतिकरूपबाद्यन्ते पचतिरूपं" 'पचतोरूपमित्यादौ सङ्ख्यालिङ्गाभावाद् अनुत्पत्तिमाशङ्क्य क्रियाप्रधानमाख्यातम् क्रिया च न द्वित्वादिमती, तिङन्तात् भेदानवगतेः। क्लीनत्वं च न द्वित्वादिमती, तिङन्तात् भेदानवगतेः। क्लीबत्वं च स्वभावादिति' - त्याशङ्क्य 'साधनापेक्षं तत्' -0क -0इत्युक्तम्।। (म.भा.द्वि.ख.पृ.624-626) -2तत्साधनापेक्षमिति-2।। साधनगत - सङ्ख्यारोपापेक्षमित्यर्थः. अनेन स्पष्टमेव क्रियायाः स्वभावादेकत्वं, आरोपितं च द्वित्वादीत्युक्तम्। कार्यकारणभावश्च आख्यातार्थत्वेन सकलाख्यातार्थप्रकारकशाब्दबुद्धिं प्रति धातुजन्योपस्थितिः कारणमित्येक एव। सङ्ख्यायाः कर्तृविशेषणतावादिमते तु अनेककार्यकारणभावस्वीकार इति गौरवमतिति बोध्यम् ; सापि प्रत्ययद्योत्या। विशेषणत्वात्। विशेषणीभूतार्थानां -01-0द्योत्यत्वमेवेति (L "मेवेति" आरभ्य 'प्रत्ययस्य' पर्यन्तं न दृश्यते) नियमस्य वक्ष्यमाणत्वात्।। -2वर्तमाने लडित्यक्षेति-2।। प्रत्ययस्य द्योतकत्वात् धातोरेव कालोऽप्यर्थः। तथा च वर्तमानक्रियावृत्तेर्धातोः लडित्यर्थः। विशेषणता च द्योत्यत्वादेव। एकधातुप्रकृतिकानेकलडादेज्ञानां तत्र शक्तिकल्पने गौरवाच्च। तत्र अभिमतफलजनने सति तान्निष्पादकसमलव्यापारापगमे भूतत्वं क्रयायाः, तादृशफलावच्छिन्नतादृशसकलव्यापारस्य भावित्वे भविष्यत्वं, तस्याः यावच्च अभिमतफलप्रयोजकक्रियायाः समाप्तिर्नभवति तावद्वर्तमानत्वमिति बोध्यम्।। -2तच्चः-2 धातोरिति पदं च।। -2तत्रैव-2 = व्यापारे एव।। -2तदन्वयः-1-2 -1कालान्वयः।। -2कर्तृकर्मणोरेवेति-2।। एकप्रत्ययोपात्तत्वादिति भावः।। -2पक्ष्यतीत्यनापेत्तेश्च-2।। -01-0पूर्ववत्पचतीत्यापत्तेश्चेत्यपि (L चेत्यपि बोध्यम् न दृस्यते) बोध्यम्।। -2त्यनापत्तेरिति-2।। फलस्य भावित्वादित्यर्यः।। -2न चेति-2।। न चैवमिति पाठः।। -2प्रयोगापत्तिरिति-2।। यत्नरूपव्यापारस्य वर्तमानकान्तिकत्वात्। फले कालान्वये तु स्थानरूपफलस्य वर्तमानकालिकत्वाभावेन नेयमापत्तिरिति बोध्यम्।। -2अन्यत्रेति-2।। पाचक इत्यादावपीत्यर्थः।। -2भावप्रधानमिति-2।। यत्तु भावयतीति व्युत्पत्या भावपदस्य कृतिरूपभावपरतयातिङन्तरूपाक्यातार्भेषु भावसङ्ख्यावर्तमानत्वादिकेषु मध्ये भावस्य प्राधान्यमित्यर्थबोधकेन -0 क -0"भावप्रधानमिति" (निरुक्तं (अ.1पा.1)) निरुक्तेन न विरोध इति तन्न -
"क्रियाबेदायकालस्तु सङ्ख्यासर्वस्यभेदिके"ति (वा.प.III का,स.2) हर्युक्तेः, सङ्ख्याकालयोः परिच्छेदकनियमाच्च तयोर्वशेषणतावचनमन्तरेणापि सिद्धा। उक्तनिरुक्तवाक्यवैयर्थ्यापत्तेः। आख्यातपदस्य तिङन्तपरताया वक्ष्यमाणत्वाच्च। एतेन'आख्यातं तिङन्तं धात्वर्थापेक्षया 'भावप्रधानमि'ति निरुक्तार्थः। सङ्ख्याकालयोः तु परिच्छेदकत्वाद्विशेषणत्वं सिद्धमेवे'त्यपास्तम्। 'प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्रधान्यस्या'न्यत्र क्लृप्तत्वेन तिङर्थभावप्राधान्यसिद्धौ निरुक्तवाक्यवैयर्थ्यानुद्धारात्।
न च 'दात्वर्थापेक्षया क्रिया = कृतिः प्रत्ययार्थक्त्या प्रधानं, भावशब्देनापि कृतिरेवेति नैतद्भाष्यनिरुक्तविरोध' इति वाच्यम्।
'प्रत्ययार्थप्रधानमाख्यातमि'त्येव सिद्धे 'भावप्रधानमि'त्यादेः असङ्गत्यापत्तेश्च। भावाऽख्याते अव्याप्तेश्च। तत्र धात्वर्थापेक्षयाऽन्यस्याः कृतेः प्रत्ययार्थत्वाबावात्। -01-0मम तु (L"मम तु" आरभ्य अनन्तरपुटे "फलमपि" पर्यन्तं नावलोक्यन्ते।) 'प्रकृतिप्रत्ययार्थयोरि'ति व्युत्पत्या कर्त्रादीनां प्रधान्यापत्तौ तदपवादाय प्रकृत्यर्थभावप्राधान्यबोधकनिरुक्तवाक्यसार्थक्यम्। एवं वक्ष्यमाणरीत्या नामपदस्यापि सुबन्तपरतया 'सत्वप्रधानानी'त्यनेन प्रत्ययार्थ प्रधान्यपवादाय प्रकृत्यर्थद्रव्यप्राधाबोधनम्। एतेन 'सत्वप्रधानामी'त्यत्र प्रधानशब्दस्यापि वाचकपरतया तत्साहचर्यात् भावप्रधानमित्यत्रापि प्रधानशब्दो वाचकपर इत्यपास्तम्। तत्रैव तसय तत्परत्वाभावात्। तत्र तस्याः शक्तेश्चेति दिक्। 'क्रियाप्रधानमि'त्यत्र क्रियाशब्देन फलमपि। 'पच्यते' इत्याद्यनुरोधात्। प्राधान्यं च धात्वर्थस्य तिङर्थकालकारकसङ्ख्यापेक्षया। तेन 'पस्य मृगो धावति', 'पचति भवती'त्यादौ पश्येति दृशि क्रियां प्रति विशेषणत्वेपि न व्यबिचारः।
-2आख्यातमिति-2।। आक्यातशब्देन नियमतो जनकाकाङ्क्षं विभक्त्यन्तं गृह्यते, -0क-0"आख्यातमाख्यातेने"त्यादौ (आख्यातमाख्यातेन क्रियासातत्ये (ग.सू.2-1-72)) तथा दर्शनात्। कृति, तिङि क्वचिदाख्यातपदप्रयोगस्तूपचाराब्दोध्यः। 'पाचक' इत्यादौ तु प्रकृत्यर्थस्य जनकाकाङ्क्षयत्वेपि प्रत्ययान्तार्थविशेष्यस्य न तदाकाङ्क्ष्यम्। पचतीत्यादौ च विभक्त्यन्तार्थविशेष्यस्य क्रियारूपस्य तदाकाङ्क्ष्यत्वं स्पष्टमेव। एतेन 'आख्यातपदेन धातुरेवोच्यते, आख्यायते सर्वप्रधानीबूतो.़र्थो अनेनेति व्युत्पत्तेरि'त्यपास्तम्। 'शिश्ये' इति तिङन्तेऽतिव्याप्तिः। कृत् प्रकृतिभूतधातावव्याप्तेश्च। -0क-0'नामान्याख्यातजानी'त्यत्र (निरुक्तम् अ .1. पा.1. ख.1. पृ.4.) तु आख्यातपदं 'सर्वं नाम धातुजमि'ति "उणादय" (सू.
3-3-1) इति -0ख -0सूत्रभाष्योक्तेर्विभक्त्यन्तावयवधातुपरम्। (म.भा.द्वि.ख.पृ.204 'धातुजं नाम') एवं 'सत्वप्रधानानि नामानी' (नि.अ.1.पा.1.खं.1) त्यत्र नाम पदेन जन्यतया क्रियाकाङ्क्ष्यम्। तच्च विभक्त्यन्तमेव। 'प्रकृति - प्रत्यययोर्विभक्तिनाम नामार्थेषु द्रव्यादिषु द्रव्यं प्रधानमिति' -0घ-0निरुक्तभाष्योक्ते'र्नमन्ति (निरुक्तम्. पृ.5) आख्यातार्थं प्रति विशेषणं भवन्तीति' निरुक्तोक्तेश्च। तदपि अव्ययातिरिक्तं ग्राह्यम्। 'नामाख्यातोपसर्गनिपाता' इत्यत्र भाष्ये पृथगुपसर्गनिपातग्रहणादित्यन्यत्र विस्तरः।।
-2अध्यवसीयत इति-2।। तथा च निरुक्तभाष्यादिबलेन उत्सर्गस्य त्याग इति भाः। वक्ष्यते चाधिकमुपरिष्टात्।
वचनविरोधमुक्त्वा युक्तिविरोधमप्याह - -2अपि चेति-2।। तमित्यध्याहारे दोषमाह - -2भाष्यसिद्धेति-2।। भाष्यसिद्धलोकिक- एकवाक्यता न स्यादित्यर्थः। 'एकतिङ्वाक्यमि'ति तु शास्त्रीयनिधातादिकार्यमात्रविषयकमिति भावः। एकवाक्यता भङ्गमेवोपपादयति - -2प्रथमान्तेत्यादिना-2 - -01-0-2द्वितीयापत्तेरिति।-2। (L 'द्वितीयापत्ते'रारभ्य अनन्तरपुटे 'समासवादे'ति पर्यन्तं नावलोक्यते)
ननु त्वन्मते दृशिक्रियायां धावनस्यैव विशिष्टमृगस्य तत्र कर्मतासम्बन्धेनान्वयेन द्वितीयापत्तिः। न च 'तण्डुलः पचती'ति प्रयोगवारणाय 'धात्वर्थविशेष्यकनामार्थप्रकारककर्मतासंसर्गकशाब्दबुद्धि प्रति नामोत्तरविभक्तिजन्यकर्मत्वोपस्थितिः कारणमिति' व्युत्पत्तेर्नतयान्वयाबोध इति वाच्यम्। उक्तव्युत्पत्या केवलनामार्थस्य कर्मतया धात्वर्थेऽन्वयानङ्गीकारेऽपि विशिष्टवाक्यार्थस्य नामार्थत्वाभावेन उक्तव्युत्पत्यर्थविषयतया धात्वर्थे तस्य कर्मतयाऽन्वयाङ्गीकारे क्षतिविरहात्। अत एव 'श्रुत्वा ममैतन्माहात्म्यमि'त्यादौ शुभत्वविशिष्टोत्पत्तिरूपवाक्यार्थस्यान्तरेण द्वितीयां कर्मतासम्बन्धेन श्रवणक्रियान्वयः सङ्गच्छत इति चेन्न-
उक्तरीत्या 'शुभ्रस्तण्डुलः पचती'त्यादेरपि शुभ्रत्वविशिष्टतण्डुलरूपवाक्यार्थस्य कर्मतया क्रियान्वयबोधापत्तौ साधुत्वपत्तेः। न चेष्टापत्तिः। 'भीष्मां कटं कुर्वित्या'दौ समाससम्पादनाय विशिष्टस्यैव कर्मत्वमिति द्वितीयपक्षप्रतिपादनपरकर्मधारयप्रकरणस्थभाष्यविरोधापत्तेः। तत्र हि विशिष्टस्य कर्मत्वेऽपि प्रत्येकद्वितीयां विना विशिष्टगतकर्मत्वस्योपपादयितुमशक्यत्वेन द्वितीयान्तयोरेव विशेषणविशेष्ययोः साधुत्वप्रतिपादनात्। विवेचयिष्यते चेदं समासवादे। तस्मात् मृगात् द्वितीयापत्तिर्निर्विन्घा। तस्यान्तु उक्तवाक्यासिद्धिरप्रथमासामानधिकरण्येन शत्रादेः प्रसङ्गात्।
न च 'पचन्देवदत्तः', 'धावन्मृगः तिष्ठती'त्यादौ शत्रादेः दर्शनात् मृगस्य प्रथमान्तत्वेपि कुतो न शत्रादेश इति वाच्यम्।
"लटः शतृशानचावि" (सू 3-2-124) ति योगं विभज्य तत्र वेत्यनुवर्तनेन प्रथमासामानाधिकरण्ये विकल्पेन शत्रादेश विधानात् 'धावति मृग' इत्यस्योपपत्तेः। "अप्रथमा" इत्ययञ्च योगः नित्यार्थः। -01-0तेन तु (L तदेवेति स्पष्टम् भाष्ये।) तव दोषः स्यादेवेति भाष्ये स्पष्टम्।
न च 'धावनानुकूलकृतिमान्मृग' इति वाक्यार्थस्य कर्मत्वेन एतदर्थकवाक्यस्यानामत्वान्न द्वितीयापत्तिः। नापि व्युत्पत्तिविरोधो, व्युत्पत्तेर्नामार्थ -01-0प्रकारकबुद्धिविषयकत्वस्योक्तत्वात्। (L. प्रकारक ------ श्रुत्वा- न दृश्यते।)। 'श्रुत्वा ममैतदित'तिविदिति शङ्क्यम्। धावनक्रियाविशिष्टस्य मृगस्य मृगादनतिरिक्तत्वात्। 'विशिष्टं शुद्धान्नातिरिच्यते' इति न्यायात्। -02-0यत्तु विशिष्टस्य अनतिरिक्तत्वेऽपि विशिष्टकेवलप्रकारतयोर्भेदान्न दोष इति तन्नतयोर्भेदेन प्रकारताघटितव्युत्पत्यविषयतया तथा बोधोपपत्तावपि द्वितीयावारणस्य कर्त्तुमशक्यत्वात्। अत एव नीलत्वविशिष्टस्य घटस्य कर्मत्वविवक्षायां 'नीलं घटं पश्ये'त्यादौ विशेषणविशेष्याभ्यां द्वितीया। अतिरिक्तत्वे त्वत्रैव सा न स्यात्।
न च तवापि मृगीयधावनस्य विशिष्टस्य दर्शनकर्मत्वेन -03-0विशेषणविशेष्ययोरुभयोः (L. विशेषण ---- कर्मत्वात् - न दृश्यते।) कर्मत्वात् विशेष्य धावनस्य कर्मत्वेऽपि तद्वाचकधावतिपदस्य द्वितीयोत्पत्तावयोग्यत्वेऽपि विशेषणस्य मृगस्यापि कर्मत्वात् तद्वाचकस्य प्रातिपदिकत्वाच्च द्वितीयापत्तिरिति वाच्यम्। मृगस्य धावनविशेषणत्वेन तत्प्रयोक्तस्यान्तरङ्गसंस्कारस्य -01-0'प्रथमारूपस्यानिवृत्तेः। (L प्रथमायाः अनिवृत्तेः) तव तु मृगस्य धावनविशेष्यत्वात् दृशौ साक्षाद्विशेषणत्वात् प्रधानकार्यस्यान्तरङ्गादपि बलवत्वस्य "हेतुमति चे" (सू 3-2-26) ति -0क-0सूत्रभाष्यसम्मतत्वेन (म.भा.द्वि.ख.पृ.60.) द्वितीया दुर्वारा। मन्मते 'श्रुत्वा ममैतदि'त्यादौ चार्षत्वान्न द्वितीयेति।
यत्तु 'पश्य मृगो धावती'त्यादिवाक्योत्तरं कर्मत्वोपस्थापकमितिपदमध्याहृत्य सर्वत्र वाक्यार्थकर्मस्थलेऽन्वयबोधः। धावनानुकूलकृतिमन्मृगस्येत्यर्थकर्मत्वे विधेयतयान्वयबोधस्य इत्यर्थकर्मत्वस्य निरूपकतासम्बन्धेन दृशिक्रिययान्वयबोधस्य च निराबाधत्वात्।
न च 'घटमानये'त्यादौ द्वितीयार्थकर्मत्वे उद्देश्यतया क्लृप्तप्रकृत्यर्थान्वयस्स्यादिति, यदाप्यध्याहृतेतिपदेनैव तादृक्शक्यार्थोपस्थितिस्तादृशवाक्यं च तात्पर्यग्राहकमिति पदोत्तर (चेद्वयुत्पत्ति -) भङ्ग इिति वाच्यम्।
विभक्त्युपादाने एव तथा व्युत्पत्तिस्वीकारेणेतिपदसमभिव्याहारे तद्वयुत्पत्तिसंकोचात्। द्वितीयायाश्च कर्मत्वमर्थस्तावतैव विभक्त्यर्थद्वारा नामार्थधात्वर्थान्वयबोधसम्भव इति तदुभयमपि चिन्त्यम्। तथा सति 'तण्डुलः पचति', 'शुभ्रस्तण्डुलः पचती'त्यादावपि सर्वत्रेति पदमध्याहृत्य नामार्थधात्वर्थयोः साक्षादन्वयबोधापत्तौ साधुत्वापत्तिः। प्रथमे क्रियान्वयितावच्छेदकोद्भूतशक्तिमत्वेन कर्मत्वस्येतिपदादनुपस्थित्या तत्क्रियान्वयासम्भवाच्च। अन्यथा घटकर्मत्वमानयेत्यादितोऽपि घटकर्मकेत्यादिबोधापत्तेः। प्रथमायाः कारकविभक्तित्वेन क्रियान्वयनियमान्मृगस्येत्यर्थकर्मत्वेऽन्वयासम्भवाच्च। उक्तव्युत्पत्तिविरोधाच्च। द्वितीये इति - पदोत्तरकर्मद्वितीयानुशासनाभावाच्चेति केचित्। यदपि दृशधातोरेव धावनकर्तृमृगकर्मकदर्शने लक्षणा, निरुक्तवाक्यं तात्पर्यग्रहकमिति तदपि न। निरुक्तार्थे दृशधातोर्लक्षणा, पदान्तरस्य वेत्यत्र विनिगमनाविरहात्।
न च तादात्म्यरुपशक्यसम्बन्धस्य लघुत्वात् द्दशेरेव लक्षणेति वाच्यम्।
एवमपि 'पश्य मृगे धावती'त्यादौ दृशेर्वा लक्षणा, तिप्रत्ययस्य वेति विनिगमनाविरहादनवस्था स्यात्- उभयत्रापि तादात्म्यस्यैव शक्यसम्बन्धत्वात्। 'न विभक्तौ लक्षणे'त्यपि सुब्विभक्तिपरमिति केचित्। यदपि दृशधातोः मृगकर्तृकोत्कृष्टधावनकर्मकदर्शने लक्षणा। 'मृगो धावती'ति वाक्यं तात्पर्यग्राहकम्। अत एव 'जानामि सीता जनकप्रसूता' इत्यादौ न अनिर्वाह इति तदपि न। शक्यार्थघटित - लक्षणायां तात्पर्यग्राहकत्वस्य चित्रग्वादौ चित्रादिपदे क्लुप्तत्वेपि विशेषणविशेष्यभावव्यत्यासेन लक्षणायां तात्पर्यग्राहकत्वस्य त्वन्मतेऽप्यसत्वात्।
न च 'प्राप्तोदको ग्राम' इत्यादौ तद्वयत्यासेन लक्षणायां प्राप्तादिपदं ग्राहक क्लृप्तमिति वाच्यम्।
तत्रापि प्राप्तिकर्तृ - अभिन्नोदककर्मेत्यादि - शक्यार्थ - घटितलक्षणायामेव प्राप्तादिपदस्य तात्पर्यग्राहकताया नव्यतरकैरुक्तप्वात्। तत्र कर्मतानिरूपकत्वस्योदके बाधेऽपि तद्विशेषणीभूतप्राप्तौ पर्यवसानं बोध्यम्। "अनुकरणं चानितिपरमि" (सू. 1-4-62) ति शास्त्रात् अनितिपरस्याप्यनुकरणस्य सद्भावा'न्नरद इत्यबोधि' इत्यादिवत् 'सीता जनक प्रसूते'ति जानामीति ज्ञानानुकरणत्वेनोपपत्तौ लक्षणायाः प्रयोजनाभावाच्च। यदपि -0क-0मैथिलाः (गोकुलनाथोपाध्यायाः - प.वा.र.श्लो.द्वि.16) क्रियाप्राधान्यवादिमते 'प्रयाति पुरुषस्तस्य पादयोरभिवादये'त्यादौ सर्वनाम्नां प्रधानपरामर्शकतया तच्छब्देन प्रधानीभूतप्रयाणादिक्रियापरामर्शेऽन्वयबोधानुपपत्तिः। अस्मन्मते प्रधानभूतपुरुषादिपरामर्शेन अनुपपत्यभावादित्याहुः। तदपि सर्वनाम्नां प्रधानपरामर्शकत्वस्य औत्सर्गिकत्वात्। अत एव
'दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः'। 'चैत्रो ग्रामं गतस्तत्र मैत्रः किं कुरुतेऽधुना' 'चैत्र प्रजावतीयं मे त्वं तस्मै देहि कम्बलमि'त्यादौ तच्छब्दस्य यथाक्रमं राजग्रामभ्रातृपरामर्शकत्वं नानुपपन्नम्। किञ्च तिङन्तोपस्थितक्रियाया असत्वभूतेन सर्वनामपरामर्शयोग्यत्वाभावाद्विशेषणीभूतकर्तुः परामर्शः। विशेषणविशेष्ययोरुभयोः सर्वनामपरामर्शयोग्यत्वे एव सर्वनाम्नां प्रधानपरामर्शकत्वमिति नियमात्। किञ्च परमसिद्धान्ते क्रियाक्रियावतोरभेदात् (क्रियायाः -) कर्तृतादा (त्म्यापन्नत्व-) मानत्वसत्वेन तदसम्भवाभावात्। 'चैत्रेण सुप्यते', 'श्रृणु देवदत्तो गायति', 'ब्राह्मो विवाह आहूय यत् कन्या दीयते स्वयमि'त्यादौ क्रियाविशेष्यकबोधस्य अनापत्यात्वयापि स्वीकाराच्च। -*अध्याहारे ('अध्याहारे'त्यारभ्य 41 पुटे 'इते विवेकतव्यम्' पर्यन्तः ग्रन्थः वडोदरा1मातृकायामस्ति। लण्डन् मातृकास्थः एताद्विषयकः ग्रन्थभागः 41,42 पुट्योः टिप्पण्यामुल्लिखितः।) युक्तिविरोधमप्याह - -2उत्कटेति-2।। यदपि क्रियाप्रकारकापरक्रियाविशेष्यकबोधोच्चारितवाक्यमसाध्वेव। 'पचति भवती'ति भाष्यकृत्प्रयुक्तं "तिङ्ङतिङे" (सू. 8-1-28) ति सूत्रेऽतिङग्रहणात्ज्ञापकात्साध्विति तदपि न। ज्ञापकात् साधुत्वे 'गच्छति भवती'त्यादेरपि साधुत्वापत्तेः।
न च भाष्यप्रयोगात्साधुत्वं, 'पचादयः क्रियाः भवति क्रियायाः कर्त्र्यो भवन्ती'ति भाष्ये बहुवचनादिशब्दोपादानेन गच्छतिभवतीत्यादेः साधुत्वानिवारणात्।
न चैवं 'चन्दन संयोगेन सुखयती'त्यर्थे 'चन्दनं संयुनक्ति सुखयति' नाशाय गच्छतीत्यर्थे 'नश्यति गच्छती'त्यादेरपि साधुत्वापत्तिरिति वाच्यम्। भाष्ये भवति शब्दोपादानेन कर्त्तृशब्दे आदिपदानुपादानेन च 'पश्य मृगे धावती'ति प्रयोगेण च भूभिन्नधात्वर्यनिरूपितकर्तृकर्मशक्त्यन्यकारकत्वेन क्रियायाः क्रियान्वये.़साधुत्वबोधनेनादोषात्। तथा चोक्तम् -
"क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः।
असत्वभूतता तस्या इयमेवावधार्यताम्।।" (वा.प ) इति। 'पचति भूयते' इति तु सत्यभिधाने इष्टमेवेति संक्षेपः। यदपि यद्वा एकेन तिङन्तेन वाक्यार्थं जनयित्वा यत्र द्वितीयेन तिङन्तेन संभूयवाक्यार्थो जन्यते, तत्र द्वितीयान्तत्वादिन तन्त्रम्। अत एव 'नीलो घटः पश्ये'ति न प्रयोगः। तत्र प्रथमं तिङन्तेन वाक्यार्थबोधजननाभावेन द्वितीयान्तत्वापेक्षणात्। 'पस्य मृगो धावती'त्यादौ तु एकतिङन्तेन प्रथमं बोधं जनयित्वा तिङन्तान्तरेण अन्वयबोधजननेन द्वितीयान्तत्वानपेक्षणान्न दोष इति। तदपि न। 'पस्य लक्ष्मण पम्पायां बकः परमधार्मिक' इत्यादेर्विशिष्टगतकर्मत्वविवक्षायां साधुत्वेन तवाभिमतस्यासाधुत्वापत्तेः।
न च तत्राप्यस्तीत्यध्याहारेणैकक्रियान्वयबोध पूर्वकक्रियान्तरान्वयबोधसत्वादुक्तनियमाव्याघात इति वाच्यम्।
तथा सति 'नीलो घटः पश्ये'त्यादेरपि तदध्याहारेण साधुत्वापत्तेः। एकस्यैव प्रयोगस्य पक्षभेदेन साधुत्वासाधुत्वयोः दुर्वचत्वाच्च। यदपि 'अश्वो गच्छत्यानये'त्यादौ आगमनक्रियायामानयनकर्मत्वं बाधितमिति दूषणं, तदपि अश्वगत- कर्मत्वस्य गमनादावुपचारेण क्रियावतोरभेदेन वा परिहरणीयम्। इयमेव 'मार पश्य मृगो धावती'त्यादावपि गतिः। केचित्तु उक्तलक्ष्यद्वये तमित्यद्याहारेण वाक्यभेदमुदाजह्रुः। अन्ये तु 'विधिप्रतिबेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे' इति न्यायेन 'शिखीध्वस्त' इतिवत् विशेष्यबूतगमनधावनयोः क्रिययोः आनयनमारणरूपक्रियाकर्मत्वासम्भवेऽपि तद्विशेषणीभूतकर्त्रेरश्वम्गयोस्तदन्वयः।
न चैवं द्वितीयापत्तिरिति वाच्यम्। शाब्दकर्मत्वान्वयिन्येव द्वितीयाप्रवृत्तेः। अत एव "अरुणेकहायनी" (जै.सू.3-1-6) न्यायेन प्रत्येकं क्रियाबिप्रायेण 'कटोऽपि कर्म भीष्मादयोपि कर्मे'ति भाष्यकृदुक्तिः सङ्गच्छते। अन्यथा विशिष्टस्य कर्मत्वेऽपि आर्थिकप्रत्येककर्मत्वमादाय प्रत्येकं द्वितीयोत्पत्तौ सिद्धायां तदुक्तासङ्गतिः। 'मारय मृगो धावती'त्यत्र अवरोधनानुकूलव्यापारार्थकत्वेन मृद्धातोस्तस्य च धावनेऽबाधादुपपत्तिः। मृगे प्राणवियोगरूपं मारणन्तु आर्थिकं प्रतीयत इत्यप्याहुः। तस्मात् (क. अनभिहिते (सू.2-3-1) म.भा.द्वि.ख.पृ.479.) ज्ञानार्थकधातुसमबिव्याहारे एकक्रियाप्रकारककर्मतासंसर्गकापरक्रियाविशेष्यकबोधः स्वारसिकोऽबाधात्। तद्भिन्नार्थक धातुसमभिव्याहारे तु बाधात्। आरोपाभेदाभ्यां निर्वाह्या यदि प्रयोगाः सन्ति। पस्य लक्ष्मणेत्यादि प्रयोगाणान्त्वनभिधानमेव। यदि तत्सत्तायामाग्रहस्तहर्युक्तरीत्या प्रथमोत्पत्तयेऽस्तीत्यध्याहृत्य निर्वाह्या इति विवेकतव्यम्।



  • अध्याहारे ------- उत्कटेति इति प्रतीकस्य लण्डन् मातृकास्थव्याख्याग्रन्थः इतः पुटद्वाये लिख्यते

-* अध्याहारे युक्तिविरोधमप्याह - -2उत्कटेति-2।। 'पस्य मृगो धावति', 'पश्य मृगो गायती'त्यादावध्याहारेण निर्वाहसम्भवेऽपि 'श्रृणु देवदत्तो गायती'त्यादौ तु अगतिरेव तवेत्यपि विज्ञेयम्।
ननु 'मार म-गो धावती'त्यादौ मृ धातौः प्राणवियोगानुकूलव्यापारार्थकत्वात् प्राणवियोगरूपस्य च फस्य धावनक्रियायां बाधात् कथमन्तराध्याहारमुपपत्तिरिति चेदगत्याध्याहारेण कर्तरि मृगे तदन्वयः। ननु तथापि द्वितीयापत्तिरिति चेन्न। कर्मताया मृगेऽशाब्दत्वात्। शाब्दस्तदन्वयस्तु तत्क्रियायामेवार्थस्तु तत्कर्तरि मृगे। शास्त्रं तु शाब्दकर्मत्वान्वयिन्येव प्रवर्तते। अत एव 'अरुणैकहायनी' (जै.सू. 3-1-6) न्यायेन प्रत्येकं क्रियान्वयाभिप्रायेण 'कटोऽपि कर्म भीष्मादयोऽपि कर्मे'ति बाष्यकृदुक्तिः सङ्गच्छते। तदाश्रयक्रियावाचकस्य चाप्रातिपदिकत्वान्नद्वितीया। भाष्योक्तैकवाक्यता च सिद्धा। यद्वा धातूनामनेकार्थत्वात् मृधातोरवकुट्टनानुकूलव्यापारार्थकत्वेनावकुट्टनस्य च क्रियायामवधित्वेनादोषात्। मृगे तु मारणं प्राणवियोगरूपमनन्तरमार्थिकं प्रतीयत इति।
-2अनन्वयापत्तेश्चेति-2।। दृशिक्रियाकर्मत्वेन प्रतिपिपादयिषितधावनक्रियायास्तमितित पुल्लिङ्गेन प्रधानपरामर्शकेन अपरामर्शादित्यर्थस्तमित्यध्याहारेपि तथैव सर्वनाम्नाप्रधानपरामर्शित्वादिति।
फले कर्तुरन्वयवारणायाह - -2भावनाप्रकारकेति-2।। -2बावनात्वावच्छिन्नेति-2।। पाचक इत्यादि विषयम्। -2धात्वर्थभावनेति-2।। भावनाप्रकारकबोधं प्रति इत्येतदनुकृष्यते। तत्प्रयोजनमाह - -2पश्येत्यादि-2 - -2दिगिति-2।। -01-0 किं क्रियाप्रधानं (L. 'किमा'रभ्य 'क्रियाप्राधान्ये'ति पर्यन्तं नावलोक्यते।) किं द्रव्यप्रधानमिति' प्रश्ने 'रमते ब्राह्मणकुलमि'ति क्रियाप्रधानमिति "ह्रस्वो नपुंसके" (सू. 1-2-47) ति -0क-0सूत्रस्थभाष्यमपि (म.बा.प्र.ख.पृ.53) क्रियाप्राधान्ये साधकं बोध्यम्।
-2या विक्लत्तिस्तदनुकूलेति-2 - अत एव 'हरिः सेव्यते' इत्यत्राप्येवमेवेति कारके -0ख-0दीक्षिताः। (वै.सि.कौ.प्र.भा.पृ.410) वस्तुत एकाक्षयिका या वर्तमाना भावना तज्जन्यैकतण्डुलाश्रयिका विक्लित्तिरिति फलविशेष्यक एव 'तण्डुलः पच्यते' इत्यादौ बोधः। 'पक्वस्तण्डुल' इत्यादौ फलस्य विशेष्यताया त्वयापि अवश्यवक्तव्यत्वात्। अन्यथा प्रत्ययार्थे साक्षात् प्रकृत्यर्थविशेषान्वयित्वस्य सर्वत्र क्लृप्तस्य त्यागापत्तेः। अन्वयित्वञ्च 'पच्यते' इत्यादौ विशेष्यतया, 'पक्व' इत्यादौ विशेषणतया बोध्यम्। अत एव 'इष्यते पुत्र' इत्यर्थे 'पुत्रीयति' इति न प्रयोगो भिन्नार्थत्वात् किन्तु 'पुत्रमिच्छती'त्यर्थे एव। 'पुत्रीये'ति क्यजन्तात् कर्मणि प्रत्ययस्तु नाकर्मकत्वादिति "सुप आत्मन" (सू. 3-1-8) इत्यत्र -0क-0भष्ये (म.भा.द्वि.ख.पृ.36.) उक्तम्। अन्यथा उभयत्रापि पुत्रकर्मकेच्छानुकूलो व्यापार इति भोधेन भिन्नार्थत्वकथनासङ्गतिः स्यात। इच्छानुकूलो व्यापारश्चात्ममनस्संयोगादिरेव। अस्मिन्मते चैकत्र व्यापारो विशेष्योऽपरत्र फलमिति भिन्नार्थत्वं स्पष्टमेव। -0ख -0कैयटोप्याह (म.भा.द्वि.ख.पृ.37) - यदाक्रियाफलस्य प्राधान्यं तदा वाक्यमेव 'इष्टः पुत्र', 'इष्यते पुत्र' इति न तु क्यजन्तमिति। अत एव फलावच्छिन्ने व्यापारे, व्यापाराव्चछिन्ने फले च धातोर्द्वयी श्कतिरित्यवोचामेति दिक्।
।।-2आख्यातार्थकर्त्रादिभिस्तदर्थस्येति-2।। ननु धात्वर्थविशेषणतया बोधविषये कर्त्रादौ 'पदार्थः पदार्थे'ति न्यायेन कतं चैत्रादेर्विशेषणतयाऽन्वय इति चेन्न कर्तृत्वेन सामान्यरूपस्यार्थस्य नियमेव विशेषाकाङ्क्षाबलाद्विशेषणभूतेनापि तेन विशेषणतया तदन्वयात्। यथा नियताकाङ्क्षावशादेव 'चैत्रेण गतो ग्राम' इत्यादौ विशेषणभूतक्रियायां कारकान्वयः तद्वत्।
ननु ध्वंसात्मकनाशरूपव्यापारस्य जन्यत्वेपि अविनाशित्वेन -01 -0नित्यत्वान्नश्यतीति (L. 'नश्यतीति' आरभ्य 'व्यापारस्य' पर्यन्तं न दृस्यते।) प्रयोगापत्तिरत आह --2घटो नस्यतीति-2।। तस्य नित्यत्वे.़पि तदनुकूलव्यापारस्यानित्यत्वान्न सर्वदा तत्प्रयोग इति भावः।
ननु नाशसाग्री नाशोत्पादको व्यापारस्तस्य घटादावभावात् घटादेः कर्तृत्वनापत्तिर्नशरूपफलाश्रयत्वेन च घटस्य कर्मत्वसत्वात्सकर्मकत्वापत्तिश्च, घटे द्वितीयापत्तेश्चात आह - -2प्रतियोगित्वविशिष्टेति-2 - सामानाधिकरण्यसम्बन्धेन प्रतियोगित्वविशिष्टेत्यर्थः। सा च घटे एवेति भावः। यद्यपि प्रागभाववत् ध्वंसोऽपि कपालाद्यवयववृत्तिरेव न घटादिवृत्तिः, तथापि प्रतियोगित्वव्यापारो घटादावस्त्येवेति भावः।। -2अत एव-2।। व्यापाराङ्गीकारादेव। -2तदत्यये-2 - नाशस्य सामग्रीरूपव्यापारात्मकविशेषणविरहप्रसक्त एव विशिष्टाभाव इत्यर्थः। क्वचित् व्यवधानानुकूलव्यापारेपि नशधातोः शक्तिः। यथा 'हतं नष्टञ्चलभ्यते' इत्यादौ। वस्तुत उभयत्र शक्तिस्वीकारे गौरवात् नाशानुकूले व्यापारे एव शक्तिः। नाशो ध्कंसः। स च तिरोभावावस्था। प्रागभावोपि कारणे शक्तिरूपेणावस्थानम्। सत्कार्यवादाभ्युपगमात्। निरूपयिष्यते चेदमुपरिष्टात्। ततश्चोक्तप्रयोगे उक्तार्थकत्वास्वीकारेपि नाशधातोर्नदोषः।। -2ज्ञानेच्छादीति-2।। अत्र कलतावच्छेदकः सम्बन्धो विषयता, न समवायः। तथात्वे फलव्यापारयोरेकनिष्ठत्वादकर्मत्वेन 'देवदत्तो घटं जानाती'ति प्रयोगानापत्तेः।
नन्वात्ममनस्संयोगरूपस्य ज्ञानाद्यनुकूलव्यापारस्यास्मदादौ सत्वेऽपि ईश्वरोपज्ञानादेर्नित्‌यत्वेने - श्वरेऽभावा'दीश्वरो जानाती' प्रयोगानापत्तिरित्यत आह - -2अन्तत आश्रयतैवेति-2।। इष धातोरिच्छानुकूलो व्यापारो़र्थः - स च ज्ञानमिति केचत्। तन्न ईश्वरेच्छायास्तज्ज्ञानवन्नित्यत्वेन 'ईश्वर इच्छती'त्यनापत्तेः। -01-0अतीतानागतयोरपि (L.'अतीत' आरभ्य 'सम्भवति' पर्यन्तं नावलोक्यते।) बुद्ध्युपारोहात्फलशालित्वम्। यद्यपि व्यापारसमुदायत्वरूपक्रियात्वमाश्रयतायां न सम्भवति, तथापि तात्कालिकानां राज्ञां क्रियेत्यादि वक्ष्यमाणरीत्याऽत्राप्यारेपेण बोध्यम्। यद्वोक्तरीत्या़धिष्ठानकालबेदमाश्रयतारूपव्यापारे आरोप्य क्रियात्वं बोध्यम्।।2।।
(भू.सा.धा.नि.3)
-2उभयबोधापत्तिरिति-2।। कर्मण उक्तत्वात् 'ओदनं पचती'त्यादौ द्वितीयानापत्तिरित्यपि नोध्यम्। न चैकस्मात् विरोधान्नोभयबोधापत्तिरत पर्यायेणतामाह -
-2कर्तृमात्रेति-2।। -2तङादय इति-2।।
"भावकर्मणोरि" (सू. 1-3-13) ति विहितस्तङ्ग्राह्यः। तेन 'एधते', 'निविशते' इत्यादौ नातिप्रसङ्गः। -01-0यद्यपि (L. 'यद्यपि' --------- द्योतकत्वाभावात् - न दृश्यते।) शत्राद्यभावेऽपि लिङादौ कर्तुर्बोधोगच्छेत्यादौ च तिबाद्यभावेऽपि, तथाप्य'बोधी'त्यादौ चिणादेः कर्मद्योतकत्वाभावात् यो़ऽन्वयव्यभिचारस्तदुद्धारस्योत्सर्गोयमित्यादि - मूलोक्तस्यात्र व्यतिरेकव्यभिचारविषयेऽप्यङ्गीकारान्न दोषः।
यक्चिणादीनामपि क्वचित्फलाश्रयद्योतकत्वं नास्तीत्याशङ्कते - -2नन्वेवमिति-2।। -2पाकानुकूल इति-2।। यदा
सकर्मकाणामपि सौकर्यातिशयविवक्षया कर्तृव्यापारत्यागेफलसमानाधिकरणव्यापारपरत्वेन कर्मण एव कर्तृत्वविवक्षयाकर्मकत्वं तदा कर्मस्थक्रियकाणां पच्यादीनां ल वाच्यकर्तुः कर्मवद्भावेन यगादौ 'पच्यते ओदनः स्वयमेव' इति प्रयोगः। वस्तुतः फलपरत्वमात्रेणैव कर्मणः कर्तृत्वविवक्षायामकर्मकत्वं बोध्यम्। स्वयमेवेति तु कर्त्रन्तरनिवृत्तौ तात्पर्यग्राहकम्। 'पच्यते' इत्यस्य च विक्लिदयत इत्यर्थः। कर्तृस्थक्रियकाणान्तु 'पश्यति' ज्ञानविषयो भवतीत्यर्थः। कर्मस्थक्रियकत्वाभावेन कर्मवद्भावाभावान्नयगादिः।
न चैकस्य धातोः स्वार्थत्यागपूर्वकम् अर्थान्तरवृत्तौ शब्दार्थसम्बन्धनित्यताहानिरिति वाच्यम्। धात्वन्तरत्वात्। 'डुपचष्पाके' इत्याद्यर्थनिर्देशस्त, तन्त्रेण निर्देशः। तदुक्तम्
"एकदेशे समूहे च व्यापाराणां पचादयः।
-0क -0स्वभावतः प्रवर्तन्त तुल्यरूपं समाश्रिताः।।" (स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः - साधनसमुच्चयः। तृ.का.भा.सा.स. श्लो. 58) (वा.प.सा.स.58) इति। भावार्थलकारे तु भावनैव विशेष्या। तिङ्त्वनुवादक एव। कालद्योतकश्च। क्रियायाः सङ्ख्यायोग्येति मत्वौत्सर्गिकमेकवचनम्। सङ्ख्यान्वयि कर्तृकर्मणोः शब्दतः प्रतीतेर्नतद्गतायाः तस्याः आरोपः। अत एव मध्यमोत्तमावपि न, तिङ्समानाधिकरणयुष्मदाद्यभावादित्याद्दः।तन्नयुक्तम्। क्रियायाः स्वत एकत्वात्। अत ए अव्ययेब्यः सङ्ख्याभावाद्वचनानुपपत्तिमशङ्क्यौत्सर्गिकमेकवचनम् उक्तं भाष्ये। न तु -01-0भावार्थेभ्योऽपि (L. भावार्थेपि) तदनुत्पत्तिमाशङ्क्य तथोक्तमिति।
ननु भावे प्रथमपुरुषोऽपि न स्यात्, तस्यापिशेषे नियमत्वादिति चेन्न।
शेषे इत पदं त्यक्त्वा प्रथमस्योत्सर्गताया उक्तत्वेनादोषात्। अतवा सूत्रे -0क-0'शेषे' (शेषे = शेषे प्रथमः (सू. 1-4-108)) इति शेषाशेषयोः शेषस्यैकदेशस्यानुवाद इत्यन्यत्र विस्तरः।।3।।
(भू.सा.धा.नि-4)
।।-2बोध इति-2।। कर्मण एव कर्तृत्वात्, व्यापाराश्रयत्वात्।।
-2सामान्यविशेषज्ञानेति-2।। -0ख -0"तच्चयस्त्विषामि"त्यादि (शिशुपालवधम् प्रथमः सर्गः, तृतीयः श्लोकः) पूर्वपद्योक्तम्।। -2सकर्मकेति-2।। तेन अकर्मकधातुसमभिव्याहृतस्य शास्त्रातिदेशपक्षे 'पच्यते ओदनः स्वयमेव', 'शय्यते' इत्यादि प्रयोगस्थस्य यगादेर्निरासः। भावसाधारणेत्यादिविशेषणस्य च उपादानमबोधीति कर्तृलुङ्समभिव्याहृत "दीपजन" (सू. 3-1-61) इतिविहितचिण्वारणाय।।4।।
(भू.सा.धा.नि -5)
-2प्राभाकरादीन्प्रतीति-2।। तन्मते फलमेव धात्वर्यः। भावना तु न कस्यापि वाच्या। शाब्दबोधस्य तदविषयकत्वात्। लिङयेव सा, आख्यातवाच्या। 'क्रियाप्रधानमाख्यातमि' (नि.अ.1.पा.1.खं.1.) त्यस्य लिङ्विषयकत्वमेव। तत्रैव क्रियायाः विशेष्यतया बोधात्। पचतीत्यस्य 'पाकं करोती'ति विवरणमपि अशब्दार्थकर्मविवरणतदशब्दार्थसम्बन्धघटककृतिविवरणमेव। 'पचति चैत्र' इत्येतत्पदजन्यबोधे धात्वर्थस्य पाकस्य स्वानुकूलकृतिसम्बन्धेन चैत्रे विशेषणत्वादिति नैतद्विवरणमपि तद्वाच्यत्वसाधकम्। धात्वर्थप्रकारकशाब्दबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकारणभावः। कारकाणामपि धात्वर्थे फले एव सम्बन्धस्तु यथायथमूहयः। आक्यातार्थश्च सङ्ख्याकालविति। प्राभाकरादीनित्यादि शब्दग्राह्याश्चाख्यातत्वेन सकलाख्यातस्य भावनावाचकत्ववादिनो भाट्टास्ते हि धातुना सिद्धो भावो यागत्यागादिरूपमुच्यते। तद्गतं साध्यत्वं तु तत्राख्यातेनोच्यते इत्याख्यातार्थः भावना। यदाहुः -
-0क -0"धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते। (तन्त्रवार्तिकम् (अ.2. पा.1. सू.1.))
तथापि सर्वसामान्यरूपेणैवाभिधीयते।।" इति यत्न एव च बावना। 'पचती'त्यास्य 'पाके यतते' इतिप्रतीतेः यत्नस्य धात्वर्थत्वाभावात्। 'रथोगच्छती'त्यादौ चाश्रयतारूपैव भावना। तस्याश्च साध्यतारूपत्वेन भानस्य 'पर्वताः सन्ती'त्यादौ वश्रक्ष्यमाणरीत्या शाब्दिकैरपि स्वीकारात्। सैवेयमरथभावनेत्युच्यते इति वदन्ति। तान्दूषयितुमाह -
।।-2व्यापारो भावनेत्यादि-2।। धातवर्थस्य सिद्धरूपत्वाबावाद्वयापार एव भावनेति भावः। यद्यपि भावना सकर्मिकैव, क्रियात्वकर्मिका अपि इति भेदस्तथापि साध्यत्वविशेषात् भावनाक्रिययोरबेदः। -2अयत्नानां -2फलबिन्नानाम्। भाषशब्देन यत्नस्यैव तन्त्रान्तरे प्रसिद्धतया फूत्कारादीनां सङ्ग्रहार्थं व्यापार इत्युक्तिरिति भावः। नैय्यायिकरीत्याऽऽशङ्कते -
-2न चैवमिति-2।। आपत्येत्येतदनन्तरं कृतेराख्यातार्थत्वं स्वीकृत्येति शेषः। तेन न नैय्यायिकमतव्याघातः। अत एव वक्ष्यति - -2नैय्यायिकरीतिति-2 अथवा मतपदानुक्त्या रीतिपदोक्त्या च तावन्मात्रं वैषम्यम् अङ्गीकृत्यैव इयमाशङ्केति ध्वनितम्। यद्वा फानुकूलो यत्नो धात्वर्थ इति तार्किकैकदेशिमतेनेदमिति बोध्यम्। -2रथो गच्छतीति-2।। गमनानुकूलकृतेरचेतने रथे बाधात्। जानातीत्यादौ ज्ञानेच्छाकृतीनां क्रमिकत्वस्वीकारात् कृतेः ज्ञानजनकत्वाभावाच्चानुकूलव्यापारे लक्षणेति भावः।
-2शक्यतावच्छेदकत्वस्यापीति-2 - अस्मिन्मते आख्यातस्य कर्तरि शक्तौ व्यापाररूपं कर्तृत्वं शक्यतावच्छेदकम्। तव तु 'रथो गच्छती'त्यादौ तल्लक्ष्यतावच्छेदकमिति भावः।. -2गुरुणीति-2।। तथा च 'सम्भवति लघौ अकच्छेदकत्वे गुरौ तदभाव' इति नियमः कारणतावच्छेदकत्वादिपर एव नैतत्पर इति भावः। -2करोतिना-2 कृञ् धातुना।। -2असिद्धेरिति-2।। एव "भूवादि" (सू. 1-3-1) सूत्रे -0क -0'क्रियावचनो धातुरि'ति (म.भा.द्वि.ख.पृ.144-116. क्रियावचनो धातुः यदेतेषां करोतिना सामानाधिकरण्यम्। किं करोति- पचति किं करिष्यति- पक्ष्यति किमकार्षीद् - अपाक्षीद् इति।।) न्यासे 'कथं ज्ञायते क्रियावचना पचादय' इत्याशङ्क्य 'यदेषां सामानाधिकरण्यं किं करोति पचती'त्युक्तम्। तथा च अस्माद्भाष्यात्स्पष्टमेव कृञो व्यापारसामान्यवाचित्वं लभ्यते।
न च कर्तुराख्यातार्थत्ववादिमते आख्यातार्थाश्रयप्रकारकबोधं प्रति प्रथमान्तपदजन्योपस्थितिर्हेतुः तदर्थसङ्ख्याप्रकारकबोधे तदर्थाश्रयज्ञानं हेतुस्तदर्थकालप्रकारकबाधे धातुजन्योपस्थितिर्हेतुरित्यनेककार्यकारणभावस्वीकारः। कृत्यर्थकतावादिमते तु कालेष्ठसाधनत्वाद्यतिरिक्ताख्यातार्थप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति सङ्ख्याबावनयोरेक एवेति लाधवमिति वाच्यम्।
आख्यातत्वाद्यजानत ईदृशकार्यकारणभावग्रहासम्भवात्। किं च क्वचित् कृतिबोधं प्रति आख्यातजन्योपस्थितिर्हेतुः क्वचिदाश्रयबोधं प्रति आख्यातजन्योपस्थितिर्हेतुः, क्वचित् तत्रैव प्रत्ययजन्योपस्थितिर्हेतुरित्यनन्तकार्यकारणभावापत्तेः।
यदपि 'रथो गच्छती'त्यादावाश्रयत्वे लक्षणेति तदपि न गमननिरूपिताश्रयत्वे रथनिष्ठेन कृतेः सम्बन्धाबावात्। परम्परासम्बन्धस्य तु लक्षणानियामकत्वाभावात्। तत्सम्बन्धज्ञानपूर्वकबोधस्याननुभवाच्च। अर्थनिर्देशवैग्यर्थ्यापत्या व्यत्ययानुशासनवैय्यार्थापत्याच विभक्तौ लक्षणानौचित्याच्च। तदुच्यते - 'न विभक्तौ लक्षणे'ति। यत्तु 'सुब्विभक्तौ न लक्षणे'ति - तन्न। संकोचे मानाबावादुक्तनियामकस्य सुप्तिङ्विभक्तिसाधारण्यादिति दिक्। एवं नैय्यायिकमतं निराकृत्य कर्तुः गुणतया तद्दे (देकदे-) शिमतसाधारणमिश्रमतं निराकरोति - -2किं चेति-2।। -2भावनायाः-2 व्यापारस्य, -2अवाच्यत्वे-2 = धात्ववाच्यत्वे। फलमात्रं धात्वर्थो, बावना आख्यातार्थ इति हि तन्मतम्। तथा च 'घटं भावयती'त्यादौ णिजर्थव्यापारजन्योत्पतितिरूपधात्वर्थफलाश्रयत्वात् घटे द्वितीयोत्पत्तिवदाख्यातार्थव्यापारजन्योत्पत्तिरूपधात्वर्थफलशालित्वात् 'घटो भवती'त्यादावपि द्वितीयापत्तिः। मन्मते तु धात्वर्थव्यापाराश्रयत्वेन परया कर्तृसंज्ञया बाधात् न द्वितीया, एषैव सकर्मकेषु सर्वत्रगतिः। -2अनुगतकर्तृत्वस्येति-2।। अस्मन्मते प्रकृतधातूपात्तप्रधानीभूतव्यापाराश्रयत्वस्यैवेत्यर्थः।। -2करकमात्रातिव्यापकत्वादिति-2।। अन्यथा सौकर्यातिशयद्योतनाय काष्ठस्थाल्यादेर्व्यापाराश्रयत्व विवक्षायां 'काष्टं स्थाली वा पचती'ति प्रयोगानापत्तिरिति भावः।
नन्वाक्यातार्थव्यापाराश्रयत्वं तत्। 'घटोभवती'त्यादौ च तदाश्रयत्वेन कर्तृसंज्ञया बाधान्न द्वितीया। न च बवतीत्यादौ करोतिना विवरणाभावान्नाक्यातस्य बावनावाचकत्वमिति मीमांसकोक्तेः कथं -01 -0तदाश्रयत्वेन (L. 'तदाश्रयत्वेन' आरभ्य 'सिद्धम्' पर्यन्तं न दृश्यते।) कर्तृत्वमिति वाच्यम्। एवमप्यत्राख्यातस्याश्रयमात्रपरत्वेन धातोरेव फलसामानाधिकरणव्यातस्याश्रयमात्रपरत्वेन कर्तृत्वमिति वाच्यम्। एवमप्यत्राख्यातस्याश्रयमात्रपरत्वेन धातोरेव फलसामानाधिकरणव्यापारवाचकत्वेनाकर्मकत्वं सिद्धम्। तदाश्रयत्वेन कर्तृत्वान्न द्वितीयेति। 'आटं बावयती'त्यादौ च णिजर्थव्यापाख्यधिकरणधात्वर्थ फलाश्रयत्वाद्वितीया। न चात्रैव हेतुमति चे (सू. 3-1-26) ति शास्त्रबलात् प्रयोजकव्यापाराश्रयत्वेन कर्तृत्वात् परत्वात् तृतीयापत्तिरिति वाच्यम्। णिच्समभिव्याहारे फलासमानाधिकरणाख्यातार्थव्यापाराश्रयत्वस्यैव तत्वमित्याशयादिति चेन्न-
आख्यातार्थव्यापाराश्रयत्वमित्यत्र णिच्सन्निधाने किं प्रायोजकनिष्ठव्यापारस्याख्यातार्थत्वं विवक्षितमुत प्रयोज्यष्ठव्यापारस्य- नाद्यः। 'पाचयति देवदत्तो विष्णुमित्रेणे'त्यादौ विष्णुमित्रस्य प्रयोज्यस्याकर्तृतापत्तौ कर्तरि तृतीयानापत्तेः। णिचा तस्योक्तत्वेन पुनराख्यातार्थत्वे मानाबावाच्च।
न च णिचो द्योतकत्वमिति वाच्यम्। द्योत्यार्थस्य विशेषणत्वापत्तौ दोषस्य वक्ष्यमाणत्वात्। घटं भावयतीत्यादौ घटे
कर्तृतायास्तावन्मात्रेणैव वारणेन फलासमानाधिकरणेति विशेषणवैययर्थ्पापत्तेश्च। नान्त्यः 'घटं भावयती'त्यादावुक्तविशेषणदानेन दोषवारणेपि 'गुरुः शिष्याभ्यां पाचयती'त्यादौ सङ्ख्यायाः स्ववाचकाख्यातार्थव्यापारान्वयिन्येवान्वयनियमेन 'शिष्याभ्यामि'ति द्विवचनानापत्तिः। 'पाचयती'त्येकवचनानापत्तिश्च। गुरोरनभिधानेन तत्र प्रथमानापत्तिश्च। शिष्यशब्दात् प्रथमापत्तिश्च। विशेषणदाने गौरवं च। मन्मते तु णिचौ वाचकत्वात्, प्रधानीभूतणिजन्तधात्वर्थव्यापाराश्रयत्वस्य प्रयोजके सत्वात् तस्य कर्तृत्वं, तस्य च तिपाऽभिधानान्न प्रयोजकात् तृतीया। -01-0प्रयोज्यस्य (L. प्रयोज्यस्य ----- तृतीया - न दृश्यते) तु धातुभेदात् णिच्प्रकृतिपचधात्वर्थप्रधानीभूतव्यापाराश्रयत्वात्कर्तृत्वं तस्य च तिपाऽनभिधानात्तृतीया। एवमेव 'घटं बावयती'त्यादौ। परमकर्मकत्वन भूधातोः "गातिबुद्धि" (सू.1-4-52) इत्यनेन द्वितीयेति विशेषः।
न च णिचः प्रेरणाद्योतकत्वेन द्योत्यस्य विशेषणत्वेन कतं ण्यन्तधात्वर्थप्रधानीभूतप्रवर्तनारूपव्यापाराश्रयत्वेन प्रयोजककर्तृत्वेमिति वाच्यम्।
भाष्यप्रामाण्येन णिचो वाचकतया तदर्थस्य विशेष्यत्वात्। अन्यथा तदाश्रयस्य कर्तृत्वानापत्तौ ण्यन्तात्प्रयोजककर्तरि लाद्यनापत्तिः। द्योत्यस्य विशेषणत्वमेवेति नियममनङ्गीकृत्य द्योत्यत्वेऽपि विशेष्यत्वाङ्गीकारे 'गमितौ ग्रामं देवद्तो यज्ञदत्तेने'त्यादौ प्रयोजकव्यापारस्य गमिवाच्यत्वात्प्राधान्येन गत्यर्थत्वाच्च प्रयोजककर्तरि क्तस्यापत्तिः। 'पाचयति देवदत्तः चैत्रेण' इत्यादौ प्राधानीबूतव्यापारानाश्रयत्वेन प्रयोज्यस्य कर्तृत्वानापत्तिश्चेत्यलम्। -2अवाच्यत्वे-2 = धात्ववाच्यत्वे। -2स्वार्थेति-2 = व्यापारस्य धातुवाच्यत्वाभावादिति भावः। -01-0विनिगमनाविरहादाह (L. विनिगमनेत्यारभ्य अपरपुटे विक्षेपादि पर्यन्तं न दृश्यते।) - -2स्वार्थव्यापारेति-2।।
न च 'देवदत्तो जीवति' नृत्यती'त्यादावतिव्याप्तिः। व्यापारव्यधिकरणप्राणधारणगात्रविक्षेपादिरूपफलवाचित्वादिति वाच्यम्।
फलाश्रयावाचकत्वे सतीति विशेषणात्। तेषां प्राणगात्रादिरूपफलाश्रयवाचकत्वात्। न चाविवक्षितकर्मस्वतिव्याप्तिः। अविवक्षाविरहविशिष्टत्वेन फलस्य विशेषणात्। -01-0तेषां (L. तेषां ----- वाचकत्वात् - न दृश्यते।) प्राणगात्रादिरूपफलाश्रयवाचकत्वात्। स्वदत्वनिवेशने यद्यप्यननुगमस्तथापि यं कञ्चनैकं सकर्मकं स्वशब्देनोपादाय सकर्मकत्वव्यवहारः कार्य इत्यदोषः। वस्तुत एतद्वारणाय फलाश्रयावाचकत्वे सतीति विशेषणदाने गौरवम्। अविवक्षाविरहविशिष्टत्वेन फलविशेषणमपि दुष्टं गौरवात्। अर्थभेदेपि शब्दैक्यमिति मते विशेषणदानेपि 'घटं करोती'त्यादौ क्वचिदविवक्षाविरहविशिष्टफलावाचकत्वे प्रत्यभिज्ञया कर्मणो विवक्षादशायामपि अतिव्याप्तेश्च। यदात्वर्थभेदाच्छब्दबेद -02-0इति (L. इति -------- भिन्न - न दृश्यते।) मते स धातुर्भिन्न एवेत्युच्यते, तदा विशेषणदानं व्यर्थमेवार्थान्तरवृत्तित्वेनैवाकर्मकत्वात्। एतेन अविवक्षितकर्मसु पलनियमात् तदर्थातिरिक्ता एव धातवा इत्यपास्तम्। "धतोरर्थान्तरे वृत्तेः" इत्याद्यभियुक्तोक्तकारिकायामविवक्षात इत्यस्य पृथगुपादानवैय्यर्थ्याच्च। धातोरर्थान्तरे वृत्तेः इत्यनेनैवाकर्मकत्वसम्पत्तेः।
नन्वेतस्य लक्षणस्य दुष्टत्वे किं तल्लक्षणमिति चेन्न। -01-0अन्यादृशस्य (L. "अन्यादृशस्य" आरभ्य) "फलव्यापारयोरेके" (वै.सि.का.13) ति कारिकायामग्रे वक्ष्यमाणत्वादिति गृहाण।
-2अन्यतमत्वमिति-2 - सकर्मकधातून् तत्तद्व्यक्तित्वेन उपादाय तत्द्भिन्नभिन्नत्वरूपमन्यतमत्वं सकर्मकत्वं वाच्यमित्यर्थः। -2एकस्यैवेति-2।। यथा स्वद् धातुः स्थैर्येऽकर्मको हिंसायां सकर्मको दृष्टः। एतत् पक्षे चोभयत्राप्यर्थे सकर्मकतापत्तिः स्यादित्यर्थविशेषान्तर्भावेणैव सकर्मकत्वाकर्मकत्वे निर्वक्तव्ये इति बोध्यम्।।
-2अकर्मकता सकर्मकता वा स्यादिति-2।। -2व्यापारस्य-2 (धात्वा)-2वाच्यत्वेति-2।। उक्तसकर्मकाकर्मकलक्षणयोः स्वार्थत्वघटितत्वासम्भवेन व्यापाक्यधिकरणफलवाचकत्वव्यापारसमानादिकरणफलवाचकत्वयोरेव तत्वेन यं कञ्चिदेव व्यापारमादाय सर्वस्यापि धात्वर्थफलस्य सत्वेन सर्वेषां धातूनामुभयविधत्वापत्तिरित्यर्थः। एवमथवेति वक्ष्यमाणे फलस्य धात्ववाच्यत्वकल्पनेपि स्वार्थत्वाद्यघटितफलसमानाधिकरणव्यापारवाचकत्वफलव्यधिकरणव्यापारवाचकत्वरूपयोरेव तयोः सम्भवेनोक्तरीत्य यत्किञ्चित्फलमादाय धात्वर्थव्यापारस्य तथा व्याख्यातम् मूलमिदानीं केवलव्यापारवाचकतानिराकरणपरतया व्याचष्टे -
-2अथवेति - तत् - वाच्यत्वे - व्यापार एवेति-2।।
कर्मणः प्रकृत्यर्थस्य वृत्तिमत्सम्बन्धेन फले अन्वय इति तन्मतमिति भावः।। -2उच्छेदापत्तिरिति-2।। फलस्य धात्वर्थत्वाभावातिति भावः।। -2भाक्त इति-2।। भक्त्या = लक्षणया कृतो भाक्तो गौण इत्यर्थः। नैय्यायिकमते सविषयार्थकधातुयोगे विषषयत्वं द्वितीयार्थः। सविषयार्थ कत्वमेव गौणसकर्मकत्वमिति भावः।
-2यत्नमात्रमिति-2।। व्यापारस्थानीयत्वेनेति शेषः।।5।।
(भू.सा.धा.नि -6)
-2युक्त्यन्तरमिति-2।।सकर्मकाकर्मकविभागोच्छेदरूपयुक्त्यपेक्षयाऽन्यां युक्तिमित्यर्थः।। -2अन्यथा-2 = फलमात्रवाचकत्वे -2तन्न स्यादिति-2।। कर्मस्थभावकाद्यगादिविधेः। कर्मावस्थायां या क्रिया कर्त्रर्थ (वः) स्थायां सैव चेदेव यगादयो भवन्ति। कृतिश्च न घटादि कर्मनिष्ठेति भावः।। -2दर्शनस्य घटावृत्तित्वादिति-2।। समवायसम्बन्धेनेत्यभिमानः। वस्तुतो विशयतासमवायाभ्यां ज्ञानस्योभयवृत्तित्वात्कर्तृस्थक्रियकत्वेन कर्मवद्भावनापत्या न तथा प्रयोग इत्यग्रे वक्ष्यामः।। 6 ।।
(भू.सा.धा.नि -7)
-2निर्वर्त्यमिति - वक्ष्यते इति-2।।
यदसज्जायते सद्वा जन्मना यत्प्रकाशते।
तन्निर्वर्त्यं विकार्यं तु (च) द्वेधा कर्म व्यवस्थितम्।। (वा.प.III. I सा. 49)
प्रकृत्युच्छेदसम्भूतं किंचित् काष्टादि भस्मवम्।
किंचित् गुणान्तरोप्यत्या सुवर्णादिविकारवत्।। (वा.प.III.I. सा. 50)
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते।। (वा.प.III.I. सा. 51)
इति वाक्यपदीयोक्तानि तल्लक्षणानि। 'घटं करोति' 'सोमं सुनोति', 'रूपं पश्यती'त्यादीनि उदीहरणानि च वक्ष्यन्ते इत्यर्थः। -2क्रियाकृतेति-2।। यथा हि पाकादिभिस्तण्डुलादौ विशेषो भवति नैवं गमनादिना ग्रामादावित्येतत् सप्रपञ्चं सुनर्थनिर्णये वक्ष्यामः।।
-2उपलक्षणत्वेऽपीति-2।संयोगोपलक्षितव्यापारो गम्धात्वर्थो विभागोपलक्षितव्यापारः त्यज् धात्वर्थ इत्यादिरीत्येव भावः। -2वदन्ती-2त्यनेन -01-0तत्तत्फलबोधे। (L. 'बोधे' आरभ्य रूपफलपर्यन्तं न दृश्यते।) तत्तद्धातुसमबिष्याहारस्य नियामकत्वान्न दोष इत्यस्वरसः सूचितः। -2निर्विवादमेवेति-2।। 'ओदनं पचती'त्यादौ सकर्मकस्थले फलस्य द्वितीयार्थत्वं सम्भवेदपि भवतीत्याद्यकर्मकस्थले तु सत्तादिरूपफलवाचकत्वानापत्या धातोरेव वाच्यमिति भावः। -2अत एवः-2 उभयार्थकत्वादेव। -2द्वयर्थः पचिरिति-2।। वस्तुतस्तु विक्लेदना निर्वर्तना च पचेरर्थः। पचतीत्यस्य तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीत्यर्थात्। तथा चैतद्भाष्यं
दनोपसर्जननिष्पादनपरमिति बोध्यम्।। 7 ।।
(भू.सा.धा.नि -8)
-2न्यायविरुद्धत्वादिति-2।। 'प्रत्ययार्थः प्रधानमि'ति न्यायात् आख्यातार्थ एव भावनेति भावः। "-2तदागमे हि दृश्यत-2" इति - तस्य प्रत्ययस्य आगमे = श्रवणे हि यतः सा भावना दृस्यते = प्रतीयतेऽतः सा प्रत्ययार्थ इति भावः। अयं च न्यायः जैमिनिनोक्तः "शब्दवत्तूपलब्यते तदागमे हि द्वस्यते -01-0तस्य ज्ञानं (L. तस्य -------- उपलभ्यते हि - न दृश्यते।) यताऽन्येषामि" (मी.सू.4-1-15-5) ति सूत्रे। तदर्थश्चशब्दवत् शब्दवाच्यं यथा भवति तथा, एकत्वमुपलभ्यते हि। यतस्तदागमेः एकवचनस्यागमे तत् दृश्यते, तस्याङ्गत्वज्ञानं यथान्येषां विशेषाणां पशुत्वादीनामिति। 'पशुना यजेते'त्यादौ एकत्वविशिष्टपशोर्विधेयत्वे एकत्वस्यापि एकवचनरूपशब्दबोध्यत्वेन तस्य च पशुद्वरा यागोपकारकत्वेन पशुत्वादीव यागाङ्गतेति परमार्थ इति संख्याविवक्षानिर्णये वक्ष्यामः। -02-0तत्प्राधान्यमागमे (L. तत् ------ पाठः - न दृश्यते) आगन्तुकस्यार्थे दृश्यत इत्यर्थ इत्यपि केचित्। एतत्पक्षे हीत्येतदनन्तरं 'तद्'रहितः पाठः।। -2विरुद्धत्वाच्चेति-2।। -03-0"कर्तरि कृदि"ति (सू 3-4-67) (V1. कर्तरि ------ अपरपुटे - न दृश्यते) सूत्रस्थकर्तृपदस्य कर्तृत्वपरत्वेन तेनैव व्यापारे घञादेः विधानादित्याशयात्।।
-2एवञ्च स्वयुक्तेति-2।। स्वं = धातुः। तद्युक्तम् यद्यदाख्यातं तदर्थेत्यर्थः। स्वयुक्तेति विशेषणोपादानं च भूधातोरपि यं कञ्चिदाख्यातार्थमादाय तत् व्यधिकरणफलवाचकत्वेन सकर्मकत्वापत्तिवारणार्थम्। भाट्टैः सर्वत्र फलव्यापारयोः धातुवाच्यत्वं स्वीक्रियते। स च व्यापारः सिद्धावस्थापन्न इत्यन्यत्। केवल फलस्येत्यभिप्रेत्याह - -2मीमांसकम्मन्यमिति-2।। अभिप्रायस्य
हेतुमेवाह - -2फलमात्रस्येति-2।। -2आश्रयत्वादिति-2।। संयोगस्य गम्धात्वर्थत्वात् गमनस्य च ग्रामेऽबाधितत्वादित्यर्थः। -01-0-2इत्यनापत्तिरिति-2।। (L. "इत्यनापत्तिरा"भ्य "इत्याशयात्" पर्यन्तं न दृस्यते।) पचधात्वर्थस्य पाकरूपफलस्य वर्तमानत्वादित्यर्थः। एवमग्रेऽपि।। -2घञादेरिति-2।। पाक इत्यादावित्यर्थः। -2वाचकत्वादिति-2।। -2कर्तरि कृदिति-2।। सूत्रस्थकर्तृपदस्य कर्तृत्वपरत्वेनानेनैव व्यापारे घञादेर्विधानादित्याशयात्। -2अनुशासनवेयर्थ्यापत्तेरिति-2।। आख्याते "लः कर्मणी"त्यत्र (सु.3-4-69) अनुवर्तमान-कर्तरीत्यस्य कर्तृत्वपरत्वमादाय तदवच्छेदिकायां क्रियायामित्यर्थस्त्वयोपगतस्तस्यैवार्थाधिकारानुरोधेन कृत्युपगन्तव्यतया व्यापारार्थकत्वलाभेन "भावे" (सू. 3-3-18) इति सूत्रं व्यर्थमिति भावः। "लः कर्मणिचे" (सू. 3-4-69) त्यत्र बावे तिङ्विधायक "भावे" (सू.3-3-18) इत्यंसस्याप्युक्तरीत्या वैयर्थ्यम् बोध्यम्।। -2तत् (भाष्य) विरोधापत्तेश्चेति-2।। धातोः फलवाचकत्वमितित वदतस्तवमते साद्यावस्थापन्नधात्वर्थभावापेक्षया घञादेरतिरिक्तसिद्धावस्थापन्नभावार्थबोधकेन सिद्धावस्थापन्ने धात्वर्थे घञिति बाष्येण विरोधश्चेत्यर्थः। अत एवा"कतरि च कारके" (3-3-19) इति सूत्रे -0क-0भाष्ये (म.भा.द्वि.ख.पृ.213,214) कारकग्रहणम् किमर्थमितित प्रस्ने अनिर्दिष्ठार्थत्वात्स्वार्थे मा भूत्, स्वार्थश्च धात्वर्थ इत्यभिधाय धात्वर्थे "भावे" (सू.3-3-18) इति पूर्वसूत्रेणैव सिद्धमिति सामर्थ्यात् कारके एव भविष्यतीति पुनः तद्वैयर्भ्यमापाद्य एवं तर्हि साध्यावस्थापन्ने धात्वर्थे मा भूत् "भावे" इत्यत्र तु सिद्धावस्थापन्नो निर्दिष्ट इति न तेन सिद्धिरिति कारकग्रहणं कार्यमित्युक्त्वा"ऽकर्तरी" (सू. 3-3-19)ति पर्युदासेन तल्लाबेन तत्प्रत्याक्यातम्। धातोरेव व्यापारः वाच्यो न प्रत्ययस्योति शङ्कते -
-2 अथेति-2।। -2सकलव्यापारेति-2।। व्यापाराभिमतभावनारूपव्यापारस्यापि लाभसम्भवादित्यर्थः। -2तदपि-2 = विवरणमपि।। -2मामांसकोक्तं-2 बाधकमिति।। "प्रत्ययार्थ प्रधानमि"ति, "तदागमे ही"ति च न्यायविरोधरूप मित्यर्थः।। -0क-0-2अरुणाधिकरणरीत्येति-2।। 'अरुणया' एकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाती'ति वाक्योपात्तसकलकारकाणआं क्रिययैवान्वयः। पश्चात् विशेषणविशेष्यभावेन मानसो बोध इति तदधिकरणरीत्येत्यर्थः। अत एव करोपि कर्म भीष्मादयोपि कर्मेति -0ख-0भाष्यं (अनभिहिते (सू. 2-3-1) म.भा.द्वि.ख.पृ.479) सङ्गच्छते।। -2वक्ष्यमाणाऽस्मद्रीत्येति-2।। क्रियान्वयिनामेव कारकत्वमित्यादि वक्ष्यमाणा़ऽस्मद्रीत्येत्यर्थः।। -2अन्वयासम्भव इति-2 = परस्परमन्वयासम्भव इत्यर्थः। -2प्राधान्येति -2= प्रकृत्यर्थनिरूपितप्राधान्येत्यर्थः।। -2उक्त इति-2।। विशेष्यतयेत्यादिरीत्येत्यर्थः। -2न च सम्बन्धमात्रमिति-2। ज्योतिष्ठोमेन यजेतेत्यादावाख्यातार्थभावनायां स्वर्गकामपदोपात्तः स्वर्ग एव भव्यत्वेन सम्बध्यते; न तु समानपदोपात्तोपि धात्वर्थो यागः तस्यासत्वरूपत्वेन अपुरुषार्थत्वेनानुद्देश्यत्वात्।
न च भिन्नपदोपात्तत्वरूपवाक्यापेक्षया आख्यातपदरूपसमानपश्रुतेर्बलवत्वाद्यागस्यैव भाष्यत्वमुचितमिति शङ्कयम्।
भावना यागसम्बन्धिनीत्येवं सम्बन्धसामान्यं प्रतिपाद्यैव समानपदश्रुतेश्चारितार्थ्यादिति -0क-0भावार्थाधिकरणे (सतन्त्रवार्तिकशाबरभाष्यसमेते मीमांसादर्शने अ.2. पा.1. अ.1. पृ. 383,384) भट्टपादैः सिद्धान्तितत्वात्। उक्तकारिकाक्षरार्थश्च धात्वर्थभावयोः सिद्धसाध्यावस्थापन्नयोः सम्बन्धमात्रमुक्तमिति मात्रपदेन विशेषनिरासः। श्रुत्या = समानपदश्रुत्या। तस्यः सम्बन्धसामान्यस्य। एकांशः = सम्बन्धविशेषः करणत्वादिस्तस्यनिवेशे तु बोधने तु अस्याः समानपदश्रुतेर्व्यापारः सामर्थ्यं नास्ति। तत्काले आकाङ्क्षाविरहात्। कुत आकाङ्क्षाविरह इति चेत् - भावनाया अप्रवृत्तप्रवर्त्तकत्वानुरोधेन फलान्वितया एव करणाकाङ्क्षितत्वात्। अत एव पचतीत्यतः पाकसम्बन्धिनी भावनेत्येव श्रौतार्थः। पाकानुकूला भावनेति मानसः पश्चाद्बोधः। अत एव 'दन्धा जुहोती' त्यादौ होमसम्बन्धिभावनया दधिसंस्कुर्यादित्यर्थः। अत एव च 'ज्योतिष्टोमेन यजेते'त्यादावपि ज्योतिष्टोमाभिन्नयागसम्बन्धिभावनेत्येव श्रौतार्थः। पार्ष्टिकस्तु होमयागादेः करणत्वबोधः। "नासाधितं करणं भवती"ति न्यायेन अर्थाक्षिप्तहोमयागसाध्यकभावनामादाय होमयागादेः सिद्धत्वादिति। तत्रान्त्ये आह - -2अजेति-2। आद्ये प्रधानीबूतायाः अजायाः प्रत्ययार्थत्वापत्तिरूपो दोषः स्पष्ट एवेति नोक्त्तः।। -2प्राधान्यापत्तेरिति-2।। अजेत्यादौ स्त्रीत्वप्रकारकाजादि-विशेष्यकबोधस्यैवानुभविकत्वादिति भावः। वस्तुतः "स्त्रियामि" (सू.4-1-3) ति सूत्रे -0क-0भाष्ये (म.भा.द्वि.ख.पृ.300) स्त्रित्वस्य प्रत्ययार्थत्वपक्षे 'प्रकृतिप्रत्यययोरि'ति न्यायेन प्रधानस्य स्त्रीत्वस्य असत्वबूतत्वात् संख्यायाः स्ववाचकप्रकृतिविशेष्यार्थान्वयित्वनियमाच्च द्वित्वाद्यनन्वयेन द्विवचनाद्यनुत्पत्तिमाशङ्क्य प्रधानस्यापि स्त्रीत्वस्य प्रकृत्यर्थद्रव्येणाभेदमङ्गीकृत्य समाहितम्। न तु प्रकृत्यर्थं प्रति विशेषणत्वाश्रयणेन। तथा च स्त्रीत्वस्य प्राधान्येऽपि उपपत्तौ श्व 'प्रकृतिप्रत्ययार्थयोरि'ति व्युत्पत्तेर्व्यभिचारः। स्त्रीत्वस्य स्त्रीप्रत्ययद्योत्यत्वपक्षे तु द्यत्यार्थानां विशेषणत्वनियमेन तद्विशेषणतेत्यन्यत्। अत एव सूत्रकृदपि 'अर्थस्यान्यप्रमाणत्वादि' (सू. 1-2-56) त्येवाह न तु
व्यभिचारित्वादित्यपि। तस्मात् व्यभिचारित्वेन उत्सर्गत्वं न युक्तम्। कथं तर्हि 'पचती'त्यादौ कर्त्रादेः प्रत्ययार्थस्याप्राधान्यमिति चेदुच्यते। "प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानमित्ये"तद्यत्रप्रत्ययस्य वाचकता तद्विषय प्रकृतिप्रत्ययेति द्वन्द्वनिर्देशस्य प्रकृतीत्यंशस्य येन वाच्यतासम्बन्धेन द्वन्द्वान्तश्रूयमाणार्थपदेन सम्बन्धस्य तेनैव सम्बन्धेन प्रत्ययेत्यशस्यापि तत्रान्वये एव साधुत्वात्। किं चास्य प्रत्ययद्योत्यार्थप्राधान्यबोधकत्वे द्योत्यार्थस्य विशेषणताया एव भाष्यसिद्धाया वक्ष्यमाणतयान्यायस्योक्तिसम्भवानापत्तेः। तथा तिङि कर्त्रादीनां धात्वर्थतास्वीकारेण तिङां तद्योतकतया द्योत्यार्थकर्त्रादेः विशेषगताया एव युक्तत्वात् न न्यायविशयता। "कर्तरि ल" इत्यादेः कर्तृविषयाद्धातोरित्येवार्थः। "भावे (सू.3-3-18) इत्यादेः सूत्रस्य तथान्वयस्यैव तवाप्यावश्यक्त्वात्। भावस्य धातुलभ्यत्वेन प्रकारान्तरस्यासंभवात्। अत एव "स्नुक्रमोरि" (सू.7-2-36) ति सूत्रे -0क-0भाष्ये (म.भा.तृ.ख.पृ.130) "भावकर्मणोरि" (सू.1-3-13) ति सूत्रस्य "भावकर्मवृत्तात् धातो"रित्यर्थकथनं कृतम्। तस्य च भावकर्मविषयात् धातोरित्यर्थो -0क-0कैयट (म.भा.तृ.स्व.पृ.130, प्र. (भावकर्मणी धातोरेव विषयभावेन)) आह-तद्विषयत्वञ्च धातोः कर्तृकर्मादिविशिष्टक्रियावाचकत्वेन कर्मादीनां स्व प्रकृतिकप्रत्ययवाच्यत्वेन वा। तत्र तद्विषयलकार स्थले आद्यम्। 'क्रियाप्रधानमाख्यातमि'ति स्मृत्यन्तरात्। शत्रादिविषयेत्यन्तं (त्वन्त्य -) 'सत्वप्रधानानि नामानी'त्युक्तेः। "लः -0ख-0इत्येवार्थः" (म.भा.द्वि.ख.पृ.263-264)। अत एव च "द्वयेकयोरि" (सू.1-4-22) त्यादीनां तिङ् विषयाणामपि नियामकत्वं -0ग-0भाष्योक्तं (म.भा.प्र.ख.पृ. 237 "सुप्तिङामविशेषेण विधाानत् दृष्टविप्रयोगाच्च नियमार्थं वचनम्") सङ्गच्छते। सिद्धौ च कैमर्थ्यान्नियमो भवति। संख्यादीना धातुवाच्यत्वे चा"निर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ती"ति न्यायेन समान्यसूत्रेणैव सर्वत्रार्थे विबादिसिद्धौ नियमत्वं युज्यादौ धातुमात्रात्सर्वबोधः। लुप्तस्मरणाद्बोध इति तु न सम्यक्। लोपमजानतो बोधानापत्तेः। "सार्वधातुके यगि" (सू.3-1-67) तिसूत्रस्थ'सार्वधातुकार्थाः -01-0कर्त्रादय' (L. कर्त्रादय आरभ्य इत्येवार्थ पर्यन्तं न दृस्यते।) इत्यस्य तद्योत्या इत्येवार्थः। एवम् विकरणार्था इति पक्षे 'विकरणद्योत्या अपी'त्यर्थः।
न चैवं "विकरणार्थानामि"ति -02-0पक्षे (L. पक्षे आरभ्य न्यायस्य पर्यन्तं न दृश्यते।) लेनाभिधानाद्विकरणो न स्यादिति भाष्यस्थशङ्कानुपपत्तिर्द्योतक समुच्चयस्य 'व्यतिलुनीते', 'गार्ग्यायणी'त्यादौ दर्शना'दुक्तार्थानामि'ति न्यायस्य वाचकविषयत्वादतो लकारस्य वाचकत्माश्रित्यो"क्तार्थानामि"ति न्यायेनैव -03-0शङ्कोक्तिर्युक्तेति (L. शङ्कोक्तिः आरभ्य शङ्का पर्यन्तं न दृश्यते) वाच्यम्।
लिङ्लिङोर्विकरणहीनयोरदादौ च लकारमात्रेणापि तद्योतनेत्रापि तेनैव कृतकृत्यतया विकरणानुत्पत्यापत्तिरिति शङ्काशयात्। 'उक्तार्थानामिति' न्यायोऽपि द्योतकविषये़ऽपि प्रवर्तत इति स्पष्टमन्यत्र। वक्ष्यते चाग्रे। व्यतिलुनीते, गार्ग्यायणीत्यादौ तु आत्मनेपदमात्रेण एफ मात्रेण च कर्मव्यतिहार स्त्रीत्वादिबोधनमन्यत्रापि तयोः सत्वादतस्तत्समुच्चयः। उत्तराशयस्तु शब्दशक्तिस्वभावात् क्वचिद्विकरणसहितस्य तद्योतकत्वं क्वचित्केवलसार्वधातुकस्यापीति। तस्माद्भावत्वभावकालकारकसंक्याधातोरेवार्थ इति सिद्धम्। अत एव 'पञ्चकं नामार्थ' इििििितयनेन अवैषम्यमपि। तस्मात् वाचकविषयायाः प्रकृतिप्रत्ययार्थयोरिति व्युत्पत्तेः प्रसङ्ग एव नेति बोध्यम्। बोधो व्युत्पत्यनुसारी ; न तु बोधानुसारिणी व्युत्पत्तिरित्यत आह - -2किंत्विति-2 - -2व्युत्पत्यनुरोधादिति-2।। यथौ'पगव' इत्यादौ 'विशेष्यतासम्बन्धेन प्रकृत्यर्थप्रकारकबोधं प्रति विशयतया तदुत्तरप्रत्ययजन्योपस्थितिर्हेतु'रिति कार्यकारणभावानुरोधादित्यर्थः।।
-2शक्यतावच्छेदकप्रकारकेति-2।। 'गङ्गायां धोष' -01-0इत्यादि-लक्षणास्थले (L. लक्षण) शैत्यपावनत्वादिरूपप्रयोजनप्रतीत्यर्थं तीरे प्रवाहत्वमारोप्य प्रवाहत्वेनैव तीरबोधस्यालङ्कारिकैरङ्गीकारादिति भावः। 'कचतस्त्रस्यती' त्यादौ चैतेषां मते दोषविशेषजन्यत्वादतिशयोक्ति - परिणामरूपसङ्करालङ्कारस्वीकारेणादोषादिति।। -2न नैयायिकादीनामिति-2।। लक्षणाविषये -01-0शक्यतावच्छेदकप्रकारकबोधाङ्गीकारे (V1. प्रकारक - नास्ति।)-
-0क-0"कचतस्त्रस्यति वदनं वदनात् कुचमण्डलं त्रसति। (रसगङ्गाधर - भूमिकायां दृश्यते मधुसूदनशास्त्री पृ.126)
मध्याद्विभेति नयनं नयनात् अधरः समुद्विजती।।" त्यादौ कचत्वमुखत्वादिना राहुचन्द्रयोर्बोधेऽपि लक्ष्यतावच्छेदकीभूतराहुत्वादिना बोधाभावात्। त्रासकत्वानुपपत्तेर्लक्ष्यतावच्छेदकप्रकारक एव बोधः स्वीकार्य इति भावः।
वस्तुतस्तु 'तदवच्छिन्ने शक्यतावच्छेदकारोपोलक्षणे'ति सिद्धान्तमते कचत्वेन -02-0राहुत्ववच्छिन्नबोधान्न (L. राहु) काचिदनुपपत्तिः।। -2विपर्य्ययेणापि व्युत्पन्नानामिति-2।। असद्वयुत्पन्नानामित्यर्थः। सद्वयुत्पन्नत्वञ्च व्याकरणशास्त्रोक्तप्रकृतिप्रत्ययविभाग तत्तदर्थविभागतत्तदन्वयबोध विषयकज्ञानवत्वं। तद्भिन्नानामित्यर्थः। अथवा विपरीतप्रयोज्यप्रयोजकवृद्धव्यवहारतो व्युत्पन्नानामित्यर्थः। तथाहि - द्वितीयाद्यभिधेयक्तर्मत्वादीन् कर्मत्वादि - शब्दैरेव
बोधयितुं वाञ्छता केनचित् व्याकरणाभिज्ञेन प्रयोजकवृद्धन प्रयुक्तं घटः -01-0कर्मत्वमानयनं (V 'मानयनम्'इत्यनन्तरम् 'अनङ्गीकृत्य' इति अधिक - पाठः।) कृतिरिति वाक्यं श्रुत्वा येन प्रयोज्यवृद्धेन व्याकरणलक्षणेनार्थानुसन्धानपूर्वकं घटीया कर्मतेत्यर्थमवगम्य घट आनीतस्तदीयघटानयनं पस्यतो बालस्य नूनमस्मिन्नर्थे इदं वाक्यं शक्तमिति शक्तिग्रहः साकाङ्क्षाग्रहश्च भवतीति भावः।
एवं -02-0दिशा (L. दिशाद्युत्पत्तिरादि) व्युत्पत्तिरपि व्याक्तरणव्युत्पत्तिमतामेव भवतीत्यपि शब्द उपात्तः।। -2तन्निराकाङ्क्षमिति-2।। घटीया कर्मतेति बोधे तन्निराकाङ्क्षमित्यर्थः। यस्य पदस्य 'यत्पदव्यतिरेकप्रयुक्तान्वयाननुभावक्तत्वं तत्पदेतप्तदवत्वमाकाङ्क्षा'। अभेदबोधे समानविभक्तिकत्वमेवाकाङ्क्षा। नीलं घटमानयेत्यादौ नीलपदं विनापि घटमानयेत्यन्वयदर्शनात् 'घटः कर्मत्वमि'त्यादौ त्वभेदबोधीयाकाङ्क्षासत्वेऽपि योग्यताविरहान्नाभेदं बोध इति। वस्तुतस्तात्पर्यविषयीभूतसंसर्गवृत्तिधर्मे संसर्गतावच्छेदके सम्बन्धिनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वाभावरूपयोग्यताज्ञानं न बोधे कारणं, नापि तादृशप्रतियोगितावच्छेदकत्वरूपायोग्यतानिस्चयः प्रतिबन्धकः, 'वन्ध्यासुतो याति', 'वह्निना सिञ्चति' इत्ययोग्यादपि बोधदर्शनात्। कथमन्यथैतद्वाक्यप्रयोक्तुरद्रवेण वह्निना कथं सेकं ब्रवीषीत्यपहासः श्रोतृभिः क्रियमाणः सङ्गच्छेत।
न चैतदयोग्यतावाक्यश्रवणानन्तरं श्रोतुः पदार्थोपस्थितिमात्रं न शाब्दबोध इति वाच्यम्।
सर्वत्रैवमेवापत्तेः। न चैवं 'वह्निना सिञ्चे'त्यादितः शाब्दबोधे प्रवृत्तिरपि स्यादिति वाच्यम्। बाधज्ञानेनेवायोग्यतानिश्चयेन जातबोधे प्रामाण्यशङ्काजननात्। तदनास्कन्दितज्ञानस्यैव प्रवृत्तिजनकत्वात्। ततश्च 'घटः कर्मत्वमि'त्यादितो बोधेऽपि सद्बयत्पन्नस्य न तत्कार्यप्रसक्तिः तद्बोधेऽयोग्यतानिश्चयेनाप्रामाण्यजननात्। परमार्थतस्तु समभिव्यादॄतकार्यजननसामर्थ्यवत्वं योग्यता। सा च शाब्दबोधे बासते। अत एव घटेन जनमाहरेत्यादौ सच्छिद्रेतरस्यैव जलाहरणसामर्थ्यवत्वेन सच्छिद्रेतरत्वप्रकारको बोधः। अत एव प्रतिनिधेः श्रौतत्वोपपत्तिः। यता 'खादिरो यूपो भवति' 'खादिरे पज्ञुं बध्नाती'त्यादावस्वतन्त्र्यफलकसंयोगविशेषरूपबन्धनकार्यसामर्थ्यवत्वेनान्यपरिग्रहेऽपि न शस्त्रार्थहानिरिति। तथा च शाब्दबोधे आकाङ्क्षाज्ञानमेव कारणम् न नैय्यायिकादिसिद्धयोग्यताज्ञानमिति। एवमासत्तिज्ञानतात्पर्यज्ञानयोरपि कारणत्वमग्रे निराकरिष्यते।। -2इति वचनम्-2।। इत्याकारकप्राचीन - वैयाकरणसूत्रम्। -2तत्रापि -2= कृत्यपि।। -2कृतामपीति-2।। एवञ्च पक्वमिति विवरणं सम्यगेवेति भावः। कृञोविवरणप्रतीतेश्चेत्यपि पाठान्तरम्। तत्र कृञः पक्वमिति पचधातुना विवरणेत्यर्थः।। -2उभयसाधारण्येन तदिति-2।। तिङ्कृदुभयसाधारण्येन भावनेत्यर्थः।। -2धातुरेवेति-2।। फलप्रकारकानुकूलत्वसंसर्गकव्यापारविशेष्यकशाब्दबोधे त्वया धात्वाक्यातयोर्धातुकृतोश्चानुपूर्व्याः हेतुता स्वीकार्या, मया तु धातोरेवेति लाघवमिति भावः।. -2प्राधान्यापत्तिश्चेति-2।। कृतिभावनयोरपि -01-0प्राधान्यं (L. प्राधान्यं ----- सिद्धान्तात् - न दृश्यते।) स्यादित्यर्थः। न चेष्टापत्तिरपसिद्धान्तात्।।8।।
(भू.सा.धा.नि -9)
साधकान्तरमिति ।। कृत्प्रत्ययस्थले भावनाप्रतीतिरेव तस्या धातुवाण्यत्वे मानम्। तथा हि सति कृत्सु भावनाप्रतीतिः कर्मण्यनीयर् प्रत्ययाद्युत्पत्तिश्च सिद्धा। तव तु वस्या आख्यातार्थत्वे कृत्सु वाचकाभावेन भावनाप्रत्ययाप्रसङ्गः कर्मण्यनीयर् प्रत्ययाद्यप्रसङ्गश्च स्यादिति भावः।। -2अन्तरेणासन्त इति-2।। कर्तृकर्मादेः क्रियानिरूपितत्वादिति भावस्तदाह -2विनेति-2।। -2भट्टरीतिरिति-2।। कर्त्रादिना भावनाक्षिप्यत इति हि तेषां रीतिः।। -2तथात्वापत्तौ-2 = भावनाया आक्षेपापत्तौ।
-2कर्तुवाच्यत्वमिति-2।। कृतीति शेषः। -2समासो न स्यादिति-2।। भावनाया धात्ववाच्यत्वेन नखादेः कृत्प्रकृत्यर्थक्रियानिरूपित कर्तृकरणत्वाभावदिति भावः।। -2साक्षादिति-2।। कृञ्धातोः व्यापारार्थकत्वात्।। -2परंपरासम्बन्धेति-2।। स्वकर्तृकभावनाजन्यत्वादिरूपेत्यर्थः।। -2एकस्यामिति-2।। तथा चाक्षिप्तभावनायां नखभिन्नपदर्थयोरन्वयादस्ति सामर्थ्यमिति भावः।। -2असमर्थसमासत्वानापत्तेरिति-2।। अभावसूर्ययोः प्रतियोगित्वकर्मत्वाभ्यां दृशिक्रियायामन्वयादस्ति त्वदुक्तरीत्या सामर्थ्यमिति भावः।। -2कृतः सर्व इति-2।। कर्मत्वकरणत्वाभ्यां सर्वमृतिकयोः कृधातूपात्तक्रियायामन्वयादिति भावः।
-2किञ्च, बावनाया इति-2।। उपपादितमिदमधस्तात्। -2विष्णुमित्रेणेति-2।। नेयं करणेतृतीया। "हेतुमति चे" (सू. 3-1-26) ति णिचोऽत्रासंभवापत्तेः। "तत्प्रयोजको हेतुश्चे" (सू.1-4-54) ति कर्तृप्रयोजकस्यैव हेतुसंज्ञाविधानात्। "गतिबुद्धी" (सू.1-4-52) ति नियमाच्च न प्रयोज्यकर्तुरक्विष्णुमित्रस्य कर्मत्वम्।।
-2गमिकर्म(त्व)तानापत्तेश्चेति-2 - "कर्तुरीप्सिततपि" (सू.1-4-49) ति शास्त्रबलात् कर्तृनिष्ठक्रियया संबद्धुमिष्यमाणस्यैव
कर्मसंज्ञाविधानात्। गत्यर्थक्रियाजन्यफलाश्रये गत्यर्थक्रियानिरूपिते कर्मण्येव।। -2एतेन-2 = 'पाचयति देवदत्तो विष्णुमित्रेणे'त्युत्र तृतीयोपपत्तावप्युक्तस्थले द्वितीयाचतुर्थ्योरप्राप्तिरूपदूषणेन। -2किञ्च तस्मिन् प्रयोगे इति-2।। यस्मिन् प्रयोगे य आख्यातार्थ व्यापारस्तदाश्रयस्य कर्तृत्वमित्यस्यावश्यकत्वेनेत्यर्थः। अन्यथा क्वचित्प्रयोगे काष्टादेः कर्तृत्वं क्वचित्त, नेति व्यवस्था न भवेदपि तु सर्वत्रैव सर्वस्य कर्तृत्वापत्तिरिति भावः।। -2इति दिगिति-2।। "कारके" (सू.1-4-23) इति सूत्र भाष्यादपि भावनाया धातुवाच्यत्वलाभः। तत्र हि -0क-0"अदिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः" (म.भा.प्र.ख.पृ.242-243) कुर्वन्नेव देवदत्तः यदा पचतीत्युच्यते, तदा अधिश्रयणादिषु पचिर्वर्तते। ज्वलनक्रियां कुर्वन्ति काष्ठानि यदा पचन्तीत्युच्यन्ते तदा तत्र पचिर्वर्तते। (द्रोणं पचत्याढकं पचतीति) ग्रहणरूपं सम्भवनक्रियां आसमाप्तिरूपं धारणं च कुर्वती स्थाली पचतीत्युच्यते, तदा तत्र पचिर्वर्तते" इत्युक्तमिति।। -2उक्तार्थस्य-2- धातोर्व्यापारवाचकत्वस्य। -2तच्च-2 = सादृश्यञ्च। -2पर्यवसन्नमिति-2।। -2तथा च -2= त्वदुक्तरीत्या धातोः क्रियावाचकत्वानङ्गीकारे निरुक्तधातुत्वाभावात् "धातो" (सू.3-1-91) रित्यधिकृत्य विहिवानि कार्याणि न स्युरिति भावः।।9।।
(भू.सा.धा.नि -10)
-2तावन्मात्रोक्ताविति-2।। भ्वादिगणपठितत्वमात्रोक्तावित्यर्थः। न च वा शब्दो व्यर्थः। भ्वादय इत्येतावतैव सिद्धेरिति वाच्यम्।
-0क-0"भूवादीनां (वार्तिकम्. म.भा.प्र.ख.पृ.III भूवादयो धातवः (1-3-1)) वकारोयं मङ्गलार्थः प्रयुज्यते" इति वार्तिकात् सूत्रस्थ वा शब्दस्य मङ्गलार्थत्वेनोपपत्तेः।। -2गणपठितत्वेपि-2।। एतदस्वरसादेव मङ्गलार्थत्वपक्षं परित्यज्य
"भुवो वार्थं वदन्तीति -01-0भ्वर्था (L. भ्वर्था ---- वदन्तीति -नावलोक्यते।) वा वादय स्मृता" इति पक्षद्वयं लघुभूतं वार्तिके उक्तम्। तस्यार्थः भुवः भूधातोः अर्थं वदन्तीति भूवादय इति इदं तात्पर्यार्थकथनम्। शब्दार्थस्तु भवनं भूः क्रियासामान्यम्। संपदादित्वात् भावे क्रिप्। भुवं वदन्तीति वदेशैणादिक -02-0इञ् (L. इञ ------ धातुत्वम् - नावलोक्यते।) प्रत्ययः क्रियासामान्यवाचिन इति यावत्। क्रियाविशेषवाचिनां तु विशेषेषु सामान्यस्यानुस्यूतत्वाद्धातुत्वम्।
ननु 'हिरुक्', 'पृथक्', 'शिश्ये' इत्यादावतिव्याप्तिरत आह - भ्वर्था वेति। भ्वर्थाः। क्रियार्था भूवादय इति स्मृता इति। इदमपि तात्पर्यार्थकथनमेव। शब्दार्थस्तु भवनं भूः क्रियासामान्यं, वा धातोरादयो वादयो, वाधातुरादिर्येषान्ते वादयः। वादयुञ्च वादयश्चेति तत्पुरुषबहुव्रीह्योः "स्वरभिन्नानामित्ये"कशिष्टबहुव्रीहिणा वादि पदेन भुवो वादय इति समासः। भुव इति वाच्यवाचकभाव सम्बन्धे षष्ठी। क्रियार्था ब्वादयो धातव इति फलितमतिति।। -2निर्णयासम्भवादिति-2।। धातुरेव गणे पठितो नाव्ययमिति निर्णयासंभवादित्यर्थः।। -2प्रयोगः स्यादिति-2।। वस्तुतोऽप्रातिपदिकत्वेन सुबनापत्तिरित्यन्यत्र स्पष्टम्, यथाश्रुते संख्याकारकादेरभावेन तिबुत्पत्तेरयोगात्।। -2नियामक इति-2।। गतिगन्धनाद्यर्थे धातुसंज्ञो न विकल्पार्थे इति भावः।।10।।
(भू.सा.धा.नि -11)
-2नन्वस्त्विति-2।। सौत्राणां स्तंभ्वादीनां लोकमात्रप्रसिद्धा (चुलंपादीनां-) नां धातुत्वञ्च स्तंभ्वादिषु उदित्कारणेन -0क-0"बहुलमेतन्निदर्शनमि"ति (चुरादिगणे - गणसूत्रम्) अनेन च बोध्यम्।। यथाश्रुते इत्यस्यासङ्गत्यापत्तावन्वयः।। -2उत्पत्तौ (ज्ञप्तौ)ग्रहेवेति-2।। अन्योन्याश्रयदूषकता च तर्कविधया बोध्या। तथा हि घटो यदि घटजन्यः स्यात् तर्हि घटाद्भिन्नः स्यादिति।। एवमुत्पत्तावपि बोध्यम्। स्थितावन्योन्याश्रयानुक्तिस्तु प्रयोजनाभावात्।।
-2न चान्यतमत्वमिति-2।। धातुसंज्ञकत्वेनाभिप्रेतान्सर्वान्तत्तद्वयक्तित्वेनोपादाय तत्तद्भेदकरावच्छिन्नप्रतियोगिताकभेदत्वरूपमेव तदित्यर्थः।। -2फलांशानिति-2।। गणपठितत्वे सति सत्तादिक्रियार्थकत्वमिति तु नाशङ्कितम्। अर्थान्तरे तेषामेव धातुत्वानापत्तिरिति फलानामेवान्यतमत्वेनोपादानम्।। -2क्रियाशब्देनेति-2।। कर्मवत्कर्मणा तुल्यक्रियः (सू.3-1-87) इति क्रियायाः परिनिष्पत्तिरित्यादौ -01-0क्रियापदेन (L. क्रियापदेन ------ तदवाचकानां - न दृश्यते।) फलस्यैव ग्रहणात्।। -2विकल्पयतीति-2।। 'कृप्' सामर्भ्ये, विपूर्वाः।।11।।
(भू.सा.धा.नि -12)
-2नन्वस्यैवेति-2।। गणपठितत्वे सति क्रियावाचकत्वस्यैवेत्यर्थः।। -2तदवाचकानां-2।। क्रियावाचकभिन्नानाम्।। -2अस भुवीत्यादाविति-2।। अयं भावः = भूधातोः स्थित्युत्पत्युभयार्थकत्वे "धान्यानां भवने" (सू.5-2-1), "तत्र जातस्" (सू.4-3-25), "तत्र भवः" (सू.4-3-53) इत्यादिसौत्रनिर्देशाः लिङ्गम्। एवञ्च स्थित्यर्थकधातुयोगे च उत्पत्यर्थकधातुयोगे च भावनाप्रतीत्युपपादने तत्समानार्थकभूधातुयोगेऽपि तदुपपादनं भवति। तथा च उत्पत्यनुकूल व्यापारः स्थित्यनुकूलव्यापारः
सत्ता। तदनुकूलव्यापारश्च अस्त्यादीनामप्यर्थस्तत्र व्यापारश्चान्तत आश्रयतैव साध्यत्वेनाभिधीयमाना। पातञ्जलनये सर्वपदार्थानामवस्थादिरूपेण प्रतिक्षापपरिणमितया तत्तत्परिणामविशिष्टोतत्पत्तिनिरूपितानामाश्रयतानामनेकतया पूर्वापरीभूतावयवकत्वाक्षतेः। सत्तायामिव कालगतपौर्वापर्यारोपेण वेति, सिद्धम् तस्याः क्रियात्वम्। तत्रासन्नविनाशकं कंचिदुद्दश्य किं करोतीति प्रश्नेऽस्तीत्युत्तरात्सत्ता तदनुकूलव्यापारो वा प्रतीयत इत्युपपादितमधस्तात्। 'गतो न वे'ति प्रश्नोत्तरेऽस्तीत्यादौ स्थित्यनुकूलो व्यापारः प्रतीयते। 'रोहितो लोहिता'दित्यादौ तु उत्पत्यनुकूलव्यापारः प्रतीयत इति -2महता यत्नेनेति-2 = 'इदं तिष्ठती'त्यादौ अवस्थानानुसूलभावनायाः प्रयत्नत्वेन स्पष्टप्रतिपत्तये उक्तम्।। -2तस्या एवेतिः-2 भावनायाः एवेत्यर्थः।।
-2अन्यत्रेति-2।। व्यापाराधिकरणभिन्नस्यफलनिरूपितविशेषणत्वाभावात् व्यापाराश्रयस्यैव फलविशेषणत्वादिति यावत्। शेषपदस्य विशेषणपरत्वात् तदाह - -2फलसमानाधिकरणत्वादिति-2।।
ननु घटोऽस्तीत्यादौ घटस्य साध्यमानत्वप्रतीतेरसिद्धस्य घटस्य कर्तृत्वासंभवो निष्पन्ने च तस्मिन्नसाध्यमानत्वसंभव इति चेन्न - साध्यमानत्वसंभव इति चेन्न -
बोद्धसिद्धघटस्य बाह्यसाध्यघटेनाबेदमादायोभयसंभवादिति।। -2अस्तीत्युत्तरस्य-2।। सत्तार्थकस्य, तदनुसूलव्यापारार्थकस्य वा।।12।।
(भू.सा.धा.नि -13)
-0क-0"फलव्यापारयो"रिति (वै.सि.भू.का.13) कारिकायं धातोरिति पूर्वान्वयि।। -2इति यावदिति-2।। अन्नेदं तत्वम्। व्यापारव्यधिकरणफलवाचकाभावरूपाकर्मकत्वं एव मूलतात्पर्यम्। स चाभावः क्वचिद्वैयधिकरण्याभावात्। वैयधिकरण्यञच तदधिकरणावृत्तित्वतदनधिकरणत्वोभयरूपम्। तत्राद्यस्य अभावदुत्तिष्ठतीत्यादौ अकर्मकत्वम्। मूलोक्तभिन्नाधिकरणवृत्तित्वरूपाकर्मकत्वपरिग्रहे च ऊर्ध्वदेशसंयोगरूपफलस्योर्ध्वदेशेपि सत्वेनाकर्मकत्वाभावेन मूलोक्तसकर्मकत्वलक्षणाक्रान्तत्वेन कर्मप्रत्ययापत्तिः। तत्र च सिद्धान्तनये फलस्यैव प्राधान्येन तत्र भूतकालान्तयेन -01-0च (L. चाफल्य चोद्देश) फलस्योर्ध्वदेशेसंयोगस्य विद्यमानत्वे तु उत्थित इति प्रयोगानापत्तेः। मम तु उक्तफलस्य व्यापाराधिकरणावृत्तित्वाभावेन विशेषणाबावप्रयुक्तो विशिष्टाभाव इति अकर्मकत्वद्योतेय व्यापाराश्रये कर्तरि एव वत्तप्रत्यय इति तदनुकूलव्यापारस्यातीतत्वात्तस्य वद्यमानत्वेऽपि तदुपपत्तिः। गम्धातौ फलस्य -02-0व्यापाराधिकरणावृत्तित्वरूपवैयधिकरण्यसत्वान्ना (विशिष्टा-) (V1.L. मातृकाद्वयेऽपि 'विशिष्टा' इति अधिकपाठः) तिव्याप्तिः। क्वचित्फलांशाभावाद्यथाऽस्तीत्यादावस्तेः केवलसत्तार्थकत्वमते इति ध्येयम्।
।।-2 अन्तर्भावादिति-2।। आत्मरूपकर्मणो धात्वर्थे तद्भूतत्वादित्यर्थः।। ननु 'आत्माऽस्ति', 'दिगस्ती'त्यादौ निरुक्तोत्पत्तिस्थित्यनुकूलव्यापारार्थकत्वासंभवादाह - स्वधारणे-2ति-2।। श्लोके - भृधातोर्धारणार्थकत्वादेतदर्थलाभः स्वधारणं स्वस्वरूपधारणम् उत्तरक्षणसम्बन्धरूपं फलम्। व्यापारश्च 'पच्यते तण्डुलः स्वयमेवे'त्यादाविवोक्तरीत्याश्रयतैव साध्यत्वेनाभिधीयमाना। तथा चात्मादिः स्वस्वरूपधारणं करोतीत्यर्थः।। -01-0-2सामानाधिकरण्यसत्वादिति-2।। (L. सामानाधिं ---- धिकरणव्यापार - नास्ति।) तेन प्रकृतोपष्ठंभक-सङ्गतिः।
नन्वा'त्मा आत्मानं जानाती'त्यादावैकस्यैवात्मनः फलव्यापारोभयाधिकरणत्वात्फलसमानाधिकरणव्यापारवाचकत्वेनाकर्मकतापत्तिरिति आह -
-2आत्मानमिति-2।। वस्तुतस्ततच्छास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वम्। सकर्मकपदव्युत्पत्या तथैवलाभात्। तद्भिन्नमकर्मकत्वम्। अत एव "'अधिशीङ्स्थासं कर्मे" (सू.1-4-46) त्याधारस्य कर्मसंज्ञाविषये 'अध्यासिता भूमय' इत्यादौ कर्मणि क्तसिद्धिः।
मूलोक्तरीत्याऽकर्मकत्वलक्षणे तु स न स्यात्।
न च प्राणधारणानुकूलव्यापाराद्यर्थकेषु जीवत्यादिषु -01-0दोषः। (L.'दोष' आरभ्य 'अधस्तात्' पर्यन्तं नावलोक्यन्ते।) धातोः प्राणादिरूपकर्मार्थन्वय्यर्थकत्वादिति वाच्यम्। धातोः पृथग्बुद्धसंसर्गवाचकान्वयपदेनैव वारणात् अत्र तु प्राणादिरूपकर्मणो धातुत एव बोधात्। एतद्दोषवारणाय सूलोक्तलक्षे विशेषणप्रक्षेपादिकं तु गौरवग्रस्तमिति निरूपितमधस्तात्।
"लः कर्मणी" (सू.3-4-69) त्यादौ सर्वत्राकर्मकपदस्थकर्मपदेन कालभावाध्वदेश भिन्नानामेव ग्रहणम्। "गतिबुद्धी"
(सू.1-4-52) ति सूत्रे सजातीयपक्ष सकर्मकविषयकनियमेन सिद्धेऽकर्मकग्रहणसामर्थ्यादिति "गतिबुद्धी" (सू.1-4-52) ति सूत्रे -0क-0भाष्ये (म.भा.प्र.ख.पृ.276, अथवा येन कर्मणा सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणाम्। न चैतेन कर्मणा कश्चिदप्यकर्मकः) स्पष्टम्। तेन -02-0'मासमास्यत' (L. मासयति) इत्यादौ भावे लादिसिद्धिः। सकर्मकपदस्थकर्मपदेन तु सकर्मककर्म ग्रहणा'दास्यते' 'मासमास्यते' इत्यपि। अत एव "कालाध्वनो" (सू.2-3-5) रित्यनेन द्वितीयायां सिद्धायामत्र कर्मणि लादिविधानार्थं 'कालो भावो गन्तव्योऽध्वेति' वार्तिकेन कर्मसंज्ञाविधानं सङ्गच्छते। आसनकरणव्याप्तौ आसधातोर्वृत्तिं स्वीकृत्य "कर्तु" (सु.1-4-49) रिति कर्मत्वं संसाध्य वार्तिकप्रत्याख्यानमिति दिक्।। 13।।
(भू.सा.धा.नि -14)
-2कृदभिहिता इति-2।। कृदन्ताभिहित इत्यर्थं मनसि कृत्यायं विरोधोऽभिहितः।। -2भाष्यविरोधादिति-2।। द्रव्यवत्पदेनासत्वभूत्वनिराकरणात् भाष्यविरोध इति भावः।। -2भागद्वयसत्वादिति-2।। तथा च तत्रापि प्रत्ययज्ञक्तिमादाय सिद्धावस्थापन्नक्रियाप्रतीत्यापत्तिरिति भावः। वस्तुतः प्रत्यये कर्त्राद्यभिधानात् साधनवर्तितेति यथाश्रुतोपि न दोष इति बोध्यम्। -2यथाक्रममिति-2 - पश्येत्यत्र साध्यरूपता धावतीत्यत्र साधनरूपतेत्यर्थः।। -2अन्वयित्वमिति-2।। धावतीति धावनक्रियायाः कर्मत्वेनान्वयात् साधनत्वमित्यर्थः। -2प्रकृत्या-2। धातुबागेन।। -2उपात्तेति-2।। क्रियेति शेषः।
-2तथाऽभिधाने-2 - साध्यत्वेनाभिधाने। -2कर्मषष्ठया इति-2।। -01-0साध्यावस्थापन्नक्रियायोगं (V1. साध्य ----- भावः - न दृश्यते) विनाकर्मत्वासंभवात् तादृतावस्थापन्नक्रियानिरूपितस्यैव कारकत्वादिति भावः।। -2क्रियान्वयादिति-2।। ल्यब्लोपे पञ्चमी। क्रियान्वयमादायेत्यर्थः।। -2कृदन्तेन योग एवेति-2।। प्रत्यासस्या कृत्प्रकृत्यर्थक्रियानिरूपितकर्मण्येव तेन षष्ठीविधानादित्यर्थः। "-2न लोकेति-2" (सू.2-3-69)।। प्रत्यासत्यनङ्गीकारे "कर्तृकर्मणो" (सू.2-3-65) रित्यस्य वैय्यर्थ्यापत्तेश्चेत्यपि बोध्यम्। अत्रासामर्थ्यादेदनपाक इत्यादौ समासाप्राप्तिरिति बोध्या।
न च शेषषष्ठया समासः। 'नलपाक', 'ओदन पाक' इत्यादौ कर्तृत्वकर्मत्वप्रकारकबोधानापत्तेः। -02-0"कर्तृकर्मणोरि" (L. कर्तृ ------ काष्ठैः पाक - न दृश्यते।) इत्यस्यापि मीमांसकानभिमतस्यापत्तिस्तत्रेष्ठापत्तिमाह -2एवं रीत्येति-2 - -2स्तोकं पाक इत्युपपद्यत इति-2।। स्तोकं पचतीत्यादौ फलस्यापि व्यपदेशिवद्भावेन कलाश्रयतया कर्मत्वादभेदेन तद्विशेषणे स्तोकादौ द्वितीयैव। 'स्तोकं पाक' इत्यादावपीत्यर्थः। 'क्रियाविशेषणानां कर्मत्वमि'त्यस्य वाचनिकत्ववादि तार्किकमते तु अवशेषाऽ'ज्ज्योतिष्टोमेन यजेते'त्यादावपि ज्योतिष्टोमपदोत्तरद्वितीयापत्तिरिति बोध्यम्।। 14।।
(भू.सा.धा.नि -15)
न च 'स्तोकं पाक' इत्यादौ "कर्तृकर्मणो"र (सू.2-3-65) ति षष्ठ्या भाव्यम्। स्तोकस्य कृत्प्रकृत्यर्थक्रियानिरूपितकर्मत्वादिति शङ्क्यम्।
कर्तृसाहचर्येण धात्वर्थे भेदेनान्वयिन एव कर्मणो ग्रहणात्। मूले -0क-0-2साध्यत्वेन क्रियेति-2 = अत एव (वै.सी.भू.का.15) 'भोक्तुं पाक' इत्यादौ क्रियार्थक्रियोपपदे विधीयमानतुमुनादिसिद्धिः। क्रियापदस्य साध्यत्वविशिष्टव्यापारे एव प्रवृत्तेः।
न च 'पदार्थे'ति न्यायेनैकदेशभूतधात्वर्थक्रियाया उपपदत्वमादाय कथं तुमुनिति वाच्यम्। 'भोक्तुं गतः', 'देवदत्तेन गतो ग्रामः', 'कृतपूर्वी कटमि'त्यादौ कारकाणां गुणभूतक्रियायामन्वयदर्शनेनोक्तन्यायस्य क्रियातिरिक्तविषयकत्वमित्याशयात्। वस्तुतो 'भोक्तुं पाकः', 'भोक्तुं गत' इत्यादौ -0क-0असाध्वेव। (तुमुन् इति शेषः।) क्रियार्थायां क्रियायामित्युक्त्या (अन्या-) प्रत्यासत्या क्रिययोरेकजातीयत्वलाभेन स्वप्रकृतिकप्रत्ययार्थं प्रत्यगुणीभूतायाः साध्यावस्थापन्नमात्राया एव क्रियार्थक्रियायाग्रहणात्।
नन्वेवमुक्तरीत्या 'पंचकृत्वः पाकः' इत्यादौ कृत्वसुजपि न स्यात्तद्विधावप्येतादृशीक्रियायाग्रहणसंबवादिति चेन्न
यत्र विधौ क्रियावाचकशब्दग्रहणं तत्रोक्तक्रियाया एव ग्रहणम्। यत्र तु क्रियारूपार्थग्रहण तत्र गुणीभूतादेरपि ग्रहणमित्यदोषात्। तुमुन्विधौ चोपपदत्वेन शब्दग्रहणमितरत्र नेति बोध्यम्। न चैवं पाक इत्यादौ द्विवारं क्रियाबोधापत्तिः। एकस्यैव पदार्थस्य साध्यत्वंसिद्धत्वाभ्यामुपस्थितिरित्यत्र तात्पर्यात्। न चाभ्यां विरुद्धाभ्यां कथमेकपदार्थोपस्तितिरिति वाच्यम्।
यथा निरूपकसंबन्धि भेदादेकस्यैवाचार्यत्व मातुलत्वाभ्यामुपस्थितिस्तथा कारकलिङ्गादिसम्बन्धभेदेन बोधकबेदेन च तयोरेकाधिकरणवृत्तित्वेनोपस्थितौ विरोधाभाव इति स्वीकारात्।। -2मानत्वादिति-2।। सर्वलिङ्गसंख्यायोगदर्शनासेत्यपि बोध्यम्।
एकस्यैव धात्वर्थस्य साध्यत्वेन प्रकारतासिद्धत्वेन विशेष्यता। एकनिष्ठत्वमेव तयोर्भेदेन ग्रहणे प्रतिबन्धकम्। तथा च धञ् वाच्यो भावः प्रधानमिति सिद्धम्। अत एव "कर्तरि कृदि" (सू.3-4-67) ति सूत्रे -0क-0भाष्ये (म.भा.द्वि.ख.पृ.257 "अन्यः स भावो बाह्यः प्रकृत्यर्थात्।।" इति हि भाष्यम्।) घञ्वाच्योबावो बाल्यः प्रकृत्यर्थादित्युक्तम्।। -2स्तोकः पाकः इति-2।। घञर्थव्यापारविशेषणत्वात् प्रथमा; न द्वितीया। तस्य कर्मत्वाभावेन तद्विशेषणस्यापि तत्वाभावात्।
न च धात्वर्थभावनान्वयेन तत्सिद्धः। 'ज्योतिष्टोमेन (भक्ति पूर्वं-) यनेते'तिवत्कथञ्चित् प्रथमासंभवेपि 'सामान्येनपुंसकमि'ति नपुंसकतायाः दुर्वरित्वादिति केचित्।। -2द्वितीयेति-2।। नपुंसकत्वं चेति सेषः।। घञादीनां प्रयोगसाधुतामात्रमेवस्त्वित्याशयेनाशङ्कते -
-2न चेति-2।। -2स्थाप्यान्वये-2।। सप्तमीतत्पुरुषः। -2इति दिगिति-2।। इदमत्र तत्वम्। स्तोकादीनां धात्वर्थं व्यापारविशेषणत्वे प्रथमानपुंसकत्वञ्च, प्रत्ययार्थभावविशेषणत्वे प्रथमा पुंस्त्वञ्चेति। तुमुनादिविषये धातुना साध्यावस्थापन्नभाव एवाभिधीयते तुमुनादिप्रत्ययेनापि तादृश एवेति तेषां धात्वर्थानुवादकतामात्रमिति पाकादि शब्देभ्यो विशेष इति 'प्रातिपदि-' कार्थनिर्णये वक्ष्यामः।। 15।।
(भू.सा.धा.नि -16)
-2नियम एव-2 = नियमे सत्येव। (-2स एवेति-2 =) -2तदेवेति-2 = सामान्ये नपुंसकम्, कारकाणां भावनान्वय नियम एवेत्यर्थः। स एवेति पाठस्तु सुगम एव।। -2समानवाक्ये एवेति-2।। एकवाक्ये एवेत्यर्थः। 'आख्यातं सविशेषणं वाक्यमि'ति -0क-0वार्तिककृदुक्तं (म.भा.प्र.ख्.पृ.336 (सू.2-1-1)) लौकिकं वाक्यलक्षणम्। अत्राख्यातशब्देन क्रियाबोधनम्। -0ख-0इदमेवामरेणाप्युक्तम् ("तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता" (2 श्लोकः। अमरसिंहः - अमरकोषः - प्रथमकाण्डम् - शब्दादिवर्गः)) - "सुप्तॢऽन्तंचयोवाक्यं, क्रिया वा कारकान्विते"ति।। अत्र वा शब्दश्चेदर्थे बोध्य इति शेषः। कारकान्वितक्रिया बोध्या चेदित्यर्थः। तथा च कारकान्वितक्रियाबोधकसुप्तिऽन्तं वाक्यम् इति फलितम्।
'सुप् च तिङ् च सुप्तिङ्। सुब्विशिष्टं तिङ् सुप्तिङ्। तयोरेकशेषे अन्तशब्देन समास'स्तेन सुबन्तचय तिञ्न्तचयसुप्तिङन्तचयानां त्रयाणां लक्षणानां लाभस्तत्र प्रथमस्य 'चैत्रेण शयितव्यमि'त्युदाहरणम्। द्वितीयस्य 'पचतिभवती'ति। तृतीयस्य 'चैत्रः पचती'ति। क्रियावेतीति विशेषणेन निरर्थक (यङ्-) समुदायव्यावृत्तिः। सुप्तिङन्तचयपदेन केवलसय् पचतीत्यादेः अस्यापि कर्त्रादौ विशिष्टक्रियाबोधकत्वात्। एतदेवोक्तं 'हरिणा' -
सकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्। (वा.प.का.II. श्लो.4)
कर्मप्रधानं गुणवदेकार्यं वाक्यमिष्यते।। इत्यत्र वाक्यमिल्यस्यैकं वाक्यमित्यर्थः। -01-0'अरथेक्यादेकं (L. अर्थेकगम्यात्) वाक्यं साकाङ्क्षयं चेद्विभागे स्यादि'ति -0क-0जैमिनिसूत्रानुरोधात्। (जै.सू. 2-1-46) अत्र वाक्यं वाक्यर्थबोधकमिति तन्न - "वचोऽशब्दसंज्ञायामि"ति कुत्वनिषेदेनार्थे वाक्यशब्दाप्रयोगात्। उक्तरीत्यात्रद्विविधस्यापि लक्षणस्याव्याप्त्यतिव्यातिग्रस्तत्वाच्च। तथा चास्य संबोधनस्य क्रियाविशेषणत्वाभावेन वाक्यत्वमेव न। तस्मात्क्वैकवाक्यत्वापरपर्यायं समानवाक्यत्वमिति (सू.8-1-17) -0क-0'समानवाक्ये'ति (म.भा.तृ.ख.पृ.324) प्रकृत्यविहितः पदात्परस्या"मन्त्रितस्ये"ति निघातो न स्याति। अतः संबोधनविभक्तेरनुवाद्यविषयतयाऽनुवाद्यस्य च विधेयेवान्वयेन विद्येयतायाश्च क्रियानिष्ठत्वेन तस्यामेवान्वयो वाच्य इति युक्तमित्यग्रे स्फुटीकरिष्यते।
-2तत् क्रियायां विशेषणमिति-2।। संबोध्यमानदेवदत्तविशयव्रजनक्रियायाः संबोध्यमानदेवदत्तेनान्यक्रियातोव्यावर्तनात् व्यावर्तकत्वरूपविशेषणत्वमित्यर्थः। 'देवदत्त व्रजानी'ति, नोदाहृतं, पदात्परत्वाभावात्। 'आख्यातं सविशेषणमि'ति लौकिकवाक्यलक्षणस्यावश्यकतामाह - -2पचतीति-2।। सूत्ररीतिमेवाह - "-2तिङ्डतिङ-2" (सू.7-1-88) -2इतीति-2।। अन्यथा तिङ्न्तद्वये एकवाक्यत्वाभावादेवानतिप्रसङ्गेऽतिङिति निषेधवैय्यर्थ्यापत्तिः स्यादिति भावः। भाष्यकृता तु 'पचति भवती'त्यादेः 'पाको भवती'त्याद्यर्थस्य करणादेकवाक्यत्वं स्पष्टमेवोक्तम्।
ननूक्तरीत्या 'पचति भवती'त्यादौ एकवाक्यत्वाङ्गीकारे प्राप्तनिधातवारणार्थमतिङ्ग्रहणस्यावश्यकतया तत्प्रत्याख्यानासङ्गतिरिति चेन्न -
लौकिकैकवाक्यतासत्वेपि 'एकतिङ्वाक्यमि'ति परिभाषितस्यासत्वेन तद्वैय्यर्थ्यमित्याज्ञयात्। तदुक्तं 'हरिणा'
"एकतिङ् यस्य वाक्यन्तु शास्त्रे नियतलक्षम्।
तस्यातिङ्ग्रहणे नार्थो वाक्यभेदान्न विद्यते।।" (वा.प.का II श्लो. 443) इति। बहुष्वपि तिङ्न्तेषु
साकाङ्क्षेष्वेकवाक्यतोऽतिङिति तिङोनिद्यातस्य प्रतिषेधस्तथार्थवानिति। अत एवोच्चते - "तथातिङन्तमप्याहुस्तिङन्तस्य विशेषणमि"ति (वा.प.II. का.6) वार्तिकमतेपीष्टमाह - -2वस्तुत इव-2 = एकतिङ्विशेष्यकं = एकतिङन्तार्थविशेष्यकम्। एवञ्च 'पूर्वं स्नाति ततो व्रजती'त्यात्र "तिङ्ङतिङ" (सू.7-1-88) इति निद्यातः सिद्दः।। -2पुनः पुनर्जन्म-2 = पुनः पुनरुत्पत्तिः।। -2तस्मिन् द्योत्ये-2 इति।। पंचत्वसंख्योत्पत्तिमदर्थगणने वर्तमानात्संख्यावाचकात् कृत्वसुजित्यर्थात्। प्रत्ययस्तु द्योतक एवः उत्पत्ति मदर्थस्तु क्रियैव। तथा च 'पंचकृत्वो भुङ्कते' इत्यादौ पंचशब्दः पंचत्वसंख्योत्पत्तिमदर्थपरः। तस्य च क्रियायामेव अन्वयः, एतच्छास्त्रात्। बोधश्च पंचत्वसंख्योत्पत्तिका भुजिक्रियेति। कर्तृत्वबहुत्वे तु 'पंचकृत्वो भुञ्जते' इति बहुवचनेऽपि। द्विरावृत्ता दशेत्यादावप्याावृत्तिक्रियाजन्मगणने एव सुच्। यत्र च न श्रूयते क्रिया तत्रास्ति क्रियाध्याहरो बोध्यः। -2क्रियान्वयिनामेवेति-2।। अनेन क्रियान्वयित्वं कारकत्वं इत्युक्तं भवति। वस्तुतः क्रियाजनकत्वमेव कारकत्वं, करोति कर्तृकर्मादिव्यपदेशानित्युत्पत्यर्थककरोतिना भाष्ये व्युत्पादनादिति सुबर्थनिर्णये वक्ष्यामः।
-2इत्युक्तत्वादिति-2 = अयं भावः उपमेयस्य क्रियात्वे उपमानवाचकात्तृतीयान्तात्तुल्यमित्यर्थे वतिरिति -0क-0प्रथमसूत्रार्थः। ("तेन तुल्यं क्रिया चेद्वतिः" (सू. 5-1-115))
न च 'ब्राह्मणवदधीते' इत्यादौ न प्राप्नोति, ब्राह्मणनिरूपितसादृश्यस्याध्ययने अभावादिति वाच्यम्।
ब्राह्मणादिपदानां तत्कर्तृकाध्ययने लाक्षणिकत्वात्। सौष्टवादिश्च साधारणो धर्मः। ततश्च ब्राह्मणकर्तृकाध्ययनसदृशं क्षत्रियकर्तृकमध्ययनमिति 'ब्राह्मणवधीते क्षत्रिय' इत्यैदौ बोधः। एवञ्चास्यक्रियान्वये एव साधुत्वमिति स्पष्टमेवेति।
'अरविन्दवस्तुन्दरं मुखमि'त्यादौ वत्युपपत्तये भवति क्रियाध्याहारः। अरविन्दपदेन चारविन्दभवनं लक्ष्यते। सौन्दर्यञ्च साधारणोधर्म उपात्त एव। एवञ्चारविन्दभवनसदृशं सुन्दरमुखभवनमिति बोधः। अरविन्दमुखयोः सौन्दर्य धर्मकसादृश्यंत्वनन्तरं व्यञ्जनया बुध्यते।
अत एव 'ब्राह्मणेन तुल्यमस्यरूपमि'त्यादौ वतिर्न, क्रियान्वयाभावात्। अनेनैव सिद्धे "तत्र तस्यैवे" (सू. 5-1-116) ति तु द्रव्यगुणादितुल्यार्थम्। "तदर्हमि" (सू.5-1-63) ति तु अर्हार्थमित्यन्यत्र विस्तरः।। -2विधानादिति-2।। -0क-0'वसन् ददर्शे'त्यादाविति (श्रियः पतिः श्रीमति शासितुं जगञ्जगान्निवासो वसुदेवसद्मनि।
वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भङ्गभुवं मुनिं हरिः।। शिशुपालबधम् - प्रथमः सर्गः (श्लोकः)) भावः।
-2उत्तरपदार्थन्वये़ऽपीति-2।। विवेचयिष्यते चेदं नञर्थनिर्णये।।
-2निषेधप्रतीतेरिति-2।। अन्यथा मध्यमपुरुषानापत्तेरिति भावः।। -2तथा (तादृशः-) प्रयोगः-2।। 'घटो न जायते' इति।। प्रयोग तत्वा (काले-) जननाबावसत्वादिति भावः।। 16।।
(भू.सा.धा.नि -17)
"-2क्रिययैवावधार्यताम्-2" (वै.सि.भू.का.17) मूले एव शब्दोऽवच्छेदार्थः। उक्तरीत्या क्रियायामन्वये एव अष्ठकस्य साधुत्वेपि बावनयैवान्वय इति कुतो नियमः। -0क-0'कियायाः परि'त्यादौ ("क्रियायाः परिनिष्पत्तिर्यद्वयापारादनन्तरम्। विवक्ष्यते तदायत्र करणत्वं तदा स्मृतम्।।" (वा.प.तृ.का.सा.र.श्लो.90))फलार्थकत्वेनापि प्रसिद्धस्य क्रियाशब्दस्य क्रियाभ्येत्यादौ ग्रहणसंभवादत आह - -2अयं भाव इति - यौगिक इति-2।। क्रियते सा क्रियेति अर्थः। -2संज्ञाशब्दस्यः-2 भावार्थकक्रियेति संज्ञाशब्दस्य।। -2अनपेक्षेति-2।। योगानपेक्षेत्यर्थः।। -2रथन्तरमुत्तरेति-2।। ज्यतिष्टोमे श्रूयते - 'रथन्तरमुत्तरयोर्गायती'ति ऋग्विशिष्टानां विशेषाणां न विशेषो रथन्तरसाम। अभि त्वा शूर नोनुम इति तु रथन्तरसाम्नो योनिः तदुत्तरं च वेदे वक्ष्यमाण त्वामिद्धिहवामहे इत्यादिका ऋगस्ति। तत्र रथन्तरमुत्तरयोर्गायतीति वचनप्रतिपाद्यं रथन्तरं साम न गेयम् अस्मिन् वचने उत्तराशब्दस्य संज्ञाशब्दतयोत्तरसंज्ञकग्रन्थे वक्ष्यमाणऋच्येव। -0क-0"उत्तरासंज्ञकग्रन्थे-01-0 (V1. ग्रन्थ) (मी.द.अ.9. पा.2. सू.23. पृ.143) हि सर्वेषां साम्नां योनिभूता ऋचो विशिष्यसन्ती"ति सिद्धान्तः।
-2क्वचित्-2 - पाकं करोतीत्यादौ - तथाभूतानि - भावनायां विशेषणभूतानि।। -0ख-0"-2गुणानामिति-2"।। (गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात् जै.सू.3-1-22) परार्थत्वं गुणे हेतुः। समत्वं सम्बन्धे हेतुः। एवञ्च परार्थत्वात् गुणानां परस्परसम्बन्धः समत्वादित्यर्थः।। -2क्लृप्तकार्य्येति-2।। विशेष्यतया धात्वर्थप्रकारकबोधं प्रति कृज्जन्योपस्थितिः कारणमिति क्लृप्तकार्य्येत्यर्थः। -2अदर्शनात्-2 - अपि तु अस्ति, करोतीत्याकाङ्क्षाया एव दर्शनात्। -2तद्‌व्यतिरेकेण-2 - क्रियाव्यतिरेकेण। -2आहु-2रित्यत्रास्वरसोद्भावनम्। तद्बीजन्तु तिङन्तोपस्थितक्रियारहितस्यापि त्वदबिमततस्यैधितव्यमित्यैदेः वाक्यस्येष्टत्वमेव। तदुक्तं 'हरिणा' -
"वाक्यं तदपि मन्यन्ते गर्भितक्रियमि"ति (वा.प.का.II.श्लो.326) गर्भितक्रियं पिण्डीमित्येतदपि वाक्यमिति तदर्थः। इदमुपलक्षणम्। एकक्रियावाचकपदात्मक प्रविशेष्यादि वाक्यस्यापि।
तदप्युक्तम्"आख्यातशब्दे नियतं सधनं यत्र गम्येत।
तदप्येकं समासार्थं वाक्यमित्यभिधीयते" इति।। (वा.प.II.326)
एतेन क्वचिद्कपदात्मकवाक्ये एव इतरान्विते शक्तिरिति -01-0मीमांसकरीतिरूरीक्रियते (L. उपक्रियते) नानेकपदात्मके इति सूचितम्। इतरे च तात्पर्यवशादुन्नेयाः।
नन्वेवं 'गृहं प्रविश' 'पिणअडीं भक्षये'ती समुदितप्रयोगो न स्यादिति चेन्न - तेषां शब्दान्तरत्वेन लौकिके प्रयोगे लाघवानादरेण च प्रयोगसम्भवात्। अत्र प्राञ्चः - बीमसेनाद्यवयवभीमादिपदेन विशिष्टभीमसेनपदस्मरणवत् 'प्रविशे'त्यादि वाक्यैकदेशेनापि 'प्रविशगृहमि'ति वाक्यस्मरणं स एवाध्याहारस्ततो बोध इति तदसमञ्जसम्। बोद्धणां स्मरणाननभवात्। वृत्याऽर्थबोधकत्वाभावेनाप्रातिपदिकत्वात्सुबुप्पत्यनापत्तेश्च। 'उश्चरितः शब्दः प्रत्यायक' इत्य"णुदित्" (सू.1-1-69) -0क-0सूत्रभाष्यप्रमाणेन ("उच्चार्यमाणः संप्रत्याचयको भवति" म.भा.प्र.ख.पृ.327) ततोऽबोधाच्च। एतेन 'प्रविशे'त्यादिक्रियादिना कारकाध्याहार इत्यपास्तम्। किञ्च अध्याहारः किमाक्षेपो वाऽनुमानं वा- तत्रापि किं शब्देन शब्दस्याक्षेपानुमाने आहोस्विदर्थेनेति- नाद्यः स्वार्थप्रतिपादनव्यग्रेण शब्देन शब्दाक्षेपानुमानयोरसंभवात्। नान्त्यः। अर्थस्य शब्दान्तरेण सम्बन्धाभावात्। एतेन शब्देनार्थक्षेप इत्यपि निरस्तम्। उपात्तशब्दस्य शब्दान्तरार्यिणासम्बन्धात्। यथाकथञ्चित् परंपरासम्बन्ध सत्वेपि तस्यानुमिति प्रयोजकत्वाभावात्। 'पीनो देवदत्त' इत्यादिवदनुपपत्यभावेनाऽक्षेपासंभवाच्च। आक्षेपस्यानुमानातिरिक्तप्रमाणत्वाभावाच्च। अर्थेनार्थानुमानमिति चेत्तर्हि तज्जन्यबोधस्य शाब्दत्वं न स्यात्। तस्मात् तत्तदर्थे विशिष्टपदस्य वाक्यस्य च शत्तिऽग्रहकाले तदनुनिष्पाद्यावयवानामपि शक्तिग्रहाद्विशिष्टार्थबोधः। अयमेव च वाक्यैकदेशन्याय इत्युच्यते। अत एव "इग्यण" (सू.1-1-45) इति -0क-0सूत्रस्यभाष्यसङ्गतिः। ("दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः, पदेषु पदैकदेशान्" म.भा.प्र.ख.पृ.252) अत एवाण्याहाये मानसं ज्ञानमिति दिक्।। 17।।
(भू.सा.धा.नि -18)
'भूतले घटो ने'त्यत्र भूतलनिरूपिताधेयत्वाभाववान्घट इति बोधान्न क्रियाध्याहारापेक्षेति 'पर्वतो वह्निमान् भवितुमर्हति, महानसवदि'ति वेदन्त्युक्त प्रतिज्ञायां क्रियापदं व्यर्थमिति च नैय्यायिकोक्तं निराकुर्वन्नाह - मूले - "-2यदि पक्षेऽपि इति-2" (वै.सि.भू.का18) - -2महानसवदिति-2।। अत्र वत्यर्थस्य सादृश्यस्य तन्मते पर्वतेऽन्वयः। स चायुक्त"स्तेन तुल्यमि" (सू. 5-1-115) त्यनेन उपात्तक्रियाकृतसादृश्ये एव वतिविधानात्। अत एव भवितुमर्हतीत्यध्याहार इति वेदान्तिनः। वस्तुत"स्तत्र तस्येवे" (सू.5-1-116) ति वतेः क्रियायोगाऽभावेऽप विधानात् तस्य च प्रकृते सत्वान्न दोषः इत्यवधेयम्।। (1) L. तदिति)
-2अनुसासनविरोधेऽपीति-2।। "तेन तुल्यमि" (सू.5-1-115) ति कारकाधिकारीयसप्तमीविधायक "सप्तम्यधी"ति (सू. 2-3-36) चानुशसनविरोधेऽपीत्यर्थः।। -2चतुर्भ्याः स्पृहीति-2।। -01-0एतन्मते (V1 बोध्यं) चतुर्भ्युपपत्तिस्तु पदाध्याहारेणार्थाध्याहारेण वा बोध्या। मन्मते तु "स्पृहेरीप्सित" (सू.1-4-36) इति शास्त्रबलात् स्पृहयतेरध्याहारेणैवेति बोध्यम्। वस्तुतः अत्राप्युक्तशास्त्रबलात् तत्प्रयोगे, उक्तरीत्या वाक्यैकदेशन्यायेन तदप्रयोगे च तस्याः साधुत्वम्। "क्रियार्थोपपदे"त्येतद्विषये (सू.2-3-14) 'फलेभ्यो यातीत्यादौ तुमुन्नन्ताप्रयोगे स्थानिन इत्युक्तेः। -0क-0"ल्यब्लोपे" ("ल्यब्लोपे कर्मण्यधिकरणे च" (वार्तिकपाठः सं 1474-75)) इत्यादि विषयेऽपि ल्यबन्तरहितवाक्यैकदेशप्रयोगे एव पद्यम्याः साधुत्वम्। ल्यब्लोपे इत्युक्तेः। तत्र तत्तद्विशिष्टेऽर्थे शब्दस्यैकदेशस्योक्तरीत्या शक्तिस्वीकारादिति।। 18।।
(भू.सा.धा.नि -19)
विशब्दार्थमाह - -2न विविच्येति-2 - भेदेनेत्यर्थः। विशेष्यतयेति शेषः। कर्तुः सकाशात् पृथक् ग्रहणरहितेति यावत्। तथा च प्रधानार्थः कर्त्रासंसृष्टयापि क्रियया कारकाणामन्वय इति सकलार्थः। -2कृतपूर्वी कटमिति-2 - अत्र कृतेति न कर्मणि क्तः। कटपदोत्तरद्वितीयानापत्तेरपि तु कलांशे आहार्याभावारोपमात्रेणाकर्मकत्वं स्वीकृत्य भावे क्तः। अथवा कर्मविशेषस्य तत्तद्रूपेण प्रागन्वयाविवदायाऽकर्मकत्वात् भावे क्तः। कर्मत्वेन सामान्यकर्मसदपि नान्तरीयकत्वादविवक्षितमेव। ततः पूर्वशब्देन वृत्तौ, कृतपूर्वशब्दात् तद्धित इनिः कर्तरि। तदुत्तरभावक्तान्तैकदेशस्य कर्मान्वयिधात्वर्थविवश्रायां करादिकर्मणायोगः। यथा नवीनमते "णेरणावि" (सू.1-3-67) ति सूत्रे द्वितीयवाक्यस्य सामान्यभूतोदाहरणे 'स्थलमारोहयति
मनुष्यान् हस्ती'त्यत्र -0क-0भाष्योदाहृते (आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान्। इतरथा हि सर्वप्रसङ्गः म.भा.प्र.ख. पृ. 177) 'मनुष्या हस्तिनमारोहन्ति' इत्यण्यन्तावस्थायां स्थलरूपकर्मानन्वयिधात्वर्तसत्वेऽपि ण्यन्ते तत्रैव स्थलरूपकर्मान्वयि -धात्वार्थविवक्षया स्थलादिकर्मणोयोगस्स्पष्टं चेदं तत्सूत्रे -0ख-0शेखरे। (लघुशब्देन्दुशेखरे कारकप्रकरणे गतिबुद्धि (सू.1-4-52) इति सूत्रव्याख्याने प्रकृतविषयः) स्फुटीकृतः) तद्वत्प्रकृतेऽपि। "कृत किं- कृतो ये कर्तृकर्मणी तत्र यथा स्यादन्यस्य ये कर्तृकर्मणी तत्र मा भूदि"ति भाष्यादिति "कर्तृकर्मणोरि" (सू.2-3-65) ति -0क-0सूत्रभाष्याच्च। (म.भा.प्र.ख.पृ. 525) तद्धितोत्पत्यनन्तरं कर्मणो विवक्षानङ्गीकारे तूक्तभाष्यानुपपत्तिः। भाष्यान्तरमपि "कर्तृकर्मणोरि" (सू. 2-3-65) ति -0ख-0सूत्रभाष्याच्च। (म.भा.प्र.ख.पृ. 526) एतेन बावक्तान्तकृञर्थे कटकर्मत्वान्वयमन्यत्रातिप्रसङ्गनपादनेन दूषयन्कश्चिन्नानुमन्तव्यः। एतादृशव्यवस्थाया उक्तभाष्यप्रामाण्येन प्रयोगद्वयविषयाया नन्यत्रास्वीकारात्। अत्र "कर्तृकर्मणोरि" (सू. 2-3-65) ति षष्ठी तु न। तत्र कृतीत्येतत्सामर्थ्यात् कृदन्तशक्तिज्ञानसहकारेणोपस्थितकृत्प्रकृत्यर्थक्रियानिरूपितकर्तृकर्मणोरेव षष्ठीति तदर्थात्। अन्यथा विङ् योगे "न लोके" (सू. 2-3-69) ति निषेधेनार्थात् कृद्योजे एव षष्ठीसिद्धौ तद्वैयर्थ्यं स्पष्टमेवेति तत्रैव -0ग-0भाष्ये (म.भा.प्र.ख.पृ.525) स्पष्टम्। इह तु कृञ् धातुक्तप्रत्यय - पूर्वशब्दइनिप्रत्यय- -01-0शक्तिज्ञानसहकृततद्धितान्तशक्त्यैव (L. तद्धितत्वं) पूर्वकालक्रियाकर्तृणां परस्परविशिष्टानां बोदेन कृदन्तशक्तिज्ञानमपि -02-0तत्र (L. तत्) सहकारि। अन्यत्र कृञः कतस्य भावार्थकस्य प्रयोगाभावेन तदन्तमात्रस्य पृथक्शक्तिग्रहे मानाबावात्। चतुर्णामेकार्थीभावे द्वयोरपि सोऽस्त्येवेति नात्रकृतोऽसाधुत्वम्। 'तण्डुलानां पाचकतर' इत्यादौ च न दोषः। पाचकादिपदस्य पृथक् प्रयोगसत्वेन तु कृदन्तशक्तिग्रहस्यापि सत्वात्तदन्तशत्तिऽज्ञानसहकारेणैव समुदायादुपस्थितिः षष्ट्याः सौलब्यात्। एतेन निष्टान्तत्वा"न्न लोके" (सू. 2-3-69) ति निषेधेन उक्तोदाहरणे कटपदात्षष्ठ्यभावसिद्धौ "कर्तृकर्मणोरि" (सू.2-3-65) ति सूत्रे कृद्‌ग्रहणं व्यर्थमित्यपास्तम्। उक्तुरीत्याऽत्रापि निष्टान्तपदशक्तिज्ञानसहकारेणोपस्थितक्रियान्वयिनोः कर्तृकर्मणोः षष्ठी नेत्यर्थेन निषेधाप्रसरात्। इह असामर्थ्यात्कथं तद्धित इति तु नाशङ्कनीयम्। कृतपूर्वशब्दाद्भावक्तान्तघटितात्तद्धितोत्पत्तिकाले कटाद्यन्वयाभावेनासामर्थ्यात्। तद्धितोत्पत्यनन्तरं तु क्रियाद्वारकसम्बन्धेन- तद्धितार्थकर्त्रा ' कट' इत्यादेः सम्बन्ध इत्यन्यत्। अत एव "वृत्तस्य विशेषणयोगो ने"ति निषेदोपि न प्रवर्तते। तस्य वृत्तैकदेशविशेषणांशे एव प्रसक्तेः। अत एव 'राजपुरुष' इत्यादौ विशेषणराजादेः न विशेषणान्तरान्वयः। विशेष्यस्य तु पुरुषादेर्भवत्येव। "सविशेषणानां वृत्तिर्ने"त्यस्यतूक्रीत्या प्रसक्तिरेव नास्ति। तद्धितवृत्तेः पूर्वं सविशेषणत्वाबावान्नित्यैकार्थीभावलक्षणसामर्थ्यवादिमते तयोः वचनयोः भाष्ये प्रत्याक्यानाच्च। एतेनोक्तनिषेदात् कथं वृत्तिरित्यपास्तम्। वाक्येत्वेवं रीत्या कर्मणोऽविवक्षानेति 'कृतः कटं' इत्यादि न। एतेनासामथ्यात्तद्धितो न -01-0स्यादित्यपास्तम्। (L. स्यादिति यत् अपास्तम्) ईदृशी च रीतिरत्र'धीति व्याकरणे' इत्यत्र च द्रष्टव्या। परमन्त्ये द्वितीयां बाधित्वा सप्तमी "क्तस्येन्विषयस्य कर्मण्युपसंख्यानमि"ति वार्तिकात्। इन्प्रकृतिभूतस्य क्तान्तस्य योगेऽनभिहिते कर्मणि अभिधेये सप्तमी तस्यार्थः। 'अधीती'त्यस्य च कर्मक्तान्तत्वे सप्तमी न स्यादिति तत्राप्युक्तरीतिरेव सर्वापि इति सकलशाब्दिकानां पन्थाः। इममेवार्थे सप्तमी -0क-0स्यात्कर्म्मणि (पदवाक्यरत्नाकरः - गोकुलनाथोपाध्यायाः (165 श्लो.कः) कारिका कारकसप्तमीविवरणम् - पृ.830) वा यदीष्टादिपदादिनिः।
अन्ये तु नित्यमेवात्र सप्तमीत्याचचक्षिरे।। इति सप्तमीकारकशेषे उपाध्याया अनुमेनिरे, परं विकल्पोक्तिः पक्षान्तरत्वेन तेषां निष्प्रमाणा भाष्याद्यसंमतत्वात्। भट्टाचार्यास्तत्रोदासीना एव। -0ख-0शब्दशत्तिऽप्रकासिकाकारा (पृ. 294-390 (कारकप्रकरणम्)) अपि अमुमेव प्रयोगं व्याकरणान्तरस्थवचनांतरेण साधयन्तीति सर्वं सुक्थम्। एव सति द्वितीयान्तघटिताधीती व्याकरणमिति प्रयोगसाधनार्थं केषाञ्चित् श्रमोपि निष्फल एवेति सुधियो विभावयन्तु।।
-2गुणभूता इन्यादिभिरिति-2।। यद्यपि 'ग्रामं गत' इति दृष्टान्ते क्तार्थकर्तृगुणीबूतगमनक्रियाया विशेष्यत्वेन कास्कान्तरे ग्रामादावन्वयः। दार्ष्टान्तिके 'कृत पूर्वी कटमि'त्यत्र उक्तार्थविशेषणीभूतकरणक्रियाया इन्नर्थकर्तृकारके विशेषणत्वेनान्वय इति वैषम्यम् तयोस्तथापि कर्तृविशेषणतापन्नक्रियाया अन्यत्र कारकान्तरेऽन्वय इत्येतावान्मात्रप्रतिपादने तात्पर्यात् न देष इति दिक्।। 19 ।।
(भू.सा.धा.नि -20)
"द्रिर्वचनेऽचि"ति निर्देशादेव सिद्धावस्थापन्नक्रियाय अपि ग्रहणं "संक्यायाः क्रियाभ्यवृत्ती" (सू.5-4-17) ति सूत्रे क्रियाग्रहणं तूत्तरार्थमिति। केचित्तु भोक्तुं पाक इत्याद्यसाध्येव "उपपदमतिङि" (सू. 2-2-19) ति सूत्रेऽतिङ् ग्रहणस्य
क्रियावाचिनि लक्षणायां ण्वुल्विषये कारको गत इत्यत्र समासनिषेधः फलमित्युक्त्वा नैतत् क्रियावाचीति -0क-0भाष्ये ("नैतत् क्रियावाचि।। किं तर्हि - द्रव्यवाचि।" म.भा.प्र.ख.पृ. 439) उक्तत्वात्।।
-2गुणबूतां तामिति-2।। धातुवाच्यां साध्यावस्थापन्नक्रियामित्यर्थः।
"लकृत्यक्तखलर्थानां तथाव्ययकृतामपि। (वा.प.III क्रिसं. 52)
रूढिनिष्ठाघमादीनां धातुः साद्यस्य वाचकः।।" इति 'हर्यु'क्तेस्तस्यसाध्यावस्थापन्नक्रियावाचकत्वात्।।
-2साध्यमात्रस्वभावेति-2।। सिद्धत्वमनापन्नासाध्यस्वभावेत्यर्थः। इयन्तु सिद्धावस्थापन्नक्रियाभेदमापन्नेति मात्रपदेव्युदासः। -2अतिप्रसङ्ग इति-2।। 'भुक्त्वा पाकः' इत्यादौ कृत्प्रकृत्युपस्थाप्यासत्वभूतक्रियान्वयेत्क्त्वादीनां साधुत्ववत्तादृशक्रियान्वये कृत्वोर्थानां साधुत्वापत्तौ द्विपाकस्तिपाक इत्यादिप्रयोगातिप्रसङ्ग इत्यर्थः। पाक ित्यादौ तु तदापन्नैवेति तद्व्यदासः। - तद्वक्ष्यति -
-2न चेति-2।। वाच्यं वक्त्व्यम्। न च , नहि, आहुरित्यस्वरसोद्भावनम्। तद्बीजं तु प्रागभिहितम्।। 20।।
(भू.सा.धा.नि -21)
बावनायास्तिङर्थत्वमिति मीमांसकमतं सिंहावलोकनन्यायेन पुनर्दूषयितुमह -
-2ननु सिद्धान्ते इति-2।। वाक्यस्कोटरूपे इत्यर्थः। आक्यातशब्दे तिङन्ते धातोर्भावनानभिधायकत्वे आख्यातस्य च कर्त्रनभिधायकत्वेऽसाधुत्वं स्यादित्याह
-0क-0-2भेद्य इति-2।। (वै.सि.भू.का. 21) संप्रदायः तत्रैव ।। -2साधुत्वे एव शलत्वमिति-2।। दण्डनिष्ठकारणतावच्छेदकोधर्मो दण्डत्वं यथा न कारणतातोभिन्नं तथा साधुत्वावच्छेदको धर्मः शत्तिऽर्न साधुत्वाद्भिन्नः। अपि तु साधुत्वमेवेत्यर्थः। तथा च तस्यापि व्याकरणस्मृत्यधीनत्वमितिभावः। -2स्यादेवेति-2।। अयं भावः यस्मिन् विशेष्ये यादृशविशेषणान्विते यादृशानुपूर्व्याः सूत्रवार्तिकभाष्यकाराद्यन्यतमेन साधुत्वमुक्तं स शब्दस्तत्रसाधुरन्यत्रासाधुरत एव दन्त्यमध्यास्वशब्दस्य अश्वे न साधुता धातोस्च भावनाऽनभिधायकत्वेऽसाधुत्वमेव स्यात्। व्याकरणेन तथैव साधुत्वाबोधनात्।
न चैषा व्याकरणस्मृतिर्निर्मूलेति वाच्यम्। तस्मात् "ब्राह्मणेन निष्कारणो धर्मो षडङ्गो वेदोऽद्येयो ज्ञेयश्चे"ति -0क-0श्रुतेर्मूलत्वात्। (म.भा.पस्पशाह्निके पृ. 16)
"पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम्।
सर्वोऽपकारकं ग्रन्थ्यं कृत्स्नं त्याज्यं न किञ्चने"ति पराशरोपपुराणाच्च।
नन्वाख्यातेन भावनाबिधानस्य 'जैमिन्याचार्यैरूपवर्णितत्वात्कथं' तदर्थे तस्यासाधुतेति चेन्न - वाक्यार्थविचारार्थमेव त -01-0च्छास्त्रप्रवृत्या (V1. अप्रवृत्या) तेषामत्र पदार्थविचारे तात्पर्याभावात्। व्याकरणस्य च कोसादिवच्छतिऽपरिच्छेदकत्वात्। यदाहुः - शक्तिग्रहमित्यादि।।
-2नानृतमिति-2।। क्रतुप्रकरणाधीतश्रौतेत्यादिः। मीमांसकः शङ्कते - -2ननु त्वन्मते इति-2।। आक्यातस्य कर्त्रर्थकत्वमते इत्यर्थः। -2श्रुत्या-2 = आक्यातश्रुत्या। -2प्रकरणात्-2क्रतुप्रकरणात्। क्रत्वर्थत्वे सत्यनृतवदने क्रतोर्वैगुण्यम्। पुरुषार्थत्वे सति पुरुषस्य प्रत्यवाय इति फलभेदः। वैयाकरणः समाधत्ते -2तिङर्थस्त्विति-2 सिद्धान्तमाहा-2स्तु वेति-2।। -2जञ्जभ्यमानो-2 - जृम्भयाविदारितमुखः।। -2मन्त्रविधिवदिति-2।। यतायं विधिः क्रत्वर्थमन्त्रप्रकरणाच्छानचा कर्तुरभिधानाच्च क्रतुयुक्तपुरुषार्थस्तथायां निषेधविधिरपीत्यर्थः।। 21।।
-0इति शिवमिति
-0लघुभूषणकान्तौ
-0धात्वर्थनिर्णयः।। श्रियै
-0नामः।।




-0लकारार्थनिर्णयः
।। श्रीः।। आख्यातार्थेनिरूपिते प्रसङ्गात्तत्स्थानिबूतलकारार्थविशेषं निरूपयति मूले - वर्तमाने (वै.सि.का.22) त्यादिना।। अत्र केचित् = प्रसिद्धपरिमाणासूर्यक्रियैव -01-0गमनादिक्रियान्तर (V1. द्विरुक्तिः) --02-0परिच्छेदहेतुत्वात्कालः। (L. परिच्छेदे)
न च क्रियायाः कालत्वे, 'इदानीं घट' इतिवत् क्रियायां घट इत्यापत्तिरिति वाच्यम्।
-03-0कालत्वेनैवरूपेण (V1. परिच्छेदे) तस्याः -04-0कालिकसम्बन्धावच्छिन्नाधारतास्वीकारादिति। (L. काल)
तन्नयुक्तम्। क्रियायाः त्रिक्षणावस्थायित्वेन क्षणव्यवहारानापत्तेः। सूर्यक्रियापरिमाणत्वस्यापि क्रियान्तरादौ स्वीकारेऽनवस्थापत्तेश्च।
अन्ये तु नित्यं विभुमखण्डमतिरिक्तं कालमाहुस्तदपि न युक्तम्। कालस्यापि करणत्वेनैव तत्तत्कार्यं प्रति कारणतयोपाध्यनालिङ्गित'स्येदानीं घट' इत्यादिव्यवहारोपयोग्याधिकरणत्वासंभवेनापरिच्छिन्नसूर्यक्रियाया उपाधित्वासम्भवेन तत्परिच्छेदकान्तरस्वीकारेऽनवस्थापत्या दोषदार्ढ्यात्। सिद्धान्तेऽद्वैतस्यान्यत्र प्रतिपादितत्वेन नित्यत्वासंभवाच्च। परे तु प्रकृतेः परिणामः, क्षणानां धारारूपः कालः; तस्यैव क्षणस्य प्रचयविशेषैर्लवपल (द्वयादि द्विपरार्द्धान्त -) व्यवहाराः। ते च क्रमिकानेकक्षणावयवका बौद्धाः। क्षणसमाहाराः क्षणप्रवाहाविच्छेदरूपाः। तत्तत्पानीययन्त्रादिपरिच्छिन्नकिञ्चित्क्षणसमूहपरिच्छिन्ना सूर्यक्रिया च निमेषादिपरार्द्धपर्यन्तं तत्तद्भेदानुमापिका। क्षानां तु अतीन्द्रियतया अननुमेयत्वेन चास्मदादीन्प्र्त्यहराद्युपाधित्वासंभवात्। अतीन्द्रियद्रष्ट्रृभिर्योगिभिस्तत्तत्क्षणसमूहपरिच्छिन्नसूर्यक्रियापरिच्छिन्नत्वमहरादीनां ज्ञात्वा तत्कालनियामकत्वेन यन्त्रपानीयपलानां छायादीनां च निर्णयपूर्वकं नियमनोदनादित्याहुः।।
उक्तरीत्या क्षणरूपस्यातिसूक्ष्मवर्तमानकालस्य प्रत्यक्षेण निश्चेतुमसक्यत्वादनुमानगम्यत्वमाह - -2प्रारब्धापरिसमाप्तत्वमिति-2।। तत्वञ्च एकफलोपहितव्यापारसमुदायघटकाद्यव्यापारप्रागभावानधिकरणत्वे सति चरमव्यापारध्वंसानाधिकरणत्वम् आद्यत्वचरमत्वे पुनरनयैव -01-0दिशानुसन्धेये। (L. 'अनुसन्धेये' आरभ्य 121 पुटे उपअन्तिम 'आधे' पर्यन्तं (चत्वारिपुटानि) त्यक्तानीव।) एतल्लक्षणं क्रियाया एव कालत्वम्। अभ्युपेत्य। क्रियागतं कालस्य तु तत्तद्भावोपाधिकं कर्तमानत्वादि। वर्तमानत्वाद्यवस्थया गृहीतं घटादि स्वरूपं स्वाधारे काले आरोप्य तत्र वर्तमानबूतत्वग्रहः समर्थहेतुसन्निधाने भावित्वेन यद्रूपं बुद्धौ निश्चितं तत् प्रतिबिम्बस्य निर्मलादर्शरूपकाले सम्भवात् बिम्बप्रतिबिम्बयोः एकत्वाध्यवसायात् तद्गतं भावित्वं काले आरोप्यतस्य भावित्वमध्यवसाय तदुपाधितद्भावेषु व्यवह्रियत इति। क्षणधारायाः कालत्वमते तु प्रारब्धापरिसमाप्तक्रियाधिकरणसम्यत्वं वर्तमानत्वमिति बोध्यम्। अस्मिन् पक्षे वर्तमाना क्रियेत्यस्य तत्कालवर्तिक्रियेत्यर्थः।
ननु आदिकर्मविषये 'प्रकृत करं देवदत्तः', 'प्राकार्षीत् कटं देवदत्त' इत्यादौ व्यापारसमुदायस्य भूतकालवृत्तित्वाभावात् भूतप्रत्ययानुत्पत्तिर्वर्तमानप्रत्ययापत्तिश्चेति चेन्न -
अवयवगतातीतत्वस्य समुदाये आरोपेण तता प्रयोगात्। अत एव अनेकदिनगमनप्राप्यं ग्रामं जिगमिषुः प्रथमे दिने किंचित् गत्वा 'इदमद्यगतम्' इति तद्धिने तत्फलावच्छिन्न- गमिक्रियाया असमाप्तावपि यत्किञ्चिद्गतिक्रियातीतत्वेन समुदाये अतीतत्वमादाय तथा प्रयोग इति स्पष्टं "निष्टे" (सू. 3-2-102) ति सूत्रे -0क-0भाष्ये (म.भा.द्वि.ख.पृ. 170) इति बोध्यम्। "क्रियाभेदाय कालस्तु" (वा.प.का.III श्लो. सं. 2) इति वाक्यपदीयादपि कालस्य क्रियापरिच्छेदकत्वलाबेन तयोर्भेदलाभः।। -2मध्ये इति-2।। अनेन सर्वेषां व्यापाराणामतीतत्वे भूतत्वं, सर्वेषां च भावित्वे बाविष्यत्वमिति सूचितम्। -2तदस्ति-2 = वर्तमानत्वमस्ति।
ननु व्यापारसन्तानः क्रिया, यथा हि पच्यादौ फूत्कारादीनामवयवानां वैलक्षण्याप्रतीतेः तत् समुदायस्य भवति क्रियात्वम्, तथाऽऽत्मास्तीत्यादौ स्थितिरूपा क्रिया एकविधैवेत्यवयवनैलक्षण्याभावेन प्रारब्धेत्यादिलक्षणासंभव इत्यत आह - -2आत्मास्तीति-2।। अन्ये तु आत्मास्तीत्यादावात्मधारणानुकूलव्यापारस्य प्रारब्धत्वात् न प्रारब्धापरिसमाप्तिरूपं वर्तमानत्वं संभवतीति कतं घटत इत्याह - आत्मास्तीत्याहुः। परे तु पर्वतादेः स्थितिसत्तारूपव्यापाराः सदृशावयवत्वात् दुरवधृत भेदा इति कालबेदाभाव इति कथं घटत आह - आत्मास्तीत्याहुः।। -2तात्कालिकानामपि-2।। तेषां हि
क्रियाविलक्षणावयवत्वेनानुभूयमानात् विसदृशसन्तानतयाऽवधृतबेदाः यथाधिश्रयणादि - विसदृश - स्व - भावावयवाः क्रियाः पाकादयः प्रसिद्धकालभेदा इति तत्सहचरिताभिः पर्वतादिस्थितिर्भिद्यते। राजक्रियाः पर्वतादिस्थितिभेदकत्वेनाश्रीयन्ते। तत्साहचर्याद्विशिष्टपर्वतादिक्रियाणामपि विशिष्टभेदाद्भेद इति रीत्या बेद इति यावदित्येव वर्तमानत्वमिति तात्पर्यम्।। -2अनित्यत्वात्-2।। उत्पत्यादिबेदेन भिन्नत्वात्।। -2तद्विशिष्टस्य-2।। आत्मादिवृत्तिव्यापारस्य।। -2तिष्ठतेरधिकरणमिति-2।। इदं च क्रियायाः कालत्वमभिप्रेत्य। अत एव एतद्भाष्यप्रतीकमुपादाय "तत्तद्राज्ञां स्थितिर्भूतादिकालभेदेन भिन्ना, पर्वतादिस्थित्यादेर्भेदिकेति क्रियारूपत्वं कालत्रययोगश्चोपपद्यते" इत्यर्थ इति -0क-0कैयट (म.भा.प्र.द्वि.ख.पृ. 284 "वर्तमाने लट्" (सू. 3-2-123)) आह। वस्तुतः क्षणधारा काल इति मतेपि क्रियापदस्य तत्परिच्छेदककालपरत्वेन तदाश्रयस्य कालस्य पर्वतादिस्थितावात्मसत्तायां चारोपमादाय भाष्यं सुयोजमिति बोध्यम्।। -0क-0-2आत्मा तु-2 = स्वरूपं तु।। ("परतो भद्यते सर्वम्" वा.प. III काल. सं.का. 80) -2न विकम्पते-2।। न भिद्यते।। -2पररूपेण-2 = परकीयक्रियारूपेण। -2तच्छेनेति-2।। आसमन्तात् बवतीत्याभ्यं ज्ञानं तुच्चेन तमसा पिहितमासीदित्यर्थः। -2लडादेरिति-2।। लडादेर्द्योतकत्वञ्च समभिव्याहृतेन पदेन शक्त्या लक्षणया वा अर्थबोधने तात्पर्यग्राहकत्वमेव। इदमेव शक्त्यादायकत्वमिति बोध्यम्। युक्तञ्चैतत्। लडादेः शक्त्यन्तराकल्पनप्रयुक्तलागवात्। उपपादितमिदमधस्तात्। पक्षान्तरमाह - -2अन्वयेति-2।। -2अन्यथा-2।। वर्तमानत्वादीनां लडाद्यावाच्यत्वे। एतन्मते "वर्तमाने लडि" (सू. 3-2-123) ति सूत्रस्वरसोपि सङ्गच्छते।। -2पक्षान्तरमिति-2।। पक्षद्वयस्यापि भाष्यात्प्रतीतेरिति स्पष्टं बृहदभूषणे।।
-2अद्यतनाऽनद्यतनेति-2।। अद्यभवोद्यतनः। अत्र समुदायावयवभेदपरिकल्पनया -01-0एकस्यैव कालस्याधाराधेयवाचकपदेन (L. 117 पुटे अन्तिमवाक्यस्थ 'अनुसन्धेये'त्यारब्य अस्मिन् 'आधे'पर्यन्तं (चत्वारि पुटानि) त्यक्तानीव।) निर्देशः। तदुक्तम् 'हरिणा' --
-0क-0"कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिका" (वा.प.III सम्बन्धसमुद्धेशे श्लो.85) इति भूतादीनामुक्तकालघटितलक्षणादेवनद्यतन इत्या(दीनां-)दि -01-0भूतादिविशेषणत्वम्। (V1. भूतादिनाम्) 'पपाचे'त्यादिसब्दजन्यबोधे च परोक्षत्वानद्यतनत्वयोर्भानान्नतद्विषयसंदेहः। अद्यतनन्तवञ्च अतीताया रात्रेः पश्चादर्धेनागामिन्याः पूर्वार्धेन च सहितो दिवसो -02-0अद्यतनस्तत्वं (L. अद्यतन ---- सहितो दिवसो - न दृश्यते) (अद्यतनत्वं-) तद्भिन्नत्वं चानद्यतनत्वमिति वृत्तिकाराः। "अतीताया रात्रेरन्त्ययामेनागमिन्याराद्ययामेन च सरितो दिवसोऽद्यतन" इति "लुङ्" (सू. 3-2-110) सुत्रे -0ख-0कैयटोपाध्यायाः। (म.भा.द्वि.ख.पृ.275)
प्रत्येकस्य क्रमेण कृत्यान्याह - -2तेनेति-2।। '-2साक्षात्करोमि-2' -2इत्येतादृशविषयेति-2।। -03-0एतादृशव्यवसायनिरूपिता (L. 'तु' - अधिकः पाठः) या विषयता तद्वद्यज्ज्ञानं व्यवसायात्मकं तदविशयत्वमर्थनिष्टं तदित्यर्थः। सर्वासां व्यापारसमूहरूपक्रियाणां पारोक्ष्येण -04-0'परोक्षे' (L. परोक्ष्ये) इत्यस्याव्यावर्तकत्वमाशङ्कते - -05-0-2न चेति-2।। (V1. न चेति - न दृश्यते) अत्यन्तापरदृष्टेति पाठः। अत्यन्तं परेण प्रत्यक्षात्मकप्रमाणेनादृष्टेत्यर्थः।
-2पूर्वापरीभूतावयवेति-2 - -01-0पिण्डीभावाभावासम्भवप्रदर्शनाय (L. भाव ---- सम्भवादिति - न दृश्यते) -2पिण्डीबूताया इति-2।। अवयवानां क्षणिकत्वेन पिण्डीभावस्यैवासम्भवादिति भावः।। -2विषयत्वसंभवादिति-2।। अत एव "भूवादि" (सू. 1-3-1) सूत्रे -0क-0कैयटेनोक्तं (म.भा.प्रदीपः. प्र.ख.पृ. 115) "समूहस्याप्रत्यक्षत्वेपि एकैकस्यक्रियात्मकक्षणस्यप्रत्यक्षत्वेन बुद्ध्या तान् क्षणान् संकलय्य पचतीति प्रयुज्यते" इति ।। -2अन्यथेति-2।। क्रियाया अवयवशः साक्षात्काराविषयत्वे इत्यर्थः।। -2तस्याः-2 धावनक्रियायाः। -2दर्शनकर्मतेति-2 = प्रत्यक्षाविषयतेत्यर्थः।
-02-0ननु (L. न)साध्यत्वेनाभिधीयमानो गुणभूताक्यवः क्रिमिकव्यापाराणामेकफलजनकत्वविषयैकबुध्या विषयीकतः समूहः क्रिया तत्रावयवानां मेलनासंभवेन समुदायोऽप्रत्यक्षा एव। किञ्च पचति क्रियाया यथोदकासेचनादयो अवयवास्तथा तेषामप्यन्येऽवयवा इति तेपि समूहरूपा एव। यस्तु क्षणरूपश्चरमावयवः स तु शुद्धो न धातुवाच्यः, किन्तु तद्वाच्यस्याश्रितक्रमरूपत्वात् समूहात्मनैव वाच्यः। एवञ्च सदसद्रूपा क्रिया न सद्वस्तुविषयेन्द्रियग्राह्या। तदुक्तम्ः -
-0क -0"क्रमात् सदसतां तेषामात्मानो न समूहिनाम्।
    सद्वस्तु विषयैर्यान्ति संबन्धं चक्षुरादिभिः।।" इति (वा.प.III क्रि.स.श्लो. 6)
वस्तुतः क्षणरूपावयवा -01-0अप्यप्रत्यक्षा (V1 अथ) एव। शतपत्रभेत्तुरतिनेदिष्टस्यापि स्वाङ्गुल्यादिगतशतक्रियाभेदतत्तत्कृतसंयोगभेदानवगमेन -02-0वस्तुसौक्ष्म्यवत् (V1 वस्तु - एतन्नवर्तते)
सूक्ष्मकालावच्छिन्नत्वस्यापि प्रत्यक्षे प्रतिबन्धकत्वावश्यकत्वेन क्रियायाः -03-0प्रत्यक्षासंभवात्। (L. 'प्रत्यक्षा ----- क्रियायाः' न दृश्यते।) एत एवात्यन्तापरेत्यत्रात्यन्तपदोपादानम् अवयवशः समूह्तश्च क्रियायाः पारोक्ष्यं प्रतिपादयितुम्। तस्मात् कालानुमेयैव सर्वाक्रिया। 'पश्य मृगो धावती'त्यादौ तु दृशेर्ज्ञानसामान्यपरता धावते--04,5-0रुत्तरदेशसंयोगरूपफलपरता (L. देशे, V1 रूप - एतन्नवर्तते) वा। 'वृष्टश्चेद्देवः संपन्नाः शालयः' इत्यत्र अपूशालिबीजसंयोगे निष्पदेः (सम्पदेः -) वृत्तिवत्। अन्यथा -06-0प्रकृतेऽवयवस्य (V1 प्रकृतेवयवत्वस्य तस्य धात्ववाच्यतया) प्रत्यक्षत्वेऽपि तस्य धात्ववाच्यतया 'पश्य मृगे'ति प्रयोगानुपपत्तिरेव स्यात्। अवयवस्य धात्ववाच्यत्वादेव "भूवादि" (सू. 1-3-1) सूत्रे "यदात्वेकस्मिन् क्षणे पचतीति प्रयोगस्तदापि तत्र समूहरूपारोपणम्। शब्दशक्तिस्वभावात् चैकः क्षणः नैव धातुवाच्यः इति -0क-0कैयटो" (म.भा.प्रदीपः प्र.ख.पृ.115) वदन् सङ्गच्छते। विञ्चावयवस्य -02-0प्रत्यक्षत्वे (V1 प्रत्यक्षत्वेन) 'प्रकृतः कट' इत्यादौ अवयवातीतत्वेन समुदायातीतत्वमादाय क्त प्रत्ययाद्युपपादनवदवयवप्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमादाय तद्वयावर्तकतया परोक्षे इत्यस्य चारितार्थे "वर्तमाने लडि" (सू. 3-2-123) ति -0ख-0सूत्रभाष्य (म.भा.पृ.द्वि.ख.पृ.283)- -03-0पूर्वपक्षसिद्धान्तयोरसङ्गत्यापत्तेरतो (L. योग) मतान्तरमाह -
-2व्यापाराविष्टानामिति-2।। व्यापाराविष्टानामित्यर्थः (-)। पूर्वोक्तकैयटस्तु योगिप्रयोगविषयः। तदयं सूत्रार्थः भूतानद्यतनी क्रियाविष्टपरोक्षसाधनिका च या क्रिया तद्वृत्तेर्धातोलिडिति।। -2अयमिति-2 - क्रियानुकूलसाधनस्य अयं पदार्थस्य कर्तुः प्रत्यक्षत्वेऽपि व्यापाराविष्टत्वात्। व्यापारविष्टतादृशसाधनपारोक्ष्यमेवेति समुचितो लिट्प्रयोगः। वदन्तीत्यस्वरसस्तु, क्रियाप्रत्यक्षं विना तद्विशिष्टसाधनस्यापि प्रत्यक्षासंभवः। किञ्च क्रियाया एव पारोक्ष्ये लिडुचितो लाघवात् ; यतो "धातो" (सू. 3-1-91) रित्यधिकृतस्य धात्वर्थे लक्षणायां -01-0स्ववाच्यत्वं (V1 वाच्यत्व) सम्बन्धः, साधनलक्षणायां तु -02-0स्ववाच्यसाधनत्वं (V1 साधनत्व) सम्बन्ध इति गौरवमिति। परमार्थतस्तु क्रियाफलस्य विक्लृत्यादेः प्रत्यक्षत्वेन -03-0क्रियाप्रत्यक्षत्वबुद्धिः। (L. प्रत्यक्ष) तत्पारोक्ष्येण च तस्याः पारोक्ष्यम्। तथा च -04-0भूतानद्यतनपरोक्षफलिका (L. फलिकायां) या क्रिया तद्वृत्तेर्धातोर्लिडित्यर्थः। स्पष्टं चेदं -0क-0भाष्ये ("परोक्षे लिट्" (सू. 3-2-115) म.भा.द्व.ख.पृ. 179) इति बोध्यम्।। -2व्यासङ्गादिनेति-2 - आदिना चित्तविक्षेपादि।। -05-0-2अनद्यतनातीतत्वयोरभावेनेति-2।। (V1 अनद्यतन - न दृश्यते) बहुतरमनः -06-0प्रणिधानसाध्यशास्त्रार्थनिर्णयजनकशब्दरचनात्मकग्रन्तविस्तारक्रियायां (V1 स्वभावात्मक) तयोरसत्वेनेत्यर्थः। वस्तुतो भूतत्वानद्यतनत्वपरोक्षत्वानामारोपेणोपपद्यते लिट् प्रयोगः। आरोपफलन्तु -07-0ग्रन्थे (V1 ग्रन्थविवेकफलकममुमित्यपभ्रंशः) -08-0अतिसुकरत्वशीघ्रानिष्पाद्यत्वादिप्रत्यायनम्। (V1 सुकर --- फलक - न दृश्यते) तत्फलं तु अर्थविवेकफलकममुं ग्रन्तं ज्ञातुमुत्कण्ठितानामध्येतॄणामाह्लादः। परोक्षत्वारोपोप्येतत्फलक एव। -09-0एवं (L. एवं - न दृश्यते।) सूक्ष्मकालेन करिष्यामि यत्र करणकाले स्वयमपि साक्षात्कर्तुमशक्यमित्येवं बोधनात्। युक्तं चैतत् - "इयं तु कदा गन्ता यैवं पादौ निदधाती"त्यादौ -0क-0भष्यप्रयोगे (म.भा.द्वि.ख.पृ.210) अद्यतनेऽनद्यतनत्वारोपमात्रेण लुट् प्रयोगात्। -01-0तदारोपफलन्त्वतिविलम्बेनगमन (L. फलत्वमिति) प्रत्यायनम्। परमार्थतस्तु व्यातेनेत्यादौ न परोक्षत्वरोपः। -02-0भविष्यतः (L. ति) प्रयोगकाले परोक्षत्वस्य वास्तवत्वात्। क्वचित् स्वव्यापारस्य व्यासङ्गदिना मनोऽसंनिधानात्स्वयमप्रसन्धाने पस्चात् सख्याद्युक्त्या ज्ञाने तत्कार्येणानुमितौ लिङ्भवत्येव। यथा-
-0ख-0"बहुजगदपुरस्ताप्तस्य मताकिलाहमि"त्यादौ। (शिशुपालवधम् - 11 सर्गः 37 श्लोकः) इह तु न पूर्वक्तयोरसंभव इति विभाव्यताम्।
-2इवो भाविनीति-2 मूले।। इवः पदं, परश्वइत्यादीनामुपलक्षम्। तदह - -2अनद्यतने भाविनीति-2।। भविष्यत्वमात्रविवक्षायां लृटि पश्चात् श्वः पदेनान्वये श्वः द्रक्ष्याम इत्यपि जातसंस्कारस्यानिवर्तनादिति बोध्यम्। -01-0-2तत्वञ्चेति-2।। (V1 तत्वम् --- इत्यरथः - न दृश्यते) -2वर्तमानप्रागभावः-2 वर्तमानकालिकोत्तरसमयप्रागभावः। -2तत्प्रतियोगी-2 = उत्तरसमयः। तदुत्पत्तिमत्वं भविष्यत्वमित्यर्थः।। -2भविष्यत्सामान्ये इति-2।।
ननु वृष्टेदेवे सति 'देवश्चेद्वृष्टः', 'संपन्नाः शालयः' इति प्रयुज्यते ; तदयुक्तम् संपत्तेर्भावित्वेन संपत्स्यते इत्यस्य युक्तत्वादिति चेन्न -
अप् शालिबीजसंयोगे एव संपदेर्वृत्तिस्वीकारेणैतत् प्रयोगोपपत्तेः। यद्वा फलनिष्पत्तिरेव संपदोऽर्थ। ननु तस्याः भावित्वेन कथमे(वः-) कभूतप्रयोग इति चेन्न -
[अपूशालिबीजसंयोगे एव तत्तन्निष्पत्तिरूपकार्यम्-] अध्यस्यते इति तस्यातीतत्वाद्भूतप्रयोग इति वा, कारणीभूत
मेधोत्पत्तिगतमतीतत्वं वृष्टौ, शालिसंपत्तौ चारोप्य भूते क्तः। एतेन मेधोत्पत्युत्तरकाले.़पि तथाप्रयोगः समर्थितः। आरोपफलन्तु कारणान्तरापेक्षाभावप्रतिपादनद्वाराऽवश्यं भावित्वप्रतीतिः।
न चैवं बुजिक्रियापि स्यादिति वाच्यम्। उत्पन्नेष्वपि शालि,ु अवहननाद्यपेक्षाया इव स्तूलरूपेणाभिव्यक्तेः प्रतीक्षाया इदानीमपि सत्वात्। एवं पाथस्य सिद्धेऽपि कूपे तल्लाभगतं भविष्यत्वं कूपसत्तायामारोप्य 'कूपो भविष्यती'ति प्रयोगः। एवं कूपोऽभूदित्यपि। -01-0एतच्च (L. एतत्र) "लुङ्" (सू. 3-2-110) इत्यादिसूत्रेषु -0क-0भाष्ये स्पष्टम्। (म.भा.द्वि.ख.पृ.175).
-2एतयोरिति-2।। लेट् लोटोरित्यर्थः।। -2तन्निर्णयेनैवेति-2।। लिङर्थनिर्णयेनैवेत्यर्थः।। 1।। (22)
(भू.सा.धा.नि -22)
"-2हय-2"।। (वै.मि.स्व. 22) अतीतेह्नि - तच्चोपलक्षणम् प्रपूर्वदिवसादेः। तदाह - -2अनद्यतनेति-2।। अनद्यतने भूतेऽपि भूतत्वमात्रविवक्षायां ह्योऽपाक्षीदित्यादौ लुङेव। हयः पदार्थान्वयः कथमिति चेत् पदसंस्कारपक्षे -02-0भूतत्वमात्र (V1 भूतत्व ---- विवक्षया - न दृश्यते) विवक्षया लुङि, पश्चात् ह्यः पदेनान्वये अनद्यतनत्व - प्रतीतिरिति।। -2प्रवर्तनमिति-2।। प्रभुणा स्वभिलषितेऽर्थे इति शेषः। इयमेवाज्ञेत्युच्यते। अप्रवृत्तप्रयोज्यस्य तदभिलषिते अज्ञातो पायप्रवर्तनारूपोपदेशोऽपि विधिरेव। यथा 'स्वर्गकामो यजेते'त्यादि। यथा वाऽ'नेन याही'त्याप्तवचः नियोगकरणमिति। आवश्यके श्राद्धभोजनादौ स्वाभिलषिते प्रवर्तनमित्यर्थः।। -2कामचारानुज्ञा-2 = स्वाभिलषिते कामचारेण प्रवर्त्यप्रवर्तनम्। कामचारश्च -01-0प्रवर्त्यस्यैवप्रवृत्तस्य (L. स्यैक) प्रयोज्यस्य निवृत्तिप्रतिबन्देन तद्धिते प्रवर्त्तिकोक्तिरनुज्ञा। -02-0'प्रारब्धं कुर्वि'त्येवं रूपा, (L. कुर्वे) 'तथा कुरुष्व यथा हितमि'त्युक्तिरप्यनुज्ञैव। एतत् सर्वोपलक्षणमामन्त्रणम्। -2व्यापार इति-2।। यथा 'माणवकमध्यापये'ति। एषैवाभ्यर्थना इत्युच्यते। प्रार्थना तु स्वाभिलषितवस्तुदानादिप्रवर्त्तिकोक्तिः। सर्वानुस्यूतं प्रवर्तनासामान्यं विध्यर्थस्तदाह -
-03-0-2एतच्चेति-2।। (L. 'ए' - नास्ति) तदतिरिक्तांशस्य पदान्तरोपसंधानादि ना लब्यत्वादिति भावः।। -2लाघवादिति-2।। प्रवर्तनात्वस्याखण्डो पाधित्वेन वाच्यतावच्छेदकलाघवादित्यर्थः।।
-2न्यायव्युत्पादनार्थमिति-2।। प्रवर्तनाभेदज्ञानार्थमित्यर्थः। -2प्रपञ्चार्थमिति-2 = शिष्यबुद्धिवैशद्यार्थमित्यर्थः।। -2चतुर्णां-2 = सप्रार्थनानाम्।। -2प्रवर्तनात्वञ्च - प्रवृत्तिजनकेति-2।। प्रवृत्तिजनकं यत् ज्ञानमिदं मदिष्टसाधनमिति इष्टसाधनत्वप्रकारकं ज्ञानम्। तद्विषयतावच्छेदकमिष्टसाधनत्वमित्यर्थः। -2तच्चेष्टेति-2 - इष्टं च क्वचित्साक्षात् इष्टमित्येवं परः ; न तु इष्टसामान्याभावपरः। सर्वसंग्रहायेच्छाविषयत्वोपलक्षिततत्फलसाधनत्वेन ज्ञानं प्रवर्तकम्। तेनैव च रूपेण विधेः शक्तिः। साधनत्वं चाखण्डोपाधिस्तस्य चान्यत्र -01-0क्लृप्तस्यैव (L. कृत) लिङर्थतास्वीकारान्नापूर्वकल्पना। 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्यादौ च देवतोद्देशेन द्रव्यत्यागरूपस्ययज्यर्थफलस्ययज्यर्थकृत्यादिरूपभावनां प्रति करणत्वम्। तस्यां च लिङर्थप्रवर्त्तनारूपेष्टसाधनत्वान्वयः। एवञ्च -02-0भावनानिष्ठस्येष्टकरणत्वस्य (L. बावनानिष्टस्येष्टकरणत्वस्यानुक्तत्वान्न) लिङोक्तावपि भावनानिरूपितस्य भावनाभाव्यनिवर्त्तकत्वरूपस्य यागनिष्ठकरणत्वस्यानुक्तत्वान्न तत्समानाधिकरणे -03-0ज्योतिष्टोमादिपदे (L. 'आदि' - न दृश्यते) तृतीयानुपपत्तिः। ज्यतिष्टोमादि(पदे -) - नामधेयमपि यागस्यैव। यागघटितदीक्षणीयादि - उदवसनीयान्तकर्मकलापे तथा व्यवहारस्त, गौणः। तस्य -01-0स्वर्गे (V1. स्वर्ग) करणत्वव्यवहारोपि तथैवेति बोध्यम्।
-02-0ननु (L. न च) इष्टसाधनताज्ञानस्य कुतः प्रवर्तकत्वं - न -03-0चानिष्टसाधनादावप्रवृत्तये (L. दानप्रवृत्तौ ईश्वरस्य प्रतिबन्धकतामादायैवानिष्टसाधने वाद्वेषादप्रवृत्ते- इति अपपाठः) तदिति वाच्यम्। प्रवृत्तौ द्वेषस्य प्रतिबन्धकतामादायैवानिष्टसाधने उदासीने वा द्वेषादप्रवृत्तेः। 'कष्टं कर्मेति न्यानयाच्चे'ति चेन्न -
अन्तरालिकश्रमे द्वेषाभावदशायां द्वेषाज्ञानदशायां वा प्रवृत्यापत्तेः। -05-0अत एव (L. अत एव --- तिष्टो - नावलोक्यते) सत्यपीष्टसाधनताज्ञाने अन्तरालिकश्रमे विद्वेषवान्ज्योतिष्टोमादौ न प्रवर्तते। न चेष्टापत्तिश्चिकीर्षासत्वादिति वाच्यम्। इष्टसाधनत्वाज्ञाने तस्याप्यसत्वात्। तज्ज्ञानस्य तस्यां कारणत्वदिति। बलात्कारितवासाद्यध्ययने तु अद्ययनाबावप्रयुक्तगुर्वादिक्रोधाहितताडनाबाव एवेष्ट। नित्यसन्ध्यावन्दनादौ च प्रत्यवायाभाव एवेष्टः।। -2एतत्-2 = निरुक्तप्रवर्तनात्वम्।। -2लोकत एवेति-2।। 'यागो मत्कृतिसाध्यो मतकृतिसाध्यत्वविरोधिधर्मत्वात् (घटवदि'त्यनुमानता) एवेत्यर्थः। (4.L. आतरलिकश्चमेवलदेषवान् ज्योतिष्टोमादौ न प्रवर्तते। इति अपभ्रंशः।) स्वयमशक्तस्य पुरुषान्तरकृतिसाध्ये प्रवृत्यापत्या मदंशविशिष्टकृतिसाध्यताज्ञानस्य प्रवर्तकत्वावश्यकत्वात्। तस्य च विधितो लाभासंभवात्। मम तु उपायेच्छां प्रति फलेच्छायाः -01-0समवायघटितसामानाधिकरण्यसंबन्धेन (L. असामानाधिकरण्य) कारणतया
पुरुषान्तरीयेष्टसाधनताज्ञानमादाय प्राप्तातिप्रसङ्गबङ्गेनेष्टसाधनताज्ञानस्य मदंशान्तर्भावेण कारणत्वे न फलं नापि मानम्। फलेच्छोपायजिज्ञासोपायज्ञानानामिच्छास्थैर्येन यौगपद्याङ्गीकारात्फलेच्छायामुपायेच्छापूर्ववृत्तित्वस्य न -02-0क्षतिरिति। (V1. 'नञ्' न दृश्यते) वस्तुतः कृतिसाध्यताज्ञानं न प्रवर्तकम्।
न चैवं चन्द्रमण्डलाद्याहरणे प्वृत्यापत्तिरिति शङ्क्यम्। इष्टाभावेन वृथाश्रमहेतुतया द्वेषात्। चिकीर्षाया एव -03-0प्रवृत्तिकारणत्वम्। (V1 वृत्तिं प्रति) तां च प्रति च कृतिसाध्यताज्ञानं कारणमिति सिद्धान्ताच्चष। कृतिसाध्यताज्ञानादिव 'मत्कृतिसाधनकः पाक' इति ज्ञानादपि चिकीर्षाप्रवृतच्योर्दर्शनात् तस्यापि विध्यर्थतापत्तेश्च।
नन्वेवमपि मधुविषसंपृक्तान्नभोजनादौ प्रवृत्यापत्तिरन्नांशमादाय तृप्तिरूपेष्टसाधनताज्ञानसत्वादिति चेन्न-
बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवर्तकत्वादिति वदतां मतं दूषयति - -2बलवदनिष्टेति-2।। बलवदनिष्टं तदननुबन्धिः तदजनकेत्यर्थः। -2द्वेषाभावेनेति-2। सत्यपीष्ट-साधनताज्ञाने द्वेषदशायां प्रवृत्तेर्वारणार्थं द्वेषाभावस्य प्रवृत्तौ कारणत्वावश्यकत्वेन कारणीभूताभावप्रतियोगित्वेन च -01-0द्वेषस्य (V1 द्वेष्यस्य प्रबन्ध्यमरणे बलवद्वेषात्) प्रतिबन्धकत्वेनोक्तस्थले प्रवृत्तेर्वारणात्। तृप्तिरूपेष्टफलापेक्षया तत्साध्यमरणे बलवद्वेषात्।
-0क-0"जीवन्नरो भद्रज्ञतानि पश्येदि"ति (अत्र मूलं मृग्यम्) प्रमाणभूतकालिदासवचनात्। बहुतरदुःखस्यापि कुतश्चिदलपत्वेनाल्पस्यापि -02-0कुतश्चिद्बलवत्वेनानुगतबलवत्वस्य (V1 बलवत्वेन) दुर्वचत्वाच्चेत्यपि बोध्यम्।
नास्तिककामुकस्य नरकसाधनताज्ञानस्यैवाबावादाह -2आस्तिककामुकस्येति-2 - -2उत्कटेच्छयेति-2।। द्वेषाभावे हेतुः। केचित्तु ज्ञानस्य त्रिक्षणावस्थायित्वेन नष्टे नरकसाधनताज्ञाने बलवदनिष्टाननुबन्धिताज्ञानसत्वान्न व्यभिचारः। क्षणैकविलम्बस्य दुर्ज्ञेयत्वादिति। अन्ये तु रागौत्कण्ठयेन पूर्वजातनरकसाधनज्ञानेऽप्रामाण्यग्रहानास्कन्दितत्वज्ञानस्यैव प्रतिबन्धकत्वात् सुखेन प्रवृत्युपपत्तेर्न व्यभिचार इत्याहुः। परे तु रागौत्कण्ठयविरहविशिष्टबलवदनिष्टाननुबन्धित्वाभावज्ञानस्य प्रवर्तकत्वात् रागौत्कण्ठयस्यसिध्यभावरूप पक्षतायां सिषाधयिषाया -01-0इवोत्तेजकत्वान्न (L. इवेति) व्यभिचार इत्याहुः। 'न कलञ्ज भक्षयेदि'त्यादौ तु अनिष्टसाधनत्वमपि विध्यर्थः। नञ्स्तत्रैव तात्पर्यग्राहकत्वात्। तेन तस्य तृप्तिरूपेष्टसाधनत्वेपि न प्रवृत्तिः। नापीष्टसाधनत्वाभावबोधः। तृप्तिरूपेष्टसाधनतासत्वेन बाधात्।।
-0क-0"-2पुंसां नेष्टेति-2" (मण्डनमिश्रकारिका विधिविवेकः पृ. 246) पुंसामिष्टाभ्युपायत्वात् इष्टजनकत्वादन्यः, -2क्रियसु - प्रवर्तकः-2 = प्रवृत्तिजनकज्ञानविषयो नेत्यर्थः। वस्तुत इष्टसाधनत्वं न -02-0प्रवर्तनाः (प्रवृत्तिनानापि नित्यर्थः) नापि विध्यर्थः। कृतिसाध्यताज्ञानस्येवेष्टसाधनताज्ञानस्यापि चिकीर्षयाऽन्यथासिद्धेः। अमुकफलसाधनमिदं मत्कृतिसाध्यं -03-0भवत्विति (L. भवतीति) इच्छाया एव चिकीर्षात्वात्।
न च द्वारभूतचिकीर्षाया द्वारिण इष्टसधनत्वज्ञानस्यापूर्वेण यागस्येव नान्यथासिद्धिरिति वाच्यम्। यस्य द्वारिणो मानान्तरेण तत्कारणता सिद्धा यथा यागपश्वोः तदन्यथानुपपत्या -01-0कलप्यमानेनापूर्वादिद्वारेण (L. कल्पमान) द्वारिणो यागादेरन्यथासिद्धौ मानाभावेऽपि (अत्र -) अन्यथासिद्धत्वे -02-0भाधकाभावात्। (L. वाचकाभात्) किं'चेदमिष्टसाधनं' कृतिसाध्यं च नाप्यत्र -03-0दुःखं (L. दुःख) तस्मात् त्वंकुर्विति स्वरसिकलोकव्यवहारसत्वेन तेषां विध्यर्थतावक्तुमशक्या ; पौनरुक्त्यापत्तेः।
न चेदं पौनरुक्त्यं 'द्विर्बद्धमि'ति -05-0न्यायेन (L. 'न्यायेन' आरभ्य 'अहमिति' पर्यन्तं न दृस्यते) सर्वथेष्टसाधनार्थमिति वाच्यम्। तस्मादित्यस्यानन्वयापत्तेः। अपि च कुर्विति राज्ञा प्रवर्तितोऽहमिति व्यवहारात् प्रवर्तना प्रवर्तकपुरुषनिष्ठा। सा च लिङादि शक्येति "विधिनिमन्त्रणे" (स्.3-3-161) त्यादिसूत्रभाषयादिसम्मतः।
न चेष्टसाधनत्वं तद्बोधो वा तन्निष्ठताज्ञापनस्य तन्निष्टत्वेऽपि न तदिष्टसाधनत्वं नापि -06-0तच्छक्यत्वेन (L. तच्चवनत्वेन) तवसम्मतम्। किं चेष्टसाधनत्वज्ञानादिव साध्येष्टकत्वज्ञानादपि प्रवृत्यनुभवेन विनिगमनाविरहादुभयोः शक्यत्वे गौरवम्। तस्मादिष्टसाधनत्वं (न -) प्रवर्तनाः अपि तु प्रवृत्यनुकूलव्यापारः प्रवर्त्तकनिष्ठं लिङादिघटितशब्दप्रयोगरूपः प्रवर्तना। प्रवर्त्तकत्वं च स्वातन्त्र्ये सति लिङाद्युच्चारयितृत्वम् राजप्रेरितपदातेर्लिङाद्युच्चारयितृत्वेऽपि प्रवर्त्तकत्वव्यवहारवारणाय स्वतन्त्र्ये सतीति। 'पदाति -01-0प्रेरितोऽहं न कुर्वे; किन्तु राजप्रेरितः' (L. अह) इति व्यवहारात्। वेदे तु प्रवर्त्तना लङ्घटितत्वरूपम् (पा-) प्रवर्त्तकत्वं च -02-0शब्दनिष्ठमेव। (L. मेक) पुरुषाभावात्।
न चैवं प्रेरणाविषययागादौ कथमिष्टसाधनत्वबोध इति चेत् - आप्तोम्त्या -03-0प्रतिबन्धकाभावविशिष्टया (L. विशिष्टमाया) प्रवर्त्तनया स्वविषये इष्टसाधनत्वाद्याक्षेपेण तद्बोधात्। ततः प्रवृत्तिः।
न च जीवन्मुक्तस्येतरं प्रति तत्प्रार्थनया ब्राह्मोपदेश प्रवृत्तौ नेष्टसाधनताज्ञानं प्रयोजकमिति व्यभिचारात् -04-0न (L. 'न' - नास्ति) तदाक्षेपकत्वसंभव इति वाच्यम्।
'सर्वे इमे स्वभूत्यर्थं प्रवर्तन्ते' इति "हेतुमति चे" (सू. 3-1-26) ति -0क-0सूत्रभाव्योवत्या (म.भा.द्वि.ख.पृ. 61) तदतिरिक्तप्रवृत्तौ तत्प्रयोज्यत्वनियमेन -01-0आक्षेपसौलभ्यात्। (L. आक्षेपे) आपत्योक्त्येत्युक्तेः शत्रुप्रेरिता'द्विषं भुंक्ष्वे'ति वाक्यान्न तदाक्षेपो नापि प्रवृत्तिः। 'विषं भुक्षव, मा चास्य गृहे भुङ्क्थाः' इत्यात्पोच्चारितात् तद्वारणाय प्रतिवन्धकाभावविशिष्टयेति। तत्रानिष्टसाधनत्वनिश्चयप्रयुक्तद्वेषस्य प्रतिबन्धकस्य सत्वान्न दोषः। -03-0तद्गृहभोजनेऽत्यन्तानिष्टसाधनत्वबोधने (V1 तदेह) एव तत्तात्पर्यात्। क्रुद्धेन सेर्ष्येणवोक्ता'न्मृदं भुंक्ष्व' 'पायसं भुंक्ष्वे'ति वाक्यात् तद्बोधो भवत्येव। प्रवृत्तिस्तु न। दोषविशिष्टाप्तोक्तत्वेन तदाक्षेपकत्वाभावात्। दोषरहितस्यैव तत्वात्। आप्तत्वञ्च दोषरहितत्वे सति ततः क्रियाविषये -04-0स्वेष्टप्रतिबन्धानिष्टोत्पत्युभयानुकूल (L. अनुकूलाभावनत्वम्) यत्नाभाववत्वम्। अत एव वनेऽपहृतसर्वस्वानामपि दस्यूनां मार्गोपदेसे आप्तत्वं भवत्येन। इष्टसाधनत्वाक्षेपश्च क्वचित्सामान्यत इष्टसाधनत्वेनैव -05-0क्वचिद्वहुवित्तव्यमायाससाध्ये (L. व्यापार) ज्योतिष्टोमादौ विशिष्यस्वर्गत्वादिनैव। आक्षेपश्च पचेत्यादि। -06-0शब्दोपस्थितभावि (L. मपि) पाकं पाकत्वेन पक्षीकृत्योक्तहेतुना बोध्यः। व्याप्तिग्रहश्च यागादिविषये उपदेशात्; -01-0प्रथमोपदेष्टुस्तु (L. पचेत्यादिस्तु) योगतस्तद्ज्ञानम्। शब्दं विना स्वीयप्रवृत्तिस्थले च स्मृतपाकशब्दादुपस्थितभाविपाके -02-0यस्य (L. यस्मा) जातस्य पचि व्यवहारविषयता स इष्टसाधनमित्याद्याकारस्तद्ग्रहः। मूकादेरपि जन्मान्तरानुभूतशब्दस्मरणं -03-0कल्प्यम्। (L. कल्पम्।) बालकस्याद्यस्तनपानप्रवृत्ताविष्टसाधनताज्ञाननिर्वाहाय वापि अस्यावश्यकत्वात्। -05-0अहरहरित्यादिपदसमभिव्याहृतनित्यनैमित्तकविध्योरवश्यानुष्ठेयत्वमपि (L. वुच्छेपत्वमपि) प्रेरणया -06-0बोध्यते। (L. वोते) तेन -07-0तदभावे (L. तदभाविप्रत्ययसिद्धिः) प्रत्यवायसिद्धिः। 'विश्वजिता यजेते'त्यादौ स्वर्गातिरिक्तस्य सर्वेष्टस्याभावात्प्रवर्तनया -08-0स्वर्गरूपेष्टसाधनत्वाक्षेपः। (L. आस्येय) प्रवर्त्तनैव च -09-0प्रेरणा। (प्रेरणात्वं) । तत्वं च प्रेर्यादिधात्वर्थतावच्छेदकतया सिद्धमखण्डोपाधिः। तेनैव रूपेण तस्या वाच्यताः शब्दरूपत्वाच्च सा शाब्दीभावनेत्युच्यते। प्रेरणात्वेन तस्यास्तद्वृत्तित्वेन शब्दनिष्ठेति व्यवहारोंऽपि। लोके पुरुषनिष्ठत्वम् च तादृशशब्दप्रयोक्तृतया। -010-0अवच्छेदकत्वेन (L. अवच्छेदके) तल्लिङ्गसंख्याद्यन्वयव्यापारपदव्यवहार्यापि सा प्रेरणात्वेन सविषया चेति बोध्यम्। 'न कलञ्जमि'त्यादावपि आरोपितं कलञ्जभक्षणं प्रेरणाविषय इति वाच्यार्थः। तदभावः प्रेरणाविषय इति -01-0त्वार्थः (V1 तत्वार्थः) न तु शाब्दः। नञर्थे वाच्यवृत्या विभक्त्यर्थत्वाभावादिति नञ्वादे -02-0वक्ष्यते। (L. वस्यते) तेन च प्रतियोगिन्यनिष्टसाधनत्वं बोध्यते। यदभावत्वेन यदभावः प्रेरणाविषयत्वेन बोध्यते तत्प्रतियोगिक्लृप्तेष्टाधिकानिष्ठसाधनमिति व्याप्तेः। तद्भक्षणे प्रायश्चित्तविधयश्च तत्रतथाकल्पने तात्पर्यग्राहकाः।
-03-0किं (V1. किमिष्टसाधनत्वाभाव इत्यर्थतानिष्टजनकत्वम्) चानिष्टसाधनमित्यस्य यत्किंचिदिष्टसाधनत्वाभाव इत्यर्थः उतानिष्टजनकत्वं - तत्राद्ये कलञ्जभक्षणादौ बाधस्तृप्तिरूपेष्टसाधनत्वात्। द्वितीयेन विध्यर्थानुरागेण विध्यर्थैकदेशानुष्टानुरागेणवोपपत्तौ 'न ब्राह्मणं हन्यादि'त्यादौ हन्त्यर्थानुरागी नञिति -0क-0शाङ्करभाष्यासङ्गत्यापत्तेः। (ब्र.सू. 1-1-4. पृ. 149) एतेन नञ्समभिव्याहारे -04-0प्रत्यवायाभावरूपेष्टसाधनत्वं (L. दुःखबद्धी इत्यपास्तम्। उक्त भाष्यविरोधादिति सान्वेयं प्रवर्त्तनालिङादेर्द्येत्या, न तु वाच्या। पचेत्यादि - अधिकः (अव) पाठः) विध्यर्थस्तदभावो नञा द्योत्यते।
'जरितो (ज्वरितः -) न भुञ्जीते'त्यादौ दुःखवृध्यबाव रूपेष्टसाधनत्वं -05-0विध्यर्थः। (L. विध्यकरणे.) एवञ्च निषेद्यकरणेऽर्थात्प्रत्यवाय दुःखवृद्धी इत्यपास्तम्। उक्तभाष्यविरोधादिति सा चेयं प्रवर्त्तना लिङादेर्द्योत्याः न तु वाच्या। पचेत्यादौ विनापि लिङादिकं प्रवर्त्तनाप्रतीतेः। अन्तर्भावितण्यर्ते -01-0प्रवर्त्तनायाधात्वर्थत्वस्य (L. 'त्व '- न दृश्यते) -02-0दृष्टत्वेनापूर्वकल्पनाभावाच्च। (L. कस्य) 'पंचकं धात्वर्थ' इति पक्षे कर्त्रादिविषयेपि द्योत्यताया एव दृष्टत्वेन तेनैकरूप्याच्च। अत एव 'निमन्त्रयेयम् भवन्तमि'त्यादौ दातुनानिमन्त्रणस्योक्तत्वेऽपि लिङ्सिद्धिः। तव तूक्तार्थानामप्रयोगेण तदसिद्धिः स्यात्; मम तु द्योतकसमुच्चयस्यान्यत्र दृष्टत्वेन उक्तन्यायस्य -04-0वाचकविषयत्वात्प्रकृतेऽप्रवृत्तेः। (L. 'वाचक' न दृस्यते।)
किंच -05-0तस्याः (V1 तस्य) वाच्यत्वे तस्या एव विशेष्यत्वेन तत्र च नित्यैकत्वसत्वेन द्विवचनाद्यनापत्तिः। संख्यायाः स्ववाचकप्रत्ययान्तजन्यबोधविशेष्ये एवान्वयनियमात्।
न च कर्तृगतसंख्यायास्तन्निष्ठदात्वर्थव्यापारे इव तद्विषयकप्रवर्त्तनायामप्यारोपेण -07-0द्विवचनाद्युपपत्तिरिति (L. उत्पत्तिः) वाच्यम्।
एवमपि क्लेशात्ततो -08-0वरं (L. वारणं) द्योतकत्वमेव। तत्र धातूपस्थित प्रयोजकप्रयोज्यव्यापाराणां मध्ये प्रयोजकव्यापारस्य प्रवर्त्तनारूपस्य विषयितया विशेषणत्वम् इतरेषां तु प्रयोज्यव्यापाराणां विषयतया विशेष्यत्वम्। एव च 'पचेदि'त्यादावेककर्तृकाप्रवर्त्तनाविषयबूता पाकानुकूलाक्रियेत्यादिरीत्या बोधः। य्ततु द्योतकत्वेऽपि प्रवर्त्तना विशेष्येति तन्न। द्योत्यार्थे विशेषणताया एव न्याय्यत्वात्। किं च तस्या विशेष्यत्वे देवदत्तादेः प्रयोज्यस्य प्रदानभूत धात्वर्थानाक्षयत्वेनाकर्तृत्वात्कर्त्तरि लिङाद्यनापत्तिः। -01-0तादृशी (L. 'इती'त्याधिकः पाठः) च प्रवर्त्तनावर्त्तमानकालैव भासते। शब्दशत्तिऽस्वाभाव्यात्। तत्वादेव च इतरधात्वर्थः प्रयोज्यगतो भविष्यत्काल एव। एतेन प्रवर्त्तनाप्रयोज्यपाकस्य वर्तमानदशायां पचेदिति स्यादिति अपास्तम्। विधिलिङादावुत्तमस्तु न। स्वप्रवृत्तौ स्वप्रेरणाया -02-0अकारणत्वेन (L. कारणत्वेन) तञ्ज्ञानानुपयोगात्। एतदेवाभिप्रेत्य 'उत्तमपुरुषो विधि-शक्तेः प्रतिबन्धक' इति तान्त्रिकाः। एवं यच्छब्दो -03-0यद(दि -)श्बदोऽपि (L. 'यद' - नास्ति) तत्प्रतिबन्धक इति बोध्यम्। '-2यो ब्राह्मणाये-2'-2ति-2।। ब्राह्मणोद्देश्यकं हेतुभूतावगोरण यत्कर्तृकं तत्कर्मकं तादृशावगोरणजन्यं यमद्तकर्तृकं शतेन यातनमित्यर्थबोधेन क्रिययोः -01-0साध्यसाधनत्वग्रहे (V1 साधनत्वाग्रहे) निवर्तकत्वेनैवास्य वेदस्य प्रमाणत्वादवगोरण निवृत्तिपरत्वग्रहे सति तस्मान्ननावगुरितव्यमिति विधिः कल्प्यते। अवगोरणं वधोद्यमः।
-2अत्र'विद्यमाने'ति-2 ।। विद्यमानकालिको यो -02-0घटोत्पत्यनुकूलक्रियाध्वंसस्तत्प्रतियोगित्वमित्यर्थः। (L. इत्यर्थ ----- प्रतियोगित्वं - न दृश्यते।) घटोऽभूदित्यादौ च विद्यमानकालिको यो घटोतेपत्यनुकूलक्रियाध्वंसस्तत्प्रतियोगित्वमित्यर्थः। तादृशक्रियायामेव न घटे इत्याह - -2विद्यमानेयऽपीति-2।।
ननु -03-0भाविकृत्यमासीदित्यनुपपन्नं (L. इति ---- प्रधानभूत - न दृश्यते।) भूतत्वभविष्यत्वयोः विरोधात्। न च "धातुसंबन्धे प्रत्यया" (सू. 3-4-1) इत्यनेन भाविशब्दप्रधानभूतासीदिति आख्यातानुरोधेन भूते एव प्रत्ययो न तु भविष्यतीति वाच्यम्। एवं हि सति धात्वर्थयोरैक्यात्प्रत्ययार्थयोरपि ऐक्यादासीद्भाविशब्दयोः पर्यायतया युगपत्प्रयोगानापत्तेः। किं च भाविनोया भूतकालता प्रतिपिपादयिषिता सा नागम्यत। अपि तु यदिदं कर्तव्यं वस्तु'द्विर्बद्धमिति' न्यायेन तादासीदेवेत्येव -01-0प्रतीयेत (L. प्रतीयतेति) इति चेन्न। यत्कृत्यमियन्तं कालं भावित्वेन व्यवहृतं तदासीदित्यर्थात्। एव 'ज्योतिष्टोमयाज्यस्य पुत्रो भविते'त्यतोऽपि ज्योतिष्टोपयाजीत्येवं व्यवहरिष्यमाणो 'पुत्रो भविते'त्येव बोधः। एवं च तादृशवाक्यार्थे वाक्यैकदेशप्रयोगोऽयम्। अत -02-0एवमेव (L. अत एवै म) सर्वं निर्वाह्यम्। -03-0"धातुसंबन्धे प्रत्यया" (सू. 3-4-1) (L. इति सूत्रं ----- इति सूत्रेण - न दृश्यते।) इति सूत्रं प्रत्याख्यातं भाष्यकृतेति दिक्।
उक्तार्थमेव संगृह्णाति - -2अयमत्रेति-2।। अनयोः भूतभविष्ययोः -0क-0"भूते च" (सू. 3-3-140) (।।-2भूते इति-2।।) इति सूत्रेण।। -2भाविनीति-2।। "लिङ् निमित्ते" (सू. 3-3-139) इति सूत्रे "भविष्यति मर्यादा" (सू. 3-3-136) इत्यतः भविष्यतीत्यनुवृत्तेः।। -2यथा 'सुवृष्टिश्चेदि'ति-2।।
ननु क्रियातिपति क्रियानुष्पत्तिरूपा। तथा च तत्र सुवुष्टिभवनसुभिक्षभवनयोः क्रिययोः साधनवैकल्प्या(ल्य -)नियमेनामिष्पत्तिः प्रतिपाद्यते। तत्र भविष्यत्वानुपपत्तिः। -04-0संमर्थसाधनसन्निधाने (V1 अयमर्थ) संभावितो (सतिञ्च -) भविव्यन्नित्युत्युच्यते। अत्र च साधनाभावात् संभावनापि -01-0नोत्पत्तेः (नोत्पद्येत -) (V1 नुत्पत्तेरिति) इति चेन्न -
साधनाभावादभविष्यत्यपि वस्तुनि भविष्यत्वमारोप्यते - निष्पत्तिरिति निषेधप्रतियोगित्वायेत्यदोषात्। सुभिक्षभवनहेतुभूतं सुवृष्टिभवनं भविष्यत्वेनासम्भावयन्नेवमभिधत्ते। एवं हि क्रियातिपत्तिरवगता भवति।
एतेनारोपितस्यार्थस्य न शाब्दबोधविषयतेत्यपास्तम्। अत्र गत्यभावेन तथा स्वीकारात्।। -2व्यापाराभावप्रयोज्येति-2।। व्यापाराभावश्च साधनाभावप्रयुक्त इति बोध्यम्।।
-2अर्थान्तरेऽपीति-2 = अर्थान्तराणि च पूर्वमुक्तानि; तत्रतत्रान्तर्भवोप्युक्त एव। पक्षान्तरमाह - -2प्रसिद्धेति-2।। -2एतेषां-2 = लकाराणाम्।। अनुबन्धक्रम एव = अकारेकारोकारादि क्रम एव।। -2अत एव-2 = अनुबन्धक्रमस्य लकारक्रमनियामकत्वादेव।।2।। (23)
(भू.सा.धा.नि -23)
-0इति लघुभूषणकान्तौ
-0।।लकारार्थनिर्यः।।




-0सुबर्थनिर्णयः
।। श्रियै नमः।। अथ कारकम्। सुप्तिङन्तचयस्य वाक्यत्वात्, तत्र प्राधान्यात् -01-0तिङन्तार्थे (L. र्थेति) सप्रपञ्चं निरूपिते, प्रसङ्गात् प्राप्तावसरे सुबन्तार्थनिर्णये प्रधानत्वात् सुबर्थं तावत् निरूपयति मूले - "-2आश्रय-2" (वै.सि.का. 24) -2इत्यादिना इति-2।।
न च प्रथमार्थस्य अनिरूपणान्यूनतेति वाच्यम्। प्रथमार्थस्य अकारकत्वेन अनिरूपणमित्याशयात्। वस्तुतस्तु प्रथमाया अप कारकविभक्तित्वमस्त्येवेति स्पष्टमन्यत्र। भाष्यतयिति।। -0क-0"सुपां कर्मादयोऽप्यर्थाः सङ्खया यैवे"ति ("बहुषु बहुवचनम्" (सू.1-4-21) म.भा.प्र.ख.पृ. 239) -02-0भाष्यादित्यर्थः।। (L,P इत्यर्थः - अधिकः पाठः) -2तथा हि कर्मणी-2 (सू. 2-3-2)-2ति-2।। सर्वेषां कर्मणां सङ्ग्रहाय अत्र द्वितीयाविधौ व्याकरणशास्त्रबोधितकर्मसंज्ञकत्वरूपं कर्मत्वं ग्राह्यम्। तत्र "कर्त्तुरीप्सिततमं कर्मे" (सू. 1-4-49)ति बोधितकर्मत्वं व्याचष्टे - -2तत्र कर्त्तुरिति-2।। तत्र हि सूत्रे ईप्सितशब्दस्य क्रियाशब्दत्वेन कर्तुरिति कर्तरि षष्ठी। ईप्सितमित्यत्र सम्बन्ध - मात्रार्थकाप्-धातोः सन्नताद्वर्तमाने कर्मणि क्तः। धात्वर्थसंबन्धश्च जन्यश्रयतारूपः। इष्यमाणत्वं चोद्देश्यत्वमेव। तच्च सनागर्भितम्। संबन्धे च -01-0करणाकाङ्क्षायामुपस्थितत्वात् (V1 केन आप्तुमित्याकाङ्क्षा) फलानवच्छिन्न - अकर्तृपदार्थविशेषणीभूतव्यापार एवान्वेति। एवं च -02-0कर्त्रास्वनिष्ठव्यापारजन्यफलेन (L. स्वनिष्ठ--- इत्यर्थः - न दृश्यते।) संबन्धुमिष्यमाणामित्यर्थः। स्वनिष्ठक्रियया स्वजन्यफलाश्रयत्वरूपाप् धात्वर्थसंबन्धेन उद्देश्यमिति यावत्। -03-0कर्तृगतप्रकृतधात्वर्थव्यापारप्रयोज्य (L. कर्तृतम) -04-0व्यापारव्यधिकरणफलाश्रयत्वेन (V1,2. 'प्रयोज्य' आरभ्य अपरपुटे 'माणवकं' पर्यन्तं नावलोक्यते।) कर्तुरिच्छाविषयमिति (तात्पर्यः) परमार्थः। 'तण्डुलं पचती'त्यादौ विक्लृत्याश्रयत्वात् कर्मत्वं, विक्लृत्तिरूपफलस्यापि व्यपदेशिवद्भावेन निरुक्तफलाक्षयत्वात् -06-0तत्वम्। (L. 'तत्वम्' to नववाक्यानि 'फलेप्युक्तेः' पर्यन्तं न दृश्यन्ते।) अत एव तत्समानाधिकरणे 'स्तोकं पचती'त्यादौ कर्मत्वम्। यद्वा जन्यत्वं जन्याश्रयता चाप् धात्वर्थसंबन्धस्तथा च विक्लृत्तेः कर्तृगतक्रियाजन्यत्वेनोद्देश्यत्वात् व्यपदेशिवद्भावमन्तरापि सिद्धम् कर्म। अथवा जन्यत्वाश्रयत्वं जन्याश्रयत्वं च संबन्धस्ततश्च तादृशक्रिययाजन्यत्वाश्रयत्वेन तदुद्देश्यत्वं तदन्तरापि सिद्धम्। यद्यपि कर्तुरुद्देश्यत्वं साक्षात् फलरूपे धात्वर्थे एव, -01-0क्रियायां (P. धारयतेश्च क्रियायाः इति भाव्यम्) फलेच्छापूर्वकेच्छाविषयत्वात्; तथापि तदाश्रयत्वात् तण्डुलादीनामपि इच्छाविषयत्वम्।
न च फलस्य व्यपदेशिवद्भावेन उक्तकर्मत्वेऽपि क्रियाजन्यकत्वाभावात् कारकत्वं न स्यादिति वाच्यम्। फलज्ञानपूर्वकक्रियोत्पादमात्रेण कारकत्वात्। 'रथोग्रामं गच्छती' त्यादौ तु रथस्य अचेतनत्वेनेच्छाभावात्तन्निरूपितोद्देश्यत्वं ग्रामे बाधितम - पि आरोपणेन निर्बाधम्। 'आत्मानमात्मना हन्ती'त्यादौ शरीरान्तः करणरूपावच्छेदकभेदेन आत्मनि भेदमारोप्य कर्तृभूतान्तः करणावच्छिन्नचेतननिरूपितं निरुक्ताश्रयत्वेनोद्देश्यत्वं शरीरावच्छिन्नस्य चेतनस्येति न दोषः। कालिकादिसंबन्धेन फलाश्रयेऽतिव्याप्तिरपि फलतावच्छेदकसंबन्धनिवेशात्, तस्य तत्वेनानुद्देश्यत्वाद्वा परिहर्त्तव्या। कर्तृगतप्रकृतधात्वर्थ व्यापारप्रयोज्यपलेत्युक्ते'रग्नेर्माणवकं वारयती'त्यादौ अग्न्यादेर्न कर्मत्वम्। अन्यथा "वारणार्थानामि" (सू.1-4-27) ति सूत्रमस्यापवादं स्यादिति। माणवकस्यापि कर्मत्वं न स्यात्। -02-0वारयतेश्च (P. धारयतेश्च) संयोगानुकूलव्यापाराभावानुकूलव्यापारोऽर्थः। 'चैत्रं ग्रामं गमयती'त्यादौ ग्रामस्य कर्मत्वात् प्रयोज्यत्वनिवेशः। प्रयोज्यता च जन्यतज्जन्यसाधनारणी। 'माषेष्वश्वं बध्नाती'त्यादौ बन्धनप्रयोज्यभक्षणाश्रयाणां माषाणां कर्मत्ववारणाय प्रकृतधात्वर्थेति फलस्यापि विशेषणं बोध्यम्।
-01-0'पयसौदनं भुङ्कते' (P.V1,2 पयसोदनं) इत्यत्र पयसः -02-0करणत्वस्यैव (P. करणस्यैव) -03-0विवक्षणेन (L. विवक्ष) प्रकृतधात्वर्थफलाश्रयत्वेनाविवक्षणान्न कर्मत्वम्। उभयविवक्षायां तु परत्वात् कर्मत्वमेव।
न च पयसः कर्तृनिरूपितोद्देश्यत्वाभावादेव -04-0तदप्राप्तिः। (L. दप्राप्तिः) यदाकृतभोजनोपि पयो लाभेन ओदनभोजने प्रवर्तते तदा तत्क्रियायः पय उद्देश्यकत्वसत्वात्तत्प्राप्तेः। फलत्वं च कर्तृप्रत्ययसमभिव्याहारे
तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयत्वे सति तद्धात्वर्थत्वम्। 'पश्य मृगो धावती'त्यादौ धावनादेः फलत्ववारणाय -05-0तद्धात्विति।। (P. तत् 'धात्विति' इति पदं त्यक्तम्) अन्यथा प्रधानानुरोधिकर्मत्वस्य बलवत्वान्मृगस्य कर्तृत्वं न स्यादिति तत्फलितमाह - -2क्रियाजन्येति-2।। -2आश्रय एवार्त इति-2।। निरुक्ततदाश्रयत्वेन उद्देश्य इत्यर्थः। तत्र यथाश्रुते आश्रये द्वितीयार्थे प्रकृत्यर्थः -01-0अभेदेन (V1,2. आश्रयभेदेन) विशेषणम्। आश्रयत्वमखण्डं शक्यतावच्छेदकम्। ततश्च 'हरिं भजती'त्यादौ हर्यभिन्नाश्रयवृत्ति यत्फलं प्रीतिस्तदनुकूलो व्यापार इति बोधः।
न यादेयत्वस्य संसर्गत्वाङ्गीकारे 'तण्डुलः पचती' त्यतोपि तथाबोधापत्तिरिति वाच्यम्।
विभक्त्यर्थमद्वारीकृत्य -02-0प्रातिपदिकार्थयोः (L. प्रातिपदिकार्थधात्वर्थयोः इति अधिकः पाठः) साक्षात् बेदेनान्वयस्याऽव्युप्तत्तेः। अन्यथा -03-0कर्मता (L. अत्र 'कर्मता' - इति पदं न दृश्यते) ससर्गकबोधस्यापत्तिरितिष केचित्तु आश्रयत्वं द्वितीयाशक्यम्। अखण्डोपाधिरूपमाश्रयतात्वं तदनुगमकम्। तत्राश्रयत्वे आधेयतया प्रकृत्यरथान्वयस्तस्य च निरूपकत्वेन -04-0फलेऽन्वयः। (L. अन्वयः - न दृश्यते) हरिवृत्ति - आश्रयतानिरूपकप्रीत्यनुकूलो व्यापार इति बोध इति तन्न-
"कर्मणी" (सू.2-3-2) ति सूत्रस्वरसभङ्गापत्तेरिति। वस्तुतः कर्मणि द्वितीयायाः कर्मत्वशक्तिमानर्थः। "कर्मणी" (सू.2-3-2) ति -01-0सूत्रस्वरसात्। (P. स्वर) एवं सर्वविभक्तीनामपि -02-0तत्तत्कारकशक्तिमद्धर्मिबोधकत्वं (L. कारिक) बोध्यम्। तत्र कर्मत्वशक्तिमति द्वितीयार्ते प्रकृत्यर्थोऽभेदेन विशेषणम्। तच्छक्तिनिरूपकत्वसंबन्धेन धात्वर्थो विशेष्यः।
एवं च 'हरिं भजती'त्यादौ हर्य्यभिन्नं -03-0यत्कर्मत्वशक्तिमन्निष्ठशक्तिनिरूपकप्रीत्यनुकूलो (V1,2. त्त) व्यापार इति बोधः। प्रीत्यनुकूलो व्यापारश्च भजेरर्थ इति। मूलोक्तमाश्रयार्थकत्वं -04-0तु (V1,2 'तु' न दृश्यते) न युक्तम्। "सप्तमी पञ्चम्यौ कारकमध्ये" (सू.2-3-7) इत्यत्र कारकशब्दस्य शक्तिपरत्वेन -05-0शक्तिमतोश्चाभेदेन (L. शक्तिरिति भाष्यम्) शक्तिमत एव द्वितीयाद्यर्थताया भाष्यादि सम्मतत्वात्।
किञ्च 'त्रयी शब्दानां प्रवृत्ति'रिति भाष्यसम्मतमुख्यपक्षे संज्ञाशब्दैरारोपितस्वप्रवृत्तिनिमित्तबोधो यथा डित्थादिपदैः -06-0पूर्वडित्थादिगुणारोपपूर्वकडित्थत्वाद्यारोपेण (L. 'पूर्वमि'त्यधिकः पाठ-) डित्थादिबोध' इति "ऋलृक्" (मा.सू.2) सूत्रे कैयटे स्पष्टम्। एवञ्च व्याकरणस्य संज्ञाशब्दैरपि तत्तत्कर्मादिपदप्रवृत्तिनिमित्तशक्तेः निरुक्ताश्रयत्वेन -01-0उद्देश्यसंशिनि (L. उद्देश्ये) बोधनमेवोचितम्। किं चोद्देश्यतावच्छेदकस्य निरुक्ताश्रयत्वस्यैव तत्तत्संज्ञाशब्दप्रवृत्तिनिमित्तत्वे फलाश्रयत्वात् कर्मत्वमित्यादिव्यवहारासङ्गत्यापत्तेः।
न च कर्मत्वमित्यस्य कर्मसंज्ञेत्यर्थः।। लक्षणापत्तेः।। संज्ञामजानतापि तथा व्यवहाराच्च। त्रयी पक्षे -02-0कर्मादिपदानां (L. पदानां - नास्ति) पदप्रवृत्तिनिमित्तकत्वाभावेन -03-0तदुत्तरप्रत्ययेन (P. तदुत्तस्‌त्र) पदानामनभिधानाच्च। यदप्याश्रयत्वं शक्यतावच्छेदकमिति तदपि न युक्तम्। अति प्रसक्तत्वात्। अनतिप्रसक्तधर्मस्यैवा वच्छेदकत्वात्।
न च फलनिरूपितत्वविशिष्टमाश्रयत्वमनतिप्रसक्तमिति वाच्यम्।
तत्तद्रूपेणाकच्छेदकत्वे गौरवात्। 'वैकुण्ठमध्यास्ते' इत्यादौ विशिष्टस्याप्यभावेन तस्य न्यूनवृत्तितया द्वितीया शक्तितोऽवच्छेदकत्वानौचित्याच्च। श्रु(शु -)द्धाश्रयत्वस्य शक्यतावच्छेदकत्वेऽमार्नानार्थतापत्तेश्च। कर्मादौ पदवत्वेनापि न शक्तिः गौरवात्। मन्मते तु हरिपदाच्छक्तिमतो लाभेऽपि शक्तिमत्वेनालाभान्नदोषः. -0क-0आकृत्यधिकरणरीत्या (जैमिनीयमीमांसा. 1-3-10) शक्तिरेव वाच्या इत्यन्यदिति। -0ख-0परमगुरवस्तु (परमगुरवस्तावत् नागेशभट्ट) कर्मत्वादिशक्तिमान् तद्गतविशेषणत्वं क्रियाकारकभावसंबन्धश्च द्वितीयार्थ इति प्राहुः। अत्र मते क्रियाकर्म भावस्यय (रूप -) संबन्धश्च द्वितीयार्थत्वात्कर्म। हरिकर्मकं वा भजनमिति बोधः। एवमग्रेपि। यथा चेतत्तथास्पष्टं -0ग-0कलामञ्जूषयोः। (लघुमञ्जूषा - सुबन्थविचारे पृ.1208) अयं सर्वोप्यर्थो द्वितीयादि द्योत्य एव। 'पञ्चकं प्रतिपदिकार्थ' इति पक्षस्यैव सिद्धान्तत्वात्। अत एव "कुत्सिते" (सू.5-3-74) इति -0घ-0सूत्रबाषये (म.भा.द्वि.ख.पृ. 397) "स्वार्थमाभिधाय शब्दो -01-0निरपेक्षो (P. निरपेक्ष्यो) द्रव्यमाह समवेतम्। तमवेतस्य च वचने लिङ्गं सङ्कयां विभक्तिं च ।। "अभिधाय तान् -02-0विसेषानपेक्षमाणश्च" (P. कर्तृत्वं) कृत्स्नमात्मानम्। प्रियकुत्स्नादिषु ततः (पुनः) प्रवर्ततेऽसौ विभक्त्यन्तः"। इत्युक्तम्। अत्र -03-0सर्वत्रस्वार्थविधायकशब्दस्यैवाभिधानकर्तृत्वप्रतीतेः। (P. कर्तृत्वं) 'पञ्चकं प्रातिपदिकार्थ' इत्ययमेव पक्षो -04-0लभ्यते। (P. लक्ष्यते) अत एव "क्रीतात् करणपूर्वादि" (सू. 4-1-50)ति सूत्रे 'गवाक्रीते'त्यत्रातिप्रसङ्गमाशङ्क्य 'विभक्त्या व्यवधानान्नेत्युक्तं' -0क-0भाष्ये। (म.भा.द्वि.ख.पृ.332. 'विभक्त्या व्यवहितत्वान्न भविष्यति') अन्यथा विभक्त्यन्तस्यैव करणवाचकत्वेन तदसङ्गतिः स्पष्टैव। अत एव 'दधिराजै'त्यादौ -01-0प्रातिपदिकमात्रात्सर्वबोधः लङ्गच्छते। (P. बोधक)
निवृत्यनुकूलव्यापारार्थ कत्वे 'तण्डुलानोदनं पचती'त्यादौ उभयोरनेनैव कर्मत्वं, प्रयोज्यत्वस्य निवेशात्। लादयश्च प्रधानकर्मण्येव, -0ख-0'प्रधानकर्मण्याख्येये' (म.भा.प्र.ख.पृ. 269 ।। "प्रधानकर्मण्याख्येये लादीनाहर्द्विकर्मणाम्।। अप्रधाने दुहादीनाम्।।") इति वचनात्। प्रधानकर्मत्वं च कर्तृप्रत्यय समभिव्याहारे प्रधानभूतव्यापारविशेषणफलाश्रयत्वम्। ण्यन्ते ईदृशस्यैव प्राधान्यस्य सत्वात्। तच्चोदने -02-0एव। (L. एक) एतेन तण्डुलरूपे 'कर्मणि लादय' इति प्रत्युक्तम्। दुहादिषु भाष्येऽपरिगणनेना'प्रधाने दुहादीनामि'त्यस्याप्यभावाच्च। तण्डुलस्य विकारसंस्कारसंबन्देन ओदने एवान्वये तु षष्ठी, 'तण्डुलानामोदनं' पचतीति।।
नन्वत्रापि तण्डुलानां क्रियान्वयः कुतो नेति चेन्न - शेषषष्ठयन्तार्थस्य स्वान्वययोग्यनामसमभिव्याहारे तेनैवान्वय इति व्युत्पत्तेः। एवं 'नीहृकृष्वहाम्' उत्तरदेशसंयोगानुकूलव्यापारानुकूलव्यापाराधर्थकानाम् 'अजां ग्रामं नयती'त्यादौ अनेनैव द्विकर्मकताऽजादिरूपप्रधानकर्मण्येव लाधयश्च। एवं दुहादीनामप्यन्तः -01-0स्थितद्रवद्रव्यविभागानुकूलव्यापाराद्यर्थकत्वे (P. द्रव - त्यक्तं दृश्यते।) 'गां दोग्धि पय' ित्यादावनेनैव द्वयोः कर्मता। निरुक्तप्रधानकर्मण गवादौ लादयश्च। यदा तु 'दुहि' 'याचि' 'रुधि' 'प्रच्छि' 'भिक्षि' 'चिब्रूशासंमष्ठा'नां भाष्योक्तानामेवान्तः -02-0स्थितद्रवद्रव्य (L. द्रव - त्यक्तं दृश्यते।) विभागानुकूलव्यापारमात्रार्थकत्वं तदा "अकथितं चे" (सू. 1-4-51) त्यनेन गवादेः -03-0कर्मत्वम्। (L. कर्मक -- त्यक्तं दृश्यते।) पय आदेस्तु कर्तुरिति कर्मत्वम्। लादयोपि गवादिरूपे गौणे कर्मण्येव। 'गौणे कर्मणी दुह्यादे'रित वचनात्। गौणकर्मत्वञ्च प्रधानकर्मभिन्नकर्मत्वम्। 'मासमास्ते' इत्यादवप्यास धातोरासनादिकरणक व्याप्त्यनुकूलव्यापारे यदावृत्तिस्तदाव्यापारा (जन्यफल) -0क-0श्रयत्वात्कर्तुरिति ("कर्तुरीप्सिततमं कर्म" (सू. 1-4-49) इति सूत्रेणेत्यर्थः) मासादेः कर्मत्वम्। एवं 'मासमोदनं पचती'त्यत्रापि बोध्यम्। आसनादिमात्रवृत्तौ तु अधिकरणत्वात् सप्तमी।
ननु कर्तुरिति कर्मत्वस्योद्देश्यत्वघटितत्वे 'चोरान्पश्यति', 'ग्रामं गच्छन् तृणं स्पृशति' इत्यादौ कर्मत्वं न स्यात्; तेषामनुद्देश्या अपि तु अनिष्टदर्शना एवेति द्वेष्या एव। तृणमप्यौदासीन्यादनुद्देश्यमेवेति चेन्न -
"तथा युक्तं चानीप्सितमि" (सू. 1-4-50) त्यनेन कर्मत्वसत्वात्। अत्र तथा युक्तत्वं प्रकृतधात्वर्थव्यापारप्रयोज्यफलाश्रयत्वम्। अनीप्सितत्वं चानुद्देश्यत्वमेव। तदपि प्रत्यासत्या -01-0यद्धात्वर्थफलाश्रयत्वेन, (L. यत् - अयं P मातृकायां नास्ति।) कर्मत्वं -02-0तद्धात्वर्थकर्तुखे (L. तत् - अयं P मातृकायां नास्ति।) ग्राह्यम्। तेना'ग्नेर्माणवकं वारयती'त्यादौ प्रधानीभूत-व्यापाराश्रयवारणनिरूपितानुद्देश्यत्वेपि संयोगानुकूलव्यापाराश्रय-मणवकनिरूपितानुद्देश्यत्वाभावान्माणवकनिष्ठव्यापारजन्यसंयो-गाश्रयस्याप्यग्नेर्नानेन कर्मत्वम्। ननु 'विषं भुङ्क्ते' इत्यादौ विषस्य भुजिक्रियाजन्यफलाश्रयत्वेन कर्तुरनुद्देश्यत्वात् तत् किमिति -01-0उद्देश्यत्वेन (P. एतत् पदं त्यक्तं दृश्यते) गृह्यते इति चेन्न।
तस्योद्देश्यत्वात्कर्तुरित्यनेन कर्मत्वस्य सिद्धत्वात्। अत एव -02-0"आतश्च विषमीप्सितं यत्तत् भक्ष्यमिती"ति (P. अतश्च) -0क-0भाष्यं (म.भा.प्र.ख.पृ.263 सू = तथा युक्तं चानीप्सितम् (सू. 1-4-50)) सङ्गच्छते। एतेन ईपसितत्वानीप्सितत्वादेः न कर्मत्वकुक्षिप्रवेश इति मूलं पराहतं वेदितव्यम्। मीमांसकास्तु 'सूत्रद्वयविषयं कर्मत्वं साध्यत्वरूपम्। -0ख-0'व्रीहीनवहन्ति' (आ.श्री.पृ. 40,75,77) इत्यस्य तान् अवहनने साधयेदित्यर्थात्। यद्यपि व्रीहयः स्वस्प्ततः सिद्धा एव तथाप्यदृष्टविशेषसाधनत्वरूपसंस्कार्यत्वमेव साध्यत्वमत्राग्राहयम्। 'सक्तून् जुहोती'त्यादौ तु होमेन भस्मीभूतानां सक्तूनां प्रागुक्तसाध्यत्वासंभवेन "व्यत्ययो बहुलमि" (सू. 3-1-85) ति तृतीयार्ते द्वितीये'त्याहुः। तत्तु -03-0वैदिकविधिघटितद्वितीयान्तपदप्रयोगविषयमिति (P. मप्रयोग) दिक्।। यत्तु ज्ञानमात्रं ज्ञधात्वर्थो; विषयतया तदाश्रयत्वात् देवदत्तादेः कर्तृत्वमित्यादिमतं, तन्नष्टे भविष्यती च घटे विषयाभावेन तद्रूपविषयतासंबन्धस्यासंभवेन तत्र घटे जानाति इति प्रयोगानुपपत्या -01-0दुष्टमत (P. पुष्टमतनुक्त) उक्तफलानुकूलव्यापारार्थकत्वावश्यकतामाह - -2अतीतानागतेति-2।। -2तस्य-2 = आवरणभङ्गरूपफलस्य।। -2अन्यथा-2 = ज्ञानमात्रार्थस्य धत्वर्थत्वे।। -2यथापूर्वं-2- पूर्ववत्। अयं भावः वस्तुगत्याऽत्मि -02-0तादृशावरणभङ्गानुकूलव्यापारासत्वे (P. त्व) विद्यमानघटविषये 'घटं न जानामी'ति प्रत्ययवत् नष्टघटविषये विषयाभावात् तद्रूपविषयतासंबन्धस्याऽसंभवेन न जानामीति प्रतीतिप्रसङ्गः। तस्य फलत्वस्वीकारे तु नष्टादिघटस्यापि तदवच्छिन्नावरणभङ्गाश्रयत्वात् तदनुकूलव्यापारस्य ज्ञानात्मकस्य वर्तमान कालिकत्वात् न तादृशप्रतीतिप्रसङ्गः; नापि पूर्वक्रमेण असत्यपिफले जानामीत्यस्यापत्तिरिति। -2मिवेति-2 = -03-0बौद्धाश्रयतामादाय (L. बौद्ध) यथेत्यर्थः। पक्षान्तरमाह - -2सत्कार्यवादेति-2।। -04-0कारणीभूतात्मना (L. कारणात्मना) सूक्ष्मरूपेण स्थितस्य रूथूलरूपेणाविर्भाव एवोत्पत्तिः। असत
एवोत्पत्तौ तु सर्वत्र सर्वमुत्पद्येत इति -05-0भावः। (L. न तु नाशस्य अनित्य अब्राह्मिकासत्ता न निरस्यते। अधिकः पाठः)
ननु नाशस्य अवस्तुतया कथं सत्तारूपतेति सत्कार्यवादासङ्गतिरत आह - -0क-0-2तिरोभावेति-2।। (तिरोभावाभ्युपगमे. वा.प. III. जाति.सं.का. 38) अयं भावः = नित्यब्रह्मात्मिका सत्ता न निरस्यते। अभावो नाम न भावात् व्यतिरिक्तः। किन्तु सत्तैव तिरोभूयस्वकारणेषु शक्तिरूपतया स्थितावस्तूनां नाशः। सैव च तिरोभावाऽवस्थ साधनसंपर्कात् क्रमवत्वेन प्रतीयमाना नश्यतीत्याख्यातेन प्रत्याम्यते। लश्च(लब्ध -) क्रमेत्यनेन च साध्यरूपता दर्शिता। तेन नष्टे नश्यतीति प्रयोगवारणं बोध्यम्। केचित्तु ज्ञानानुकूलो मनश्चक्षुः संयोगादिरूपो व्यापारो जानात्यादेरर्थः विषयतया च नैय्यायिकानामिव अतीतघटादीनामपि ज्ञानादिरूपफलाश्रयत्वम्। -01-0यदपि (P. यद्वा) विषयत्वानुकूलो व्यापारः -02-0तदर्थइत्याहः तत्रोक्तदोषात्। 'मनो जानाती'त्यस्य उपपत्तावपि 'चक्षुर्जानाती'त्यस्यापत्तेः, 'ईश्वरो जानाती'त्यस्यानापत्तेश्च। वस्तुत आवरणभङ्गानुकूलोव्यापारो ज्ञानात्मको जानातेरर्थो वक्तुमशक्यस्तथा सति जानातेः कर्मस्थक्रिया(क्त-) त्वापत्तेः। तथाहि - यत्र -03-0कर्तृकर्मसाधारणधर्मरूपंफलं, (L. फल) येन धातुसंज्ञाकशब्देन प्रतिपाद्यते स कर्तृस्थ भावको यथा- 'घटं पश्यति', 'ग्रामं गच्छती'ति। अत्र आद्ये विषयतासमबायाभ्यां ज्ञानमुभयनिष्ठम्, -01-0अन्त्ये (L. अन्ते) संयोग उभयनिष्ठः, न हि आवरणभङ्गो विषयता वा उभयनिष्ठा। यत्र तु कर्तृवृत्तिधर्मरूपं फलं धातुना प्रतिपाद्यते स कर्मस्थभावको, यथा भिनत्तीति। न हि द्विधाभवनरूपं फलं कथमपि कर्तृनिष्ठं प्रतीयते। अत एवोक्तम् -
"क्रियाव्यवस्थात्वन्येषां शब्दैरेव प्रकल्पिते"ति।। (वा.प.III.सा.स.श्लो.66) स्वयमपि ज्ञानानुकूलः आत्ममनः संयोगरूपो जानातेर्थ इति धात्वर्थनिर्णयेऽबिधानात् -02-0पूर्वापरविरुद्धत्वातीतानागतयोरपि (L. एतत् पदं न दृश्यते) बुद्धरूपारोबहात्फलशालित्वमित्यास्तां तावत्। विभ्वोः संयोगानङ्गीकारेपि मनसोऽणुत्वाङ्गीकारात्संयोगोपपत्तिः। परमर्थतस्तु आश्रयतैव व्यापारः 'ईश्वरो जानाती'त्याद्यनुरोधादित्युक्तं प्राक्।
एतेन यत्र कर्मणि क्रियाकृतोविशेष उपलभ्यते स कर्मस्थक्रिय इति निरस्तम्। पचत्यादि कर्त्तर्यपि श्रमादिरूपविशेषदर्शनेन तस्यापि -03-0कर्तृस्थक्रिया(क -) त्वापत्तेः। (P.V1,2. क्रियाकारकापत्तेः L. क्रियकत्वापत्तेः) चिन्तयति, पश्यत्यादिकर्तरि क्रियाकृतविशेषानुपलम्भेन कर्तृस्थभावकत्वानापत्तेश्चेत्यलम्।।
-2फलाश्रयत्वादिति-2।। -01-0संयोगस्यद्विष्टत्वेन (P. स्य - नास्ति) ग्रामस्येव चैत्रस्यापि तदाश्रयत्वादित्यर्थः।। -2विभागस्येति-2।। संयोगस्य विभागपूर्वकत्वाद्विभागोपि तत्क्रियाजन्य इत्यर्थः।। -2संज्ञाया एव नियामकत्वादिति-2।। इदमुपलक्षणम्। प्रकृतधात्वर्थव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेन कर्तुरुद्देश्यत्वाभावादित्यपि बोध्यम्।। -2अन्यथा-2 = संज्ञाया अनियामकत्वे।। -2आपत्तेरिति-2।। णिजर्थव्यापाराश्रयत्वात्।। -2स्यादिति चेन्नेति-2।। तथा च ग्रामचैत्रोभयवृत्तिसंयोगजनकश्चैत्रवृत्तिर्व्यापार इत्येवं बोधे चैत्रस्य द्वेधा भानप्रसङ्ग इति भावः।। -2उच्यतां वेति-2।। -0क-0तादृशो बोधः। (तादृशबोध इति भवेदिव) प्रकारतासम्बन्धेन ग्रामे। -0ख-0तत्र च (तत्र च इत्येतन्नान्वेतीव।) विषयतया निरुक्ताश्रयोपस्थितिरिति 'ग्रमं गच्छती'त्यादौ कार्यकारणभावसङ्गतिः।। -2समभिव्यहृतेति-2।। प्रकृतार्थकम्। तथा च प्रकृतधात्वर्थक्रियाजन्यप्रकृतधात्वर्थफलशालित्वमिति फलेपि प्रकृतधात्वर्थनिवेशात् विभागस्य च प्रकृतधात्वर्थत्वाभावान्न दोषः।। -2आद्यदोषेति-2।। 'चैत्रो गच्छती'त्यादौ कर्तुः कर्मत्वापत्ति रूपेत्यर्थः।। -2द्वितीयेति-2।। 'प्रयागात् काशीमि'त्यादौ प्रयागस्य द्वितीयापत्तिरूपेत्यर्थः।। -2तथैवेति-2।। द्वितीयया फलवत्प्रकारकबोधं प्रति द्वितीयान्तार्थवृत्तिः तदन्यवृत्तिर्वा यो व्यापारस्तदुपस्थितिर्विषयतया हेतुरिति कार्यकारणभावो बोध्यः। उपसंहारेप्ययमेव।। -2प्रकृत्यर्थापेक्षयेति-2।। 'तण्डुलः पच्यते' इत्यादौ तु आख्यातेन स्वार्थसङ्ख्यान्वयि तण्डुलापेक्षया परत्वं बोध्यत इत्यपि बोध्यम्।।
-2तथा चेति-2।। तथा च द्वितीयाप्रकृत्यर्थग्रामापेक्षया परः यश्चैत्रस्तत्समवेतक्रियाजन्यसंयोगाश्रयत्वात् ग्रामपदे द्वितीया। न पुनश्चैत्रपदे द्वितीया प्रकृत्यर्थत्वेनाभिमतचैत्रापेक्षया -01-0चैत्रस्यान्यत्वाभावात्।। (P. अत्यत्वाभावात्)
(गौरवेः) -2णावाच्यत्वादिति-2।। -02-0धात्वर्थतावच्छेदकत्वस्य (L. अवच्छेदकेत्यस्य) फलाव्छिन्नव्यापारे तु धातुसक्तौ कथञ्चिदुक्तसंभवेपि प्रत्येकं तच्छक्तताववच्छेदकाभावेन - -2गमयतीति-गोप इति -आपत्तेरिति-2।। (3.P. तत्तदवस्थ्य) कृष्णान्यगोपसमवेतणिजर्थव्यापारजन्यसुद्धधात्वर्थव्यापाराश्रयत्वात्कृष्णस्येत्यर्थः।। -2धात्वर्थाश्रयत्वादिति-2।। उक्तरित्यर्थः।। -2उक्तरीत्यैवेति-2।। उच्यतां वा प्रकारता सम्बन्धेनेत्यादिकार्यकारणभावेनेत्यर्थः। यत्तु नयतार्किकाः परिष्कुर्वन्ति परसमवेतधात्वर्थक्रियाजन्यधात्वर्थतावच्छेदकफलाश्रयत्वस्य -01-0कर्मत्वे (L. कर्मत्व) गौरवात्, क्रियायाः फलस्य च धातुत एव लाभाच्च, न तस्य द्वितीयार्थता; अपि तु आदेयत्वं भेदश्च द्वितीयार्थः। तत्र -02-0धात्वर्थे (P. भेद) फले -0क-0आधेयत्वान्वयः।
('आधेयत्वस्य' इति स्यादिव) भेदस्य सामानाधिकरण्यसंबन्धेन धात्वर्थव्यापारेऽन्यः। भेदे च द्वितीया प्रकृत्यर्थग्रामादेः फलान्वयि - व्यक्तिविशेषावच्छिन्नप्रतियोगितयाऽन्वयः। तथा च ग्रामं गच्छतीत्यादौ ग्रामाधेयफलानुकूलग्रामबेदसामानाधिकरण्यव्यापारवानिति बोध इति। एतेन -02-0भेदे (L. धात्वर्थं) प्रकृत्यर्थस्य प्रतियोगिता - सामान्येनान्वये द्वित्वावच्छिन्नप्रतियोगिताकचैत्रबेदस्य -01-0चैत्रे (P. चैत्र) सत्वेन 'चैत्रश्चैत्रं गच्छती'त्यापत्तिः। अन्वयितावच्छेदकावच्चिन्नप्रतियोगितया भेदप्रकृत्यर्थान्वय इति देवदत्तो द्रव्यं गच्छतीत्यस्यानापत्तिः। द्रव्यत्वावच्छिन्नप्रतियोगिताकभेदस्य व्यापाराधिकरणे देवदत्ते अभावादिति निरस्तम्। फलान्वयि -02-0व्यक्तिविशेषावच्छिन्नप्रतियोगितासंबन्धविवक्षितत्वादिति (L. संबन्धस्य) तन्न। उक्तरीत्या परया कर्तृसंज्ञया बाधेनोद्देश्यत्वाभावेन चोक्तप्रयोगापत्तेरसंभवेन भेदे शक्तिकल्पनस्य व्यर्थत्वात्।
-02-0नन्वत्र (P. नत्वत्र, L. न च) उक्त तादृशबोधव्यावृत्यर्थं तत्कल्पनम्। तथा व्युत्पत्तिमतां तथा बोधस्येष्टत्वात्। किं च द्वितीयार्थाऽधेयत्वान्वितफलप्रकारकबोधं प्रति द्वितीयान्तार्थवृत्तिभेदप्रतियोगिताकच्छेदकव्यापारोपस्थितेः हेतुत्वकल्पनेनापि -03-0तद्वारणात्।। (L. कारणात्)
ननु 'चैत्रमैत्रौ परस्परं गच्छत' इत्यत्र द्वितीयान्तार्थे व्यापारावद्भेदाभावादनिर्वाह इति चेन्न -तवमेत चैत्रमैत्रयोर्द्वितीयान्तार्थभूतपरस्परपदार्थभेदवन्ममापि परस्परपदार्थे व्यापारवच्चैत्रमैत्रभेदस्य सत्वात्। किं च 'घटं जानाती'त्यादौ -01-0द्वितीयानापत्तिः। (L. द्वितीयापत्तिः) फलस्य धात्वर्थत्वाभावेन धात्वर्थफलघटितोक्तकर्मत्वलक्षणानाक्रान्तत्वात्। न च द्वितीयायाविषयत्वे लक्षणया निर्वाहः। कर्मण्येव द्वितीयेत्यादिनियमेन लक्षणयाप्यन्यत्र अर्थेऽसाधुत्वबोधनात्। अत एव 'सुब्दिभक्तौ न लक्षणे'त्युद्धोष इत्युक्तं प्राक्। 'वैकुण्ठमधितिष्ठति' इत्यादौ अव्याप्तेश्च। वैकुण्ठस्य फलाश्रयत्वाभावात्। एतदर्थं संज्ञाया नियामकत्वाङ्गीकारे तु सर्वत्रैव तस्या एवव नियामकत्वमस्तु, किं भेदनिवेशनेन। अनेयैव दिशा व्यापाख्यधिकरणधात्वर्थफलाश्रयत्वं कर्मत्वमित्यपि खण्डनीयमित्यास्ताम्।।
मूले "-2तच्चेपसिततमं कर्मे-2"-2ति-2 पूर्वान्वयि। यदुक्तम् "चतुर्धान्यत्तु कल्पितमि"ति, तदेव वाक्यपदीयसंमतम्। -0क-0"-2औदासीन्येने-2"-2ति-2 (वा.प.IIIसाधतन. सं. 46) औदसीन्येन प्राप्यन्तु तृणादि, -03-0कर्तुरनीप्सितम् (P. ताम्) विषचोरादि, संज्ञान्तेरेरनाख्यातम-0ख-0"कथितं चे"ति (अकथितं च (सू. 1-4-51)) विशितम्।। (2.P. अधिकरण) वाक्यपदीयोक्तमेव निर्वर्त्यादीनां लक्षण्णमाह।। -0क-0'-2यदसदि-2'-2ति-2 (वा.प. III. साधन.सं.का.47) इदं च तार्किकरीत्या -01-0सत्कर्म(कार्य-)वादिमते (L.P. सत्कर्मत्वादि) तु असदुत्पत्तेर्निराकृतत्वादाह - '-2सदी-2'-2ति-2 --0ख-0 '-2क्रियाकृते-2'-2ति-2।। (वा.प. III. साधन सं.का. 49) एतल्लक्षणलक्षिते तृतीये प्राप्ये कर्मणि। 'घटं पश्यती'त्यादौ आवरणभङ्गरूपपश्य(ति -) क्रियाकृतविशेषस्य प्रतिपत्तृगम्यत्वेऽपि 'न गम्यत' इत्यनेन प्रतिपत्तृभिन्नपुरुषागम्यत्वस्य विवक्षणान्न दोषः। वस्तुतः आवरणभङ्गरूपधातुप्रतिपाद्यफलस्य कर्तृकर्मोभयसाधारण्याभावात् कर्ममात्रनिष्ठत्वाच्च, कर्तृकर्मोभयसाधारण्याभावात् कर्ममात्रनिष्ठत्वाच्च, कर्तृस्थभावकत्वानुपपत्तिः। कर्मस्थभावकत्वापत्तिश्चेति चिन्त्यमेतदिति निरूपितमेव।।
-2विशेषाणां फलाना-2। '-2मानाद्वे-2'-2कि-2।। गम्यते इत्यनेन अन्वयि। -2काष्ठमिति-2।। काष्ठंविकुर्वन् भस्म निष्पादयतीत्यर्थः। 'तण्डुलान् विक्लेदयन्नोदनं -02-0निर्वर्तयती'तिवत्। (P. निवर्तयिति) विक्लृत्यनुकूलव्यापारानुकूल व्यापारार्थकत्वात्। उक्तकर्मत्वशरीरे प्रयोज्यत्वनिवेशादुभयोरपि कर्तुरिति कर्मत्वम्। काष्ठानां क्रियान्वयाभावे तु षष्ठी, 'काष्ठानां भस्म करोतीति'। उपपदविभक्तीनां सम्बन्धोऽर्थः -0क-0चादिद्येत्यः। (चादिनिपातद्योत्य इत्यर्थः।) -0ख-0'मासमधीते' (लघुमञ्जूषा - सुबन्थविचारे पृ. 1239) इत्यादौ व्यापकत्वं द्वितीयार्थ इत्यादि मञ्जूषातोऽवगन्तव्यमिति शिवम्।।
-0इति द्वितीया
।।-2धात्वर्थ(व्यापार)श्रयत्वमिति-2।। यथाश्रुते दोषात्। इदमेव स्वातन्त्र्यं केचित् परिष्कुर्वन्ति। तथा हि - कर्तृप्रत्ययसमभिव्याहारे -01-0व्यापारतावच्छेदकसम्बन्धेन (P.L. 'कर्म' इति अनुचितः पाठः) -02-0तद्धात्वर्थनिष्ठविशेष्यतानिरूपित-प्रकारतानाश्रयतद्धात्वर्थाश्रयत्वम्। (P. तत्- नास्ति।) कर्तृप्रत्ययसमभिव्याहारे ित्यनेन 'पाक्वस्तण्डुलोदेवदत्तेन' इत्यादौ फलस्य विशेष्यत्वेऽपि देवदत्तस्य -03-0कर्तृत्वसिद्धिः। (L. कर्तृ) कालिकादिसंबन्धेन तादृशव्यापाराश्रयेऽतिप्रसङ्गवारणाय संबन्धविशेषनिवेशः। 'रूपवन्तं गच्छती'त्यादौ उत्तरदेशसंयोगरूपे फले रूपादौ च न -04-0तादृशधात्वर्थत्वमिति (L. धात्वर्थमिति) तदाश्रयरूपवति नातिव्याप्तिः। एतेन सामग्री साध्यायां क्रियायां सर्वेषां स्वव्यापारे
स्वातन्त्र्यात् सर्वेष्वभावात्। तत्र निरुक्ताश्रयरूपे स्वतन्त्रे "स्वतन्त्रः कर्ता" (सू. 1-4-54) इत्यनेन कर्तृसंज्ञाबोधनद्वाराकर्तृत्वशक्तिमत्वं बोध्यते। सा कर्तृताशक्तिश्च सचेतने कर्तरि कृति - व्यापारोभयाश्रयत्वसमानाधिकरणैव। अत एव गुरुतरभारोत्तोलनादिविषयकफलसत्वेपि तत्तद्व्यापारस्यानिष्पत्तौ न कर्तृत्वव्यवहारः। अचेतने रथादौ तु -02-0व्यापारसमानाधिकरणैव। (V1,2 त्वव्यापारं) सा धात्वर्थकृतिश्च साध्यत्वाख्यविषयतया क्रियाविषयैव ग्राह्या। अतो'मत्तोभूतं न तु मयाकृतमि'ति व्यवहारस्य नानुपपत्तिः। नान्तरीयककृत्रति साध्यपिष्ठकमध्यस्थशर्कराभोक्तरि -03-0च (V1,2 त्व) न तत्कर्तृत्वव्यवहारः। एतेन कृतिर्नाम काचिन्न व्यापारातिरिक्तेत्यपास्तम्। -04-0अन्तराचेष्टाविशेष (V1,2 आन्तरत्वेष्टक) एव वा कृतिरिति दिक्। तत्र व्यापारस्य धातुत एव लाभात्कर्तृत्वशक्तिमत्वेन -05-0कर्ता (P. कर्तृ) तृतीयार्थः। आश्रयमात्रार्थकत्वं तु न युक्तम्। व्यापाराश्रयत्वात् कर्तृत्वमित्यादिव्यवहारासङ्गत्यापत्यादिरूपद्षणस्य पूर्वमभिधानात्। तत्र शक्तिमति तृतीयार्थे प्रकृत्यर्थस्याभेदेनान्वयः। स च तृतीयर्थे धात्वर्थे आधेयतयान्वेति। अथवा स्ववृत्तिशक्तिनिरूपकत्वसंबन्धेन तत्रान्वेति। ततश्च 'चैत्रेण सुप्यते' इत्यादौ 'चैत्राभिन्नकरतृवृत्तिः स्वाप' इति चैत्राभिन्नकर्तृवृत्तिशक्तिनिरूपकस्स्वाप इति वा बोधः। परमगुरूणां मते तु द्वितीया - प्रकरणोक्तरीत्या कर्त्तृचैत्रीयः चैत्रकर्तृकस्स्वाप इति वा बोधः। क्रियाकर्तृभावस्यापि तृतीयार्थत्वादिति।
अत्र केचिदाहुः - निरुक्तधात्वर्थव्यापाराश्रयत्वं साक्षात्परम्परया वा कर्तृताशक्तिप्रयोजकम्। तत्राद्यं प्रसिद्धमेव, द्वितीयं 'पञ्चभिः हलैः कर्षती'ति - अत्र हि स्वाश्रयप्रयोजकत्वसंबन्धेन प्रयोजककर्त्तुर्धात्वर्थव्यापाराश्रयत्वम्। अन्यथा प्रयोज्यव्यापारस्य -01-0धात्वर्थत्वेन (P. धात्वर्थत्वे) -02-0तदाश्रयाणां (L. श्रयणाम्) बहुत्वेन (त्वात्) बहुवचनतापत्तिः।। -03-0प्रयोजकव्यापारस्यापि (V1,2'प्रयोजक' -------- अपरपुटे 'चेन्न' - न दृश्यते) धातुवाच्यत्वे तु णिजापत्तिः। अन्तर्भावितण्यर्था इति प्रवादस्याप्ययमेवार्थ इति चेन्न -
अन्तर्भावितण्यर्थत्वेन सकर्मकत्वोच्छेदापत्तेः, इष्यते चान्तर्भावितण्यर्थत्वेन सकर्मकाणामपि द्विकर्मकता। धातोर्वृत्तिः। परन्तु -01-0यत्र (P. तत्र) णिचोऽभावेऽपि तदर्थद्योतनमस्ति तत्रैव। यथा प्रकृते 'पञ्चभिर्हलै'रित्युपसंदानम्। (उदाहृतम् -) यदि तु द्वितीयकर्मरहितोपि तत्र प्रयोग इष्टस्तदा प्रयोजकव्यापारस्यैव धात्वर्थत्वमाश्रित्य -02-0समाधेयम्। (P. समाधेय इति)
वस्तुतस्तु तद्धात्वर्थीयकारकचक्रप्रयोक्तृत्वं सूत्रे स्वातन्त्र्यम्। अत एव "कारके"(सू. 1-4-23) इति सूत्रे -0क-0भाष्ये (म.भा.प्र.ख.पृ. 245) प्रधानेन समवाये स्थालीपरतन्त्राव्यवाये स्वतन्त्रा "किं पुनः प्रधानं - यत्सर्वेषु -0ख-0कारकेषु (साधनेषु - इति भाष्यसूक्तिः।) सन्निहितेषु कर्ता प्रवर्तयिता भवती"त्युक्तम्। इदं चारोपितमनारोपितं च संज्ञानिमित्तम्। आद्यं स्थाल्यादौ ; अन्त्यं पुरुषे। तेनात्र पक्षे मूलोक्तदोषो न। -01-0एवं (L. एवं च ----- न दोषः - द्विरुक्तिः) स्वेच्छाधीनप्रवृत्तिकत्वमपि स्वातन्त्र्यम्। एतच्च -02-0प्रयोजकसन्निधानेपि (L. अप्रयोजिक) प्रयोज्यस्यास्ति तत् सन्निधानेपि स्वार्थसत्वे एव प्रवृत्तेस्तदसत्वेऽप्रवृत्तेश्चात एव "स्वतन्त्रः कर्ते" (सू. 1-4-54) ति -0क-0सूत्रभाष्ये (म.भा.प्र.ख.पृ. 279) "कुर्वन् स्वतन्त्रोऽकुर्वन् न स्वतन्त्र" इत्यभिहितम्। तेन प्रयोज्यस्य कर्तृत्वसिद्धिः। अथवाऽऽद्यमेव तादृशप्रयोक्तृत्वरूपं स्वातन्त्र्यं सार्वत्रिकमास्ताम्। 'पाचयति चैत्रेणे'त्यादौ प्रयोज्यस्य तत्कथ मिति चेन्न -
तत्र -03-0प्रयोज्यस्यप्रयोजकव्यापाराधीनत्वेपि (P. प्रयोज्य) साधनान्तरविषयं स्वव्यापारमादाय तस्य तादृशप्रयोक्तृत्वमव्याहतमेवेति न देषः।
न च करणादीनामपि कर्तृपरतन्त्रत्वेपिस्वव्यापारमादाय करणत्वाद्यवस्थायामपि स्वतन्त्र्यात् कर्त्तृत्वापत्तिरिति वाच्यम्।
धातुवाच्यस्वगतक्रियाकृतस्वातन्त्र्यस्यैव विवक्षितत्वात् करणत्वाद्यवस्थायां -04-0करणादिगतव्यापारस्य (P. स्थ) धातुवाच्यत्वाभावात्।
किञ्च प्रयोज्यस्य स्वाम्याज्ञयात्वनुवर्तनमात्रेण प्रयोजकाधीनत्वं स्वार्थसिध्यर्थमेव प्रवृत्तेः। करणादीनां तु सर्वथा कर्त्रधीनत्वमेव; न तु स्वार्थमपि प्रवृत्तिरिति वैषम्यमिति। अस्मिंश्च पक्षे पूर्ववदेव तादृशप्रयोक्तृत्वावच्छिन्ने स्वतन्तर्े कर्तृत्वशक्तिमत्वं संज्ञाबोधनद्वारा संज्ञाशास्त्रेण बोध्यतेऽन्यत्सर्वं पूर्ववदिति। मूलोक्ताश्रयत्वरूपं तु तन्नयुक्तम्। तादृशाश्रयत्वे स्वतन्त्रपदस्य शास्त्रेऽपरिभाषात् लोके तूक्तार्थयोरेव तत्प्रतीतेःष प्रयोज्यस्यास्वतन्त्रत्वात् कर्तृसंज्ञा न प्राप्नोतीति आशङ्क्य तस्यापि स्वेच्छाधीनप्रवृत्तिकत्वरूपस्वातन्त्र्यमादाय समाधानपर "स्वतन्त्रः कर्ते" (सू. 1-4-54) ति सूत्रभाष्यविरोधापत्तेश्चेत्यलम्।
निरुक्तकर्तृत्वं च -01-0विवक्षानिबन्धनमित्याहुः। (L. इत्याह) -2धातुवोक्तेति-2।। धातुनोक्तक्रिया यस्य तस्मिन्कारके नित्यं कर्तृता ज्ञायत इत्यर्थः।। -2सङ्गच्छते इति-2।। संप्रदानापादानयोस्तु न स्वातन्त्र्यविवक्षाऽनभिधानादिति न तदीयव्यापारस्य धातुवाच्यतेति बोध्यम्।।
"मनोमयः प्राणशरीर उपास्य" इति श्रुतौ -01-0मनोमयत्वादिगुणि(ण-)कब्रह्मैव; (V1,2 गुणीक) न तु जीव इति पूर्वसूत्रे प्रतिपादितम्, तत्रैव हेत्वन्तस्माह सूत्रकारः = -0क-0-2कर्मकर्तृव्यपदेशाच्चेति-2 -2इति-2। (ब्र.सू. 1-2-4) मनोमयादिशब्देन जीवस्य ग्रहणे -02-0कर्मत्वकर्तृत्वे (P. त्वेन कस्य) एकस्य विरुद्धे स्यातामिति सूत्रार्थः। तस्य जीवस्य वाक्यशेषमाह - -2एतमिति-2।। मनोमयं जीवमित्यर्थः। -2इतः-2 - अस्माल्लोकात्। -2प्रेत्य-2 = गत्वा। अभिसंभविताऽस्मि प्राप्तास्मीति वाक्यशेषार्थः। तथा च एतद्वाक्यसेषोक्तकर्मकतृत्वे विरुद्धे स्यातामित्यतो मनोमय शब्देन ब्रह्मैव ग्राह्यमिति सूत्रतात्पर्यम्।।-2कथं सङ्गच्छतामिति-2।। यदा यदुपाधिविशिष्टस्य व्यापारो धातुनाऽभिधीयते तदा तदपाधिविशिष्टस्य तस्य कर्तृत्वमन्यदात्वन्यथेत्युक्तरीत्या विरोधाबावात्तदभिधानमसङ्गतमित्यर्थः।। -2ज्ञेयत्वे-2।। उपास्यत्वे। -2शब्दविरोधेति-2 - -03-0एतमिति (V1,2 एतदिति) द्वितीयोत्पत्तिविरोधद्वारा सः कर्मकर्तृव्यपदेशः। -2भेदे-2 - उपास्योपासकयोः भेदे। -2हेतुः-2 - कारणमित्यर्थः।। -2आश्रयमात्रमिति-2।। इदं चासमञ्जसमित्यनुपदमेवोक्तम्। -2कृत्याश्रयत्वमिति-2।। कर्तेत्यत्र कृ धातोः कृतिवाचकत्वात्कृत्याश्रयः कर्तृपदार्थस्तत्राश्रयस्य प्रकृत्यैव लाभात् कृतिस्तृतीयार्थ इति भावः।। -2अव्याप्तमिति-2।। अचेतने दण्डे कृतेर्बाधात्। आरोपितं तदस्तीति चेदेवमपि -01-0तस्याः (P. तस्य) धातुत एव लाबेन तृतीयावाच्यत्वाभावात्। कृञः कृतिमात्रवाचकत्वाभावाच्च। सुपो लक्षणायाः प्राक् दूषितत्वाच्च। यस्तु धात्वर्थश्चेतनमात्रवृत्तिस्तत्राचेतनस्य -02-0कर्तृत्वं (L. कर्तृत्व) चेतनत्वारोपेण तन्निष्ठक्रियारोपेण वेति बोध्यम्।
स्पष्टं चेदं "दामहाये" (सू. 4-1-27) ति सूत्रे -0क-0भाष्ये। (म.भा.द्वि.ख.पृ. 319 "ननु चेतनावत एतद्भवति - उत्क्रमर्ण वाऽपक्रमणं वा, दाम चाचेतनम्। अचेतनेष्वपि चेतनवदुपचारो दृश्यते"।) शुद्धादीन् क्रमेणोदाहरति -2मत्येति-2 - -2आश्रयव्यापाराविति-2।। एतेन मूले आश्रयपदं व्यापारोपलक्षकमिति सूचितम्। तत्राश्रये प्रकृत्यर्थस्य अभेदेनान्वयः। व्यापारस्य च धात्वर्थे स्वनिष्ठजनकतानिरूपिताव्यवहितोत्तरोत्पत्तिकत्वसंबन्देनान्वयः। ततश्च 'रामेण बाणेन हत' इत्यादौ बाणाभिन्नाश्रयवृत्तिव्यापारनि,्ठजनकतानिरूपिताव्यवहितोत्तरोत्पत्तिकं रामकर्तृकव्यापारजं यत् हननं प्राणवियोगरूपं फलं तदाश्रयो वालीति बोध इति। वस्तुतः करणत्वशक्तिमान्करणतृतीयार्थः। तत्र प्रकृत्यर्थस्याभेदेनान्वयः। तस्य च स्वनिष्ठव्यापार - अव्यवहितत्त्रोत्पत्तिकत्वसंबन्धेन धात्वर्थे फलेऽन्वयः, साब्दबोधस्तु पूर्ववत्। अस्मिन् पक्षे व्यापारस्य तृतीयावाच्यत्वं न, अपि तु संबन्धघटकतैव करणत्वशक्तिमत्वेन बोधश्चेति विशेषः।
"साधकतममि" (सू. 1-4-42) त्यनेन तमप् ग्रहणात् यत् व्यापाराव्यवधानेन पलनिष्पत्तिः विवक्ष्यते तदश्रयस्य करणत्वशक्तिमत्वेन बोधनादिति। -01-0परमार्थतस्तु (P. वस्तुतस्तु) उक्तरीत्या करण -02-0बाणो (P. 'बाणको' इति स्यादिव।) यो वध इति -03-0बाणकरणक (L. करण) इति वा बोधः। क्रियाकरणभावस्य तृतीयारथत्वात्। इदमपि वैवक्षकं 'स्थाल्या पच्यते' इत्याद्यनुयोधादिति मूले एव स्पष्टम्। प्रकर्षश्च -0क-0सूत्रे न (सूत्रे न इति भाव्यम्) करणान्तरापेक्षोऽपि तु कारकान्तरापेक्ष एव। कारकसामान्यवाचिनः साधकशब्दादुत्पद्यमानेन तमपा तत एव प्रकर्षबोधनात्। अत एव "अश्वेन -0ख-0यथा (अनन्वयः पाठः। यथेति स्यात्) दीपिकया शिविकया गच्छती"ति भवति। अत्र केचित् करणस्य व्यापारे एवान्वयो न फलांशे शब्दशक्तिस्वभावात्। अत एव -0ग-0"उद्भिदा यजेते"त्यादौ (तां. ब्रा.ं19,7,2,3,43,70) मत्वर्थलक्षणाभिया नामधेयत्वं सिद्धान्तितम्। अन्यथा व्यापारं प्रति करणत्वेन -0घ-0यज (अन्वेकीकि P. मातृकापाठः अयुक्तः) धात्वर्थ फलांशे नामधेयस्य करणत्वेनान्वयोपपत्तौ लक्षणाया अप्रसङ्ग एव। अत एव -0ङ-0"सोमेन यजेते"त्यादौ (तै.सं.3,2,2,71,89,96,149) छान्दसी मत्वर्थलक्षणा इति मीमांसकाः। व्यापारे तदन्वये तु फलस्य करणत्वेनान्वयात् उत्पत्तिशिष्टकरणावरुद्धे करणान्तरस्यान्वयायोग्यतया साऽऽवश्यकीति वदन्ति। अन्ये तु फलेप्यन्वये युगपत्फलांशस्य भावनानिरूपितकरणत्वं स्वकरणनिरूपितं साध्यत्वं चेति विरुद्धत्रिकद्वयापत्तिरुपवैरुप्यंस्यादिति सावश्यकीत्याहुः।
नन्वेवं द्वितीयादेर्निरवकाशतापत्तिःष सर्वत्रापि करणत्वेन तृतीयापत्तेरित्यत आह - -2विवक्षित इति-2।। न ह्येकद सर्वेषां करणत्वविवक्षा कर्तुं शक्येति न तस्यानवकाशतेत्यभिहितं प्रागिति भावः। -2तदनिर्देश्यं - तत्-2 करणादिवस्तु - -2अनिर्देश्यम्-2 इदं करणमेवेति निर्देष्टुमशक्यं तत्र हेतुमाह - -2न हीति-2।।
अत एव दात्राद्यनादरेण बलस्य -01-0तत्वविवक्षायां (L. तत्र) 'बलेन लुनाती'त्यादि भवति। निश्चित्ताधिकरणत्वापि -02-0स्थाली, (V1,2 तनु) इतरकपालत्वात् -03-0शीघ्रतरपाकसाधनत्वेन (V1,2 पाक) वैवक्षिकम् करणत्वञ्च अनुभवति।।
।।-2कर्त्ता शास्त्रार्थवत्वात् (ब्र.सू. 2-3-33) इति-2।। आत्मैव कर्ता; न तु सांख्याभिमतम् अन्तः करणं, 'यजेत स्वर्गकाम' इत्यादि शास्त्रार्थस्यात्मन्येव संभवादिति सूत्रार्थः। -2इति (उत्तरमीमांसा)धिकरणे इति-2।। उक्तेत्यनेनान्वयि।। ततैव सूत्रेणेति करणत्वस्याप्यन्वयः।।
-0क-0।।-2शक्तिविपर्ययादिति-2।। (ब्र.सू.2-3-38) अन्तः करणस्य कर्तृत्वे करणशक्तिः न स्यदिति सूत्रार्थः।। -2न युज्यतेति-2।। करणत्वस्योक्तरीत्या विवक्षिताधीनत्वेनोभयोरपि संभवादिति भावः।। -2प्रणानाम्-2।। इन्द्रियां। -2विज्ञानेनेति-2। विज्ञायतेऽनेनेति व्युत्पत्या विज्ञानम्, बुद्धिः, अन्तः करणमित्यर्थः। विज्ञानम्। विज्ञानं शक्तिग्रहणशक्तिमादाय स्वीये जीवोह्ययं वेत्तीति श्रुत्यर्थः। -2यथा च तक्षोभयथा-2 (ब्र.सू. 2-3-40) -2इति-2।। आत्मनः कर्तृत्वेऽपि न सर्वदा दुःखित्वादिकम्। यथा हि तक्षावस्यादि हस्त एव व्यापारकरणात् दुःखी नान्यदा एवमात्मापीति सूत्रार्थः। प्रकृत्यादिभ्यः -0ख-0"सह युक्ते" (सहयुक्तेऽप्रधाने (सू. 2-3-19)) इत्यादि विहितोपपदविभक्तीनामर्थाः -0ग-0मञ्जीषातो (लघुमञ्जूषा -सुबर्थविचारे पृ. 1255-57) निर्णेयाः
-0इति तृतीया़
।।-2सप्तम्या इति-2।। अधिकरणेत्यादि।। -2आश्रयोर्थ इति-2।। -01-0वस्तुतः (P. वस्तुतस्तु) अधिकरणत्वशक्तिमान् -02-0तदर्थः। (V1,2 'तदर्थ' आरभ्य 'मत्वं च ' पर्यन्तं नावलोक्यते।) "अधिकरणे सप्तमीति" (सू. 2-3-36) सूत्रात्। तादृशक्तिमत्वं च कर्तृकर्मद्वारा क्रियाश्रयोऽधिकरणमित्यर्थकेनाधरोऽधिकरणमि (सू. 1-4-45) ति सूत्रेण तादृशाश्रयत्वावच्छिन्नो बोध्यते, तत्र शक्तिमत् प्रत्ययार्थे प्रकृत्यर्थस्याभेदेनान्वयः तस्याधेयतया कर्तृकर्मणोरन्वयः। तयोश्च (यत्व -) क्रियायाम्। तथा च कटाद्यभिन्नधिकरणवृत्तिचैत्रकर्तृका सत्तेत्यादि रीत्या बोधः। गुरूणां मते तु कटा(द्य) धिकरणकम् -03-0अधिकरणकटकमिति (L. अधिकरणम्) वा बोधः। क्रियाधिकरणभावस्यापि तदर्थत्वात्। मूलोक्ताश्रयार्थकत्वं तु न युक्तम् तद्वारा क्रियाश्रयत्वात् अधिकरणत्वमिति व्यवहाराद्यसङ्गत्यापत्तेरित्यवोचाम।. -2आधारसंज्ञा स्यादिति-2।। अधिकरणसंज्ञास्यादित्यर्थः। तथा च सर्वत्र सप्तमीस्यादिति भावः।। -2ताभिः-2।। कर्त्रादि संज्ञाभिः। -2अस्याः-2 = अधिकरणसंज्ञायाः।। -2क्रियाश्रये इति-2।। एतेन क्रियाश्रयत्वं कारकत्वमित्युक्तं तच्च न युक्तमित्यनुपदमेव स्फुटीकरिष्यते।।
-2कर्तृकर्म्मद्वारेति-2।। यद्यपि कालः परिच्चेदकत्वेन साक्षात् क्रियाधार इति 'दिवसे पचती'त्यत्रैव स्यान्न कटादौ, तथाप "साधकतममि" (सू. 1-4-42) ति तमप् ग्रहणात् कारकाधिकारे तमनर्धथप्रकर्षयोगो नास्तीति बोधनात् परंपरया -01-0क्रियाधारस्यापि (L. क्रिया ----- परम्परया - न दृश्यते।) ग्रहणम्। कालनिष्ठव्यापारस्य धातुप्रतिपाद्यत्वे तु 'कालः पचती'त्यापि भवति।
न च परंपरया क्रियाश्रयस्यापि ग्रहणे 'तण्डुलं पचती'त्यादौ तण्डुलस्याधिकरणताप्त्तिः, व्यपदेशिवद्भावेन फलस्यापि फलाश्रयत्वेन कर्मत्वात् -02-0तद्वारा (L.P. 'तद्वारा' - नास्ति) तण्डुलस्य क्रियाश्रयत्वादिति वाच्यम्।
व्यापारजन्यफलाश्रयत्वस्यापि कर्मसंज्ञाप्रयोजकस्य तण्डुले सत्वेन परया कर्मसंज्ञया बाधात्। फलाभिन्नकर्मणोग्रहणाच्च।।
न च "देवदत्तः पचतिं, भवति, मोक्षः इच्छतो भवति इत्यादौ पाक - इच्छारूपस्य कर्तृकर्मद्वारा भवनाश्रयत्वविवक्षायां देवदत्तमोक्षयोरधिकरणत्वं स्यादिति वाच्यम्। "
परत्वादन्तरङ्गत्वाच्च -01-0कर्तृकर्मत्वयोरेव (L. कर्तृ - न) प्रवृत्तेः क्रियाभिन्नकर्तृकर्मणोरेव तक्रकौण्डिन्य'न्यायेन ग्रहणाच्च। 'मोक्षे इच्छास्ती'त्यादौ तु इच्छेति त्व प्रत्ययोपात्त -02-0सिद्धावस्थापन्नेच्छारूप (l. रूप - न V 1,2 रूपकर्तृ - न) कर्तृद्वाराऽस्ति क्रियायामन्वयस्य विवक्षितत्वेनाधिकरणत्वम्। प्रकृत्यर्थसाध्यावस्थापन्नेच्छाद्वारा तत्रान्वये तु कर्मत्वात् कर्मणि षष्ठ्येव 'मोक्ष्स्येच्छास्तीति।' गुरुचरणास्तु अधिकरणस्य कर्त्ताद्यन्वय एव। कटाधिकरणक चैत्रकर्तृकसयनमित्यादि- बोधः। तद्वारकमेवास्यक्रियान्वयित्वम्। कारकाणां क्रियान्वय इति व्युत्पत्तिरप्येतच्छस्त्रबलात् ईदृशपंरपरयाऽन्वयविषयापि।
अत एव 'अक्षसैण्ड' इत्यादौ समादौ समासे असामर्थ्यशङ्का न कृता- -0क-0भाष्यकृता। (सप्तमी शौण्डैः (सू. 2-1-40) म.भा.प्र.ख.पृ. 383)
एवञ्च तत्र अन्तर्भूतक्रियाद्वारा सामर्थ्यमिति कैयटादयश्चिन्त्य एव। तत्र 'दध्योदना'विव क्रियान्तर्भावेण बोधाननु - भवादिच्छाविषयप्रावीण्यवानित्येव बोधानुभवाच्चेत्याहुः।। -2असाक्षाद्धारयदिति-2।। लोके द्रव्याद्यपेक्षमधिकरणत्वमिवेदं न
पौनरुक्त्यम्। 'कटे आस्ते', 'स्थाल्यां पचती'त्यादौ च कटादिनाधृते कर्तृकर्मणी क्रियां न सम्पादयत इत्याधिकरणं कटादिक्रियाधारकर्तृकर्मणी उपकरोतीति समुदितार्थः।।
-01-0"-2औपश्लेषिकमित्यादि-2।।" (L. और) संयोगसमवायाभ्यां कर्तृकर्मसम्बन्दे आद्य आधारः। यथा 'कटे देवदत्तः शेते', 'कपाले घटोऽस्ति'। 'स्थाल्यामोदनं पचति' 'तन्तुषु पटं वयती'त्यादौ। विषयतया कर्तृकर्मसंबन्धो द्वितीयो यथा - 'मोक्षे इच्छास्ति', 'ईश्वरे ज्ञानमनुभवती'त्यादौ। व्यापकत्वेन कर्तृकर्मसम्बन्धः तृतीये यथा - 'तिलेषु तैलमि'त्यादौ। मतान्तराणि चात्र -0क-0मञ्जूषातो (लघुमञ्जूषा - सुबन्थविचारे. पृ. 1326) निर्णेयानि।। 'अधीती'त्यादौ कर्मार्थकसप्तम्याः स एवार्थ इत्यभिहितम् विस्तरेण धात्वर्थवादे। उपपदविभक्तिसप्तमीनामपि यथायथं व्यापकत्वादिरूपः सम्बन्धोऽर्थ इत्यन्यत्र स्पष्टम्।।-2इति सप्तमी-2।।
-01-0।।-2श्रियै नमः-2।। (P. श्रीः) -2अवधिः पञ्चम्यर्थ इति-2।। अवधिपदार्थश्च अपादानत्वशक्तिमान्। विभागजनकक्रियायां यत् ध्रुवं तदपादानमित्यर्थकेन "ध्रुवमपायेऽपादानमि" (सू. 1-4-24) त्यनेन प्रकृतधातूपात्तविभागजनकव्यापारानाश्रयत्वे सति प्रकृतधात्वर्थविभागाश्रयो यस्तस्य तादृशशक्तिमत्वबोधनात्। तद्वक्ष्यति - -2एवञ्च विश्लेषेति-2।। यत्तु -02-0तादृशविश्लेषाश्रयत्वमेवेति (L. तादृश ----- तन्न - न दृश्यते) तन्न -
तादृशविश्लेषाश्रयत्वात् अपादानत्वमिति व्यवहारासङ्गत्यापत्तेः। धात्वर्थे प्रकृतत्वञ्च न शब्दोपात्तरूपम्; अपि तु विवक्षितत्वमात्रम्। अत एव 'धनुषा विध्यती'त्यत्र अपादानसंज्ञां बाधित्वा परत्वात् करणसंज्ञेति -0क-0भाष्यं सङ्गच्छते।। (म.भा.प्र.ख.(प्रदीपः) पृ. 247) शरनिस्सरणं प्रत्यवधिभावोपगमेनैव व्यधनेकरणताब्युपगमेनोभयोरपि निमित्तनिमित्तिभावेन स्तित्या युगपदुभयविवक्षायां, विप्रतिषेधोपपत्तेः। एवं 'कास्यपात्र्यामन्नं भुङ्क्ते' इत्यस्य तत्रस्थितमन्नं ततत उद्धृत्य भुङ्क्ते इत्यर्थ इति तत्राप्युभयविवक्षायां परत्वादधिकरणत्वं बोध्यम्। संज्ञोद्देश्यकुक्षिपरिकल्पितसंबन्धपूर्वकोऽपि। तेन -01-0जुगुप्सादिपूर्वकनिवृत्यर्थकता (P. निवृत्यर्थकृता) जुगुप्सादेर्धातोः आश्रित्य सूत्रेणैव पञ्चमीं संसाध्य "जुगुप्साविरामेत्यादि" प्रत्याख्यानस्य भाष्योकास्य नासङ्गतिः। "भीत्रार्थानामि" (सू. 1-4-25) ति आदि प्रत्याख्यानस्य च नासङ्गतिः। सूत्रेऽधोदेशसंयोगानुकूलव्यापाररूपं पातमात्रं तु नापायः। वृक्षमजहत्यपि पर्णे भूमिं स्पृशति सति 'वृक्षात्पर्णं पतती'त्यप्रयोगात्। 'वृक्षस्य पर्णं पततीं'त्येव प्रयोगात। वृक्षस्य पर्णाविशेषणत्वेन अपायस्या-विवक्षणात् षष्ठी। तदुक्तम् = " गतिंविना त्ववधिना नापाय इति कत्यते।" (वा.प. III. सा.स.श्लो. 143) "वृक्षस्य पर्णं पतती"त्येव -0क-0भाष्ये (म.भा.प्र.ख्.पृ. 247 (सू. 1-4-24) निदर्शितम्।। इति। तथा च 'वृक्षात् पर्णं पतती'त्यादौ पतेर्विभागजन्यः संयोगोऽर्थस्तत्र पञ्चम्यर्थेऽपादानत्वशक्तिमति प्रकृत्यर्थस्याभेदेनान्वयः। पञ्चम्यर्थस्य विभागे आधेयतयान्वयस्तत्श्च वृक्षाभिन्नापादानवृत्तिविभागजन्यः संयोग इति बोधः। उक्तपरमसिद्धान्तरीत्या तु अपादानवृक्षीयं वृक्षापादानकं वा पर्णकर्तृकं पतनमिति बोधः। क्रियापादानभावस्यापि तदर्थत्वात्। 'वृक्षात्भूमिं पर्णं पतती'त्यत्र विभागजन्यसंयोगानुकूलव्यापारो धात्वर्थः। बोधस्तु -01-0तदेव। (L. उक्त एव) ग्रामादागच्छत्यादौ आङ्वशद्विभागानुकूलव्यापार एवार्थः। एवं सर्वत्र बोध्यम्।।।। -2तत्क्रियानाक्षयत्वादिति-2।। विश्लेषजनकतत्किरयानाश्रयत्वादित्यर्थः।। -2पर्णस्येति-2।। विश्लेषस्य -02-0द्विष्टत्वादिति (P. विश्लेष) भावः।।
ननु पतधातूपात्तव्यापाराश्रयत्वेन कर्तृसंज्ञया बाध इति वाच्यम्।
पचत्यादि योगे चरितार्थायाः कर्तृसंज्ञायाः विश्लेषार्थकधातुयोगेऽनया बाध इत्यभिधानात्। -2तत्-2 वस्तुत अवधिभावोपगमातिरिक्तावधित्वोपयोगिवायपारानाश्रयत्वे सति तद्धात्वर्थविभागाश्रयत्वमेव ध्रुवत्वम्। अपाये गति विशेषे सति उक्तध्रुवत्ववत् अपादानत्वशक्तिमदिति सूत्रार्थः। अत एवत्र 'सादृश्यात्पतति', 'धावतोश्वात्पतती'त्यादावश्वस्य त्रासाद्याश्रयत्वेवाध्रुवत्वदपादानत्वं कथमित्याशङ्क्य 'सतोप्यध्रौ - -01-0व्यस्याप्यविवक्षितत्वात्सतोप्यविवक्षाभवति। ('अपी'त्यनन्वयः पाठः) 'समुद्रः कुण्डिके'त्यादि' -0क-0भाष्योक्तं (म.भा.प्र.ख.पृ. 249 (सू. 2-4-24)) समाधानं सङ्गच्चते। अत्र त्रासादेरवधित्वोपयोगित्वाभिमानेन शङ्का। 'वृक्षात्पर्णं पतती'त्यदौ त्रासाद्यभावान्न तस्य तदुपयोगिता प्रकृते विद्यमानस्यापि तस्य तदुपयोगित्वेनाविवक्षितत्वान्नावधित्वोपयोगित्वमित्युत्तरम्। 'वृक्षात्पर्णं पतती' त्यादाववधित्वो पयोगिनो व्यापारस्यऽवदिभावोपगमरूपस्य वृक्षे सत्वात्तदतिरिक्तत्वं व्यापारविशेषणम्; तादऋशस्य च व्यापारस्य कर्तृनिष्ठत्वात्तदनाश्रयत्वं वृक्षस्येति न दोषः। प्रकृतधातूपात्तविभागजनकक्रियानाश्रयत्वे सति तद्धात्वर्थविभागाश्रयत्वस्य मूलोक्तस्य उद्देस्यतावच्चेदकत्वे तु 'त्रस्तादश्वादि'त्युदाहारणे पतधात्वर्थव्यापाराश्रयत्वरूपस्याध्रौव्यस्यासत्वेन सतोऽध्रौव्यस्याविवक्षेत्युक्तभाष्यासङ्गत्यापत्तेः। तस्मादुक्तमेव ज्याय इति बोध्यम्।।
।।-2न स्यादिति-2।। विबागस्यैकत्वेन तज्जनकक्रियाया 'अपसरत' इत्येकपदबोध्याय एकत्वाच्च परस्परपदबोध्ययोरपि मेषयोर्द्रुवत्वाभावादिति भावः। दृष्टान्तपूर्वकमुपपादयति ।।-2यथेति-2।। -2तथात्रापीति-2।। उभयकर्मकविबागस्थलेऽपि इत्यर्थः। विभागस्यैक्येऽपि क्रियाबेदात्। विभागस्य स्वरूपतः ऐकयेऽपि तत्तद्वयक्तित्वेन बुद्ध्या प्रविभागेनैकपदबोध्यायायऽप्येकक्रियायाः साधनभेदादेदेन च तत्तद्विभागानुकूलतत्तत्क्रियावत्वस्य अपरत्राभावाद् उभयोरपि ध्रुवत्वमित्यर्थः।
वस्तुतो नेदं युक्तम्। वस्तुतस्तन्निष्ठयोः क्रिययोः भेदेप्यपसर इति सृधातुना निवृत्तभेदायास्तस्या उपादानादभयोरपि तत्क्रियाश्रयत्वात्परत्वात् कर्तृत्वापत्तेः। एतदेव -0क-0'एकशेष' (सरूपाणामेकशेष एकविभक्तौ (1-2-64) म.भा.प्र.ख.पृ. 82 "एका हि क्रिया") सूत्रे भाष्ये उक्तम् - न वै तिङ्न्तान्येकशेषारम्भं प्रयोजयन्ति; क्रियाया एकत्वादि'ति ।
ननु तर्हि 'परस्परस्मान्मेषावपसरत' इत्यादौ मूलकृन्मते पञ्चमी कथमिति चेन्न - मेषपदोपात्तयोरेव तादृशक्रियाश्रयत्वं परस्परपदोपात्तयोः तदनाश्रयत्वे सति विभागााश्रयत्वमेवेत्यदोषात्। अत एव 'देवदत्तयज्ञदत्तौ अन्योन्यमाश्लिष्यत' इत्यादौ तयोः कर्मत्वसिद्धिः। अन्यथा परत्वात्कर्तृत्वमेव स्यात्।'आत्मानामात्मनाहन्ती'त्यादावन्तः करणाद्युपाधिभेदकृतबेदवत्प्रकृते शब्दरूपोपाधिभेदेन भेदः शब्दालिङ्गितार्थस्यैव भानस्य प्रागभिधानात्। रीतिरियं स्पष्टा "कर्मवत्कर्मणे" (सू. 3-1-87) ति -0ख-0सूत्रेभाष्ये।। (म.भा.द्वि.ख.पृ. 109) एवमेव वस्तुतस्त्विति (वस्तुतो -) मते निरुवतव्यापारानाश्रयत्वं परस्परपदार्थभूतमेषयोरुपपादनीयम्। अपसरणं च विभागपूर्वकं पृष्टतोगमनमिति बोध्यम्। क्रिया चेतिक्रियाशब्देन स्पन्दग्रहणे वृक्षनिष्ठस्पन्दजन्यविभागवति वस्त्रे 'वृक्षाद्वस्त्रं पतती'त्यादौ स्पन्दस्य वृक्षनिष्ठत्वेन विश्लेषहेतुभूतक्रियानाश्रयत्वाभावेन पञ्चम्यनापत्तिः स्यात्। धात्वर्थक्रियाग्रहणे तु विश्लेषजनकपतनक्रियानाश्रयत्वेन सा सिद्धेति भावः।। -2वाच्यमिति-2।। अपित्ववधित्वान्तर्गतव्यापारांशस्य धातुनैव लाभादाश्रयो विभागश्चार्थ इति भावः तत्र आश्रयांशे प्रकृत्यर्थस्य वृक्षादेः अभेदेनान्वयः। आश्रयस्य विभागे आधेयतयाऽन्वयः। तस्य च धात्वर्थे शुद्धव्यापारे जनकतयान्वयः। यद्वा विभागमात्रं पञ्चम्यर्थः तत्र चाधेयतया प्रकृत्यर्थान्वयो विभागस्य च व्यापारे जनकतयेति। बोधस्तु स्पष्ट एव।। -01-0-2द्वितीयार्थोक्तरीत्या प्रयोगातिप्रसङ्गस्येति-2।। (P. श्चेति) 'चैत्रो ग्रामं गच्छती'त्यादौ व्यापारजन्यसंयोगाश्रयत्वेन चैत्रे प्राप्तद्वितीयातिप्रसङ्गस्य कर्मसंज्ञाया गम्धातूपात्तव्यापाराश्रयत्वेन कर्तृसंज्ञया बाधात् वारणवत् आथ्रापि तावन्मात्रोक्तौ 'वक्षात्पर्णं पतती'त्यत्र पर्णे विबागाश्रयत्वेन प्राप्तपञ्चमीरूपातिप्रसङ्गस्य पतधातूपात्तव्यापाराश्रयत्वेन कर्तृसंज्ञाया अपादानसंज्ञाया बाधात् पञ्चम्यापत्याभावेन सत्यन्तविशेषणवैयर्थ्यात्।। -2इति तु प्रतिभातीति-2।। वस्तुत इदमयुक्तम्। वृक्षापादानकेत्येवं बोधात्। 'वृक्षाद्विभजते' इत्यादौ विभागस्य बोधावृत्यापत्तेश्च। अत्र अपादानमेव प़्चम्यर्थ इति चेत्तर्हि किमर्धजरतीयेन। द्वितीये -01-0प्रकृत्यर्थविभक्यर्थस्त्वक्लृप्तस्याभेदेनान्वयस्य (P. यास्त्यत्क्लृप्तस्य V1V2 अन्यत्र क्लृप्तस्य) त्यागापत्तेश्चेत्य बोध्यम्।
न चैवं सत्यंतनुपादानम् - "-2वृक्षात् स्यन्दते-2" -2इति-2।। वृक्षः स्यन्दते इत्यर्थे।।-2स्यादिति-2।। स्यन्दतेरकर्मकत्वेन विबागतदनुकूलव्यापारयोर्वृक्षानिष्ठत्वेन विबागाश्रयत्वादिति भावः।
ननु व्यापाराश्रयत्वेन परया कर्तृसंज्ञया बाधान्न अपादानत्वमिति चेन्न - पञ्चम्यादि योगे चरितार्थायास्तस्याः -0क-0विभागार्थकधातुयोगेऽनुमा (अनया बाधात् इति स्यादिव।) बाधात्। -0ख-0-2एतेन-2 उक्तप्रयोगस्येष्टत्वेन। ('एतत्तु' इति स्यादिव।) वस्तुतो नैतत्प्रयोगस्येष्टत्वं लब्यते। 'आसनाच्चलित' इति प्रयोगाच्चलतेरेव विबागानुकूलव्यापारार्थकत्वं नैतस्य। तस्यात् स्पन्देर्व्यापारमात्रवाचकत्वात्कर्तृद्वारा वृक्षस्य तदाश्रयत्वाच्च 'वृक्षे स्पन्दते देवदत्त' इत्येव भवति। तेनोक्तकार्यकारणबावस्वीकारेऽपि न क्षतिरिति बोध्यम्।
-2न चैवमपीति-2।। उक्तकार्यकारणभावाङ्गीकारेण उक्तप्रयोगस्येष्टत्वेपीत्यर्थः।।
।।-2दुर्वारमिति-2।। विभागानुकूलव्यापारार्थकत्वात् त्यजेरिति भावः। 'वृक्षात् पर्णं विभजते' इत्यत्र विभागजन्यपूर्वदेशसंयोगनाशोऽर्तः। तथा च वृक्षाभिन्नापादानवृत्तिविभागजन्यः पर्णवृत्तिपूर्वदेशसंयोगनाश इति बोधः। एवं दिशा सर्वत्र शाब्दबोधोऽवसेयः।।
ननु द्युत् धातोः विभागानुकूलव्यापारार्थकत्वा भावेन कथं बलाहके पञ्चमीत्यत आह - -2निः सृत्येति-2 ।।-2अध्यहार्य्यमिति-2।। वस्तुतः सर्वविध अध्याहारस्य प्राक् दूषितत्वादिदमयुक्तम्। बलाहकादिति पञ्चम्युपपत्तिस्तु विद्योततेर्विभागजन्यसंयोगानुकूलव्यापाररूपनिः सरणपूर्वकविद्योतनेर्वृत्तिं स्वीकृत्य -01-0बोध्यम्। (V1,2 बोध्या) शाब्दबोधस्तु बलाहकापादानकं विभागजन्यं -02-0संयोगानुकूलव्यापाररूपनिः (L.V1,2 व्यापार ---- कालिकं - न दृश्यते।)
सरणपूर्वकविदयोतक्रियोत्तरकालिकं विद्युत्कर्तृकं विद्योतनमिति।।
ननु बलाहकपदार्थस्य धूमज्ज्योतिः सलिलमरुत्संजात (सन्निपात-) रूपत्वाद्विभागस्य च भेदपूर्वकत्वात्तस्य चाभावात् कथमिति चेन्न -
-03-0तादऋशसमुदायादवयवभूतज्योतिषो (L. ज्योष्टोम) भेदविवक्षायां विभागविवक्षणादवधित्वनिर्वाहात्। यदा तु विद्युत् रूपतेजोनिरूपिताधारत्वेन बलाहको विवक्ष्यते, तदा 'बलाहके विद्योतते' इति सप्तमी।। यदा तु विद्युत् बलाहकयोः तेजोमयत्वत् धूमादेः प्रकाशप्रतिबन्धकत्वाविक्षणाच्चाबेदविवक्षा तदा 'बलाहको विद्योतते' इति -04-0प्रथमा भवति। (L. V1,2 अपि।) -2बुद्धिपरिकल्पिते इति-2।। -01-0'गुणे गुणानङ्गीकारेण' (V1,2. गुणो) -02-0रसेविभागरुपगुणासंभवादेतदाश्रयणम्। (V1,2 रस) -2पृथग्विनेति-2 -2पञ्चमीवेति-2।। इदमेव युक्तं क्रियानुपादानेन कारकपञ्चम्या असम्भवात्। रसादिपञ्चम्यर्थः प्रतियोगित्वम्। -03-0रसप्रतियोगिकवृत्तिपृथक्त्वम्। (P. योग) तच्च -04-0गुणविशेषरूपमित्यन्ये। (V1,2 अविशेष) भेद एवेत्यपरे। एवमेव -05-0उपपदविभक्तिपञ्चमीस्थले (P. स्थले - नास्ति) सर्वत्र पञ्चम्याः संबन्धाार्यकत्वमादाय बोधोऽवसेयः।।
-2धात्वन्तरार्थाङ्गमिति-2।। धात्वन्तरार्थोऽङ्गं यस्मिन् -06-0स्वार्थे(इति-)बहुव्रीहिः (P. चार्थे) इति।। -2अध्याहृत्येति-2।। इदमप्यध्याहारस्याभावादयुक्तम्। उपपत्तिस्तु यत्र प्रत्यक्षसिद्धगागमनं मनसि निधाय 'कुतो भवानिति' प्रश्ने 'पाटलिपुत्रादि'त्युत्तरयति। तत्र वाक्यैकदेशन्यायेन धात्वर्थवादोक्तरीत्या समाधानं बोध्यम्। अयमर्थः - अपादानसंज्ञास्थले सर्वत्र "भीत्रार्थानामि" (सू. 1-4-25) त्यादि विषये अपादानत्वशक्तिमत्वेन बोधः।। -0क-0त्यब्लोपे (ल्यब्लोपे कर्मण्याधिकरणे च (वार्तिकम् सं. 1474)) इत्यादि विहितपञ्चमीस्थले तु कर्मत्वादिशक्तिमत्वेन बोध इति।
-0इति पञ्चमी
-01-0-2उद्देश्यश्चतुर्थ्यर्थः-2।। (P. चतुर्थ) उद्देश्यत्वञ्च इच्छाविषयत्वम्। तदेवाह - -2कर्मणा-2 = -2करणभूतेनेति-2।। तथा च विप्राय गां ददाती'त्यादौ सामानाधिकरण्यसंबन्धेन -02-0स्वत्वनिवृत्तिविशिष्टपरस्वत्वोत्पत्यनुकूलव्यापाररूपधात्वर्थेकदेशे (P. स्व) परस्वत्वे -03-0प्रकृत्यर्थेऽबेदेनान्वितस्य (V1,2 अबेद) चतुर्थ्यर्थस्य निरूपितत्वेनान्वयस्ततश्च विप्राबिन्नेच्छावि,यनिरूपितं यत्तादृशं स्वत्वं परपदार्थोप्यर्थात् स एव यन्निरूपितं स्वत्वमिति। वस्तुत उक्तरीत्या संप्रदानत्वश्कतिमांश्चतुर्थ्यर्थः। "कर्मणा यमभिप्रैति स सम्प्रदानमि" (सू.1-4-32) ति सूत्रेण कर्मणा संबन्धं यमिच्छति स सम्प्रदानमित्यर्थकेन तद्धात्वर्थनिरूपितकर्मनिष्ठफलनिरूपकत्वेनेचछाविषयो यस्तस्य संप्रदानत्वशक्तिमत्वेन बोधनात्। -2सम्बन्धुमिति-2 सम्बन्धश्च -04-0कर्मनिष्ठपलनिरूपकत्वं (V1,2, कर्म - अधिकः पाठः) ततश्च 'विप्राय गां ददाती'त्यादौ चतुर्थ्यर्ते प्रकृत्यर्थस्य अबेदेनान्वयाद्विप्राभिन्नसंप्रदाननिष्ठोद्देश्यतानिरूपकं दानमिति वा बोधः। स्ववृत्युद्देश्यतानिरूपकत्वं च संबन्ध इति। परमार्थतस्तु -0क-0संप्रदानविप्री ('दानसंप्रदानं विप्रः' इति भवेदिव) - यमिति विप्रसंप्रदानकं दानमिति वा बोधः। क्रियासंप्रदानभावस्यापि तदर्थत्वादिति।।
।।-2शेषत्वमिति-2।। तथा च सेषित्वशेषत्वे उपकार्यत्वोपकारकत्वरूपे इति फलितम्। अस्ति च गौर्दुग्धादिना विप्रोपकारिका दण्डप्रदानं च -0ख-0मैत्रावरूणोपकारकं, (प्रासनवन्मैत्रावरुणाय दण्डप्रदानम् जै.मी. अ. 4 पा. 2 अधि. 6) दण्डिन एव तस्य -01-0प्रैषानुवचनकथनात्।। (P. प्रेषानुवचन) -2अत एव-2।। 'अजां ग्रामं नयती'त्यादौ न ग्रामे चतुर्थो अजेग्रामोपकारकत्वाभावात् पस्या कर्मसंज्ञया बाधाच्चेति। कर्मनिष्ठेत्यनेन कर्मणश्चतुर्थीनिमित्तत्वप्रदर्शनात कर्मश्रुत्यपेक्षया चतुर्थीश्रुतेर्बलवत्वं बोध्यते तदाह - -2अत एवेति-2।। -02-0"चात्वाले (L. प्रसनवदिति - आधिकः पाठः) कृष्णविषाणंविषणप्रासनस्य प्रितपत्तिकर्मणो हष्टान्तत्वमत्र पूर्वपक्षे।। -2न प्रतिपत्तिरिति-2।। अध्वर्युणा दत्तं -03-0दण्डं (P. दण्डं-नास्ति) यजमानः सोमक्रयपर्यन्तं धास्यतीति धारणे उपयुक्तदण्डप्रदानं प्रासनवत्प्रतिपत्तिकर्मेति पूर्वपक्षः। उपयुक्तस्यासंकीर्णतासंपादकं कर्म प्रतिपत्तिकर्म।।
-2अर्थकर्मेति-2।। दृष्टप्रयोजनकं संस्कारादिकर्मेत्यर्थः। मैत्रावरुणो हि दण्डंसमवष्टभ्य प्रैषाननुवक्ष्यतीति दण्डस्योपयोक्ष्यमाणत्वात्। तथा च श्रूयते - ' दण्डी प्रैषानन्वाहे'ति। 'पितृभ्यः श्राद्धं दद्यादि'त्यादौ पितृनिरूपितत्वस्य स्वत्वे बाधेऽपि तत्तत्संज्ञासूत्रैस्तत्तदर्थे तत्तत्कारकशक्तिमत्वबोधना दित्यसकृदावेदतम्। -01-0स्वस्वत्वनिवृत्तिविशिष्टपरस्व (P. 'स्व') -02-0त्वोत्पत्यनुकूलत्यागरूप (L. सत्यनुकूल) - दा- धात्वर्थे पितॄणामुद्देश्यत्वसत्वान्न दोषः। परस्वत्वोत्पत्तिहेतुस्च त्याग एव न स्वीकार इत्यन्यत्र विस्तरः। अत एव 'जलमध्ये जलं क्षिपेदि'ति रीत्या विदेशस्थपात्रमुद्दिश्य त्यक्तधनविषयेस्वीकारमन्तरैव
पात्रस्य मरणेऽपि उद्देश्यपुत्रादिभिरेव पितृदायत्वेन तत्धनं विभज्य गृह्यते नान्यैरिति व्यवहारः।। प्रतिग्रहस्तु दाने फलातिशयजनक एवेत्यन्यत्र स्पष्टम्। '-2रजकाय वस्त्रमि-2'ति धातूनामनेकार्थत्वात् अधीनीकरणं दा धात्वर्थः। शेषत्वविवक्षायां षष्ठ्यपि भवति।। एवं 'खण्ड़िकोपाध्याय' इत्यत्र संयोगविशएषानुकूलोव्यापारो ददात्यर्थः। चपोटा = प्रसृतं करतलम्। एवं 'न शूद्राय मतिं दद्यादि'त्यादौ बोधनार्तो ददातिः। मति शब्देन मतिजनकं वेदादिरूपं शास्त्रमुच्यते। -01-0ततश्च (L. 'ततश्च' नास्ति) तस्मै सास्त्रं न बोधयेत् इत्यर्थः। 'पत्ये शेते' इत्यादौ क्रियया यमभिप्रैति -02-0ससंप्रदानमिति (P. सत्यं) वार्तिकप्रत्याख्यातृभाष्यकृन्मते संदर्शनजन्यप्रा्थनजन्यव्यवसायजन्यारम्भक्रियानिरूपितं कर्मत्वं शयनक्रियायामादाय कर्मिभूतशयनक्रियया संबद्धमिष्यामाणत्वात्पत्युः -03-0संप्रदानत्वम् (L. 'यम् ----- भाष्यप्रयोग - न दृश्यते') "कर्मणा यमभिप्रैति" (सू. 1-4-32) इति सूत्रेणैवः पतिसंप्रदानकमारंभकर्मीभूतं पत्नीकर्तृकं सयनमिति बोधः।।
वार्तिकमते तु -03-0पतिसंप्रदानकं (P. संदानत्वं) शयनमित्येव बोधः। [घटं करोतीत्यादौ तु वैपरीत्यात् अनभिधानात् -] ।।-2इत्याहुरिति-2।। अत्रास्वरसबीजं तूक्तभाष्यप्रयोगविरोधरूपम्।। प्रत्याख्यानपरोक्तभाष्यविरोधरूपं च बोध्यम्।
-2इदञ्च-2 = संप्रदानं च। त्रिविधामित्यनेनान्वयि। -2अनिराकरणादिति-2 त्यागान्वयि। तादृशे सत्कर्मणि ईप्सितं प्रथमम्।
ननु तादर्थ्य चतुर्थ्यैव सर्वत्र सिद्धे व्यर्थः संप्रदानभतुर्थ्यारम्भ इति चेन्न -
-01-0दानक्रियार्थे (P. क्रियार्थे) हि संप्रदानार्थक्रिया कारकाणां क्रियार्थत्वादिति समाधानात्। सर्वत्र -02-0उपकार्योपकारकलक्षण (P. लक्षणता) तादर्थ्यस्य अप्रतीतिश्चेत्यन्यत्र विस्तरः।।
-2प्रेरकम् - विप्रायेति-2।। यतो 'विप्रेण मह्यं देरी'ति -0क-0प्रवर्तितो ('प्रार्थित' इत्यापि वक्तुं शक्यम्।) ददाति अत इत्यर्थः।। -2उपाध्यायेति-2।। उपाध्यायो न प्रर्थयतेऽपेतु अनुमन्यते। अत्रेदं तत्वम् = संप्रदानचतुर्थ्यां सर्वत्र -03-0संप्रदानत्वशक्तिमत्वेन (L. शक्तिमत्व ---- आवेदितम् - नास्ति) बोधः। तत्तत् संज्ञासूत्रैस्तत्तदर्थे तत्तत्कारकशम्तिमत्वबोधनादित्यसकृदावेदितम्। गत्यर्थकर्मणी त्यादिविहितचतुर्थ्यां तु कर्मत्वादिशक्तिमत्वेन बोध इति।।
उपपदविभक्तिचतुर्थीस्थले 'वप्राय सुकं', 'हरये नम' इत्यादौ यथायथं संबन्दोऽर्थो बोध्यः। स्पष्टं चेदं -0ख-0मञ्जूषायाम् (लघुमञ्जूषा - सबर्थविचारे पृ. 1281)
इति चतुर्थी
-2अत्र सर्वत्रेति-2।। यथा चैतत्तथा तत्र तत्राभिहितम्। -2कर्मार्थकेति-2।। 'पक्वः ओदनः', 'वसिष्टेन कृतो -01-0ग्रन्थ' (L. वासिष्ठो) इत्यादौ। -2लाभाच्चेति-2।। अन्यथा ग्रामादिना सामानाधिकरण्यानुपपत्तिः स्यात्।।
-2भाष्याच्चेति-2।। तथा च सूत्रभाष्यानुरोधेन कर्मादिपदानां धर्मिपरत्वमेवेति भावः।।
'शक्तिरेव वा' इति मतमवतारयति - -02-0-2आश्रयस्यापीत्यादिना-2।। (L. आश्रय ---- आकृत्यधिकरणमिति ---- नावलोक्यन्ते।) आश्रयस्य वाच्यत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम्। तस्य च आश्रयेतरावृत्तित्वे सति सकलाश्रयवृत्तित्वरूपसखण्डोपाधित्वादतिगौरवमत आह - -2तदेव चेति-2।। रोऽपि इत्यपिनाऽऽश्रयत्वम्।।
-0क-0-2आकृत्यधिकरणमिति-2।। (1-3-9 मी.द.पृ. 229 -2अयमत्र सारः-2 "नाऽगृहीत विशेषणाबुद्धिः विशेष्ये उपजायते इति युक्त्या गो इत्यादि शब्दानां गोत्वम् इत्यादिधर्मा एव वाच्यः" इति) धर्मस्यैव सर्वत्रवाच्यतायास्तत्र सिद्धन्तितत्वात्। तथा च तत्र प्रत्ययार्थे धर्मे प्रकृत्यर्थसय वृत्तित्वेनान्वयस्तस्य च धर्मस्य निरूपकत्वसंबन्धेन धात्वर्थेऽन्वयः। बोध'श्चोदनंपचती'त्यादौ ओदनानिष्ठाश्रयतानिरूपकविक्लृत्यनुकूलो व्यापार इति। अस्मिंश्च पक्षे "कर्माणि द्वितीये" (सू. 2-3-2) त्यादिनिर्देशोपि (शक्ति -) शाक्तिमतोस्तादास्यादेवोपपन्नः। "पक्ता", 'पाक' इत्यादावाश्रयबोधाद्देवदत्तादिना सामानाधिकरण्यानुभवाच्च। -01-0तृजादीनां (P. तज्जादीनम्) धर्मिवाचकत्वेऽपि सुपां प्रकृत्यैव धर्मिलाभान्न तद्वाचकता। अषष्ठ्यर्थबहुव्रीहौ 'प्राप्तोदका'दावपि तत्तद्विभक्तिप्रकृत्यर्थकत्वस्वीकारादैकार्थीभावबलाद्वा धर्मिलाभ इत्येवं दिशा सर्वत्र बोध्यम्। युक्ततरश्चायमेवपक्षः। द्रव्यस्य कारकत्वे तु तस्यैकरूपत्वेन कार्यवैचित्र्यानुपपत्तिः। दृस्यते च 'घटं पश्य', 'घटेन जलमाहार', 'घटेन जलं निधेही' त्यादौ कार्यवैचित्र्यम्। यद्यपि सर्वस्य -02-0सर्वशक्त्याश्रयताऽयापि (P. तथाऽपि) कदाचित् -03-0कस्याश्चिद्विवक्षया (L. कस्यचित्) तत्तद्विचित्रानेक कार्योपपत्तिः। किंच -0क-0भाष्ये (कारके (सू. 1-4-23) म.भा.प्र.ख.पृ. 246) करोति-'क्रियां निर्वर्तयती'ति व्युत्पत्तिप्रदर्शनात् क्रियाजनकत्वशक्तिरेव कारकपदार्थः। सा च सर्वविभक्त्यर्थः। "कारके" इति सप्तम्याः प्रथमार्थत्वेन तस्य -01-0चाधिकारात् (L. कारत्वात्) प्रतिसूत्रमुपस्थित्या तत्तत् सूत्रैक वाक्यतया तत्तत् सूत्रैस्तादृशाश्रयत्वाद्यवच्छिन्नस्य
कारकसंज्ञाविधानद्वारा क्रियाजनकत्वशक्तेरपि बोधनादित्यन्यत्र स्पष्टम्। 'ब्राह्मणस्य पुत्रं पन्थानं पृच्छती'त्यादौ ब्राह्मणस्य न कारकत्व 'अनन्यथा' इति भाव्यम्। यताश्रुतं विपरीतम्। 'अनन्यथा' इति बाव्यम्। यथाश्रुतं विपरीतम्। मन्यतासिद्धनियतपूर्ववर्तिन एव पुत्रस्य जनकत्वेन सिद्धे ब्राह्मणस्यान्यभासिद्धत्वेन तज्जनकत्वाबावात्। तदुक्तं 'हरि'णा-
"स्वाश्रये समवेतानां तद्वादेवाश्रयान्तरे।
क्रियाणामभिनिष्पत्तौ सामर्थ्यं साधनं विदुः।।" (वा.प.III सा.स.श्लो. 1) अत्र स्वशब्देन द्वव्यगता क्रियाजनकताशक्तिः सैव साधनमित्युच्यते। अयमाशयः- सिद्धस्य द्रव्यस्य स्वरूपतः क्रियाजनकत्वानुपपत्या शक्त्याविष्टस्यैव तत्वं वाच्यमिति प्राप्ताप्रप्तविवेक'न्यायेन शक्तिरेव साधनमिति। तदुक्तम् "अनभिहिते" (सू. 2-3-1) इति सूत्रे -0क-0भाष्ये ('किं पुनः साधनं न्याय्यम्।।' गुण इत्याह - म.भा.प्र.क.पृ. 485)
'गुणाः साधनमि'ति। शक्तिरेवात्र पारतन्त्र्याद्गुणत्वेनोक्ता। अत एव -03-0विभक्त्यर्थकाव्ययीभावः (p.) सङ्गच्छते।। द्रव्यस्यैव -01-0साधनत्वे (P. सधर्मित्वे तु) तु तस्य हर्यादिशब्देनैवोक्तत्वादव्ययस्य प्रयोग एव न स्यादिति कतं तेन समासः स्यादिति। आश्रयत्वादिरूपशक्तिरेव विभक्त्यबिधेयेति मूलोक्तुं तु न युक्तम्। तस्याश्रयत्वादेः कर्मसंज्ञादि विध्युद्देश्यतावच्छेदकत्वात्। अपि -02-0तूक्ता (L. उक्ता ---- कर्तुः - न दृश्यते) शक्तिरेव। "कर्तु" (1-4-49) रित्यादिसूत्रेण कर्मादिसंज्ञाविधानद्वारा कर्मत्वादिशक्तेरेव तादृशाश्रयत्वावच्छिन्ने -03-0भोदेन (P. 'ने'त्याधिकः पाठः) तस्या एव "कर्मणि द्वितीये" (सू. 2-3-2) त्यादिना विभक्त्यर्थता भोधनात्। तत्र कर्तृकर्मणोः स्वाश्रयसमवेतक्रियाजनकता करणादीनामाश्रयान्तरसमवेतक्रियाजनकता इति बोध्यम्।. क्वचित् शक्त्याविष्टद्रव्यस्यापि कारकत्वादिना व्यवहारः शक्तिशक्तिमतोरबेदादित्युक्तम्। तेन नोक्तदोषावकासोपि। अत एव "परोक्षे लिडिति" (सू. 3-2-115) सूत्रे -0क-0भाष्ये ('एवं तर्हि साधनेषु परोक्षेषु' म.भा.द्वि.ख.पृ. 178) क्रियायाः पारोक्ष्यात्परोक्षे इत्यव्यावर्तकमित्युक्त्वा, एवं तर्हि साधनपाशेक्ष्ये इत्युक्तम्। तत्र साधनशब्देन शम्तेर्ग्रहणे पुनरपि तदव्यावर्तकम्। अतस्तयोः अभेद आश्रयणीय इत्यलम्। 'इक्त्या करोती'त्यत्र शक्तेरपि -01-0वक्ष्यमाणवस्तूपलक्षणमित्यादिपारिभाषिकद्रव्यायभाणतया (P. 'ल' - नास्ति) शक्त्यन्तरयोगः। पशौ कर्तरीत्यादैश्च शक्त्याश्रये इत्यादि प्रकारेणार्थ इति। सर्वेषां च कारकाणां स्वस्वावांतरक्रियाद्वारा प्रधानक्रियानिर्वर्त्तकत्वम्। अत एव तेषां भावनायामेव अन्वयः। क्िरयाजनकत्वावगतौ का सा क्रियेत्याकाङ्क्षोदयेन तत्रैव अन्वयौचित्यात्। असंनिहित-संप्रदानस्यापि कर्तृबुद्धिस्थत्वेन तत् ज्ञानपूर्वकालत्वेनैव जनकत्वात्तावतैव दानाक्रियोपपद्यते। 'घटं स्मरति', 'कटं करोती'त्यादौ च बौद्धघटादेः पूर्वकालत्वात् स्मृत्यादिनिष्पादकत्वमिति दिक्। यत्तु 'ब्राह्मणस्य पुत्रं पन्थानं पृच्छती'त्यादौ ब्राह्मणादेः कारकत्ववारणाय क्रियान्वयित्वम् -02-0कारकत्वमित्याहुस्तन्न- (P. कारकत्वं - नास्ति)
कारकाणां भावनान्वय इत्यस्य क्रियान्वयिनां क्रियान्वय इत्यर्थापत्या पौनरुक्त्यासङ्गत्यापत्तेः।। अधिकरणस्य कारकत्वेन क्रियान्वय इति भवदीयव्यवहारासङ्गत्यापत्तेः। परम्परया क्रियान्वयित्वस्य अधिकरणकारकानुरोधेन अवस्यं वक्तव्यतया -0क-0ब्राह्णणे ('ब्राह्मणस्य पुत्रं पन्थानं पृच्छति' इत्यत्रेति शेषः।) कारकत्वातिव्याप्तेः दुष्परिहार्यत्वाच्च. यदपि क्रियान्वितप्रत्ययार्थान्वयतित्वं काकत्वमिति तदपि न। 'पक्व ओदन' इत्यादौ प्रत्ययार्थे कारकत्वकर्मत्वव्यवहारानापत्तेः। कारकाणां क्रियान्वय इत्यस्य भङ्दगापत्तेश्च। एतेन क्रियान्वितविभक्त्यर्थान्वयित्वं कारकत्वमित्यपास्तम्।
ननु करोति, क्रियां निष्पादयतीति भाष्यात् कारकशब्दस्य कर्तृण्युलन्तत्वेन करणादिशब्दानां करणण्युलन्तत्वेन च कारकं करणमित्यादि - सामानाधिकरण्यं विरुद्धं, कारकं कर्त्तेति च पुनरुक्तमिति चेन्न -
ज्वलनादिरूपस्वस्वव्यापारे स्वातन्त्र्यात् तेषां धात्वर्थत्वे काष्ठादीनां कर्तृत्वदर्शनात्तात्कालिकस्वातन्त्र्यमादायै (इदानीं -) कारकत्वात् स्वस्वव्यापारद्वारा प्रधानक्रियानिष्पादकत्वेन करणत्वच्च न दोषः। संप्रदानाऽपादानयोरपि स्वस्वव्यापारे स्वातन्त्र्यमादायैव कारकत्वम्। परमनभिधानात् 'ग्राम आगच्छति', 'विप्रो ददाती'ति प्रयोगो न भवति। कारकत्वञ्च उपलक्षणम् सदेव तत्तत्संज्ञोपयोगीति -01-0बोध्यम्।। (L. बोध्य)
-0इति कारकशक्तिनिरूपणम्
-2तस्याः सम्बन्धमात्रमिति-2।। मात्रपदेन सम्बन्धिव्यवच्छेदः। अत एव -02-0"शक्तिरेव वे"ति (L. सर्व) कारिकायाः प्राक् पठितस्यापि संबन्धस्य व्युप्क्रमेण शक्तिनिरूपणानन्तरं निरूपणम्। स च संबन्धः संबन्धत्वेन तत्तद्रूपेण वा स्वस्वामिबावादिः। संबन्धत्वेन क्रियाकारकभावश्च तस्या वाच्य इत्यर्थः। विसेषसंबन्धनियामकतात्पर्याद्यसत्वे -03-0'चैत्रस्य वास'
(P. 'स' - नास्ति) इत्यादौ संबन्धत्वेन तत्सामान्यबानम्। अत एव वाक्यश्रोतुस्तत्र विशेषजिज्ञासा। अनेकसंबन्धसत्वेऽपि स्वत्वादिसंबन्धविशेषतात्पर्येण 'चैत्रस्य नेदं वास' इत्यादौ स्वत्वादिविशेषरूपेण तद्भानम्। अत एव "एकशतं षष्ठयर्था" इति "षष्ठी स्थाने योगे" (सू. 1-1-49) ति -0क-0सूत्रभाष्यं (किमर्थं पुनरिदमुच्यते - नियमार्थो.़यमारम्भः। एकशतं षष्ठ्यर्थाः, यावन्ते वा। ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्ति। म.भा.प्र.ख.पृय. 263) सङ्गच्छते। अन्यथा संबन्धत्वेन संबन्धस्यैकत्वात् तदसङ्गतिः स्यात्। -01-0'मातुः स्मरती'त्यादौ (P. मातुः - न दृश्यते) सम्बन्धत्वेन क्रियाकारकभावप्रतीतिः। कर्मत्वादिना तत्प्रतीतौ हि द्वितीयाद्यापत्तिः स्यादिति - अत्र सिद्धान्तिनः = सेष षष्ठी स्थलोऽपि क्रियाकारकभावमूलकं विशेषणत्वरूपं विषयत्वमेव निमित्तत्वमेव वा सम्बन्धत्वेन तत्वेन वा विवक्षितम्। तदुक्तं - हरिणा
"सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकबूर्वकः।
श्रुतायमश्रुतायां वा क्रियायां सोऽभिधीयते।।" (वा.प. III. सा. स.श्लो. 156) अत्र कारकशब्देन करणत्वादिशक्तय उच्यन्ते। अयं भावः -02-0अश्रूयमाणक्रियाविषये (P. 'क्रिये'त्येतदनन्तरं 'विशेषरूपतानवगमः ------ अश्रूयमाणा' पर्यन्तं (केवलमेतद्वाक्यं) द्विः आवृत्तिः।) 'राज्ञः पुरुष' इत्यादौ 'राजा पुरुषाय दादीती'ति दानक्रियया राजपुरुषौ कर्तृसंप्रदानरूपौ पूर्वमभूतामिति, तन्मूलकस्वस्वामिभावस्येदानीं द्रव्याणां क्रियां विना परस्परसंबन्धासम्भवादश्रूयमाणापि दानादि क्रिया सम्बन्धलक्षणकार्यानुपपत्यानुमीयमाना सन्निहितेति तन्मुखेन समन्वयः। क्रिया हि सोपानपरम्परेव सम्बन्धं करोति। एवञ्च संबन्धिनोरपि अनुमीयमानक्रियानिमित्तत्वरूपकारकत्वमस्ति। एवं -01-0श्रुतक्रियाविषये (P. विशय) 'मातुः स्मरती'त्यादौ क्रियाकर्मत्वमूलक उक्तसम्बन्धः। अत एव -02-0'पर्वतस्य वृक्षा' (P. अस्य) इति न। वृक्षपर्वतयोराधाराधेयभावमूलकसंबन्धासंभवात्।।
ननु संयोग एव तथेति चेन्न - तस्य तन्मूलकत्वाभावात्। प्रत्युत तस्यैव तन्मूलकत्वात्। वस्तुतः -03-0संयोगस्य (P. संयोग) सम्बन्धत्वमेव नेत्यन्यत्र विस्तरः।।
'राज्ञः पुरुष' इत्यत्र षष्ठ्यर्थः स्वस्वामिभावः स्वत्वस्वामित्वरूपः। यत्तु स्वामित्वं स्वत्वं वा प्रत्येकं षष्ठ्यर्थ इति तन्न -
तस्यैकमात्रवृत्तितया संबन्धत्वायोगात्। उभयसंबन्धिनिष्ठत्वे सति संबन्धिभिन्नत्वे सति विशिष्टप्रतीति नियमकस्यैव तत्वात्।
न च स्वत्वादिकमप्येकत्राश्रयतयाऽत्र निरूपकतयाऽस्तीत्यस्य द्विनिष्ठत्वमिति वाच्यम्। निरूपकत्वस्य वृत्यनियामकतयोभयत्रसंबन्धवत्वप्रतीत्यनापत्तेः। स च संबन्धः सांसर्गिकविषयतयैव भासते। अत एव "षष्ठी शेषे" इति सूत्रे -0क-0भाष्ये ("षष्ठी शेषे" (2-3-50) म.भा.प्र.ख.पृ. 519. षष्ठी शेष िति चेद्विशेष्यस्य प्रितबेधः।) 'राज्ञः पुरुष' इत्यत्र राजाविसेषणं पुरुषो विशेष्य' इत्युक्तम्। अन्यता संबन्धं विशेष्यतया विशेषगतया वा ब्रूयात्।।
ननु संबन्धस्य द्विष्ठत्वे विशेषणाद्राजादेरेव षष्ठीति कुतो नियमः पुरुषादपि स्यादिति चेदत्र हरिः - -0ख-0द्विष्ठोप्यसौ (वा.प. III. साधन. सं.का. 157) परार्थत्वाद् गुणेषु व्यतिरिच्यते।
तत्राभिधीयमानश्च प्रधानेऽप्युपचर्याते।। इति अयं भावः = भेदे सिति विसेषगतया विवक्षितस्य संबन्धं विना विशेषणत्वासंभवेन तदाकाङ्क्षितत्वात्तत्र विशेषणे संबन्धो व्यतिरिच्यते - उद्भूततया प्रतीयते इति तत्रैव षष्ठी ; विशेष्यस्य तु पदान्रासमभिव्याहारे स्वार्थनिरूपितविशेष्यत्वेन भासमानत्वरूपस्वीनिष्ठत्वादेव न विशेष्यतानियामकसंबन्धाकाङ्क्षा। तत्र विशेषणे षष्ठ्यादिना शब्देनांशतः प्रतीयमानः संबन्धः प्रधानेप्युक्युज्यते।
तस्य द्विष्ठत्वस्वभावत्वाद्राजादिनिरूपितविशेष्यताया राजादिपदसन्निधाने प्रतीयमानाया उपकारको भवतीत्यर्थः। राज्ञ इत्यादेस्तु पदान्तरसमभिव्याहारं विनाप्यध्याहृतसंबन्धिसामान्यनिरूपितविशेषणत्वप्रतीतिरिति विशेषः। राज्ञ इत्यनेन हि स्वामित्वमवगम्यमानम् अन्यथाऽनुपपत्यैव पुरुषे स्वत्वमवगमयत्यतः संबन्धस्य बहिरङ्गत्वात् पुरुषादन्तरङ्गाप्रथमैव।
एवञ्च -01-0राजस्वामिकमिति (P. राज) राज्ञ इत्यतो बोधः। अत एव अग्रे किं तदिति विशेषजिज्ञासा पुरुषादिपदैश्च तन्निवृत्तिः। स्पष्टं चेदं -0क-0"यस्मादधिकमि"ति (सू. (2-3-9) म.भा.प्र.ख.पृ. 494) सूत्रे भाष्ये। यदा तु पुरुषस्य विसेषणत्वाविवक्षा तदा पुरुषस्य राजेत्यपि भवतीति दिक्।
-2कारकषष्ठ्यास्त्विति-2।। "कर्तृकर्मणोः कृती" (सू - 2-3-65) ति सूत्रादिति भावः। तत्र 'कृष्णस्य कृति'रित्यादौ कर्तृत्वशक्तिः, 'जगतः कर्त्ते'त्यत्र कर्मत्वशक्तिः। बोधस्त्वत्र पूर्वमुक्त एव।
यत्तु सम्बन्धे शक्त्या षष्ठ्याः अनयोरर्थयोः लक्षणा, तद्बोधकं च "कर्तृकर्मणोरि" (सू. 2-3-65) ति सूत्रमिति तन्न - अस्य शक्तिग्राहकत्वस्यैवोचित्यात् लाक्षणिकार्थानुशासनस्य क्वाप्यभावात्। "गङ्गायां घोष" इत्यादावपि आरोपितघोषाधाख्वादिमतोप्यधिकरणसंज्ञेति तत्र सप्तम्याः शक्तिरेव। "आधारोधिकरणमि" (सू. 1-4-42) त्यत्र तमप् ग्रहणादिति स्पष्टमन्यत्र।।
यदपि तिङ्-प्रकृत्यर्थकर्मत्वात्कृत्प्रकृत्यर्थकर्मत्वं विजातीयं -01-0विजातीयाकाङ्क्षादर्शनादिति तदपि न कर्तृकर्मणोः कृती (सू. 2-3-65)ति षष्ठी साधुत्वानुशासनबलात् कृत्प्रकृत्यर्थे कस्येत्येव -02-0कर्माकाङ्क्षाप्रदर्शनम् (V1,2. प्रदर्शने); तिङ् प्रकृत्यर्थे तु किमित्येव कर्माकाङ्क्षाप्रदर्शनम् षष्ठ्यभावात्। अत एव 'पचन्नि'त्यादौ शत्रादिप्रकृत्यर्थे किमित्यैवाकाङ्क्षाप्रदर्शनं 'न लोके' (सू. 2-3-69) ति -03-0षष्ठीनिषेधेन (L. षष्ठ्यनिषेधे) तदभावात्।
-0इति षष्ठी
-2इति बोध इति-2।। तत्प्रकारस्तु विशिष्य तत्र तत्र स्पष्मभिहित एव।। -2विषयतायां लक्षणेतीति-2।। ज्ञानमात्रं धात्व्रथः; विषयता द्वितीयार्थः। प्रकृत्यर्थस्य -01-0तत्राधेयतयाऽन्वयः। (V1,2. तन्नाम) तस्याश्च धात्वर्थे निरूपकत्वेनान्वयः। ततश्च 'आटं जानाती'त्यादौ घटनिष्ठविषयतानिरूपकं ज्ञानमिति बोध इति तन्मतम्।।
-2नियमः प्रकृतेषु चे(वे)ति-2।। विषयसप्तमीयम्। तथा च करमण्येव द्वितीयेत्यादि नियमः -02-0सर्वत्र (P. 'सर्वत्र' - नास्ति) प्रकृतान् करणादीनेव व्यावर्त्तयति, नत्वव्ययार्थमिति अव्ययेभ्यः सामान्यसूत्रेण -03-0सिद्धा (V1,2, सिद्ध) सुबुत्पत्तिः।
(तत्)-2संख्यायाश्च वाच्यतेति-2।। एकवचनत्वादिना सुत्वौत्वादितत्तद्रूपेण वा सुपां -04-0तद् (V1,2.'तत्' - नास्ति) वाचकता। एकत्वद्वित्व - बहुत्वादिना च वाच्यता। 'द्वेकयोरि' (सू. 1-4-22)ति 'बहुष्वि' (सू. 1-4-21)ति शास्त्रात्तत्र संख्या सर्वत्र प्रकृत्यर्थ गतैव बुध्यते। 'संपन्नो व्रीहि'रित्यादौ प्रकृत्यर्थतावच्छेदकव्रीहित्वादिगतैकत्वसंख्याया व्रीहिष्वारोपेणैकवचनप्रयोगः। यत्तु उक्तप्रयोगे प्रकृत्यर्थतावच्छेदके व्रीहित्वादावेव संख्यान्वय इति तन्न -
क्लृप्तस्य प्रत्ययार्थे प्रकृत्यर्थविसेष्यान्वयित्वस्य त्यागे मानभावात्। एवं "वेदाः प्रमाणम्" इत्यादावपि प्रमाणपदेन -01-0प्रमाणत्वगतसंख्यारोपवतामेव (V1,2 गता) प्रतीतिः। तत्फलन्त्वेकजातीयप्रमाणत्वोपपादनम्। एवमेव -02-0'गावो धनमि'त्यादावपि। (P. गा बोधनम्) स्पष्टं चैत"त्पङ्लि विंशती (सू. 5-1-59)ति सूत्रे" (L.विंशति --- विभक्ति - न दृश्यते) -0क-0भाष्ये। (म.भा.द्वि.ख.पृ. 516) 'दारा' इत्यादौ तु अवयवगतबहुत्वारोपेण बहुवचनमित्युक्तं प्राक्।। -2शब्दनियम इति-2।। विभक्तिसंज्ञकशब्दस्य द्वितीयादेः प्रकृतार्थान्तरसंबन्धनिवर्त्तको नियम इत्यर्थः।। -2अर्थ नियम इति-2।। अर्थस्य कर्मादेः विभक्त्यन्तरसम्बन्धनिवर्त्तको नियम इत्यर्थः।।
"नानृतामि"ति- श्रौतेत्यादि।। -2विभक्तौ नेति-2।। यद्यपि 'सुब्विभक्तौ न लक्षणेत्ये'व परेषामुद्धोषस्तथापि विभक्तिसामान्ये न लक्षणेत्येव युक्तम्। सुब्विभक्तौ लक्षणायाः अस्वीकारे हेतोर्नियमव्यत्ययानुशासवैय्यर्थ्यादेस्तिङ्विभक्तावपि सत्वेन तत्रापि लक्षणायाः अप्रामाणिकत्वात्।। -2दिगिति-2।। -01-0तदर्थस्तु (V1 तत्) षष्ठ्यर्थनिरूपणे अभिहित इति बोध्यमिति शिवम्।। 1।। (24)
-0इति
-0लघुभूषणकान्तौ
-0।।सुबर्थनिर्णयः।।
-0-------




-0नामार्थनिर्णयः
।। श्रीः।। एवं सुबर्थे निरूपिते -01-0प्रसङ्गात् (P. प्रतिभूत) तत् - प्रकृतिभूतनामार्थं निरूपयति - "एकमि"त्यादिना। एकं = जातिः, नामार्थयित्यनेनान्वेति। -0क-0तस्य (अधिकः पाठः) च जातिव्यक्त्योः अन्यतरदेव नामशक्यमित्यर्थः। पक्षद्वयेऽपि सकलदोषोद्धारस्य वक्ष्यमाणत्वात्। एवमग्रेऽपि।।
-2विनगमनाविरह इति-2।। जातौ व्यक्तौ वेत्यर्थः। जातिशक्तौ यत्सधकं जातेरेकत्वं -02-0तद्वयक्तावपीति (P. न दृश्यते) भावः। गौरवमेवाह - -2एवं हीति-2 - प्रत्ययानां प्रकृतिशक्यार्थान्वितस्वार्थबोधकत्वमित्यभिमानेन 'घटमानये'त्यादौ व्यक्तै -03-0विभक्त्यर्थान्वयानुपोधाद्विशिष्टं (P. 'अन्वय' न दृश्यते) शब्दशक्यमिति मतमेकोक्त्या अत्रैव दूषयितुमाह - -2किं चेति - स्वसमवेतेति - -2स्वं शब्दशक्त्या व्यक्तिस्तत्समवेतं सामान्यं तदाश्रयत्वं व्यक्त्यन्तरस्येति सम्बन्धप्रयुक्तं गौरवमित्यर्थः। -01-0-2न्यायादिति-2।। (P. 'न्याय' to 'लक्षणायां वा' - न दृश्यते। ) 'नागृहीतविशेषगा बुदधिः विशेष्यमुपसङ्क्रमाती'ति न्यायादित्यर्थः।। -2लक्षणायाः-2 = निरुक्तलक्षणायाः। -2एवं च -2= व्यक्तौ लक्षणायां च।। -2उपपद्यते इति-2।। तथा च उक्तव्युत्पत्तौ वृत्या प्रकृत्यर्थस्यैव विवक्षितत्वात् लक्षणया व्यक्तेश्च प्रकृत्यर्थत्वात् सिद्धे विभक्त्यर्थान्वय इत्यर्थः। वस्तुतः लक्षणा अयुक्तात्र। अनुपपत्तिप्रतिसन्धानं विनापि बोधदर्शनात्। क्वचित् -02-0शक्यार्थमात्रबोधकस्यैव (l. बोधकपदस्यैव) अन्यत्र लक्षणायादृष्टत्वाच्च, न चैवं प्रकृते। -03-0यदपि (L. यद्यपि) भावविसे,णत्वे वैशिष्ट्येनैव जातौ पदानां शक्तिग्रहात् विशएषणत्वानुपपत्या विसेष्यव्यक्तेरनुमानरूपाक्षेपः। तत्प्रयोगश्च त्वादिरहितपदबोध्या जातिः, व्यक्तिविशेष्यकबोधविषयो, विशेषणत्वेन गृहीतशक्तिकत्वादिति, तदपि न। व्याप्त्यादिप्रतिसन्धानं विनापि बोधोदयात्। यदपि इन्द्रियवच्छब्दस्यापि निर्विकल्पके कारणत्वाच्छब्दाज्जाते निर्विकल्पिकैवोपस्तितिः। शक्त्यनुभवोपि जत्यंशे निष्प्रकारक एव। गौत्वं किंचिदाश्रितं जातित्वादित्यनुमानमेवाक्षेपः। पदप्रयोज्योपस्थितेश्च शाब्दकारणत्वान्न व्युत्पत्तिभङ्ग इति तदपि न। तादृश हेतूपस्थितेरसार्वत्रिकत्वात्। शब्दतो जातित्वेनानुपस्थितेः। अर्थापत्तिरपि न। अनपपत्तिज्ञानमन्तरेणापि बोधात्। एकवित्तिवेद्यत्वमाक्षेप इत्यपि न युक्तम्। स्वर्णदिषु गृह्यमाणेषु तेजस्त्वादिसंशयदर्शनात्। द्रव्यमिति ज्ञाने -02-0सति (P. 'सति' इत न दृश्यते) घटत्वज्ञानाभावाच्च। किं च गवा वैशिष्ट्येन च सह गोत्वस्य समानवित्तिवेद्यत्वेऽपि गोगोत्ववैशिष्ट्यानीति समूहालम्बनमेव स्यात् न विशिष्टबुद्धिः। कथं तर्हि शुद्धजातिशक्तिवादे व्यक्तिबोध इति चेदत्राहुः शक्तिग्रह विशेष्यत्वात् व्यक्तिवादेऽवच्छेदकत्वेन जातिभानवत् व्यक्तेर्भानम्; शक्तिग्रहस्तु -03-0जातिप्रकारको (L.'शक्ति वा' इति अनुचितपाठः) गौर्गोपदशक्या इत्येव। स च 'स्वर्गो ध्वस्त' -04-0इतिवत्, (P. 'वत्' - न) 'नागृहीत' इति न्यायसहकृतलाघवेन जातिमात्रे। यद्वा जातिविसेष्यक -01-0एव (L. एक) शक्तिग्रहो गौर्गोपदशक्य इत्याकारक एव। जातेराश्रयावियोगेऽपि तस्याः केवलायाः शब्दवाच्यत्वम्। यथा मुखस्य स्वस्थानावियोगेऽपि जलादौ दृश्यमानस्य तस्य -02-0मुखपदबोध्यत्वम्। (P. बोध्यम्) अत्र पक्षे शक्यतावच्चेदकं -03-0तज्जातिगतोधर्मः। (V1,2. स्थाने तु) विनापि संकेतविषयतां सामान्येन व्यक्तेः सम्बन्धनियमात् स्वसहचरिताव्यक्तिर्जातिं विशिनष्टीति व्यक्तिबोधः। तदुक्तं "सरूप" (सू. 1-2-64) सूत्रेभाष्ये - -0क-0'आकृतिं वाजप्यायन' (म.भा.प्र.ख.पृ. 90) इति। व्यक्तेरभावेप्यानयनादि-क्रिया तत्र केवलायामसम्भवन्ती व्यक्तसाहित्येन निष्पाद्यते इति।
अन्ये तु जातिव्यक्त्योर्नित्यसंबन्धाच्छब्दाज्जातिबोदानन्तरमेकसम्बन्धीति-न्यायेन स्मृताया व्यक्तेः भानं सरूपसूत्रादिस्थानि भाष्याष्ये तत्पराण्येवेति।
-0ख-0अपरे (मज्जूषा - प्रातिपदिकार्थविचारे प-. 12,14) तु "जातिव्यक्त्योख्यतिरेकाज्जातेरेव प्राधान्येपि न वाहाद्यन्वयानुपपत्तिः। तयोख्यतिरेकादेव गवादिशब्दार्थानां जात्यादीनामाश्रयागतलिङगादिग्राहिता"। तदुक्तं - "तद्धितार्थे" (सू. 2-1-50) ति सूत्रे -0क-0भाष्ये (म.भा.प्र.ख.पृ. 386) 'अथवा - [द्रव्याकृत्योः -] अव्यतिरेकाद्', द्रव्याकृत्योः इत्यादिना। -01-0अव्यतिरेक (अधिकः पाठः) उक्तः। अत एव "जात्याख्यायामि" (सू. 1-2-58)ति सुत्रे -0ख-0भाष्ये (म.भा.प्र.ख.पृ. 67) "जातिशब्देन हि द्रव्यमप्यभिधीयते, जातिरपि" इत्यादिना अव्यतिरेक उक्तः। अत एव "सरूप" (सू. 1-2-64) सूत्रेऽपि भाष्ये जातेः पदार्थत्वे तस्या एकत्वात् द्विवचनाद्यसिद्धिमाशङ्क्य, व्यक्तिवादे च 'न ब्राह्मणं हन्यादि'त्यादावेकं प्राह्मणमहत्वा कृतीस्यादित्यशङ्क्य चोक्तं - -0ग-0"न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थो द्रव्यपदार्थकस्य वाऽऽकृतिर्नपदार्थ- उभयोरुभयं पदार्थः। कस्यचित् किंचिद्गुणभूतं किंचित् प्रधानभूतमिति।" (म.भा.प्र.ख.प-. 99) असमाच्च जातिव्याक्त्योख्यतिरेकः लब्यते; न तु विशिष्टपक्ष इति। वक्ष्यमाणमूलोक्तविशिष्टपक्षसाधकता नैतद्भाष्यस्येति सुधियो भावयन्तु।। -2अण्ग्रहणस्येति-2।। -04-0अणुदित् (सू. 1-1-69) सूत्रे इत्यर्थः।। -2शास्त्रसिदधत्वादिति-2।। जातिपक्षे तु 'अण्ग्रहणमपरिभाष्यमाकृतिग्रहणादिति', 'अनारम्भो वे'ति
वार्तिक- -0घ-0तद्भाष्याभायं (म.भा.प्र.ख.पृ. 373) तयोः प्रत्याख्यानात् व्यक्तिपक्षे एवावश्यकतेति भावः। -2तत् ग्रहणात्-2 - शक्तिग्रहणात्।। -2सम्बन्धितावच्छेदकस्येति-2।। शक्तिसम्बन्धितावच्छेदकस्य घटत्वादेः। -01-0'-2न चैव-2'-2मिति-2 (P. न चैवमपीति - उक्तकार्यकारणभावानङ्गीति संक्यमितयेत्ययेताशंका - अनन्वितः पाठः) 'शङ्क्यमि'त्येतत्पर्यन्ताशङ्का। शक्यस्य शक्यतावच्छेदकत्वमित्यभिमानप्रयुक्ता। -2अकारणत्वे-2ऽपि - दण्डत्वादेः। -2अलक्ष्यत्वेपि-2 - तीरत्वादेः। -2तथाऽत्रापि-2- सम्भवादिति- घटत्वादेः अशक्यत्वेऽपि शक्यतावच्छेदकत्वसम्भवात्। तथा हि = संबन्धग्रहविशेष्यत्वस्य सम्बन्धिभाननियामकत्ववत् तदवच्छेदकत्वस्य धर्मबाननियामकत्वम्। यथा हस्तिपकादौ हस्त्यादिसम्बन्धग्रहस्य हस्तिपकत्वादिनोपस्थितौ नियामकत्वम्। अत एव दण्डात् घटत्वेन घटस्य, घटाच्च दण्डत्वेन दण्डस्य उपस्तितिः। एतेन शक्यतावच्चेदकेऽपि शक्तिरिति अपास्तम्। -02-0फलाभावात्। (P. फलशमाभावात्) यथा शक्तिग्रहे शक्यतावच्छेदक अनुगतीकृतसकलव्यक्तिभानम्, एवं शाब्दबोदेऽपि तदनुगतसकलव्यक्तिभानम्।
ननु शुद्धवयक्तिपक्षे व्यक्तीनामानन्त्यात् 'न ब्राह्मणमि'त्यादौ बहुवचनापत्तिरिति चेन्न -
शक्यतावच्छेदकगतसंख्यां विशेष्ये आरोप्य एकवचनप्रयोगान्न दोषः। शक्यतावच्छेदकत्वञ्च - शक्यनिष्ठाया विशेष्यता तदवच्चेदकताख्यप्रकारतया (l. आख्य ---- अत एव - नावालोक्यते) भासमानत्वम्। घटादिपदशक्तिग्रहे च पटत्वादेरेव तत्वम्, न द्रव्यादेरिति न तेब्यो द्रव्यत्वादिप्रकारको बोधः। अत एव आकाशपदस्य शब्दाश्रयत्वे -02-0शक्त्यभावेऽपि (l. 'शक्त्य' to 'आकश' पर्यन्तं नावलोक्यते।) ततः तद्रूपेणैव बोधः। तद्विशिष्टविषयकसम्बन्धग्रहस्यैव तद्विशिष्टविषयकज्ञानहेतुत्वादिति मणिकृतः। वस्तुतः आकाशत्वमखण्डोपाधिरूपं तत्पदरूपं जातिरूपं वा शक्यतावच्छेदकं, तेन आकाशः शब्दाश्रय इति प्रयोगोपपत्तिः। अयं च शुद्धव्यक्तिपक्षः "सरूप" (सू. 1-2-64) सूत्रे -0क-0भाष्ये (म.भा.प्र.ख.पृ. 94) उक्तः - "द्रव्यभिधानं व्यडि"रिति। अत्र द्रव्यपदेन यो यः शब्देन -03-0उच्यते (p. नोच्यते) विसेष्यतया स सर्वोऽपि द्रव्यधर्मयुक्तो गृह्यते। -04-0स च (p. सैव) कश्चित् मुख्यधर्मयुक्तः, कश्चित् उपचरित तद्धर्मयुक्तः। तदुक्तम् -
"वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः।।" (वा.प. III. भूयो. द्र.सं.का. 3)
इदं - तदित्यादि- सर्वनामपरामर्शयोग्यं वस्तु द्रव्यमित्यर्थः। लक्षणान्तरं - 'भेद्यत्वेने'ति - किंचिन्निरूपितविशेष्यत्वेनेत्यर्थः। विवक्षित इत्यनेन शब्दार्थमात्रस्य इदं लक्षणमित्युक्तम्। एवं च जात्यादेरपि विशेष्यत्वविवक्षायां द्रव्यत्वमेव। तिङन्तार्थक्रियायाश्चाऽपि किमादिभिः परामर्शात्, सुखम् इत्यादिभिः -01-0विशेष्यमाणत्वात् (V1 विशेष्यत्वात्), सिद्धान्ते संख्यया विशेषणाच्च द्रव्यत्वमेव। "विप्रतिषिद्धं चे"त्यादौ (पा.सू. 2-4-13) त्वधिकरणपदेन सामर्थ्यात् तन्त्रान्तरप्रसिद्धद्रव्यग्रहणमिति दिक्।।
अपरे तु जातिमुपलक्षणीकृत्य शक्तिऽग्रहात वस्तुगत्या तज्जातिविशिष्टाव्यक्तिः बुध्यते; न तु तद्धर्मप्रकारेणेति शुद्धव्यक्तिवादः। यथा 'यः शुक्लवासाः स देवदत्त' इत्यादौ शुक्लवाससा उपलक्षिते शक्तिग्रहेऽपि देवदत्तपदजन्यबोधे न तत्- भानं; तथा जात्यादिरपि। एतदेव जात्यादेः उपलक्षणत्वम्, यत् स्वाश्रयाणां सर्वेषां स्वरूपतः शक्तिग्रहवषयत्वं संपाद्य स्वंय -01-0शक्तिग्रहविषयो बोधाविषयश्च। यथा 'काकवन्तो देवदत्तगृहाः' इत्यादौ काकः स्वोपलक्षितो तृणत्वादिना तत् गृहमितरेभ्यो व्यावर्तयति। तथा जातिः व्यक्तीरुपस्थाप्य स्वोपलक्षिताभिः ताभिः श (व्य-) क्तिमितरेभ्यो व्यावर्तयति। एतन्मते घटत्वाश्रयो यः स घटपदशक्य इति शक्तिग्रहः। तत्पदेन -02-0विशेष्यमात्रपरामर्शः। (L. अविशेष्य) घटो घटपदशक्य इत्यस्यापि अयमेवार्थः। एतदेव अभिप्रेत्य "ध्रुवमपाये" (सू, 1-4-24) इति सूत्रे -0क-0भाष्ये (म.भा.प्र.ख.पृ. 249 'सतोप्यविवक्षा भवति') 'धावतः पतित' इत्यादौ अध्रुवत्वमाशङ्क्य सतोऽपि अविवक्षया समाहितम्।
'सरणक्रियोपलक्षितं द्रव्यमात्रमत्रविवक्षितम्' इति -0ख-0कौरेन (म.भ. प्रदीपःऋ प्र.क.पृ. 249 'सरणक्रियोपलक्षितं द्रव्यमात्रमपादानत्वेन विवक्षितम्') च व्याख्यातमित्येतदभिप्रेत्यवृद्धोक्तिमाह - -2तदुक्तम्-2 (उक्तञ्च)-2इति-2।। 'न ब्राह्मणमि'त्यादावपि -03-0ब्राह्मणत्वोपलक्षितत्वस्य (P. स्वो) सर्वव्यक्ितषु सत्वान्न दोषः। एकवचनं तु पूर्ववदेव समर्थनीयम्। अत्र पक्षे बासमानोपलक्षकरूपेण द्रव्यस्य भेदमाश्रित्य 'वीरपुरुष' इत्यादौ -01-0समानाधिकरणसमासमाश्रित्य (L,V1,2. आश्रित्य - न दृश्यते) नर्वाहः। अनयोः पदयोः पर्यायता तु न। वीरपदेन पुरुषस्याप्युपास्थितत्वात् तद्बोध्यव्यक्तिमात्र -02-0बोधकत्वे (L,V1,2. बोधकत्वम्) हि पर्यायत्वम्। अत एव 'गौः शुक्ल' इत्यादीनां सह प्रयोगोप्युपपन्न इति। द्विकमितिपक्षमवतारयन् सिद्धान्तमाह - -2वस्तुतस्त्विति-2 - -2भाष्याद्विशिष्टं वाच्यामिति-2।। वस्तुतो यथेतद्भाष्यान्न विशिष्टपक्षलाभस्तथाऽभिहितं प्राक्। कथं तर्हि
विशिष्टपक्षोपपत्तिरिति चेत्-श्रृणु। शुद्धजातौ शक्तिपरिच्छेदो न संभवति शक्तिपरिच्छेदकेषु मुख्यस्य नयनानयनाद्यात्मकव्यवहरस्य तत्र बाधात्।
न च -03-0व्यक्तावेवे (P. व्यक्तावतेन) तत्परिच्छेद आस्तामिति वाच्यम्। व्यक्तिमात्रे ग्रहो़ऽसंभवि तासामानन्त्यात्। यस्यां कस्याचित् एकस्यां शक्तिग्रहे च व्यक्त्यन्तरबोधे न स्यात्। तदविषयस्यापि तद्विषत्वस्वीकारे च गोपदादश्वस्यापि भानापत्तिः। तद्विषयकशाब्दे तद्विषयकशक्ति- ग्रहकारणत्वाभ्युपगमे तु व्यभिचारः। किं च -01-0हस्तिपकव्यक्त्यन्तरे (L. किं च ------- व्यक्त्यन्तरे - नास्ति।) हस्तिसंबन्धग्रहाद्यत्र हस्तिपके सनगृहीतस्तस्यापि -02-0हस्तिदर्शनस्य (V1,2. दर्शने) -03-0स्मरणापत्या (P. कारणापत्या) व्यक्त्यन्तरे संबन्धज्ञानस्य व्यक्त्न्तरज्ञानाहेतुत्वकल्पनात्। किं च सर्वेषां शब्दानां -04-0व्यक्तिमात्रबोधकत्वे (P. त्व) 'गौः शुक्लश्च लोहित' इत्येषां सहप्रयोगानुपपत्तिः, पर्यायत्वात्। तस्मात् जात्यादिविशिष्टासु -05-0तज्जात्यनुगतीकृतसकलव्यक्तिषु (P. व्यक्तिक) शक्तिग्रहो वाच्यः, तादृशशक्तिग्रहेण सकलव्यक्तिबोधदर्शनात्। -06-0व्यक्त्यंशे (P. व्यास्यंशे) शक्यतावच्चेदकतिरिक्तनवच्छिन्नविशेष्यताशाली जीतिप्रकारखः शक्तिग्रह इति जात्याश्रयसकलव्यक्तिबोधसंभवः। एवं च एतदर्थं सामान्यलक्षणाप्रत्यासत्यङ्गीकारो व्यर्थ एव।
किंच तदङ्गीकारे प्रमेयत्वसामान्यलक्षणया धर्माणां धर्मिणां विशिष्टस्य च सर्वस्य तत्द्रूपेण ज्ञानापत्तौ सार्वज्ञ्यापत्तिः।
न च -07-0स्ववृत्तिधर्माश्रयत्वरूपय (P. 'न च स्व' ------- अनन्तरपुटे 'शक्यतावच्छेदक' - पर्यन्तं वक्यविपर्योसः।) तया सामान्यधर्मप्रकारकमेव ज्ञानं जन्यते इति न दोष इति वाच्यम्।
प्रत्यासत्तेः प्रकारतया बानस्य क्वाप्यदृष्टत्वादित्यलम्। तत्र विशेषणविशेष्ययोरुभयोरपि शक्तिः। शक्यतावच्चेदकत्वं चात्र शक्यैकदेसे प्रकारत्वमिति बोध्यम्। विरोधं परिहरति - -2एकमित्यस्य चेति-2।। -2अयमभिप्राय इत-2।। जातिपक्षे गवादिपदानामुभयत्र शक्तिः। शक्तिग्रहकार्यकारणभावे जातिप्रकारकत्वस्यैव निवेशादेकमेवान्तर्भाव्यकार्यकारणभावः; न तु व्यक्तिविशेष्यकत्वस्य निवेशः। अत एव व्यक्त्यंशे कुब्जी शक्तिः तदंशे -01-0तज्जन्यज्ञानानपेक्षणात्। एतवतैव जातौ शक्तिरिति व्यवहारयित्यभिप्राय इत्यर्थः। -2शक्तिज्ञाने इति-2।। -02-0अयं भावः (L. अयं भावः to लाघवात् - त्यक्तं दृश्यते।)- घट इत्येतादृशबोधे घटत्वशक्तिज्ञानत्वेन करणतालाघवात्; -0ञ-0न (L. तत्तु) तु -04-0घटत्वविशिष्टसक्तिज्ञानत्वेन (P. ज्ञातत्वेन) शक्तिज्ञाननिष्ठकारणतायामवच्छेदकतया -05-0घटस्तद्वैशिष्ट्यं (L. तद्वैविध्यं) चाधिकं प्रवेश्यमिति महागौरवम्।
ईदृशजातिशक्तिवाद एव गुरूणामपि समतः। अनथा केवलजातावेव शक्त्यब्युपगमे कार्यान्विते पदशक्तिवादस्तेषां न सिद्धयेत्। व्यक्तीनामेव कार्यान्वितत्वात्।
ननु घट इत्येतादृशबोधे घटत्वशक्तिज्ञानत्वेन कारणतायां 'घटोऽस्ती'त्यत्रेव 'घटत्वमस्ती' - त्यत्रापि तथा बोधापत्तिरिति विशिष्टशक्तिज्ञानत्वेन हेतुतेति चेन्न -
घटत्वप्रकारकबोधं प्रति घटत्वांशेऽन्याप्रकारकघटत्वशक्तिज्ञानत्वेन हेतुत्वाभ्युपगमात्। तत्र शुद्धस्याभिलापासंभवात् -01-0घटत्वशब्देनाभिधानं (L. 'घट' to 'परमार्तंतु, नि' - नावलोक्यन्ते।) कृतम्।
नन्वत्रपक्षे सर्वशब्दानां त्रैलिङ्ग्यं स्यात्। लिङ्गावाचकत्वस्य सर्वत्र तुल्यत्वादिति चेन्न - पुल्लिङ्गावस्तुत एतदयुक्तं - गौरवात्। किं च सामान्यलक्षणाखण्जनाय ह्ययं प्रकारस्तच्चाशक्यं कार्यतावच्छेदककोटौ विशेष्यंशानिवेशे गौत्वेनाश्वादि बोदापत्तेः।
न च प्रकारताविशेष एव निवेश्यते इति वाच्यम्। तस्य -01-0गोनिष्ठविशेष्यतानिरूपितेति (L. विशेष्यवता) शब्देनैव बोधनीयतया दुर्ज्ञेयत्वात्। तन्निवेशे तु गोव्यक्त्यन्तरबोधे न स्यात्। -02-0तन्निष्ठविशेष्यतायां (P. एतत् पदं त्यक्तं दृश्यते) तन्निरूपकाबावात्। यदि तु विशेष्यांशे विशेष्यतायाः प्रकारातिरिक्तानवच्छिन्नतया निवेशादत्र न देष इति विभाव्यते, तदा -03-0वृथाऽयं (P. 'अयं' - न) प्रयास इति बोध्यम्। ।।-2द्विकमितीति-2।। द्विकमित्यस्य प्रथमाविधायके जातिव्यक्तिरूपं द्विकं प्रातिपदिकार्थशब्देन गृह्यते इत्यर्थः। -04-0अत्रेदं (विषयोऽयं द्विरुक्तः अस्यां मातृकायाम्।) तत्वम् = त्रयाणामपि पक्षाणां मध्ये जातिपक्ष एव लघुर्युक्तिमाँश्चेत्युपपादितम्। अधिकमन्यतोऽवसेयम्। यद्वा द्रव्यमेव ब्रह्मरूपं सर्वशब्दवाच्यं नित्यत्वात्त्स्य -01-0औपाधिकस्तद्भेदस्तेन (P. तु भेद) पर्यायता। न जातिस्त्वनित्या, 'यदयोगादग्नेरग्नित्वमि'ति श्रुतेः। इदमपि अन्यत्र स्पष्टम्। -02-0गुण्यादिपरगुणाक्रियासंज्ञाशब्देषु (P. गुणा) यथायथं गुणादयः शक्याः। तेषां च -03,4-0नित्यत्वैकत्वस्वीकारान्नानन्त्यव्यभिचारौ (P 'त्व' - नास्ति।, P. चारः) तत्र संज्ञाविषये व्यक्तरेव शक्या। तस्याश्चैकत्वान्न तौ। न च निर्विकल्पापत्तिः। व्यक्तेरेव प्रकारताविशेष्यतारूपविषयताद्वयेन भानान्नदो, इत्यप्यन्यत्र स्पष्टम्।
-05-0गुणादिपरेषु (P.L. गुण्यादि) तेषु गुणादिवृत्तिजातय एव शक्याः। अथवा गुण्यदिपरेष्वपि जातिरेव शक्या। तस्याश्चजातेः स्वाश्रयाश्रयत्वरूपपरंपरासम्बन्धेन -06-0द्रव्यादिवृत्तित्वात् (L. एतत् पदं न दृश्यते।) द्रव्यादिबोधसम्भवः। तत्र डित्थादिसंज्ञाशब्दविषये डित्थादिशब्दगता जातिः शक्या। शुकाद्युच्चारणभेदेन डित्थादिशब्दानां नानात्वात्त्दध्यवसायाद्वाऽस्यानेकव्यक्तिवृत्तित्वम्। तस्याश्च स्वाश्रयाभिदेयत्वसम्बन्धेन द्रव्यवृत्तित्वात् द्रव्यबोधः।
यत्तु बालयुवादयवस्थाभेदेन शरीरभेदात् तद्गृत्तिडित्थ(त्वा)दिजातिः सैव त्वाद्यर्थ इति -01-0तन्नप्रमाणाभावात्। (P. चेत्) अन्यता एकद्रव्यनिवेशिनी संज्ञेत्यस्य असम्भवापत्तिर्निरूपयिष्यते चेदमग्रे।। -2तत्तच्छब्दनिष्ठमिति-2।। अत एव पुँल्लिङ्गः शब्दः इत्याद्युपपत्तिः।। -2तद्वाच्यं चेति (तत्तच्छब्दवाच्यञ्चेति-)-2 धर्मितावच्छेदकत्वेन धर्मितावच्छेदकसमानाधिकरणत्वेन विशेष्यत्वेन वा शक्तिग्रहविषयस्य बोधविषयत्वल्लिङ्गमपि प्रतिपदिकवाच्यमित्यर्थः। अत एव पुंसत्वविसिष्टो घटो िति बोधानुभवः।
न चेदं प्रत्ययार्थः। 'प्रकृतिप्रत्ययारथयो'रिति न्ययेन तस्य प्राधान्यापत्तेः। वागादिशब्देभ्यो विनापि प्रत्ययं लिङ्गबोधाच्च। अत एव "स्वमोर्नपुंसकादि" (सू. 6-1-103) इत्यत्र पुंसीत्यस्य पुल्लिङ्शब्दस्य प्रकृतित्वे इत्यर्थः। "स्तियामि" (सू. 4-1-3) त्यस्यापि तत्र वर्तमानात्प्रातिपदिकादित्यर्थः। "प्रतिपदिकार्थ" (सू. 2-3-46) सूत्रे लिङ्गेत्यस्यापि तत्र वर्तमानादित्यर्थः. प्रथमाया लिङ्गार्थकत्वे तु घटेनेत्यादौ तत्प्रतीत्यनापत्तिरिति।
ननु -0क-0"स्तनकेशवती स्त्रीस्याल्लोमशः पुरुषः स्मृत" ('उभयोरन्तरं यच्च तदभावे नपुंसकम्' स्त्रियाम् (सू. 4-1-3) म.भा.पृ. 27) इत्यादि लक्षणलक्षितस्य लौकिकपुंस्त्वादेश्चेतने संभवेऽपि अचेतने बाधात् घटादौ टाबाद्यनापत्तिः।
किं च दारानित्यादौ णत्वं नस्यात् तदर्थस्य पुंस्त्वाभावादतो भाष्यकृदुक्तं लिङ्गमाह - सत्वेत्यादि। गुणानां - प्राकृतानां साम्यावस्थास्तितिरूपा। अत एव -01-0उत्कर्षापकर्षसत्वेऽपि (P. उत्कर्षपि) साम्यवस्थारूपस्थितिमात्रविवक्षायां नपुंसकमित्येतदर्थक"सामान्ये नपुंसकमि"त्युद्धोषः। एतद्वस्थात्रयस्य पदार्थमात्रसत्वात् इदं केवलान्वयि। इयं व्यक्तिः, िदं वस्तु, अयं पदार्थ इति व्यवहारणां सर्वत्राप्रति बहुप्रसरत्वात्।। -02-0-2तमेवेति-2।। (L. मम) स्त्रीत्वपुंसत्वादिरूपमेवेत्यर्थः।
ननु उक्तरीत्या एकस्मिन् शब्दे लिङ्गभेदेन शब्दभेदात्, अनेकलिङ्गैकतटशब्दत्वव्यवहारः कथमित्यत आह - -2केषांचिदिति-2 - -2बेदेति - लिङ्गेति--2तटादिशब्दानाम् इत्यर्थः।। -2एवं चेति-2।। लिङ्गस्य शब्दनिष्ठत्वे चेत्यर्थः। अर्थनिष्ठत्वे हि अर्थस्य स्त्रीत्वादिविशिष्टत्वात् तत्तल्लिङ्गप्रयक्तकार्यभाक्त्वं पदार्थादिशब्दस्य स्यादिति भावः।। -01-0-2चोपपद्यते इति-2।। (L. 'चोप' ----- 'भवः' न दृश्यते) अन्यथा अरतस्यैकविधि(ध)त्वात् लिङ्गबेदोऽनुपपन्नः स्यात्। मम तु सब्दबेदः उच्चारणादिभेदात् वास्तव एवेति भावः।। -2अर्थपरिच्छेदकत्वेनेति-2।। तच्च स्वाश्रयाभिधेयत्वसम्बन्धेन बोध्यम्।
।।-2पशु स्त्रियां नास्तीति-2।। अस्य लिङ्गानुशासनबलात् पुंस्त्वमितीति शेषः।। -2साधारण्यं शङ्क्यमिति-2।। तथा च -02-0व्यक्त्यादिशब्देन (L. शब्दे च) पुंस्त्वविशिष्टघटादिग्रहणवत् पशुशब्देनापि ठागादीनां ग्रहणापत्तिरिति भावः। -2प्रमाणाभावादिति-2।। लिङ्गस्य लौकिकत्वाश्रयणेन लिङ्गानुशासनस्य प्रत्याक्यातत्वेन न पूर्वोक्तं तत्प्रमाणम्। तदप्रामाण्ये हेत्वन्तरं श्रुतिविरोधरूपमाह - -0क-0-2पश्वेति-2। (पश्वा न तायु गुहा चतन्तम्. त्रा.वे.म.9 अनु 12 सू. 65) -2दर्शनाच्चेति-2।। नाभावादर्शनात् - अनयेति विशेष्यदर्शनाच्चेति भावः। तत्र छान्दसत्वेन नर्वाहादाह-2मीमांसायामिति-2।। -2विवक्षितत्वादिति-2।। अयं च हेतुरुभयलिङ्गत्वे एव सङ्गच्छते। -01-0न तु (P. 'न तु' - नास्ति) नित्यपुंस्त्वे इति भावः।
स्वातन्त्र्येणाह - -2वस्तुतस्त्विति-2।। छान्दसप्रयोगसाधनायाह - -2वेदभाष्येऽपीति-2।। सर्वलिङ्गत्वे तु एवमुक्तेरानर्थक्यमित्यर्थः।।
ननु पदार्थशब्दस्य नित्यपुंस्त्वात् छाग्यां प्रवृत्यापत्तिरत आह - -2प्रकृतेत्विति-2।। तु शब्दो वैलक्षण्यसूचकः।। "-2छागो वा मन्त्रवर्णादि-2" (मी.अ. 6.पा.8. सू.31.)-2ति-2।। -0ख-0अग्नीषोमीयं (मी.म.अ.9.पा.8.सू.30) पशुमालभेतेत्यत्र पशुच्छाग एवाग्नये छागस्येति मन्त्रे ठागस्येति पुंस्त्वविशिष्टछागश्रुत्या पश्वन्तरनिरासवत् लिङ्गान्तरस्यापि निरास इति सूत्रार्थः। वस्तुत अर्थनिष्ठं लिङ्गम्। तथा च भाष्यं -0ग-0"एकार्थे (स्त्रियामिति सूत्रेभाष्ये (सू. 4-1-3) म.भा.द्वि.ख.पृ. 296) शब्दान्यत्वात् हष्टं लिङ्गान्यत्वमवयवान्यत्वाच्चे"ति। 'पुष्यस्तारकानक्षत्रमि'ति -01-0शब्दनानात्वदर्शनात् (P. नाना शब्दत्व) लिङ्गमर्थनिष्ठम्। 'कुटी' 'कुटीर' इत्यादाववयवस्य रेपस्य -02-0उपजनेऽपि (P. रेफापसर्जनेऽपि) लिङ्गबेददर्शनाच्चेत्यर्थ इति कैयटः। अत एव -0क-0चोपक्रमभाष्ये ("स्त्रियाम्" (सू.4-1-3) म.भा.पृ. 294 (द्वि.ख)) रूपरसगन्धस्पर्शानां शब्दानां संस्त्यानप्रसवौ लिङ्गमित्युक्तम्। न हि रूपादयः शब्दगताः। पुल्लिङ्गः शब्द इति तु वाच्यवाचकयोरभेदोपचारदर्श आद्यजन्तत्वाद्वा बोध्यम्।।
नु लिङ्गस्यार्थनिष्ठत्वे आत्मनोऽलिङ्गत्वेन "आत्मा ब्रह्मे"ति लिङ्गवैशिष्ट्येन व्यवहारोऽनुपपन्नः। -03-0शब्दनिष्ठत्वे (L.P. 'त्व' - न) तु -04-0तस्य (V1 'स' - अधिकः पाठः) अलिङ्गत्वान्न दोष इति चेन्न-
आत्मनि स्वस्याध्यस्तत्वेन परंपरया तत्रापि शासत्रीयलिङगसत्वा'दात्मा ब्रह्मे'त्यादि व्यवहारोपपत्तेः।
न चोपचयादेः विरुद्धस्य नैकत्रार्थे समावेश इत्येकस्य शब्दस्य द्वित्रिलिङ्गतानापत्तिः। शब्दनिष्ठत्वे तु तमेव विरुद्धधर्ममादाय शब्दभेदान्न दोष इति वाच्यम्। कोश भाव्यशिष्टव्यवहारादि प्रामाण्येन विरोधस्यैवाबावात्। तत्र कश्चिच्छब्दो -01-0एकलिङ्गविशिष्टेऽर्थे (L. विशिष्टम्) एव शक्तः। कश्चिल्लिङ्गद्वयविशिष्टे कश्चित् त्रितयविशिष्टे एकस्मिन्नर्थे इति लिङ्गानुशासनादिभ्यो -02-0निर्णेयम्। (P. निर्णेयः) स्त्रियां -03-0वर्तमानात् (P. मानस्य) प्रातिपदिकादित्यस्य स्त्रीत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकादित्यर्थः। एतेन अर्थगतलिङ्गस्य प्रातिपदिके आरोप्य (पात् -) स्त्रियां वर्तमानत्प्रातिपदिकात् इत्यादिव्यवहार इत्यपास्तम्। एवं मधुशब्देन पुन्नपुंसकत्वविशिष्टतया मकरन्दादिकमेवोच्यते। पुंस्त्वमात्रविशिष्टतया तु -04-0चैत्रादिकमित्यपि (P. कमपि) तत एव निर्णेयम्। एषु च शास्त्रीयेषु लिङ्गेषु वृद्धयादिवच्छास्त्रीयःऋ संकेतः। -0क-0"अवश्यं कश्चित् स्वकृतान्त आस्थेय" ("स्त्रियाम्" (सु. 4-1-3) म.भा.द्वि.ख.पृ 293. "तस्मान्न वेयाकरणैः शक्यं लोकिकं लिङअगमास्थातुम्। अवश्यं च कश्चित्स्वकृतान्त आस्थेयः।।") इति भाष्यम्।
ननु '{कृत्रिमा -} कृत्रिम'न्यायेन प्रदेशेषु शास्त्रीयस्यैव ग्रहणं स्यादिति चेन्न -
-05-0टिघुभादेवत् (P. टिपुभा) लिघ्वीसंज्ञा युक्तेति पुंसादि गुरुसंज्ञाकरणात् नत्वादिशास्त्रप्रवृत्तौ लौकिकलिङ्गस्यपि निमित्तत्वेन आश्रयणात्। पुंसादिसंकेतानां संख्यासंज्ञाया श्वार्थान्तरसङअग्रहार्तं प्रवृत्तेप्यर्थान्तरनिरासार्थ मप्रवृत्तेश्च। तत्र -01-0लौकिकेऽसंभवे (L. संभवे) शास्त्रीये एव कार्यम्। तत्संभवे तु सामानाधिकरण्यसंबन्धेन शास्त्रीयविशिष्टे लौकिके न तु केवलेऽ[न्यतर']त्र -02-0लिङ्गस्य (P. लिङ्गे) अर्थनिष्ठत्वादेव 'पशुना यजेत' इत्यादौ लौकिकपुंस्त्वस्य नादेशादिना विवक्षितत्वात् -03-0न (L. 'न स्त्रिया' ----- अनन्तरपुटे ' सत्वाच्च' (तृतीयपक्तिः) पर्यन्तं नावलोक्यते) स्त्रियायाग इति मीमांसकाः।
न च 'पसुः स्रियां नास्ती'ति लिङ्गानुशासनात् उकारान्तानां पुंस्त्वमेवेति उक्तानुशासनाच्च तस्य नित्यपुंस्त्वेन विवक्षितत्वादित्यसङ्गतम्, पदार्थादिशब्दवत् साधारण्यापत्तेश्चेति वाच्यम्।
'पश्वानतायुः पश्वनया पश्वे नृभ्य' इति ऋग्वेदे (ऋ.वे.अ. 1.अ.3. व.26.) दर्शनेन पशुशब्दस्य नित्यपुमर्थकत्वाऽभावनिर्णयात्। उक्तलिङ्गानुशासनं लिङ्गस्य लौकिकत्वादिनाऽनावश्यकतां प्रापितं भाष्यकृता। "छागो वा मन्त्रवर्णादि" (मी.अ.6.पा.8. सू.31) ति षष्ठांत्याधिकरणन्यायेन छागरूपपशुविशेषग्रहणे इव मन्त्रवर्णस्य लोकिकपुंस्त्वविवक्षायां तात्पर्यग्रहाकस्य सत्वाच्च। 'छागस्य वपाया' इति मन्त्रे छागस्येत्यस्य रूपस्य छागबिन्ने पशाविव स्त्रियामप्यसंभवात्। अदन्तछागशब्दस्य लोकिकपुंस्त्वसामानाधिकरणपारिभाषिकपुंस्थ्वविशिष्टे शक्तेः। यथा ' सारस्वतौ मेषौ भवत' इत्यत्र तद्घितप्रकृतिः शब्दः न्यायेन -02-0'तद्वै दैव्यम् (P. तद्दैव्यं) मिथुनमि'त्युर्थवादादेकशेषेण द्वयोर्ग्रहणं निर्वीयते तद्वात्। किंच लिङ्गस्य शब्दनिष्ठत्वेऽर्थे तदन्वयसम्बन्धस्योक्तपरंपरारूपस्य गुरुत्वात् "पुंयोगादाख्यायामि" (सू. 4-1-48) त्याद्यस्वारस्याच्च। लोकिकलिअङगस्यार्थे एव क्लृप्तत्वेन तदैकरूप्याय शास्त्रीयस्यापि तत्रैव स्वीकर्तुमुचितत्वाच्च।
न हि नपुंसकं नाम शब्दोऽस्तीति "स्वमोर्ने" (सू. 7-1-23) ति सूत्रभाष्यविरोधाच्च।
नन्वेवं नपुंसकात्प्रातिपदिकादित्यभेदेन व्यवहारः कथमिति चेन्न -
नपुंसकार्थाभिधायित्वात्तदभेदाच्च शब्दस्य नपुंसकत्वादिति बोध्यम्। केचित्
"तिस्रो जातय एवैताः केषाञ्चित् समवस्थिताः।
अविरुद्धा विरुद्धाभिः गौमहिष्यादिजातिभिः।।" (वा.प. III. लिङ्ग.सं.का.4) पुंस्त्वादयास्तिस्रोजातय इत्याहुः। तद्व्युत्पादननिराकरणं मज्जूषातो निर्णेयम्। तत् = लिङ्गादि। 'अनन्यलभ्यो'हि शब्दार्थ इति न्यायेनाह - -2तत एवेति-2 = प्रत्ययेब्य एवेत्यर्थः।
ननु वैयाकरणानां लुप्तविभक्तिस्मरणात् बोधो भविष्यत्यत आह - -2प्रत्ययमजानत इति-2 - -2दर्शनाच्चेति-2।।
न चानन्तप्रकृतीनां शक्‌तत्वकल्पने गौरवमिति वाच्यम्। तस्य फलमुखत्वेनादोषात्। प्रत्ययस्य संक्यादौ गृहीतशक्तिकस्य प्रकृतिमात्रादपि तद्बोधदर्शनाच्च। प्रकृति वाच्यत्वे प्राप्तातिप्रसङ्गस्तु व्यवहारानुसारेण तात्पर्यवशात् परिहरणीयः। -2एषु पक्षेषु -2 - त्रिकादिषु। अत एवेत्यस्यार्थमाह -2प्रत्ययस्यैवेति-2 - संख्यामात्रविषेय आह- "-2द्योतिका वाचिका वे-2"ति (पा.प II. 164) - यद्वा संख्यावतोऽर्तस्य समुदायोऽभिधायक इत्युत्तरार्धम्। अयमर्थः = संख्यामात्रं विभक्त्यर्थः।
कारकान्तं -01-0चतुष्कन्तु (P. चतुष्क) प्रातिपदिकार्थ इति। अत्रेदं तत्वम् - यद्यप्येते -02-0सर्वे (P. न दृश्यते) पक्षा "अनभिहित" (सू. 2-3-1) सूत्रादौ भाष्ये स्पष्टास्तथापि पञ्चकं प्रातिपदिकर्थ इत्येव ज्यायः। सर्वेषां विशेषणत्वानुभवात्।
न च पञ्चानामिप प्रातिपदिकार्थत्वे प्रातिपदिकार्थप्रकारकबोधे सुपूजन्योपस्थितिः हेतुरिति कार्यकारणभावो विलियतेति वाच्यम्।
इष्टापत्तेः। -03-0जातिलिङ्गसंख्याकारकशक्तिविशिष्टस्य (V1. विशिष्ट) द्रव्यस्यैव बोधेन सुबर्थविशे,्यकबोधस्य खपुष्पायमाणत्वादित्यलमु।
पञ्चविधं परातिपदिकार्थमुक्त्वा शब्दस्यापि तदर्थतामाह -04-0-2शब्दस्तावदिति-2 (P. इति - नास्ति) - 'शब्दानुगमात्' = सब्दविषयकत्वात्। -2अनुविद्धमिति-2 - सर्वं ज्ञानं शब्देन -01-0अनुविद्धमिव (P. मेव) भासते इति योजना। उत्तरार्दे 'भासते' इत्युक्त्या अुनुव्यवसाये शब्दभानात् व्यवसायात्मकज्ञानमात्रे शब्दभानमिति सूचितम्।। '-2विष्णुमुत्र्यारय-2' -2इत्यादाविति-2।। एवं 'गामुच्चारये'त्यादेरपि उक्तरीत्या गो शब्दमुच्चारयेत्येवार्थः। {अतः शब्दोऽपि} प्रवृत्तिरस्त्येवेत्यन्यत्र स्पष्टम्।। -2सोऽपि प्रातिपदिकार्थ इति-2।। अयं भावः = शब्दार्थयोस्तादात्म्यमिति पक्षे घटादिशब्दानामर्ते, इव सब्देऽपि प्रयोगेण शब्दार्थयोरात्यन्तिकविवेकस्याग्रहात्। अत एव ओमित्येकाक्षरं ब्रह्म,
"रामेति द्वयक्षरं नाम मानभङअगः पिनाकिनः
गर्वभङअगो भार्गवस्य शौर्यभङ्गश्च वालिनः
निकारोग्रे पश्चाद्धननमहहबोस्तन्निधनमि"त्यादौ शब्दाबेदेन अरथस्य बोधः। अत एव च घट इति शब्दो घटइत्यर्थो घट इति ज्ञानमिति त्रयाणामप्येकाकारता। शब्दार्थयोर्भेदपक्षे तु -02-0अनुभवबलात् (P. अनुभववत्व) ज्ञानसामान्यसामग्र्या एव शब्दाभासकत्वकल्पनान्न दोषः। यत्तु अर्थज्ञानोत्तरम् अर्थेन एकसम्बन्धीतिरीत्या स्मृतस्य शब्दस्य ज्ञाने भानम्। अत -01-0एवाहुः (P. आह) - 'पिंड एव हि दृष्टस्सन् संज्ञां स्मारयितुं क्षम' इतीति तन्न - प्रत्यक्षे शब्दभानानुपपत्तेः। अर्थज्ञानोत्तरं स्मृतस्य तस्य व्यवसाये भानासम्भवात्। अनुव्यवसाये तु त्वद्रीत्या तद्भानमुपपादयितुं शक्यं; न तु व्यवसाये। मदुक्तरीत्या तु उभयत्रापि पक्षद्वये उपपद्यते -02-0शब्दभानम्। (P. तत्) स च शब्दोऽ'ग्नेर्ढगि' (सू. 4-2-33) त्यादौ शास्त्रेऽर्थे कार्यबाधात् विशेष्यतया प्रतीयते।
न हि -03-0श्बदोऽविद्यमाना (P. अविद्यमान) -04-0शब्दशक्तिः (L. शक्ति to रामादिशब्दवा - न दृस्यते।) वचनशतेनापि उत्पादयितुं शक्यते। 'राम आसीत्' 'दुष्यन्त आसीदि'त्यादौ रामादिशब्दावाच्यो वाच्यता संबन्धेन रामादिशब्दवानासीदित्येवं- प्रकारको बोधः। अत एव 'देवदत्तोऽयमेव भवती' त्यादौ देवदत्तशब्दवाच्योऽयमेवेत्यर्थः। अत एव ज्ञातवाचके देवदत्ते चक्षुः सन्निकृष्टेऽपि सति 'देवदत्तो न ज्ञात' -05-0इत्यादिव्यवहारः। (P. ज्ञात्यादि) 'शब्दस्यावाच्यत्वे -06-0वाच्यत्वं (P. वाचकत्वं) केवलान्वयी'ति तार्किकप्रवादासङ्गतिश्च स्यादिति दिक्। -2शक्त्यनतिरेकात्-2।। शक्त्यपेक्षयाऽतिरेके प्रमाणाभावात्।। -2शक्त्यग्रहेण-2।। शब्दातिरिक्तशक्त्यग्रहेण।। -2अनुपयोगादिति-2।। अन्यथा वस्तुतः शक्तादपि अज्ञातवृत्तिकस्य शाब्दबोधापत्तिः। -2शक्त्यभावेनेति-2।। अनुकरणानां साधुत्वेऽपि सक्तत्वाभावात् लक्षणा न संभवतीति अर्थः।। 1।। (25)
-2शब्दोऽपि-2 (वै.सि.का.26)-2ति-2 - अनुकार्यशब्दोऽपीत्यर्थः। तथा शब्दार्थमाह - -2प्रतिपदिकार्थ इति-2।। सिद्धपदार्थमाह -2उपस्तित इति-2।। -2अनुकार्यानुकरणयोर्बेद इति-2।। तयोर्भेदसिद्धिश्च 'पटदिति कुरु' इत्यादौ ध्वनिमयत्ववर्णमयत्वाभ्यां "भुवो वुगि" (सू. 6-4-88) त्यादौ सुबाद्युत्पत्तिः। अत एव "मतौ छ" (सू. 5-2-59) इति सूत्रे -0क-0भाष्ये ("मतौ छः सूक्तसाम्नोः" म.भा.द्वि.ख.पृ. 573) 'योऽसावाम्नाये अस्यावामशब्दः पठ्यते सोऽस्य प्रत्ययप्रकृतेरस्यवामशब्दस्य अस्यवामीयमित्यादौ पदार्थेऽत एव प्रातिपदिकत्वाच्छसिद्धि'रित्युक्तम्।
-01-0नन्वबेदपक्षे (L. न च) स्वस्यैव -02-0वाच्यवाचकभावासंभव (P. संभव) इत्यत आह - -03-0-2अबेदे इति-2 (P. भेदे) -2प्रत्यक्षे विषयस्येति-2।। अयं भावः विषयतासम्बन्धेन घट इत्याकारकचाक्षुषप्रत्यक्षे तादात्म्यसम्बन्देन विषयः कारणम् इति यथा विषयनिष्ठप्रतीत्या कार्यकारणाभावस्तथा शब्दस्य विषयतया श्रावणप्रत्यक्षे तादात्म्येन शब्दरूपो विषयः कारणम्। तथा च शब्दस्य श्रावणप्रत्यश्रात्मकोपस्थितेः शब्दजन्यत्वात् तादृशोपस्थितेश्च शाब्दबुद्धौ कारणत्वात् तद्विषयत्वं तस्येति।। -2उपपत्तिरिति-2।। तथा च उभयथापि शाब्दबोधविषयता शब्दस्येति भावः।।
-2अतिप्रसङ्गवारणायेति-2।। घटपदात् समवायेन उपस्थितस्याकाशस्य बोधवारणायेत्यर्थः।। -2आश्रयतया वृत्तिमत्वस्येति-2।। वृत्तेः तेन -04-0संबन्धेन (L. 'सम्बन्धेन' आरभ्य 'तत्संबन्धेन' पर्यन्तंनावलोक्यते।) शब्दाश्रितत्वादिति भावः।।
-2निरूपकतेति-2।। -2तथा चेत्यादि-2।। शब्दनिष्ठवृत्तावर्थस्य निरूपकत्वादेतत्संबन्धेन वृत्तिमत्वम् अर्थस्याश्रयतया तद्वत्वं शब्दस्येति भावः। गौरवादाह - -2सम्बन्धस्येति - स्वस्यापीति-2। एकसम्बन्धीति रीत्याऽर्थज्ञानेन शब्दस्य स्मरणाद्वोध इति भावः। वस्तुत इदमयुक्तमिति प्रगभिहितम्। -0क-0-2ग्राह्यत्वमिति-2 (वा.प.I. श्लो. 55) ग्राह्यत्वं ग्रहविषयत्वम्। -2ग्राहकत्वं-2- ग्रहजनकत्वम्। यथा घटादीन्प्रकाशयन् दीपः स्वात्मानमपि प्रकाशयति तथा शब्दोऽपीति भावः।। -2विषयत्वमनादृत्येति-2 - तथा च -01-0प्रकारत्वादिविषयतामन्तर्भाव्यैव (V1,2. दिति) शब्दात् 'घटत्वनिष्ठप्रकारतानिरूपित विसेष्यतावान्घट' इत्यादिरीत्या बोधः। -02-0घटत्वदिनिष्ठप्रकारतानिरूपितविशेष्यत्ववच्छिन्ने घटपदं शक्तमिति तथैव शक्तिग्रहात्। अत एव वृत्तिनर्त्तनवादि मते 'राजपुरुष' इत्यादि वृत्तौ वाक्यीयराजनिष्ठविसेष्यतामात्रत्यागेन जहत्स्वार्थत्वव्यवहारः कृतो भाष्ये। तस्माद्विषयतापि शब्दशक्त्या पदार्थ इति। कश्चित्तु शब्दनिष्ठविषयताप्रकाशकैवेयं कारिकत्याहुः। अपरे पुनरभेदे क्वचिदनुकरणं सादृश्येन उपस्थापकमनुकार्यशब्दस्य तथोपस्थितस्यापि शाब्दबोधे प्रतियोगित्वानुयोगत्वभ्यामन्वयः। -03-0तात्पर्यवशाच्च (P. 'च' - नास्ति) -04-0वृत्तिज्ञानस्यानुकरणजन्यशाब्दत्वमेव (L. अनुकरणाज्जन्य) कार्यतावच्चेदकम्।
अत एव भूसत्तायामित्यांदौ विभक्त्यनुत्पत्तिः। वृत्या बोधकत्वरूपार्थवत्वाभावात्। तत्र तादृशस्यैवार्थवत्वस्य विनिष्ठत्वात् (निविष्टत्वात् -) अत एव "मैतौ छ" (सू. 5-2-59) इति सूत्रे कैयटेनोक्तं - -0क-0'अनुकरणं तु व्युत्क्मेणाप्युक्षार्यमाणम्। सादृस्यादनुकार्यस्य प्रत्यायकं भवती'त्याहुः।। 2।। (26)
-2अथवत्वाभावादिति-2।। (अर्थवत्वाद्यभावात् -) वृत्याऽर्थबोधजनकत्वाभावादित्यर्थ। "अर्थवत्" (पा.सू. 1-2-45) सूत्रे तादृशस्यैवार्थवत्वस्य ग्रहणेन प्रातिपदिकत्वाभाव इति भावः। -2अन्यथा-2 - अभेदविनक्षानङ्गीकारे।। -2निषेधलङ्घनादिति-2।। प्रत्ययः परो भवत्येवेति नियमफलितनिषेधलङ्घनेत्यर्थः।।
-2असाधुतापत्तिरिति-2।। भेदपक्षे निरुक्तार्थवत्वेन प्रातिपदिकसंज्ञाविध्युद्देश्यतावच्छेदकाक्रान्तत्वेन -01-0तदकरणप्रयुक्तासाधुताप्तिरित्यर्थः।। (V1,2. अप्रयुक्ता) अभेदपक्षे तु विरुक्तार्थक्तवाभावेन तदुद्देश्यतावच्छेदकानाक्रान्तत्वेन तदप्राप्त्या नासाधुतेति। -02-0अत्रेदं (P.V1,2. अत्रेद to अथवा - नावलोक्यते।) तत्वम् = भेदपक्ष एव सार्वत्रिकः, अभेदपक्षस्तु क्वचित् भू सत्तायामित्यादौ। अथवा तत्रापि भेदपक्ष एव। विभवयनुत्पत्तिस्तु भू सत्तायामित्यादि निर्देशात्। ततश्च शक्त्यैवानुकार्योपस्थितेः सादृश्यादनुकार्यरूपार्तोपस्थितिरपि न स्वीकार्येति। अनुकरणत्वञ्च शब्दमात्रतात्पर्यकोच्चारणविषयत्वम्। -03-0पदार्थविपर्यासकृदिति (P. विपर्यासि) समभिव्याहारे गौरित्याह इत्यादौ "न वेति" (सू. 1-1-44) सूत्रभाष्योदाहृते तु नानुकरणत्वम्। विशेषणतया अर्थबानेन सब्दमात्रतात्पर्यकत्वाबावात्। किं तु अनुवादत्वमेव। अत एव "गौरानये"त्यभिप्रायेण 'गौरानये'ति परेणप्रयुक्ते इतरः सम्यगश्रुत्वा परं पृच्छति "किमाह-" इति ततस्तेन 'गौरित्याहे'त्युक्ते तत एवार्थबोधात् प्रवर्तते। यत्तुतेन स्मृतादनुकार्यशब्दाद्वेोध इति तन्न युक्तम्। उच्चारितस्यैव बोधकत्वमिति सिद्धान्तात्। अनुकारणत्वद्योतकोऽपि क्विचिदिति तत्वे मानं तु "अनुकरणं चानितिपरमि" (सू. 1-4-62) ति सूत्रमेव। तथा च अनुकरणे न विशेषणतया नापि विशेष्यतयाऽर्थस्य भानम्। अनुवादे तु विशेषणतया अर्थस्य भानमस्त्येवेत्यनयोर्विशेष इति। सर्वादिप्रातिपदिकानां तु अर्थाः। -0क-0मञ्जूषातो (लघुमञ्जूषा - प्रातिपदिकार्थविचारे पृ. 1154-1155) निर्णेयाः।। ग्रन्थविस्तरभयान्मूलानुपकारकत्वाच्च न लिख्यन्त इति।।31।। (27)
-0शिवम् इति
-0लघुभूषणकान्तौ
-0नामार्थनिर्णयः
-0श्रीः






-0समासार्थनिर्णयः
-0 -01नामसामान्यार्थे (P. 'नाम ----- सङ्क्षोपः') निरूपिते प्रसङ्गात् -02-0समासरूपनामविसेषार्थं (V1,2. विशेष्यार्थं) निरूपयिष्यन् विबागं -03-0तावदाहमूलो (V1,2. मूले - नास्ति) - "-2सुपां सुपे-2"-2ति-2 - (वै.सि.का. 28)
"-2समासः षङ्विधः-2" -2इति-2।। -04-0समासत्वं (V1,2. समासत्वचतुष्टयी) च -05-0चतुष्टयी पक्षे (L. पक्ष) सङ्केतविशेषसम्बन्धेन समासपदवत्वम्। त्रयी (द्ध) यमानविभक्तिक - पूर्वपदक - नामसमुदायत्वं तदीतितन्न युक्तम्। 'दधिमधुरमि'त्यादौ अतिव्याप्तेः। तत्र -06-0विभक्त्यनुसन्धानेन (L. अनुसन्धाने) बोध इति चेत् तुल्यं "राजपुरुषा"दावपि समासे। लोपमजानतो बोध इत्युभयत्र समम्। -07-0'श्रुतेरिवार्थ'मित्येतद्वाक्ये (V1,2. घटके) 'इवार्थमि'ति समुदायेऽतिव्याप्तेश्च। 'पर्यभूषयत्', 'पचतभृज्जत' इति तिङन्तघटकसमासेऽतिव्याप्तेश्चेति -08-0सङ्क्षेपः।। (V1,2. सङ्क्षेपः - नास्ति) -2गतिमतोदात्तवतेति-2।। ननु -01-0"सह सुपे" (L.P. ननु - न दृश्यते) (सू. 2-1-4)त्यत्र सहेति विभक्तसूत्रेण सुबन्तं समर्थेन सहितं समास संज्ञकमित्यर्थकेन पर्यभूषयत्, अनुव्यचलत् इत्यत्र समासस्सिद्ध इति 'गतिमते'ति वार्तिकं व्यर्थम्।
ननु सुपेति विभक्तसूत्रेण स्वविषये प्रत्येकं समास संज्ञाऽभावसंपादनाय सहग्रहणमावश्यकमिति कथं योगविभागः। न चाध्याहृतसहशब्दार्थयोगेऽपि तृतीयायाः विधानेन सुपेत्येतावतापि तदर्थलाभः।
न च तृतीयया तदर्थलाभे पुत्रेणेत्यादौ प्रत्येकमागमनक्रियान्वय इव इहापि प्रत्येकं समाससंज्ञास्यात्। कृते च सहग्रहाणे तत्सामर्थ्यात् समुदायसंज्ञालाभः।
न च प्रत्येकं संज्ञायामपि अनिष्टाभावात् तदनावश्यकमिति वाच्यम्। प्रत्येकं -02-0समाससंज्ञायां (L.P. संज्ञाया) प्रत्येकस्य प्रत्ययान्तत्वेन प्रातिपदिकसंज्ञाऽप्राप्तौ तस्य तदर्थं समासग्रहणस्य विध्यर्थत्वापत्या वाक्येऽर्थवत् (सू. 1-2-45) सूत्रेण प्रातिपदिकत्वापत्तेः। यदि तु "कृत्तद्धिते" (सू. 1-2-46)ति सूत्रे {समासश्च} समासश्चे{ति} एकसे,माश्रित्य तत्सामर्थ्यात् सामाससमूहस्य प्रातिपदिकसंज्ञाविधिः नियमार्तो भविष्यतीति वाक्ये न दोष इत्युच्यते। तदा 'ऋक्पाद' इति षष्ठी तत्पुरुषे पूर्वपदेपि समासत्वात् समासान्तः प्रवर्तेत। स्वरद्वयं च स्यात्। 'काकतालीयमि'त्यादौ "समासाच्च तद्विषयादि"ति (पा.सू. 5-3-106) छ - -01-0प्रत्ययस्य (L. प्रत्ययस्य - नास्ति) प्रत्येकादापत्तिस्तु न। अवयवस्य प्रत्येकं समासत्वेऽपि तस्योक्तरीत्या प्रातिपदिकत्वाभावात् तत्र प्रातिपदिकादित्यनुवृत्तिसामर्थ्येन समासपदस्य तत्समूह परत्वात् तदन्वयानुरोधेन तदेकत्वस्याप्यविवक्षणाच्च। यदि तु -0क-0समासादित्येकत्वं (समासात् इत्येकवचनं = "समासाच्च तद्विषयात्"= इत्येकवचनम् (सू. 5-3-106)) विवक्षित्वाऽवयवसमासाग्रहणमङ्गीकृत्य तद्विरोधात् प्रीतिपदिकात् इत्यस्य असंबन्ध एव इत्युच्यते। तदाऽनभिधानेन वारणं बोध्यम्। स्पष्टं चेदमन्यत्रेति न कोपि देष इति चेन्न -
'समुदाये वाक्यसमाप्ति'रिति न्यायेन समुदाये -02-0समाससंज्ञायां (P. संज्ञायाः)-0 3-0सिद्धायां (P.L. सिद्धायाः) तदर्थं सहग्रहणवैय्यार्थ्यात्।
न च 'प्रत्येकं वाक्ये'ति न्यायेन प्रत्येकमपि संज्ञा स्यादिति वाच्यम्।
"वृद्धि" (सू. 1-1-1) संज्ञासूत्रे 'समुदाये वाक्ये'ति न्यायसत्वेऽपि विना वचनं लक्ष्यानुसारात् प्रत्येकं वाक्येति न्यायेन -01-0संयोगसंज्ञासंभवात् (P. संज्ञावत्) लक्ष्यानुसारात् व्यवस्थाया वक्तुं शक्यत्वात्। तस्मात् एकयोगत्वे सहग्रहणवैयर्थ्यात् योगविभागः। तस्मिंश्च सति तेनैव अनुव्यचलत् इत्यादीनां सिद्धत्वात् वर्तिकं व्यर्थमिति चेत् -
अत्र केचित् - नित्याधिकारे -02-0तस्य (P. नित्याधिकारेत्यस्य) पाठेन नित्यसमासार्थं तस्यावश्यकत्वादिति। तदपरे न क्षमन्ते। अभिप्रभरधृषतेत्यादौ समासादर्शनेन नित्याधिकारेण तद्वैकल्पिकत्वस्य दीक्षितादिभिः स्वीकारात्। सहेति विभक्तसूत्रेण विधीयमान समासस्यापि योगविभागस्येष्टसिद्धयर्थत्वेन नित्यत्वेन तदनावश्यकत्वाच्च।
ननु अव्ययमित्यादि समासविधानात् ज्ञापकात् सुपेत्यस्येव सहेत्यस्यापि वाकल्पिकत्वं ज्ञाप्यतामिति चेन्न -
अनुव्यच्लदित्यत्र विनाऽचलदित्यस्य -01-0अनेन (L. अनेन ---- सूत्रे - नावलोक्यते।) "सिन्नित्यसमासयोः शाकलप्रतिषेध" (वा इति प्रकृतिभावप्रतिषेधे नित्ययण् -श्रवणरूपतत्फलस्य "सह सुपे" (सू. 2-1-4)ति सूत्रे -0क-0भाष्यकैयटाब्यामुक्ततया (म.भा.प्र.ख.पृ. 358) तस्य नित्यत्वलाभात्।
न च वार्तिके नित्यग्रहणप्रत्याक्यानाद् प्राप्तये वैकल्पिकतवेऽपि तन्निषेधसिद्धिरिति शङ्कयम्।
सुपेति योगविषये 'वाप्यश्व' इत्यादौ तन्निषेधप्राप्तये नित्यग्रहणप्रत्याख्यानेन तस्य वैकल्पिकत्वलाबेऽपि अस्य तत्वे मानबावात्। यण्-घटित-प्रयोगस्यासत्वाच्च-
ननु उक्तरीत्या सहेति विहितसमासस्य नित्यत्वेऽभिप्रभरेत्यादावनेन कुतो नेति चेन्न -
योगविभागस्येष्टसिद्धयर्थं (त्वात् -)छन्दसि "हल्ङ्या"दिना (सू.6-1-68) लोप विषये एव "सहेति" समासस्वीकारात्। अन्यथा अकारन्ते तिङ्न्ते समासत्वात् प्रातिपदिकत्वापत्तौ सुप्श्रवणापत्तेः। एतेन 'प्रकुर्वीरन्' इत्यादौ समासे सति न लोपः स्यादित्यपास्तम्। छन्दसि दृष्टानुविधित्वेन तथापत्तेरसंभवात्। तस्मात् "सहेति" विधिः नित्य एव। अत एव "सुपे"त्यस्य विधायकता।
नन्वेवं -01-0"उदात्तवते"त्यादि (P.L. वार्तिक - न दृश्यते) वार्तिकवैयर्ब्येन तत्पुरुषाधिकारे उदात्तवतेत्यादीनां पाठस्तत्पुरुषसंज्ञार्यम्। अत एव -0क-0अव्यय प्रवृद्धादिभिः ("प्रवृद्धादीनां च" (सू. 6-2-147)) इत्येतद्विषये पुनर्गवमित्यादौ टच् सिद्धिः।
नन्वेवं अनुव्यचलदित्यादौ "तत्पुरुषे तुल्यार्थे" (सू. 6-2-2)ति पूर्वपदप्रकृतिस्वरापत्तिः। तथा हि अचलदित्यस्य आद्युदात्तत्वेन विना 'उदात्तवते'ति तत्पुरुषप्राप्तावपि ततः परत्वात् विमादाय "तिङ्डतिङ" (सू. 8-1-28) इति निधाते उदात्तवता तिङन्तपरत्वाभावात् न तत्पुरुषः। अपि तु सहेति योगेनैव समासः। अत एव नित्यं यण् घटित रूपश्रवणम्, तस्य च विशेषसंज्ञाविनिर्मुक्तत्वात् समासान्तोदात्तत्वमेव। ततो वैशिष्ट्येन अचलदित्यनेन "गतिर्गता" (सू. 8-1-70) वित्यनुदात्तस्य "अनोर्गतिमाता तिङ्न्तेने"ति समासः तत्पुरुषः। -01-0तन्नेष्यते (L, तत्रेष्यते) समासान्तोदात्तत्वम्। "तत्पुरुषे तुल्यार्थे" (सू. 6-2-2) ति पूर्वपदप्रकृतिस्वरः अनुशब्दोदात्तत्वं प्राप्नोतीति चेत् - अत्र -0क-0कैयटोपाध्यायाः। (म.भा.द्वि.ख.पृ. 817) 'समपाद' इत्यत्र "बहुव्रीहौ प्रकृत्या पूर्वपदमि"ति (सू. 6-2-1) प्राप्तस्य "त्वत्वसमसिमे"ते समश्बदानुदात्तत्वरूपपूर्वपदप्रकृतिस्वरस्य वारणाय "बहुव्रीहो प्राकृत्ये"ति (सू. 6-2-1) सूत्रे उदात्तस्वरितग्रहणानुवृत्या उदात्तस्वरितयोगिपूर्व पदस्यैव तचेन पूर्वपदप्रकृतिस्वरविधानात्, तादृशस्यैव "तत्पुरुषे तुल्यार्थे" (सू. 6-2-2)ति सूत्रे अनुवर्तनात्। अनोस्च उक्तरीत्या उदात्तस्वरितयोगित्वाभावान्न सः इति समासान्तोदात्तत्वमेव। विशिष्टेन सहेति-विहित-समासमादाय तु न पूर्वपदप्रकृतिस्नवरः। तस्योक्तरीत्या तत्पुरुषसंज्ञाभावात्। अन्यता तेन वेरुदात्तत्वे उदात्तयणः परत्वात् अकारस्य स्वरितत्वं स्यात्। नन्वेवं - अनुष्यचलत् इत्यत्र अनुना समासोऽपि सहेत्यनेनैवास्तु, तत्पुरुषसंज्ञायां फलाभावत् 'उदात्तवते'त्यादि व्यर्थमिति चेत् सत्यम्। 'अव्ययं -0क-0प्रवृद्धादिभि'रिति (प्रवृद्धादीनां च (सू. 6-2-147)) पूर्ववार्तिके आदिसब्दस्य प्रकारार्थत्वेन उदात्तवतेत्यादीनां तत्प्रपञअचबूतत्वात् -0ख-0"अव्ययमिति" (प्रवृद्धादीनां च (सू. 6-2-147)) वार्तिकस्य च पुनर्गवमित्यादौ टजादिसिद्धये तत्पुरुषसंज्ञार्थमावश्यकत्वान्न सहेत्यनेन गतार्थता। अथवा योगविभागेन सिद्धस्यैव अर्थस्य दुरूहत्वं मन्यमानेन वार्तिककृता कात्यायनेन प्रारब्धानि गतिमतेत्यदीनि वचनानि इति बोध्यम्, स्पष्टश्चायमर्थो -01-0भाष्य- (L.P. भाष्ये) -0ग-0कौयटोद्योतेषु (कुगतिप्रादयः (सू. 2-2-18) म.भा.प्र.ख.पृ. 437) इत्यलं पल्लवितेन।। 1।। (28)
-2प्राचीनवैयाकरणोक्तविबागस्याव्यप्त्येति-2।।
यदि तु समासोद्विविधः विशेषसंज्ञाविनिर्मुक्तः सुप्तुपेति, -02-0बहुव्रीहिविहितो (L.P. बहुव्रीहि - नास्ति) विशेषसंज्ञायुक्तश्च। तत्र अन्त्यः। चतुर्धा - अव्ययीभाव, तत्पुरुष, बहुव्रीहि, द्वन्द्वबेदात्। तत्र -01-0अव्ययीभावादेः (L.P. एकेन) संकेतविशेष संबन्धेन अव्ययीभावादिपदावत्वं जाति विशेषो वा लक्षण्, न तु पूर्वपदार्थप्रधानत्वादिवं तत्।
'शाकप्रती'त्यादौ व्यबिचारस्य मूले एव स्पष्टत्वात्। परम् उत्सर्गतस्तस्य स्वीकारे बाधकाभावः। तत्र आद्योदाहरणं पूर्वं भूतः 'भूतपूर्वः' सुप्सुपेति समासः। पूर्वमिति क्रियाविशेषणं पूर्वकालवृत्तिपरं भू धातोः सत्ता उत्पत्तिर्वाऽर्थः। पूर्वकालवृत्तसत्ताद्याश्रय िति बोधः। द्विर्बद्धमिति न्यायेन पूर्वशब्देन उक्तत्वेऽपि, अतीतत्वे निष्टा। एवं 'विस्पष्टं पटुः', 'विस्पष्टं मृदुः'। वस्पष्टं -02-0पटुत्वविशेषणतया (L. विशेषतया) नपुंसकं, विस्पष्टपटुत्वाश्रय इति बोधः। एवमन्यत्राप्यूहयमिति विभाव्यते। तदा न विभागस्य प्रायिकत्वकल्पनं युक्तं नाप्युक्तलक्षणस्येति बोध्यम्। अत्र -03-0-2पूर्वपदार्थप्रधान इति-2।। (शोधफाद्वयमित्यधिकः पठः) हरौ इत्या'धिहरि' भक्तिरित्याद्युदाहरणे। हर्यधिकरणिका भक्तिरित्यादि - क्रमेण बोधात्। अत्र अध्यादिः सप्तम्यर्थादेः वाचकः। अत एव पूर्वपदार्थ प्रदान इत्याद्युत्सर्गस्य निर्वाहः। द्योतकत्वे हि द्योत्यार्थस्य विशेषणताया एव वक्ष्यमाणतया तदनिर्वाहः स्पष्ट एव। एतेन 'उपकुम्भमि'त्यादौ उपादीनां तत्समीपे लक्षणा। उपादिपददं तात्पर्य
ग्रहकमित्यपास्तम्। 'प्रजयती'त्यादौ द्योत्यार्थविसेषणकबोधे, 'उपकुम्भमि'त्यादौ द्योत्यार्थविशेष्यकबोदे द्यतकस्य कारणताद्वयकल्पनेन गौरवात्।।
-2उत्तरपदार्थप्रधान इति-2।। 'कृष्णश्रितः' -01-0इत्याद्युदाहरणम्। (V1,2. उदहरणे) कृष्णकर्मकश्रयणकर्तेत्यादि क्रमेम बोधात्। 'महत्कष्टं श्रित' इत्यादौ तु असामर्थ्यान्न वृत्तिरित्याद्यन्यत्र विस्तरः। 'मासो जातस्य मासजात' इति वृत्तौ विग्रहे च उत्तरपदार्थप्रधानत्वमेव तयोः समासार्थत्वानुरोधात्।
न च विग्रहेऽपि तत्वे जातशब्दात् षष्ठ्यनुपपत्तिः। विशेषणादेव तद्विधानादिति वाच्यम्। वृत्तिविग्रहयोः समानार्थत्वानुरोधेन तस्य वाक्यस्य वृत्यर्थबोधकत्वरूपविग्रहत्वविवक्षायां विशेषणविशेष्यभाववैपरीत्येऽपि उदासीनतादशायां -01-0पूर्वजातस्य (L. पूर्वजात) षष्ठीरूपसस्कारस्यानिवृत्तेः।
ननु 'मासस्य जात' इत्येव विग्रहोस्तु, एवं सति वृत्तिविग्रहयोः समानार्थतापि भवति। न च "षष्ठी" (सू. 2-2-8)ति व्यर्थमिति वाच्यम्। कालाः परिमाणिनैव समस्यन्ते; न तु परिमाणी कालेनेति नियमेन, 'जातमास' इत्यस्य निवर्तकतया तस्य सार्थक्यादिति चेन्न-
मासो जातस्येत्येवं -0क-0विग्रहप्रदर्शनपरभाष्य- (म.भा.प्र.ख.पृ. 420) प्रामाष्येन परिच्छेद्यपरिच्छेदकसमभिव्याहारे -02-0परिच्छेदे (P. परिच्छेदात्) एव षष्ठीति स्वीकारेण तथाविग्रहासम्भवात्। एवम् अवयवावयवि - समभिव्याहारेऽवयवत्वादि संबन्धेऽवयव- वाचकादेव षष्टी। -01-0'तन्तुना पट' (V1,2. तन्तूनां) इत्यादौ तु जन्यजनकभावसंबन्धे षष्ठी। बोधस्च मासपरिच्छेद्यो जात इति। जातस्य परिच्चेद्यत्वं तु -02-0परिच्छेद्यजननाश्रयत्वेनेति (L. ----- श्रयत्वे) बोध्यम्।।
-2अन्यपदार्थप्रधान इति-2।।
विशेषणाविशेष्यभाववैपरीत्यान्तर्भावे स्वस्वामिभावादिसंसर्गे तदाश्रय - -03-0अन्यपदार्थे (L. तत्पदं त्यक्तम्, P. पदे) च बहुव्रीहेः शक्तिः, चित्रगुरित्यादेः। स्वस्वमिबावसंबन्धेन चित्रगेविशिष्टस्य अन्यपदार्थस्य प्रतीतेः। यद्वा संसर्गरूपो विभक्त्यर्थ एव बहुव्रीहिशक्यः। -04-0न च (L.P. ननु अविभक्त्यर्थ) विभक्त्यर्थस्य असत्वरूपतया 'चित्रगुरि'त्यादौ लिङ्गसंख्याकार्यानुपपत्तिरिति वाच्यम्। गुणवाचनवत् द्रव्याश्रितोसौ संबन्धः {इति} तल्लिङ्गसंख्याभ्यां तस्य योगाङ्गीकारात्। एवं च समासोन -05-0अभिधीयमानसंबन्धः (P. संबन्धः - नास्ति) संबन्धितादात्व येनैव अभिधीयते। तत्र संबन्धस्य द्विष्ठत्वेऽपि संबन्ध्यन्तरस्य गोरूपस्य विशेषणतया शब्देनैव उपात्तत्वात् प्राधान्याच्च स्वामिन एवाश्रयत्वं व्यवस्थाप्यत इत् तद्गत एव लिङ्गसंख्ये भवतः न तु वर्तिपदार्थगते। संबन्धसंबन्धिनोश्च स्वरूपातिरिक्तसंबन्धाबावेन संबन्धि तादात्म्ये एव पर्यवसानं बोध्यम्, शबद्शक्तिस्वबावाच्च। 'पटस्य शुक्ल' इत्यत्रेव न भेदेन अत्र विवक्षा, वाक्ये तु भेदेनैव विवक्षेत्यन्यत्। बहुव्रीहिश्च द्विधा - तद्गुणा - तद्गुणभेदादित्यन्यत्र विस्तरः।।
-2उभयपदार्थप्रधान इति-2।। इतरेतरयोगे सहित्यस्य विशेषणत्वात् तत्वम्। सहित्यं च समुदायशक्यम्। यत्तु उत्त्रपदलक्ष्यमिति। तत्तु उत्तरपदस्यैव प्रातिपदिकत्वापत्तिरित्यादि - वक्ष्यमाण - दूषणेन दूषणीयम्। समुदायलक्ष्यमित्यपि न युक्तम्। अनुपपत्तिप्रतिसंधानं विनापि प्रतीतेरित्यादि वक्ष्यते। सहित्यस्य इतरेतरयोगद्वन्द्वेऽभाने तु -01-0द्वित्वान्वययोग्यतावच्छेदकस्य (P. द्वित्वान्वय आरभ्य वाक्यत्र्यं त्यक्तम्) कस्यचिदभावाद्वित्वान्वयो न स्यात्। अतः प्रकृत्यर्थतावच्छेदकीभूतसाहित्यभानमावश्यकम्। समाहारे तु तद्विशेष्यम्। अत एव समाहारद्वन्द्वे उभयपदार्थप्राधान्यस्य अव्याप्तिं वक्ष्यति। वस्तु तः समाहारवत् इतरेतरयोगेऽपि साहित्यं विशेष्यमेव। अत एव "चार्थे द्वन्द्व" (सू. 2-2-29) इति सूत्रे -0क-0भाष्ये (म.भा.प्र.ख.पृ. 463) चार्ते विधीयमानस्य द्वन्द्वस्य तद्वदेव अलिङ्गसंख्यतामाशङ्क्य शब्दशक्तिऽस्वभावेन गुणवचनानामिव आश्रयतो लिङ्गवचनानि इत्यनेन (वा -) परिहृतम्। इत्रेतरयोगे च चार्थसाहित्यस्य विशेषणत्वे त्वलिङ्गसंख्यत्वशङ्का तत्परिहारयोरसङ्गत्यापत्तेः। न चेदं भाष्यं समाहारस्य द्वन्द्वपरमिति शङ्क्यम्। तत्र वाचनिकलिङ्गैकवचनयोः सत्वे तत्परत्वस्य वक्तुमशक्यत्वात्। तस्याश्रयगतलिङ्गसंख्याग्रहित्वाभावाच्च। अत एव "गौस्त्रिये"रि (सू. 1-2-48) रिति सूत्रे भाष्ये 'कुक्कुटमयूर्या'वित्यत्र "गोस्त्रिये"रिति (सू. 1-2-48) ह्रस्वमाशङ्क्य द्वन्द्वे -01-0प्रतषेधौ (P. प्रतिषेदे) वक्तव्य -02-0इत्युक्तम्। (L. उक्तः) समासार्थे समाहारेऽवयवार्थस्य मयूरीपदार्थस्याप्रधान्यात् प्रथमानिर्दिष्टत्वाच्च उपसर्जनमिति -03-0कैयटेनोक्तम्। (P. कैयटेप्युक्तः)।
समाहारस्य विसे,णत्वे तु वर्तिपदार्थप्राधान्यात् उपसर्जनत्वाभावेन भाष्यकैयट्योरसङ्गत्यापत्तेः। बहुव्रीहावन्यपदार्थस्येव अत्रापि चार्थस्यैव प्राधान्योचित्याच्च। तत्र 'धवरवदिरावि'त्यादौ इतरेतरयोगे उद्बूतावयवभेदः समूहः
समासार्थः। 'पापिपादमि'त्यादौ समाहारे त्वनुद्भूतावयवबेदः समूहः समासार्भेः। उद्भूतावयवभेदत्वञ्च अवयवगत - सख्यारोपवत्वम्। तद्विपरीतमनुद्भूतावयवभेदत्वम्। तेन आद्ये द्विवचनबहुत्वे, अन्त्ये एकवचमेव। एकवद्भावप्रकरणं तु नियामकमेव। उभयत्रापिद्वन्द्वे विशेष्यबूतोऽपि समूहो न अवयवव्यतिरिक्तुः 'धवरवदिरा'विति स्वशब्देनैव अभिधानात्। अवयवातिरिक्तस्तु 'यूथं, वनमि'त्यैदि शब्दान्तरैरेव 'राजयूतं' 'वृक्षवनमि'त्यादावुच्यते। एतेन इतरेतरयोगे तदनतिरेकेन भनम्। समाहारे तु तदतिरेकेणेति भेद इत्यपास्तम्। समूहसमूहिनोः अभेदादेव उभयपदार्थप्रधान इति व्यवहारोपपत्तिः। 'पाणिपादं वादये'त्यादौ वादनकर्मताऽपि वस्तुतः समूहस्य पाणिपादाभिन्नत्वादेव उपपद्यते। 'पाणइपादमि'त्यादौ वादनकर्मत्वान्वयानुरोधात् समाहारो न भासते। द्विवचनादि तु एकवद्भावप्रकरणेन असाधुत्वबोधनान्नोति मतं तु न युक्तम्। सर्वत्र तद्बोधकानुससनाबावात्। एकवद्भावप्रकरणस्य नियामकत्वेन एकत्वेन एकत्वविधायकाभावाच्च। प्रकरणस्य विधायकत्वमिति चेत्, 'संज्ञापरिभाषा' इत्यस्याप्यापत्तेरिति। इतरेतरयोगे द्वित्वान्वयार्थं साहित्यभानमित्यपि मूलोक्तं न युक्तम्। प्रकृत्यर्थतावच्छेदकानेकधर्मान्वयित्वेऽपि द्वित्वादेः आकाङ्क्षायोग्यतयोः सत्वेनाक्षतेः। क्वचित् संख्यायाः प्रकृत्यर्थतावच्छेदकव्याप्यत्वेऽपि सर्वत्र तत्कल्पने मानाबावाच्च। मम तु नायं दोषः। द्वित्वादिसंबन्धस्य प्रत्येकावृत्तेरेव समुदायवृत्तितास्वीकारात् समूहस्य विशेष्यतया भानाङ्गीकारेण द्वित्वादेः समूहे एव भानात। घटावित्यादावेकशेषेऽपि द्वन्द्ववत् समूहे एव विशेष्ये तदन्वयः।समूहस्य -01-0विशेष्यत्वादिव (P. विसेष्यत्वादेव) 'अग्नीषोमवि'त्यादौ समुदितस्य समूहाभिन्नस्य देवतात्वं सङ्गच्छते।
न च 'चैत्रो मैत्रश्च गच्छत' इत्यादौ ख्यातो पात्तसंख्यान्वयाया चार्थसमूह विशेष्यत्वाय च यस्य समूहवाचकत्वं वाच्यम्। एवं च चैत्र{स्य}मैत्रस्य च समूह इत्यत्रेव 'चैत्रो मैत्रश्च गच्छती'त्यादौ षष्ठ्यापत्तिरिति वाच्यम्। तदभिन्नत्वेन -02-0समूहप्रतित्या (P. प्रतीत्यादि) बेदनिबन्धनषष्ठ्यप्राप्तेः। समुच्चया न्वयचययोः तु न समासः। 'ईश्वरं गुरुं च भजस्व' इत्यादौ समुच्चये एकस्य चसहितस्य गुरोः ईश्वरसहितस्य क्रियान्वयेऽपि ईश्वरस्य केवलस्य एकधर्मावच्छिन्ने -03-0अन्वयेन (L. अन्वये) चार्थेऽनेकसुबन्तस्य वृत्यभावात्। एकधर्मावच्छिन्नेत्युक्तेः। वस्तुतो भजनस्य भन्नत्वेऽपि न दोषः। अत्र एकस्य केवलस्य क्रियान्वयोत्तरम् अपरस्य अन्यसहितस्य आवृत्या तदन्वयः। समुच्छये 'चैत्रोमैत्रश्च पचती'त्यादौ नित्यमेकवचनान्ताख्यात प्रयोग एव। एकस्य च रहितस्य केवलस्यैवान्वयात्, च सहितेनाप्यनुद्भूतावयवभेदसमूहस्यैव प्रतीतेः द्विवचनाद्ययोगात्। 'भिक्षामट गां च आनय' इत्यन्वा च येऽपि न स्मासः। 'च' समभिव्याहृतगवानयने आनुषङ्गिकत्वम् इतरसाहित्यं च भासते। आनु,ङ्गिकत्वं च अन्यनिष्पादकफलनिष्पाद्यत्वम्। एवं च तद्व्याप्यत्वं फलति। तथा च आनु,ङ्गिकं भिक्षाटनसहितं गवानयनमिति बोधः। एवं च उभयोः चार्थवृत्तित्वाभावः स्पष्ट एव। "धवखदिरौ छिन्दि -01-0पश्ये"त्यापि (v1,2. पश्यवे) न प्रयोगः। मिलितस्य एकधर्मावच्छिन्ने इतरस्मिन्नेव अन्वये द्वन्द्व साधुत्वात् इति बोध्यम्।
'भूतपूर्व' इत्याद्यसङ्ग्रहेण विभागं संदूष्य पूर्वपदार्थप्रधानत्वमित्यादि - लक्षणं च अव्यापत्यतिव्याप्तिभ्यां संखं (ह्य -) प्रलक्षणेष्वेव असंभवरूपमपि देषमाह -2असंभवच्चेति-2।। असंभवश्चैषां लक्षणानामिति ध्वनयन् उक्तिसंभवमाह इति पाठः। ततैव सङ्गतेः।। -2भौतपूर्व्यादिति-2।। पूर्वं = वृत्तेः पूर्वक्रियादशायां, भूतस्थितो भूतपूर्वः तस्य भावः तत्वम्। तस्मात्। तथा च तत्तत्समासप्रक्रियावाक्यस्थितं पूर्वपदार्थप्राधान्यादिकमादाय तत्तत्समासेऽपि स स व्यवहारः इत्यर्थः।। तदेवाह - -2रेखेति-2।। -2एतेषां-2 = पूर्वपदार्थप्राधान्यादीनाम्।। -2न समास लक्षणत्वं-2 = न तत्तत्समासलक्षणत्वम्। तत्र एकार्थत्वोपपादकविशिष्टशक्ति - -01-0अब्युपगमपक्षे (p. पक्ष) मूले वक्ष्यमाण रीत्या वृत्तेः जहत्स्वार्थत्वस्वीकारेण पदानामानर्थक्येन -02-0पूर्वपदार्थादेः (p. 'नञ्' दृश्यते, अनन्वितः पाठः इत्यतः त्यज्यते।) अप्रसिद्धत्वादिति भावः।। -2तद्वदेवेति-2।। रेखागवयादिवदित्यर्थः।। 21/2।। (291/2)
-2पर्यवसानमिति-2।। 'बृहद्भूषणा'दौ स्पष्मेतत्। वस्तुतः व्यपेक्षावाद इव एकार्थीभावेऽपि सामर्थ्ये -03-0वृत्तिवर्त्तनवादो (l. वादौ) जहत्स्वार्थाऽजहत्स्वार्थयोः उभयोरपि पक्षयोः संभवति। तथाहि वाक्यात् वृत्तिः शास्त्रनिष्पाद्यार्थाऽभिधानमपि शस्त्रकृतमेव। तथा च "चार्थे द्वन्द्व" (सू. 2-2-29) इत्यस्य -04-0अनेकं (l. अनेक) सुबन्तं चार्ते वर्तते, चार्थे वर्तमानं च द्वन्द्वसंज्ञकमित्यर्थः। एवमन्यपदार्थेऽनेकं सुबन्तं वर्तते, तत्र वर्तमानं बहुव्रीहिसंज्ञकमिति "अनेकमन्यपदार्थे" (सू. 2-2-24) इत्यस्याऽर्थः। एवमन्यत्रापि। एकोद्देश्यकानेकविधानाभावात् न वाक्यबेदः। अतो घटकपदानामेव चार्थादौ कृतेरुक्तत्वाच्चकाराद्यप्रयोगस्सिद्ध इति नैकार्थीभावफलं सः।
नन्वेतन्मते शब्दवदर्थस्यापि शास्त्राधीनत्वेन शास्त्रकार्यतया शब्दानां लोकतोऽर्थज्ञानासंभव इति
वृत्तिमत्समुदायत्वरूपस्य वृत्तिलक्षणस्य वक्तुमशक्यत्वात्, किं वृत्तिलक्षणमिति चेत् - न।
-0क-0"परार्थाभिधानं वृत्ति"रित्यादिना ("समर्थः पदविधिः" (सू. 2-1-1) म.भा.प्र.ख.पृ. 328) तल्लक्षणस्य भाष्ये एव उक्तत्वात्। -01-0तदर्थश्च (l. तच्च) परस्योपसर्जनार्थक राजादिशब्दस्य यत्र शब्दान्तरेण प्रधानार्थकपुरुषादिपदेन अर्थाभिधानं तदर्थस्य स्वविशेषणत्वेन ग्रहणम्, सा वृत्तिरिति। यद्वा परार्थस्य प्रदानार्थस्य पुरुषादेः अप्रधानराजादिपदैः यत्र स्वार्थविशेष्यत्वेन ग्रहणं सा वृत्तिरित्यर्थः। अयं भावः = राजपुरुष इत्यादौ पुरुषपदेन वाक्यावस्थायामनास्कन्ने। -02-0राजार्थो (P. राजार्थौ) राजपदेन वाऽनास्कन्नः पुरुषार्थः आस्कन्द्यते, तत्संवलितः स्वार्थः उपस्थाप्यत इति यावत्। एतावतैव -03-0एकार्थीभावव्यवहारः (L. व्यवहारं) बहुव्रीहावपि प्रधानपदं समुदाय एव। घटकपदे च अप्रधाने एव। तत्र प्रधानपदेन अवयवार्थस्कन्दनेनैव स्वार्थबोधनम्। अवयवैर्वा तदर्थास्कन्दनेन स्वार्थबोधनम्। समुदायस्य प्राधान्यं च अवयवाप्कतिपाद्यप्रधानभूतान्यपदार्थबोधकत्वात्। द्वन्द्वेऽपि प्रधानपदसमुदायोपस्थाप्य - साहित्यस्यावयवार्थास्कन्दनेन बोधः। अवयवाभ्यां वा तदर्थास्कन्दनेन समाहारेतरयोरुभयोरपि -01-0समूहरूपं (P. समूहरूपां) साहित्यं विशेष्यम्। आद्ये अनुद्भूतावयवभेदः समूहः; अन्त्ये उद्भूतावयवभेद इति न द्विवचनाद्यनुत्पत्तिः।
नन्विदं परार्थाभिधानमयुक्तं वृत्तेर्जहत्स्वार्थत्वोपगमेन परार्थस्यैवाभावात्। -02-0शब्दार्थसम्बन्धनित्यताहानेश्च। (P. संबन्धी) पूर्वपदेजहत्स्वार्थत्वस्वीकारेण राजपुरुषादितो पुरुषादिमात्रबोधापत्तेश्चेति चेन्न -
गुणभूतराजादिपदे प्रधानपदार्थविशेषणत्वेोपस्थितिविरोधिनः स्वार्थभूतस्य राजाद्यर्थगतविशेष्यत्वमात्रस्य त्यागेन जहत्स्वार्थत्वाङ्गीकारेप्यदोषात्। अथवाऽस्तूपसर्जनपदेन सर्वथा स्वार्थत्यागः, वृत्तौ राजपदसंबन्धमात्रेण पुरुषपदमेवराजसंबन्धिपुरुषबोधकम्। चंपकपुष्पाणामसकत्वेऽपि तदामोदान्वयमादाय चंपकपुष्पपुट इत्यादि -01-0व्यवहारवत् (P.V1,2. व्यवहारा) राजपदार्थः पुरुषविशेषणमित्यादिः पूर्वपदार्थ इत्यादिश्च व्यवहारः। अस्मिंश्च पक्षे -02-0एकार्थीभावेनाम (L.P. भावोनमद) पदद्वयबोध्ययोरर्थयोः एकपदबोध्यत्वरूपः। अलौकिके तु वाक्ये, वक्ष्यमाणरीत्या आरोपितः सः अभवाऽस्तूपसर्जनेप्यजहत्स्वार्थैव। -0क-0"भिक्षुको (म.भा.प्र.ख.पृ. 331) द्वितीयां भिक्षामासाद्य न पूर्वां जहाति संचयायैव प्रवर्तते" इति "समरथ"सूत्रभाष्यात्। (सू. 2-1-1)
नन्वत्र पक्षे राजादिपदैः स्वर्थस्य विशेष्यत्वावच्छिन्नस्य बोधनात् कथमितरविशेषणतयोपस्थितिरिति चेन्-
स्वस्मिन् स्वपदार्थभूतायं -03-0विशेष्यतायां (P. विसेष्यतायां ---- सा- त्यक्तम्) सत्यामेव इतरनिरूपितां विसेषणतामङ्गीकारोति विशीष्टशक्तिबलात्। तत्र सा विशेषणतो राजादिपदोपस्थाप्ये -04-0संपूर्णेऽविशेषात्। (L. संपूर्णे) एवं च -05-0स्वपदार्थभूतविशेष्यताय (L. 'स्वपदार्थ') अपि विशेषणत्वेनैव भानेन तत्र न विसेषणान्वयः। स्वरूपतो विशेष्यत्ववैशिष्ट्येनोपस्थिते एव तदन्वयस्वीकारात्। 'राज्ञः पुरुषः' इति वाक्ये तु पदजन्योपस्थितौ स्वरूपतो विशेष्यत्वे वैशिष्टयेन भानमिति विशेषणान्वयसिद्धिः। तस्माद्वृत्तिवर्त्तनवादिमते जहत्स्वार्थाजहत्स्वार्थयोरुभयोरपि पक्षयोरेकार्थीभाव इति सिद्धम्। एतेन जहत्स्वार्थायामेकार्थीभावोऽजहत्स्वार्थायां व्यपेत्रेति मूलोक्तं चिन्त्यमेव। भाष्यविरोधाच्च। तत्र हि संख्याविसेषाभाव - च - योगाभावरूपमेकार्थीभावकृतविशेषमुक्त्वा, -0क-0"अथैतस्मिन्नेकार्थीभावकृते विशेषे किं स्वाभाविकं शब्दैरर्थाभिधानम् आहोस्विद्वाचनिकमि"ति (म.भा.प्र.ख.पृ. 331) -01-0विकल्प्य (L.P. विकल्प) स्वाभाविकत्वपक्षं व्यवस्थाप्य अथ "ये वृत्तिं वर्तयन्ति किं ते आहुः परार्थाभिधानम् वृत्ति"रिति ग्रन्थेन वाचनिकमिति पक्षमुक्त्वा "अथ तेषामेवं ब्रुवतां किं जहत्स्वार्थावृत्तिरूत अजहत्स्वार्थे त्युक्तम्"। अनेन एकार्थीभावमुपक्रम्यैवमुक्तेस्तत्रैव पक्ष द्वयमिति लभ्यते। 'वाप्यश्च' शब्दे संज्ञायामि (सू. 2-1-44)ति समासे जहत्स्वार्था, "सुप्सुपे"ति समासे तु अजहत्स्वार्था वृत्तिरित्याशयेन "ईदूदे"तिं (सू. 1-1-19) सूत्रे तत्र ते द्वे अपि वृत्ती भाष्यकृतोक्ते इति न तद्विरोधः। यद्वा पूर्वपदे जहत्स्वार्थत्वमात्रेण तदुपपत्तिरिति बोध्यम्।। -2पदानामिति-2।। पूर्वोत्तरपदानामित्यर्थः।। -2समासशक्त्यैवेति-2।। 'सखण्डाः शब्दाः' इति पक्षेऽवयवशक्तिं तत्तल्लक्षणां वा अजानतां बालानां समुदायशक्त्यैव बोधस्य सर्वानुभवसिद्धत्वेन तस्या आवश्यकत्वादित्यर्थः।। -2वृषभेति-2।। स्वार्थिकप्रत्ययान्तेष्वित्यर्थः। आनुपूर्व्यन्तरघटकत्वाभावविशिष्टानुपूर्व्या एव शक्ततावच्छेदकत्वादिति भावः। अत एव रामादिपदान्नाग्निनारायणादीनां रेफाकारयोस्तद्बोध कयोः -01-0सत्वेपि (सत्वेपि ---- समुदाययोः - नावलोक्यते) बोधः। वाक्ये तु पदान्यर्थवन्त्येव राजसंबन्धीपुरुष इत्यर्थे 'राज्ञः पुरुषः', 'पुरुषो राज्ञ' इत्यनयोः समुदाययोः शक्तिकल्पनापेक्षया पदशक्तेर्लघुत्वात्। आरोपितर्थमादाय विघ्रहवाक्ये प्रत्येकं विभक्त्यादिपदत्वं च वृत्तिप्राग्वर्त्यर्थारोपेणैव 'सुपन्थाः' इत्यादावात्वादि-प्रवृत्तिः। -2अन्यथा-2 = अवयवादीनां राजादिपदानां राजाद्यर्थबोधकत्वे।।
-2आपत्तेरितिते-2।। विसेष्यत्वेनोपस्थितेः सत्वादिति भावः। -01-0दुर्वारत्वात् (L. दुर्वारितत्वात्) विशिष्टशक्तिर्ज्यर्था। प्रातिपदिकानां सर्वत्र आरोपितमेवार्थवत्वम्। कस्याचिद्विशिष्टशक्तिमात्राद्बोधस्तु नवयवानामनर्थकत्वम् -02-0साधयितुमीष्टे। (P. इष्टे) वाक्यादपि कस्यचिद् विशिष्टशक्त्या बोधेन तत्राप्यवयवानर्थक्यापत्तेः। केवल शास्त्रोपयोगिविचारवतां -03-0तदज्ञानस्य (L. तदा) विशिष्टशक्तिमात्राद्बोधस्य च वक्तुमशक्यत्वाच्च। रथन्तरादौ समुदायशक्तिः यत्र -04-0अवयवार्थविरोधिनी (P. विरोधिनो) तत्रैव जहत्स्वार्तेत्यर्थकेन "जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी"ति हरिणाविरोधाच्च। तत्र रथकरणकतरणकर्तृत्वस्य साम्न्यारोपेण पदद्वयस्य नैरर्थक्येऽपि प्रक्रियानिर्वाहः बोध्यः। राजपुरुषादौ तु आरोपो वक्तुमशक्यस्तदर्थबाधाभावात्। किञ्च जहत्स्वार्थत्वेऽपि राजपुरुष इत्यादावुत्तरपदार्थत्यागे न फलम्। यदि जहत्स्वार्थापुरुषमात्रस्य आनयनं प्राप्नोतीति भाष्यविरोधश्च। उभयोरप्यानर्थक्ये कस्याप्यानयनं न प्राप्नोतीति वक्तव्यं स्याद् भाष्यकृता। एवं च वृत्तौ आनुपूर्व्यन्तरेत्यादि - नियमे प्रयोजनाभाव इति -01-0बोध्यम्।। (P. बोध्यः) -2भष्यकारैरुक्त इति-2।। उक्तं तद्भाष्यम्। शङ्गकोक्तं उपसंह(र-)ति - -2तथाचेति-2।। -2एतन्मतवादिनां-2।। व्यवस्था सूपपादा तथाऽभिहितम्।।
-2प्रसङ्गात्-2 = अतिप्रसङ्गत्।। -2वच्य त्रैविध्यादिति-2।। यद्यपि भेदसंसर्गो सामर्थ्यमिति भाष्ये उक्तं, तथापि वृत्तो सामर्थ्यस्य लक्षणत्रये भाष्यतात्पर्यमिति भेदवदरथोपस्थापकत्वं -02-0संसर्गवदर्थोपस्थापकत्वम् (L. 'वत्' - नास्ति) उभयवदर्तोपस्थपकत्वं वेति वाच्यत्रैविध्यमित्यर्थः।। -2अस्याः वाच्यत्वे इति-2।। बेदस्यावाच्यत्वे संसर्गमात्रस्य वाच्यत्वे इत्यर्थः।। -2सुन्दर इति वद्राजेति-2।। विशेष्यसामानाधिकरण्येन वृत्यप्रविष्ट - सुन्दरादि- विशेषणवद् तत्र भेदसंबन्धेनापि वृत्यप्रविष्टदेवदत्तादिविशेषणान्वयापत्तिरित्यर्थः।। -2विरोधादिति-2।। उक्तलक्ष्येऽराजकीयत्वबोधे तद्भिन्नत्वबोधस्य विरुद्धत्वादित्यर्थः।। -2इति भाव इति-2।। तस्माद्बेदो वाच्यः।। -01-0संकर्गस्त्वत्रमतेऽनुमेयः। (P. तत्रमते) संसर्ग एव वाच्य इत्याह - -2राजसंबन्धेति-2।। अत्र मते राजसंबन्धीत्येव बोधः। अराजकीयबेदस्त्वनुमेयः। पक्षद्वयेप्यन्यतरस्यानुमानं तु समनैयत्यात्।
उभयोर्वाच्यत्वामिति पक्षामाह --2विनिगमनेति-2।। -2अस्वामिके-2।। राजास्वामिके।। प्रयोगा -2पत्तिं चेति-2।। -02-0व्यासादिरूपसामग्र्यभावेन (P. व्यास्मादि) संसर्गस्यानुमेयत्वाबावे इत्यर्थः। -2इति बोध इति-2।। वस्तुतो न अनयोर्वाच्यता त्तवेन बोधाननुभवात्। गोरवाच्च। द्वन्द्वे भेदादेर्वाच्यताया उपपादयितुमश्कयत्वाच्च। किंच भेदसंसर्गयोः भाने तयोः प्रतियोगिनिरूप्यत्वात् पूर्व - पदार्थस्यापि बोधविषयत्वावश्यकत्वेन अनेन प्रकारेण पूर्वपदे -0क-0जहत्स्वार्थत्वोपपादनपरबाष्य ("समर्थः पदविधिः" (सू. 2-2-1) म.भा.प्र.ख.पृ. 330) विरोधापत्तेः। तत्र हि 'भेदः संसर्गो वे'त्युपक्रम्य वाकग्ये प्रसक्तं सर्वं स्वं निर्दिश्यते। 'राज्ञः पुरुषोऽश्वश्चे'त्यादि तथा प्रसक्तः सर्वः स्वामी च प्रयुज्यते। 'राज्ञः पुरुषो भार्याया'स्चोति। 'राजपुरुष' इत्युक्ते राजा पुरुषं स्वाम्यन्तरान्निवर्तयति। परुषो राजानं स्वान्तरान्निवर्तयति। एवमुबयस्मिन्परस्परेणाव्यवच्छिन्ने यदि स्वार्थं जहाति राजपदं, तदा कामं जहात्वित्युक्तम्। अनेन स्पष्टमेव बेदसंसर्गपक्षयोर्जहत्स्वार्थत्वं -01-0लभ्यते। (L.P. लभ्यते - नास्ति)
नन्वनयोरवाच्यत्वे 'राज्ञः परुषोऽश्वस्चे'ति वद्रा'जपुरुषोऽश्वस्चे'ति कुतो नेति चेन्न -
एकार्थीबावबलात् -02-0स्वगतविशेष्यत्वस्य (P. विशेष्यत्व) त्यागरूपजहत्स्वार्थत्वपक्षे एकत्र विशेषणत्वेन नागृहीतशक्तिकस्य तत्वेन ज्ञातस्य परत्र विशेषणत्वायोगात्। 'घटः पटश्च द्रव्यमि'तिवत् -03-0तदर्थद्रव्यपदस्य (V1,2. तदर्थे) घटरूपविसेषण परतायां द्रव्यं पटश्चेत्यस्याप्रयोगो यथा। एवं 'राज्ञः पुरुषे भार्यायाशचि'ति वद्राजपुरुषो भार्यायाश्चेति। -04-0तद्बलादेकविशेषण (P.L. न तद्बत्वादेकविशेषणवैशिष्ट्येन) वाशिष्ट्येन गृहीतशक्तिके तत्वेन ज्ञाते वाविशेष्ये तत्सजातीय -01-0संबन्धेन (L. संबन्धेन ----- त्यागरूप - न दृश्यते।) विशेषणान्तरसंबन्धस्याव्युत्पतेः 'घटो द्रव्यमित्य'र्थे घटो द्रव्यत्वस्येत्यप्रयोगो यथा। सर्वथा पूर्वपदार्थत्यागरूपजहत्स्वार्थत्वपक्षे तु वृत्तौ राजपदसन्निधानात् पुरुषपदेनैव राजसंबन्धवती -02-0राजान्यस्वार्मि{का}संबन्धवती (L. राजान्य ---- स्वान्तरेण संबन्धः - न दृश्यते।) च या पुरुषव्यक्तिः सोऽपस्थाप्यते। अतो न राज्ञः स्वान्तरेण संबन्धः राजपदर्थस्याभावात्। नापि पुरुषपदस्य स्वाम्यन्तरेण सम्बन्धः। तदुक्तं -0क-0भाष्ये (समर्थः पदविधिः (सू. 2-1-1) म.भा.प्र.ख.पृ. 330. भा.प. "इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयन्त्यन्येभ्यः स्वामिभ्यः") "राजा पुरुषं स्वाम्यन्तरेभ्यो निवर्तयती"ति। -03-0सजातीय (L. स) संब्धेनेति विवक्षणात् राजसंबन्धविशिष्टे भार्यायाः प्रीतिविषयत्वादिसंबन्धबोधको 'राजपुरुषो भार्याया' इति प्रयोगस्तु 'राजपुरुषः सुन्दर' इति वदिष्ट एव।।
नन्वेवं प्रधानस्य सविसेषणत्वे वृत्तिरिति व्यवहारोच्छेदापत्तिः। उक्तरीत्या विशिष्टविशेषणत्वेन प्रधानमात्रविशेषणत्वाभावादिति चेन्न
तत्र सुन्दरनिष्ठप्रकारतानिरूपितविशेष्यताया अवच्छेदकं पुरुषत्वमेव, 'विशिष्टस्य विशेष्यानतिरेकात्'। न तु राजसंबन्धीपीत्यबिप्रायेण स व्यवहारः। एवं सर्वत्र विशिष्टविषयकज्ञाने विशेष्यतावच्छेदकत्वादिकं विशेष्यनिष्ठधर्मे एव।
नन्वत्र पक्षे पुरुषपदेनैव तथाभिधाने राजपदोपादानं व्यर्थमिति चेन्न -
पुरुषपदस्य एतादृशार्थकत्वे राजपदस्य तात्पर्यग्राहकत्वात्। मानान्तरासिद्धस्याप्युपात्तस्यैव 'प्रकृष्टप्रकाशश्चन्द्र' इत्यादाविव व्यक्तिविसेषनिर्धारणोपायत्वाच्च। शक्तिग्रहोप्यत्र पक्षे राजपदयुक्तं -01-0पुरुषपदं (L.P. एतत् पदं नास्ति) पुरुषत्वेनोक्तव्यक्तिविशेषशक्तमित्याकारः। अत्र पक्षे 'महाराज' इत्यादौ पूर्वपदे आत्वम् भूतपूर्वगत्याऽर्थवत्वमादायेति बोद्यम्।।31/2।। (301/2)
-2व्यपेक्षावादस्यैवेति-2।। तद्वादिनस्तु परस्पराकाङ्क्षारूपा व्यपेक्षैव "समर्थः पदविधिः" (सू. 2-1-1) इत्यत्र सामर्थ्यं नत्वेकार्थीभावः, तदुक्तं -0क-0भाष्ये (म.भा.प्र.ख.पृ. 332) "परस्परव्यपेक्षां सामर्थ्यमेके" संप्रेक्षितार्थं समर्थमिति। अयं भावः = 'राज्ञः पुरुषः' इत्यादौ वाक्ये परस्पर साकाङ्क्षयोः रजापुरुषयोः -01-0संबन्धस्य (P. सम्बन्धो) -02-0राजादिपदोत्तरविभक्तिर्वाचिका (P. वाचका)। 'राजपुरुष' इत्यादावपि समासे -03-0पृथगुपस्थितयोः (P. उपस्थितयोः ---- विशिष्ट - न दृश्यते) तयोः संबन्धो 'राजा सुन्दर' इत्यादौ विशेष्यविशेषणभाववत् समुदाय शक्यो न त्वसौ विशिष्टोपसथितिः नियामकः, उपस्थितयोराकाङ्क्षोत्तरमेव तत्प्रतीतेः। शक्तिग्रहश्च उपस्थितयोखयवार्थयोः संसर्गे इदं शक्तमित्याकारः। ' वाप्यश्व' इत्यादौ सप्तम्यर्थसंबन्धस्य विशिष्टशक्यत्वादेव वपी-पदस्य सप्तम्यर्थेऽवृत्तेर्न प्रगृहयत्वम्। अत एव समुदायस्य-0 4-0प्रातिपदिकसंज्ञासिद्धिः। (L. सिद्धः) अस्मितन् पक्षे वृत्तवपि वाक्ये तुल्याकाङ्क्ष्या एव सत्वेन भेदसंबन्धबोधः। पदभेदेन व्युत्पत्तिभेदाद् आकाङ्क्षावशेनैव तत्त्दव्युत्पत्तिकल्पनात्। अत एव विभक्तेर्लुक्, तदर्थस्यान्यत एव प्रतीतेः। अत एवात्र न संख्यविशेषा वगतिः। वाक्यदृष्टविरुद्धविभक्तिकत्वस्य वृत्तावप्यनुसंधानात् नामार्थयोरभेदान्वयव्युत्पत्तिविरोधः। अत एव 'दधि ह(द्र-)ष्टे'त्यादौ बेदान्वयः। विभक्तिलोपमजानतोऽपि तज्‌ज्ञकृतोपदेशात् लोकव्युत्पत्या तता बोधः। उपदेशाभावे तु तद्‌युत्पत्तेरप्यशानान्न दोषः। विभक्त्यर्थस्य च प्रकृतिबोध्यार्थे एव अन्वयाद् 'राजपुरुषं पश्ये'त्यादौ विशिष्टे कर्मत्वधीः पराङ्गवभावानुरोधाच्च। समासादावपि न्यपेक्षैव सामर्थ्यम्। अन्यथा पराङ्गवद्भावे व्यपेक्षा समासादावेकार्यीभाव इति वैरूप्यापत्तेरित्यन्यत्र स्पष्टम्। कर्मधारयेऽपि विसेष्यविशेषण(-) भावेनान्वयो व्यपेक्षासध्यः। 'उपकुम्भम्' इत्याद्यव्ययीभावे तदत्पुरुषे च निपातानां वाचकत्व स्वीकारेण पूर्वोत्तरपयोर्वयपेक्षा। 'निष्कौशाम्बि'रित्यादो च निरादेः क्रान्ताद्यर्थकत्वस्वीकारेण पदैकदेशन्यायेन वा व्यपेक्षा। 'द्विदशाः' 'सप्तपर्ण' इत्यादौ-0 1-0सुबर्थवीप्सयोः (L.P. सजर्भवीक्षयोः) एवमेव बोद्यः। बहुव्रीहावपि समासवाच्येन अन्यपदार्थेन 'चित्रगो'पदार्थयोराकाङ्क्षया परस्परान्वितयोरन्वयः। अन्य पदार्थस्य समुदायवाच्यता च "अनेकमन्यपदार्थे" (सू. 2-2-24) इति सास्त्रबलात्। द्वन्द्रेऽपि "चार्थे द्वन्द्व" (सू. 2-2-29) इति शास्त्रबलात् साहित्यं समुदायसक्यम्। तस्योद्भूतानुद्भूतभेदेन एकवचनद्विवचनादीति अयमपि पक्षो वृत्तिवर्त्तनवादिन एवेति भाष्ये एव स्पष्टतया {उक्तत्वात् -} वाक्यादेव वृत्तिर्निष्पद्यते इति मन्यमानस्यैव बोध्यः।। -2युक्तभाष्यविरुद्धत्वादिति-2।। युक्तविरुद्धत्वात् भाष्यविरद्धत्वाच्चेत्यर्थः। अयं भवः = वक्ष्यमाणानाम् एकार्थीभावकृतविशेषाणां विशेषणे संख्याविशेषानवगमविशेषणसंबन्धाभावादिनां -01-0वचनसाध्यत्वेन (P. वचनासाध्यत्व) गौरवात्। दधीत्यादौ लुक्यापि संख्याविशेषावदगमेन तस्य तदनवगमप्रयोजकत्वाभावात्। द्वाववित्यादावन्यतेऽपि बधे लुगभावाच्च। किं च समानार्थकवाक्यस्यापि निवृत्तये विभाषाधिकाररूपापूर्ववचनारम्भे तवैव गौरवम्। "तस्य भाव" (सू. 5-1-119) इति सूत्रस्य भाष्यविरोधश्चेत्यन्यत्र स्पष्टम्। किंचाकाङ्क्षितसंबन्धस्य समुदाय शक्यत्वं मानाभावात्, किन्तु 'शिष्यमाणं लुप्यमानार्था भिधायी'ति न्यायेन पूर्वपदशक्यत्वमेवोचितम्।
नन्विष्टापत्तिरिति चेत्, तथा सति 'वाप्यश्व' इत्यादावपि 'सोमो गौरी अधिश्रित' इतिवत् प्रगृह्यत्वापत्तिः। समुदायस्य अर्थवत्वाभावात् प्रातिपदिकत्वानापत्तिश्च। आमन्त्रितार्थस्य यन्निमित्तं तदेव पराङ्गवदित्यर्थकेन "तन्निमित्तग्रहणं कर्तव्यमिति" वचनेन 'ऋतेन मित्रावरुणावि'त्यादेः पराङ्गवत्ववारणात् समर्थपरिभाषोपस्थितेस्तत्र प्रयोजनाभावाच्च। 'ऋतेन मित्रावरुणावित्या'दौ -01-0एवच्छतिघटक (L. प्रति) 'आशाथे' इति-क्रियाद्वारकमेव व्यपेक्षालक्षणं सामर्थ्यमिति -0क-0कैयटोक्तं (सुवामन्त्रिते पराङ्गवत्सरे (2-1-2) म.भा.प्र.ख.पृ. 351) तु न युक्तम्। परस्पर व्यपेक्षाया एव -0ख-0भाष्ये (म.भा.प्र.ख.पृ. 332) सामर्थ्यपदार्थत्वेन उक्तत्वात्। अन्यथा 'सर्वो मृत्तिकये'त्यादौ समासपत्तेः। क्रियाद्वारकस्य तस्य सत्वात्। तस्माद् व्यपेक्षालक्षणं सामर्थ्यंयुक्तिभाष्यविरुद्धमिति नाश्रयितुं युक्तम्। ननु 'द्रष्टुं गतश्यैत्रः कृष्णंश्रितो गुरुकुलं मैत्र' इत्यादौ
परस्परापेक्षालक्षणसामर्थ्याभावाद्वयपेक्षवादिमते समासवारणेऽपि एकार्थीभावलक्षण- सामर्थ्यवादिसिद्धान्तिमते तदापत्तिरिति चेन्न-
कृष्णश्रितयोः परस्परसंहबन्धेन आकाङ्क्षामूलकैकार्थीभावस्याप्यसम्भवादिति। -2समासदिः-2 = समाससंज्ञादिः। -2समर्थः-2 = सामर्थ्यवान् यः शब्दः 'राजपुरुषा'दिस्तदाश्रयः। तदेवाहनामेकार्थीभावः सामर्थ्यं - 'वाक्ये पृथगर्थानि -01-0पदानि (P. पादानि) समासे एकार्थनी'ति समर्थ (सू. 2-1-1) सूत्रे -0क-0भाष्यात् (म.भा.प्र.ख.पृ. 332), एकर्थीभावश्च यत्किञ्चित् पदजन्यपृथगुपस्थितिविषयार्थकत्वेन लोकदृष्टानां पदानां विशिष्टविषयकैकशक्त्यैकोपस्थितिजनकत्वम्।।
ननु वाक्यीय - तादृशपदापेक्षया समासीयपदानां भिन्नत्वात् कथं तेषां तत्वमिति चेन्न- तेषां तत्वाभावेऽपि तत्सदृशानां तत्वात्। अथवा कार्यशब्दवादि मते वाक्यादेव वृत्तिर्निष्पद्यते इति बुद्धेस्तत्वम्। च्वि -प्रत्ययनिर्देशस्तु यथा वाक्यीयपदानामसत्वात् तत् सत्ताव्यवहारो गौणः, तथा एकार्थत्वव्यवहारोपीऽति बोधयितुम्। विभक्त्यन्ते एकार्थीभावत्ववारणाय दृष्टानामित्यन्तम्। विभक्तीनां लोके तत्वेन अदृष्टत्वात्। विभक्तिवाच्यार्थवाचकस्य शब्दान्तरस्य अभावाच्च। औपगवादौ तु प्रत्ययानां तत्वेन दृष्टत्वाभावेऽपि अपत्यरूपार्थवाचकस्य अपत्यशब्दस्य उपगोरपत्यमस्तीत्यादौ तत्वेन दर्शनात् सङ्गतिः, एतदर्थमेव यत्किंचित्पदेत्युक्तम्। विशिष्टविषयकशक्त्येति हेतुवचनम्। अत एव -0क-0कैयटोपाध्यायाः (म.भा. प्रदीपः प्र.ख.पृ. 321) "अन्य एव अवयवार्थान्वितः समुदायार्थः प्रादुर्भवतीति तदपेक्षया एकार्थीभाव इत्युच्यते, 'पांसूदक'वदविभागापन्नत्वादि"दिति। अयं बावः वाक्ये यथा पदैः पृथक् पदार्थनां बोधेप्याकाङ्क्षामूलकवाक्यशक्तिवशात् विसेष्यविशेषणभावापन्नविशिर्ष्ट्यप्रतीतिः नैवं वृत्तौ। किन्तु अवयवशक्तिभ्यामाकाङ्क्षामूलकसमुदायशक्तिसहकृताभ्यां नियतोद्बोधकवशात् पदार्थबोध एव जायमानो विशेष्यविशेषणबावापन्नविशिष्टविषयो भवतीति तत्र विशिष्टशक्तिग्रहः। इत्थं 'राजपुरुष'पदं राजसम्बन्धवत्पुरुषादौ शक्तमिति तत्र सा विशिष्टशक्तिः 'प्राप्ताप्राप्तविवेक'न्यायेन सम्बन्धांशे विशेषणत्वाद्यांशे च पर्यवस्याति। राजादेः क्लृप्तावयवशक्त्यैवोपस्थिति- संभवात् आकाङ्क्षामूलकेति विशेषणात् 'नित्यो घट' इत्यादेः न एकार्थीभावेन साधुत्वम्। विशेषणत्वेनोपस्थितघटत्वादेः स्वविशेषणे आकाङ्क्षाबावात्। अत एव तदर्थे नित्यो घट -01-0इत्यादि (L. इति) वाक्यमपि न। इयं च एकारथीभावोपपादिकाविशिष्टशक्तिरलौकिके विदग्रहेऽपिआरोप्यते। पदोद्देश्यकविदिः समाससंज्ञादिः सामर्थ्यवदाश्रित इत्यर्थक "समर्थः पदविधिः" (सू. 2-1-1) इति शास्त्रबलात्। समाससंज्ञारदि श्चालोकिके एव। अत एव तत्र समाससंज्ञायामर्थवत्वनिबन्धनप्रातिपदिकत्वे विभक्तिलुकसिद्धिः। "षष्ठी" (सू. 2-12-8) त्यादि शास्त्रवलेन -02-0अभेदोपस्थितिनिबन्धनषष्ठ्यादि-निर्वाहाय (P. भेद) अलौकिके वाक्ये पृथगर्थवत्वमप्यारोप्यते। उभयोरपि काल्पनिकत्वेन विरोधाबावः सास्त्प्रामाण्यात्। इदं च वृत्तेर्विशिष्टशक्तिमत्वं लोकसिद्धमेव, सास्तेरे अर्थविधानाभावात्। "अचतुरविचतुरे"त्यादावर्थादर्शनाच्च। (पा.सू. 5-4-77) "चार्ते द्वन्द्व" (सू. 2-2-29) इत्यादि तु चार्थे लोकसिद्धां वृत्तिमनूद्य द्वन्द्व संज्ञामात्रविधायकम्। अन्यथा अनेकं सुबन्तं चार्थे वर्तते, तच्च द्वन्द्वसंज्ञकम् इति वाक्यबेदापत्तेः। किंच स्वसमानार्थकवाक्यानिवृत्तये विभाषाधिकारस्यापूर्वस्य -01-0करणे गौरवं, (L. कारणे) मम तु एकार्थीभावे समासो, व्यपेक्षायां वाक्यमिति शास्त्रकृत्कल्पितसिद्धार्थानुवाद एव सः। अस्मिंश्च स्वाभाविकत्वपक्षे -0क-0श्रोत्रियादिशब्दवदखण्डा (श्रोत्रियक्षेत्रियादीनां ---- वा.प. III. वृ.ल. 54) नित्याः शबादः। तदन्वाख्यानाय कल्पिते रेखागवयस्थानीये शास्त्रप्रवृततिः। तदुक्तं
"अबुधान् प्रत्युपायाश्च विचित्राः प्रतिपत्तये।
शब्दान्तरत्वादत्यन्तं भेदो वाक्यसमासयोः।।" (वा.प.III. वृ.स. 49) इति। एतत् पक्षाश्रयणादेव गोरथादौ युक्तादीनां लोपाविधानं शास्त्रकर्तुः। 'गो यक्तो रथ' इति लोकिकं वाक्यं तु समासस्य पर्यायरूपम्।
"पदं यथैव वृक्षादिविशिष्टेऽर्तेव्यवस्तितम्।
नीलोत्पलाद्यपि पदं भागाभ्यां वर्तते तथा।।" (वा.प. III. वृ.स. 53) इति। -2भागाभ्यां-2 = कल्पिताभायां।। सादृश्यमूलकस्तु -02-0बालानामभेदे (P. भेद) ब्रमो वाक्यस्थान्येवेमानि पदानि समासघटकानीति। एतन्मूलक एव ेकार्थीभाव इति व्यवहारः। अत्र पक्षे पदानां पृथगर्थस्वभावत्वेन तदभावे स्वभावभङ्गापत्तेः।
तथा रूढ्यरूढिविभागोऽपि क्रियते प्रतिपत्तय (वा. प. III. वृ.स. 55) इति। सास्त्रकृद्भिः अबुधानामिति शेषः। तत्र 'पङ्कजादौ' वाक्यार्तावगमात् अर्थान्तरबोधाच्च योगरूढिः। 'सप्तपर्णमि'त्यादौ क्वचित् अर्थानुगमेऽपि शीर्णपर्णे तदभावाद् रूढिरेव। 'राजपुरुषा'दौ च वाक्यार्थानुगमाद् यौगिकत्वमित्यादि काल्पनिकः प्रतिपादनोपाय एवेति तात्पर्यम्। एतेन
अखण्डत्वपक्षे वाक्ये 'पृथगर्थानि पदानि समासे एकार्थानी'त्युक्तबाष्यविरोधः। पदानामेव असत्वादित्युक्तिः परास्ता। प्रक्रियादशायां रेखागवयस्थानीय सब्दसत्वेऽपि वाधकाभावात्। यत्तु "समर्थ" (सू. 2-1-1) इति सूत्रे इतरनैरपेक्ष्यमपि सामर्थ्यम्। पदविधिशब्देन पदोद्देश्यको विधिः समाससंज्ञादिः पदत्वसंपादको विधिः "कर्तृकरणयोस्तृतीये" (सू. 2-3-18) त्यादिश्च। तेन पदोद्देश्यकविधिविधेय समासादिरेकर्थीभावरूपसामर्थ्याश्रित -01-0इत्यर्थवत्-पदत्वसंपादक-विधिविधेयतृतीयादिरितरनिरपेक्षत्वरूपसामर्त्यार्थक (L. सामर्थ्यर्थक) इत्यप्यावृत्या सूत्रार्थः। तेन 'व्रीहिभिर्यजेते'त्यादावितरनिरपेक्षै 'व्रीहिभिर्यजेत' इत्याद्यर्थसिद्धिरितरच्चा-सजातीयमेव गृह्यते। तेन 'चक्रेण दण्डेन घटं करोती'त्यादीनां नासाधुतेति तन्न -
बाष्यानुक्तेः। 'पस्यमृगो धावती', 'पचति भवति' इत्यादौ त्वदुक्तसामर्थ्यप्रत्यायकविभक्त्यभावेऽपि विसे,णस्य अन्ययोगव्यवच्चेदफलकत्वेन न्यायत एव इतरनिरपेक्षकर्मत्वादिबोधस्येव 'व्रीहिभि'रित्यादावपि तस्य संभवेन फलाबावाच्च। साजात्यस्य निर्वक्तुमशक्यत्वाच्चेति। "कृत्तद्धिते" (सू. 1-2-46)ति कृतामुपपदनिमित्तकत्वेन पदोद्देश्यकविधित्वा्त् समर्थपिरभाषोपस्थितौ एकार्थीभावविषये एव तत्प्रवृत्तेः। अत एव "महान्तं कुम्भं करोतीत्यत्राण् नेति" -0क-0"तत्रोपपदमि" (म.भा.द्वि.ख.पृ. 120) (सू. 3-1-92) त्यात्र भाष्ये स्पष्टम्। पाचकादिशब्दानामपि क्रियाकारकभावसम्बन्धमूलकक्रियाप्रवृत्तिनिमित्तकत्वव्यवहारात् सम्बन्ध प्रवृत्तिनिमित्तकत्वस्य वृत्तावेव दर्शनादित्येतावतैव वृत्तित्वम्। अत एव व्यापारान्वयविवक्षाया'मादिः पचती'तिवत् 'आदिः पाचक' इति न, सुबन्तात् तद्धितोत्पत्तेः। पदविधित्वात् परिभाषाया एकार्थीभावे एव प्रवृत्तिः। तद्धितान्तेन सुन्दरस्योपगोरपत्यमित्यर्थे ' सुन्दरस्यौपगव' इत्यादिना समासस्य पदोद्देश्यक विधित्वं स्पष्टमेव। एकशेषस्यापि वृत्तित्वं वृत्यपवादत्वेन गौणम्। पृथक् पदोपस्थितार्थानाम् एकार्थीरूप - एकार्थीभावस्यात्राभावात्। सनाद्यन्तधातौ तु सनादीनां पदोद्देश्यकविधित्वाभावेऽपि "वा -वचनानर्थक्यं नित्यत्वात् सनः इह द्वौ पक्षौ वृत्तिश्चेति" -0क-0भाष्याद् (समर्थः पदविधिः (सू. 2-1-1) म.भा.प्र.ख.पृ. 327) "वृत्तेरेकार्थीबावविषयत्वाद्वाक्यस्य व्यपेक्षाविषयत्वाद्बिन्नार्थत्वेन बाध्यबाधकभावाप्रसङ्ग" इति -0ख-0कैयटाधैकार्थीभावस्तेन (म.भा.प्र.ख.पृ. 327) 'पिपठिषति' -गन्तुमित्यादिनेति। वस्तुत एकशेषस्य वृत्तित्वं नास्तीति चतुर्द्धैव तल्लक्षणं चोक्तं -
"वैश्यायां क्षत्रियाज्जातो माहिष्यो वैसुतः स्मृतः।
वैश्याच्छ्द्रासमुत्पन्नः करिणः पुत्र उच्यते।।
माहिष्यात्सुतरूत्पन्नः करिण्यांरथकारक इति।।" -2तत्कल्पनां-2 = समुदायशक्तिकल्पनां।। -2न्यायसिद्धमेव सूत्रमिति-2।। एकार्थीभावलक्षणसामर्थ्यवादिनो मममते इत्यर्थः।। -2पदार्थैकदेशतयाऽन्वयेति-2।।
ननु पदार्थैकदेशत्वेपि तस्य राजपदार्थत्वमस्तीति स्यादेव सिद्धान्तेऽपि विशेषणादियोग इति चेन्न- विशेषणान्वये विसेष्यस्य इतरविशेषणत्वविषयकशक्तिग्रहाविषयत्वस्य तन्त्रत्वेन विसेष्यस्य इतराविशेषणत्वेन ज्ञानस्य तन्त्रत्वेन वाऽदोषात्। एतन्मूलिकैव 'पदार्थः पदार्थेनान्वेति; न तु पदार्तेकदेशेने'ति व्युत्पत्तिः। वस्तुतो वृत्तौ विशेषणे विशेषणान्तरान्वयरूपविशेषस्य नैकार्थीभाव कृतत्वम्। एकार्थीभावाभावयोः सतोरपि 'देवदत्तस्य गुरुकुलम्' 'घट' इत्यादौ विसेषणयोर्गुरुघटत्वयोर्विसेषणान्तरान्वयतदभावयोर्दर्शनेन व्यभिचारात्। भाष्यानुक्तेश्च। यत्तु एकार्थीबावकृत एवायं विशेषः। देवत्तस्य गुरुकुलमि'त्यादौ तु नित्यसापेक्षत्वान्नित्यसापेक्षस्थले च प्रकारद्वयस्यान्यत्र प्रतिपादितत्वाद्वृत्तिः। 'राजपुरुष' इत्यादौ राजादेः सम्बन्ध्यन्तरेण नित्यसापेक्षत्वाभावाद्विशेषणस्य सविशेषणत्वेन वृत्तिरिति तन्न- शिवो भगवान्भक्तिरस्येत्यर्थे 'शिव -भागावत' इति प्रयोगे -01-0भक्त्तार्थे (p. भक्तर्थे) वृत्तिर्नस्यात्। भगवच्छब्दस्य नित्यसम्बन्ध्यन्तरसापेक्षत्वाभावात्। तस्मात् गमकत्वे वृत्तौ विसेषणसम्बन्दो नागमकरत्वे -02-0इत्येव ( L. इत्येवं) युक्तम्। गमकत्वं च तथा बोधजनकत्वमिति तत्र तत्र भाष्ये स्पष्टमिति बोध्यम्। -2अत एव-2 = न्यायसिद्धत्वादेव। -2स वक्त्व्य इति-2 = वचनैः साधयितव्य इत्यर्थः।।5।। (32)
मूले न्यायसिद्धत्वम् अस्माकमिति (वै.सि.का. 33)।। अयं भावः वृत्तौ समूहलक्षणैकार्थप्रादुर्भावद्बेदस्य निवृत्या -01-0भेदनिबन्धनसमुच्चयरूपस्य (L. स्य) च -02-0द्येत्यस्याभावेन (L. द्योत्यस्य --- द्योत्यतया - न दृश्यते) द्येतकस्यापि चादेरप्रसङ्गः। एतस्यापि एकार्थीभावकृतत्वमेव। पृथगुपस्तितयोरेव समुच्चयस्य च द्योत्यतया पृथगुपस्थितेश्चैकार्थीभावबलादसत्वेन तदभावात्। लोकेऽपि पृथग्ज्ञातयोरेव एकदेशस्थत्वे समूहव्यवहारात्। यत्तु समासेन च अर्थस्याभिहितत्वादु'क्तार्थानमि'ति न्यायेन तदप्रयोग इति मूलार्थ इति तन्न-
समासेन सत्वभूतस्य समूहस्य विसेष्यतयाऽभिधानेऽपि असत्वभूतस्य तस्य विसेषणतया बोधार्थं चप्रयोगस्य
दुर्वारत्वात्। न च चार्थस्य असत्वभूतस्य समासेन अनभिधाने "चार्थे द्वन्द्व" (सू. 2-2-89) इत्यनुपपन्नम्। ततस्तादृशाभिधानस्यैव लाभादिति वाच्यम्। समासेनाबिदीयमानसमूहे चार्थत्वस्य सादृश्यात् आरोपेण उपपत्तेः। द्वन्द्वाद्यथा सखण्ड़ाऽखण्डपक्षयोः -01-0समूहबोधस्तथा (P. समूहे) प्रतिपादितं प्राक्।। -2इवादीनामिति-2।। श्वादेः सादृश्यद्योतकतया सादृस्यभेदनिबन्धनत्वेन एकार्थीभावबलात् भेदस्य तिरोधानेन न तन्मूलकसादृश्यद्योतकेवादिप्रयोगो वृत्तौ। वाक्ये तु भेदेनोपस्थितेः सत्वादिव चादिप्रयोगो भवत्येवेति भावः।। -2पूर्वोक्तानां चेति-2।। 'निष्कौसाम्बिरि'त्यादौ क्रान्तादीनामित्यर्थः। वस्तुतः क्रान्तादीनां वृत्तौ प्रयोगाभावोनैकार्थीभावकृतः भाष्यानुक्तत्वात्। एकोपस्थितिजनकत्वरूप - एकार्थीभावकृतत्वस्य क्रान्तादिलोपेऽसंभवाच्च। कथं तर्हि वृत्तौ तदप्रयोग इति चेत् - निरादिपूर्वपदानां वृत्तौ क्रान्ताद्यर्थवृत्तित्वेन पदैकदेशन्यायेन वा तत एव तदर्थबोधादुक्ता'र्थानामि'ति न्यायेन तदप्रयोगस्य सिद्धत्वात्। 'गोऽस्वादे'श्च समुदायस्य जातिविशेषे रूढिस्वीकारान्न देषः। स्पष्टं चेदं "संख्याव्ययादेरि" (सू. 4-1-26)ति सूत्रे भाष्ये इति बोद्यम्।
-2न च तत्र लक्षणेति-2।। उत्तरपदस्य अन्यपदार्थे इति शेषः।
न चोत्तरबूतेन गोपदेनैव गोस्वामिलक्षणायां गोपदार्थे चित्रपदार्थानन्वयप्रसङ्गः तस्यैकदेशत्वादिति वाच्यम्। चित्रपदस्य तात्पर्यग्रहकतया गोपदेनैव चित्रगोस्वामिलक्षणान्नदोषः।। -2प्राप्तोदेति-2।। एवमपीत्यादिः। -2तदसंभवात्-2 = लक्षणासंभवात्। तमेव दर्शयति- -2प्राप्तिति-2 - -2इतिबोदोत्तरम्-2 = इति शक्यार्थबोधोत्तरम्।। -2तत्संबन्धिग्रामेति-2।। तादृशोदकस्य ग्रामे सम्बन्धस्च स्वकर्तृकप्राप्तिकर्मत्वम्। -2इत्यर्थलाभादिति-2।। प्राप्तिकर्त्रभिन्नोदकसम्बन्धीग्राम इति बोधस्यैव तन्मते आपत्तेरिति भावः।। -2कर्मेति स्यादिति-2।। 'संभवति सामानाधिकरण्ये वैयधिकरणस्य अन्यायत्वादि'ति भाव। तदेवाह -2अन्यतेति-2।। अभेदानङ्गीकारे इत्यर्थः।
ननु प्राप्तेति कर्त्रर्थक- क्तप्रत्ययेन कर्मलक्ष्यते। प्राप्तौ चोदकस्य कर्तृतारूपबेदसंबन्देनान्वयः। नामार्थयोरिति व्युत्पत्तेस्च प्रकृते संकोचोस्त्वत आह - प्राप्तेरिति।। -2अन्वयासंभवाच्चेति-2 - नामार्थधात्वर्थयोर्विभक्त्यर्थमद्वारीकृत्य भेदेनान्वयासम्भवादित्यर्थः। तथैव कार्यकारणभावात्। 'शोभनं पचति' इत्यादौ तयोस्तदद्वारीकृत्याप्यन्वयाद्बेदेनेति।। -01-0-2अन्यथा-2।। (L. अन्यथा - नास्ति) कर्तृतासम्बन्धेन नामार्थस्य धात्वर्ते अनवयाङ्गीकारे। -2अनन्वयानापत्तेरिति-2।। तथा च एषः प्रयोगः स्यादिति भावः। इदमुपलक्षणं कर्त्रर्थक तस्य कर्मणि लक्षणायामुदकरूपकर्तुरनुक्तत्वेन ततस्तृतीयायां वैयधिकरण्याद् बहुव्रीह्यनापत्ते रित्यपि बोध्यम्। -2नामार्थत्वेन-2 = नामजन्यप्रतीतिविशेष्यार्थत्वेन। नामार्थयेरिति व्युत्पत्तौ नामजन्यप्रतीतिविशेष्यार्थयोरित्यर्थात्। (-2अनन्वया--2 )-2पत्तेश्चेति-2।। -0क-0'सत्वप्रधानानि नामानी'त्यस्य (निरुक्तम् - अ. 1. पा.1.)भङ्गापत्तेः। त्वन्मते प्राप्तेर्विशेष्यत्वेन विसेषणे कर्तर्येकदेज्ञत्वेन उदकान्वयासम्भवस्चेत्यपि बोध्यम्।। 6।। (33)
-2चित्रादिमात्रस्येति-2।। द्विविधबोधापत्तावयं हेतुः चित्रपदस्य लक्षणायां चित्रपदशक्यार्थस्य लक्ष्यैकदेशत्वेन न तत्र गोपदार्थान्वयः, 'पदार्थः पदार्तेने'ति व्युत्पत्तेः। एवं गोपदस्य लक्षणायामपि गोपदशक्यार्थस्य लक्ष्यैकदेशत्वेन न तत्र चित्रपदार्थान्वय इति भावः। आदिभ्यां गोपदचित्रपदार्थयोः सङ्ग्रहः।। -2चित्रगविति-2।। चित्राभिन्नगवीत्यर्थः। चित्रपदं तात्पर्यग्रहाकमिति भावः।। -2साक्षात्सम्बन्ध एवेति-2।। गोपदस्य द्रव्य वाचकत्वेन तदजर्थस्य विसेष्यत्वात् तद्वारैव चित्रादि गुणान्वयादिति भावः।। -2यौगिकानां-2 = प्राप्तादि पदानाम्।।
-2बोधावृत्तीति-2।। उदककर्तृकप्राप्तिकर्मेति बोधावृत्तीत्यर्थः।। -2परस्परमिति-2।। उदकादिपदसमभिव्याहारे प्राप्तदिपदमेव लक्षणया उदककर्तृकप्राप्तिकर्मेत्यर्थकमित्यर्थः।। -2तादवस्थ्येनेति-2।। प्राप्तपदसमभिव्याहारे, उदकपदस्य वा उदकपदसमबिव्याहारे प्राप्तपदस्य वेत्येवं विनिगमनाविरह तादवस्थ्येन नैकमपि सिध्यतीत्यर्थः।
न च विनिगमनाविरहेण [सिध्यदु] उभयं पर्यायेण सिध्यतीति(स -)मदभीष्टसिद्धिरिति वाच्यम्। तातापि श्रोतुः पर्यायेण बोधद्वयापत्तेः।
प्रत्ययार्थानुरोधात् = तदर्थान्वयानुरोधात्। -2सन्निहितपदार्थेति-2।। पूर्वपदार्थेति पूरणीयम्। अन्यता 'राक्षः पुरुष' इत्यादौ षष्ठ्यर्थस्य पुरुषेऽन्वयापत्तेरिति वक्ष्यते। -2एवं हि-2 लक्षणया चरमपदे एव विशिष्टबोधकत्वस्वीकारे हि। असम्भवमेवाह - -2अनेकमिति-2 (विरोधादिति) [विधानादिति -] इदमुपलक्षणं 'सर्वक' इत्ायदौ प्रत्ययस्य मध्यवर्तित्वेन व्यबिचारात्। 'दधि बहुपटुर्ददाती'त्यादौ दध्नि बह्वर्थान्वयापत्तेः। पटुपदार्थेऽन्वयानापत्तेश्च। 'दधि इय'द्ददातीत्यादौ दध्नि वतुवर्तान्वयापत्तेश्चेत्यपि बोध्यम्।।
उक्तयुक्त्याह --2किञ्चेति-2।। शङ्कते - एवं -2सतीति-2।। -2इत्यन्यत्र विस्तर इति-2।। उक्तरीत्या घटादि लक्षणया
विशिष्टार्थप्रतीतिः। 'प्रत्ययानामि'ति व्यु(त्प)त्ति विरोधोपि [न -] पूर्वपूर्ववर्णानां तात्पर्यग्राहकत्वेनोपयोग इत्यस्याप्यापत्तिर्बोध्या। इष्टापत्तौ तु एवं सर्वत्र निर्वाहेण विशिष्टकथोच्छेदापत्तेः।
ननु घटादिपदेऽवयव -तल्लक्षणाद्यनानतामपि बोधात् तत्रस्तु विशिष्टशक्तिरिति चेत् समं - वृत्तावपि। वृत्ताववयवलक्षणाज्ञानात्कस्याचिद् बोदेऽपि न तत्र सादुत्वं नापि धर्मः "अनेकमि" (सू. 2-2-24) ति सूत्रविरोधात्। सूत्रे लाक्षणिकार्तान्वाख्यानस्य क्वाप्यदृष्टत्वात्। व्याकरणस्य शक्तिग्राहकत्वभङ्गापत्तेश्चेत्यन्यत्र विस्तरः।। -2क्लुप्तशक्त्योपपत्तिरितीति-2।। क्लुप्तावयवशक्त्योपपत्तिरिति व्युत्पत्तित्याग इत्यर्थः।। -2व्यपेक्षावादिनो-2 = व्योपेक्षा वाद्यनुयायिनः। भाष्यसिद्धव्यपेक्षावदिनां पक्षस्तु प्रागभिहितः।
न च राजपदस्य राजसम्बन्धिनि लक्षणायां रुरुषपदेन कर्मधारयापत्तिरिति वाच्यम्।
समासघटकपदार्थस्य विशेष्यत्वे सति यत्र अलौकिके विग्रहे पदद्वयेऽपि एकविभक्तिनिर्देशः तत्रैव कर्मधारयस्वीकारात्। सत्यन्तेन 'चित्रगुः' -01-0'पञ्चफली'त्यादेः (P. मूली) व्यावृत्तिः तत्रान्यपदार्थसमाहारयोः विसेष्यत्वेन समासघटकपदार्थस्य विशेष्यत्वाबावात्।। -2अत एव-2 = राजादिपदस्य तया विशिष्टार्थकत्वादेव।। -2उक्त्यर्थकतयेति-2।। -02-0घञादिपदस्य (P. द्यदिन) तत्सदृशादौ लक्षणयेति बवः।। -2राजसंबन्धवानिति-2।। संसर्गस्यापि षष्ठ्यर्थस्य प्रकारतयैव भानमिति सिद्धान्तरीत्या अयं बोधः। युक्तश्चायं न तु -03-0स्वत्वसंबन्धेन (P. स्वत्वसम्बन्धिन) राजवानित्यन्यत्र स्पष्टम्। -2तेभ्यः-2 = पङ्कजादिपदेभ्यः।।
-2न चेति-2 = न हीत्यर्थः। अत्र पङ्गजादिपदे। शक्त्यग्रहे = अवयवशक्त्यग्रहे।। -2लक्षणायेति-2 (लक्षणयेति -)।। लक्षणायाः शक्यसम्बन्धरूपत्वेन शक्तेरग्रहे तस्या अपि अग्रहणादित्यर्थः।। -2सम्भवतीति-2।। अतस्तेषु विशिष्टशक्तिस्वीकार इति शेषः। -2अत एव-2 = शक्त्यग्रहे लक्षणाया अग्रहादेव। नापीत्येतद्वाच्यमित्यनेनान्वयि।। -2उदकपदे-2 एवेति।। उदकपदं स्वकतर्तृकप्राप्तिकर्मणि लाक्षणिकं, प्राप्तपदं च तात्पर्य ग्राहकनिमित्तमित्येतत् तात्पर्यम्।। -2सन्निहित-2पदार्तेति।। सन्निहितपूर्वपदार्थेति पूर्ववद्वयाख्येयम्।।
नैयायिकः स्वमतेनाह - -2अतिरिक्तेति-2 = बोधकत्वातिरिक्तेच्छादिरूपेत्यर्थः।। -2विशिष्टे-2 = घकार-अकार-टकार-टकारविशिष्टे। मूलरीत्याप्याह - -2बोधकत्वेति --2 असत्वात् - अननुबवात्।। -2सा-2 = लक्षणा। अभ्युपेत्याप्याह -स्वीकृतञ्चित = मतान्तरीयलक्षकत्वस्याप्युपलक्षणमिदम्। -2अर्थवत्वाभावेन-2 = वृत्याऽर्तोपस्थापकत्वाभावेन। एकदेसस्य लक्षणारूपवृत्तिमत्वेऽपि समासस्य वृत्तिमत्वाबावादित्यर्थः। साः प्रातिपदिकसंज्ञा।।
ननु समासस्य लक्षणया -01-0विशिष्टार्थोपस्थापकत्वेनास्त्येव (L. सनेच) निरुक्तार्थवत्वमित्यत आह - समासवाक्ये इति।। समासरूपवाक्ये इत्यर्थः। 'शक्तं पदं', 'पदसमूहो वाक्यमि'ति तैरभिधानात्तद्रीत्यैवेदम्। वस्तुतः पदस्यपि एकस्य वाक्यत्वं 'पदैकदेश'न्ययेन प्रागबिहितमिति बोध्यम्।। (-2नियमा-2)-2र्थमास्त्विति-2।। वाक्यवारणायेत्यर्थः।। -2अर्थवत्ववश्यकत्वेन-2 = तद्बोधकपदावश्यकत्वेन।। -2अनुमापयतीति-2।। तच्च विशिष्टशक्तिं विननाऽनुपपन्नमिति वाक्यशेषः। इदमुपलक्षणम् 'कण्ठे कालो' 'दास्याः पुत्र' इत्यादावलुकि विभक्तेः श्रवणेन लक्षणायां मानाभावेन तत्र विशेषणान्वयाद्यापत्तेः।
न च तत्रापि दासीपदस्य तत्सम्बन्धिनि लक्षणेति वाच्यम्।
दासीसम्बन्धिसम्बन्धीति बोदाननुभवात्। विभक्त्न्तस्य तु न लक्षणा; तवमते शक्त्यभावात्। विभक्त्यर्थस्य पदार्थस्यापि त्वन्मते संसर्गतयैव भानाच्च।। लक्षणानिदानस्य रूढिप्रयोजनयोरन्यतरस्याभावाच्चेत्यपि बोध्यम्।
यत्तु समासे सर्वत्र अवैरुप्याय उत्तरपदे एव लक्षणा प्रातिपदिकत्वमपि तस्यैव 'राजपुरुष' इत्यादौ कर्मधारय शङ्गापि नेति मतं तद्दूषयति - -2किञ्चैवमिति-2 = उत्तरपदे लक्षणाङ्गीकारे इत्यर्थः।। -2अनन्वयापत्तिः-2 = स्वामिनीति शेषः। -2प्रकृतित्वादिति-2।। इदमुपलक्षणं तन्मात्रस्य प्रातिपदिकत्वे पूर्वपदस्थसुपो लुगनापत्तेः। उत्तरपदमात्रस्य प्रत्ययान्तत्वेन अप्रत्यय इति निषेधात् प्रातिपदिकत्वासंभवाच्च। तात्पर्यग्रहकत्वेनाभिमतचित्रादिपदवाच्यार्थप्परितस्य चित्राभिन्नगोरूपार्थस्य चित्राभिन्नगोस्वामीति -01-0लक्ष्यार्थघटितत्वेन (P. लभ्यार्थे) चित्रपदादेस्तात्पर्यग्रहाकत्वस्य 'चित्र'गुरित्यादौ क्लृप्तस्य प्राप्तोदक इत्यादौ भङ्गापत्तेश्च। तत्र तात्पर्यग्राहकत्वेन अभिमत प्राप्तादिपदवाच्यार्थघटितत्वेन प्राप्ताभिन्नोदकार्थेन उदककर्तृकप्राप्तिकर्मलक्ष्यार्थस्य अघटितत्वात्। तात्पर्यग्राह्यकत्वं च स्वघटितवाच्यार्थ(द-) ता -02-0दशायां (P. दृशायां) यादृशो विसेष्यविसेषणबावापतन्नो वाच्यर्थबोधे, लक्षणादशायां विशिष्टशक्तिदशायां वपि तादृश- विसेष्यविशेषणभावपन्नबोधोद्बोधकत्वम्। अस्ति चेदं प्रजयती त्यादौ प्रसब्दादेः। -01-0प्रकृते (L. कृते) च तस्याभावादित्यपि
बोध्यम्। -2व्यभिचारादिति-2।। 'अर्धपिप्पली'त्यादौ 'पिप्पली' शब्दस्य पिप्पलीसम्बन्धिनि लक्षणया सम्बन्धित्वेनार्तोपस्थितावपि अर्धत्वेनार्धपदार्थस्य अर्धपदादेवोपस्तित्या तस्यैव प्राधान्येन विभक्त्यर्थान्वयित्वात् तस्य च प्रत्ययासन्निहितत्वाद् व्युत्पत्तेर्व्यभिचारादित्यर्थः। 'अर्धपिप्पली'ति समुदायभूतपूर्व पदग्रहणे तु नायं व्यभिचार इति बोध्यम्।
नन्वस्तु प्रत्यानां सन्निहितेत्यादिरेव व्युत्पत्तिः, परं प्रकृतित्वं न निवेश्यते। ततश्चार्धपिप्रलीत्यादावृत्तरपदस्य लक्षणया विशिष्टार्थबोधकत्वेन तस्माच्च प्रत्ययानुशासनेन न अनुपपत्तिरित्यभिप्रायेणाह- न चेति।। वाच्यमित्यनेनान्वयि।। -2तत्रापीति-2।। 'अर्धपिप्रप्पली'त्यादावपीत्र्थः। आनुशासनिक विधिमेवाह - तथाचेति।। न चैतत् व्युत्पत्तौप्रकृतित्वा निवेशे 'राज्ञः पुरुष' इत्यादौ पुरुषे षष्ट्यर्थान्वयापत्तिरिति वाच्यम्। प्रत्ययानां सन्निहितपूर्वपदार्थगतेत्याद्यर्थस्य विवक्षितत्वात्।।
।। -2अनुशसनादिति-2।। तथा च त्वदुक्तरीत्यापि तद्दूरापास्तमिति भावः। 'धवखदिरावि'त्यादौ -01-0धवे (L. 'धवे --- वृत्तेरावश्यकत्वाच्च' - नावलोक्यते) द्वित्वानन्वयापत्तेश्च। तत्र लक्षणायाः अस्वीकारात्।
ननु यदुक्तं यः प्रत्ययः अनुशिष्टः स तद् घटकार्थतदर्थैतदन्यतरगतस्वार्थबोधक इति धवरवदिरा वित्यादौ न दोषः, योग्यतादेर्नियामकत्वाच्च। "अर्धपिप्पली" 'राजरुरुषं पश्ये'त्यादौ न दोष इति चेन्न-
व्युत्पत्यन्तरकल्पने गौरवात्। एरूपेण एक्रियान्वयसमनियतसमस्यामानपदार्थसमूहबानानुरोधेन वृत्तेरावश्यकत्वाच्च। अत एवात्र विग्रहे -02-0इव (P. एव) चादि प्रयोगो न।
नन्वस्तु 'प्रत्ययानां प्रकृत्यर्ते'त्यादिरेव व्युत्पत्तिः, परं तत्र प्रकृत्यर्थेत्यत्र प्रकृतित्वाश्रयत्वं न पर्याप्तिसंबन्धेन; अपि तु स्वरूपसंबन्धेन। तच्च समूहावयवसाधारणमिति ना'र्धपिप्पली'त्यादौ दोष इति अभिप्रायेणाह - अभेति।। -2प्रकृतित्वश्रये-2 = प्रकृतित्वाश्रयार्ते।। अन्वयप्रसङ्गादिति।। लक्षणां विनापीति बावः। विशिष्टवाचकस्यावयवे लक्षणायां तु इष्टापत्तिरेव। विसेष्यभूतप्रकृतित्वाश्रयार्ते विभक्त्यर्थान्वय इति कल्पनयोक्तदोषोद्धारमाशङ्क्ते - -2न चेति-2।। -2प्रसङ्गादिति-2।। यदि तु प्रत्यासत्य तत्प्रत्ययनिरूपित प्रकृतित्वाश्रयार्थे विसेष्यभूते तत्प्रत्ययनिरूपित प्रकृतित्वाश्रयार्थे विसेष्यभूते तत्प्रत्ययार्थान्वय इत्युच्यते। तदा 'पाकान्नील' इत्यादौ न दोषावकाश इत्यवाधेयम्। यत्तु प्रकृतित्वं प्रत्ययाव्यवहित पूर्वपदत्वं तच्च 'चित्रग्वा'दौ पदेऽस्तीति लश्रणया तदर्ते विभक्त्यर्थान्वय इति तदसम्यक्। पूर्वपदार्थप्रधानतत्पुरुषेऽ'र्धपिप्पली'त्यादावनिस्तारात्। तत्र उत्तरपदे लक्षणायामप्यर्धत्वेन -01-0अर्धपदेर्थे (L. पदार्थो) विभक्त्यर्थान्वयानापत्तेः। 'बहुपटुः, सर्वक' इत्यादौ पटु - सर्वशब्दादावव्याप्तेः 'दधि इयद् ददाति', 'दधि पटुर्ददाती' त्यादौ दध्यादि पदे तत्प्रकृतित्वातिव्याप्त्यापत्तेश्च। 'व्यतिसे' इत्यत्रोपसर्गस्य तिङ्प्रकृतित्वापत्तेश्च। तस्मात् प्रत्ययविधानावाधित्वमेव प्रकृतित्वं तज्जन्यज्ञानविशेष्यत्वं च प्रकृत्यर्थत्वं तच्च न समासादौ उत्तरपदमात्रस्य, नापि लक्ष्यार्थस्य -02-0तदिति तस्य लक्षणायामप्यनिर्वाह इति। न चा (न्य-)स्तु प्रकृतित्वं सिद्धान्तयुक्तमेव तदर्थत्वं तु (P. तल्लक्ष्यार्थत्वंतु) तज्जन्यज्ञानविषयत्वमात्रं न तु विशेष्यत्व पर्यन्तं तेन 'अर्धपरप्पली', 'पाकान्नील' इत्यादौ न दोष इति मतं तद्भूषयति - -2यच्चेति-2।। -2तज्जन्येति-2 = प्रकृतिजन्येत्यर्थः।। -2तच्चात्रेति-2 = 'पाकान्नील' इत्यादौ 'चित्रगुरि'त्यादौ च सर्वत्रेत्यर्थः।। -2अविरुद्धमिति-2।। विषयतायः प्रकारविशेष्य साधारणत्वादिति भावः।। -2समवायेनेति-2।। पदानां समवायसंबन्धेन आकाशवृत्तित्वादिति भावः।। -2वृत्या प्रकृत्यर्थत्वस्येति-2।। विशिष्टायाः प्रकृतेः शक्तिलक्षणयोस्त्वया अस्वीकारेण वृत्या तादृशप्रकृतिजन्यार्थज्ञानाभावेन -01-0तवमतेऽसंभवः (L. संभवः) स्पष्ट एवेति भावः। सिद्धान्तरीत्या विशिष्टे शक्तिं स्वीकृत्य वृत्या तादृशविसिष्टप्रकृति जन्यज्ञानविषयत्वस्वीकारे तु 'पङ्कजं' 'राजपुरुषं पश्ये'त्यादौ पङ्कादौ विभक्त्यर्थन्वयापत्तेः।।
-2कृष्णो दण्डेनेतिह-2।। प्रत्ययः कृष्णपदोत्तरं सु प्रत्युयः, तत्प्रागावर्त्तिपदं कृष्णपदं, तजजन्योपस्तिति विशेष्यत्वरूपप्रकृत्यर्थत्वस्य कृष्णे सत्वात् तत्र तृतीयार्थान्वय - प्रसङ्गः इत्यर्थः। यदि च प्रत्यासत्या यत् प्रत्ययार्थान्वयश्चिकीर्षितस्तत्प्रत्ययाव्यवहितप्राग्वर्त्तिपदजन्योपस्तिति विशेष्यत्वं प्रकृत्यर्थत्वमिति परिष्क्रियते। तदोक्तदोषोद्धारेऽपि 'बहु पटुः सर्वक' इत्यादौ अव्याप्तिर्बोध्या।। -2समसयामानपदार्थगतेति-2।। समस्यमानपदविशेष्यभूतार्थगतेति विवक्षणीयम्। अन्यथा 'राजपुरुषं पश्ये'त्यादौ विसेषणीभूतराजपदार्तोऽपि विभक्त्यर्थन्वयापत्तेः।। -2इति जदिगिति-2।। प्रातिपदिकात्कर्मत्वादौ स्वादय इति शास्त्रतः प्रत्यासत्या लब्धायाः -01-0प्रत्ययानां (L. प्रवृत्यया।) प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः, तल्लब्धस्य परस्परप्रकृतिप्रत्ययार्थान्वये एव तयोः साधुत्वस्य च भङ्गापत्तिः दिगर्थः।।
-2प्रातिपदिकार्थप्रकारकेति-2।। भेदसंसर्गकेत्यपि पूरणीयम्। तेन 'स्तोकं पचती'त्यादौ -02-0स्तोकादि (L. स्वोकादि --- तद्विहितेत्यादि - न दृश्यते) प्रातिपदिकार्थस्याभेदेन विबक्तिजन्योपस्तितिं विना धत्वर्थे अन्वयेपि न क्षतिः।। -2विभक्तिजन्येति-2।। तद्विहितेत्यादि। यत्तु तद्विहितप्रत्ययजन्योपस्तितेर्हेतुत्वमिति तत् पुरुषपदस्याप्यर्थप्रत्यायकत्वेन
प्रत्ययत्वादसमञ्जसम्। संकेतविसे,सम्बन्देन प्रत्ययपदवत्वमिति तु त्रयी शब्दा नाम् -03-0प्रवृत्तिरिति (L. अप्रवृत्ति) सिद्धान्तमते दुर्वचम्। प्रत्ययाधिकार पठितत्वं तु आदेसीयपदादावतिप्रसक्तम्। जातिविशेषरूपं प्रत्ययत्वमूरीकृत्य तथा -01-0कार्यकारणभावस्वीकारे (L. भावे) तु इष्टापत्तिरिति बोध्यम्। उक्तकार्यकारणबावस्य व्यभिचरं वारयति - -2तण्डुलः शुभ्रः इति-2।। अभेदेन प्रातिपदिकार्थप्रकारकबोधे प्रातिपदिकार्थकविभक्तिजन्योपस्तितेर्हेतुत्वमिति व्युत्पत्यन्तरकल्पनात् प्रकृतिप्रत्ययार्थयोरभेद इति भावः। -2तस्य-2 = प्रथमार्थस्य। 'शुभ्रेण तण्डुलेने'त्यादौ नामार्थान्तरेणाबेदबोधे तु समानविभक्तिकनामजन्योपस्थितेरेव हेतुत्वमिति -02-0व्युत्पत्यन्तरकल्पनान्न (L. नापि) अत्रापि भेदघटितकार्यकारणभवातिप्रसङ्गः। विसेषणपदोत्तरद्वितीयादिविभक्तिश्च साधुत्वार्थाऽबेदार्थावेत्यभिप्रायेणाह -2शुभ्रेणेति-2।। तथा च उक्तबेदघटितकार्यकारणबावे सार्थकविभक्तित्वं -03-0निविष्टमिति (P. निविष्ट) भावः।। -2विभक्तिरबेदा(र्थिक)र्थेति-2।। अत एवाह -0क-0भाष्यकारः ("अनभिहिते" (सू. 2-3-1) म.भा.प्र.ख.पृ. 474) "कटं भीष्मं कुर्वित्यादौ कटसमामानाधिकरण्याद् भीष्मादिभ्यो द्वितीये"ति।। -2पार्ष्ठिको वेति-2।। अस्मिन् पक्षे 'अरुणाधिकरण'न्यायेन पदानां प्रत्येकं भावनयैव - अन्वयात् करणत्वम्। तथा च बेदघटितकार्यकारणभावस्य लक्ष्यमेवैतत्। परस्परान्वयस्तु पार्ष्ठक इत्यन्यत्। अत एवाहुः बाष्यकारः -0क-0कटोऽपि ('अनभिहिते' (2-3-1) म.भा.प्र.ख.पृ.478) कर्म भीष्मादयोऽपि कर्मेऽति।। -2अभेदान्वय इति-2।। अबेदान्वये समानविभक्तिक - नाम्नोरेव साधुत्वमिति "सर्वादि" (सू. 1-1-27) सूत्रे -0ख-0भाष्ये (म.भा.प्र.ख.पृ. 203-214) स्पष्टम्। त्तर नामपदेन च विभक्त्यन्तमिति प्राक् निरूपितम्। तद्दधिपश्येत्यादावपि लुप्तविभक्तिमादाय समानविभक्तिकत्वम्। विभक्तिलोपमजानतस्तु तद्व्युत्पत्तेरप्यज्ञानमेव। उपदेशतस्तु ज्ञानमुभयोरपि सुगममेव। राजपुरुष इत्यादौ लुप्तविभक्तिमादाय विरुद्धविभक्तिकत्वमिति न समानविभक्तिकत्वम्. समानविभक्तिकत्वञ्च सानार्थकविभक्तिमत्वं, तेन 'राज्ञः सुतस्य धनमि'त्यादौ न दोषः। एकत्र षष्ठ्या जन्यत्वार्थ कत्वेन अपरत्र स्वत्वार्थकत्वेन तत्वाभावात्। समानलिङ्गकत्वसमानवचनत्वे च नाभेदान्वये -01-0तत्रे। (L. तत्रः) 'वेदाः प्रमाणम्', 'गोदौ ग्रामाः', 'तेन तुल्यं क्रिया चत् -0क-0"शैत्यं हि यत्सा प्रकृति"रित्यादौ (रघुवंशमहाकाव्ये पञ्चमसर्गे 54 श्लोकः) व्यभिचारादित्यन्यत्र विस्तरः।। नातिप्रसङ् इति पूर्वव्युत्पत्तेरिति भावः। वस्तुतस्तु भीष्मं कटं कुर्वित्यादौ भीष्मादिगुणविशिष्टकटस्य करोतिक्रियया ईप्सिततमत्वात् करमत्वम्। ततर् कटपदोत्तरद्वितीयया विशिष्टस्य प्रधानानतिरिक्ततया प्रधानगतस्य तस्योक्तौ विशिष्टगतं तदभिहितमेवेति भीष्मादिभ्यो द्वितीया न स्यादिति आशङ्क्य विशिष्टगतकर्मत्वस्य समानविभक्तिक विशेषणं विना प्रत्यययितुमशक्यत्वेन भीषमादीनामपि कर्मत्वशक्तिमत्वदुक्तत्वेऽपि द्वितीयेत्येकं समाधानं भाष्ये उक्तम्। तस्येदं तात्पर्यम्। विशिष्टस्य सर्मत्वे विशेषणस्यापि तत्वम् अन्यथा विशिष्टं कर्मेत्युक्तिव्याघातः।
नन्वेवं 'कुण्डली पण्डित' इत्यादौ विशिष्टे पण्डितत्वान्वये विशेषणे कुण्डलादावपि पण्डितत्वान्वयः प्रमास्यात् स च बाधित इति उक्तविशिष्टप्रतीत्यनुपपत्तिरिति चेन्न -
'शिखी ध्वस्त' इत्यादौ विशेष्ध्वंसान्वयबाधेऽपि विशेषणशिखागतस्य ध्वंसस्य विशेष्ये आरोपेण प्रतीतिवत् अत्र विशेषणे पण्डितत्वान्वयबाधेऽपि विशेष्यगतस्य कुण्डलादावारोपेण विशिष्टप्रतीत्युपपत्तेः। एवञ्चात्र तदंशे भ्रमत्वं ज्ञानस्य। -01-0यत्रत्वबाधस्तत्र (L. यत्रत्वा) नांशेपि भ्रमत्वम्। यथा प्रकृते 'भीष्मं कटमि'त्यादौ। ततश्चात्र विशिष्टकर्मत्वप्रतिपादनं नोभयत्र द्वितीयां विनेति विशेषणादपि सा। 'प्रत्ययानां प्रकृत्यर्थान्वयित्वमि'वि विशेषणविशिष्ट स्वप्रकृत्यर्थान्वयित्वमपि। अत्र पक्षे विशेषणपदात् कर्मत्वाद्यनालिङ्गितैव तदुपस्थितिः -02-0विशेष्यस्यतु (L. विशेष्यं) तद्वैशिष्टचेन प्रतीतेः विशिष्स्यैव कर्मत्वबोधः। तथा बोधे विशेषणेतरद्वितीयाद्यपि सहकारिकारणमिति। तेन सामर्थ्यानुपपत्या समासानुपपत्तिः। अत एव शुभ्रेण तण्डुलेन कृतं 'शुभ्रतण्डुलेन कृतमि'त्यादौ न। (3. P. अपि)
ननूक्तरीत्या विशिष्टस्य कर्मत्वमिति पक्षे समासौपपत्तावपि 'अरुणाधिकरण'न्यायेन प्रत्येकं क्रियान्वयमभिप्रेत्य -0क-0'कटोऽपि कर्म भीष्मादयोऽपी'ति ("अनभहिते" (2-3-1) म.भा.प्र.ख.पृ. 478) भाष्योक्तद्वितीयपक्षे समासनुपपत्तिरेव विशेषणविशेष्ययोः द्वयोरप्यत्र पक्षे क्रियान्वयेन करणत्वात् परस्परमनन्वयेन सामर्थ्याभावादिति चेन्न-
'तटोऽपि कर्म भीष्मादयोऽपी'ति -0क-0भाष्येणैव ("अनभिहिते" (2-3-1) म.भा.प्र.ख.पृ. 478) समाधानात्। अयं बावः = अत्र पक्षे उभयोरपि कर्मत्वात् कटपदोत्तरद्वितीयया कटगतकर्मत्वोक्तावपि विशेषणगतकर्मत्वप्रतिपादनाय विशेषणादपि द्वितीया। तत्र कृ धातूपात्ता उत्पत्तिः गुणस्य द्रव्यद्वारैव -01-0दानादिकरम्तापि (L. कर्म ----- बोधकं - न दृश्यते) द्रव्यद्वारैवेति साक्षात्फलाश्रयादेरिव द्रव्यद्वारा फलाश्रयादेरपि कर्मत्वादिकम्। एवञ्च अस्मिन् पक्षे विशेषणं पृथक् -
शक्तिवैशिष्येनैव बोधकं गुणादेर्द्रव्येणाभेदात्तु तस्याः शक्तेः वाक्यार्थबोदे विशिष्याग्रहः। अत्रापि पक्षे उक्तपक्षवद् विसेषणविशेष्ययोः परस्परान्वयपूर्वकमेव क्रियान्वयः।
न च कारकाणां भावनान्वयनियमहानिः। साक्षात् क्रियाजनकानां साक्षादेव तदन्वयः। इतरद्वारा तज्जनकानां तु तदन्वयद्वारा क्रियान्वय इति नियमेव तदहानेः। एतेन 'गुणानाञ्च परार्थत्वादि' (जै.सू. 3-1-22)ति न्यायाविरोधः परस्परान्वये इत्यपास्तम्। उक्तरीत्या गुणगुणिभावसत्वेन समत्वाभावात्। इदमेव च युक्तम्। न तु उभयोः आदौ क्रियन्वय बोधस्ततः पार्ष्टिकः परस्परान्वयबोध इति। ज्ञानद्वायकल्पने गौरवात्। तथा बोधाननुभवाच्च। किञ्च कारकविबक्तेः साधुत्वाय प्रथमं क्रियान्वयः, समासस्यैव प्राथमिकपरस्परान्वयमादाय साधुत्वम्, विबक्तैस्तु पार्ष्टिकान्वयमादाय साधुत्वम्, आहोस्वित् समासस्यैव प्राथमिकपरस्परान्वयमदाय साधुत्वम्, विभक्तेस्तु पार्ष्टिकेन क्रियान्वयेनेत्यत्र विनिगमनाविरहात्। द्वितीयोपपत्यर्थमेव ह्येतत् - पक्षकल्पना। भाष्यकारस्य सूत्रकृतः प्रकृत्यादिविभागकल्पनावत् नत्वत्र बोदे विशेषः। पार्ष्टिकान्वयमादाय समासस्यासाधुत्वादेव संबुद्ध्यन्तानां 'राजबृन्दारके'त्यादौ न समासः। {अत एव} इह तावत् समानार्तेन वक्येन बवितव्यम्। समासेन च प(य -) श्चेहार्तो वाक्येन गम्यते। नासौ जातुचित् समासेन गम्यते। 'अवयवसंबोधनं वाक्येन गम्यते; समुदायसंबोधनं समप्सेने'ति "नङि सम्बुध्यो" (सू. 8-2-8)रिति सूत्र -0क-0भाष्योक्तं (म.भा.तृ.ख.पृ. 378) सङ्गच्छते। पृथगवयवार्थयोरभिमुखीकरणे परस्परस्यौकार्थीभावलक्षणसामर्थ्यायोगादिति कैयटश्च। सम्बोधनविभक्त्यर्थस्य अनुवाद्यतया विधेयान्वयित्वेन क्रियायाश्च विधेयत्वेन उभयोरपि क्रियान्वयित्वेन परस्पान्वयाभावात् नैकार्थीभावसम्भव इति बाष्यकैयटयोराशयः। तव तु 'नीलमुत्फलमि'त्यादौ पार्ष्टिकान्वयेन सामर्थ्यवदत्रापि तस्य वक्तुं शक्यत्वेन भाष्याद्यसङ्गतिः स्पष्टैव। तस्मात् मदुक्तरीत्या 'नीलमुत्फलमि'त्यादौ प्रत्येकं द्वितीयोत्पादाय प्रत्येकं कर्मत्वेऽपि परस्परान्वितस्यैव क्रियायामन्वयात् अस्ति सामर्थ्यमिति न समासनुपपत्तिः। सम्बोधनस्थले तु प्रत्येकमबिमुखीभावे एव उभयत्र सम्बोधनविभक्तिरिति न तस्याविशेषणविभक्तितुल्यतेति न तत्रात्रत्यप्रकार सम्भव इति। कट एव कर्म तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीयेति भाष्योक्ततृतीयपक्षे तु भीष्मादेः कर्मत्वाभावेऽपि स्वविशेष्यगतकर्मत्वेन तत्र द्वितीया। यते श्वरसुहृदः स्वयं निर्धना अपि ईश्वरधनेनैव -01-0धलकल (फल -) (L. ष्कल) भाजस्तद्वत् तदेकयोगक्षेमत्वादिति -0क-0कैयटः। ("अनभिहिते" (सू. 2-3-1) म.भा.प्र.ख.पृ. 480) अयमाशयः = सामानाधिकरण्यं नाम एकार्थबोधकत्वम्। यदि च विसेषणविसेष्ययोः शक्तिभेदस्स्यात् तदा तद्भेदेनार्थबेदात् एकार्थत्वभङ्गः स्यात्। तस्मात् विशेष्यसमानशक्तिकत्वं तदभिन्नविशेषणानामिति तत्समानविभक्तिकत्वमेव। फलाश्रयत्वादिव, तद्वत्समानाधिकरणत्वमपि तत्तच्छक्तौ नियामकम्। एवं च पूर्वोत्तरपक्षैक वाक्यतया अस्मिन् पक्षेऽप्युक्तरीत्या परस्परान्वितस्यैव इतरान्वयबोध उचितः। अरुणाधिकरणसिद्धान्तोऽपि एवमेवत्यन्यत्र स्पष्टम्।
नन्वेवं 'नीलघटमानये'त्यादौ समासे नीलादि पदोत्तरं द्वितीयापत्तिरुक्तरीत्या कर्मत्वसत्वादिति चेन्न -
जातविभक्तेः "सुपो धात्वि" (सू. 2-4-71)ति लुकाऽक्षतेः। समासाद्विशिष्टस्यैवोपस्थित्या विशिषटोत्तरविभक्त्यैव तद्गतस्य तस्योक्तत्वाच्च। तस्मादुक्तरीत्या भाष्योक्तपक्षत्रयेऽपि 'शुभ्रे तण्डुलेने'त्यादौ त्रेधा निर्वाहे विशेषणविभक्तेः साधुत्वार्थकत्वाभेदार्थकत्वकल्पनं मूलकृतो न युक्तं मानाभावात्। लक्षणाया विभक्तावभावात् लक्षणयापि तदर्थकत्वाभावाच्च। लक्षणाया विभक्तावभावात् लक्षणयापि तदर्थकत्वाभावाच्च। विशेषणविभक्तेः साधुत्वार्थेऽप्यनुशासनाभावाच्च। यदपि 'शुभ्रस्तण्डुल' इत्यादौ प्रतमार्ते प्रातिपदिकार्थे प्रकृत्यर्थस्य अभेदेनान्वय इति। तदपि न युक्तम्। तिङ् समामानधिकरण्ये प्रथमेत्यादिना तिङर्भसाधनद्वारा क्रियान्वयित्वे एव तस्याः साधुत्वानुशासनात्। अबेदसंबन्देनान्वय इत्याप्ययुक्तम्‌। तस्य सम्बन्धत्वाभावादिति प्रतमाकारके निरूपितम्। -2समाससमानार्थकेति-2।। बहुव्रीहादौ विशेषणभावांशे व्यत्यासेऽपि अन्यांशे व्यत्यासे मानाभावात्। निरूपयिष्यते चेदमग्रे।। -2तस्मात्-2 = वाक्यात्। समानविभक्तिकनामार्थयोरिति उक्तै विशेणे विभक्त्भावेन अभेदाप्रसरादाह -2विरुद्धविभक्तिरहितेति-2।। -2अत एव-2 = वृत्तावेकार्थीभावस्वीकारेण अपृभगुपस्थितेरेव।। -2वषट्कर्तुः प्रथमभक्षः इति-2।। अयं भावः। अत्र वर्षट्कर्तुर्भक्षणं प्रथममिति न भक्ष(ण)मुद्दिश्य प्राथम्य विधानं वाक्यार्थः, एकार्थीभावबलात् एकपदोपात्तयोः भक्षणप्राथम्ययोः परस्परमुद्धश्यविधेयभावासंभवात्। किन्तु प्रतमभक्ष इति समुदितस्य भक्षान्तरस्यैव विधिः प्रथम्यस्य त्वर्थाल्लाभः। एवञ्च यत्रैकस्मिर्थे वषट्कारनिमित्तकं समाख्यया वषट्कर्तुरन्यस्य च सोमभक्षणं प्राप्तं तत्र पर्थमं वषट्कर्त्तैव भक्षयेत्। तथा च जैमिनि = 'वषट्काराच्च भक्षयेदि'ति (जै.सू. 3-5-31) -2एकप्रसरता-2 = विच्छिद्यानन्वयिता
विशिष्टैकोपस्थितिजनकत्वरूपसामर्थ्यमिति यावत्।। -2भङ्गापत्तेरिति-2।। उद्देश्यविधेय बावेनान्वये पृथगुपस्थितेस्तन्त्रत्वेन तथान्वये उक्तसामर्थ्यरूपैकप्रसरताभङ्गापत्तेरित्यर्थः।। त्र्यङ्गैः स्विष्टकृतं पचतीति।। अत एवेत्यत्राप्यनुषज्यते। अयमर्थः = पशुयागे हृदयस्याग्नेऽव द्यति अथ जिह्वा अथ वक्षस इत्येवमादिनैकादशानाम् अङ्गानामवदानेन यागमभिधाय त्र्यङ्गैः स्विष्टकृतं पचतीत्युक्तम्। तत्र प्रकृतेनैव येन केनचिदङ्गेन त्रिः - स्विष्टकृद्यष्टव्य इति नार्थः। त्रयङ्गैरिति समस्तस्य एकपदत्वेन उद्देश्यविधेयबावासम्भवात्। किन्तु नान्त्ययोरवद्यतिनशिरसीत्यनेनाङ्गत्रयस्य प्रधानयागेऽवदाननिषेधात् तैरेवांगैः स्विष्टकृद्यष्टव्य इत्यतौऽत्रापि पूर्ववत् विशिष्टाङ्गविधिरेव। तस्माद्वृत्तौ नोद्देस्यविधेयभावेनान्वयः। अत एव 'चतुर्थी चाशिषी' (सू. 2-3-73) ति सूत्रविहितचतुर्थ्या न समासः। आशीर्पिषये हि विमाय भद्रं भूयादित्यादावुद्ढेश्य विधेयभावो गम्यते। समासे तु तदवगमो न स्यादिति हदत्तादयः। वस्तुत उद्देश्यविधेयभावेनान्वयाभावो नैकार्थीभावकृतः। भाष्यकृताऽनुक्तत्वात्। किञ्च उद्दस्यत्वविधेयत्वे यच्छब्दतच्छब्दसामीप्य - व्यङ्ये। तथ च वृत्तौ ऋद्धत्वादि वद्यच्छब्दान्वयासम्भवान्नोद्देश्यविधेयभावेनान्वयः। किञ्च एकार्थीभावभावेऽपि 'घटमि'त्यादौ तथाऽन्वयाभावेन अभ्यासलोपश्चेत्यादौ समासऽपि तथान्वयेन च तत्कृतत्वा भावः। अपि च 'लोहितोष्णीषा' इत्यादौ सोष्णीषा इति वाक्यान्तरेण उष्णीषाणां -01-0प्राप्तत्वात् (L. प्राप्तत्वात्प्राप्तत्व) प्राप्ताप्राप्तविवेकन्यायेन उपवीषमुद्दिश्य लौहित्यस्य प्रतीतिर्भवत्येवेति तत्प्रतीतौ वृत्तेर्नासाधुता। अपि च "विशेषणं विशेष्येण बहुलम्" (सू. 2-1-57) इति सूत्रे उभयविशेषणत्वात् उभयोश्चविशेष्यत्वादिति वार्तिके उभयविसेषणत्वादिति वृत्तवृभयपदार्थस्योद्देश्यत्वं विसेषणत्वस्य विधेयत्वं च दृश्यते। अत एव -0क-0काव्यप्रकाशकृतेदृशसमासवाक्यानि (मम्मटः काव्यप्रकासे सप्तोल्लासः (दोषोल्लसः)) च्युतिसंस्कृतिदोषे नोदाहृतानि किन्त्वाविमृष्टविधेयांशे एव। अस्य दूषकता बीजं च पृथगुपस्थितयोः उद्देश्यविदेययोस्तथान्वय इत्युत्सर्गस्य त्यागेन सहृदयहृदयवैमुख्यमेव। उक्तोदाहरणे आशीर्विषयचतुर्थ्यन्तेन तु न समासः। विप्रभद्रार्थयोरपि तिघ्न्तार्थान्वयेन परस्परमसामर्थ्यात्। तस्मात् समासादौ तथा व्युत्पन्नस्य तद्बोधो जायत एव। विशिष्टोपस्तितावपि विशेषणादौ प्रकारतादिस्वीकारवत् उद्देश्यतादि स्वीकारे बाधकाभावात्। अत एव एतच्छ्रित इत्यादावेनाद्यादेश शङ्गाऽप्रयुक्तत्वेन तत्समाधानमित्येत दुभयपरस्य 'द्वितीयाटौ - स्वेने' (2-4-34) ति सूत्रस्थ भाष्यस्य नास्ङ्गतिः। अन्यथा किञ्चित् कार्यं विधातुमुपात्तस्य कार्यान्तरविधानाय पुनरुपादानरूपस्यन्वादेशस्य -01-0त्वदुक्तरीत्याऽसंभवेनासङ्गत्यापत्तिः। (L. संभवेन) 'पीतवासाश्चतुर्भुजः पण्डितः ब्राह्मण' इत्यादौ तथान्वयाभिप्रायेण समासप्रयोगे प्राप्तत्वादि पर्यालोचनोत्तरं तताबोधस्येष्टत्वाच्च। एतेन 'पण्डितब्राह्मण' इत्यादि-कर्मधारे वाक्य इव उद्देश्यविधेयभावेनान्वयवारणाय एकोपस्थितये एकार्थीभाव आश्रीयते। अन्यथा तत्र अवयव शक्त्येपस्थितयोरर्थयोः विशेषणविशेष्यभावसंभवात् तदाश्रयणं नृथैव स्यात्। अत एव 'वषट्कर्तुः प्रथमभक्ष' इत्यत्र भक्षान्तरविधिरेव; न तु 'होतृ चमस' इति समाख्यबलत् प्राप्तवषट्कर्तृ सम्बन्धिर्भक्षानुवदेन प्राथम्यविधिरित्यपास्तम्।
ननु उक्तरीत्या उद्देश्यविधेयभावेन वृत्तौ बोधस्येष्टत्वे कर्मधार्ये एकार्थीभावकल्पनं व्यर्थम्। उक्तरीत्याऽऽनिर्वाहात्।
न च विशेषणे विशेषणान्तराद्यनन्वयार्थं तत्कल्पनमिति वाच्यम्। तस्य तत्फलत्वाभावस्य प्रागभिधानादिति चेन्न -
नीलं च तदुत्पलं चेति वाक्ये इव वृत्तौ च शब्दाप्रयोगाय तत्रैकार्थीभावसमासाश्रयणात्। अत एवात्र द्वन्द्वमाशङ्क्य अनवकासेन कर्मधारयेणाबाधान्नेति भाषये उक्तम्। अत एव प्रवृत्तिनिमित्तयोर्धर्मिणोर्वा साहित्यं भासते। एवं च नीलोत्पलत्वसमूहवत् नीलमुत्पलमिति नीलसमानाधिकरणं तदबिन्नमुत्पलंमिति वा बोध इत्यन्यत्र विस्तरः। प्रथमभक्ष इत्यत्र तु समाख्यापेक्षया वाक्यश्रुत्योर्बलवत्वेन प्रथमतः अनेनैव भक्षान्तरविधिरिति बोध्यम्।। -2सङ्गच्छते चेति-2।। -2अन्यथेति-2।। समासेऽतिरिक्तशक्त्स्वीकारे इत्यर्थः। अयं बावः = अरुणाधिकरणे किमरुणमाक्याद्भित्वा प्रकरणे सर्वद्रव्येषु निविशते आहोस्वित् क्रीणातिना सम्बध्य तदङ्गम्सदेकहायिन्यामिति संशये क्रीणातिना संबध्यमानस्तृतीयासंयोगात् करणकारकं स्यात्। न चामूर्तस्य तद्युक्तमिति नास्य क्रयसंबन्ध इति पृथग्भूतोऽविशेषात् प्राकरणिकद्रव्यमात्रे गुणशब्दत्वन्निविशते इति पूर्वपक्षः कृतः।
न च तदाक्षिप्तद्रव्यस्य क्रयसाधनत्वसंभवात् क्रीणातिनैव सम्बन्धोस्तु अन्यथा प्रकरणेऽपि निवेशे न स्यात्, अमूर्त्तत्वात् क्रियाभिः कारकत्वाच्च द्रव्यैः सम्बन्धासम्भवादिति वाच्यम्।
श्रौतैकहायिन्यवरोधेन क्रये तदन्वयासंभवात्। स च पूर्वपक्षो विशिष्यारुण्यांशे एावायुक्तः समासे शक्त्यस्वीकारे पिङ्गक्ष्यैकहायिनीशब्दयोरप्यरुणापदवदाक्षेपेण लक्षणया वा द्रव्यपरत्वेन श्रौतत्वाभावात् तदंशेऽपि पूर्वपक्षस्य युक्तत्वात्।
-0क-0'निरपेक्षो खः श्रुतिः' (प्रमाणेषु पट्सु आपदेवीयं श्रुतिप्रमाणलक्षणम्) इतरपदार्थन्वयानुपपत्तिज्ञानसापेक्षप्रतीतिकं हि लाक्षपिकम्, अन्यथाऽरुणापदलक्षितद्रव्यमपि श्रौतं स्यात्। अथवा अन्यपदजन्यप्रतीतिविशेष्यर्थे सम्बन्धे एव बहुव्रीहि विधानात् अरुणापदवत् तयोरपि सम्बन्धरुपगुणमात्रवाचकतया तेषं चामूर्तत्वात् क्रीणातौ करणतवसम्भवेन आरुण्यस्यैव वाक्यबेदेन पूर्वपक्षस्यासम्भवात्। पूर्वपक्षी च यत् (टाप्-) निर्देशच्छान्दस इति मन्यते। गुणवचनानाम् आश्रयलिङ्गग्राहित्वादि च न जानाति। सम्बन्धसम्बन्धिनो स्तादात्म्यं च न जानाति। अतिरिक्तशक्तिस्वीकारे च बहुव्रीहेर्द्रव्यवाचकत्वेन क्रीणातौ करणत्वेनान्वयसंभवेन न तयोः वाक्यभेदेन प्राकरणी(णि-)क द्रव्यान्वयाशङ्केति तन्मात्रांशे पूर्वपक्षोपपत्तिः। आरुण्यस्य गुणितादात्म्येन गुणबोधकत्वं गुणि द्रव्यं च वाक्ये श्रुतत्वेन सन्निहितत्वात् एकहायन्येवेति सिद्धान्तोपि विशिष्टशक्तिस्वीकारादेव सङ्गच्छते। अन्यथा एकहायन्यादिपदस्यैव गुणि द्रव्यं च वाकेय श्रुतत्वेन सन्निहितत्वात् एकहायन्येवेति सिद्धान्तोपि विसिष्टशक्तिस्वीकारादेव सङ्गच्छते। अन्यथा एकहायन्यादिपदस्यैव गुणिबोधक्तवाबावात् तादात्म्येन गुणबोधकत्वासम्भवात्। गवेति त्वनार्षः पाठः। एतेन गवेत्येतत् सहितं श्रुतिपाठमवसाय एतदधिकरणपूर्वपक्षासङ्गतिमेव विशिष्ट शक्त्यस्वीकारेऽभिलपन्तोऽपास्ताः। अत एव मूलकृता अरुणाधिकरणाभङ्ग इत्युक्तं; न त्वरुणआधिकरणपूर्वपश्र इति। विशिष्टशक्तिस्वीकारादेव -0क-0एन्द्रपीताधिकरणसङ्गतिरपीत्यन्यत्र (मी.द. 3-2-17) स्पष्टम्। यत्तु 'राजपुरुष' इत्यादि वृत्तौ न विशिष्टशक्तिः किन्तु वाक्यीय - अवयवशक्तिज्ञानसहकृताद्वृत्तिरूपपदश्रवणरूपात् उद्वोधकात् राजपुरुषश्चित्राणां गवामयमित्यादेः समाससमानार्थकवाक्यतोऽनुभूतस्य विशिष्टर्थस्य स्मरणमेतावतैव एकर्थीभावत्वमतो न विशेषणाद्यन्वयः। स्वावयववृत्तिज्ञानसहकारेण अर्थोपस्थापकत्वस्याप्य"र्थवत्" (सू. 1-2-45) सूत्रे ग्रहणात सामासस्य प्रातिपदिकत्वं, 'प्राप्तोदक' इत्यदेरपि प्रापतस्य उदकस्यायमिति विग्रहे प्राप्तोदकसम्बन्धीति बोधः। सम्बन्धश्च स्वकर्तृकप्राप्तिकर्मत्वादिरिति। यद्वा वाक्यवत् समासेऽपि पृथगुपस्थितयोरेव परस्परान्वयः। वाक्याद्विशेषस्तु वृत्तिघटकपदोपस्थितयोः प्रथमं परस्परमेवैकरूपेणान्वयो वृत्तिस्वभावादतोऽत्र न विसेषणान्वयादिकम्। वाक्ये तु यदैव विशेष्ये राज्ञोऽन्वयः तदैव राज्ञि ऋद्धत्वन्वयस्तदा तस्यैकदेशत्वज्ञानाबावात्। एक रूपेणेत्युक्तेर्नोद्देस्यविधेयभावेनान्वय इति(ति-)। यद्वा विशिष्टस्य राजपुरुषादेः लक्षणया विशिष्टोपस्थितिः, विशिष्टशक्त्यस्वीकारेऽपि विशिष्टोपस्थितिमात्रेण एकर्थीभावत्वमिति न विसेषणाद्यन्वयः।।7।। (34)
षष्ठीतत्परुषादि-लक्षणायाः सम्बन्धरूपाधिक विषयकत्वेन तस्मात् कर्मधारयस्य लघुत्वमिति मीमांसकमतं निराकुर्वन्नाह - -2राजपुरुष इत्यादाविति-2।। तत्र = तद्धिते।। -2विपर्यय इति-2।।
भावप्रधानतिङन्तदीव्यत्याद्यर्थे विहितस्यापि तद्धितादेः सत्वप्रधानतेत्येवं विपर्यय इत्यर्थसतदाह -2तथाहीत्यादिना-2 = कृत्प्रत्ययेत्युपलक्षणं तद्धितस्यापि।। -2बाधकमस्तीति-2।। वृत्तिवाक्ययोः समानार्थत्वानुरोधात् उक्तस्थले तथाकल्पनेपि अलुग्विषये 'पितुः पुत्र' इत्यादावगतेः। -0क-0"मत्वर्थे बहुव्रीहिः" ("अनेकमन्यपदार्थे" (सू. 2-2-24) म.भा.प्र.ख.पृ. 451,452) "अप्रथमाविभक्त्यर्थे बहुव्रीहिः", "शेषो बहुव्रीहिः" (सू. 2-2-23) -0ख-0"त्रिकतः शेषः" (म.भा.प्र.ख.पृ. 443) इत्यादिमुनिवचनविरुद्धत्वच्च।
न चालौकिके प्रमान्तानामेव -01-0प्रवेशः; (P. प्रवेसात्) लौकिके तु वाक्ये षष्ठयन्तादीनामिति न तद्विरोध इति वाच्यम्।
अलोकिकप्रविष्टानामेव पक्षान्तरे समासाभावे परिनिष्टितानां तदर्थबोदनाय प्रयोगसम्भवे उपस्थितपरित्यागेना नुपस्थितपदघटितलौकिकविग्रहवाक्यकल्पनायाऽनौचित्यात्। किंच न केवलमर्थबोधनायैव तद्वाक्यप्रयेगः; किन्तु समासादेर्वैकल्पिकत्वप्रदर्शनायापि। तत्प्रदर्शकं चोक्तरीत्या चित्रा गावो यस्येत्याद्येव न त्वदीयम्। अत एव 'अविग्रहो नित्यसमास' इति वृद्धाः। अन्यथा 'कुम्भकार' इत्येतत् समानार्थकस्य कुंभस्य कर्त्तेत्यस्य संभवेन तस्य नित्यसमासत्वं भज्येत। कर्तृपदस्य न समासघटकतेति चेदलौकिके समासप्रवृत्या चित्राणामित्यादेरपि तदघटकत्वं तुल्यमिति तस्यापि नित्यसमासत्वापत्तिः। (क- वृत्तं = वृत्तिमत्)
न च चित्रा यस्येत्यपिविग्रहोऽस्तु तद्वैकल्पिकत्वबोधकोऽर्थनिर्णयार्थं म क्तोऽपि, समासघटकपदघटितवाक्यासंभवे एव नित्यसमासत्वमिति न बहुव्रीहेस्तत्वमिति वाच्यम्। फलद्वयार्थं यगपद्वाक्यद्वयप्रयोगापत्तेः। किञ्च समसनमेकीबाव इत्यर्थकसमासपदप्रतिद्वन्द्विविग्रहपदस्य समासघटकपदानां विभिन्नत्वेनाग्रह इत्यर्थकस्य त्वदुक्तेर्वाक्ये चित्राणां गवामयमित्यद्याकारके प्रयोगासंभवात्। किंच आद्ये पक्षे तादृशविग्रहवाक्यमजानतां विशिष्टोपस्थितौ शक्तिं विना उपपाद
यितुमशक्यत्वात्। द्वितीये -01-0वृत्तपदंतादृशबोधकारणमिति (P. वृत्ति) कार्यकारणभावस्य कल्पनापेक्षया शक्तिकल्पनाया एव लघुत्वात्। बोधकारणत्वस्य संबन्धं विना.़नुपपत्या शक्तिरूपसम्बन्धसिद्धेश्च। वृत्याश्रयत्वस्यैव वृत्तित्वेन समासादीनां वृत्तित्वासिद्धेश्च। तृतीये -02-0ज्ञानं (P. बोध्यत्वानां) विना स्वबोध्यसंबन्धरूपलक्षणायऽऽज्ञानेन तया विशिष्टोपस्थितेः वक्तुमनौचित्यात्। किं च पङ्कजपदादेरपि पदमत्वविशिष्टे लक्षणाया एवापतौ रूढिशक्त्युच्चेदापत्तेः।
ननु बाधादिप्रतिसन्धानं वनापि तत्र बोदाच्छक्तिः कल्प्यत िति चेत्समं वृत्तावपि। किञ्च कर्मधारये शक्यान्यबोधाभावेन न लक्षणा युक्ता, शक्यसम्बन्धा शक्यार्थबोधो हि सर्वत्र लक्षणया दृस्यते। विशेष्यविशेषणबावस्तथेति चेद्वाक्ये तद्बोधेन तत्राप्येकोपस्तित्यापत्तेरिति दिक्।
तस्मान्मदुक्तरीत्यैव एकार्थीभावबलाद्विसेषणविशेष्ययोर्व्यत्यासेऽपि न वृत्तिवाक्ययोः समानार्थत्वहानिरित'राज्ञः पुरुषः', 'चित्रा गवौ यस्य' इत्याद्येव विग्रहः। समानार्थत्वं च समानविषयकत्वमेव; न तु समानप्रकारकत्वे सति समानविशेष्यकत्वपर्यन्तमाग्रह इति। वस्तुतस्तु वृत्यर्थप्रदर्शनार्थं कल्पितात् 'चित्रा गवौ यस्ये'त्यादि-वाक्यादपि विसेषणभावव्यत्यासात् चित्रगोसम्बन्धीत्येव बोधः। व्यत्यासबोधनायैव स 'चित्रगु'रिति प्रदर्श्यते वृद्धैः। अत एव सर्वनामसंज्ञासु तत्र भाष्येऽपि -0क-0'सर्व आदिर्येषां तानी'ति ("सर्वादीनि सर्वनामानि" (सू. 1-1-27) म.भा.प्र.ख.पृ. 203) विग्रहो प्रदर्शितःष सर्वनाम्ना तु उत्सर्गतः प्रधानपरामर्शित्वात् स 'चित्रगुरि'त्यनेन स्वामिप्राधान्यं प्रदर्श्यत इति कैयटोपाध्यायाः। अत एव च 'मास जात' इत्यादेर्मासजातस्य स इति विग्रहं प्रदर्शयन्ति। 'चित्रा गावो यस्य' स 'चित्रगुरि'ति वाक्ये चित्रगुपदं तद्बोध्यपरं चित्रगो सम्बन्धि यो भवति स चित्रगुपदबोध्य इति बोधः। एवं च वृत्तिविग्रहयोः समानार्थता स्पष्टैव। विग्रहश्च वृत्यर्थवृत्तिवैकल्पिकत्ववृत्तिघटकपदस्वरूपैतत्त्रितयोद्देशेन प्रवृत्तं वाक्यं, तेन -01-0लोके (L.न) स्वातन्त्र्येण अर्थबोधानार्थं प्रयुक्ते चित्रा गावो यस्येत्याद्युदासीन वाक्ये यता स्थित एव विशेष्यविसेषणभावः। यत्सम्बन्धिन्यश्चित्रागाव इति बोधात्। अत एव हरिणा क्वचित् गुणप्रदानत्वमर्थानाम विवक्षितमित्युपक्रम्य।
"आख्यातं -0क-0तद्धितार्थस्य यत्किञ्चिदुपदर्शकम्। (वा.प. वाक्यकाण्डः II. का. 306)
गुणप्रधानबावस्य तत्र दृष्टो विपर्यय"।। इत्युक्तम्। (तद्धितकृतोरिति पाठः इदानीमुपलभ्यते।)
दीव्यतीत्याद्यर्थविहिततद्धितानां साधनप्रधानत्वेन सूत्रस्थे दीव्यतीत्यादावाख्याते विग्रहवाक्यस्थे च तस्मिन् भावप्रधानो दासीनदीव्यति शब्दापेक्षया गुणप्रधानभावो विपरीतो दृष्टः। अन्यथा वृत्तिविग्रह्योः समानार्थ्वं भज्येतेति तदर्थः। तत्र तद्धिते विपर्ययो दृष्ट इति मूलोक्तार्थस्तु न युक्तः। अक्षरस्वारस्याननुगुणत्वात्। यत्पदपरामृष्टख्यातस्य प्रधानस्य तत्पदेन पराम्रष्टुमुचितत्वात्। एकत्राधिकरणे पूर्वदृष्टगुणत्यागपूर्वकं गुणान्तराङ्गीकारस्यैव विपर्ययपदार्थत्वाच्च। एकर्थीभावफलेषु विशेष्यविशेषणभावव्यत्यासस्य भाष्यकृताऽपरिगणनाच्च। किञ्च 'प्राप्तोदका'दौ प्राप्तादिपदेऽपि विसेषणविसेष्यभाव व्यत्यासस्य अधिकस्य कल्पने गौरवम्। बहुव्रीह्युपजीव्यस्य एकदर्मिबोधकत्वरूपसामानाधिकरण्यस्य भङ्गश्च। 'प्राप्तबार्या' इत्यादौ पूर्वोत्तरपदयोरेकविशेष्यकप्रतीतिजनकत्वरूपसामानाधिकरण्याभावात्पुंवत्वनापत्तिश्च। तस्मात् 'प्राप्तोदक' इत्यादौ प्राप्तिकर्त्रभिन्नोदककर्मेत्याद्येव वृत्तिविग्रहयोरर्थः। उदके कर्मत्व निरूपकत्वबाधेन तु विशेषणभूतप्राप्तौ तत्पर्यवसानं 'स्वर्गीध्वस्त' इति वत्। अस्मिन् पक्षे समानार्थत्वस्य समानप्रकारकत्वे सति समानविशेष्यकत्वरूपत्वेऽपि न दोषः। विभक्त्र्थस्य प्राधान्येऽपि धर्मिबोधस्तादात्म्येनेति बोद्यम्।।8।। (35) -2शक्तिरिति-2।। एकर्थीभावनिर्वाहकविशिष्टशक्तिरित्यर्थः। -2षष्ठीतत्परुषकर्मधारययोरिति-2।। बहुव्रीहेऽप्युपलक्षणमिदम्। वर्तिपदार्थबहिर्भूतान्यपदार्थविषयकबोधननकत्वेन बहुव्रीहेः बहिरङ्गत्वं वाच्यम्।
न च तदत्र सम्भवति अन्यपदार्थे प्रत्येकातिरिक्त विशिष्टशक्यत्वसत्वेन 'राजपुरुषा'दिपदवत् स्वपदार्थत्वास्यैव सत्वादत वक्ष्यति --2निषादस्वमिकेति-2।। -2सिद्धान्सिद्धिरिति-2।। तत्र लाघवात्कर्मधारय इति प्रतिपादितासिद्धान्तसिद्धिरित्यर्थः।। न स्यादिति।। त्रयाणामपि शक्तिमत्वाविशेषेण लाघवाभावादिति भावः।। मूले - पर्यवश्यदिति (वै.सि.का. 36) पर्यवश्यं श्चासौ शब्दबोधश्च स तथा तस्मादविदूरो यः प्राक्क्षणो बोधाधिकरणक्षणाव्यवहित प्राक्क्षणस्तत्रास्थिते इति सप्तम्यन्तमेकं पदं शक्तिग्रहविसेषणम्।। -2तदानींतनेति-2।। तथा च शाब्दबोधप्राक्कलिकपदार्थोपस्थिति प्रयुक्तलाघवमादायेत्यक्षरार्थः बहिरङ्गत्वचिन्तनमिति मूलेन असङ्गतमिति शेषः।। -2तत्कल्पनायां-2 = अन्यत्र तात्पर्यकल्पनायाम्। स्थपतिः राजा प्रथमोपस्तितार्ते एव। शीघ्रोपस्थितिजनकशक्तिके निषादश्चासौ स्थपतिश्चेति कर्मधारयार्थे एव, न तु षष्ठी तत्पुरुषादौ तस्य बहिरङ्गत्वात्। -2तत्-2 = तात्पर्यम्। अयमर्थः। स्वघटकपदघटितवाक्यदृष्टार्थ मात्रविषयकतत्पुरुषीयशक्तिग्रहापेक्षया
बहुव्रीहिसंज्ञकपदसमुदायीय शक्तिग्रहस्यस्वघटकपदघटितवाक्य दृष्टार्थातिरिक्तन्यपार्थविषयकत्वेन -01-0बहिरङ्गत्म्। (L. न - अधिकः पाठः) एवं कर्मधारयात् षष्ठी तत्पुरुषस्यापि बहिरङ्गत्वं, स्वघटकपदघटित वाक्यदृष्टार्थमात्रविषयककर्मधारयीयशक्तिग्रहापेक्षया तत्पुरुष संज्ञकपदसमुदायीयशक्तिग्रहस्य -02-0षष्ठ्याद्यर्थरूपाधिकविषयत्वेन (L. आदि - न दृश्यते) गुरुत्वत्। अतः सर्वतो लघुत्वेन प्रथमत - उपस्थितार्थे कर्मधारये एव उक्तन्यायेन तात्पर्यं कल्प्यते। 'सम्भवति सामानाधिकरण्ये वैय्याधिकरण्यस्य अन्याय्यत्वाच्च।' एतेन षष्ठीतत्पुरुषे बहुव्रीहौ च पूर्वपदस्य लक्षणाश्रयणेन तयोः जघन्यत्वान्न तत्र तात्पर्यं, किन्तु कर्मधारये एव तत्र लक्षणाभावादिति मीमांसकोक्तमपास्तम्। एकार्थीभावपक्षे तत्र त्वन्मते लक्षणायामपि व्यपेक्षावादे तत्पुरुषादावपि लक्षणायास्त्वन्मतेऽप्यभावाच्च। कर्मधारयेऽप्युद्देश्यविधेयभावेनान्वयवारणायैकोपस्तितये लक्षमायास्तवाप्यावश्यकत्वाच्च।
ननु निषादशब्दस्य जातिशब्दत्वात् स्थापति शब्दस्य च -01-0स्वामिश्रेष्टान्यतरपर्ययत्वेन (L. पूर्वनिष्ठान्यतर) गुणशब्दत्वाद् गुणशब्दस्य च विशेषणत्वनियमादुक्तरीत्या कर्मदारयाङ्गीकारे विशेषणस्य पूर्वनिपातापत्तिः। किञ्च स्थपत्यर्थस्य सम्बन्धिनि नित्यसाकाङ्क्षत्वात् षष्ठीसमास एव गुरुभूतोऽपि न्याय्यो नरपत्यादाविवेत चिन्न -
राजदन्तादित्वत् परनिपातात्। सम्बध्याकाङ्क्षानिवृत्तिरपि अर्थतो निषादानामेव सम्बन्धित्वलाभादुपपन्ना।। -2कूटं हि दक्षिणेति-2।। कूटरूपलिङ्गस्य निषादसम्बन्धिस्वबीतस्य दर्शनाचच कर्मधारय निर्णयः। कूटं -0क-0सीरङ्तस्यैव (सीरङ्गम् = आयुधविशेषः) निषादजातीये सम्भवात। अपि च षष्ठीतत्पुरुषेऽप्यैश्वर्यस्य उत्सर्गतो निरूपकसजातीय निष्ठस्यैव लाभेन कर्मधारयादविशेषात्कर्मधारय एव। अत एव नरपत्यादिशब्दतो -02-0नरशब्दैरेवैश्वर्यादिप्रतीतिः। (L. नरादेरैवैश्वर्यादि) मृगपत्यादौ तु मृगजातीयस्य - ऐश्वर्यस्याप्रतीतेरूत्सर्गत इत्युक्तिः।
ननु तस्याध्ययनासम्भवात् कथं याजनमिति चेन्न -
अनायत्या तावदुपयुक्ताध्ययनकल्पनादिति दिक्।। 9।। (36) इति
-0लघुभूषणकान्तौ
-0समासार्थनिर्णयः







-0शक्तिनिर्णयः
-0 -0।। श्रीः।। "शक्तिग्रहेऽन्तरङ्गत्वे" (वै.सि.का. 37) त्यत्र शक्तेरूपस्थितत्वादर्थनिर्णयनिदानत्वाच्च शक्तिं निरूपयति -0क-0मूले '-2इन्द्रियाणामि-2'-2(वै.सि.का. 37)त्यादिना-2।। (वा.प.III. सम्बन्ध.सं.का. 29) घटादिष्विति विषयसप्तमि। वि,यता जन्यतारूपा। घटादिपदं च स्वविषयक ज्ञानपरम्। तथा च -01-0घटादिविषयकज्ञाननिष्ठजन्यतानिरूपिता (V2 निष्ठ - न) इन्द्रियनिष्ठानादिर्योग्यता जनकता यथा, तथा अर्थविषयकज्ञाननिष्ठजन्यतानिरूपिता शब्दनिष्ठाऽनादिर्थोग्यताजनकता शक्तिरित्यर्थः।। तदाह - -2तदीयेति-2।। वस्तुतस्त्वेतद्धरिग्रन्यार्थः अन्य एवेत्यन्यत्र स्पष्टम्। इदं च बोधकत्वं पदार्थान्तरमेव।।
ननु सा ईश्वरेच्चैवास्तुः अलं पदार्थान्तरस्वीकारेणेति चेन्न-
-02-0ईश्वरेच्छाज्ञानप्रयत्नेषु (P. प्रयत्न) अन्यतमस्य शक्तित्वे विनिगमनाविरहात्। -2अन्यथा-2 = तत्रापि बोधकत्वस्वीकारे। -2अतिव्याप्तेश्चेति-2।। बोधकताया लाक्षणिकशब्देऽपि सत्वादिति भावः। -2संकेतज्ञानमपि-2 = संकेतत्वेन संकेतज्ञानमपि।।
-2अगृहीतशक्तिकादिति-2।। अगृहीतसंकेतकाच्छब्दादित्यर्थः। -2सामान्यतः-2 -01-0सामान्यधर्मादेव। (V2 सामान्यधर्मावच्छेदेन) -2मीमांसकादीनां-2 = अनीश्वरवादिनाम्। तदर्थबोधेत्यनेन बोधजनकतारूपशक्तेरावश्यकत्वं तद्ग्रहस्य कारणतावादिमतेऽव्यभिचरश्चेत्युभयं सूचितम्।। -2तदिति-2।। -02-0संकेतेत्यर्थः। (P. एतत्पदं न दृश्यते।) संकेतज्ञानादेवेति अत्र संकेत इच्छा।। तदाह- -2तत्रापीदमिति-2।। -2अवगाहनेन-2 - इच्छापारतन्त्र्येण क्रोडीकारेण। पारतन्त्र्येण स्वातन्त्र्येण वा यथाकथञ्चित् बोधकताज्ञानं कारणमिति भावः।। आशङ्कते -
-2न चेति-2।। -2तद्ग्रहणापतेरिति-2।। तत्राद्यस्य स्पष्टमेव नजर्थपारतन्त्र्येण पदविशेष्यकबोधजनकत्वप्रकारकत्वम्। द्वितीयस्य तु अर्थनिष्ठविशेष्यतानिरूपित, विषयत्वनिष्ठप्रकारतानिरूपित, बोधनिष्ठप्रकारतानिरूपकजन्यत्वप्रकारतानिरूपितजनकतावत्वसंबन्धेन पदविशेष्यकबोधजनकत्वप्रकारकत्वमिति ज्ञनद्वयस्यापि तथात्वमिति भावः। प्रतमे आह - -2बाधेनेति-2। इदमसंभवादित्यनेनान्वयि। द्वितीये आह - -2परग्रहमिति-2।। -2अन्यथा-2 = बाधविषयेऽपि तत्प्रकारक ज्ञानस्य हेतुत्वे।। -2भ्रान्तिज्ञस्येति-2।। 'नेदं रजतमि'ति स्वयं जानतोऽपि 'इदं रजतमि'त्यन्यदीयभ्रान्तिज्ञस्य भ्रान्तत्वापत्तेरित्यर्थः। वस्तुतो बाधग्रहः, न शाब्दबोधे प्रतिबन्धकः। 'पर्वतो न वह्निमानि'ति ज्ञानकालेऽपि 'पर्वतो वह्निमानि'ति शाब्दबोधोदयात्।
न च वह्नयर्थिनः प्रवृत्तिस्स्यादिति वाच्यम्। पूर्वतनबाधज्ञानेन अनन्तरं जायमाने शाब्दज्ञानेऽप्रामाण्यग्रहात्। अपरामाण्यज्ञानानास्कन्दितज्ञानस्यैव प्रवर्तकत्वत। यत्र शाब्दान्न्तरं बाधज्ञानं तत्र बाधज्ञानाबावरूपस्य कारणस्य पूर्वं सत्वेन शाब्दबोधोदये न तस्मिन् प्रवृत्तिवारणायाप्रामाण्यकल्पनस्य बाधज्ञानेनावश्यं त्वयऽपि वाच्यत्वात्। परमार्थतस्तु बाधज्ञानं न ज्ञानमात्रे प्रतिबन्धकं; नापि तदभावः कारणम् -01-0अप्रामाण्यग्राहकत्वेनैवोपपत्तेः (P. 'एव'कारो न दृश्यते।) एवं योग्यता न बोधे कारणं, नापि तदभावनिश्चयः प्रतिबन्धकः। 'वह्निना सिञ्चति' इत्ययोग्यादपि बोधोदयात्। परं तत्र बोधेऽयोग्यताज्ञानेनाप्रामाण्यं गृह्यते इति निरूपितमधस्तात्। -2तत् ज्ञानात्-2 = पित्रादि संकेतज्ञानात्।। -2इष्टत्वादिति-2।।
-02-0शक्यतावच्छेदकारोपो (P. रोपे) लक्षणेति मुख्यमतेऽपि प्रवाहत्वेनैव रूपेण तीरस्य बधः। प्रवाहत्वञ्च तत्रारोपितम्। अत एव 'गङ्गा' शब्दस्य प्रवाहे प्रसिद्धत्वान्मुक्यत्वमिति -0क-0तीरत्वेऽप्रसिद्धत्वाद्गौणत्वमिति ('तीरत्वप्रसिद्ध' - इतयेव सर्वासां मातृकायां दृश्यते। परमत्र अनुचितत्वात् अप्रसिद्धेति प्राकृता। लेखकप्रमाद इति चिन्त्यते।) च व्यवहारः।। -2साधारण्यादिति-2।। अत एव 'सर्वे सर्वार्थवाचका' इति प्रावदः सङ्गच्छते। -2व्यभिचार इति-2।। शाबद्बुद्धित्वरूपैककार्यतावच्चेदकत्वादिति भावः।
-2न चाव्यवहितोत्तरत्वसंबन्धेनेति-2।। समामानाधिकरण्येनेत्यपि बोध्यम्। तथा च स्वसामानाधिकरण्यस्वाव्यवहितोत्तरत्व - एतदुभयसंबन्देन शक्तिजन्योपस्तितिविशिष्टसब्दबुद्धिंप्रतीत्यर्थः। एकात्मनि कालान्तरेणोपस्थितिमादाय बोधवारणार्थमाद्यसंबन्धनिवेशः, भिन्नात्मनि तामादाय तद्वारणार्थं द्वितीयः। कारणस्य कार्यतावच्छेदके (कार्यस्य चा-) ऽनन्तर्भावे आह - -2व्यभिचार इति-2 - तस्या तदन्तर्भावे आह - -2गौरवञ्चेति-2।। -2शक्तिज्ञाने कार्यकारणेति-2।। घटत्वविशिष्टघटार्थबुद्धिंप्रति घटादिपदं तदर्थबोदकमित्येवं शक्तिज्ञानेत्यर्थः।। -2वारणआयाव्यवहितेति-2।। निरुक्तसंबन्देन घटादिपदं तत्तदर्थबोधकमित्येवं शक्तिज्ञानविशिष्टार्थबुद्धौ -01-0तादृशशक्तिज्ञानत्वेन (L. त्वे) कारणतेत्यादिरीत्येत्यर्थः। -2शक्तिभ्रामादिति-2।। सचानुपदमेव वक्ष्यते। ततश्च तदनुरोधेन तत्तत् - पदभ्रांश (भ्रम-) शक्तिज्ञानघटितकार्यकारणभावस्य तवापि सत्वेन साम्यमिति भावः। -2मया-2 = लक्षणावादिना। -2अन्यतरत्वस्य-2 - तद्भिन्नाबिन्नत्वरूपस्य। -2गौरवादिति-2 हेतौ(हेतुः-) -2हेतुतेति-2।। पदार्थोपस्थितिं प्रतीति शेषः। एवं साब्दबोदे शक्तिज्ञानजन्यपदार्तोपस्थितित्वेनैव हेतुतेत्यपि बोध्यम्।। -2प्रवेज्ञादिति-2।। ततश्च शक्यसम्बन्धरूपलक्षणाजन्यबोधे शक्तिज्ञानस्याप्यवश्य कत्वात्तेनैव हेतुतेति भावः। -2समानविषयत्वस्येति-2।। घटपदर्थविषयकोपस्थितिं प्रति घटपदार्थे घटपदशक्तिज्ञनत्वेन कारणतेत्येवं रीत्या इत्यर्थः। -2अन्यथा-2 = कार्यकारणभावस्य समानविषयत्वानङ्गीकारे।। -2गङ्गापदशक्तिमिति-2।। प्रवाहे इति शेषः।। -2हस्तिनञ्च स्मरत इति-2।। समूहालम्बनविधेयेति भावः। अंशे -01-0शक्तिज्ञानमुक्त्वा (P. मुक्त्वा - न - 'स्तवादि'ति पाठान्तरम्) तथैव पदार्थोपस्तितिमाह - -2घटपदादिभ्य इति-2।। हस्तिपको हस्ति(पक-)नियन्ता।। -2वृत्तिजन्यत्वेनति-2।। अंशे शक्तिजन्यत्वे इत्यर्थः ततस्च किं दूषणमत आह - -2तथा चेति-2।। -2एवं चेति-2।। उक्तरीत्या समानविषयत्वाङ्गीकारे चेत्यर्थः। तथा च विषयतया तीरपदार्थोपस्तितिं प्रति विषयतया गङ्गापदशक्तिज्ञानस्य तीरविषयकशाब्दबुद्धिं प्रति विषयतया गङ्गापदशक्तिज्ञानजन्योपस्तितेश्च तीरेऽसत्वान्न पूर्वोक्तदोषः। तदर्तं च लक्षणाज्ञानजन्यो
पस्थितिशाबदबोधानां कार्यकारणभावद्वयं स्वीकार्यमेवेति तव गौरवम्। -2एतेन-2 - पूर्वोक्तदोषेण।। -2अनतिप्रसक्तस्येति-2।। वक्तुमशक्यत्वादित्यर्थः।। 1।। (37)
-2समाधत्ते-2 - नैयायिकः पूर्वार्देन। -2अनुमाय-2 समृत्वा।। -2लिपिवदिति-2।। लिप्या हि शब्दाः स्मर्यन्ते तैश्च स्नृतैः अर्थबोधस्तद्वदित्यर्थः।। -0क-0-2ते साधुष्विकति-2।। (वा.प.I.का.141) (अ-) -2साधुषु-2 (अ-) साधुशब्दविषये। -2ते-2 = {अ-} साधव एव। -2अनुमानेन-2 स्मरणेन।। -2प्रत्ययोत्पत्तिहेतव इति-2।। बोधजनका इत्यर्थः। ग्रन्थकृता तेषां लिपिस्थानीयत्वेन व्याख्यातत्वादिति केचित्। असुधुरनुमानेने (वै.सि.का. 38)त्यत्र अक्षरमर्यादया तु असाधूनामेव परम्परया बोधकत्वं लभ्यते। एवं च तेऽसाधवः साधुष्वनुमानेन सधुविषयकस्मरणद्वारा इत्ययमेवार्थो न तु साक्षादिति वदतो मूलकृतोऽभिमत इति परे आहुः।। -2तादात्म्यमुपगम्येवेति-2।। अपभ्रंसाः साधुशब्दैरभेदमिवापन्नाः शब्दार्थस्य प्रकाशका इत्यर्थः। तादात्म्यं सादृस्यमित्यन्ये -0क-0"-2न शिष्टै-2"-2रिति-2 (वा.प.I. का. 142) यतः स्मृति शास्त्रेण शिष्टैः पर्याया इव नानुगम्यन्ते पर्ययत्वेन नानुशास्यन्ते तेन(अतः-) साधव द्वत्यर्थः। '-2इवे-2'ति पाद्दे साधवः पर्यायाः इवासाधवः शिष्टैर्नानुगम्यन्ते। '-2न यत-2' -इति णापि स्मृतिशास्त्रेण साधवो व्युत्पाद्यन्ते तस्मादवाचका इत्यर्थः। दृष्टान्तपूर्वकं साक्षादवचाकत्वमाह - -01-0'-2बबंबे-2'ति (P. अम्बाम्बेति) शिक्ष्यमाणो बालो यदा बम्बंबेत्यव्यक्तं प्रभाषते। '-2तेन-2' '-2तद्विदां-2' = साधुशब्दविदां -2व्यक्ते-2 - निश्चयो भवति। अंबेति व्यक्तविषयनिस्चयो भवतीत्यर्थः। '-2तेन-2' - अपभ्राशेन - -2साधुव्यवहितः-2 - साधुशब्दस्मरणद्वारकः। '-2तेषु-2' - अपभ्रंशेषु। '-2तेषं-2' - पर्यायाणां। '-2अपभ्रंशे-2' -अपभ्रंशे विषये। '-2तथा-2' - -02-0सव्रदेसेष्वेकत्वम्। (P. वकृत्वे) -03-0'-2अन्यथा-2' (P. न दृश्यते) - सर्वदेशेष्वेकत्वे।। -2गणनापत्तेरिति-2।। कोशादाविति भावः। '-2एवं च-2' अपभ्रांशानां साक्षादवाचकत्वे च - '-2तेन्-2' - साधून् '-2तेषां-2' - पामराणां। सधोः सकाशात् व्युत्पन्नविषयेऽसाधुभ्यः साधुस्मरणाद्बोध इति तार्किकमतं संदूष्यान्युत्पन्नविषये तन्मतमाह - -2न च शक्तीति-2 - न च पामराणां शक्त्यग्रहे कथं तद्भ्रमः। पूर्वपूर्वभ्रमादुत्तरोत्तरभ्रमोपपत्तेः।
-01-0नन्वद्यस्य (P. 'नन्वाव्यस्य स कथमिति चेत् अशक्तागगरीशब्देनोच्चारिते इत्याद्यस्य व्युत्पन्नस्ये'ति अनुचितः
पाठः) स कथमिति चेत् अशक्त्या गगरी शब्देनोच्चारिते इत्याद्यस्य व्युत्पन्नस्य सादुशब्दस्मरणात बोदे तत्पश्यतः पामरस्य आवापोद्वापाब्यां गगरीशब्द एव बोधक इति भ्रम इत्यर्थः। स च -02-0भ्रमो (भ्रमो - नास्ति) भ्रमत्वेनाज्ञात एव बोदजनकः। अप्रामाण्यज्ञानानास्कन्दितशक्तिग्रहस्यैव बोधजनकत्वात्। अत एव बीमसेनरूपर्थे भीमसेन पपस्य शक्तिग्रहकाले तत्घटकभीमपदवतद् सेन (पदस्य-) शब्दस्य शक्तिग्रहे प्रयोग्तॄणां तदर्थे सेनपदस्य पृथगप्रयोगात् तदंसे अप्रामाण्यकल्पनान्न सेनपदादन्वय बोधः।। -2अभ्रमत्वादिति-2।। तदबाववति तत्प्रकारकत्वस्य ब्रमत्वेन प्रकृतबोधकत्वाभावभावन्न ब्रमत्वमिति भावः। -2भ्रमांसंभवाच्चेति-2।। घटशब्दगगरीशब्दयोर्विभिन्नानुपूर्विकतया शुक्तिरजतयोस्चाकचिक्यादेरिव भ्रमहेतोः साधारणधर्मदर्शनत्या बावादिति भावः। ततस्च असधुभ्योपि बोधादसाधूनामपि बोधकत्वरूपशक्तिमत्वं सिद्धम्। उक्तेऽर्थे हरिसंमति मप्याह - -2उक्तं चेति-2 - -0क-0-2पारंपर्यदिति-2 (वा.प.I.का. 143) - -2विगुणेषु-2 - निर्गुणेषु पामरेषु - -2अभिधातृषु-2 - प्रयोक्तृषु सत्सु। तथा च येन हेतुना स्त्री शूद्रबालादिभिः पामरैः प्रयुज्यमानाऽपब्रांसारूढिमागतासतैरेव प्रसिद्ध एव व्यवहारः। सत्यपि च साधुशब्दप्रयोगे तेषां पामराणां व्याख्यानभूतैः अपभ्रंज्ञैरेवार्थनिर्णयःअतस्तेषामसाधुरेव वाचकः। -01-0प्रत्यक्षो (P. प्रत्यक्षो न साधु व्याकरणव्यंग्यः। शब्दः माधुः) न साधु व्यधिकरणव्यङ्ग्यशब्दः(म्-)साधुं तु व्युत्पन्नविषये व्यवस्थापयतीत्यर्थः। -0ख-0-2दैवीति-2 (वा.प.I का .144) - संकृतेत्यर्थः। -2व्यवकीर्णा-2 अपभ्रंशैः संकीर्णा। -02-0पूर्वकल्पे (T. पुरा, P. पुंसं) दैवीवागसंकीर्णा आसीत्। तदानीं तेषां साधव एव रूढिमागताः गम्यागम्यादिव्यवस्थावत्, साद्वसाधुव्यवस्थाविशिष्टैर्नित्यमविच्छेदेन -2दृश्यन्ते-2 - स्मर्यन्ते। नित्यदर्शिनो ये साधूनां धर्महेतुत्वेन -03-0प्रतिपद्यन्ते। (P. प्रतिपद्यन्ते) -2अनित्य-2 - -2दर्शिनां-2 - असाधूनां शब्दानित्यत्ववादिनामित्यर्थ इति कश्चित्। -2एते एव-2 - साधव एव। शक्त्यवच्छेदकानुपूर्णीभेदात्। पर्यायेष्विव अपभ्रंशेष्वपि शक्तिसिद्धिरित्याह - -2किं च आनुपूर्विति-2 - शक्तिमत्वेन अर्थवत्वात् प्रातिपदिकत्वेन सबुत्पत्तिस्त्वनभिधानद्वारणीया।
नन्वेवं -2शक्तिमत्वे-2 - -2स्यादिति-2 - वाचकत्वं साधुत्वमित्याशयः। -2नियम इति-2 - नन व्याकरणादिव्यंग्य तादृशजातिमत्वेस्य गो शब्दे सत्वात् गो शब्दस्याश्वे साधुतापत्तिः। अतः अर्थविशेषान्तर्भावेन साधुत्वं निर्वक्तुमाह -2एवमेव चेति-2 - नन्वाधुनिकदेवदत्तादिषु पुण्यजनकतावच्छेदक जातिव्यञ्जकव्याकरणाद्यभावात् कथं साधुत्वम्त आह -2आधुनिकदेवदत्तेति-2।। -2गौणानां-2 - गोपीत्यादीनां - -2गुणै-2 - गोपस्त्रियां -2व्युत्पादनात्-2 - "पुंयोगादाख्यायामि" (सू.4-1-48)ति शास्त्रेण। -2इष्टमेवेति-2 - व्याकरणज्ञाप्यसंस्काराबावात्। प्रत्युत तद्विरुद्धं तमाह - -2अत एवेति-2 - अतिरिक्तशक्तेः नैयायिकसिद्धान्तसिद्ध शक्त्यतिरिक्तबोधकत्वरूपशक्तेः।। 2।। (38)
-0क-0"-2सम्बन्धि शब्दे-2" (वा.प.III. सम्बन्ध. सं. का. 31) (वै.सि.का.39) -2इति-2।। सम्बन्धेत्यत्र अर्श आद्यच्। घटकत्वं सप्तस्यर्थस्तथा च संबन्धिशब्द घटकसम्बन्धशब्दे संबन्धयोग्येत्यर्थः। यद्वा यथाश्रुतमेवेदं वाच्यत्वं सप्तम्यर्थः। तथा -01-0च (V2.P 'च' - नास्ति) संबन्धशब्दवाच्यः संबन्धयोग्यतैवेत्यर्थः। कथमिदं विज्ञायदते तत्राह -2योग्यतां प्रतीति-2।। लक्षणेऽर्थे द्वितीया योग्यतावसादेव ज्ञायते इत्यर्थः। अयं शब्द एतदर्थयग्यइति व्यवहारात् योग्यतैव शब्दार्थयोस्स्म्बन्ध इति भावः। ग्रन्थकारस्त्वन्यथा व्याचष्टे - तथा हि - -2संबन्धो विषय इति-2।। सम्बन्धशब्दे विषयबूतो यः सम्बन्धः तद्वयवहारादयं शब्द एतदर्थ सम्बन्धवानिति व्यवहारदिति यावत्।
ननु एवं योग्यताया एव सम्बन्धत्वे संकेतस्य क उपयोग इत्यत आह - -2समयादिति-2।। वृद्धव्यवहारपम्परापरपर्यायात्समयात्स्वाभाविषयेन योग्यता निश्चीयते। न हीयमस्य पुत्रस्य मतेति समयिकः जन्यजनकभावोपि तु वस्तुसिद्धस्यैव प्रतिपादनमिति अत्रेदं तत्वम्। शब्देऽर्थबोधकत्वान्यथानुपपत्यैव वाच्य वाचकभाव एव शब्दार्थयोः सम्बन्दो न तु बोधकत्वमेवेत्यन्यत्र स्पष्टम्। प्रसिद्ध्यनुसारेण योग्यतैव सम्बन्ध इत्युक्तम्। परमसिद्धान्तमते तु अनवयवमेकं वाक्यस्फोटात्मकं प्रतिभा वाक्यार्थः। 'सोऽयमिति तादात्म्याध्यासयश्च शब्दार्थयोससम्बन्ध' इति स्पष्टं -0क-0मञ्जूषायाम्। (लघुमञ्जूषा. पृ. 54) इदं तु बोध्यम् घटादिपदादाकाशबोधवारणाय वृत्या पदजन्यपदार्तोपस्थितिः साब्दबोदे कारणम्। 'प्रविशे'त्यादौ शब्दाध्याहारश्च। तत्र पदशब्दो वाचकमात्रपरो अपभ्रंसादपि बोदोदयात्। वस्तुत अर्थाद्याहारानुरोदेन पदजन्यत्वस्यापि निवेशः। अति प्रसङ्गस्तु शक्तिज्ञानपदार्थोपस्थिति शाब्दबोधानां समानप्रकारकत्वेन कार्यकारणभावाद्वारणीयः। पादर्तोपस्थितिरपि न स्मृत्यात्मिकऽऽपितु शाब्दबुद्ध्यात्मिकैव। एतेन स्मृत्यात्मकपदार्तोपस्थित्यनुपत्यैकसम्बन्धिज्ञानमिति विधया सम्बन्धान्तरं कल्प्यत इत्यपास्तम्। पदार्थोपस्थितेः स्मृत्यात्मकतवाभावात्। संकेतलक्षण एव शब्दार्थयोस्सम्बन्धः, सैव शक्तिः, शक्तं -01-0पदमिति (T. 'चे'त्याधिकः पाठः) वदतां
तार्किकाणां गङ्गापदं तीरे लाक्षिणिकमिति व्यवहारः, परस्परविरुद्धः। अस्माकं तु पदशब्दस्य बोधकसुबन्तपरत्वान्न विरोध इति बोध्यम्।
ननु पामरप्रयुक्तगगर्यादिशब्दस्योक्तरीत्या वाचकत्वेऽपि प्रमाणत्वं न स्यात्। न स्याच्च तज्जन्य बोधस्य प्रमात्वम्. आप्तोक्तशब्दस्यैव प्रमाणत्वत्। यर्थार्थज्ञानवत्वरूपस्य -01-0भ्रमप्रमादविप्रलिप्सा-शून्यत्व- असम्भवात् आप्तत्वस्याभावादिति (L. भ्रम ---- असम्भवात् - न दृश्यते) चेन्न -
यथा हि मार्गोपदेशादावरण्यवासिनां पामराणामपि आप्तत्वम्, तथा घटादौ गगरिशब्द इत्यादि प्रयोक्तॄणां तेषां तदंशेप्यापतत्वमेव, न हि सर्वांशे तत्वं विवक्षितम्। इदानींतनानां पण्डितानामपि तत्वानापत्तेः तज्जन्यबोधस्यऽपि प्रमात्वमेव ततैवानुभवात्। परं शास्त्रीयकार्योपयोगित्वं नास्तीत्येतावानेव विशेषः। वस्तुतः सर्वः शब्दः प्रमाणमेव, न जन्यज्ञाने आप्तोवतत्वज्ञानं शब्दधर्मिकं प्रामाण्यग्राहकम्। अनाप्तोक्तत्वज्ञानमेव परं तज्जन्यज्ञानेऽप्रामाण्यग्राहकम्। तथा च प्रकृतविषये तस्य निरुक्ताप्तत्वलक्षणाक्रान्तत्वात्, न तज्जन्ये बोदेऽप्रामाण्यमित्यलम्।।3।। (39)
-0इति कान्तौ
-0।।शक्तिनिर्णयः।।
-0।।श्रियै नमः।।





-0नञर्थनिर्णयः
-0 -0।। श्रियै नमः।।
-01-0समासशक्तविरूपणानन्तरमवसरेण (T. समास - नास्ति) प्रसङ्गेन च शक्तिपदार्थं निरूप्य समासव्यासयोर्नञः शक्तिं निरूपयितुमाह 'नञ् समासे' (वै.सि.का. 40) इत्यादिना - -2उत्तरपदार्थस्य प्राधान्यादिति-2।। पूर्वपदस्य -02-0नञो (L. नञ्) द्योत्यार्थमादायैव उत्तरपदार्थप्राधान्यव्यवहारः। अयमेव च "नञ्" (सू. 2-2-6) सूत्रभाष्यस्वरससिद्धः पक्षः। अन्यथा नाञोऽभाववाचकतां स्वीकृत्य तदर्थस्य -03-0प्राधान्याङ्गीकारेण (T. गौकारेण) सर्वभिन्न -04-0इत्यर्थे (असर्वः इत्यत्र-) (T. 'इत्यर्थे' आरभ्य 'मन्म'ते पर्यन्तं न दृश्यते।) -2सा-2 = सर्वनामता।। -2न स्यादिति-2।। सर्वपदस्य (पूर्व-) उत्तरपदार्थविशेषणत्वेनोपस्था = पितार्थकत्वरूपगौणत्वत्। मन्मते च आरोपितत्वस्य द्योत्यत्वेन विशेषणत्वान्न दोषः।
न च आरोपितत्वस्यैव नञ्वाच्यता, विशेषणता च अस्त्विति वाच्यम्। -01-0ब्राह्मणपदशक्याऽनारोपितमुख्यब्राह्मण्यवति (L. शक्तो) -02-0अर्थे (L. अर्थेन) नञ्वाच्यस्य आरोपितत्वस्य सम्बन्धासंभवात्।।
नन्वस्तु नञोऽभावार्थकत्वेप्य'सर्व' इत्यादौ विशेषणत्वमेव; अतो वक्ष्यमाणा'भावो वे'त्यादि स्वरीत्याऽऽर्थिकाभावमादाय सिद्धान्तरीत्या वाच्या, सदृष्टान्तमाह -2घटो नास्तीत्यादाविति-2 - -2तस्य-2 - नञर्थस्य -03-0घटः (T. 'घट' --- इतः एका पुटानि 12 तमे पुटे 'उचितत्वादि'ति पर्यन्तं नावलोक्यन्ते। त्यक्ताइति भाति।) पटो नैत्यादाविति वक्तुं युक्तम्। विरुद्धविभक्तिराहित्यरूपसमानविभक्तिकत्वेन दार्ष्टान्तिकेऽ'सर्व' इत्यादौ नञो भेदार्थकत्वात्। 'भूतले घटो नास्ती'त्यादौ तु क्रियासमाभिव्याहॄते क्रियात्यन्ताभावबोध एव तत्रानुयोगिवाचकपदोत्तरं सप्तम्यास्तन्त्रत्वात्। अत एव 'अत्वं भवसी'त्यादेः समासस्य बेदप्रतियोगीत्यादि विवरणं स्क्यं वक्ष्यमाणं सङ्गच्छते।
ननु 'घटः पटो न', 'घटो नास्ती'त्यादवुभयत्रापि सिद्धान्तरीत्या नञाऽऽरोपितत्वस्यैव शब्दतो बोधनात् बेदात्यन्ताभावयोरुभयोरपि आर्थिकत्वविशेषान्नेदं युक्तमिति चेन्न - आरथिकत्वाविशेषेऽपि -01-0प्रथमे (V2 प्रथमे - न) प्रयोगे तादात्म्यारोपसत्वेन -02-0नामार्थगतारोपितत्वस्यैव (L. 'गत' - न) बोधेन भेदस्यैव अर्थिकत्वेन आर्थिकभेदेकेऽसर्व इत्यादिदार्ष्टान्तिके आर्थिकभेदक्यैव दृष्टान्तस्य औचित्यात्; न तु आर्थिक क्रियात्यन्ताभावकस्येति तात्पर्यादिति। -2सः-2 = अभावविषयकः।। -2आर्थो बोधो मानस इति-2।। सर्वत्रेति शेषः। क्षत्रियादौ ब्राह्मण्यारोपे मुक्यब्राह्मण्याभावादेः तत्रमूलत्वेन शाब्दारोपितत्वबोधोत्तरं तन्मूलबूततदभावादेर्बोध इति भावः। तथा च अत्र मते'ऽ ब्राह्मणः' 'असः' इत्यादावारोपविषयो ब्राह्मणो -03-0विषयतयाऽऽरोपवान् (V2 विषयतयाक्षर) वस इति बोधः।
-04-0'वायौ रूपं नास्ति;' (L. न च विशिष्टबोधौ रूपं नास्ति, पीतः संखो नास्तीत्यादौ रापाश्रिताऽऽरोपिता सत्ता वायौ आरोपितापीतसंखसत्तेत्यादि रीत्या बोधः - अनुचितः, अपभ्रंशः पाठः) 'पीतः शंखो नास्ती'त्यादौ रूपाश्रिताऽऽरोपिता सत्ता वायौ आरोपिता पीतशंखसत्तेत्यादि रीत्या बोधः। न च विशिष्टमप्रसिद्धम्; विशिष्टस्य प्रत्येकानतिरेकात्; प्रत्येकस्य च प्रसिद्धत्वात्। 'घटो नास्ती'त्यादावपि घटाश्रायिकाऽरोपितासत्तेति बोधः। अभावबोधस्त्वार्थिय इत्युक्तम्। केचित्तु समासे आरोपितत्वस्य नञ्द्योत्यत्वेनाबावबोधस्यार्थिकत्वेऽपि, व्यक्तेस्समानविभक्तिकस्थले 'घटः पटो ने'त्यादौ नञो भेदवाचकतैव। -01-0अत्र (L. अत्रौः) 'घटो नास्ती' - त्यादौ क्रियासमभिव्याहृते क्रियाप्रतियोगिकात्यन्ताभाववाचकतैव; न आरोपितत्वद्यतकता; तस्यैव बोधादिति; तथा च विशेष्यतयाऽभावार्थकत्वे च असिद्धिप्रसङ्ग इति अभावस्य विसेष्यत्वेन सर्वशब्दस्य -02-0निरुक्तगौणत्वादिति (L. तिरुक्त) भावः।।
लाघवात्पक्षान्तरमाह - -2आरोपमात्रमिति-2।। -2निष्कर्ष इति-2।। नव्यानामित्यर्थः।।
नन्वस्तु गौणत्वेऽपि सर्वनामकार्यमत आह मूले - "-2नह्यस-2" (वै.सि.का. 40)-2इति-2।। तथा सति अतिसर्वपदेऽपि सर्वनामकार्यं स्यादिति भावः। अभाववाच्यस्यापि विशेषणत्वाब्युपगमाभिप्रायेणह।। -2द्योत्यत्वोक्तिरिति-2।। वस्तुत इदं चिन्त्यमिति वक्ष्यते। समासघटकनञो द्योतकत्वं च स्वसमभिव्याहॄतपदप्रसिद्धार्थपरित्यागपूर्वकाप्रसिद्धार्थपरिग्राहकत्वमेव; न तु प्रादिस्थलीयं -01-0वक्ष्यमाणम्। (L. मान) एतावतैव एकार्थीभावव्यवहारः। उत्तरपदार्थप्रधान इति व्यवहारवत्।। 1।। (40)
-2साधारण्येनेति-2 - पक्षद्वयस्याप्यग्रे वक्त्वयत्वादिति भावः।
-2निवृत्तम्-2 = -02-0निवृत्तिः (L. निवृत्ति) कियटमतं दूषयितुमाह - -2यत्विति-2।। दार्थो मुख्यब्राह्मण्यादिः यस्मिन् क्षत्रियादौ। -2अन्यथा-2 = तस्य वाच्यत्वे।। -2सादृश्यादेरपीति-2।। आरोपमूलत्वादिति भावः। हर्यादयस्तु भ्रान्त्या -03-0क्षत्रियेऽध्यवसिदतो (L. क्षत्रियादौ) ब्राह्मणार्थो निषिध्यते इति भाष्‌याशयं वर्णयन्ति --2आर्थिकार्थमिति-2।। तत्र 'अब्राह्मण' इत्यादौ ब्राह्मणभिन्ने क्षत्रियादौ ब्राह्मण निरूपितसादृश्यमूलकारोपित ब्राह्मण्यबोधोत्तरं तन्मूलभूत सादृश्यबोधः। 'सिंहो माणवक' इत्यादौ माणवकादिपदानां -04-0सिंहादिपदस्य (L. यस्य) आरोपितसिंहत्ववद्बोधकत्वे तात्पर्यग्राहकत्वमिव नञः
स्वसमभिव्याहृतब्राह्मणादिपदानामारोपितब्राह्मण्यादिप्रवृत्ति निमित्तकत्वबोधकत्वे तात्पर्यग्राहकत्वात्। 'अपापमि'त्यादौ च -01-0सादृश्यभेदमूलकसम्बन्धमूलकारोपबोधोत्तरं (L. मेट्ट) तस्य सम्बन्धस्याभावे एव सत्वेनाभावबोधः। 'अनश्वो' 'अद्बिज' इत्यादौ चाश्वभेदमूलकारोपिताश्वत्वं, तद्बोधोत्तरं तन्मूलभूतभेदबोधः। 'अनुदरा कन्ये'त्यादौ च अल्पत्वादिना उदराभावमारोप्य जायमानया नञ्समभिव्याहारे प्रकारतयाऽऽरोपितोदरबुध्या तन्मूलाल्पत्वादौ विश्रामः। 'अपशव' इत्यादौ च गौऽश्वभिन्नपशुषु अप्राशस्त्येन पशुत्वाभावमारोप्य -01-0जायमानयाऽरोपितपशुत्ववद्बुध्या (पशुत्व ---- आरोपित - न दृश्यते।) तन्मूल भूताप्राशस्त्यधीः। 'अधर्म' इत्यादौ च विरोधमूलकं धर्माभावमारोप्य जायमानयाऽऽरोपितधर्मत्वबुध्यातन्मूलभूतविरोधिधीरित्येवं सादृश्यादीनामार्थिकत्वमित्यर्थः।। -2प्रतियोगिनीति-2।। तथा च 'अघटोऽस्ती'त्यादौ भेदप्रतियोगिघटाश्रयिका सत्तेति बोधः।। -2तथा चेति-2।। अस्य उपपद्यते इत्यत्रान्वयः। विशेषणत्वे चेत्यर्थः। अन्यथा - नञर्थस्य युष्मदर्थे प्रकारतयाऽनन्वये।। -2अन्वये-2 = प्रकारतयाऽन्वये -2अस्मान्मते च भदैति-2।। वस्तुत एवं सति 'अघटमानये'त्याद्युक्ते यत्किञ्चिन्निष्ठभेदप्रतियोगिनो यत्किञ्चित् प्रतियोगिकभेदवतो वा -01-0घटस्यैवानयनापत्तेः। (L. नय - नास्ति) अत एव नञ्तत्पुरुषस्योत्तरपदार्थप्रधानत्वरूपमख्यपक्षे 'अब्राह्मणमानये'त्युक्ते 'ब्राह्मणमात्रस्यानयनं प्राप्नोति' इति -02-0आशङ्क्य (L. आशंका) नञः प्रयोगे नञर्थविसिष्टस्यानयनं भविष्यतीत्युक्त्वा 'कः पुनरसौ' नञर्थविशिष्ट इति प्रश्ने 'निवृत्तपदार्थक' इति नञ्सूत्रे -0क-0भाष्ये (नञ् (सू. 2-2-6) म.भा.प्र.ख.पृ. 425) उक्तम्। -0ख-0निवृत्तः (म.भा.प्रदीपः, प्र.ख.पृ. 425) पदार्थो मुख्यं ब्राह्मण्यं यस्मिन् स (इति) क्षत्रियादिरर्थः। -03-0सादृशयादिना (L. सादृस्योर्थ इति अधिकः पाठः) अध्यारोपितब्राह्मण्यो नञ्द्योतिततदवस्थ इति कौयटः। एतेन निवृत्तेति भाष्योक्तस्य निवृत्तमबावः पदार्तो यस्योत्यादि पूर्वोक्तमूलकृत् - व्याख्यानमयुक्तं वेदितव्यम्।।
किंच 'प्रतियोग्यभावौ तुल्ययोगक्षेमावि'ति तान्त्रिकोक्तेः नञ्वाच्यभेदस्य विशेषणता न युक्ता। यत्र प्रतियोगिनः प्रकारता तत्रैव तदभावस्यापि सा। यत्र तस्य विसेष्यता तत्र तदभावस्यापि सेति स्वीकारादिति बोध्यम्। अनेनैव न्यायेन प्रतियोग्यधिकरणमेव अभावाधिकरणं -01-0बोध्यम्।। (l. बोध्यः)
ननु पीतघटवति अत्र 'आटो ने'ति प्रतीते र्वारणाय नञादिसमभीपव्याहारेऽन्वयितावच्छेदकावच्छिन्न प्रतियोगिकत्वस्य संसर्गत्वं व्युत्पत्तबललभ्यम्। अत एव 'वायौ रूपं नास्ति' इति प्रतीत्या -02-0रूपसामान्याबावसिद्धिः। (L. सिद्धीः) विशेषाभावकूटस्य ततो बोधासम्भवात्। अत्र अन्वयितावच्छेदकशब्देन नञर्थान्वयि विसेषणमुच्यते। यथा -03-0'पीत घट' (L. पीतं) इत्यत्र -03-0पीत रूपं। प्रतियोगितावच्छेदकं तत्रापि घटत्वमेव। विशिष्टबोधविशेष्यवृत्तिधर्मसयैव -04-0प्रतियोगितावच्छेदकत्वात्। (L. त्वादावव)तदवच्छिन्नाप्रतियोगिता च पीतेत्यादिविशेषणबलात्पीत घट व्यक्तिनिष्ठैव। विशिष्टं च प्रधानात् नात्यन्तमतिरिक्तम्। एवमाधारतावच्छेदकावच्छेदेनाभावान्वयः। घटे पीतघटत्वाभाव इत्य(स-)व्यवहारात्। एवं 'नील घटो न घटः' इत्यपि पीतघटत्वसत्वेन आरोपितघटत्वस्य तत्राभावात्। तथा च 'अत्वं भवसी'त्यादितः त्वदभावोस्ति इत्यादेः शुद्धप्रतियोगिता संस्गावगाहिनोः वैलक्षण्यमस्त्येवेति चेत् किं ततः- तावतापि वचनपुरुषव्यवस्थाया असमर्थनात्।। -2हलिति-2 - -2ज्ञापकादिति-2।। हलीत्यत्र -0क-0अनञ् (अनञ्समासे = एतत्तदोः सुलोपोऽकोरनञ् समासे हलि (6-1-132)) समासे इति ज्ञापकादित्यर्थः।।
तदाह - -2अस-2 इति।। -2गौणत्वदिति-2।। -2अकोरिति-2।। इदमुपलक्षणम् -"एतत्तदोरिति" (सू. 6-1-132) षष्ठ्याऽर्थ द्वारकेऽसोर्विशेषणे सति एतत्तदर्थगतसंख्याभिधायिनः सोर्लोप इत्यर्थदस इत्यादौ लोपा्राप्त्या व्यर्थं सत् ज्ञापकम् इत्यस्यापि। -2जात्यभीप्रायम्-2 एकाभावत्वरूपजात्यभिप्रायम्। अभावत्वस्याखण्डोपाधित्वेन जातिसमकक्षत्वत्। वस्तुत अभावत्वादेरपि जातित्वस्य वक्ष्यमाणत्वान्न दोषः।। -2औत्सर्गिकं-2 = "द्वेकयो" (सू. 1-4-22) रित्यादौ योगाविभागेन संख्यासामान्याभावार्थकं स्पष्टं चेदमन्यत्र। -2प्रत्येकं-2 = प्रतियोषम्। -2अत एव-2 = नञर्थस्य विशेष्यत्वादेव। विशेषणत्वे तु तदसङ्गतिः स्पष्टैव। -2युष्मदर्थेन-2 - लाक्षणिकार्थेन। युष्मदर्थसामानाधिकरण्यस्यैव तन्निमित्तत्वादिति भावः। वस्तुतो व्यस्ते 'घटः पटो ने'त्यादौ षष्ठ्याद्यापत्या भेदस्या विशेष्यत्वाङ्गीकारेऽपि, समस्ते एकार्थीभाव बलाद्भेदनिबन्धनषष्ठ्याद्यप्राप्त्या भेदस्य विशेष्यत्वाङ्गीकारे ताभ्यां भिन्नोऽस्तीत्यर्थकेऽ'तौस्त' इति प्रयोगे द्विवचनानापत्तेरेकवचनापत्तेश्च।।
किं च विसेष्यतानुरोधा'दनेकमि' (सू. 2-2-24) त्यादावेकवचने 'अवर्षाः हेमन्तः' इत्यादावपि एकवचनापत्तिः। स्वगत- अन्यसंख्यसत्वे विशेष्यगतसंख्याया वचनं भवति इत्यनुशासनाबावाच्च। 'पतन्त्यनेके' इत्यादि त्वसाध्वेव। यत्तु एकशेषादनेके इति प्रयोग इति तन्न-
एकेनैवानेकशब्देन -01-0सकलार्थप्रतीतेरनेकानेकशब्दप्रयोगाप्राप्त्याऽनेको (L. बोद्य) रथे गजोऽस्व इत्येव प्रयोगात्। किं च विसेष्यबोदकरथादिपदानां पृथग्विभक्तिकत्वे एकस्यैवानेकपदस्यावृत्याऽन्वय इत्येकसेषानुपयोगः, तेषां द्वन्द्वनिर्देशेऽपि समुदिते एकस्यैवान्वयसम्भवात् तदनुपयेग एव।
अत एव "नञ्" (सू. 2-2-6) सूत्रे -0क-0भाष्ये (म.भा.प्र.ख.पृ. 428) "इदं खल्वपि भूय उत्तरपदार्थप्राधानेय सति संगृहीतं भवति।। किम् - अनेकमिति।। किमत्र संगृहीतम् - एकवचनम्।। आरोपितैकत्ववद्बोधात् बहूनां संप्रत्यय इत्युक्तमनेकं तिष्ठतीति" भाष्ये विशेष्यादर्शनाच्च। 'अनेको जना आगता' इत्यस्य साधुतापत्तेश्च। 'अत्वं भवसि' इत्यादौ लक्षणाश्रयणे क्लेशाच्च।।
न च नञ्समबिव्याहारेऽघट इत्यादौ नञो द्योतकत्वद्धटपदस्यैव घटभिन्नोऽर्थ इति वाच्यम्।
भेदस्य द्योत्यत्वेन विशेषणत्वपातात्।। नन्वनञ् -02-0समासे (L. समभिव्याहारे कमिज्ञापकस्य) इति ज्ञापके सामान्यापेक्षत्वात्, तेन पूर्वपदार्थप्राधान्येऽपि उत्तरपदार्थप्राधान्यप्रयुक्तकार्य ज्ञापनाद् उक्तोदाहरणे पुरुषव्यवस्थासिद्धिरिति चेन्न-
भाष्याविरोधाय अनञ्समासे इति ज्ञापकेन नञ्समासे उत्तरपदार्थप्राधान्यस्यैव -01-0ज्ञापयितुमुचितत्वादिति। (T. द्वितीयपुटे 'घट' इत्यारभ्य एतावत्पर्यन्तं नावलोक्यते) समस्तनञम् उपपाद्यासमस्तनञि विशेषमाह - -2एवं नेति-2।। अत्रेदं तत्वम् = -02-0व्यासे समासे च (T. व्याससमासे च ) सर्वत्र आरोपितत्मेव नञ्द्योत्यम्। समासे एवारोपितत्वं नञर्थः।, असमासे त्वभाव इति वैषम्ये बीजाभावात्। किं च 'घटः पटो ने'त्यादौ नञो बेदार्थकत्वे प्रतियोगिवाचकपदोत्तरं ग्रहस्योच्चैरित्यादाविव षष्ठ्यापत्तेः।।
ननु पटपदस्य पटप्रतियोगिके लक्षणायां तस्य बेदे अबेदसम्बन्देनान्वये भेदस्य च अनुयोगिनि आक्षयतयाऽन्वये उपपत्तिरिति चेत् - अभेदान्वयव्युत्पत्तिभङ्गात्। -03-0तस्या (T. तस्य) अपि -04-0निपातातिरिक्तविषयकत्वे (L. कत्व) क्लेशः। -05-0भेदाश्रयभेदप्रतियोगिनोः (L. भेदश्च, अभेद प्रतियोगे) समानविभक्तिकत्वभङ्गस्च। भेदस्य -01-0निरूपयितुमशक्यत्वाच्च। (L. शक्त) तस्मादारोपितत्वमेव अत्र नञर्थः। -02-0आरोपितघटतादात्म्यो (T. घट ---- न्यायेन - त्यक्ताः) आरोपितघटत्ववान्वा घट इत्येव बोधः। र्थस्तु भेदबोधः। अत एव 'नञि वे'ति न्यायेन तत्सदृशेतरप्रतीतिः। एवमत्यन्ताभावविषयेऽत्र 'घटो नास्ती'त्यादावपि -03-0एतद्देशाधिकरणिका (V2 एतदशाधिकरणितासतेकर्तृकाणेत्येव) घट कर्तृकारोपिता सत्ता इत्येव बोधः। अत एव 'न न एकं प्रियमि'त्यादौ नोऽस्माकं एकमारोपित - प्रियत्ववदिति शाब्दे बोधे स्वसम्बध्येकप्रियनिषेदे आर्थे सत्यनेकप्रियप्रतीतिरिति भाष्ये उक्तम्। गुणोदाहरणं चैतद्बोध्यम्।।
नन्वेवमसमासे क्व द्रव्यान्वयः, क्व क्रियान्वय इति व्यवस्था न स्यात्, नियामकाभावात्। मम तु भेदार्थकत्वे द्रव्यान्वयोऽत्यन्ताभावार्थकत्वे क्रियान्वय इति व्यवस्था सम्भवतीति चेन्न -
यत्र तादात्म्यारोपस्तत्रारोपितत्वं -04-0नामार्थगतं यत्र संसर्गारोपस्तत्र क्रियागतमारोपितत्वम् इति -01-0व्यवस्थासम्भवात्। (L. अबेदेन बोध इति -अधिकः पाठः) आरोपितार्थक्तावदेव च 'न कलञ्जं भक्षयेदि' - त्यादौ आरोपितं कलञ्जभक्षणं प्रेरणाविषय इति बोधः। ततश्च 'प्रकृत्यर्थान्वितस्वार्थबोधकत्व'व्युत्पत्तिभङ्गः{न}स्यात्। अनिष्टसाधनत्वं नञा बोध्यते इति तु लिङर्थविचारे दूषितमेव। अभावबोधस्त्वार्थिकः बाधबुद्धिप्रतिबन्धकतापि आरथिकाभावबोधमादाय निर्वाह्या। अस्तु वा स्वातन्त्र्येणैव तद्वत्ताबुद्धिंप्रति आरोपितत्वज्ञानस्य परतिबन्धकत्वं; न तु -02-0तदभावावगाहितया (T. तदभाववगाहितया) एतन्मते आरोपितत्वव्यतिरेकेणाभावबोधस्य नञ् समबिव्याहारे क्वाप्यबावात्।।
ननु स्वातन्त्र्येण प्रतिबन्धकत्वेऽधिकप्रतिबन्ध्यप्रतिबन्धकभावकल्पनापत्या गौरवमिति चेत् अनायत्वया प्रामाणिकगौरवस्य सत्वात्। सर्वत्र आरोपितत्वस्यैव नञ्द्योत्यत्वादेव च 'तत्सादृश्यमभावश्चे'त्याद्यभियुक्त परिगणितार्थिकार्थेषु भेदाभावयोः -01-0परिगणनम्। (T. परिगणितं) तस्मात् आरोपितत्वमेव सर्वत्र -02-0नञर्थ (सर्वत्रर्थ) इति मूलोक्तप्रथमपक्षा एव न्यायानिति दिक्। 'नेक्षेते'त्यादौ -03-0नञर्थविसेषाश्चान्ततो (L. अन्यथा) अवगन्तव्याः। ग्रन्थविस्तरभयान्न लिख्यन्ते।। -2अत्यन्ता बावत्वेति-2।। त्वादिरूपेणेत्यादिना प्रागभावप्रध्वंसाभावयोः परिग्रहः। अयं भावः =-2अबावस्चतुर्विधः-2 - अत्यन्ताभाव, अन्योन्याबाव, प्रागभाव, प्रध्वंसाभावभेदात्। एततल्लक्षणानि तार्किकग्रन्थेषु प्रसिद्धाननि, तेषां च तद्रूपेणैव परस्परभेदकेन बोधः। वस्तुत अभावो द्विविधः -अत्यन्ताभावोन्योन्याभावश्चेति। तादात्म्येतरसम्बन्धाबावः आद्यः। तादात्म्याबावः अन्त्यः। तादात्म्यं च तद्वृत्यसाधारणधर्मस्वरूपमतिरिक्तं वा। तत्राद्यस्तिङंतार्थक्रियान्वये। [अन्त्यः-]
-04-0असमस्तनञर्थात्यन्ताभावविशेष्यकबोधे (L. वासस्तनञर्थार्य - लेखकप्रमादः) धातुजन्योपस्तितेर्हेतुत्वात्, -05-0समनियताभावस्थले (L. नियतावस्थले) एकस्यानेक प्रतियोगिकत्ववत् अनयोर्घटाद्याश्रयकसत्ताप्रतियोगिकत्वम्। घटादिप्रतियोगिकत्वं च घटसत्ता संसर्गाभावः।, सत्ताभाव घटाभावानां -01-0समनैयत्यात्। (T. समनेयेत्यात्) घटतादात्म्याभावघटाभावयोश्च समनैयत्यात्। -02-0तद्बोधादेव (T,V2 तद्बोऽबूदित्यादि प्रतीत्या सिद्धौ प्रागभागप्रध्वंसाभावादेव च ) च घटविषयकसंदेहादि न। एतेन अन्यथा लक्षणान्युक्तवन्तो गौरवादपास्ताः। 'आटो भविष्यति', 'घटोऽभूदि'त्यादिप्रतीत्या सद्धौ प्रागभावप्रध्वंसाभावो तु नातिरिक्तौ। घटाद्युत्पत्याद्यधिकरणकालेन अन्यभासिद्धत्वात्। एवं च -03-0आदिपदग्राह्यं (T. थसिऽलात्) चिन्त्यमेव; निरूपितञ्चैतल्लकारार्थवादे।।2।। (41)
-0इति
-0लघुभूषणकान्तौ
-0नञर्थनिर्णयः
-0।।श्रियै नमः।।


-0निपातार्थनिर्णयः
-0 -0।। श्रियै नमः।। निपातविशेषनञर्थनिरूपणानन्तरं प्रसङ्गसङ्गत्या निपातसामान्यार्थं निरूपयन्नाह - मूले -0क-0"द्योतका" (वै.सि.का. 42) इति।। दूष्यं प्रतिनिर्दिशति - -2प्रादय-2 इति।। -2द्योतका-2 इति।। द्योतकत्वं च -01-0क्विचित् (L. कश्चित्) समभिव्याहृतशब्दगतवृत्युद्बोधकत्वम्। इदमेवापेरेर्व्यञ्जनमित्युच्यते। -02-0यथा (L. एतत् पदं न दृश्यते) 'प्रजयती'त्यादौ। क्वचित् क्रियाविशेषाक्षेपकत्वमपि। तत्तु यथा 'प्रादेसे विलिखती'त्यादौ विर्मानक्रियाक्षेपकः प्रादेसं विमाय लिखतीत्यर्थावगमात्। क्वचित्तु सम्बन्धपरिच्छेदकत्वं तत्। यथा कर्मप्रवचनीयस्य। द्योतकानां तात्पर्यग्राहकत्वानर्थकत्वव्यवहारस्तु स्वतः कस्यचिदर्थान्तरस्य शक्तिलक्षणाभ्यामप्रतिपादनादिति बोध्यम्।। -2वैषम्ये बीजाभावादिति-2।।
ननु उपसर्गो द्योतकः, उपसर्गत्वात् 'यन्नैवं तन्नैवमि'ति व्यतिरेकानुमानमेव वैषम्ये बीजम्।
न च पक्षतावच्छेदकहेत्वोरैक्यात्साध्यसिद्धेः, सिद्धसाधनं दोष एतदनुमाने इति वाच्यम्। उपसर्गपदवाच्यत्वस्य पक्षतावच्छेदकत्वेनादोषादिति चेत् न।
शक्तिसम्बन्धेन निपातपदवत्वरूपमखण्डं वा निपातत्वं पक्षतावच्छेदकीकृत्यनिपातत्वेनैव हेतुना अर्थकनिपातानुरोदेन वाचकत्वाभावसाधनस्य युक्तत्वादिति कौस्तुभकृतैव समाधानात्। सामान्ये प्रमाणानां पक्षपातादिति। वस्तुत उपसर्गत्वापेक्षया व्यापकत्वेन निपातत्वावच्छेदेन द्योतकतासाधने तदपेक्षयाऽपि व्यापकत्वादव्ययत्वरूपधर्माकच्छेदेनैव तत्सिध्यापत्तेः, इष्टापत्तौ तु स्वरादीनामपि -01-0'श्वः पश्येदि'त्यादौ (T. स्वः) -02-0स्वातन्त्र्येण (L. 'सा' इत्याधिकः पाठः) प्रयोगानापत्तेः। द्योत्यार्थस्य विसेषणत्वमेवेति नियमस्याग्रे प्रतिपादनीयत्वात्। "स्वरादिनिपातमव्ययमि" (सू. 1-1-37) त्यत्र द्योतकमव्ययमित्येव सिद्धे स्वरादिनिपातग्रहण वैय्यर्थ्यापत्तेश्च। अव्ययसंज्ञाया लौकिकत्वेनान्वर्थत्वेन च -03-0सिद्धेऽ(सिद्धेर-) (L. असिद्धे) न पूर्वत्वेनान्योन्याश्रयाभाव इति बोध्यम्। यत्तदोर्नित्यसंबन्धात् तत्पदाध्याहारेण योजयति तेनैवेति।। -2व्युत्पत्तेरिति-2।। अकर्मत्वापत्तेरित्यपि बोद्यम्।। -2प्रत्ययापत्तेश्चेति-2।। अनुभवार्थकानुशब्दप्रत्ययादिति भावः।। -2गौरवादिति-2।। 'लघौ सम्भवति गुरौ तदभाव' इति शक्ततावच्छेदकतया गुरावस्वीकारादिति भावः। -01-0विशिष्टस्य (L. गौखादिति - लधौ संभवति तस्यापत्तेश्च) धातुत्वे लडाद्यवस्थापत्तेश्च।। -2द्योतकत्वमितीति-2।। नै यायिका इति शेषः।। दूषणमाह - -2तच्च-2 -2चादीति-2।। स्वयं मूलकारः - स्वार्थेति - विशेषणसाफल्यमाह - -2धातेरिति-2 - -2न स्यादिति-2।। इदमुपलक्षणम्।। उपासनाया उपार्थत्वे 'उपकरोती'त्यादौ उपासनाप्रतीत्यापत्तेरप्रकृत्यर्थतया प्रत्ययार्थनन्वयापत्तेश्च।। -2गौरवादिति-2।। क्रियावाचकत्वेऽपि विशिष्टस्य गणपाठेऽपाठेन धातुत्वालाभेन लकारानुपपत्तिः। 'बहूलमेतन्निदर्शनमि'ति चेत्तर्हि द्विवचनाडागमादिकमपि उपसर्गस्य स्यादिति बोद्यम्।। 1।। (42)
-2अन्यत्र-2।। प्रादिभिन्ने।। -2तत्तदर्थे-2 = साक्षात्काराद्यनुकूलव्यापाराद्यर्थे। एतेन कृधातोरुत्पत्यनुकूल- -02-0व्यापारार्थत्वे (L.
व्यापारार्थत्वेपि न) सकर्मकत्वेऽपि निस्तारः सूचितः, तदेव [वक्षति-] वक्ति -2यद्यपीति-2 - अमीषाम्। साक्षादादीनाम्। कृधातोरुत्पत्यर्थ कतायाः।। -2एषु-2।। साक्षात्कारादिषु।। -2अन्यथा-2।। सकर्मक्तमात्रेणार्थान्तरेपि सकरम्कत्वप्रयुक्तकार्याङ्गीकारे।। -2स्यादिति-2।। कर्मणि लकारः स्यादित्यर्थः।।
-2कोशस्वरसादिति-2।। नमः पदस्य केवलस्य 'हरये नम' इत्यादौ नमस्कारवाचकस्य दर्शनाच्चेत्यपि बोध्यम्। फलस्य स्वार्थत्वाभावेन निरुक्तसकर्मकत्वलक्षणाव्याप्तेराह -2स्वस्वेति-2।। स्वं धातुः स्वं स्वयुक्तनिपातश्च एतदन्य तरार्थोपलक्षणमित्यर्थः।। -2सुवचमिति-2।। कर्मत्वमप्येतन्मते स्वस्वयुक्तनिपातान्यतरार्थफलशालित्वमेवेति न कर्मणि लाद्यसिद्धिः।। -2भेदेन-2।। अनुकूलतासम्बन्धेन।। -2अन्वयासम्भवादिति-2।। अभेदातिरिक्तसंबन्धेन -01-0नामार्थकप्रकारकबोधं (T. प्रकाशाद) प्रति प्रत्ययजन्योपस्थितेर्हेतुत्वस्य स्वीकारादिति भावः।। -2अन्यथा-2 = तादृशव्युत्पत्यस्वीकारे।। -2तण्डुलः पचतीति-2।। अत्र कर्मत्वस्य संसर्गत्वेन विभक्यर्थत्वाभावात् न द्वितीया; "लः कर्मणि" (सू. 3-4-69) इत्यादौ स्वस्वयुक्तेत्यादिरूपेण सकर्मकपदाद्बोधस्य दुर्लभत्वाच्च। -01-0अन्यतरत्वस्य (L. अन्यतस्त्वस्य भेदद्वपावच्छिन्न प्रतियोगिताकभेद) भेदरूपस्यातिगुरुत्वाच्च। तान्त्रित जगतोऽज्ञानेन दुर्ज्ञेयत्वाच्च। तत्तच्छास्त्रीय कर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वमिति -02-0परिष्कृतलक्षणेऽपि (L. परिष्कृत --- प्रति - न दृश्यते) फलाश्रयत्वेन कर्मसंज्ञकस्य धात्वर्थे फले एवान्वयौचित्येन द्योतकतां विनाऽनिर्वाहाच्च। दूषणान्तरं प्रतिबन्द्यैवाह - -2किञ्चेति-2।। -2न तदन्वयः-2 = न विसेषणान्वयः। -03-0-2तत्र-2 (L. तन्न) = प्रादौ। -2इति साधकान्तरमिति-2।। इत्यपि चादिषु समिति साधकतान्तरमित्यर्थः।। -04-0-2आपत्तेस्तुल्येति-2।। (L. आपत्तेः ---- कस्य न दृश्यते) मन्मते तु चादेरपि तात्पर्यग्राहकत्वेन अनर्थक्तावन्न दोषः।।
-2अन्वयासम्भव इति-2।। प्रातिपदिकार्थयोर्भेदेनान्वयबोदे विभक्तिजन्योपस्थितेः कारणत्वादिति भावः।। -2अन्यथा-2 = प्रातिपदिकार्थयोर्विना।। -2विभक्त्यर्थमिति-2।। भेदेनान्वयापत्तेरिति 'राजपुरुष' इत्यत्रेवेति भावः। वस्तुतः शब्दशक्तिस्वाभाव्येन नित्यं परतन्त्रतया निपातैः स्वार्थस्यपरविशेषण अन्वयाप्रसङ्गः, षष्ठ्यप्राप्तिश्च। किं च 'घटं पटं च पश्ये'त्यादौ घटमित्यत्र द्वितीया दर्शनेन तस्य क्रियायामेव शाब्दान्वयः। घटसमुच्छयवन्तं पटं पश्येति बोधः। तथा सति समुच्चयस्य प्रतियोग्याकाङ्क्षायां सन्निहितत्वात् घटस्य प्रतियोगित्वं पटे तु समुच्चयस्य भेदेनान्वयो; न तु पटस्य समुच्चये।।2।। (43)
ततश्च भेदे विधीयमानषष्ठ्याः प्रतियोगिवाचकपदोत्तरमेव विधानान्न षष्ठ्यवकाशः। 'पदार्थः पदार्थे'ति न्यायेन -01-0विशेषणासम्बन्धस्चेति (L. 'ष' - न) भेदान्वयव्युत्पत्तेः व्यभिचारवारणाय तस्यां निपातातिरिक्तत्वं -02-0विशेषणमभिधाय (L. 'ष' - न) अभेदान्वयव्युत्पत्तेरतिप्रसङ्गं वारयितुं, तत्रापि निपातातिरिक्तत्वं विसेषणमाह - -2पदार्थ-2 इत्यादिना।। -2अबेदान्वयव्युत्पत्तेरिति-2।। अबेदसम्बन्धेन -03-0प्रातिपदिकार्थप्रकारकशाब्दबुद्धिंप्रति (T. प्राति ---- विभक्त - न दृश्यते) विरुद्धविभक्त (क्ति -) तनवरुद्धप्रातिपदिकधात्वन्यतरजन्योपस्थितिर्हेतुरिति कार्यकारणभावस्य 'नीलो घटः', 'स्तोकं पचती'त्येतद्विषयकस्य 'राज्ञः पुरुष' इत्यत्र -04-0अभेदबोधवारणायावश्यकस्य, (L. 'स्य' - न) 'घटश्च, प्रजयती'त्यादौ अतिप्रसक्तौ निपातातिरिक्तत्वविसेषणेन तद्वारणे गौरवाद्यापत्तरिति भावः। वस्तुतौ.़भेदान्वयव्युत्पत्तेर्निपातातिरिक्तविषयकत्वात् प्रामाणिकगौरवस्यादोषत्वात् वाचकत्वेपि न अभेदान्वयावकाशः। किञ्च वाचकत्वमते चादेः समुच्चये, न शक्तिः। अपि तु समुच्चिते। तदुक्तं -0क-0"समुच्चिताबाधाने तु व्यतिरेको न विद्यते" (वा.प.का. II. श्लो. 195) इति। एवञ्च षष्ठ्याः प्रसक्तिरेव नेति द्विविधव्युत्पत्तावपि निपातातिरिक्तत्वं न देयमेव। धर्म्यंशे शक्तिकल्पनाप्रयुक्तं गौरवं प्रामाणिकत्वान्न दोषायेति बोद्यम्। -2अत एव-2 = द्योतकत्वादेव। -2तत्प्रतियोगिके-2 = घटप्रतियोगिके ऽभावे। अन्यथा नञर्थेऽभावे प्रतियोगितया घटस्यान्वयेन -01-0लक्षणाम् (T. लक्षणं) विनैव उपपत्तेः तत्स्वीकारस्तेषां वृथा स्यादिति भावः। एतेन नैय्यायिकमतविरोधोपि तवेति सूचितम्।।3।। (44)
वाचकत्वे दूषणान्तरमाह - -2अुपि चेति-2।। -2साधेति-2।। द्योतकत्वे इति शेषः। -2परत्वे-2 = लक्षणयेति भावः।। -2अन्यथा-2।। इवेति निपातस्य वाचकत्वाङ्गीकारे।। -2तस्य-2 = इवार्थसदृशस्य। -2अनेन-2 - उस्रपदोत्तरप्रत्ययेन।। -2असम्भवादिति-2।। "अव्ययादाप्सुप" (सू. 2-4-82) इति ज्ञापकात्सुबुत्पत्तावपि प्रथमैक वचनमेवोत्पद्यते इति सिद्धान्तात्।
तथा च सदृशस्यापि करणत्वं -01-0दूरापास्तमिति (l. दूं) भावः।।
ननु इवशब्दस्य सदृशरूपधर्मवाचकतामूरीकृत्य सुसामान्योत्पत्तिज्ञापकात्सर्वासां विभक्तिनामेकवचनोत्पत्तिज्ञापकाद्वा 'ऽव्ययादाप्सुप' (सू. 2-4-82) इति वचनात् तृतीयोत्पत्तौ प्रकृत्यर्थस्य सदृशस्य -02-0करणत्वे (l. करणत्वेन) च तेन सहसरस्याभेदान्वयो भविष्यतीत्यत आह - -2सम्भवे वेति-2।। वा शब्दो अनास्थायाम्। -03-0तृतीयोत्पत्तावपि (L. कर --- त्वं -
न दृश्यते) तस्यास्च लुकाऽश्रवणेऽपि न तस्याः कर{ण}त्वं निरर्थकत्वात्।।
ननु धर्म्यर्थकत्वेऽपि लिङ्गाद्यनन्वयात् स्वरादिपाठेनाव्ययत्वाच्च लुगनुत्पत्तिभ्यां न तृतीया श्रवणमत आह - -2उस्रशब्दो(पदो)त्तरेति-2।। -2अनन्वय इति-2।। उस्रत्वादिपदस्य तदर्थसदृशार्थकत्वे च वागर्थपदयोः तदर्थसदृशपार्वतीपरमेश्वररूपेऽर्थे वदिकर्मत्वादिकं सुसङ्गतमिति भावः। संपृक्तत्वं तु सामान्यधर्म इत्यन्यत्। 'कटमपि भीष्ममपी'त्यादौ विशेष्यस्यैव क्रियान्वयेन न तत्तत्सामानादिकरण्याद्विसेषणे द्वितीयेति मतेनाह -2उभेदार्तेति-2।। -0क-0'न केवले'ति ('न केवलाप्रकृतिः प्रयोक्तव्या; नापि केवलप्रत्ययः' - "सरूपाणामेकशेष एकविभक्तौ" (सू. 1-2-64) म.भा.प्र.ख.पृ. 75) न्यायेनाह - -2साधुत्वेति-2।। -2अस्रसदृशेति-2।। वस्तुगत्या उस्रसदृशानां शरणमित्यर्थः।। -2भेदेनेति-2।। उस्रपदार्थेन सहेति शेषः। समानाधिकरण प्रातिपदिकार्थयोरबेदेनैवान्वय इति व्युत्पत्तेरिति भावः। उस्रशब्दस्य उस्रसदृशार्थकत्वे तु अबेदः सिध्यतीति भावः।।
ननु इवादेर्द्योतकत्वेऽपि द्योतकद्योत्यार्थस्य विसेषणत्वस्यैव अग्रे प्रतिपादनीयतया उस्रैरित्यस्य तत्सदृशैरित्यर्थकत्वाभावेन कथं तस्य शरैरभेदान्वयसिद्धिः। किं च 'घनश्याम' इत्यादौ विग्रहे समासे च घनपदस्य भवदुक्तरीत्या -01-0तत्तत्सदृशपरत्वे (L. तत्तत् - न) उपमानत्वेन बोधकानि सामान्यधर्मविशिष्टैः उपमेयवचनैः समानाधिकरणैः समस्यैन्ते इत्यर्थकेन "उपमानानि सामान्यवचनै" (सू. 2-1-55) रित्यनेन समासो न स्यात्। घटपदस्य सदृशरूपे उपमेयपरत्वेन उपमानवाचकत्वाभावात्। च भूतपूर्वगत्या लौकिकविग्रहवाक्यीयमुपमानवाचकत्वम्। तत्राप्युक्तरीत्या तत्वाभावात्। 'धनेन तुल्य' इत्यत्र धनपदस्य शुद्धोपमानवाचकत्वेऽपि तस्य समानाधिकरणत्वाभावात्। प्रत्यासत्यावृत्तौ तद्विग्रहवाक्ये च उभयत्र उपमानवाचकत्वस्य ग्रहणौचित्यात्। -02-0व्यधिकरणलौकिकवाक्यस्यापि (L. वाक्यस्य।) विग्रहत्वमूरीकृत्य समासाङ्गीकारे 'मृगचपले'त्यादावुक्तरीत्या मृग्या तुल्यान्वयः. चपलेत्यस्यापि -03-0विग्रहत्वे (L. ---- हेत्वे) -04-0असामानाधिकरण्यात् (T. सामानाधि) -01-0पुंवत्वानापत्तिः। (T. पूंवत्व --- पुंवत्व "पर्यन्तं त्यक्तं भवति।") प्रत्यासत्या वृत्तिविग्रहयोरुभयत्र सामानाधिकरण्ये एव पुंवत्वप्रवृत्तेः। मृग्यादेः सदृश्यसम्बन्धेन चपलापदार्थेऽन्वये तु सुतरां सामानाधिकरण्यानुपपत्या समासपुंवत्वानुपपत्तिः।।
किञ्च घनस्यामपदस्य उपमेयपरतया घने तदन्वयाऽभावेन घनस्य साधारणधर्मवैशिष्टयेन इतरपरिच्छेदकत्वरूपवक्ष्यमाणोपमानत्वाभावात् समासो न स्यात्। स्पष्टञ्चेदम् "उपमानानीति" (सू. 2-1-55) सूत्रे भाष्ये इति चेत्तर्हि त्यज्यताम् इवशब्दस्य सदृशद्योतकत्वम्। कथं तर्हि निस्तार इति चेत् - अत्र -0क-0परमगुरवः। (लघुमञ्जूषा - निपातार्थे - पृ. 618) 'इवादीनां स्वसमभिव्याहृते उपमानता - द्यतकत्वमुपमानत्वेन प्रतीतेः'। साधारणधर्मविशिष्टोपमेयप्रतीतिं विना अनुपपत्योभयत्रापि साधारणधर्मसम्बन्धबोधे तात्पर्यग्राहकत्वञ्च। उपमानत्वञ्च साधारणधर्मवैशिष्ट्येनै (न्यादि-)तरपरिच्छेदकत्वम्, तद्धर्मत्वेन परिच्छेद्यत्वं च उपमेयत्वं; न त्वालङ्कगारिकोक्तं तद्गुरुभूतम्। "उपमानानी" (सू. 2-1-55)ति सूत्रे -0ख-0भाष्ये (म.भा.प्र.ख.पृ. 396, 397) ध्वनितमिदम्।
साधारणधर्मान्वयश्चोभयत्रापि।। तथा च चन्द्र इव मुखम् आह्लादकमित्यादौ आह्लादकोपमानभूतचन्द्राभिन्नमाह्लादकम् मुकमित्यादिरीत्या बोधः। ततश्च उपमानोपमेययोः अबेदान्वयानुरोधात् तयोः समानविभक्तितत्वनियमो -01-0दुर्लभः। (L. "पि साधारणधर्मसम्बन्धश्च क्वचिद्विसेषणतया यथो एते क्वचिद्विशेष्यतयापि यथा चन्द्र इव मुकमाह्लादयतीत्यादौ अत्र हि उपमानभूत चन्द्रकर्तृकाह्लादाभिन्नो मुखकर्तृकाह्लाद इति बोधः। अत्र चन्द्रसादृश्यप्रयोजके मुखकर्तृकाह्लाद इति वदतामालङ्कारिकाणां तु तयोः समानविभक्तिकत्व नियमो" - अधिकः पातुः) व्याकरणे उपमानोपमेययोः समानविभक्तिकत्वमिति वचनानुपलभ्यात्। तत्र प्रतमोदाहरणे यद्यपि चन्द्रमुकयोश्चन्द्रत्वमुखत्वाभ्यां बेदस्तथापि विशेषणतया प्रतीत - साधारणधर्मनिमित्ताबेदोपचारेणाभेदः। अत एव भेदाभेद प्रधानोपमेति वृद्धाः। चन्द्रमुखयोः सादृश्यप्रतीतिस्त्वार्थ्येव।
एवं 'घनश्यामः' 'शस्त्रीश्यामे'त्यादि वृत्तावपि उपमान श्यामगनाभिन्नः 'श्यामो देवदत्त' इति, उपमानश्याम शस्त्र्यभिन्ना 'श्यामा देवदत्ते'ति च बोधः। कथमुभयत्र श्रौतः श्यामत्वान्वय इति चेत् श्टणु -
तत्रोभयं वर्तते इति "उपमानानी" (सू. 2-1-55) सूत्रस्थभाष्यप्रामाण्येन उपमानशब्दस्यापि श्यामादेः सादृश्य मूलभेदाद्यवसायेन उपमेये वृत्तेस्तत्र सादृश्यनिर्वाहाय अस्यैव उपमेयविशेषणीबूतश्यामत्वादेः तन्त्रादिना उपमानेऽपि सम्बन्धस्य अवश्यं वाच्यत्वात्। अत एव -0क-0कैयटेन (म.भा. प्रदीपः. प्र.ख.पृ. 396) 'यदा स्यामपदार्थभूतदेवदत्तायां
शस्त्रित्वमारोप्यते, सादृश्यात् तदा कं गुणमाश्रित्य तयोः सादृश्यमित्याशङ्क्य यदा चन्द्रमुखीत्यादौ चन्द्रेऽनेकगुणसत्वेऽपि तात्पर्यवशात् प्रियदर्शनत्वमारोप्यते सोऽत्राऽनिर्दिष्टोपि गुणो वृद्धव्यवहारात् उपमानिमित्तं पदा प्रकृते उपमेये श्रुतः इयामत्वादिगुणः सन्निधानात् कथं नोपमान स्प्रक्ष्यति' इति समाहितम्।
अत एव च "उपमानानी" (सू. 2-1-77) ति सूत्रे सामान्यैरित्येव सिद्धे सामान्यवचैरित्युक्तिः। स च तन्त्रादिना उभयान्वयित्वेन उभयगतधर्मवाचकत्वबोधनार्था। तस्मात् सामान्यधर्मस्य उपमानोपमेययोः व्यासे समासे च शाब्द एवान्वय इति सिद्धिः।।
-0ख-0नन्वेवं (नन्वेवं 'पुरुषो व्याघ्र इव शूरः' इत्यत्राप्युभयत्र सम्बन्धाद् विसेषणस्यापि सविसेषणत्वे सविसेषणानां वृत्तिर्नैति समासाप्राप्त्य 'सामान्याप्रयोगे' इत्यस्य वैयभ्येमिति भावः।।) 'पुरुषो व्याघ्र इव शूर' इिति सामान्याप्रयोगे इति व्यर्थमिति चेन्न-
उपमानत्वेन बोधकस्य व्याघ्रस्य साधारणधर्मांशे नित्यसापेक्षत्वेनाऽदोषात्। साधारणधर्मवत्वेन परिच्छेदकत्वं तु उपमानत्वमित्यभिहितं प्राक्। काव्य प्कासादि - स्वरसोप्येवमेवेति स्पष्टमन्यत्र। तथा च इवादियोगे साधारणधर्मसम्बन्धरूपोपमाशाब्दीः सादृश्यप्रतीतिरार्थी। सदृशादिशब्दयोगे सादृश्यप्रतीतिः शब्दीः उपमात्वार्थी। सादृश्यं च साधारणधर्मसम्बन्ध प्रयोज्य-सदृशादिपदशक्ततावच्छेदकतयासिद्धमखण्डमतिरिक्तः पदार्थः; न तु तद्भिन्नत्वे सतीत्यादिबेदघटितं साधारणधर्मस्वरूपम्। अत एव च "अकर्तरि चे" (सू. 3-3-19) ति सूत्रे -0क-0भाष्ये (नञ्युक्तमिवयुक्तं चान्यस्मिन् तत्सदृशे कार्यं विज्ञायते तथा ह्यर्थो गम्यते म.भा.द्वि.ख.पृ. 225) 'नञिवयुक्ते'ति न्यायेऽन्यसदृशेति अन्यपदं सार्थकम्। अन्यसादृस्यस्य भेदघटितत्वेन सदृशे इत्यनेनैव तल्लाभे पदनर्थकं स्यात्। अत एव च अनेन अयं सदृश इत्युक्ते, केन धर्मेण अनयो = सादृश्यमित्येव जिज्ञासा जायते; न तु को धर्मोऽनयोः -0क-0सादृश्यमिति। (असम्बद्धः पाठः) [च व्यञ्जकादि भेदाद्भिन्नम् -] तया ह्यर्थगतिरिति भाष्यादपि इव योगे सादृश्यावगतिमात्रं, न तु तस्य तद्द्योत्यता वाच्यता वा प्रतीयते। इतोपि इवादियोगे सादृश्य प्रतीतिरार्थीति लभ्यते। 'नञिवयुक्ते'त्यत्रेवोदाहरणं तु "इवे प्रतिकृतावि"त्यधिकारे (सू. 5-3-96) "शाखादिभ्यो य" (सू. 5-3-103) इति यसोम्य इत्यादि। तत्र सोमभन्नः सोमसदृशः प्रतीयत इति। न च अभेदेऽपि सादृश्याङ्गीकारे अनेकवृत्तिधर्मस्यैव असाधारणधर्मत्वेन तदभावात् कतं तत्प्रयोज्यं सादृश्यमिति वाच्यम्।
तन्त्रावृत्यादिना एकस्याप्यनेकत्वात्। -0ख-0एका (म.भा.प्र.ख.पृ. 66) कारव्यक्तिरिति पक्षे "अइउण्" (शिवसूत्रम्) सूत्रभाष्यादौ स्फुटमेतत्।।
न च अभेदेप्यावृत्यादिकृतभेदमादाय साधारणधर्मान्वयेन तदङ्गीकारे 'मुखमि'त्यादावपि कालादिकृतभेदमादाय तत्वेन उपमैव स्यादित्यनन्वयालङ्कारोच्छेदापत्तिरिति वाच्यम्।
तस्य भेदस्य शब्देनासस्पर्शादिति। स्पष्टं चैतत् सर्वं -0क-0मञ्जूशायामिति (लघुमञ्जूषा - निपातर्थे - पृ. 618-22) अलम्। शरैरुस्रैरित्यत्रैतन्मते चन्द्रमुखीत्यादिवत् वृद्दव्यवहारतः प्रतीततीक्षणत्वेन साधारणधर्मतायां तीक्षणोपमानोस्राभिन्नैः तीक्ष्णैः शैरेरिति बोधः।।4।। (45)
आशङ्कते - -2न हीति-2।। (नन्विति-) -2उपसर्गस्येति-2।। निपातमात्रोपलक्षणम्।। -2अर्थवत्वाभावेनेति-2।। तन्मते शक्तिलक्षणातिरिक्तव्यञ्जनावृत्तेरबावादिति भावः।। -2न स्यादिति-2।। ततश्च 'अपदं न प्रयुञ्जीत' इति निषेधात् प्रयोगो न स्यात्, तस्याश्च पदत्वादिनिबन्धनं कार्यमिति भावः।। -2तमेव-2 = द्योत्यमेव। व्यञ्जनापरपर्यायद्योतनाया अपि वृ(त्ति)त्वस्वीकारादिति भावः।। -2प्रातिपद्कत्वामिति-2।। ततः सबुत्पत्तिरिति भावः।।
ननु "अर्थवत्" (सू. 1-2-45) सूत्रे शक्तिलक्षणान्यतरसम्बन्धेनैव अर्थबोधजनकत्वरूपार्थवत्वस्यैव ग्रहणात्कथं प्रतिपदिकत्वम्। अतो व्यञ्जनावृत्तेरस्वीकारे म्याह - -2वस्तुत-2 इति।। ज्ञापकाश्रयणे क्लेशादाह - -2निपातस्येति-2 तस्यापि "अधिपरी" (सू.य 1-4-93) इति ज्ञापकेन प्रत्याख्यानादाह - "-2कृत्तद्धिते-2" (सू. 1-2-46)-2ति-2। वस्तुतो व्यञ्जनाया वैयाकरणानामावश्यकत्वस्यान्यत्र प्रतिपादितत्वेन "अर्थवत्" (सू. 1-2-45) सूत्रदौ शक्तिलक्षणाद्योतकान्यतमसम्बन्देन बोधजनकत्वरूपार्थवत्वस्यैव ग्रहणेन "अर्थवत्" (सू. 1-2-45) सूत्रेणैव प्रातिपदिकत्वमिति बोद्यम्। प्रतिपादितं चैतत् अधस्तात् शक्तिवादे।
उपसंहरति - -2तस्मादिति-2।। अत्रार्थे सम्मतिमाह -2उक्तं चेति-2।। -2चतुर्विधे-2।। नामाक्यातोपसर्गनिपातरूपे।। -2द्विविधस्य-2 = नामाख्यारूपस्य।। -2व्यापारो-2 = वृत्तिः।। शक्तिलक्षणान्यतररूपो न विद्यते। एतन्मते व्यञ्जनावृत्तेरस्वीकार एवेति भावः।।
-2अन्यत्र-2 = स्वार्थादन्यत्र ब्राह्मण इत्यादेः। यद्यपि लोके विशिष्टाबोध इति विशिष्ट एव क्रियावाची। अडादिव्यवस्थायामेव (र्थमेव-) धातूपसर्गयोः पृथक् कल्पनम्। तदुक्तम् =
"अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम्।
दातूपसर्गयोः शास्रे दातुरेव तु तादृशः।।" इति "क्रियाविशेषाः संघातैः प्रकम्यं ते तथाविधः" (वा.प. II. श्लो. 181) कार्याणामंतंरं मत्वेवं दातूपसर्गयोः साधनैर्याति सम्बन्ध तथाबूतैव सा क्रियेति च। तथापि "सुट्कात् पूर्वः" (सू. 6-1-135) "गतिर्गतावि" (सू. 8-1-70) त्यादिसूत्रस्थबाष्यप्रामाण्यात् क्रियायाः साद्यत्वेन प्रतीतेः साधनयोगमन्तरेणासम्भवेन क्रियात्वाबावात् तद्योगनिमित्तकोपसर्गसंज्ञकशब्दयोगासम्भवाच्च, पूर्वमुपसर्गार्थमब्यन्तरीकृत्य धातुः साधनेन युज्यते।।
ततः क्रियात्वानिष्पत्तौ पौद्धृबोधार्थमुपसर्गसंज्ञकशब्दयोग इति सिद्धम्। तदुक्तं -0ख-0"धातोः (वा.प. IIय. श्लो. 184-185) -01-0साधनयोगस्य (L. योगिन) बाविनः प्रक्रमाद्यथाऽधातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम्"। "बद्दिस्थादपि सम्बन्धात् तता धातूपसर्गयोः अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते" इति पूर्वोक्तहरिस्तद्भाष्यासम्मतत्वादनादेयः। एवं च पूर्वं दातुः साधनेन पूर्वं धातुः उपसर्गेणेत्यनयोरेकवाक्यतैवेति -0ग-0स्पष्टमन्यत्र। (परिभषेन्दुसेखरादौ - अन्तरङ्गपरिभाषा - सं - 50)
तथा च एतस्मादपि द्यतकतैव लभ्यते। "उपपदमातिङ्" (सू. 2-2-19) इति -0क-0सूत्रभाष्यादपि (म.भा.प्र.ख.पृ. 440, भा.प "पूर्वं धातुः साधनेन युज्यते, पस्चादुपसर्गेण") द्यतकतैव पसर्गयोः समासमाशङ्कय 'पर्वं धतुः साधनेन युज्यते इति पूर्वं तिङ्विशिष्टेनैव सामर्थ्यं स्यात्। तत्र अतिङिति निषेधात् अतिङ्न्तेनैकार्थीभाव इति समाहितम्। पूर्वं दातोः उपसर्गसंज्ञकशब्दसम्बन्दे, तस्य धातु वाचकत्वे च समसो दुर्वार एव स्यात्। पूर्वं धातोः साधनेन योगश्चोक्तरीत्या उपसर्गार्थमभ्यन्तरीकृत्यैव; अन्यथा उपास्यते गुरुरित्या0दौ कर्मणि लाद्यनापत्तरिति।'
"नेर्विश" (सू. 1-3-17) इत्यादेरपि नेः -परत्वयोगादित्यर्थकत्वेन अदोषः। अत एव अन्यत्र विशते इत्यादावात्मनेपदसिद्धिरित्यलम्।। 5।। (46)
-2चोक्तरीत्येति-2।। प्रजयतीत्यादौ -02-0प्रपदसमभिव्याहारेण (L. प्र ----- अवयव - दृश्यते) दातोरेव प्रकर्षादिविशिष्टे जये लक्षणेत्युक्त रीत्येत्यर्थः।। -2तिङादेः स्यादिति-2।। तथा च सर्वत्र अवयवशक्ते -01-0र्दुर्ज्ञेयताप्रसङ्ग (l. दुर्ज्ञेय) इति भावः। वस्तुतः 'पञ्चकं धात्वर्थ' इति तिङादेः द्योतकत्वे इष्टापत्तिरेवेति निरूपितमधस्तात्।। -2न व्युत्पन्न इति-2।। भेदान्वयव्युत्पत्तिरूपमिदं वस्त्वित्यर्थः।। -2इत्यपि-2 = अभेदान्वयव्युत्पत्तिरूपमिदमित्यपि।। -2तथाः-2 = निपातातिरिक्तविषयम्। तथा च द्वयोरपि व्युत्पत्योः निपातातिरिक्तविषयतेति भावः।। -2अगत्येति-2।। द्योतकतानये प्रजयतीत्यादौ धातोः प्रकर्षाद्युपेतजये शक्तिर्लक्षणा वा प्रशब्दस्य तत्तदर्थत्योदकता वेति वृत्तिद्वयकल्पने गौरवाच्छक्तिद्वये निपातातिरिक्तत्वरूप विशेषणदानप्रयुक्तं गौरवं न दोषायेति भावःष वस्तुतो वाचकत्वमतेऽपि चादेः समुच्चितवाचकत्ेन समुच्चयादेः निपातार्थैकदेशत्वेन 'पदार्थः पदार्थेति' न्यायेन न ततर् शोभनादिविशेषणान्वयो; नापि षष्ठी। तथा च 'घटश्चे'त्यादौ समुच्चितेन चार्थेन घटादेरभेदान्वये बाधकाभावान्न व्युत्पत्तिद्वयेऽपि निपातातिरिक्तत्वं विशेषणं देयमित्युक्तं प्राक्।।
-2विधिवैय्यर्थ्यमिति-2।। अनर्थकनिपातस्यैवाभावदित्यर्थः।। -2अनर्थकस्येति-2।। -2व्यर्थमिति-2।। इदानीमर्थवतो निपातस्य असत्वेन व्यावर्त्याप्रसिद्धेरिति भावः।। -2अभ्युपेयमिति-2।। तथा च उभयसार्थक्यं स्पष्टमेवेति भावः।। -2एवं हि-2 = वार्तिकवैय्यर्थ्यशङ्कावारणे हि। सर्वेषां द्योत्यत्वेऽपि वार्तिकसार्थवयाह -2सर्वार्थेति-2।। -2उपात्तानां-2 = तु हि च वै इत्यादीनाम्। -2तस्य-2 वार्तिकस्य।। -2प्रत्याख्यातत्वाच्चेति-2।। "अधिपरी अनर्थकौ" (सू. 1-4-93) इति -01-0सामान्यापेक्षज्ञापकेनेति (l. सामान्यादेरशापका) भावः। निपातानां वाचकतावादिमीमांसकमतं खण्डयति - -2बहुवचनमिति-2।। अन्वयव्यतिरेकादाह - -2केवलेति-2 - -2चकार एव चेति-2।। निपात एव। एवेन समभिव्याहृतवृक्षादिशब्दव्यवच्छेदः।। -2तात्पर्यग्राहकत्वेन-2 द्योतकताग्राहकत्वेन।। -2उपयुक्ताविति-2।। न तु शक्तिग्राहकत्वेन उपयुक्तावित्यर्थः।। -2समुच्चिते लक्षणेति-2।। द्योत्यार्थस्य विशेषणत्वेनैव भानस्य अनुपदमेव प्रतिपादनीयत्वात्।। -2आवश्यक इति-2।। पटपदाधीनसमुच्चितपटरूपार्थबोधं प्रति लक्षणाजन्योपस्थितेः कारणत्वमिति।। -2एवं शक्तिरिति-2।। उक्तबोधं प्रति पटपदशक्तिजन्योपस्थितेः कारणात्वमिति अर्थः।।
-2पक्षद्वयेऽपीति-2।। द्योतकतावाचकतापक्षयोरित्यर्थः।। -2अत एव-2 = पक्षद्वयस्याभिमतत्वादेव।। -2विशेषाणां सम्भवादिति-2।। 'प्रपचती'त्यादौ उपसर्गाणां प्रकर्षादिद्योतकत्वम्। 'प्रतिष्ठते' इत्यत्र तु गतिनिवृत्तेः प्रारम्भप्रतीतौ
प्रादेर्द्योतकत्वमेव। गतिप्रतीतौ तु वाचकत्वमपीत्यर्थः यद्यप्युपसर्गाणां द्योतकत्वं आतोर्वाचकत्वमित्यत्र-0 1-0पक्षे (l. पक्षेण स्यादिभिः) न लाघवं; तथाप्येकस्योपसर्गस्य धातुभेदेनार्थभेदैत्, क्वचिदनर्थकत्वान्निरुक्तभाष्यविरोधाच्च द्योतकत्वमेव। अत एवोक्तं हरिणा -
-0क-0स्यादिभिः केवलैर्यत्र गमनादि न गम्यते।
तत्रानुमानाद् द्विविधात्तद्धर्मा प्रादिरुच्यते।। (वा. प. का. II. श्लो. 189) (स्थादिभिः केवलैर्यच्च गमनादि तु गम्यते इति उपलभ्यमान पुस्तकपाठः)
क्वचित् सम्भविनो भेदाः केवलैरतिदर्शिताः।
उपसर्गेण सम्बन्धे व्यज्यन्ते प्ररादिना।। (वा.प.का.II. श्लो. 190) इति 'प्रतिष्ठते' इत्यत्र धातूनामनेकार्थत्वात् धातोरेवगतिरर्थः। प्रशब्दस्तु द्योतक एव उपसर्गत्वात् 'प्रपचत्या'दि शब्दस्य प्रशब्दवदित्यन्यय्यनुमानेन प्रशब्दे तद्‌द्योतकत्वानुमानात्। -2द्विविधात्-2= अन्वयिनो व्यतिरेकिणश्च। -2तद्धर्माः-2 द्योतकत्वधर्मा। इति तदर्थः।। -2उपाधिः-2 = अखण्डोपाधिः। -2सामान्ये-2 - व्यापकधर्मे। प्रमाणानां प्रमितिकरणानाम् अनुमानादीनाम् अवच्छेदकताग्रहादेश्च।।6।। (47)
-2तदवच्छेदेनैवेति-2।। -2एते द्योतकावाचका इति-2।। द्योतकता वाचकता - ग्रहेऽवच्छेदकतया सामान्यधर्मस्यैव निपातत्वस्य तत्स्वीकारो न तु उपसर्गत्वा देरिति भावः।
वस्तुतः तदर्थनिरूपितद्योतकत्वस्य तन्निपातवृत्तितया वृत्यसाधारणधर्मस्यावच्छेदकत्वावश्यकतया सामान्यधर्मस्यावच्छेदकत्वे मानाभावात्, निपातत्वाद्यजानतोपि -01-0बोधाच्चेति (L. न दृश्यते) बोध्यम्। अत्रेदमवधेयम् = क्रियागतविशेषबोधकानां निपातानां द्यतकत्वमे; तदपि व्यवस्थितमेव। तत्राद्यं यथाऽसमस्त नञो वाचकत्वम्। अत एव नेत्यतोऽभावबोधः, कस्येति जिज्ञासा चाऽभाव शब्दे इव दृश्यते। दृश्यते च पर्वतादा इत्यादौ पर्वतादर्वागित्यर्थप्रतीतिः। द्योत्यत्वे हि पञ्चमी न स्यात्। तस्य विशेषणता द्योत्यार्थस्य -02-0विशेषणत्वात्। (L. विशेषत्वात्) अत एव "स्त्रियामि" (सू. 4-1-3)ति सूत्रे स्त्रीत्वस्य ङीबादिवाच्यत्वे तस्य प्रत्ययार्थत्वेन प्राधान्याद् वचनानुपपत्तिमाशङ्क्य द्योतकत्वेन समाहितं -0क-0भाष्ये। (म.भा.द्वि.ख.पृ. 300) अत एव च "हेतुमति च" (सू. 3-1-26) ति -0ख-0सूत्रे (म.भा.द्वि.ख.पृ. 59) भाष्ये णिचः प्रयोजकत्वव्यापार - द्योतकत्वे तस्य प्रकृत्यर्थविशेषणत्वापत्तिमाशङ्क्य वाचकत्वेन समाहितम्।।
ननु "स्वरित" (सू. 1-3-72) इति सूत्रे -0क-0कैयटोक्तसम्विधानपक्षे (म.भा.प्र.ख.पृ. 284) आत्मनेपदद्योत्यप्रयोजकव्यापाररूपसंविधानस्या विशेष्यत्वात् व्यभिचार इति चेन्न-
तत्राप्यात्मनेपदवाच्यत्वस्वीकारान्न दोषः। अत एव केषाञ्चित् कर्त्र्भिप्रायेण चासहविकल्पे आत्मनेपदमिति णिया सहाद्विकल्पो हर्युक्तः सङ्गच्छते। यद्वा 'पचते' इत्यस्य प्रयोजकव्यापारविषया प्रयोज्यकर्तृका पचिक्रियैवार्थ इति न तस्य द्योत्यत्वे व्यभिचार इति बोध्यम्। क्वचित् द्योतकत्वं यथा शरैरुस्रैरिवेत्यादानिवस्येति मूले एव प्राक् स्पष्टीकृतम्। क्वचित्त्स्य वाचकत्वमपि यथा 'हरीतकीं भुङ्क्षव राजन् मातेव हितकारिणीमि'त्यादौ। अत्र इव शब्दार्थ सादृश्ये प्रतियोगित्वेन मातुरन्वय इति प्रातिपदिकार्थमात्रे प्रथमैव।
न च प्रतियोगित्वरूपभेदसम्बन्धमादाय षष्ठ्यापत्तिरिति वाच्यम्।
लक्षणया प्रतियोगिविशिष्टसादृश्यवत इवार्थत्वेन तदेकदेशे प्रतियोगिनि -01-0मातुरभेदान्वयात् (l. अन्वयित्व) षष्ठ्यप्राप्तेरिति प्राञ्चः। वस्तुत असाध्वेवेदम् - क्रियान्वय एव प्रथमायाः साधुत्वात्। अत एव "तिङ् सामानाधिकरणे प्रथमे"त्यादिकं सङ्गच्छते। अत्रापि उस्रैरितिवदिवस्य द्योत्कत्वे तयोः समानविभक्तिकत्वापत्तिरतो वाचकत्वमेव।
न च मातेवेत्यादाविषस्य वाचकत्वे सादृश्यमस्तीतिवद् श्वास्तीत्यापत्तिरिति वाच्यम्।
तथा शिष्टप्रयोगाभावेन उपमानादिपदोपसन्धानेनैव प्रयोगे तेषां साधुत्वाङ्गीकारादिति। तदुक्तम् ः-
"निपाताः द्योतकाः केचित्, पृथगर्थाभिधायिनः।
आगमा इव केपि स्युः संभूयार्थस्य वाचका।।" (वा.प.II. श्लो. 192) केचिदित्युभयान्वयि। आगमा इवेत्यनेन केषांचित् त्वादीनामनर्थकत्वमाह - थालादयोऽत्यन्त स्वार्थिका अनर्थका एव; न तु प्रकारवद्वृत्तित्वद्योतकाः। 'योहरिः स हर' इत्यादौ तं प्रत्ययं विनापि प्रकृतिमात्रात् तदर्थबोधात्। एतेन तत्र द्योत्यार्थस्य विसेष्यताऽस्त्येवेत्यपास्तम्।।
"-01-0ब्राह्मणजाती{ये-}त्यादौ (T. जति पत्यादौ) तु "जात्यन्ताच्छे" (सू. 5-4-9) ति छ आश्रयरूपबन्धुवाचक एव; -02-0तेनास्य (T. तेन स्य) विशेष्यत्वेऽपि न क्षतिरिति।।7।। (48)
-0इति
-0लघुभूषणकान्तौ
-0निपातानां द्योतकता - वाचकता - निर्णयः
-0।।श्रियै नमः।।





-0भावप्रत्ययार्थनिर्णयः
-0 -01वृत्तिनिरूपणानन्तरं (v2 'समासे'ति अधिकः पाछः) समासवृत्तिप्रसङ्गेन नञ् समासं निरूप्य नञो द्योतकत्वात् तत्प्रसङ्गेन निपातार्थमपि सम्वर्ण्य -02-0प्रतिबन्धकशिष्यजिज्ञासानिवृत्तौ (L. कत्व) सत्याम् अवश्यं -03-0वक्तव्यत्वरूपावसरसङ्गत्या (T. वक्तव्य) सिंहावलोकितन्यायेन निरूपणीययत् किञ्चित् -04-0तद्दितवृत्तिषु (T. 'गत' इति अधिकः पाठः) भावप्रत्ययार्थं निरूपयति मूले - "कृत्तद्धिते" (वै.सि.का. 49)
-2उपलक्षणमिति -2- भावप्रत्ययेनेत्युक्तहरिवचनानुरोधात्। इदमपि नाऽपूर्वमित्याहायमर्थ इत्यादिना। -2इत्युक्तं-2।। समासवादे।।
-2भेदपक्षे न सम्भवतीतिङ-2।। -05-0भेदपक्षे (V2 'तत्पक्षे' इति पाठान्तरम्) भेदस्यैव विशेषणत्वादिति भावः। द्वितीयतृतीयपक्षयोस्तु 'राजपुरुषौपगवा'दौ विभक्त्यर्थसम्बन्धस्य वृत्तौ प्रवेशात् शब्दप्रवृत्तौ तज्ज्ञानस्य निमित्तत्वाच्च तत्रैव त्वादयः।
'पाचक' इत्यादिकृत्यपि क्रियया कर्तुः भेदस्यैव नियमेन प्रतीतेः -01-0व्यभिचारात्, (V2.L. च) क्रियासंबन्धज्ञानादेव शब्दस्य द्रव्ये प्रवृत्तेः, तत्रैव त्वादयः।। तदेवाह - -2एवं चेति सम्बन्ध इति-2 = सांसर्गिकविषयतावानित्यर्थः।।
यत्तु सम्बन्धस्य -02-0विभक्तिवाच्यत्वात् (V2. L. वाचकत्वात्) प्रकारतया -03-0भानमिति (V2. L. भाव) तत्तु न युक्तम्। सांसर्गिकविषयतया भासमाने एव सम्बन्धपदप्रयोगात्। षष्ठ्यादिभिर्वाच्यस्यापि सम्बन्धस्य संसर्गतया भानमित्यस्य -04-0सर्वसम्मतत्वात्। (V2, L. च) एतेन पदार्थः प्रकार एवेत्यपास्तम्।। -2अव्यभिचरितसम्बन्धे(तु) इति-2।। अपत्यापत्यवत् सम्बन्धस्योपग्वपत्ययोख्यभिचारादुपगुरेव भावप्रत्ययार्थ इति पक्षेत्वित्यर्थः। परमिदं चिन्त्यम्, प्रमाणाभावात्।। -2उदाहार्यः-2 - आक्षिक इत्यादिः।
इदमपि प्रायिकमित्याह - -2दामोदेति-2।। आदिना सत्ता शुक्लत्वमिति। -2जातिविशेषेण-2 गुणविसेषणेत्यपि बोध्यम्। उक्तः - -2दामोदरत्वमित्यादौ-2 - -2अभेदप्रत्ययाद्गुणस्यैवेति-2।। 'सोऽयमि'त्यभेदः प्रत्यभिज्ञामूलक 'घटः शुक्ल' इत्यबेदः -01-0प्रत्ययेन (T. द्रव्येण) गुण गुणिनोर्भेदनिबन्धनसम्बन्धस्य तिरोभावात् सम्बन्धस्य प्रवृत्तिनिमित्तत्वाभावेन गुणस्यैव तत्वमिति बावःष ननु तत एव 'घटस्य शुक्ल' इत्यभेदप्रतीतेर्निर्वाहे मतुब्लुग्विधानं विफलमिति चेन्न-
'घटस्य शुक्ल' इति भेदव्यवहारस्यापि सत्वेन 'प्राप्तशुक्लवानि'ति -02-0प्रयोगव्यावृत्तये (T. व्यावृत्तोपि) तस्यारम्भात्। एवं च अस्य गुणिनि यौगिकत्वाद्विशेष्यलिङ्गता। अत एव 'गुणे शुल्लादयः पुंसि गुणि लिङ्गास्तु -0क-0तद्वतीति (अमरकोशः - प्रथमं काण्डम् - शब्दादिवर्गे - 17 श्लोकः) कोशेप्युक्तम्। तद्वति वर्तमानत्वं -03-0लुकाऽभेदेन (T.L. भेदेन) वा बोध्यम्। अयं च बुक् समानाधिकरणद्रव्यवाचकपदसमभिव्याहारे एव। प्रकरणादिना तदवगतौ वा। यदित्वनभिधानेन ततो मतुबाद्यनुत्पत्तिः, सर्वलिङ्गत्वमपि' अभिधानस्वबावादेवेत्युच्यते, तदा लुग्वचनं व्यर्थम्। -2तृतीये-2 अव्यभिचरितसम्बन्धे। -2सतो भावः सत्तेति-2।। सत्सतयोः -01-0सम्बन्धस्याव्यभिचाराज्जातिरेव (L.T. चरित) भाव - प्रत्ययार्थः। 'राजपुरुष'योस्तु सम्बन्धस्य व्यभिचाराद् भवति सम्बन्धाभिधानं भावप्रत्ययेन।। -2इति दिगिति-2।। न केवलं 'राजपुरुषश्चित्रगु'रित्यादावेव सम्बन्धाभिधानं,
विभक्त्यर्थमात्रस्य षष्ठ्यर्थवत् सम्बन्धतया भानमित्यर्थस्य सूचनादिति तदर्थः।।
ननु 'नीलघटत्वमि'त्यादौ कः प्रत्ययार्थः- न च नीलघटसम्बन्धो -03-0भावप्रत्ययार्थ (V2 भाव ----- विशेषण - त्यक्तम्) इति वाच्यम्। उक्तरीत्या तयोरभिन्नरूपत्वेन पूर्वोत्तरपदार्थयोर्विशेष्यविशेषणभावातिरिक्तस्य एतस्याभावादिति चेन्न -
नीलघटादिवृत्तिधर्मो -04-0घटत्वादिकमेव (V2 डित्थ) त्वाद्यर्भः। तदेव च नीघटादिशब्दस्य प्रवृत्तिनिमित्तम्।
न च तत्र घटत्वस्यैव प्रवृत्तिनिमित्तत्वे तस्य पीतघटादावपि सत्वेन नीलघटादिशब्दात् पीतघटादिव्यक्तिनामपि भानप्रसङ्ग इति वाच्यम्।
नीलादिविशेषणबलात् घटत्वेन -01-0रूपेण (T. रूपे या) नीलादिव्यक्तीनामेव भानेन नीलसमानाधिकरणघटत्वादेरेव प्रवृत्तिनिमित्त्त्वेन भानात् अपाधिभेदात् घचत्वादीनामपि भेदभ्युपगमात्। एतेन -02-0नीलघटत्वमित्यादेरेव (T. इत्यादौ प्रत्येक) प्रवृत्तिनिमित्तगुणजात्योः सामानाधिकरण्यं भावप्रत्ययार्थ इत्यपास्तम्। तस्य त्वप्रत्ययप्रकृतितो भानाभावात्। समासवादोक्तरीत्या तद्भानसत्वेऽपि तस्यविशेष्यवृत्तितया प्रवृत्तिनिमित्तत्वाभावेन -03-0भावुप्रत्ययवाच्यत्वे (L. प्रत्यय'प्रकृ' इत्यसङ्गतः पाठः) मानाभावात्।।1।। (49)
केचित्तु नीलघटत्वसमुदायः प्रवृत्तिनिमित्तमित्याहुः। "धवरवर्दिरत्वमि"त्यादौ इतरेतरयोगे मूलकृन्मते समाहारस्य विशेषणत्वात् तद्रूपसम्बन्ध एव भावप्रत्ययार्थः। उभयत्रापि समाहारस्य -01-0विशेष्यत्व (T. विशेषणत्व ---) मिति मते तु जातिसमुदायस्तद्वाच्य उभयत्र तस्या नुद्भूतावयवत्वे एकवचनम्। उद्भूतावयवत्वे द्विवचनाद्यपि 'धवखदिरत्वे' इति। व्यपेक्षावादि मीमांसकमतं दूषयितुमनुवदिति - -2दण्डीत्यादाविति - द्रव्यमात्रे-2 इिति।। -02-0मात्रपदेन (T. भेदेन) सम्बन्धव्युदासः। तदवगतिस्तु वाक्यार्थ विधया, एवं तन्मते 'पाचक' इत्यत्रापि न सम्बन्धोऽर्थः।
"पाकं तु पचिरेवाह कर्तरि प्रत्ययोप्यकः।
पाकयुक्तः पुनः कर्ता वाच्योनैकस्य कस्यचित्।।" इति तदुक्तेः। शक्तिग्रहोपि प्रकृत्यर्थत्वेन अनुगतीकृतं दण्डादिकमुपलक्षणीकृत्य अनन्तेष्वपि द्रव्येषु सम्भवति। -03-0-2तद्धतस्य-2 इनः (L. तद्गतस्य)। -2अनभिधायकत्वेन-2।। -04-0अनभिधायकत्वदर्शनेन।। (L. अनभिधायकत्वादर्थत्वेन) -2मीमांसकानां-2।। सम्बन्धाप्रकारकदण्डमात्रप्रकारक बोधवादिनाम्। -2तदभिधानम्-2 - सम्बन्धाभिधानम्। -2प्रकारः-2 मुख्यविशेष्यतानिरूपितपप्रकारताश्रयः। -2अन्यथा-2 - 'वह्णिमत्पर्वतवत्वमि'त्यादौ भावप्रत्ययेन वह्निपर्वतसम्ब्धाभिधानापत्तेः।
कश्चित् परम्परया प्रकारोपि तदर्थः। यथा 'धवखदिरत्वमि'त्यादौ जातिसमुदाय इत्युक्तम्। अन्यथा प्रभमद्वितीययोः क्रमेणानुपादाने।। -01-0-2द्रव्यत्वादेरिति-2।। (T. द्रव्यत्वादिति) तस्य प्रकृत्यर्थसमवेतत्वात्।। -2दण्डादेरिति-2।। त्वन्मते तस्य प्रकृतिजन्यबोधप्रकारत्वात्।। तदाह -
-2न चेति-2 = नहीत्यर्थः। सम्बन्धस्य -03-0तद्धितार्थत्वे (T. तद्गतार्थत्वे) तु तदुभयसत्वात् तदभिधानं भावप्रत्ययेनेति भावः। 'दण्डी'त्यादौ तद्धितस्य सम्बन्धार्थकत्वाभावेऽपि अगत्या तदभिधानं तेनेति।।
तद्व्याख्यातृवचो दूषयति - '-2यत्वि-2'ति- '-2वाच्य आश्रित-2' -2इति-2 - भावप्रत्ययस्येत्यर्थः। यथा 'राजपुरुषा'दाविति भावः।। -2इदं, वैषम्यमिति-2।। 'घटत्वमि'त्यादौ जात्यादि 'राजपुरुषत्वमि'त्यादौ सम्बन्धश्चेति इदं वैषम्यमित्यर्थः।। 2।। (50)
मूले - -0क-0'-2प्रकारतामि-2'त्यस्य (वै.सि.का. 50) आपन्मिति शेषः। तदाह - -2प्रकारतयेति-2 - प्रकारत्वात् घटत्वस्येति शेषः। -2तदुत्तरप्रत्ययेन-2 - भावप्रत्ययोत्तरभावप्रत्ययेन।। -2नत्वत्र लघु इति-2।। जात्यादि रूपमेव प्रत्ययार्थः, न तु घटेतरावृत्तित्वे सति सकलघटवृत्तित्वरूपं घटत्वत्वमित्यत्र मानमस्तीति।।
'-2सम्बन्धिभेदादि-2'ति - अयं भावः = परब्रह्मस्वभावमहासत्ताख्यजातिरेवैकैकबावसम्बन्धिनां गवादीनां भेदात् भिद्यमाना उपचरितभेदा गौत्वादि जातिरित्युच्यते। तस्यां ब्रह्मसत्तायामेव सर्वेशब्दा वाचकत्वेन व्यवस्थिताः। उभावानामपि चतुर्विधत्वात् तद्वृत्तिनिरुपाख्यत्वं त्वतलादि वाच्यम्। तदेव ब्रह्मसत्तास्वरूपम्। -01-0अत (T. सत्ता) एव प्रातिपदिकर्थः सत्तेत्युच्यते। एवं -02-0क्रियास्वप्युपाधिभेदेन (T. स्वरूपोपाधि) भिन्ना महासत्तैव तु धातुवाच्या, सा च जातिः। सिद्धत्वसाध्यत्वरूपोपाधिरपि भिद्यते, सैव -01-0महान् (T. महतात्मनि सेति) आत्मा, नित्येति चोच्यते, यतोऽयमखिलः प्रपञ्चरूपो विवर्तः। वस्तुतो -02-0'घटत्वत्वमि'ति ('घटत्वत्वमित्यादौ घटत्वसम्बन्धीधर्म इत्येवबोधः। स च आविधकधर्म विशेषणरूपः। यद्वा - अधिकः पाठः।') प्रकृतिजन्यबोधे वक्ष्यमाणरीत्या व्यक्तिरेव प्रकार इति सैव "घटत्वत्वमि"त्यत्र त्वार्थः। उकतरूपं घटत्वत्वं तु न युक्तम्। तस्यानेकपदार्थघटितत्वेन अत्यन्तगौरवात्।।
न च तस्य ब्रह्मसत्तारूपत्वान्न दोष इति वाच्यम्। गुरुभूतधर्मस्य -03-0ब्रह्मसत्तारूपत्व (T. रूप तत्) कल्पनापेक्षया लघुभूतधर्मस्यैव तद्रूपत्वकल्पनौचित्यात्। एवमन्यत्रापि। तथाहि - अभावेष्वनुस्यूतनिरूपाख्यत्वादेः सखण्डस्य न तद्रूपत्वकल्पनम्। -04-0अभावत्वसामान्यं (T. सामान्यास्वीकृत्य) स्वीकृत्य तस्यैव तद्रूपत्वकल्पनम्। शाब्दिकैः सर्वत्र नैय्यायिकरीतेर्विना बाधकमस्वीकारात्। -05-0'अक्षा' (T.L. अक्ष्य) इत्यादौ विभिन्नजातिष्वपि -06-0जात्यङ्गीकारेण (T. जात्यन्तरांगीकारोपात्तस्या - अनुचितः पाठः।) तस्या एव -07-0भावप्रत्ययवाच्यता। (L. प्रत्यये)
अत एव एकशेषप्रत्याख्यानसङ्गतिः। एवं डित्थत्वमपि जातिरेवेत्युक्तं प्राक्। यद्वा -01-0अनेकेष्वक्षशब्देषु (T. एतत् पदं न दृश्यते) -02-0शब्दत्वं (L.V2. लोके - अधिकः पाठः) नाम सामान्यभिन्नं प्रत्ययाभिधाने हेतुः, तत्र शब्दार्थयोः सोऽयमित्यभेदैध्यवसायाध्यस्वाक्षशब्दकेषु संज्ञिषु वर्तते। तदेव 'अक्षत्वमि'त्यादौ तद्वाच्यम्। एवं सामान्यत्वमपि जातिरेव, अत एव गोत्वाश्वत्वे सामान्ये इति व्यवहारः। एतेन 'निस्सामान्यानि सामान्यानि भवन्ती'ति नैय्यायिकोक्तुं तद्रीत्यैवेति बोध्यम्। एवमाकाशत्वमपि जातिरेवेत्यन्यत्र विस्तरः।।
ननु शुक्लशब्दादौ गुणशब्दत्वादि व्यवहारः कथमिति चेन्न -
चतुष्टयीपक्षे -03-0त्रयी (T. त्रयीरेक्ष्वेवा जातिरेववे) पक्षे वा जातिरेवेति पक्षोक्तरीत्यैवोपपत्तिस्सर्वत्रेति निरूपितं नामार्थनिर्णये।।
-04-0-2यस्य गुणस्येति-2।। (T. तस्य) अत्र वार्तिके -0क-0'गुणशब्देन (म.भा.प्रदीपः. द्वि.ख.पृ. 538) यावान् कश्चित् पराश्रयो भेदको जात्यादिः' प्रवृत्तिनिमित्त रूपो धर्म उच्यते। जात्यादेर्गुणत्वेन व्यवहारः कथमिति चेत् लोके गुणशब्देन परतन्त्र उच्यते - जात्यादीनामपि परतन्त्रत्वाद्गुणत्वेन भाषप्रत्ययार्थता। अत एवोक्तं भाष्यकृता, "अन्यो हि वीरत्वं गुणोऽन्यः -01-0पुरुषत्वमपीति" (T. पुरुषत्वमयेति) अयं भावः, गुणसमुदायो द्रव्यमिति बाष्यमते शब्दशक्तिस्वभावात् कश्चित् जात्यतिरिक्तसमुदायो विशेष्यो जातिर्विशेषणं; तथा गवादिशब्दे क्वचित् गुणातिरिक्तो विशेष्योगुणो विशेषणं -02-0तदेव च प्रवृत्तिनिमित्तम्, यथा शुक्लादिशब्दे एवमन्यत्रापि।।
ततश्च यद्यज्जात्यादि विशेषणीभूतं प्रवृत्तिनिमित्तं पुरस्कृत्यार्थं प्रतिपादयितुं शब्दप्रवृत्तिः, -03-0स (T.सम) स धर्मस्त्वतलाद्यर्थः। प्रवृत्तिनिमित्तत्वं च -04-0यज्ज्ञानाच्छब्दस्यार्थे (T. यजमज्ञानावृष्ट - अनुचितः पाठः) प्रवृत्तिस्तत्वमिति।। -05-0-2रूपादिशब्देभ्य इति-2।। (T. रूपादेशष्वन्य) तेषां गुणमात्रवृत्तित्वात् तद्गतजात्यभिधायी भावप्रत्ययः।। -2गुणे इति-2।। तेषां गुणोपसर्जनगुणिपरत्वात्। शुक्लादिशब्दस्य गुणपरत्वे तु ततोपि जातावेव। -01-0अण्वादिशब्दानां (T. अ एवादि) तु नित्यगुणिपरत्वात् गुणे एव। परिमाणं चतुर्धा - अणु, महद्धीर्गंह्रस्वञ्चेति तार्किकव्यवहारस्तु परिमाणम् अण्वादि वृत्तीत्यर्थकतया नेयः।। -2सूपपादेति-2 - ननु उक्तरीत्या जातिगुणशब्देषु -02-0उपपत्तावपि (L.T. अवयवतापि) इत्यादाविव कत्वादीनुपलक्षणीकृत्य -04-0शुद्धव्यक्तावेव (T. 'जाती'त्याधिकः पाठः) शक्तिग्रहसंभवेन -05-0कत्वादिव्यक्तेरेव (T. ककादि) कुशब्दशक्यत्वेन प्रकृत्यर्थातिरिक्तप्रत्ययार्थाबावादेवं डित्थशब्दादावपि इति चेन्न -
व्यक्तेरेव विषयताद्वयेन भानाङ्गीकारात्। तत्र विशेष्यत्वावच्छिन्ना व्यक्तिः प्रकृत्यर्थः। प्रकारत्वावच्छिन्ना सैव त्वाद्यर्थः। यद्वा शब्दपरत्वादिशब्दादर्थरूपे भावे प्रत्ययेनादोषात्। एवं च कुकुत्वशब्दौ -06-0डित्थडित्थत्वशब्दौ (T. डित्थ - न) पर्यायौ। अत एव "तस्य भाव" (सू. 5-1-119) इति सूत्रे -0क-0भाष्ये (म.भा.द्वि.ख.पृ. 542) अभिप्रायादिषु सूत्रस्यातिप्रसङ्गमाशङ्क्य यस्य गुणस्य भावादित्यादि न्यासमुक्त्वा, तस्यापि डित्थादिष्वव्याप्तिः, ततो व्यक्त्यतिरीक्तधर्मभावादित्याशङ्क्य व्यक्तेरेव विषयताद्वयेन भानमित्याद्येकं समाधानं कृत्वा 'यद्वा सर्वे शब्दाः स्वेनार्थेन भवन्ति, स तेषामर्थस्तदभिधाने त्वतलावि'त्यनेन समाधानान्तरमुक्तम्। तस्यायं भावः - शब्दस्य द्विधोऽर्थो वाच्यः, -0क-0{व्यक्तिः} प्रवृत्तिनिमित्तभूतश्च, ('व्यक्ति'रिति भाव्यम्) तदंन्यतराभिधाने प्रत्ययः, तत्र घटत्वमित्यादावन्त्यः। प्रकृतिस्त्वर्थपरैव। कुत्वं -01-0डित्थत्वमित्यादावाद्यः (T. मित्यावाद्य) तत्र प्रत्ययार्थान्वयानुपपत्या प्रकृतिः शब्दपरा, जन्यबोधप्रकारत्वं च सम्बन्ध इति। तस्मादेतद्भाष्यवार्तिकबलात् संज्ञाशब्दस्थले एव प्रकृतेः शब्दपरत्वकल्पनम्। केचित्तु संज्ञा शब्दे द्रव्यमेव शक्यं, एषं च तत्र -02-0भावप्रत्ययार्थः (L. प्रत्ययप्रकृत्यर्थः) प्रवृत्तिनिमित्तरूपे दुर्वच इति तत्र प्रकृतेः -03-0शब्दपरत्वमावश्यकमिति (L. 'भाव' - इत्यधिकः पाठः) अरधजरतीयत्वानौचित्येन सर्वापि भावप्रत्ययप्रकृतिः -04-0लक्षणया (T. लक्षणं या) शब्दपरा तत्तद्रूपेण प्रकारस्त्वा(द्य)र्थः। स च प्रवृत्तिनिमित्तरूप एव। जन्यबोधप्रकारत्वं, जन्यबोधविषयत्वं वा -01-0यथायथं (T. यद्वा यथा) संसर्गः। 'गोत्वमि'त्यादौ गौशब्दजन्यबोधप्रकारो गोत्वमिति बोधः। -02-0'राजपुरुषत्वमि'त्यादौ
(T,L. राज --- बोध - त्यक्तम्) राजपुरुषशब्दजन्यबोधविषयसंसर्ग इति बोधः। शाब्दबोधे शब्दस्य भानमिति मतेऽपि शब्दस्य न प्रवृत्तिनिमित्तत्वमिति गोत्वमित्यादेः गो शब्द इति न बोधः। प्रवृत्तिनिमित्तत्वं च यज्ज्ञाच्छब्दस्यार्थे प्रवृत्तिस्तत्वमित्युक्तम्। तच्च घटादिषु जातिः। गुणिपरशुक्लादिषु -03-0गुणपरेषु (T. गुणो गुणे परेषु तेषु इति अधिकः पाठः) तद्गतजातिः, पाचकादिक्रियाशब्देषु क्रिया। तत्संबन्धेन राजपुरुषौपगवादिषु सम्बन्धः। डित्थादिषु द्रव्यस्यैव -04-0विषयताद्वयेन (T. द्रव्येन) -05-0भानात्। (T. भानात्) द्रव्यमेव प्रवृत्तिनिमित्तं, तस्यैव प्रकारतावैशिष्ट्येन भावप्रत्ययार्थत्वमिति प्रकृतिप्रत्ययार्थयोर्भेदःऋ सुवचः। प्रकृतेः शब्दपरत्वादुक्तसंबन्धस्य च नानुपपत्तिः। तथा च डित्थशब्दजन्यबोधप्रकारभूता सव व्यक्तिरिति बोध इति वदन्ति। तन्नयुक्तम् - सर्वत्र भाव - प्रत्ययप्रकृतेः शब्दपरत्वकल्पने मानाभावात्, लक्षणायां मानाभावाच्च। "तस्य भाव" (सू. 5-1-119) इत्यत्र तच्छब्दस्य शब्दपरत्वमात्रे गुणवचनेति सूत्रे -01-0शब्दाधिकारापत्तेश्चा। तद्धितप्रकरणे सर्वत्र "तस्यापत्यम्" (सू. 4-1-92) इत्यादा वर्थपरताया एव दर्शनाच्च। उक्तभाष्यवार्तिकयोः संज्ञाविषये एव प्रवृत्तत्वाच्च। -2तत्र जाति वाचकानामिति-2।। जातिवाचक घटादिशब्दप्रकृतिकत्वाद्यन्तानामित्यर्थः। -02-0स्वेतरावृत्तित्वावच्छिन्ननिखिलस्ववृत्तित्वसंबन्धेन (T. मखिल) भावप्रत्ययार्थो विशेष्ये प्रकृत्यर्थव्यक्तीनां प्रकारत्वात्तदाह - -2तथा चेति असाधारण इति-2 - अनेन तत्तद्‌रूपेण धर्मस्य वाच्यतोक्ता; न तु धर्मत्वेन। तथा च 'घटत्वमि'त्यादितो निरुक्तसंबन्धेन प्रकृत्यर्थव्यक्तिविशिष्टो घटत्वरूपो धर्म इति बोधः। सम्बन्धमन्तर्भाव्य तु मूले बोध उक्तो घट वृत्तीत्यादि।
वस्तुतो धर्मत्वेनैव -03-0भावप्रत्ययशक्यता; (L.V2 शक्तता) न तु तत्तद्रूपेण शक्त्यानन्त्यापत्तेः। त्वप्रत्ययादेःनानार्थत्वापत्तेश्च। "तस्यापत्यमि" (सू. 4-1-92) त्यादि शास्त्रद्यथौपगवादीनामुपग्वपत्यत्वेनैव -01-0बोधकता; (T. बोधकता --- बोधकते - न दृश्यते) न तु उपग्वत्यवृत्ति चैत्रत्वादिना। तथा "तस्य भाव" (सू. 5-1-119) इति सूत्रे सम्बन्धत्वेन बोधकस्य तस्येति पदस्य श्रवणात्।
न च वृत्तित्वस्य प्रकृत्यर्थनिरूपितसम्बन्धत्वात् भानमिति वाच्यम्।
षष्ठी समर्थादेव भावप्रत्ययविधानेन सम्बन्धत्वभानस्यौचित्यात्। 'घटेघटत्वमि'त्यादेरनापत्तेश्च। -02-0तस्माद् (L. अस्माद्) वस्तु गत्या प्रकृतिजन्यबोधप्रकारः शब्दः प्रवृकत्तिनिमित्तभूतो घटत्वादिधर्मत्वेनैवत्वाद्यर्थः। प्रकृत्यर्थव्यक्तिश्च स्वेतरासम्बन्धित्वावच्छिन्ननिखिलस्वसम्बन्धित्वसम्बन्धेन तत्र प्रकारः। तथ चोक्तसम्बन्धेन घटविशिष्टो धर्म इति बोधः घटसम्बन्धी धर्म इति यावत्। [यदि-] गुरुत्वमित्यादौ गुरुत्वत्वादिना -01-0प्रतीतिरनुभवसिद्धा (T. प्रतीति ---- गुरुत्वादेः - नावलोक्यते) तदा धेनुपदादावशक्यस्यापि गौत्वस्येव गुरुत्वादेः प्रयोगोपाधिमाश्रित्य नेया। एवं गुणशब्दादावपि बोद्यमित्यन्य्त्र विस्तरः। संक्षास्थलीयं भाष्योक्तपक्षान्तरं जात्यादिशब्दविषयकमपीत्यभिमानेन मूलमवतारयति - -2पक्षान्तरमाहेति-2 यद्वा शब्दः मूलस्थयद्वा शब्दः।। -02-0-2तत्सूचन इति-2।। (T. 'प्रती'त्याधिकः पाठः) वार्तकसूचनप्रयोजनक इत्यर्थः। यद्वा शब्दघटितत्वाद्वार्तिकस्येति भावः। अपि शब्दः पक्षान्तरत्वस्यापि सूचकः।। -2इति भावा इति-2।। शब्दाः इत्यर्थः। श्बदोऽपि प्रातिपादिकार्थ इति मतेन -03-0जात्यादिवाचकसर्वशब्दप्रयोगविषयकतया (T. प्रयोग - इत्येतन्न वर्तते) व्याचष्टे -2स्वेन रूपेणार्थेनेति-2।। शब्दस्वरूपेणार्थेनेत्यर्थः। अर्थबोधनार्थं शब्दप्रयोगात्। शब्दभवने शब्दप्रयोगेऽर्थस्य हेतुत्वात् तृतीया। कश्चित्तु, भावा इत्यनन्तरं यस्मादिति शेषः। ल्यब्लोपे पञ्चमी। तथा च यत्‌प्रवृत्तिनिमित्तमाश्रित्यार्थ प्रतिपादनार्थं भावाभवन्ति, वाचकत्वेन प्रवर्तन्ते, स शब्दः तेषां प्रवृत्तिनिमित्तम्। भावप्रत्यय शब्दोऽत्रापि शब्दप्रयोगेऽर्थस्य हेतुत्वादर्थेनेति 'हेतौ' (सू. 2-3-23) तृतीयेति व्याचख्यौ। व्याख्यान्तरमपि बृहद्भूषणे स्पष्टम्। इदमुपपादयति - -2अयं भाव इति-2।। -2अर्थवत्-2 - जात्याद्यर्थवत्। -2द्रव्ये-2 - व्यक्तौ। अत्र हेतुमाह -2हरिहर इति - तद्वाच्यः-2 - हर्यादिशब्दवाच्यः। अन्यथा जात्यादेरेव द्रव्ये प्रकारत्वमङ्गीकृत्य शब्दस्य तत्राप्रकारत्वे।
-2नागरिकान्प्रतीति-2 - ग्रामीणानां तु तज्ज्ञानाद् तद्सुदासाय नागरिकानिति।। -2आपत्तेरिति-2।। तत्तत जात्यवच्छिन्ने वनोषध्यादौ नागरिकैः इक्त्यग्रहादिति भावः।। -2एवमेव-2 - -01-0शब्दप्रकारक (L. प्रकार) एव।। -2अप्रसिद्धार्थकपदेषु -2 - संज्ञाशब्देषु। -2उभयं जात्यादिः-2 - -02-0शब्दश्च (T. शब्द राजपुरुष) पुरुषव्युत्पत्यनुसारेण - एतदित्याह- -2अस्येति - तथा-2 - जात्यादिप्रकारकः, एवं यस्य शब्दप्रकारकः(रिका) श्कतिग्रहस्तस्य श्बरूपेण उपस्थितिरित्यपि बोध्यम्। '-2विशिष्य-2' घटपदत्वादिना विशिष्य -2जात्यादिरूपेण-2 संज्ञाशब्दादिभ्यः। -2तथैव-2 - पदप्रकारक एव। अनेन संज्ञाशब्दे एव तथा कल्पनमिति सूचितम्। सर्वत्र तथा स्वीकारे गौत्वमित्यादावपि गो शब्द इति बोधप्रसङ्गः। [सर्वस्यै स्यात् तदेति-] शुद्धजातिपरगवादिशब्देभ्यस्तु शब्दस्वरूपे भावप्रत्ययः शब्दार्थयोरबेदाध्यासेन तस्यैव -01-0प्रवृत्तिनिमित्त्तवात्।।
ननु शुद्धजातिपत्वे साबलेयस्य गौरित्यपि स्यादिति चेन्न -
तथा व्यवहाराभावेन -02-0तादृशप्रयोगे (T. योगे) जातिपरत्वाभावात्। गौर्नित्येति तु इष्टमेव। षत्वं णत्वमितियादौ वर्णानां वास्तवस्यौपाधिकस्य वा भेदस्य सत्वात् -03-0नातिरेव (T. अजातिरेव) प्रत्ययार्थः। -04-0उपाधिरूपं (T.L. एतद्वाक्यम् त्यक्तम् दृश्यते।) वा तदिति कैयटादयः। वस्तुतो जातिपरगवादिभ्यो भावप्रत्ययस्य अभिधानसत्वे गोत्वम् (इति-) तदुक्तरीत्या व्यक्तिरेव प्रत्ययाभिधेया। -01-0षत्वमित्यादावपि (T. वत्व) -02-0कुत्वशब्दवदर्थे (T. वदे एव) भावप्रत्ययः -03-0इत्येवार्थः। (T. ष प्रत्यवर्थः) नानात्वं यौगपद्यमित्यादावपि -04-0नानादिशब्दजन्यबोधप्कारो (L. प्रकारे) ऽ-05-0सहभावो (L. सहभावो) -06-0भावञ्च (T. युगभद्भावश्च) प्रत्ययार्थ इत्यलम्।। 31/2।। (511/2)
-0इति लघुभूषणकान्तौ
-0भावप्रत्ययार्थनिर्णयः
-0।।श्रियै नमः।।
-0देवताप्रत्ययार्थनिर्णयः
।। श्रियै नमः।।
-01-0तद्धितवृत्तिप्रसङ्गात् (L. देव) देवतातद्धितस्य मतभेदेन अर्थप्रदर्शनपरं -0क,2-0"प्रत्ययार्थस्ये"त्यादि (वै.सि.का. 52) (L. प्रत्ययार्थस्ये) मूलयवतारयति -2सास्य देवतेत्यत्रेति-2 - "सास्य देवते" (सू. 4-2-24) त्यस्य उदाहरणे इत्यर्थः। "-2प्रदेयमि-2"-2ति-2 - तच्च सम्बन्धित्वेनैव शक्यम्; न तु प्रदेयत्वेन। प्रदेयमिति च मन्त्रस्याप्युपलक्षणम्। तेन ऐन्द्रो मन्त्र इत्यस्यापि सङ्ग्रहः। अत एव 'सावैश्वदेव्यामिक्ष'त्यत्र तद्धितात्संबन्धित्वेन बुद्धस्य आमिक्षादिपदैर्विशेष्यसमर्पणमात्रं भवति।। तद्वक्ष्यति -2अत एव आमिक्षामिति-2।। 11/2।। (53)
ननु -02-0लाघवाद्देयमेव (L. इयमेव) प्रत्ययार्थो अस्तु; देवतायास्तु इन्द्रादिपदेनैव लाभसम्भवादत आह - -2ऐन्द्रमिति-2(ऐन्द्री)--2इन्द्रदेर्देवतेति-2 - इन्द्रत्वाद्युपस्थापके इन्द्रादिपद सत्वेऽपि पादन्तराभावादिति भावः। -2तेन रूपेण-2 - देवतात्वेन रूपेण। -0क-0"-2आमिक्षां देवतायुक्तमि-2"-2ति-2 - (मी.द.(जै.सू. 2-2-23) अधि. 9. तन्त्रवार्तिके षष्ठः श्लोकः) आमिक्षां - सम्बन्धि त्वेनामिक्षां, देवतात्वेन तद्युक्तामित्यनेन विशिष्टपक्षोक्तिः, तेन प्रकृतोपष्टंभसङ्गतिः। -2तस्यैव-2 - सम्बन्धित्वेन प्रदेयस्यैव। "-2विषयार्पणमि-2"-2ति-2 - विषयस्य विशेष्यस्य आमिक्षात्वेन आमिक्षारूपस्य -01-0अर्पणम् (L. भेदेन) अभेदेन बोधनं, तत् सान्निध्यादित्यर्थः। "-2केवलादि-2"-2ति-2 - केवलादग्नेः अग्निशब्दात् देवतावाची तद्धितः समुच्चरन्नित्यन्वयः। केवलादिति = विशेषणाद् ऐन्द्राग्निमित्यादाविन्द्रयुक्ताग्नेः समुदितस्य देवतात्वं बोधितम्। -2मूले - "देवतायामि"ति-2 (वै.सि.का. 53)।। देवतात्वेन देवतायामित्यर्थः।। -02-0-2अभेदेनान्वय इति-2।। (L. भेदेनान्वय) 'पदार्थः पदार्थे'ति व्युत्पत्तेरिति भावः।। -2प्रकृतेः-2 - इनद्रादिपदस्य। -2तथोपस्थितीति-2 - देवतात्वेन रूपेणोपस्थितीत्यर्थः। -2नये-2 - मते। -2प्रत्ययवदिति-2 - प्रतीतिवदित्यर्थः। ञि धातोः सकाशादिति भावः। मूले- "प्रदेय एव वे"ति "देवतायामि"ति च (वै.सि.का. 54) प्राग्वदेव व्याख्येयम्। -2पदान्तरेति-2 - दध्यादीत्यर्थः। -2तत्प्रतीतेः-2 - -01-0प्रदेयप्रतीतेः। (L. एतत् पदं न दृश्यते) अत्र -02-0हेतुमाह (L. हेतु)- -2सामानाधिकरण्यादिति-2।। 'च' शब्देन 'सास्य देवते' (सू. 4-2-24) त्यनुशासनादिति हेत्वन्तरसमुच्चयः। -2अन्यथा-2 = सामानाधिकरण्यस्य शक्त्यग्राहकत्वे। -2न स्यादिति-2।। देवदत्तः पचतीत्यादौ देवदत्तादिसामानाधिकरण्येनैव तिङां कर्त्रादि - वाचकत्वसिद्धेरिति भावः। वस्तुतः "सास्य देवते" (सू. 4-2-24)त्यनुशालनूवाक् सम्बन्धित्वेन ततस्तत्प्रतीतावपि -03-0दधित्वेन (L. न दृश्यते) तत्प्रत्ययार्थं 'पचति देवदत्त' इत्यादावाख्यातात्कर्तृत्वेन तद्बुद्धावपि देवदत्तत्वादि विशेषणरपेण तद्बोधार्थं देवदत्तादिपदोपन्यासवद् दध्यादिपदोपन्यास सार्थक्याच्चिन्त्यमेतदिति बोध्यम्।।
-2मीमांसकानामिति-2।। कर्तृकर्मणोराख्यातावाज्यत्वं -04-0स्वीकुर्वतामित्यादिः। (V2, T. स्वीकुर्वतम्) -2द्रव्यं-2 - दध्यादिः।। -2पदान्तरात्-2 - दध्यादिपदात्।। -2वाच्यत्वं-2 - तद्धितशक्यम्। -2वक्तुमिति-2 - तथा च आख्यातवत् अत्रापि तथा वक्तव्यत्वापत्तेरिष्टापत्तौ 'आमिक्षां देवतायुक्तामि'त्यादि स्वग्रन्थ विरोधापत्तेरिति।। -2इति दिगिति-2।। प्रदेयमात्रं तद्धितार्थ इति तृतीयमते माणवक पराग्न्यादिपदेभ्यः प्रत्ययोत्पत्तिवारणन्तु 'अभिव्यक्तपदार्था ये' इति न्यायेन बोध्यमिति दिगर्थः। अरपे तु चतुर्थ्याद प्रकृत्यर्थस्य प्रकृत्यैव ल्धस्य चतुर्थ्योद्देश्यत्वमात्रं यथोच्यते, तथात्राऽपि देवतात्वं प्रदेयं च प्रत्ययार्थः तत्र प्रदेये
देवतात्वस्य निरूपकतासम्बन्धेनान्वयः। अग्निवृत्तिदेवतात्वनिरूपकमिति बोधः।।
नन्ववं -0क-0"तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः। -01-0देवतासङ्गतिस्तत्र (L. देवतात्वस्य) दुर्बलं तु परंपरम्।।" (मी.द. (जै.सू. 2-2-23) अधि. 9. तन्त्रवार्तिके तृतीयः श्लोकः) इति मीमांसकोक्तदौर्बल्यं कथमिति चेन्न-
चतुर्थ्या वाक्याद्देवतात्वसम्बन्धलाभस्तद्धिते समानपदोपादानश्रुत्येति श्रुतिवक्यवर्णबलाधीनदौर्बल्यसत्वात्। देवतात्वस्य सम्बन्धिद्वयसापेक्षत्वेन चतुर्थ्याद्वितीयसम्बन्धिनः पृथक्पदोपात्तत्वेन वाक्यात्तल्लाभः। तद्धिते तु सम्बन्धिद्वयस्याप्येकपदोपस्थाप्यत्वात् श्रुत्या तल्लाभ इत्याहुः। अन्ये तु प्रदेयमेव प्रत्ययार्थः। -01-0स्ववृत्तिदेवतात्वनिरूपकत्वसम्बन्धेन (L. निरूपकत्व - नास्ति) प्रकृत्यर्थस्य प्रत्ययार्थेऽन्वय इत्याहुः।।
यत्तु चतुर्थो तद्धितेनापि प्रकृत्यर्थस्य देवतात्वे बोधिते पुनस्तत्र सक्तिखावश्यिका। अत एवोक्तम् - तद्धितेन -02-0चतुर्थ्या (L. 'तु' अधिकः पाठः) वेत्यादि इति तन्नयुक्तम्। चतुर्थ्या देवतायां शक्तिबोधकानुशासनाभावात्। 'विप्राय गामि'त्यादौ विप्रेऽपि देवतात्वभानप्रसङ्गाच्चेति - देवतात्वं च -0क-0"दिवेः ऐश्वर्यकर्मणो देवते"ति (यद्यपि व्याख्यात्रा दिवेः ---- देवतेति भाष्यपङ्किरियं देवात्तलिति सूत्रभाष्यमिति निर्दिष्टम्, तथाऽपि देवतान्तात्तादर्थ्ये यत् (सू. 5-4-24) इति भाष्ये दृश्यते। म.भा.द्वि.ख.पृ.670) "देवात्तलि" (सू. 5-4-27)ति सूत्रभाष्यात् मन्त्रकरणको यो -03-0हविस्त्यागस्तज्जन्म (T. तज्ज) स्वर्गातिरिक्तफलश्रयत्वेन तदुद्देश्यत्वं मन्त्रस्तुत्यं च। तेन 'ऐन्द्रं हवि'रैन्द्रो मन्त्र' इत्यादिसिद्धम्। देवतानिष्ठफलं च अस्येदं फलं भवत्वितीच्छारूपा प्रीतिरेव। 'कोऽदादि'त्यादिमन्त्रप्रयोज्यस्वामित्वभागिनि प्रतिग्रहीतर्यतिप्रसङ्गवारणाय मन्त्रकरणकेति हविस्त्यागविशेषणम्। स्वर्गाश्रयत्वेनोद्देश्ययागकर्तरि अतिप्रसङ्गवारणाय स्वर्गातिरिक्तेति - फलविशेषणम्। 'न योषिद्भः पृथक् दद्यादि'त्यादितः श्राद्धेमृतपत्नीनां मृतानां भर्तृसाहित्येन हविस्संबन्धात् तद्वरणायोद्देश्यत्वमिति। उद्देश्यता च मन्त्रोक्तशब्दशरीरोभयावच्छिन्नेश्वरचैतन्यस्य। तदेव चैतन्यं मन्त्रोक्तेन्द्रादिपदवाच्यम्। 'एष उह्येव सर्वे देवा' इति श्रुतेः। तेन लोमादीनामपि देवतात्वं सिद्धम्। तादृशेश्वरचैतन्यस्य तत्वादेव पर्यायान्तरेणोद्देशेन देवतात्वम्। 'इन्द्रः सहस्त्राक्षो गोत्रभिद् वज्रवाग्हरि'त्याद्यर्थवादप्रदर्शितविग्रहवत्वादेश्च न बोधः। पुराणेषु इन्द्रादिकर्तृकत्वेन स्मर्यमाणमश्वमेधाद्यनुष्टानं च नासङ्गतम्। इन्द्रादिपदैरेव ईश्वररूपदेवतोद्देशेन तैरपि हविस्त्यागोपपत्तेः। देवानां -01-0तत्वज्ञानित्वेऽपि (L. तत्ज्ञानि) -02-0लोकानुग्रहाय (L. ग्रह) यागाद्यनुष्टानं बोध्यम्। शुद्धार्थस्य देवत्वे तु -03-0पर्यायान्तरप्रयोगपत्तिः। (L. प्रयोगोपपत्तिः)
'अग्नये शुचये' इत्यादौ पौनरुक्त्यापत्तिश्च। शुद्धशब्दस्य देवतात्वे तु तस्य बोद्धस्य शरीकस्य वा सन्निधेरभावादाह - 'न मन्त्राणां शुद्धादृष्टार्थत्वमात्रापत्तिः', तस्मान्निरुक्तमेव देवतात्वम्। अतो न शब्दमयी देवते'ति नव्यमीमांसकोक्तमपास्तम्। तिर्यगधिकरणेन देवताः क्रमस्वधिक्रियन्ते इन्द्रादेर्हविस्त्यागोद्देश्यस्य इन्द्रान्तरादेरभावात् स्वात्मने संकल्प्यमानद्रव्यस्य -01-0स्वत्वत्यागासंभवेन (L. स्व) -02-0कर्मनिष्पत्तेरित्यर्थके (V2. कर्मानिष्पत्तेः) "न देवता देवतान्तयभावाद्" इति सूत्रेण शब्दमय्याः देवतायाः जैमिनिनापि तिरस्काराच्च।।
ननु देवताय अपि यागाङ्गत्वमाग्नेय इत्यादि तद्गतैर्बोध्यते, -03-0तदङ्गं (V2. अङ्गं) चानुष्टेयमुपकारकं वा भवति। न च देवता यागमध्ये स्वरूपेणानुष्टातुं शक्या; नापि ऋत्विजामिव तासामुपकारकत्वमिति कथमभह्गत्वमिति चेन्न-
तद्वाचकशब्दोच्चारस्यैव अनुष्टेयत्वात्। वाचकशब्दद्वारैव तासामुपकारवत्वाच्च। शब्दश्चोपस्थितत्वादग्नयादिरेव। आवाहनमन्त्रैश्च अनेकयागेषु देवतासन्निधानं नाम अयं यागो मदर्थ इति तद्बुद्धिविशेष एवेति न यज्ञशालादिभङ्गः; नाप्यनेकेषु युगपत्सन्निदानानुपपत्तिः। योगिवद्भूतानां तद्वश्यत्वेनेच्छ्या -01-0भूतान्यधिष्टायानेकैः (V2. अधिष्टायनेकैः) सूक्ष्मतरैः शरीरैस्तत्रतत्र सन्निधाने भाधकाभावाच्च। -02-0अन्तर्धानशक्तियोगाच्च (V2. अन्तर्द्यान) परैरदर्शनम्। उक्तरीत्या ईश्वरस्यैव देवतात्वे तु नानुपपत्तिलेशोप इत्यन्यत्र विस्तरः। तत्वं - निरूढत्वम्। -2मूले दिक्-2। -2रीति वेत्यर्थ इति-2 - तथा च 'दण्डी'त्यादौ दण्डाभीन्नप्रहरणाधिकरणं क्रीडेत्यादिरीत्या बोधोवसेयः।। -2लाभादिति-2 - लाभप्रकारश्च समासवादेऽभिहितः। निरूढलक्षणायाः -2शक्त्यनतिरेकात्पूर्वानुशयात्राह-2 - -2वस्तु(त-)(तो-)विति-2।। 2,3।। (54,55)
-0इिति लघुभूषणकान्तौ
-0देवताप्रत्ययार्थनिर्णयः
-0।।श्रीः।।






-0अभेदैकत्वसङ्ख्यानिर्णयः
-0 -0सङ्गतिमाह - -2वृत्तिप्रसङ्गादिति-2।। तत्र वृत्तौ प्रतीयते उपसर्जनपदार्थ इति शेषः।। -2सङ्ख्याविशेषाणामिति-2।। अयं बावः 'राजपुरुष' इत्युक्ते -01-0राजद्वयादिसम्बन्धिनो (L. सम्बन्धितो) भानात् सर्वविशेषाणां सामान्यरूपेणभानम्। "मधुनि" - सर्वरसानामिव। अत एव -02-0राज्ञोः (L. राजोः राज्ञा) राज्ञां वेति {विशेजिज्ञासा} -03-0विशेषजिज्ञासायाः (L.V2. जिज्ञासा) सामान्यज्ञानपूर्वकत्वनियमात्। तदुक्तं हरिणा - (4. L. राजादिना)
-0 क-0"अबेदैकत्वसंख्यायास्तत्रान्यैवोपजायते।
संसर्गरूपं संख्यानामविभक्तं तदुच्यते।।" ('अभेदैकत्वसंख्या वा' इति पाठः इदानीमुपलभ्यते वा.प.III. वृत्ति.सं.का.99) इति। 'वा' शब्दो.़नास्थायाम्। वृत्तौ विशेषणानां राजादीनां सत्वभूतत्वात्संख्यायोगावश्यकत्वेनैकार्थीभावबलात्कारणीभूतपृथगर्थोपस्थापकपदज्ञानाभावाद्विशेषसंख्याभानेन च -05-0सामान्यसंख्यारूपं (L.V2 योगावश्यकत्वेनैकार्थी) सर्वसंख्याविशेषापां संसर्गरूपंतदित्येतद्धरिकारिकार्थः। -06-0तदेवाह (T. तदेतच्च) *"-2यथोषधी-2"-2ति-2 - (वा.प.III.वृत्ति.सं.का. 100) अस्मिन् पक्षे अभेदैकत्वसंख्यापदस्य अभेदेनापि -02-0विभागत्वसंख्यात्वसामान्येनैकत्वादि (T. एकत्व) विशेषसंख्या भासते इत्यर्थः।एकत्वपदम् -01-0एकत्वादिसर्वसंख्योपलक्षकमिति। (L. उपलक्षकनिमित्ते तु) निमित्ते तु सति 'मासजाता'दौ तत्प्रतीतिरभवत्येव। 'वृत्तावुपसर्जने संख्याविशेषानवगाति'रिति -03-0सामान्यप्रवृत्तं (L. एतादृशी) -0क-0"समर्थ"सूत्रभाष्यं ("समर्थः पदविधिः" (2-1-1) म.भा.प्र.ख.पृ. 324) तु 'राजपुरुष' इत्यादि प्रयोगविषयमेव। अत एवोक्तभाष्ये -04-0तात्पर्यग्राहकाभावे (L. अप्रवृत्तं) सतीति पूरयन्ति कैयटोपाध्यायाः।। तस्मात् सामान्यरूपेण विशेषाणां भानमित्येतत्पक्षनिकृष्टार्थः। पक्षान्तरमाह - 'परित्यक्तविशेषमि'ति।। परित्यक्ताः विशेषा द्वित्वादयो यस्मिन् तादृशं संख्यासामान्यमित्यर्थः। अयं भावः - यथाऽयमेक 'अयमेक' इति नानैकत्वमपेक्षाबुध्यात्मकं द्वित्वोत्पत्तौ निमित्तं, तथेदमेकत्वं सर्वेषामेकत्वादीनां निमित्तमिति तदपि संख्येत्युच्यते। द्वित्वाद्यनुस्यूतैकत्वादेस्तस्यैकत्वस्वभावत्वेन तस्मादभिन्नमिव -01-0एकत्वमित्यबेदैकत्वसंख्यापदेनोच्यत (T. एतेन) इति तदाह - -0क-0'-2भेदानामि-2'-2ति-2।। (वा.प.III. वृत्ति.सं.का. 101) 'भेदानां' = द्वित्वादिविशेषणाम्। 'परित्यागात्' - विशेषपरित्यागात् -02-0तदभानमेव। (T. परित्यागश्च, तत्) -03-0जातिबागस्य (L.V2. भागश्च) संख्यात्वसामान्यस्य। भेदापोहेन = विशेषाणां निरासेन संख्यात्मसंख्यासामान्यं वर्तते इत्यर्थः। -0ख-0-2अगृहीतेति-2 - (वा.प.III. वृत्ति.सं.102) प्रख्यायते न शुक्लादिबेदरूपं तु गृह्यते इति -04-0पाठः। (T. भावः) यथा दूराद् रूपमात्रं गृह्यते न तु शुक्लकृष्णादिः विशेषस्तथा 'राजपुरुष' इत्यादौ -05-0सत्वभूतत्वात् (T. सुलभत्वात्) संख्यावाचकार्थ इत्येतावत् प्रतीयते; न तु अव्ययार्थवदसंख्यो नापि घटादिवद्विसेष मित्येतत्पक्षनिष्कृष्टोऽर्थः। एतन्मतेप्यबेदेनैकत्वं यस्यामिति तदर्थः। -06-0एकत्वादीनां (L.V2. एकत्वादीना) विशिष्याप्रतीत्याऽनुद्भूतैकत्वादि - धर्मसामानाधिकरणः, संख्यात्वसामानाधिकरणमेकत्वमिति यावत्। -01-0तद्वक्ष्यति (T.V2. तत् ---- नेदं - त्यक्तम्) - -2तस्या एकत्वेनेति-2।। 'राजपुरुष' इत्यादौ संख्यावद्राजसंबन्धीतिपक्षद्वयेऽपि बोधः। तदाह -2अयं भाव-2 इति।। वस्तुतस्तु नेदं मतद्वयं युक्तं तथा बोधाननुभवात्। द्रव्यस्य संख्याऽव्यभिचारेण तज्ज्ञानसंभवात्। तत्र तादृशजिज्ञासायाः स्वरससिद्धत्वाभावेन स्ववासनाकल्पितत्वाच्च। अत एव हेलराजेनोक्तमतद्वयोपपादक हरिकारिकाः मतान्तरमाहेत्येवम् अवतारिताः। तस्य चारुचिग्रस्तत्वं तन्मते उक्तभाष्यस्य संकोचेन व्याख्यां कुर्वता गोषु चरार्थं प्रत्याख्यातमपि "जात्याख्यायामि" (सू. 1-2-58)ति -02-0सूत्रमावश्यकमिति (T. आरब्धमिति) वदता हरिणा कैयटेन च बोधितम्।
-03-0न च (T. न च - नास्ति) तत्प्रत्याख्याने द्रव्याभिप्रायेणैव बहुवचनस्य साधुत्वं वाच्यम्, तत्रैकसेषार्थमेकशेषसूत्रारभ्भे गौरवमिति वाच्यम्।
द्वव्येऽपि पदार्थे 'रूपसामान्याद्वा सिद्धमि'ति च तत् प्रत्याख्यानस्य भाष्ये कृतत्वेन अक्षतेरित्यन्यत्र श्पष्टम्। अत एव भाष्येऽबेदैकत्वसंख्येति व्यवहाये, भासते इति च नास्ति। वृत्तौ संख्याविशेषो न भवतीत्येतावदेन समर्थ -01,क-0सूत्रभाष्यम्। (T. सूत्रे भष्ये) ("समर्थः पदविधिः" (सू. 2-1-1) म.भा.प्र.ख.पृ. 323) बोधस्तु 'राजुरुष' इत्यादौ राजत्वादिनैव राजद्वयादेः; न तु द्वित्वादिना। विग्रहस्य द्विवचनबहुवचनान्तत्वेप्येकार्थीभावबलात् तदभानात्। परम् अनेकार्थत्वं तु वृत्तावुपसर्जने बुध्यते। अत एव संख्या विशेषानवगतिरेवोक्ता समर्थसूत्रे भाष्यकृता, न तु अनेकार्थानवगतिरिति। ध्वनितं चेदमीदूदेदि (सू. 1-1-11)ति सूत्रे भाष्ये। एवं 'चित्रगुरि'त्यादावपि गौत्वेनैव अनेकगोव्यक्तिबोधः; न तु -01-0बहुत्वेन (T. सूत्रे भाष्ये) 'तन्मध्य' इत्यादावपि तत्वेनैव व्यक्तिद्वयबोधः न तु द्वित्वेन। एवं सर्वत्र वृत्तौ विशेयमित्यन्यत्र विस्तरः। 'गोषुचर' इत्यादावलुकि बहुवचनसत्वेऽपि न संख्याविशेषबोधः। तत्र तादृशस्यैव रुढत्वात् बहुवचनान्तेनैव विग्रहः। एवं च आरोपितबहुत्वाश्रयो बहुवचनरूपसंस्कारः, न तु -01-0तत्‌रकृत्यरथान्वयिजातौ (V2. जाता) बहुवचनमिति -0क-0कैयटोक्तं (समर्थः पदविधिः (सु. 2-1-1) म.भा.प्र.ख.पृ. 324) तु न युक्तम्। "जात्याख्यायामि" (सू. 1-2-58) ति सूत्रस्य प्रत्याख्यातत्वेन जातौ बहुवचनस्य असाधुत्वात्। अभेदैकत्वसंख्यापदस्य च भेटश्चैकत्वं च भेदैकत्वे तयोः संख्या, तस्याः -02-0अभावः। भेदशब्देन भेदसहचरितद्वित्वादेः ग्रहणम्, ततश्च -03-0द्वित्वादीनाम् (T. अद्वित्वादीनाम्) एकत्वस्य च असंख्याऽभानमित्यर्थः। संख्याविशेषप्रतीतौ -04-0पृथगर्थोपस्थापकपदज्ञानस्य (T. एव) कारणत्वात् वृत्तौ च एकार्थीभाववता पृथगुपस्थित्यभावेन संख्याविशेषूप्रतीत्यभावः। तत्प्रतीतावुक्तकारणानङ्गीकारे तु 'घटो घटपटावित्यादौ घटत्वादेरपि -05-0संख्याविशेषावगत्यापत्तिः। (T. षात्) बोधस्तु उक्तएव - हरिरप्याह -'
"वाचिका द्योतिका चापि संख्यानां या विभक्त्यः।
तल्लक्ष्यवयवे वृत्तौ संख्याभेदो निवर्तते।।" (वा.प.का.II. श्लोकः 164) इति अत्र शब्दो लुकीत्येतदनन्तरं योज्यः, तेनालुकः संग्रह इत्यन्यत्र विस्तरः।
-01-0यत्र (T,L. अत्र) तु वृत्तावुपसर्जनपदार्थे संख्याविसेषातगमकं, संख्याबोधकप्रातिपदिकं प्रमाणमस्ति, भवत्येव, तत्र विशेषावगतिः 'द्विपुत्रस्त्रिपुत्र' इत्यादौ, 'मासजाता'दौ तु उपसर्जनीभूतमासादिपदार्थे संख्याविशेषावबोधो न शाब्दोऽपि तु अनेकमासजाते द्वित्रिशब्दादिपूर्वकमासजातस्यैव प्रयोगाद् एकमासजातविषेय एवायं प्रयोग इत्यार्थो निश्चयः। 'त्वत्पुत्रो', 'युष्मत्पुत्र' इत्यादावपि प्रयोक्तुः अहंकारानास्पदचैत्रपुत्र इत्येव बोधः। विग्रहवाक्यीमैकवचनत्वारोपेणादेशः। अयं च आरोपो न बोधफलकः, किं तु -02-0शास्त्रप्रवृत्तिमात्रफलकः (L.V2. फलकः वृत्तेः)
[वृत्तेः सकाशात्-] तथा बोधे भाष्यकृताऽसाधुत्वबोधनात्। एवं 'तावकीन' इत्यत्रापि बोध्यम्। एतेनादेश- -03-0तदभावाभ्यामुक्तलक्ष्येषु (T. तदंशे) उपसर्जनपदार्थे -04-0संख्याविशेषावगतिर्भवत्येव। (T. विशेषात्) 'वृत्तावुपसर्जनपदार्थे संख्याविशेषानगति'रिति समर्थसूत्रभाष्यं तात्पर्यग्राहकाभावे सतीति पूरणीयमिति -0क-0प्रागुक्तकैयटोक्तमपास्तम्। (म.भा.प्र.ख.पृ. 324) तत्तद् विधायकशास्त्रज्ञानवतस्तद्बोधानापत्तेः। -01-0संकोचे (T. संकेति) भाष्यस्य प्रमाणाभावाच्चेति बोध्यम्।।
-2गणनायां त्रित्वस्यैवेति-2।। "कपिञ्जलानालभेत" इत्यत्र बहुवचनशक्यबहुत्वव्याप्यं द्वित्वमेव गणनायां तस्यैव पर्थमोपस्थितत्वादिति भावः। यत्तु "मा हिंस्यात् -02-0सर्वाभूतानी"त्यस्य (L. सर्वभूतानि) सर्वथा संकोचापत्या न चतुरादीनामालम्भ; अपि तु त्र्यालम्भेन कृतार्थत्वात् शास्त्रस्य त्रिविषये एव संकोचो वचनबलात् इति त्रयाणामालम्भ इति तन्न -
'पर्यग्निकृतानारण्यानुत्सृजती'त्युत्सर्गमात्रविधानेन हिंसाप्रसक्त्यभावात्। तस्मात् बहुवचनबलेन प्रसक्त - यावत् - कपिञ्जलव्यक्त्यालम्भनासम्भवेन क्विचिद् विश्रान्तौ स्वीकर्तव्यायां प्रथमादिक्रमे कारणाभावात् त्रिष्वेव विश्रान्तिः।
न च चतुराद्यालम्भे फलविशेषः। तत्कल्पकाभावात्। यत्र तु कल्पकं फलविशेषणश्रवणादि तत्र 'ब्राह्मणान्भोजये'त्यादौ व्यक्तित्रयभोजनेन -03-0शास्त्रार्थनिष्पत्तावप्यधिकफलार्थं (T. फलार्थ) -04-0चतुयदिब्राह्मण (T. चतुरादेः) व्यक्तिभोजनाप भवति। व्याकरणे तु व्याप्तिन्यायस्यैव आश्रयणं; न तु प्रत्यासत्तिन्यायस्य। 'निजां -01-0त्रयाणामिति' (L.V2. त्रयाणाम् - नास्ति) त्रयाणां ग्रहणसामार्थ्यादाद्युदात्तश्चेत्यत्र आदि ग्रहणाच्चेति बोध्यम्।। -2वस्तुतस्त्तिवति-2 - तथा च प्रथममतमेव सम्यगिति भावः।। -2ज्ञानेच्छयोरिति-2 - समानप्रकारकेच्छां प्राति समानप्रकारकज्ञानत्वेन कारणतेत्येवं रीत्येत्यर्थः। तथा च
-02-0इच्छायामेव (T. इच्छा) विशेषसंख्यायाभाने -03-0तज्जनकज्ञानेऽपि (T. जन्य) संख्याविशेषभानप्रसङ्ग इति भावः।। 1।। (56)
-0इति लघुभूषणकान्तौ
-0अभेदैकत्वसङ्ख्या
-0निर्णयः
-0।।श्रियै नमः।।

-0सङ्ख्याविवक्षादिनिर्णयः
-0 -0।।श्रियै नमः।। सङ्गतिमाह - -2सङ्ख्याचेति-2 (सङ्ख्येति-) -2उद्देश्यविधेययोरिति-2।। अल्पाच्तरत्वाविशेषेप्यजाद्यदन्तत्वात् उद्देश्यशब्दस्य द्वन्द्वे पूर्वनिपातः व्युत्क्रमेणान्वयः।। -2सङ्ख्याविवक्षेति-2।। मूले - "सङ्ख्या" (वै.सि.का.57) पदं तद्विशेषणमात्रस्योपलक्षणम्। अत एव वक्ष्यति वलादित्वस्य विवक्षितत्वाच्चेति।।
-0क-0-2ग्रहं संमर्ष्टिति-2।। (जै.सू.अ,3.पा.1. अधि 7.) अत्र ग्रहमिति ईप्सिततमे कर्मणि द्वितीयाबलाद् उद्देश्यत्वलक्षणम् - अर्थतः ग्रहस्य संस्कार्यत्व लक्षणं च प्राधान्यम्। एवं च 'प्रतिप्रधानं गुणावृत्तिरि'ति न्यायाद् विनिगमनाविरहाच्च सोमवसेक निर्हरणफलक संमार्गस्य सर्वग्रहैरपेक्षणाच्च सर्वत्र ग्रहे संमार्गसिद्धौ विवक्षाफलाबावेन तदविवक्षायां तदनुरोधेन शब्दतः प्रधान स्याप्यर्थतोऽप्रधानस्य संमार्जनस्य आवृत्तिर्युक्तैव।।
-01-0ननु (T. तत्) उक्तरीत्या ग्रहस्य प्राधान्यादेव तद्गतसङ्ख्यायाः कथमविवक्षेति चेन्न -
-02-0शब्दशास्त्रे (T. शास्त्र) शब्दप्राधान्यस्यैवाश्रयणात्, तस्य अत्र अभावात्। प्राजापत्या -03-0नवग्रहाः (L. ग्रहगत) इति वाक्यविहितनवग्रहाणां संमार्गरूपसंस्कारविधानावश्यकत्वानुरोधेन एकवचनशब्दप्रतिपाद्याया अपि उद्देश्यग्रहगतसङ्ख्यायाः अविवक्षितत्वाच्च। अन्यता ग्रहोत्पत्तिवाक्यगतनवत्वसङ्ख्ययैतद्वाक्यगतैकत्वस्य विरोधात् तयोः वाक्ययोः भेदापत्तेः।
-04-0यत्तु (L. यत्तु --- चेन्न - वाक्यविपर्यासः) परस्परापेक्षा - एकविधकारकान्वयः, क्रियाया मव्युत्पन्नः। प्रकृते च एकत्वस्य आश्रयविधया ग्रहाकाङ्क्षत्वेऽपि ग्रहस्य उत्पत्तिवाक्यतः निर्शातसङ्ख्यतया तदनपेक्षितत्वात्। एकत्वस्य विवक्षायामपि ग्रहं संमार्ष्टि - तच्च एकमिति वाक्यार्थ असम्भवादिति चेन्न -
अश्वेन पथा दीपिकया व्रजतीत्यादौ "साधकतममि" (सू. 1-4-2) ति -0क-0सूत्रस्थकैयटादिसम्मते (म.भा.प्रदीपः.प्र.ख.पृ. 259) प्रयोगे तादृशानामपि कारकाणां क्रियान्वयदर्शनात्। तस्मादनुवादवाक्ये उत्पत्तिवाक्यगतधर्मविरुद्धं -01-0विशेषणम् (T. विशेषणम् ---- भवतीति न दृश्यते) अविवक्षितं भवतीति विसेषणात् -0ख-0व्रीहीनवहन्तीत्यादौ (आ.श्रौ. 40,75) उद्देश्यविशेषणमपि बहुत्वं विवक्षितमेव। -0ग-0'व्रीहिभिर्यजेत' (आ. श्रौ. 6,31,23) इत्युत्पत्तिवाक्यगतबहुत्व धर्मविरुद्धधर्मत्वाभावात्।।
-02-0न च (T. तत्) ग्रहानुवादेन संमार्जनं, संमृज्यमान ग्रहानुवादेन तच्चैकत्वं विधेयमस्त्विति वाच्यम्।
एकपदोपस्तितयोरर्थयोरुद्देश्यविधेयभावेन अन्वयाभावात्। संमार्गस्यानुवाद्यकोटौ अलाभाच्च। वाक्यभेदापत्तेश्च।।
न च शुद्धमेकमुद्दिस्य - अनेकविधाने वाक्यभेदो न च स प्रकृते इति वाच्यम्।
उत्पत्तिवाक्ये नवत्वसंख्याश्रवणात् तस्याश्च विदेयगतत्वेन नवादिशब्दोपात्तत्वेन च विवक्षा। तत्र तत् -01-0संख्याविशिष्टानामेवानुभवात् (T. तत्) ग्रहशब्देन नवत्वसंख्याविशिष्टत्वरूपेण स्मृतेषु ग्रहेष्वैत्रकत्वसंख्या बोधने अनुभूत - उपक्रमस्थसंख्याबाध - इत्यस्यापि मीमांसकैर्वाक्यभेदपदार्थत्वेनोक्तत्वात्। उत्पत्तिवाक्यगत नवत्वसंख्यया ग्रहस्य परिच्छिन्नत्वात् परिच्छेदकाकाङ्क्षा भावेनापि तदविवक्षाबोध्या।
ननु -02-0तत्द्योतकत्व (T. तत्पदं न दृश्यते) - एकत्वसंख्याया अविवक्षणे एकवचनं कथमिति चेन्न-
-0क-0"न केवलाप्रकृतिरि"ति (सरूपाणामेकशेषएकविभक्तै (सू. 1-2-64) म.भा.प्र.ख.पृ. 75) न्यायाच्छब्दसंस्कारार्थमेव -03-0तद्विवक्षा; (विवक्ष्या) न तु प्रकृत्यर्थावच्छेदायेति समाधानात्। वस्तुत औत्सर्गिकमेकवचनमेव बोध्यम्। क्वचिदुद्देश्यगतापि विभक्त्यर्थसंख्या विवक्षितैव। यथा 'गर्गाः शतं दण्डयन्तामि'त्यादौ गर्गा इति बहुत्वं। ग्रहैकत्वस्येव अस्य तदुक्तस्य अविवक्षायां बीजाभावात्। अत एव अत्र "समुदाये वाक्यपरिसमाप्ति"रत्युक्तं वृद्धिसंज्ञा (सू.
1-1-1) सूत्रे -0ख-0भाष्ये। (म.भा.प्र.ख.पृ. 112) एकवचनेनैव प्रयोगोपपत्तौ बहुवचनकरणसामर्थ्येनापि विवक्षा बोध्या।
-0क-0एवमग्नीनादधीतेत्यादावपि (तै.सं.5,6,3) बहुत्वविवक्षा बोध्या। -0ख-0'पशुना यजेते'त्यत्र (मी.द. (अ. 4.पा.1.सू. 11. अधि. 5)) तु यागंप्रतिकरणत्वेन विदेयत्वाद् गौणत्वेन विरुद्धसंख्याश्रवणे च गुणानुरोधेन प्रदानस्य आवृत्ययोगाच्च परिच्छेदकाकाङ्क्षत्वाच्च तद्गतमेकतत्वं विवक्षितमिति -01-0वैषम्यमित्यनुपदमेव (T. सद्येतेति समस्ते पदमेव) स्फुटीभविष्यति।।
-2नास्माकमिति-2।। उक्तस्याविवक्षाहेतोः "धातोः" (सू. 3-1-91) इत्यादावबावादित्यर्थः। एकत्वस्य अनुद्देश्यगतस्यापि।। -0ग-0उत्पद्येत इति।। ("उत्पद्येत समस्तेभ्यो" (कुमारिलभट्टपादानां पद्यम्) जै.सू. शब्दान्तरे कर्मबेदः, कृतानुबन्धत्वात् (अ.2.पा.2. सू. 1. अधि. 1.)) समस्तेभ्यो धातुभ्यः प्रत्ययो यदि उत्पद्यते तदा सर्वैः धातुभिः स प्रत्ययो विशिष्येतेत्यर्थः।। -2अभिधानाच्चेति-2।। यदिपदघटितत्वात् सर्वेभ्यो धातुभ्यः प्रत्ययो नोत्पद्यते "धातो" (सू. 3-1-91) रिति एकत्वस्य विवक्षितत्वादिति तेषामभिप्रायो ज्ञायत इति मूलभातपद्यविरोधस्तवेति भावः।। -2अनुवाद्यार्धधातु (केति) कस्येति-2।। उद्देश्यभूत आर्धधातुकस्येत्यर्थः।। -0क-0'-2पशुना यजेते-2'-2तिवदिति-2।। (मी.द.अ.4. पा.1.सू.11. अधि. 5.) व्यतिरेको दृष्टान्तः। -01-0तत्र (तत्र - न) तद्यथा विधेयपशुगतमेकत्वं विवक्षितं, तथाऽत्र नेत्यर्थः।।
ननु ग्रहैकत्ववत् आत्राप्येकत्वाविवक्षास्त्विति चेन्न एकत्वस्याविवक्षणेन -02-0पश्वन्तरस्यालंभेन (T. लम्भे) यागाङ्गप्रयोग प्रशुभाव बाधेन यागवैगुण्यापत्या गुणानुरोधेन प्रधानयागावृत्तौ प्रधानत्वभङ्गापत्या च यावत्पशुयागासंभवेन च परिच्छेदकाकाङ्क्षणाच्चोपस्थितविभक्त्यर्थ विशिष्टस्यैव विधानात्। -2विभक्तैः-2 = संख्याबौध कत्वस्य शास्त्रसिद्धत्वात्, विभक्त्युत्पत्तये आश्रितसंख्याया विधिविषयताया एवोचित्यात्।।
किं च कृतगर्भाधानार्थसंस्कारात् यथा पुनः पुनः संस्कारो अनर्थकः ततैकेन पसुना क्रियासिद्धौ पश्वन्तरस्यानर्थक्यम्। तदुपादाने च तत् साधकं तत् क्रियान्तरमेवेत्यन्यत्।।
अपि च पशुनेत्यस्य विधेयसमय{र्प-}कतया तदुपस्थितार्थानां मध्ये कस्यचित् त्यागे मानाभावात् उभयोर्विधेयत्वम्। -01-0न च (L. अपि च पशुनेत्यस्य विधेयसमानभेदः अधिकः पाठः) वाक्यभेदः प्रकृतिप्रत्ययाभ्यां विशिष्टस्यैव बोधेन विशिष्टविदिस्वीकारात्। स्पष्टं चेदं "सार्वधातुके यगि" (सू. 3-1-67) त्यत्र -0क-0भाष्ये।। (म.भा.द्वि.ख.पृ. 95)
-02-0यत्तु (अन्यत्तु) समानप्रत्ययोपात्तप्रत्यासत्या विभक्त्यर्थकारके संक्यान्वयः। तत् -0ख-0'अरुणाधिकरण'न्यायेन (अरुणाधिकरणम् = अ. 3. पा.1. अधि.6.) प्रथमं विभक्त्यर्थस्य क्रियान्वयः, पश्चात् प्रकृत्यर्थेन। एवं च पश्वेकत्वे उभयकरणको याग इति बोधः। एकः पशुरिति तु पार्श्वीको बोधः। एवं च एकत्वस्य यागाङ्गत्वात् तदविवक्षायां वैगुण्यापत्तिः; अतो न तदविवक्षेति नानेकपशुभिर्याग इति तन्न-
प्रकृत्यर्थं विहाय -03-0प्रत्ययार्थान्वयेऽसाधुत्वात्। (T. साधुत्वात्) किंच "स्वादि" (सू. 1-4-17) सूत्रस्य कर्मणि द्वितीयेत्यादिभिः संख्यावाक्यैश्चैकवाक्यतायां प्रतिपादिकात् एकस्मिन् कर्मणि द्वितीयैकवचनमित्यादि क्रमेणार्थः। एवं च संख्यायाः क्रियायां कारकत्वेनान्वये विभक्तेरसाधुत्वं स्पष्टमेव।।
अपि च भिन्नपदोपस्थितक्रियान्वयापेक्षया समानपदोपात्तत्वेन प्रथमं प्रकृत्यर्थान्वयस्यैव औचित्यं, तदन्वितस्यैव क्रयाकाङ्क्षादर्शनात्। किं च -01-0प्रकृतेरेवार्थे (L. अत्रार्थ) प्रत्ययो भवतीत्युक्त्या प्रत्यासत्या परस्परसम्बन्धार्थबोधे एव तत्तच्छास्त्रेण तयोः साधुत्वबोधनम्। एतन्मूलिकैव 'प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्व'व्युत्पत्तिः। अपि च विभक्त्यर्थस्य प्रकृत्यर्थं प्रति विशेषणतयैवेत्युपपादितं प्राक्। सर्वथा तस्मात् संख्यायाः अपि च संख्यायाः अमूर्तत्वात् -02-0करणत्वासंभवः।। (L. कारणत्व)
न च परम्परया तस्याः करणत्वं साक्षात् क्रियान्वयकल्पनापेक्षयोक्तयुक्तिभिः प्रकृत्यर्थान्वयस्यैव कल्पयितुमौचित्यात्। अरुणयेत्यादौ तु गुणस्यापि तृतीया प्रकृत्यर्थत्वात् परम्परया करणत्वमुचितम्; न तु विभक्त्यर्थसंख्यायाः। तस्मात् संख्यायाः सर्वथा करणत्वेनान्वयो न युक्तः। तथा च पशुनेत्यादौ विशिष्टविधिपक्षे न कोपि दोषः।।
नन्वेवमेकत्वस्य -01-0पशुविशेषणतया (L. भूतया) यागाङ्गत्वाभावाद् एकत्वविवक्षायाः अभावेऽपि यागावैगुण्यात् तदविवक्षितमेव स्यादिति चेन्न -
विशिष्टपशुत्यागत्वबोधनेन पशुत्वादि विशेषणवैकल्ये इव तद्विशेषणवैकल्ये सत्यपि -02-0विशिष्टाननुष्टानात् (T. शिष्टाननुष्टान) तद्वैगुण्योपपत्तेः (तद्वैगुण्यापत्तेः -) पशुत्वादिवच्छाब्दबोधस्यापि विसेषणभूतस्य यागाङ्गत्वेपपत्तेरित्यन्यत्र विस्तरः। एवं च विधेय विशेषणं सर्वमविवक्षाकारणाभावाद्विवक्षितमिति सिद्धम्। क्वचित् अविवक्षाबीजसत्वे तु विधेयविशेषणमप्यविवक्षितमेव; यथाऽऽ'म्रफलमेनं भोजय' इति फलविधेयता - परचोदनायां बोजनफलस्य तृप्तेरेकफलभोजनेऽसंभवेन तात्पर्यानुपपत्या विधेय - आम्रफलगतैकत्वस्याविवक्षेति।।
-01-0-2आपत्तेरिति-2।। (L. नापत्तेरिति) अन्यथा नेति विधेय विशे,णैकत्वस्य विवक्षापत्तौ नकारद्वयविधानं न स्यादित्यर्थः।।
न च वाक्यभेदात् तल्लाभः, तत्कल्पका भावात्, वाक्यबेदे गौरवाच्च। न च चकारबलाद्वाक्यभेदकल्पनम्। विधेयगतैकत्वविशेषणस्य अविवक्षयैवोपपत्तौ लाघवात् तदकरणस्यैवोक्तत्वात्।। -2वैय्यार्थ्यापत्तेश्चेति-2।। तस्या भेदेऽपि 'अनयोरनयोरि'ति न्ययेनैकस्यैव गुणस्य भवनादित्याशयः। -2हेतूनां-2 - वाक्यभेदादीनां। -2आदिना-2 पश्वेकत्वादीत्यादिना। अन्यथा विधेयगतविशेषणस्य अविवक्षितत्वे यकाराद्यापत्तेरिति। "इको यणची" (सू. 6-1-77) त्यादि विषयेष्विति भावः।। 1।। (57)
-2स्थानीति-2।। गुण इत्येकत्वस्य विवक्षितत्वे पीत्यादि। वस्तुत उक्तन्यायेन तत्प्रत्याख्यातमेव भाष्ये इति बोध्यम्। अन्यत इति सार्वविभक्तिकः षष्ठ्यन्तात् सिद्धः - तदाह - -2अनुवाद्यस्येति-2।। उद्देश्यस्येत्यर्थः। -2नियमः-2 उद्देस्यगतविसेषणमविवक्षितमेवेति नियमस्तदाह - -2क्िवचिदिति-2 -
ननु "धातो" (सू. 3-1-91) रित्यादावप्येकत्वविवक्षणे वाक्यभेदापत्तिरत आह - -2एकत्वविशिष्टमिति-2।।
नन्वेवं ग्रहमित्यत्रापि एकत्वविशिष्टपश्वादि -01-0विधेयकत्वविशिष्टग्रहोद्देशेन (L. तिधिवेदत्व) संमार्गसंस्कारविधिसंभवात तत् विवक्षायामपि न वाक्यबेद इति चेन्न-
नवत्वविशिष्टग्रहाणामुत्पत्तिवाक्यतोबोधानुभावे नैकत्ववैशिष्ट्याभावात्। तदुक्तं वाक्यपदीये -
"ग्रहास्वन्यत्र विहिता भिन्नसंख्याः पृथक् पृथक्।
प्राजापत्या नवेत्येवमादिबेदसमन्विताः ।।" (वा.प.जाति.सं.का. IIश्लो. 58)
अङ्गत्वेन प्रतीतानां संमार्गेत्वङ्गिनां पुनः।
निर्देशं प्रति या संख्या सा कथं स्याद्विवक्षिता।। (वा.प.जाति.सं.का.III. श्लो.59) इति ग्रहाणां प्रत्येकमेकत्वाभिप्रायेण एकत्ववैशिष्ट्याबोध इति, चेदिष्टापत्तेः। वस्तुतो विशिष्टविधावप्यार्थिकत्वाक्यभेदसत्वान्न ग्रहमित्यत्र विशिष्टविधावप्यार्थिकत्वाक्यबेदसत्वान्न ग्रहमित्यत्र विशिष्टविधिरपि एकत्वाविवक्षेवैति मीमांसायां स्पष्टम्।। फशुना, वलादे (सू. 7-2-35) रित्यादौ तु लक्ष्यानुसाराद् विशिष्टविधिः स्वीक्रियते तस्माल्लक्ष्यानुरोध एवात्र -01-0शरणमिति (T. शरण्य) दिक्।। 2।। (58)
नन्वेवं विधेयगतविसेषणस्य विवक्षितत्वे। -02-0-2चकारसूचितमिति-2।। (T. लकार) अनेन न -03-0वाक्यबेदाश्रयणे (T. भेद ग्रहणे + रदाभायं निष्ठातो नः पूर्वस्य 'च' दः (सू. 8-2-42)) सौत्रं मानमिति दर्शितम्। प्रामाणिकगौरवं तु न दोषायेति भावः। इदं चात्र विभक्त्यर्थसंख्यारूपमुवाद्यविशेषणं विरोधे सति अर्थपिरच्छेदकमेव; अविरोधे तु तत्परिच्चेदकतया तत्रान्वयोवेति। एतेन "सुप्सुपे"त्यादावेकत्वं विवक्षितम्। तेन सुबन्तसमुदाये न समास इति -0क-0कैयटोक्तमनादेयम्; (समर्थः पदविधिः (सू. 2-1-1) म.भा.प्रदीपः. प्र.ख.पृ. 318 प्रदीपपङ्क्तिः ः- "सुबन्तस्यैकेनैव सुबन्तेन समासस्ततो बहूनां न भवतीत्यर्थः") तद्विवक्षणे विरोधाभावात्। एवमस्यच्वौ (7-4-32) त्यादावुद्देश्य विसेषणत्वात् एकत्वस्य अविवक्षणात् सर्वव्यक्तिलाभो ग्रहैकत्ववदिति तत्र च कैयटश्चिन्त्य एव। उक्त युक्तेः। उपपत्तिस्तु जातिपक्षाश्रयणात् जातेः प्रत्येकव्यक्तिवृत्तित्वात् उभयत्र बोध्येति -0क-0मञ्जूषायां (लघुमञ्जूषायां सुबन्थसङ्ख्याविचारे पृ. 1371) विस्तरः। केचित्तु 'पशुना यजेते'त्यत्र पस्ववयवसाध्यसकलाङ्गयागात् यजित्वेन उपादय तद्देशेन पशोर्विधानं तत्रैकत्वाविवक्षणे पसुत्वाश्रयाणामनेकेषां पशूनां विधानं प्राप्नोति।
-01-0अनेकयागानामुद्देश्यत्वात् (L. एतत् पदं न दृश्यते) "रदाभायमि" (सू. 8-2-42) त्यादावनेकोद्देशेन अनेकविधानवत्; अतस्तद्विवक्षेत्याहुरित्यन्यत्र विस्तरः। एवं लिङ्गस्यापि विवक्षाऽविवक्षे बोध्ये।। 3।। (59)
-0इति लघुभूषणकान्तौ
-0सङ्ख्याविवक्षाऽविवक्षानिर्णयः
-0।।श्रियै नमः।।



-0क्त्वाद्यर्थनिर्णयः
।।श्रीः।। अवसरसङ्गत्या कत्वा -01-0प्रत्ययविशेषार्थं (T. विशेषणार्थं)निरूपयति मूले - '-2अव्ययकृते-2' (वै.सि.का. 60) -2त्यादिना-2।। "कर्तरि कृदि" (सू. 3-4-67) ति कर्तरि तुमुनादयो न, -0क-0'अव्ययकृतो भावे' (अव्ययकृतो बावे बवन्ति (वार्तिक 3-4-9)) इत्यनेन बाधात्। -2प्रकृत्यर्ते इति-2।। अनेन -02-0साध्यावस्थापन्नक्रियावाचकत्वात् (T. यायोस्थापनं) -03-0धात्वर्थानुवादकत्वं (T. तात्पर्य) तुमुनादीनामुक्तं भवति। अत एव "तुमर्थे" (सू. 3-4-9) इति सूत्रे -0ख-0भाष्ये ("तुमर्थे सेसेनसे असेन् वसेकसेन ध्यै अध्यैन् कध्यैन् शध्यैशध्यैन् तवैतवेङ्तवेन" (सू. 3-4-9) म.भा.द्वि.ख.पृ. 259) तुमुनादिवाच्योभावः आभ्यन्तरघञादि वाच्यस्तु बाह्यो धात्वर्थादित्युक्तम्, अतो घञादिभ्यस्तुमुनादेर्विशेषः।। -2क्त्वादेः सङ्ग्रह इति-2।। अत्र आदिना भावार्थकालनां कृत् -संज्ञक - तव्यादीनां खलर्थानां नपुंसके भावे क्तस्य संग्रहः तेषामपि -04-0साध्यावस्थापन्नभाववाचकत्वात् धात्वर्थानुवादकत्वमेव। अत एव 'एधितव्यमि'त्यादौ न क्रियान्तराकाङ्क्षा अत एव एकवचनमेव। 'सत्वप्रधानानि नामावि' (नि. अ. 1.पा. 1.) इत्युक्तेः साध्यावस्थस्यापि भावस्य 'पचति रूपमि'त्यादाविव लिङ्गयोगस्तल्लिङ्दगान्तरासंभवात् सर्वलिङ्गसाधारण्यात्मकलिङ्गसर्वनामत्वाच्च नपुंसकत्वमेव। लिङ्गान्वयित्वमात्रेण वा असत्वरूपत्वम्। कश्चित्तु 'एधितव्यमि'त्यादौ -01-0तत्क्रियाद्यर्थे (T. तत् पदं नास्ति) विभक्त्या लिङ्गान्वयोपयोगिसिद्धत्वावेदनमित्याह। इयांश्च विसेषः = क्रिययोः -02-0साध्यावस्थापन्न (T. साध्य एव स्यात् तन्न) त्वाविशेषेऽपि 'एधितव्यमि'त्यादौ न क्रियान्तराकाङ्क्षा, 'भोक्तुमि'त्यादौ अव्यापकमिति तदन्वयप्रयोजकं रूपवैजात्यमेव अङ्गीकर्तव्यमित्यभिहितं प्राक्। -2एकवाक्यता-2 - आख्यातं सविशेषणं वाक्यमिति लक्षणाक्रान्ता। -2अन्यथा-2 = विशेषणविशेष्यभावाभावेऽपि एकवाक्यत्वस्वीकारे। -2तथा च-2 = विशेषणविशेष्यभावस्यावश्यकत्वे -03-0च।। (T. व) -2संसर्गे जन्यत्वमिति-2।। आनन्तर्यस्याविशिष्टत्वेऽपि 'भुक्त्वैव तृप्तो न पीत्वे'ति प्रयोगात्। -2जन्यत्वं-2 = जन्यजनकभावः संसर्गः। तद्वक्ष्यति - -2अत एवेति-2।। व्याप्यत्वमपि संसर्गस्तद्वक्ष्यति - -2अधीत्येति-2।। वस्तुतः सर्वत्र अनयोः न सम्बन्धत्वम्; अपि तु उक्तोदाहरणयोरेव। 'बुक्त्वा व्रजती'त्यादौ तदप्रतीतेः। सूत्रक्षरतोऽलाभाच्च। पूर्वोत्तरभाव = आनन्तर्यं, तल्लाभाश्च सूत्रे -0क-0पूर्वकाले (समानकर्तृकयोः पूर्वकाले (सू. 3-4-21)) इति -01-0बहुव्रीहिणा (L. व्रीहिणायोरेखे)समानकर्तृकयोः क्रियारूपार्थयोर्मध्ये पूर्वकालसंबध्यर्थवाचकाद्धातोः कत्वेत्यर्थात्। तदपि पूर्वकालत्वमव्यवहितत्वगर्भं तेन वर्षान्तरीय भोजनमादाय 'भुक्त्वा व्रजती'ति न। अव्यवधानं तु तात्पर्यवशाद् दण्डमुहूर्ताहरादिभिः यथायथं बोध्यम्। तेन 'अद्य भुक्त्वा इवो गन्ते'त्याद्युपपत्तिः।।
न च पूर्वकालत्वादेः संसर्गत्वे 'मुखं व्यादाय स्वपिती'ति न स्यात्; व्यादानस्य स्वापपूर्वकालत्वाभावादिति वाच्यम्।
व्यादानोत्तरमपि स्वापानुवृत्या तमादाय तदुपपत्तेः। पूर्वकालत्वमात्रन्तु न सम्बन्धः, -02-0सम्बन्धस्योभयनिष्ठत्वावस्यकत्वात्। (L. आवश्यकत्वात् - नास्ति) अत्र उत्तरकालवृत्तित्वं, न तत्तध्वंसाधिकरणकालवृत्तित्वं 'स्थित्वा पश्यती'त्यादावभावात्। किंतु तदधिकरणसमायध्वंसाधिकरण समयोत्पत्तिकत्वमिति। उत्तरकालस्य प्रत्ययार्थत्वं तु न युक्तम्। कृति प्रत्ययार्थ स्य विशेष्यत्वदर्शनात् तस्य विशेष्यतापत्तौ क्रियाप्राधान्यविरहेण आभीक्षणे द्वित्वाभावापत्तेः। गुणभूतक्रियामादाय तत्प्रवृत्तौ तु 'पाचक' इत्यादावपि द्वित्वापत्तिरिति। -2व्याप्यत्वं चेत्यादि - इति-2।। आदिना क्रियार्थायां क्रियाया - मित्युक्तेः -01-0'भोक्तुं व्रजती'त्यादौ (T. इत्यत्र) -02-0तादर्थ्यस्यापि (T.यदर्थ) तुमुन् द्योत्यस्य [-03-0"कर्तरि कृदि" (T. एतत् पदं न दृश्यते, L. मात्कास्यः अधिकः अनुचितः पाठः) (सू. 3-3-10)ति-] -05-0संग्रहस्तदपि (L.
इति) संसर्ग एव। "तुमुन्णुलावि" (सू. 3-3-67) ति विहितः ण्वुल् तु कर्तरि कृदि (सू. 3-4-67)ति कर्तर्येव। अव्ययकृत्वाबावेन "अव्यय कृत" इति बाधकवचनस्याप्रवृत्तेः। ततश्च 'कृष्णं द्रष्टुं याती'त्यत्र कृष्णकर्मकभविष्यद्दर्शनकर्तृकं तद्दर्शनोद्देश्यकं गमनमित्यादि रीत्या बोधः।। -2अत एव-2 = जन्यजनकभावस्यापि सम्बन्धत्वादेव। भोजनसामानाधिकरणा भोजनक्रियाकर्तृकर्तृका च।। -2संसर्ग इति-2।। तथा च अध्ययन सामानाधिकरणाध्ययनव्याप्यस्थितिरिति बोधः।। -2प्रकृत्यर्थक्रिययोः-2 = कत्वा प्रकृत्यर्थ - तत्समानाधिकरणक्रिययोः। -2अत एव-2 = तेषां द्योतकत्वादेव। -2विषये-2 = वाच्ये। वस्तुतः समानकर्तृकयोरर्थयोर्मध्ये -01-0पूर्वकालविशिष्टार्थवृत्तेः (L. कृते) धातोः कत्वेति सूत्रार्थः। पूर्वकालः क्त्वाप्रत्ययार्थे भावे प्रकारो न तु संसर्गः। तद्- बलादेव आनन्तर्यसम्बन्धेन तस्य धात्वन्तरार्थेऽन्वयः। अत एव -0क-0भाष्ये ('समानकर्तृकयोः बर्वकाले' (सू. 3-4-21) म.भा.द्वि.ख.पृ. 249, भा.पत 'स्वशब्देनोक्तत्वान्न भवति') 'पूर्वं भुंक्ते पस्चात् व्रजती'त्यत्र समानकर्तृकत्वात् वत्वाप्रत्ययमाशङ्क्य 'स्वशब्देनोक्तत्वादि'ति परिहृतम्। तस्य च पूर्वशब्दस्य अत्र पूर्वकालोर्थो; न तु धातोः तत्र वृत्तिरित्यभिप्रायः। न तु 'उक्तार्थानामि'ति न्यायसंचारेण समाधानं भगवतो विवक्षितम्, उक्तपदस्वारस्येव अस्य न्यायस्य वाचकविषयत्वात्। अत एव 'व्यतिलुनीते' इत्यादिप्रयोगसङ्गतिरिति भावः। यदि तु 'उक्तार्थानामि'ति न्यायस्य द्योतकवाचकसाधारण्यमेव। अत एव 'अध्यागच्छती'त्यादावागच्छतीत्यतोऽनधिकार्थयोरधिपर्योः प्रयोगस्योक्तार्थानामिति न्यायेन अभव माशङ्क्य 'अपूर्वो द्वावि'त्यादावुक्तार्थानां प्रयोगदर्शनेन समाधानं कृतम्। अत एव च 'द्विदशावि'त्यादौ समासेन सुबर्थस्य द्योतितत्वान्न द्योतकः सुबिति भाष्ये उक्तम्। अत एव च तद्धित - द्विर्वचनयोः द्योतकयोस्तद्धितेन वीप्साया उक्तत्वान्नद्विर्वचनम् {इति-} "सर्वस्य द्वे" इति सूत्रे -0क-0भाष्ये ("सर्वस्य द्वे" (सू. 8-1-1) म.भा.पृ. (तृ.ख.) 283) उक्तमित्युच्यते। तदा अन्तिमभाष्यविरोधान्न्यायाप्रवृत्तिरिति बोध्यमिति -0ख-0मञ्जूषादौ (लघुमञ्जूषा. पृ. 1095) स्पष्टम्, -01-0तत (T. अतः) एव बोध्यम्।
नन्वेवं 'पूर्वं भुक्त्वा पश्चाद् व्रजती'त्यादौ उक्तरीत्या वत्वानापत्तिरिति चेन्न -
'अन्येभ्यो भोक्तृभ्यो पूर्वं भुक्त्वाऽन्येभ्ये ब्रजितृभ्यो पश्चाद् व्रजती'त्यर्थात्साधनान्तरक्रियापेक्षं पौर्वकाल्यमादाय विभाषाग्रे (सू. 3-4-24) इति वत्वासत्वात्। एवं च पूर्वकाले इत्यस्य लाघवात् कर्मधारयत्वेऽपि न क्षतिः।।
न च -01-0भूते (T. भूते) इत्येव कुतो नोक्तम्। पर्याय शब्दानां लाघवानादरात् तत्वेन बोधाननुभवाच्च। तस्मात् पूर्वकालत्वं प्रकारः; आनन्तर्यादिकं तु संसर्गः। यद्वा आनन्तर्यादि संसर्गाणामपि षष्ठीवाच्यत्वमिव वत्वादि वाच्यत्वमेवास्त्विति बोध्यमित्यन्यत्र विस्तरः।
अप्पय्यदीक्षितमतं खण्डयति - -2यत्विति-2।। -2समानकर्तृकत्वं-2 - समानः कर्ता।। -2अन्यथा-2 = कर्तुरवाच्यत्वे।। -2तृतीयाप्रसङ्ग इति-2।। वत्वादिना कर्तुरनभिधानादिति भावः।। -2आश्रयणादिति-2।। अबिरितेनेति प्रसज्यप्रतिबोधाश्रयणे तु 'भोक्ष्ये' इति आख्यातेन तस्यैव कर्तुरनभिधानमात्रेण -02-0निषेधात्तृतीयाया (T. 'तृतीया' आरभ्य 'अबिधानेति' पर्यन्तं न दृश्यते।) वारणसम्भवात्।। -2अत एव-2 = पर्युदासाश्रयणादेव।। -2क्रियाधिकरणेति-2।। क्रियानिरूपिताधिकरणत्वेत्यर्थः।। -2अबिधानेति-2 = घञेति शेषः।। -2अन्यथा-2 = समानकर्तृत्वस्य वत्वावच्यत्वे।। -2आख्यातार्थेति-2।। अत्र आख्यातशब्देन तिङन्तम्।। -2प्रधानानुरोधेन गुणे इति-2।। तथा च प्रधानभूजिक्रियानिरूपितकर्तृत्वशक्तेः तिङाऽभिहितत्वादप्रधानपचिक्रियानिरूपिततच्छक्तेरभिहितवत्प्रकाशनम् इति न तृतीयापत्ति रित्यर्थः।। 'प्रासादे आस्ते' इत्यत्रापि प्रधान - असिक्रिया-निरूपिताधिकरणत्वशक्तेरनभिहितत्वेन अप्रधान - असि-क्रियानिरूपिताधिकरणत्वशक्तेरभिहितत्वेऽपि अनभिहितत्वात् प्रासादात् सप्तमी सिद्धा।।
-0क-0प्रधानेतरेति (वा.प.III. श्लो. 81) ("प्रदानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्। शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते।।" (वा.प.साधनसमुद्देशः.का.III. श्लो.81)) -2इतरत्-2 = अप्रधानम्।। तथा च द्वन्द्वेन प्रदनाप्रधानयोरित्यर्थः।। -2क्रिययोः इति-2।। षष्ठ्याः निरूप्यनिरूपकभावः सम्बन्धोऽर्थः।। -2द्रव्यस्य-2 = एकत्वावच्छिन्नद्रव्यस्य निष्ठत्वं षष्ठ्यर्थः। यत्र = प्रयोगे। -01-0शक्तिरित्यस्य (L. शक्ति ---- प्रयोगे - नावलोक्यते।) अस्तीति शेषः। तथा च एकद्रव्यनिष्ठा यत्र प्रयोगे प्रदानाप्रधानक्रियानिरूपिता शक्तिरस्ति तत्र प्रयोगे गुणाश्रयाऽप्रधानक्रियानिरूपिताशक्तिः, प्रधानं = प्रधानक्रिया निरूपितां शक्तिं, -2अनुरुध्यते-2 - तद्वत् प्रकाशते इत्यर्थः। अनुरोधमेवाह - -0क-0-2प्रदानविषयेति-2।। ("प्रधानविषयाशक्तिः प्रत्ययेनाभिधीयते। यदागुणे तदा तद्वदनुक्ताऽपि प्रतीयते।।" (वा.प.का.III. साधनसमुद्देशः श्लो.82)) प्रधानक्रियानिरूपितेत्यर्थ- - '-2प्रत्ययेन-2' - तदुत्तरप्रत्ययेन।। यदेति पूर्वान्वयि। गुणे इति निरूपितत्वं सप्तम्यर्थः। तथा च
प्रधानक्रियानिरूपितशक्तिस्तदुत्तरप्रत्ययेन यदाऽभिधीयते, तदा अप्रधानक्रियानिरूपिताशक्तितदुत्तरप्रत्ययेन अनुक्तापि, 'तद्वत्' - उक्तवत्, प्रतीयते इत्यर्थः। तुल्यन्यायाद्गुणनिरूपिताशक्तिरुक्तापि प्रधानक्रियानिरूपितानुक्तशक्तिवत्प्रकाशते इति बोध्यं स्पष्टं चैतदन्यत्र।। -2अन्यथा-2 = कर्तुरवाच्यत्वे।। -2अवारणादिति-2।। कर्मणो अनभिहितत्वेन ओदनपदोत्तरं प्राप्तद्वितीयातिप्रसङ्गस्य वत्वादेः कर्माभिधायकत्वरूपवारणप्रकारातिरिक्तप्रकारेण अवारणादित्यर्थः। मन्मते तूक्तरीत्या न दोष इति भावः। यदपि पूर्वं कत्वान्तार्थमात्रस्य बुद्धिविषयत्वात् तस्य च कर्तृकार्माकाङ्क्षा - सत्वात् अन्तरङ्गत्वेन द्वितीयाद्यापत्तिः। अतः कर्तृकर्मार्थकत्वं वत्वादेः -01-0आवश्यकमिति, (T. न वारकमिति) तदपि न। व्रजत्यादिक्रियान्तरसम्बन्धस्य पूर्वबुद्धे विषयत्वे एव क्त्वादेः साधुत्वात्। एकत्वावच्छिन्नस्य द्रव्यस्य इत्युक्तेः। 'ओदनं पक्त्वा ग्रामो गम्यते देवदत्तेन' इत्यादौ द्वितीया भवत्येव। कर्मशक्त्योरेक्तनिष्ठत्वाभावादिति दिक्। आख्यातवाच्यक्रियायाः प्राधान्यता भवत्येव। क्त्वान्तोपस्थिताः क्रियाः सर्वाविशेषणम्; न तु तासां परस्परसम्बन्धः, -0क-0गुणानां (गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात् मी.भा.(3-1-22) जै.सू) च परार्थत्वादिति न्यायात्। अत एवाऽनियतः प्रयोगः - 'स्नात्वा, भुक्त्वा, पीत्वा व्रजति', 'पीत्वा, भुक्त्वा, स्नात्वादि'वा । "आवाह्य षोडशोपचारैः पूजयेदि"त्यत्र उक्तसम्बन्धेन आवाहनविशिष्टपूजने षोडशोपचारैरित्यस्य करणत्वम्; तेन आवाहनस्य षोडशोपचारान्तर्गतत्वेऽपि न दोषः।
'दक्षिणदेशस्थैरप्राप्य सङ्गां पर्वत' इत्यादौ प्राप्यते इत्यध्याहारेण "परावरयोगे चे" (सू. 3-4-20) ति परयोगे वत्वा। अप्राप्येत्यस्य दक्षिणदेशस्यपुरुषकर्तृका नदीकर्मिका आरोपितप्राप्तिर्थः। सा च उत्तरकालिकत्वेन पर्वतकर्मकप्राप्तिक्रियान्वयिनी। अत्र परभूतनद्याः अप्राप्येत्येतद्वारकसम्बन्धः। एवमतिक्रम्य पर्वतं नदीत्यत्र अवरयोगे क्त्व, दक्षिणदेशस्थ पुरुषकर्मकप्राप्तिध्वंसोत्तरकालिकी नदी - प्राप्तिरिति बोधः। तेन उभयक्रमेण प्रागभावसमानाधिकरणत्वं ध्वंससमानाधिकरणत्वं च इतरप्राप्तौ फलति। क्वचित् साक्षात्‌करियाया एव परावरयोगः यथाऽ'वेर्मांसमि'ति विगृह्याविकशब्दादुपत्तिरिति। अत्र विग्रहो भिन्नत्वेन ज्ञानं तदुत्तरकालिको अविकशब्दाधिकाप्रत्ययकर्तृकोत्पत्तिरित्यर्थः। परत्वादिकं तत्र लोकव्यवहाराद्वैवक्षिकमित्यलम्।
अत्र क्त्वाप्रत्ययवाच्यं - समानकर्तृत्वं समानकालीनत्वं, पूर्वकालीनत्वम्, उत्तरकालीनत्वम्, आनन्तर्यविशिष्टानन्तर्यं चेत्यादीनि -01-0परेषां (T. एतेषां) मतानि सम्बन्धविधयैव तेषां भानोपपत्तौ वाच्यत्वस्यायुक्त्वात् 'अनन्यलभ्यो हि शब्दार्थ' इति न्यायादनादेयानीति स्पष्टमन्य्त्रेति शिवम्।। 1।। (60)
-0इति
-0लघुभूषणकान्तौ
-0क्त्वाद्यर्थनिर्णयः
-0।।श्रीः।।-0





स्फोटनिर्णयः
-0-2वर्णस्फोटः
।।श्री।। -2वर्णस्फोट इति-2।। स्फुटति प्रकाशते अर्थोऽस्मादिति स्फोटो वाचक इत्यर्थः। तथा च कर्मधारयेण वर्णो वाचक इत्यर्थः। व्तुतो वर्णशब्देन प्रकृतिप्रत्ययाविति।। -2अनर्थकम्-2 = निष्प्र्योजनकम्।। -2दुरर्थकमिति-2।। शास्त्ेऽवयवानामेवार्थव्युत्पादनाद्वाक्यशक्तेरभावाद्दुष्टार्थकमित्यर्थः।। -2अन्येषामपीति-2।। वर्णस्कोटवादिनाम्। 'अपि'ना प्रागुक्ततदन्यसिद्धन्तानानित्यर्थः।। -2इति विप्रतिपत्तिरिति-2।। इत्येव विप्रतिपत्तिरित्यर्थः। साधुशब्दान्तर्गता वाचका न वेति न विप्रतिपत्तिः। 'औपगव' इत्यादि साधुशब्दान्तर्गतानामुपग्वादीनां सर्वेषां मते एव वाचकत्वात्।।1।। (61)
-2अव्यभिचाराच्चेति-2।। कत्राद्युपस्थितिं प्रति लत्वेन तज्ज्ञानस्य कर्त्रादिविशेष्यकबुद्धिं प्रति लत्वेन लपदजन्योपस्थितेश्च कारणत्वेनेत्यर्थः। परमते व्यभिचारमाह - -2आदेशानामिति-2।।
।। -2न चेति-2।। अपभ्रंशस्थले तस्यावश्यकत्वादिति भावः।। -2मानाभावादिति-2।। न च बहूनामानुपूर्व्याः शक्तातावच्छेदकत्वादयकल्पनमेव मानमिति वाच्यम्।
तवापि पूर्वोक्तक्रमेणादेशिनो नानात्वेन शक्ततावच्छेदकानन्त्यप्रयुक्तगौरवस्य तुल्यत्वात्।। -2भिन्नभिन्नानामिति-2।। केचित् सिमाहुः, केचित् सुं, केचिद्रुमित्यादिरीत्या इत्यर्थः।। -2तद्धेतुन्यायत इति-2।। -0क-0'तद्धेतोरेवास्तु किं तेने'ति ("तद्धेतोरेव तत्वे किं तेन" इति न्यायस्वरूपम्।) न्ययत इत्यर्थः।
ननु तादृशवर्णसमभिव्याहारस्य कारणत्वेपि वर्णानां वाचकत्वं न लब्धमेवेत्यत आह - -2तथा चेति-2।। वस्तुतश्चिन्त्यमेतदित्यन्यत्र स्पष्टम्। केचित्तु 'आदेशेनादेशी स्मार्यते, तेनार्थोबोध्यत' इति मते येऽस्मन्मते वाचकतावच्छेदकास्ते तन्मते स्मारकतावच्छेदका वाच्याः। तथा च तद्धेतोरितिन्यायेन त एव वाचकतावच्छेदका इति भावः।
न च येन केनचिद्रूपेण स्मारकत्वमिति वाच्यम्। अतिप्रसङ्गापत्तेरिति प्राहुः। युक्तञ्चैतत् तद्धेतुपदस्वारस्यादिति।। -2न स्यादिति-2।। लकारस्यैक्येन वैषम्ये बीजाभावादिति भावः।। -2अस्याप्रवृत्तेरिति-2।। अर्थाधिकारानुरेधेन कर्तरीत्यत्रापि कर्तृपदस्य कर्तृत्वपरत्वापत्तौ त्वदुक्तार्थत्वाभावाच्चेत्यपि द्रष्टव्यम्।। 21/2।। (621/2)
-2स्यादितीति-2 तिङा भावनावाचकत्ववादिनस्तवेति भावः।। -2आपत्तेरिति-2।।
न च शानच्प्रत्ययस्य अन्यत्र शक्त्या निर्णय इति वाच्यम्।।
शुद्धपचमान इति प्रयोगस्थले तन्निर्णयासंभवात्।। -2उक्तमिति-2।। धात्वर्थवादे।। -2इति वर्णस्फोटनिरूपणम्-2।।31/2।। (631/2)
(-2अथ पदस्फोटः-2)
ननु प्रत्येकं वर्णैरर्थस्मरणं जन्यते चरमेण च पुनः स्पष्टं जन्यते इति न प्रत्येकं वर्णादर्थबोधाद्यापतिरितिनिर्दु,्टो वर्णस्फोटोऽत आह - -2प्रतिवर्णमिति-2।। -2एवच्च-2 - समभिव्याहाररूपपदस्य वाचकत्वाभिधानञ्च।। -2वादिनां मतान्तरस्येति-2।। वादिनां यदिति (एतदिति) इत्येतन्मतान्तरस्येत्यर्थः। तदेव दूषणमाह - -2रामोऽस्तीति-2।। एतच्चादेशनामवाचकत्वे न सिद्धयतीत्यतस्तद्वाचकत्वमभ्युपेयम्।।4।। (64)
"-2सुक्तिङन्तं पदमि-2" (सू. 1-4-14)ति वर्णसमभिव्याहाररूपपदस्य वाचकतामुक्त्वेत्यादिः। प्रकृतिप्रत्ययार्थ योर्यथाकथञ्चित् ज्ञानेप्याह - -2विभागस्येति-2।। इदमसम्भवान्वयि। तयोर्ज्ञानाभावमप्याह - -2विभागस्येति-2।। इदमसम्भवान्वयि। तयोर्ज्ञानाभावमप्याह - -2सर्वे इति-2।। -2सुज्ञेय इति-2।। "टाङसिङसामिनात्स्याः" (सू. 7-1-12) इत्यादि सस्त्रबलादित्यर्थः।। 5।। (65)
-2तदाह-2 - वाचकत्वमाह। सखण्डपदवाक्यस्फोटयोर्वयवस्थामुपपादयति -2हरेऽवेत्यादिना-2।। -2व्युत्पत्या-2 - शक्तिज्ञानेन। वाक्यशक्तौ बीजं सूचयन् विशेषमाह - -2वस्तुत इति-2।। -2अन्यथा-2 पदार्थे व्युत्पन्नपदस्य वाक्यार्थोपस्थापकत्वस्वीकारे। -2तादृशव्युत्पत्तिरहितस्य-2। तादृशवाक्यार्थे तादृशवाक्यीयव्युत्पत्तिरहितस्य। अयमर्थः = 'घटः कर्मत्वमि'त्यादौ 'घटमानये'त्यादिवाक्यस्थघटादिपदानामिव [सूदनिषु-] शक्त्या पदार्थोपस्थितिवद् वाक्यार्थोपस्थितेरपि सम्भवात् वाक्यीयव्युत्पत्तिमन्तरापि वाक्यार्थबोधापत्तिः।
न चैवं वर्णस्पोटेपि वर्णगतशक्तिमादाय पदार्थेपस्थितिर्वक्तुं शक्या। तत एव च पदार्थबोध इति नातिरिक्तः पदस्फोट इति वाच्यम्।
वस्नसादौ प्रकृतिप्रत्ययविभागस्य ब्रह्मणापि दुर्वचत्वात्। तदंशे वृद्धव्यवहारानुपलम्भाच्च। प्रत्येकं वर्णानां वाचकत्वेऽनुबवविरोधश्च। घटः कर्मत्वमित्यादौ बोधापतिं वारयितुं शङ्कते - -2तत्रैवेति-2।। 'घटमानये'त्यत्रैवेत्यर्थः। यद्वा बोधस्यैव विशेषणमेतत्। तथा च, तथा समभिव्याहारज्ञानस्याभावात्घटः कर्मत्वमित्यादौ तथा बोधः।। -2घटादिपदार्थेति-2।। 'घटमानये'त्यादौ घटादिपदार्थबोधे बोधकतारूपशक्तिज्ञानं हेतुः। घटकर्मकमानयनमिति बोधे तु समभिव्याहारोपीत्युभयकारणत्वे गौरवमिति तद्देतुन्यायेन दृष्टान्तता।। -2शब्दवृत्तिज्ञानकारणत्वसयेति-2।। शब्दवृत्तिर्याऽर्थज्ञानकारणता तस्या इत्यर्थः। तद्धेतुन्यायेनैवाह -2युक्तं चेतदिति-2।। -2मात्रं-2 - कार्स्न्ये। तेन
पदार्थवाक्यार्थोभयविषयकशाब्दबोधसङ्ग्रहः।। -2अन्वयांशे-2।। अन्वयांशेपि पदनिष्ठैव वाक्यार्थ बोधानुकूलावृत्तिरिति पूर्वमाशङ्कितपक्षेपीति यावत्। अयमाशयः - येषां मते पदेन वाक्यार्थो लक्ष्यः येषां वोऽन्विते पदानां शक्तिस्तेषामपि प्राक् तदनुपस्थितेर्वृत्तिग्रहासम्भवात्कथं निस्तारः।
अथ पदैः पदार्थानामुपस्थितवाकाङ्क्षाज्ञानसाचिव्यात्त-
एव वाक्यार्थोपस्थितावपि वृत्यानुपस्थितत्वान्न स बोधः; शाब्द इति मध्ये लक्षणाग्रहः। प्रागविज्ञातहरिद्रानामक नदीविशेषेण पुरुषेण 'हरिद्रायां नद्यां घोष' इति श्रुते वाक्ये नदीपदसमभिव्याहारेण तदानीमेव हरिद्राशब्दस्य नदी विशेषे शक्तिग्रहेण नदीलिङ्गात् तत्सम्बन्धित्वेनावगततीरप्रत्ययवदिति चेत् सममस्माकमपि। अन्विताभीधानवादिमतेनाह - यदीति- -2अज्ञातैवेति-2।। पदशक्तिर्ज्ञातैवेति शेषः।
[ननु-] वाक्यार्थस्यापूर्वत्वादिशङ्कायाः पक्षान्तरेण समाधानं वक्तुमाह - -2नन्विति-2 - मनसा।। वृद्धव्यवहारसहितेन मनसा।। -2पदार्थवत्-2 = पदार्थे शक्तिग्रहवत्।। -2तद्ग्रहः-2 - शक्तिग्रहः। अयमभिप्रायः = वृद्धव्यवहारात् प्राथमिकशक्तिनिर्णयो यथा मनसा तथात्रापि पदैः पदार्थोपस्थितौ सत्यां मनसा, तदुपस्थितिर्नानुपपन्ना, परन्तु मानसं ज्ञानं संशयरूपं दुर्वारमिति शाब्दादरः। शक्तिग्रहे तु लिङ्गादेर्निर्णायकस्य सत्वान्न संशय इति।। 61/2।। (661/2)
पूर्वोक्तवस्तुत इत्यादिरीत्यैव पक्षान्तरमाह -2वस्तुतस्त्विति-2।। -2प्रथमं-2 = न तु पदशक्त्या पदार्थबोधोत्तरम्।। -2प्रत्येकं-2 = प्रतिपदार्थम्।। -2इयमेवेति-2 = पदः पदार्थोपस्थितौ सत्यां, मनसा वाक्यार्थोपस्थितौ लक्षणाग्रह इत्येवम् इयमित्यर्थः। पक्षद्वयमिति पाठः। पदस्फोटवाक्यस्फोटरूपमिति तदर्थः। पदप्रत्यक्षमिति पाठान्तरे स्पष्ट एवार्थः।। -2उत्पत्तेरिति-2।। वर्णानामिति शेषः। -2एकदा-2 - युगपत्।। सखण्ड़त्वादेवाह - -2वर्णसमूहेति-2।। -2तत्समूहेति-2।। पदसमूहेत्यर्थः। -2तस्मिन्-2 - उत्तरवर्णे।। -2तदुत्तरप्रत्येति-2।। तदुत्तरवर्णप्रत्यक्षेत्यर्थः।। -2विशिष्ट(तत्)वर्णवत्वं-2 = पूर्ववर्णविशिष्टोत्तरवर्णवत्वम्।।71/2।। (671/2)
(-0-2अथ अखण्ड़स्फोटः-0-2)
-2अखण्‍डपक्षमिति-2।। बाह्यं वर्णपदवाक्यभेदेनाखण्डमित्यर्थः।। -2नास्तीत्यर्थ इति-2।। तथा च वाक्ये पदानि न भासन्ते इत्यर्थः।
ननु ककारं श्रृणोमि, वकारः पठितइत्यादि प्रतीतिरेव मानमत आह - -2तत्तद्वर्णेति-2।। -2नन्वेवं-2 (न चैवं) = वायुसंयोगनिष्ठवैजात्य, तारत्वादेर्व्यङ्गये आरोपेणैव प्रतीतेरुपपतौ।। -2न स्यादिति-2।। तद्धेतोरिति न्यायादिति भावः।। -2अखण्डः सिद्धयतीति-2।। अस्मिंश्चपक्षद्वये वर्णाः अपि अनावश्यका इति कौस्तुभादावुक्तम्।। -2एतन-2 = वर्णस्फोटस्वीकारेण।। -2तेषां - वर्णानां-2 - -2सादारण इति-2।।
ननु येन क्रमेणानुभवजसंस्कारस्तेनैवक्रमेण समूहालम्बनस्वीकारान्न 'सरो रस' इत्यादि प्रतीतेरैक्यमिति चेन्न-
संस्कारजन्यज्ञानस्य क्रमकत्वनियमे मानाबावात्।। -2नादाभिव्यङ्ग्यः-2 = नादाभिव्यङ्ग्यवर्णाभिव्यङ्ग्य इत्यर्थः।। अत एवाह --2वर्णानामिति-2 = -2अत एव-2 = गत्वाद्यनेकप्रकारैर्व्यङ्ग्यत्वादेव।। -2तदतिरेकगस्वीकारः-2 = स्फोटभेदास्वीकारः।। -2एवं च-2 = प्रत्यकं व्यञ्जकत्वे च।। -2स्वज्ञानाधिकरणेति-2।। यथा घट इत्यत्र घज्ञानाधिकरणीभूतो यः क्षणस्तदुत्पत्तिकं यत् टज्ञानं तद्विषयत्वं टे इति।। -2न कश्चिद्दोषः-2।। पदज्ञानमसम्भवीत्यादिरूपः।। -2उचितत्वादिति-2।। त्वन्मते इति शेषः। ततोपि लाघवमाह - -2तथा सतीति-2।। स्फोटमङ्गीकृत्यानुपपत्या तत्तत्पर्यायगतशक्तिग्राहकत्वेन हेतुत्वमपेक्ष्य शक्तिग्रहत्वेनैव हेतुत्वे लाघवमिति गुरुभूतस्फोटो नाङ्गीकर्तव्य इत्यर्थः।। -2तत्वे-2 - हेतुत्वे।। -2गौरवात्-2 = अवच्छेदकगौरवात्।। -2पदार्थानां-2 = स्फोटरूपाणाम्। एतेनेत्यस्यार्थमाह -2पर्यायेष्विति-2 - तत्र मानमाह - -2नादिति-2।। तथा च अवच्चेदकभेदाच्छक्तिभेदः।। -2वर्णमालायाम्-2 = वर्णसमुदाये।। -2अन्यथा-2 = सर्वस्य स्फोटस्य उक्तरीत्या वर्णस्य सत्यत्वे।।81/2।। (681/2) -2उपेयप्रतिपत्यर्थेति-2 (वै.सि.का.69)।। कल्पनाविशेषणम्। तदाह - -2उपेयेति-2।। -2आनन्दवल्यामिति-2।।
-0क-0भृगोर्वारुणेः (तैत्तिरीयोपनिषदि भृगुवल्यां तृतीयोऽनुवाकः) प्रश्नेषु सत्सु पितुः वरुणस्योक्तौ अन्नमयं ब्रह्म, प्राणम्यं ब्रह्मेत्याद्यनक्ष(न्त-)रं ब्रह्मपुच्छं प्रतिष्ठा इति श्रूयते। अत्रायमर्थः = अन्नरसपरिणामत्वादन्नशब्देन शरीरमुच्यते। तेन शरीरातिरिक्तस्य पुत्रकलत्रादेरात्मत्वभ्रमो व्यावर्तितः। तस्य उत्पत्यादिकमभिसमीक्ष्य पुनः प्रश्ने प्राणमयं ब्रह्मेत्युक्तौ प्राणादिविशिष्टस्यात्मन उपदेसेन बाह्यस्य अनात्मत्वं प्रतिपादितम्, -0क-0तस्यापि (तस्यापि ------ सम्पादितम् - अत्र दूरान्वयः अस्पष्टार्थः वाक्यान्वये दृस्यते) तथात्वं बोग्यत्वं न प्राणस्यः अपि तु मनस एवेति चाभिसमीक्ष्य पुनः प्रश्ने मनोमय इत्युक्तौ उक्तफलमेव संपादितम्। तस्याऽप्याशि,मन्नं त्रेधाभवति - यत्स्थूलं तत्पुरीषं, यन्मध्यं तन्मांसम्, यदण्वियं (यदणीयः) तन्मन
इति श्रुतावुत्पत्ति श्रवणात्पुनः प्रश्ने, विज्ञानमय इत्युक्तौ विज्ञायतेऽनेनेति विज्ञानमन्तः करणं, ततश्च बुध्याख्यवृत्तिम(द-)न्तः करणविशिष्ट आत्मा वित्रानमय इत्युपदिष्टम्। तस्यापि वृत्युपहितत्वेन तथात्वं बुध्या(वा-) पुनः प्रस्ने आनन्दमय इत्युक्तावानन्दा भिव्यञ्जकोपाधिविशिष्ट आत्मा आनन्दमय इत्युपदिष्टम्। तस्यापि सोपाधिकत्वमेवेत्यत उक्तं - "ब्रह्मपुच्छं प्रतिष्ठा" इति।। एतेषां कोशत्वं च अन्तः स्थितस्य आत्मन अशिकोशवत् बहिराच्छादकत्व सादृश्यात्। पुच्छत्वेन प्रकल्पितम् आनन्दमयस्य आधारभूतं सत्यं ज्ञानमनन्तं ब्रह्मेति मुख्यब्रह्म प्रतिष्ठाश्रयः।
ननु कथम् "आनन्दमयोब्यासादि" (ब्र.सू. 1-1-13)ति व्याससूत्रे आनन्दमयस्य मुख्यत्वेन प्रतिपादनमिति चेत् आनन्दमयशब्दस्य तद्वाक्यशेषे श्रूयमाणब्रह्मपदे तात्पर्यादिति स्पष्टं -0क-0तद्भाष्ये।। (ब्र.सू.शां.भा. (अ.1.पा.1सू.13.) आनन्दमयाधिकरणम्.पृ. 190)।। -2दूषकत्वादिति-2।। अत एव केचित् सुमित्यरे सिमन्येरुं च प्रत्ययं विदधति। अत एवोक्तम् "उपायाः शिक्ष्यमाणानाम्" (वा.प.का.II. श्लो.238)इति।। -2तथा च-2 = व्याकरणस्योपायत्वे च।।-2जन्यज्ञाने-2।। जन्यस्फोटज्ञाने।। -2तस्य च ज्ञानस्येति-2।। व्याकरणाभायासजन्यप्रकृतिप्रत्ययविभागज्ञानोपेयस्फोटज्ञानस्य च ित्यर्थः।। साक्षात् तादृशस्फोटशानमेव स्वर्गादिसाधनं परंपरया वा शरीरशुद्धिद्वारा तत्तत्साधनम्। "तद्वारमि" (वा.प.ब्र.का.श्लो.16) त्यनेन परंपरया तद्बोधितम्।। -2केवलामिति-2।। -2रेखागवय इति-2।। यथा कश्चित् रेखालेखनेन 'अयं गवय' इत्युपदिशति कंचित् स च बुद्धिमान् 'नायं गवय' इति मनसि गृह्यमाणो नूनमेतद् रेखासदृशहस्तपादलाङ्गीलादिमान्, कस्चिच्चेतनो गवय इति गृह्णाति। तथा व्याकरणव्युत्पाद्य प्रकृतिप्रत्ययेष्ववाच्य तामुक्तरीत्या गृह्यमाणस्तत्सदृश शब्दवत् स्फोटस्यातिरिक्तस्य वाच्यतां गृह्णातीति -0क-0न्यायार्थः ('न्यायार्थ' इति स्थने 'पादार्थ' इति 'पद्यार्थ' इति वा स्वीकार्यः)।। 91/2।। (691/2)
ननु कत्वादेः स्फोटात्मकवर्णनिष्ठत्वम्, आहोस्वित्तदभिव्यञ्जकवायुसंयोगनिष्ठत्वमिति विकल्पे आद्ये दूषणमाह - -2ककार इति-2 - द्वितीये आह - -2कादीति-2।। मूले -2कल्पितानाम्-2 (वै.सि.का.70)= वायुसंयोगानाम्। -2अन्यस्य-2 = षष्ठ्यर्थो निष्ठत्वं वायुसंयोगनिष्ठमित्यर्थः।। -2एकत्वादिति-2 = तथा च एकस्मिन् धर्मिण्युदात्तानुदात्तादि विरुद्धभेदव्यवहारो नित्यत्वादुत्पत्यादिव्यवहारश्च न सम्भवतीति भावः।। -2तच्च-2 = नित्यत्वञ्च। तावत्कालं स्थिरं चैकं कः पश्चान्नाशयिष्यतीति न्यायात्। तद्विषयः अभेदप्रत्यभिज्ञाविषयः। न तु गत्वाश्रय यत्किंचिद्गकारनिष्ठ प्रतियोगिताकभेदाभावः। गत्वादेः व्यक्त्यनतिरेकेण समाधानेपि प्रत्यभिज्ञाया - अतिरिक्तव्यक्तिविषयत्वे समाधिमाह -2व्यक्त्यंशेपि(ति)-2 - -2प्रागसत्वे सति सत्वरूपाया इति-2।। विशेषणानुपादाने नित्यात्मादावप्युत्पत्तिव्यवहार प्रसङ्गः। विशेष्यानुपादाने प्रागसतो घटादेः इदानीमप्यसत्वे एव तद्व्यवहारापत्तिरत उभयोपादानम्। वर्णेषु च प्रागसत्वाभावान्नोत्पन्नत्वम्।।
ननूच्चारणमपि ताल्वोष्ठपटव्यापारेण नि,्पादनमेवेत्यत आह - -2उच्चारितत्वमिति-2।। -2ध्वनीति-2।। प्राकृतवायुसंयोगरूपध्वनीत्यर्थः।। -2परम्परया-2 = स्वाश्रयव्यङ्ग्यत्वसम्बन्धेन। साक्षात्संहबन्धेनैव उत्पत्यादिकमारोपेणाह -2साक्षादिति-2 - -2तदपि-2 - -2भ्रमत्ववदिति-2।। सोयं ककार इत्यबेदप्रत्यये त्वया व्यक्त्यबेदस्य भ्रमत्वस्वीकारवत् मयापि उत्पत्यादीनां साक्षात्सम्बन्धांशे भ्रमत्वं स्वीक्रियत इत्यर्थः।। -2मानाभाव-2 इति।। द्वन्यात्मकशब्दस्थले तु उत्पादकशंकादिमानसत्वात् ध्वनिस्वीकारः।। -2प्रतिबन्ध्यप्रतिबन्धकभावकल्पनेति-2।। दृष्टान्तमुपसंहरति - -2एवमिति-2।। परेषां तार्किकाणां प्रकृतमाह - -2एवञ्चेति-2।। इत्थं पञ्चव्यक्तिस्फोटाः।।101/2।। (701/2)
(-0-2अत जातिस्फोटः-0-2)
ननु उक्तरीत्या सर्वत्र घटादिस्थले भिन्न बिन्नतत्तद्वर्णपदवाक्यभेदेन अनेकव्यक्तिस्फोटस्वीकारे गौरवात् तदपेक्ष्य वर्णपदवाक्यभेदेन तद्गतजातीनामेव वाचकत्वमास्थेयं लाघवादिति वोपदेवोक्तरीत्याह - मूले- "-2शक्यत्व श्वे-2"ति (वै.सि.का. 71) -2जातेः-2 = शक्यत्वे वाच्यत्वे लाघवमिव, जातेः सक्तत्वे वाचकत्वे लाघवमीक्ष्यतां दृश्यतामित्यर्थः।। -2उक्तरीत्याः-2 वर्णानस्वीकृत्य गत्वादीनां स्फोटवृत्तित्वाद्याश्रयणरूपोक्तरीत्या।। -2सोऽयमिति-2।। एतदभेदप्रत्यभिज्ञाबलाद् यथा वर्णस्य एकत्वं - नित्यत्वानि भाट्टेः त्वया च स्फोटे स्वीक्रियन्ते, तथा स्फोटस्य एकत्वेन गकारहकारयोस्तदात्मकत्वेन अभेदभासः स्यादिति भावः।। -2वर्णनित्यतावादिभिः-2 = भाट्टेः।। -2आरोप्य-2 - स्फोटे।। -2धर्मवदुपपत्तेः-2।। -2प्रतीत्या-2 = अनुगतप्रतीत्ाय।। -2वच्छेदेनेति-2।। कर्मतावच्छेदकनिर्देशः।। -2तदवच्छेदकतया-2 = हेतुतावच्छेदककुक्षिप्रविष्टतया। अवच्चेदकतावच्छेदकेनेत्यर्थः।। -2अन्यथसिद्धीति-2।। तथा च दण्डकार्यतावच्छेदकत्वादिनापि घटादेः सिद्धिर्न स्यादिति भावः। -2तदवच्छेदिकेति-2 = सैव वाचकतावच्छेदकेत्यर्थः।। -2भिव्यञ्जिकेति-2।। घटत्वादेराकारविशेष इव आनुपूर्वीविशेष एव जातिविशेषाभिव्यञ्जकः। तथा च आनुपूर्वोभेदाज्जातिभेदः, तद्भेदात्कारणीभूतज्ञानभेदः, तद्भेदाच्छाब्ददभेद इति भावः।। -2वर्णानामिति-2।। वस्तुतो वर्णजातेरैक्येपि
तारमन्त्रत्वाद्युपाधिभेदाज्जातिभेद इति भावः।।111/2।। (711/2)
-2नोधस्स्यादिति-2।। तथा च आपत्तस्तुल्यत्वात् प्रत्येकं वर्णा एव वाचकाः किन्नस्युरिति शङ्कातात्पर्यम्।। -2योगार्थतयोति-2।। स्फुटयतेऽर्थो अनयेति व्युत्पत्तेः। अनेकवर्णानां व्यञ्जकत्वोपगमेन।। -2धर्मिग्राहकमानसिद्धेति-2।। उक्तानुगत प्रतीतिकारणतावच्छेदक(तया-) सिद्धत्वादित्यर्थः।। -2अभ्युपेय इति-2।। तेषां मते ध्वनीनामेव व्यञ्जकत्वं बोध्यम्। वर्णव्यक्तीनां ध्वनित्वेन आश्रयणे सम्मतिमाह - -2उक्तंहीति-2।। प्रथमोल्लासे।। 121/2।। (721/2)
-2ब्रह्मैव जातिरिति-2।। एतच्च -0क-0"सम्बन्धिभेदात् सत्तैवे"त्यादिना (वा.प.III.जा.सं.का. 33) हरिणाप्युक्तम्। अत्रेदं बोध्यम् = व्यवहारस्य अनादिसत्तया प्रवाहानादित्वं गगनादिवच्छब्दस्य परैरभ्युपेयम्। तत्र च अनन्तशब्दकल्पनापेक्षया नित्यैकशब्दस्वीकारे एव लाघवम्। यथा हि कुण्डलादि विकारागमेऽपि सुवर्णमित्येव सत्यम्। एवं सकलविशेषानुगतं स्फोटाक्यमेव सत्यम्। एवं सकलविशेषानुगतं स्फोटाक्यमेव सत्यम्। तत्र स्फोटशब्दो ब्रह्मणि श्रुतिषु प्रसिद्धः। ब्रह्मणः शब्दात्मकत्वं श्रुतौ प्रसिद्धम्।। -2सत्यांशो जातिरिति-2।। तस्या नित्यत्वात्।। -2असत्या इति-2।। तासाम् अनित्यत्वात्।। -2असत्योपेति-2।। असत्योपाधिर्व्यक्तिः, तदवच्छिन्नं = तदुपहितमित्यर्थः।। -2ब्रह्मतत्वं-2।। ब्रह्मैव तत्वम्, परमार्थभूतम्। द्रव्यशब्देत्युपलक्षणमन्येषामपि।। -2कथं तर्हीति-2।। कैयट इत्यनेनान्वयि।। -2ब्रह्मदर्शने-2।। ब्रह्मप्रतिपादके दर्शने, मते= वेदान्तिमते इत्यर्थः।। -2आविद्यक इति-2 = अस्मिंश्च पक्षेऽविद्याकल्पिताया गौत्वादिजातेरसत्यत्वं युक्तमेव।। 131/2।। (731/2)
मूले - "-2शब्दतत्वमिति-2" (वै.सि.का. 74)।। तच्छब्दः पारमार्थिकवस्तुवाची। तदुक्तं हरिणा
"आत्मा वस्तु स्वभावश्च शरीरं तत्मित्यपि।
द्व्यमित्यस्य पर्यायास्त(च्च-)त्व (नित्य-)मित्थमिति स्मृतम्।।" (वा.प.III. द्र.सं.श्लो. 1)
आभ्यन्तरम् अनवयवं बोधस्वभावं शब्दार्थमयं निर्विबागं शब्दतत्वं तदेव परावाक् शब्दब्रह्मेति चोच्यते इति।।-2ब्रह्मैव-2 = ब्रह्मेव (तदेव)।। -2पूर्णत्मने-2 = अप्रतिहतेष्टाय व्याकरवाणि, अहमिति शेषः। औपनिषदोक्तिरियम्।। -2तदेव प्रक्रियांशस्त्वविद्येति-2।। तदुक्तं हरिणा "व्यवहारायमत्यन्ते शास्त्रार्थप्रक्रियायतः" इति।। शास्त्रार्थप्रक्रियाः केवलमबुधानां व्युत्पादनायैव। अतः शास्त्रान्वितत्वं वक्तुं न पारयन्तीति तदर्थः। तस्मात् अविद्यैव शास्त्रेषु साक्षात्प्रक्रियाभेदेन उपवर्ण्यत इत्याह "शस्त्रेष्विति" (वा.प.का.II. श्लो.233)।
नन्वेवम् अविद्योपदर्शकशस्त्रप्रक्रियाश्रयणं प्रेक्षावतामुपेक्षणीयं स्यादिति चेदत्र - उक्तं हरिणा "अनागमविकल्पा तु स्वयं विधोपवर्तते(वा.प.का.II.श्लो.233)" इति। अविद्योपमर्देन आगमविकल्परहिता शास्त्रप्रक्रियाप्रपञ्च = शून्या अविद्याप्रकडीभवति। एवं च अविद्यैव विद्योपाय इति तदर्थः। यथा कारणे सूक्ष्मरूपेणावस्थितं कार्यं स्वसामग्रीसमवधाने सति आविर्भवति। एवम् अविद्याविलये सति विद्याऽऽविर्भवतीति तदाशयः।। -2समारम्भः-2 = उत्पत्तिः।। योगिकस्य = ब्रह्मरूपार्थस्य। निर्विघ्नप्रचयाय = निर्विघ्नप्रचाराय।।14।। (74) (-2इति कान्तौ स्फोटनिर्णयः-2)
-0इति श्रीमदनन्तदेवात्मजशम्भुदेवतनूज
-0दुर्गागर्भजगोपालदेवविरचिता
-0लघुवैयाकरणभूषणसार
-0टीका कान्तिनामिका
-0समाप्ता

"https://sa.wikisource.org/w/index.php?title=लघुभूषणकान्तिः&oldid=402667" इत्यस्माद् प्रतिप्राप्तम्