सामग्री पर जाएँ

लघुभागवतामृतम्

विकिस्रोतः तः
लघुभागवतामृतम्
[[लेखकः :|]]

लघुभागवतामृतम्

पूर्वखण्डं श्रीकृष्णामृतं प्रथमपरिच्छेदः
स्वयंरूपविलासस्वांशावेशप्रकाशलक्षणभगवत्तत्त्वनिरूपणम् ।

ओं नमः श्रीकृष्णाय

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ १,१.१ ॥
(भागवतम् १०.८७.४६)
कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ १,१.२ ॥
(भागवतम् ११.५.३२)

मुखारविन्दनिस्यन्दमरन्दभरतुन्दिला ।
ममानन्दं मुकुन्दस्य सन्दुग्धां वेणुकाकली ॥ १,१.३ ॥
श्रीचैतन्यमुखोद्गीर्णा हरेकृष्णेति वर्णकाः ।
मज्जयन्तो जगत्प्रेम्णि विजयन्तां तद्आह्वयाः ॥ १,१.४ ॥
श्रीमत्प्रभुपादाम्भोजैः श्रीमद्भागवतामृतम् ।
यद्व्यतानि तदेवेदं सङ्क्षेपेण निषेव्यते ॥ १,१.५ ॥
इदं श्रीकृष्णतद्भक्तसम्बन्धादमृतं द्विधा ।
आदौ कृष्णामृतं तत्र सुहृद्भ्यः परिवेष्यते ॥ १,१.६ ॥
निर्बन्धं युक्तिविस्तारे मयात्र परिमुञ्चता ।
प्रधानत्वात्पर्माणेषु शब्द एव प्रमाण्यते ॥ १,१.७ ॥
यतस्तैः शास्त्रयोनित्वातिति न्यायप्रदर्शनात् ।
शब्दस्यैव प्रमाणत्वं स्वीकृतं परमर्षिभिः ॥ १,१.८ ॥
किं च तर्काप्रतिष्ठानातिति न्यायविधानतः ।
अमीभिरेव सुव्यक्तं तर्कस्यानादरः कृतः ॥ १,१.९ ॥
अथोपास्येषु मुख्यत्वं वक्तुमुत्कर्षभूमतः ।
कृष्णस्य तत्स्वरूपाणि निरूप्यन्ते क्रमादिह ॥ १,१.१० ॥
स्वयं रूपस्तद्एकात्मरूप आवेशनामकः ।
इत्यसौ त्रिविधं भाति प्रपञ्चातीतधामसु ॥ १,१.११ ॥

तत्र स्वयंरूपः
अनन्यापेक्षि यद्रूपं स्वयंरूपः स उच्यते ॥ १,१.१२ ॥
ईश्वरः परमः कृष्णः सच्चिद्आनन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १,१.१३ ॥
इति (Bर्ष्५.१)

अत्र तद्एकात्मरूपः
यद्रूपं तद्अभेदेन स्वरूपेण विराजते ।
आकृत्यादिभिरन्यादृक्स तद्एकात्मरूपकः ।
स विलासः स्वांश इति धत्ते भेदद्वयं पुनः ॥ १,१.१४ ॥
तत्र विलासः
स्वरूपमन्याकारं यत्तस्य भाति विलासतः ।
प्रायेणात्मसमं शक्त्या स विलासो निगद्यते ॥ १,१.१५ ॥
परमव्योमनाथस्तु गोविन्दस्य यथा स्मृतः ।
परमव्योमनाथस्य वासुदेवश्च यादृशः ॥ १,१.१६ ॥

स्वांशः
तादृशो न्यूनशक्तिः यो व्यनक्ति स्वांश ईरितः ।
सङ्कर्षणादिर्मत्स्यादिर्यथा तत्तत्स्वधामसु ॥ १,१.१७ ॥

तत्र आवेशः
ज्ञानशक्त्य्आदिकलया यत्राविष्टो जनार्दनः ।
त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥ १,१.१८ ॥
वैकुण्ठेऽपि यथा शेषो नारदः सनकादयः ।
अक्रूरदृष्टान्ते चामी दशमे परिकीर्तिताः ॥ १,१.१९ ॥
इति भेदत्रयम् ।

प्रकाशस्तु न भेदेषु गण्यते स हि नो पृथक् ॥ १,१.२० ॥

तथा हि
अनेकत्र प्रकटता रूपस्यैकस्य यैकदा ।
सर्वथा तत्स्वरूपैव स प्रकाश इतीर्यते ॥ १,१.२१ ॥

द्वारवत्यां यथा कृष्णः प्रत्यक्षं प्रतिमन्दिरम् ।
चित्र बतैतदित्यादिप्रमाणेन स सेत्स्यति ॥ १,१.२२ ॥
क्वचिच्चतुर्भुजत्वेऽपि न त्यजेत्कृष्णरूपताम् ।
अतः प्रकाश एव स्यात्तस्यासौ द्विभुजस्य च ॥ १,१.२३ ॥
प्रपञ्चातीतधामत्वमेषां शास्त्रे पृथग्विधे ।
पाद्मीयोत्तरखण्डादौ व्यक्तमेव विराजते ॥ १,१.२४ ॥

इति स्वयंरूपविलासस्वांशावेशप्रकाशलक्षणभगवत्तत्त्वनिरूपणम् ॥१॥



द्वितीयपरिच्छेदः
पुरुषावतारगुणावतारनिरूपणम् ।
अथावताराः कथ्यन्ते कृष्णो येषु च पुष्कलाः ॥ १,२.१ ॥

तल्लक्षणम्
पूर्वोक्ता विश्वकार्यार्थमपूर्वा इव चेत्स्वयम् ।
द्वारान्तरेण वाविःस्युरवतारास्तदा स्मृताः ॥ १,२.२ ॥
तच्च द्वारं तद्एकात्मरूपस्तद्भक्त एव च ।
शेषशाय्य्आदिको यद्वद्वसुदेवादिकोऽपि च ॥ १,२.३ ॥
पुरुषाख्या गुणात्मनो लीलात्मानश्च ते त्रिधा ॥ १,२.४ ॥
प्रायः स्वांशास्तथावेशा अवतारा भवन्त्यमी ।
अत्र यः स्यात्स्वयंरूपः सोऽग्रे व्यक्तीभविष्यति ॥ १,२.५ ॥

तत्र पुरुषलक्षणं, यथा श्रीविष्णुपुराणे (६.८.६१)
तस्यैव योऽनुगुणभुग्बहुधैक एव
शुद्धोऽप्यशुद्ध इव मूर्तिविभागभेदैः ।
ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥
इति ।

तस्यैवानुपूर्वोक्तात्परमेश्वरात्समनन्तरमिति स्वामी ॥ १,२.६ ॥

तत्र कारिका
परमेशांशरूपो यः प्रधानगुणभागिव ।
तद्ईक्षादिकृतिर्नानावतारः पुरुषः स्मृतः ॥ १,२.७ ॥

अस्यावतारत्वं च श्रीभागवते द्वितीयस्कन्धे
आद्योऽवतारः पुरुषः परस्य ॥ १,२.८ ॥
इति (भागवतम् २.६.४०)

तस्य च भेदाः, यथा सात्वततन्त्रे
विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः ।
एकं तु महतः स्रष्टृ द्वितीयं तन्तुसंस्थितम् ।
तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते ॥
इति ॥ १,२.९ ॥

तत्र प्रथमं, यथैकादशे [भागवतम् ११.४.३]
भूतैर्यदा पञ्चभिरात्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः ॥ १,२.१० ॥

ब्रह्मसंहितायां [५.१०१३] च
तस्मिन्नाविरभूल्लिङ्गे महाविष्णुर्जगत्पतिः ॥
सहस्रशीर्षा पुरुष इत्यारभ्य
नारायणः स भगवानापस्तस्मात्सनातनात् ।
आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः ।
योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥
तद्रोमबिलजालेषु बीजं सङ्कर्षणस्य च ।
हैमान्यण्डानि जातानि महाभूतावृतानि तु ॥ ईत्येतदन्तम् ॥ १,२.११ ॥

लिङ्गमत्र स्वयंरूपस्याङ्गभेद उदीरितः ॥ १,२.१२ ॥

द्वितीयं, यथा तत्रैव [Bर्ष्५.१४] तद्अनन्तरं
प्रत्यण्डमेवमेकांशाद्विशति स्वयम् ॥ १,२.१३ ॥
इति ।

गर्भोदकशयः पद्मनाभोऽसावनिरुद्धकः ।
इति नारायणोपाख्यान उक्तं मोक्षधर्मके ।
सोऽयं हिरण्यगर्भस्य प्रद्युम्नत्वे नियामकः ॥ १,२.१४ ॥
अथ यत्तु तृतीयं स्याद्रूपं तच्चाप्यदृश्यत ।
केचित्स्वदेहान्तरिति द्वितीयस्कन्धपद्यतः ॥ १,२.१५ ॥
गुणावतारास्तत्राथ कथ्यन्ते पुरुषादिह ।
विष्णुर्ब्रह्मा च रुद्रश्च स्थितिसर्गादिकर्मणे ॥ १,२.१६ ॥

यथा प्रथमे (१.२.२३)
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्
युक्तः परमपुरुष एक इहास्य धत्ते ।
स्थित्य्आदये हरिविरिञ्चिहरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नॄणां स्युः ॥
इति ॥ १,२.१७ ॥
अत्र कारिका
योगो नियामकतया गुणैः सम्बन्ध उच्यते ।
अतः स तैर्न युज्यते तत्र स्वांशः परस्य यः ॥ १,२.१८ ॥

तत्र ब्रह्मा
हिरण्यगर्भः सूक्ष्मोऽत्र स्थूलो वैराजसंज्ञकः ।
भोगाय सृष्टये चाभूत्पद्मभूरिति स द्विधा ॥ १,२.१९ ॥
वैराज एव प्रायः स्यात्सर्गाद्य्अर्थं चतुर्मुखः ।
कदाचिद्भगवान् विष्णुर्ब्रह्मा सन् सृजति स्वयम् ॥ १,२.२० ॥

तथा च पाद्मे
भवेत्क्वचिन्महाकल्पे ब्रह्मा जीवोऽप्युपासनैः ।
क्वचिदत्र महाविष्णुर्ब्रह्मत्वं प्रतिपद्यते ॥ १,२.२१ ॥
इति ॥

विष्णुर्यत्र महाकल्पे स्रष्टृत्वं च प्रपद्यते ।
तत्र भुङ्क्ते तं प्रविश्य वैराजः सौख्यसम्पदम् ।
अतो जीवत्वमैश्यं च ब्रह्मणः कालभेदतः ॥ १,२.२२ ॥
ईशत्वापेक्षया तस्य शास्त्रे प्रोक्तावतारता ।
समष्टित्वेन भगवत्सन्निकृष्टतयोच्यते ।
अस्यावतारता कैश्चिदावेशत्वेन कैश्चन ॥ १,२.२३ ॥

तथा ब्रह्मसंहितायां (५.४९)
भास्वान् यथाश्मशकलेषु निजेषु तेजः
स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगद्अण्डविधानकर्ता
गोविन्दमादिपुरुषं तमहं भजामि ॥ १,२.२४ ॥
इति ।

गर्भोदशायिनोऽस्याभूत्जन्म नाभिसरोरुहात्
कदाचित्श्रूयते नीरात्तेजोवातादिकादपि ॥ १,२.२५ ॥
रुद्र एकादशव्यूहस्तथाष्टतनुरप्यसौ ।
प्रायः पञ्चाननस्त्र्यक्षो दशबाहुरुदीर्यते ॥ १,२.२६ ॥
क्वचिज्जीवविशेषत्वं हरस्योक्तं विधेरिव ।
तत्तु शेषवदेवास्तां तद्अंशत्वेन कीर्तनात् ॥ १,२.२७ ॥
हरः पुरुषधामत्वान्निर्गुणः प्राय एव सः ।
विकारवानिह तमोयोगात्सर्वैः प्रतीयते ॥

यथा श्रीदशमे (१०.८८.३)
शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः ॥ १,२.२८ ॥
इति ।

यथा ब्रह्मसंहितायां (५.४५)
क्षीरं यथा दधि विकारविशेषयोगात्
सञ्जायते न हि ततः पृथगस्ति हेतोः ।
यः शम्भुतामपि तथा समुपैति कार्याद्
गोविन्दमादिपुरुषं तमहं भजामि ॥
इति ॥ १,२.२९ ॥

विधेर्ललाटाज्जन्मास्य कदाचित्कमलापतेः ।
कालाग्निरुद्रः कल्पान्ते भवेत्सङ्कर्षणादपि ॥ १,२.३० ॥
सदाशिवाख्या तन्मूर्तिस्तमोगन्धविवर्जिता ।
सर्वकारणभूतासावङ्गभूता स्वयं प्रभोः ।
वायव्यादिषु सैवेयं शिवलोके प्रदर्शिता ॥ १,२.३१ ॥

तथा च ब्रह्मसंहितायामादिशिवकथने (५.८)

नियतिः सा रमा देवि तत्प्रिया तद्वशं तदा ।
तल्लिङ्गं भगवान् शम्भुर्ज्योतिरूपः सनातनः ।
या योनिः सापरा शक्तिः इत्यादि ॥ १,२.३२ ॥

श्रीविष्णुः, यथा श्रीतृतीये (३.८.१६)
तल्लोकपद्मं स उ एव विष्णुः
प्रावीविशत्सर्वगुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥
इति ॥ १,२.३३ ॥

यो विष्णुः पठ्यते सोऽसौ क्षीराम्बुधिशयो मतः ।
गर्भोदशायिनस्तस्य विलासत्वान्मुन्श्वरैः ।
नारायणो विराडन्तर्यामी चायं निगद्यते ॥ १,२.३४ ॥
विष्णुधर्मोत्तराद्य्उक्ता याः पूर्योऽजाण्डमध्यतः ।
सन्ति विष्णुप्रकाशानां ताः कथ्यन्ते समासतः ॥ १,२.३५ ॥

यथा
रुद्रोपरिष्टादपरः पञ्चायुतप्रमाणतः ।
अगम्यः सर्वलोकानां विष्णुलोकः प्रकीर्तितः ॥ १,२.३६ ॥
तस्योपरिष्टाद्ब्रह्माण्डः काञ्चनोद्दीप्तिसंयुतः ।
मेरोस्तु पूर्वदिग्भागे मध्ये तु लवणोदधेः ।
विष्णुलोको महान् प्रोक्तः सलिलान्तरसंस्थितः ॥ १,२.३७ ॥
तत्र स्वपिति घर्माम्भे देवदेवो जनार्दनः ।
लक्ष्मीसहायः सततं शेषपर्यङ्कमास्थितः ॥ १,२.३८ ॥
मेरोश्च पूर्वदिग्भागे मध्ये क्षीरार्णवस्य च ।
क्षीराम्बुमध्यगा शुभ्रा देवस्यान्या तथा पुरी ॥ १,२.३९ ॥
लक्ष्मीसहायस्तत्रास्ते शेषासनगतः प्रभुः ।
तत्रापि चतुरो मासान् सुप्तस्तिष्ठति वार्षिकान् ॥ १,२.४० ॥
तस्मिन्नवाचि दिग्भागे मध्ये क्षीरार्णवस्य तु ।
योजनानां सहस्राणि मण्डलः पञ्चविंशतिः ।
श्वेतद्वीपतया ख्यातो द्वीपः परमशोभनः ॥ १,२.४१ ॥
नराः सूर्यप्रभास्तत्र शीतांशुसमदर्शनाः ।
तेजसा दुर्निरीक्ष्याश्च देवानामपि यादव ॥ १,२.४२ ॥

ब्रह्माण्डे च
श्वेतो नाम महानस्ति द्वीपः क्षीराब्धिवेष्टितः ।
लक्षयोजनविस्तारः सुरम्यः सर्वकाञ्चनः ॥ १,२.४३ ॥
कुन्देन्दुकुमुदप्रख्यैर्लोलकल्लोलराशिभिः ।
धौतामलशिलोपेतः समन्तात्क्षीरवारिधेः ॥ १,२.४४ ॥
इति ।

किं च विष्णुपुराणादौ मोक्षधर्मे च कीर्तितम् ।
क्षीराब्धेरुत्तरे तीरे श्वेतद्वीपो भवेदिति ॥ १,२.४५ ॥
शुद्धोदादुत्तरे श्वेतद्वीपं स्यात्पाद्मसम्मतम् ॥ १,२.४६ ॥

विष्णुः सत्त्वं तनोतीति शास्त्रे सत्त्वतनुं स्मृतः ।
अवतारगणश्चास्य भवेत्सत्त्वतनुस्तथा ।
बहिरङ्गमधिष्ठानमिति वा तस्य तत्तनुः ॥ १,२.४७ ॥
अतो निर्गुणता सम्यक्सर्वशास्त्रे प्रसिध्यति ॥ १,२.४८ ॥

तथा हि श्रीदशमे (१०.८८.४)
हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः ।
स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेत् ॥
इति ॥ १,२.४९ ॥

तेन सत्त्वतनोरस्मात्श्रेयांसि स्युरितीरितम् ॥ १,२.५० ॥
इत्यतो विहिता शास्त्रे तद्भक्तेरेव नित्यता ॥ १,२.५१ ॥

तथा हि पाद्मे
स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ १,२.५२ ॥

अतएव तत्रैव (ড়द्मড়् ४.९३.२६)
व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमास्
तां तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम
व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयते ॥ १,२.५३ ॥

श्रीप्रथमस्कन्धे (१.२.२६)
मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।
नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥
इति ॥ १,२.५४ ॥

अत्र स्वांशा हरेरेव कलाशब्देन कीर्तिताः ॥ १,२.५५ ॥
अतो विधिहरादीनां निखिलानां सुपर्वणाम् ।
श्रीविष्णोः स्वांशवर्गेभ्यो न्यूनताभिप्रकाशिता ॥ १,२.५६ ॥

यथा तत्रैव (१.१८.२१)
अथापि यत्पादनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भः
सेशं पुनात्यन्यतमो मुकुन्दात्
को नाम लोके भगवत्पदार्थः ॥ १,२.५७ ॥
इति ।

महावाराहे च
मत्स्यकूर्मवरहाद्याः समा विष्णोरभेदतः ।
ब्रह्माद्यामसमाः प्रोक्ताः प्रकृतिस्तु समासमा ॥ १,२.५८ ॥
इति ॥

अत्र प्रकृतिशब्देन चिच्छक्तिरभिधीयते ।
अभिन्नभिन्नरूपत्वादस्यैवोक्ता समासमा ॥ १,२.५९ ॥

इति पुरुषावतारगुणावतारनिरूपणम् ॥२॥





तृतीयः परिच्छेदः

लीलावतारनिरूपणम्

अथ लीलावताराश्च विलिख्यन्ते यथा मति ।
श्रीमद्भागवतस्यानुसारेण प्रायशस्त्वमी ॥ १,३.१ ॥

तत्र श्रीचतुःसनः श्रीप्रथमे (१.३.६)
स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ १,३.२ ॥
इति ।

चतुर्भिरवतारोऽयमेक एव सतां मतः ।
समशब्दात्चतुर्ष्वेव चतुःसन इति स्मृतः ॥ १,३.३ ॥
शुद्धज्ञानस्य भक्तेश्च प्रचारार्थमवातरत् ।
पञ्चषाब्दिकबालाभो गौरः कमलयोनितः ॥ १,३.४ ॥

श्रीनारदः । तत्रैव (१.३.८)
तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ १,३.५ ॥

प्रवर्तनाय लोकेऽस्मिन् स्वभक्तेरेव सर्वतः ।
हरिर्देवर्षिरूपेण चन्द्रशुभ्रो विधेरभूत् ॥ १,३.६ ॥
आविर्भूयादिद्मे ब्राह्मे कल्प एव चतुःसनः ।
नारदश्चानुवर्तेते कल्पेषु सकलेष्वपि ॥ १,३.७ ॥

श्रीवराहः । तत्रैव (१.३.७)
द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ १,३.८ ॥

श्रीद्वितीये च (२.७.१)
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।
अन्तर्महार्णव उपागतमादिदैत्यं
तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १,३.९ ॥
इति ।

द्विराविरासीत्कल्पेऽस्मिन्नाद्ये स्वायम्भुवान्तरे ।
घ्राणाद्विधेर्धरोद्धृत्यै चाक्षुषीये तु नीरतः ॥ १,३.१० ॥
हिरण्याक्षं धरोद्धारे निहन्तुं दंष्ट्रिपुङ्गवः ।
चतुष्पात्श्रीवराहोऽसौ नृवराहः क्वचिन्मतः ॥ १,३.११ ॥
कदाचिज्जलदश्यामः कदाचिच्चन्द्रपाण्डरः ।
यज्ञमूर्तिः स्थविष्ठोऽयं वर्णद्वययुतः स्मृतः ॥ १,३.१२ ॥
दक्षात्प्राचेतसात्सृष्टिः श्रूयते चाक्षुषेऽन्तरे ।
अतस्तत्रैव जन्मास्य हिरण्याक्षस्य युज्यते ॥ १,३.१३ ॥

तथा हि श्रीचतुर्थे (४.३०.४९)
चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ १,३.१४ ॥
इति ।

उत्तानपादवंश्यानां तनयस्य प्रचेतसाम् ।
दक्षस्यैव दितिः पुत्री हिरणाक्षो दितेः सुतः ॥ १,३.१५ ॥
कल्पारम्भे तदा नास्ति सुतोत्पत्तिर्मनोरपि ।
क्वासौ प्राचेतसो दक्षः क्व दितिः क्व दितेः ॥ १,३.१६ ॥
अतः कालद्वयोद्भूतं श्रीवराहस्य चेष्टितम् ।
एकत्रैवाह मैत्रेयः क्षत्तुः प्रश्नानुरोधतः ॥ १,३.१७ ॥
मध्ये मन्वन्तरस्यैव मुनेः शापान्मनुं प्रति ।
प्रलयोऽसौ बभूवेति पुराणे क्वचिदीर्यते ॥ १,३.१८ ॥
अयमाकस्मिको जातश्चाक्षुषस्यान्तरे मनोः ।
प्रलयः पद्मनाभस्य लीलयेति च कुत्रचित् ॥ १,३.१९ ॥
सर्वमन्वन्तरस्यान्ते प्रलयो निश्चितं भवेत् ।
विष्णुधर्मोत्तरे त्वेतत्मार्कण्डेयेन भाषितम् ॥ १,३.२० ॥

तथा हि
मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ।
महर्लोकमथासाद्य तिष्ठन्ति गतकल्मषाः ॥ १,३.२१ ॥
मनुश्च सह शक्रेण देवाश्च यदुनन्दन ।
ब्रह्मलोकं प्रपद्यन्ते पुनरावृत्तिदुर्लभम् ॥ १,३.२२ ॥
भूतलं सतलं वज्र तोयरूपी महेश्वरः ।
ऊर्मिमाली महावेगः सर्वमावृत्य तिष्ठति ॥ १,३.२३ ॥
भूर्लोकमाश्रितं सर्वं तदा नश्यति यादव ।
न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः ॥ १,३.२४ ॥
नौर्भूत्वा तु तदा देवी मही यदुकुलोद्वह ।
धारयत्यथ बीजानि सर्वाण्येवाविशेषतः ॥ १,३.२५ ॥
भविष्यश्च मनुस्तत्र भविष्या ऋषयस्तथा ।
तिष्ठन्ति राजशार्दूल सप्त ते प्रथिता भुवि ॥ १,३.२६ ॥
मत्स्यरूपधरो विष्णुः शृङ्गी भूत्वा जगत्पतिः ।
आकर्षति तु तां नावं स्थानात्स्थानं तु लीलया ॥ १,३.२७ ॥
हिमाद्रिशिखरे नावं बद्धा देवो जगत्पतिः ।
मत्स्यस्त्वदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥ १,३.२८ ॥
कृततुल्यं ततः कालं यावत्प्रक्षालनं स्मृतम् ।
आपः शममथो यान्ति यथापूर्वं नराधिप ।
ऋषयश्च मनुश्चैव सर्वं कुर्वन्ति ते तदा ॥ १,३.२९ ॥
इति ।

मनोरन्ते लयो नास्ति मनवेऽदर्शि मायया ।
विष्णुनेति ब्रुवाणैस्तु स्वाभिर्नैष मन्यते ॥ १,३.३० ॥

श्रीमत्स्यः श्रीप्रथमे (१.३.१५)
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १,३.३१ ॥

श्रीद्वितीये (२.७.२२) च
मत्स्यो युगान्तसमये मनुनोपलब्धः
क्षोणीमयो निखिलजीवनिकायकेतः ।
विस्रंसितानुरुभये सलिले मुखान्मे
आदाय तत्र विजहार ह वेदमार्गान् ॥ १,३.३२ ॥

पाद्मे च
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् ॥ १,३.३३ ॥

मत्स्योऽपि प्रादुरभवद्द्विः कल्पेऽस्मिन् वराहवत् ।
आदौ स्वायम्भुवीयस्य दैत्यं घ्नन्नाहरच्छ्रुतीः ।
अन्ते तु चाक्षुषीयस्य कृपां सत्यव्रतेऽकरोत् ॥ १,३.३४ ॥
अन्त्येन सार्धपद्येन प्रोक्तमाद्यस्य चेष्टितम् ।
पूर्वसार्धेन चान्त्यस्य मत्स्यो ज्ञेयो वराहवत् ॥ १,३.३५ ॥
उपलक्षणमेवैततन्यमन्वन्तरस्य च ।
विष्णुधर्मोत्तराज्ज्ञेयाः प्रादुर्भावाश्चतुर्दश ॥ १,३.३६ ॥

श्रीयज्ञः श्रीप्रथमे (१.३.२२)
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ १,३.३७ ॥
इति ।

त्रयाणामेव लोकानां महार्तिहरणादसौ ।
मातामहेन मनुना हरिरित्यपि शब्दितः ॥ १,३.३८ ॥

श्रीनरनारायणौ तत्रैव (१.३.९)
तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ १,३.३९ ॥
इति ।

शास्त्रेऽन्यौ हरिकृष्णाख्यावनयोः सोदरौ स्मृतौ ।
एभिरेकोऽवतारः स्यात्चतुर्भिः सनकादिवत् ॥ १,३.४० ॥

श्रीकपिलः तत्रैव (१.३.१०)
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १,३.४१ ॥
इति ।

देवहूत्यां कर्दमतः प्रादुर्भावमसौ गतः ।
प्रोक्तः कपिलवर्णत्वात्कपिलाख्यो विरिञ्चिना ॥ १,३.४२ ॥

पाद्मे
कपिलो वासुदेवांशस्तत्त्वं साङ्ख्यं जगाद ह ।
ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ।
तथैवासुरयेसर्ववेदार्थैरुपबृंहितम् ॥ १,३.४३ ॥
सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह ।
साङ्ख्यमासुरयेऽनय्समि कुतर्कपरिबृंहितम् ॥ १,३.४४ ॥

श्रीदत्तः । श्रीद्वितीये (२.७.४)
अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो
दत्तो मयाहमिति यद्भगवान् स दत्तः ।
यत्पादपङ्कजपरागपवित्रदेहा
योगर्द्धिमापुरुभयीं यदुहैहयाद्याः ॥ १,३.४५ ॥

श्रीप्रथमे च (१.३.११)
षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ १,३.४६ ॥

श्रीब्रह्माण्डे तु कथितमत्रिपत्न्यानुसूयया ।
प्रार्थितो भगवानत्रेरपत्यत्वमुपेयिवान् ॥ १,३.४७ ॥

तथा हि
वरं दत्त्वानसूयायै विष्णुः सर्वजगन्मयः ।
अत्रेः पुत्रोऽभवत्तस्यां स्वेच्छामानुषविग्रहः ।
दत्तात्रेय इति ख्यातो यतिवेशविभूषितः ॥ १,३.४८ ॥

श्रीहयशीर्षा । श्रीद्वितीये (२.७.११)
सत्रे ममास भगवान् हयशीरषाथो
साक्षात्स यज्ञपुरुषस्तपनीयवर्णः ।
छन्दोमयो मखमयोऽखिलदेवतात्मा
वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ १,३.४९ ॥
इति ।

प्रादुर्भूयैव यज्ञाग्नेर्दानवौ मधुकैटभौ ।
हत्वा प्रयानयद्वेदान् पुनर्वागीश्वरीपतिः ॥ १,३.५० ॥

श्रीहंसः । श्रीद्वितीये (२.७.१९)
तुभ्यं च नारद भृशं भगवान् विवृद्ध
भावेन साधु परितुष्ट उवाच योगम् ।
ज्ञानं च भागवतमात्मसतत्त्वदीपं
यद्वासुदेवशरणा विदुरञ्जसैव ॥ १,३.५१ ॥
इति ।

शक्तोऽखिलविवेकेऽहं क्षीरनीरविभागवत् ।
इति व्यञ्जन्नयं राजहंसो व्यक्तिं जलाद्गतः ॥ १,३.५२ ॥

श्रीध्रुवप्रियः । तत्रैव (२.७.८)
विद्धः सपत्न्य्उदितपत्रिभिरन्ति राज्ञो
बालोऽपि सन्नुपगतस्तपसे वनानि ।
तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो
दिव्याः स्तुवन्ति मुनयो यदुपर्य्अधस्तात् ॥ १,३.५३ ॥
इति ।

स्वायम्भुवेऽवतारोक्तेर्नाम्नश्चाकथनादिह ।
यज्ञादीनां च तत्रोक्त्या पारिशेष्यप्रमाणतः ॥
प्रसिद्ध्या पृश्निगर्भेति तद्आख्यास्य निगद्यते ।
हन्तायमद्रिरित्यादौ पद्ये गोवर्धनाद्रिवत् ॥ १,३.५४ ॥

तथा श्रीदशमे (१०.३.३२)
त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिरकल्मषः ।
अहं सुतो वामभवं पृश्निगर्भ इति स्मृतः ॥ १,३.५५ ॥
इति ।

अस्यात्र चरितानुक्त्या नामानुक्त्या च तत्र वै ।
परस्परमपेक्षित्वाद्युक्ता चैकत्र सङ्गतिः ॥ १,३.५६ ॥
अत्रागमनमात्रेण यदि स्यादवतारता ।
अन्यत्रापि प्रसज्येत यथेष्टं तत्प्रकल्पना ॥ १,३.५७ ॥

श्र्यृषभः । श्रीप्रथमे (१.३.१३)
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १,३.५८ ॥

शुक्लः परमहंसानां धर्मं ज्ञापयितुं प्रभुः ।
व्यक्तो गुणैर्वरिष्ठत्वाद्विख्यात ऋषभाख्यया ॥ १,३.५९ ॥

श्रीपृथुः । तत्रैव (१.३.१४)
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ १,३.६० ॥
इति ।

मथ्यमानान्मुनिगणैरसव्याद्वैणबाहुतः ।
प्रादुर्भूतो महाराजः शुद्धस्वर्णरुचिः पृथुः ॥ १,३.६१ ॥
आद्ये व्यक्ताः कुमाराद्याः पृथ्व्अन्ताश्च त्रयोदश ।
केलोअमत्स्यौ पुनर्व्यक्तिं चाक्षुषीये तु जग्मतुः ॥ १,३.६२ ॥

अथ श्रीनृसिंहः । तत्रैव (१.३.१८)
चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।
ददार करजैरूरावेरकां कटकृद्यथा ॥ १,३.६४ ॥

षष्ठेऽन्तरेऽब्धिमथनान्नृहरेः पूर्वभाविता ।
अतः प्रागेष कूर्मादेर्व्यक्तिं षष्ठेऽन्तरे गतः ॥ १,३.६५ ॥

श्रीकूर्मः । तत्रैव (१.३.१६)
सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १,३.६६ ॥
इति ।

पाद्मे प्रोक्तं दधे क्षौणीमयमेवार्थितः सुरैः ।
शास्त्रान्तरे तु भूधारी कल्पादौ प्रकटोऽभवत् ॥ १,३.६७ ॥

श्रीधन्वन्तरिमोहिन्यौ । तत्रैव (१.३.१७)
धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ १,३.६८ ॥
इति ।

तत्र श्रीधन्वन्तरिः
षष्ठे च सप्तमे चायं द्विराविर्भावमागतः ॥ १,३.६९ ॥
षष्ठेऽन्तरेऽब्धिमथनाद्धृतामृतकमण्डलुः ।
उद्गतो द्विभुजः श्यामः आयुर्वेदप्रवर्तकः ।
सप्तमे च तथारूपः काशीराजसुतोऽभवत् ॥ १,३.७० ॥

श्रीमोहिनी
दैत्यानां मोहनायासौ प्रमोदाय च धुर्जण्ः ।
अजितो मोहिनीमूर्त्या द्विराविर्भावमागतः ॥ १,३.७१ ॥
इति षष्ठेऽत्र चत्वारो नृसिंहायाः प्रकीर्तिताः ॥ १,३.७२ ॥

श्रीवामनः । तत्रैव (१.३.१९)
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् ॥ १,३.७३ ॥
इति ।

वामनस्त्रिरभिव्यक्तं कल्पेऽस्मिन् प्रतिपेदिवान् ।
तत्रादौ दानवेन्द्रस्य वास्कलेरध्वरं ययौ ॥
ततो वैवस्वतीयेऽस्मिन् धुन्धोर्मखमसौ गतः ।
अदितौ कश्यपाज्जातः सप्तमेऽस्य चतुर्युगे ।
प्रतिग्रहकृते जातास्त्रय एव त्रिविक्रमाः ॥ १,३.७४ ॥

श्रीभार्गवः । तत्रैव (१.३.२०)
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ १,३.७५ ॥
इति ।

रेणुकाजमदग्निभ्यां गौरो व्यक्तिमसौ गतः ।
प्राहुः सप्तदशे केचिद्द्वाविंशेऽन्ये चतुर्युगे ॥ १,३.७६ ॥

श्रीराघवेन्द्रः । तत्रैव (१.३.२२)
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ १,३.७७ ॥
इति ।

कौशल्यायां दशरथान्नवदूर्वादलद्युतिः ।
त्रेतायामाविरभवत्चतुर्विंशे चतुर्युगे ।
भरतेन सुमित्राया नन्दनाभ्यां च संयुतः ॥ १,३.७८ ॥
अस्य शास्त्रे त्रयो व्यूहा लक्ष्मणआद्या अमी स्मृताः ।
भरतोऽत्र घनश्यामः सौमित्री कनकप्रभौ ॥ १,३.७९ ॥
पाद्मे भरतशत्रुघ्नौ शङ्खचक्रतयोदितौ ।
श्रीलक्ष्मणस्तु तत्रैव शेष इत्यभिशब्दितः ॥ १,३.८० ॥

श्रीव्यासः । तत्रैव (१.३.२१)
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ १,३.८१ ॥
इति ।

द्वैपायनोऽस्मि व्यासानामिति शौरिर्यदूचिवान् ।
अतो विष्णुपुराणादौ विशेषेणैव वर्णितः ॥ १,३.८२ ॥

यथा (Vइড়् ३.४.५; ंBह्१२.३४६.११)
कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् ।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ॥
इति ॥ १,३.८३ ॥

श्रूयतेऽपान्तरतमा द्वैपायन्यमगादिति ।
किं सायुज्यं गतः सोऽत्र विष्ण्व्अंशः सोऽपि वा भवेत् ।
तस्मादावेश एवायमिति केचिद्वदन्ति च ॥ १,३.८४ ॥

अथ श्रीरामकृष्णौ । श्रीप्रथमे (१.३.२३)
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ १,३.८५ ॥
इति ।

श्रीरामः
एष मातृद्वये व्यक्तो जनकाद्वसुदेवतः ।
यो नव्यघनसाराभो घनश्यामाम्बरः सदा ॥ १,३.८६ ॥
सङ्कर्षणो द्वितीयो यो व्यूहः रामः स एव हि ।
पृथ्वीधरेण शेषेण सम्भूय व्यक्तिमीयिवान् ॥ १,३.८७ ॥
शेषो द्विधा महीधारी श्य्यारूपश्च शार्ङ्गिणः ।
तत्र सङ्कर्षणावेशाद्भूभृत्सङ्कर्षणो मतः ।
शय्यारूपस्तथा तस्य सख्यदास्याभिमानवान् ॥ १,३.८८ ॥

श्रीकृष्णः
एष मातरि देवक्यां पितुरानकदुन्दुभेः ।
प्रादुर्भूतो घनश्यामो द्विभुजोऽपि चतुर्भुजः ॥ १,३.८९ ॥

श्रीबुद्धः । तत्रैव (१.३.२४)
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ १,३.९० ॥
इति ।

असौ व्यक्तः कलेरब्दसहस्रद्वितये गते ।
मूर्तिः पाटलवर्णास्य द्विभुजा चिकुरोज्झिता ॥ १,३.९१ ॥
यदा सूतः कथामाह तदा बुद्धस्य भाविता ।
अधुना वृत्त एवायं धर्मारण्ये यदुद्गतः ॥ १,३.९२ ॥

श्रीकल्किः । तत्रैव (१.३.२५)
अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ १,३.९३ ॥
इति ।

पूर्वं मनुर्दशरथो वसुदेवोऽप्यसावभूत् ।
भावी विष्णुयशास्चायमिति पाद्मे प्रकीर्तितम् ॥ १,३.९४ ॥
ऐश्वर्यं कल्किनस्तस्य ब्रह्माण्डे सुष्ठु वर्णितम् ।
कैश्चित्कलौ कलौ बुद्धः स्यात्कल्की चेत्युदीर्यते ॥ १,३.९५ ॥
अष्टौ वैवस्वतीयेऽमी कथिता वामनादयः ॥ १,३.९६ ॥
कल्पावतारा इत्येते कथिताः पञ्चविंशतिः ।
प्रतिकल्पं यतः प्रायः सकृत्प्रादुर्भ्वत्यमी ॥ १,३.९७ ॥


इति लीलावतारनिरूपणम् ॥



चतुर्थः परिच्छेदः
अथ मन्वन्तरावताराः

मन्वन्तरावतारोऽसौ प्रायः शक्रारिहत्यया ।
तत्सहायो मुकुन्दस्य प्रादुर्भावः सुरेषु यः ॥ १,४.१ ॥
युक्ते कल्पावतारत्वे यज्ञादीनामपि स्फुटम् ।
मन्वतरावतारत्वं तत्तत्पर्यन्तपालनात् ॥ १,४.२ ॥
मन्वन्तरेष्वमी स्वायम्भुवीयादिष्वनुक्रमात् ।
अवतारास्तु यज्ञाद्या बृहद्भान्व्अन्तिमा मताः ॥ १,४.३ ॥

प्रथमे स्वायम्भुवीये यज्ञः
यज्ञस्तु पूर्वमेवोक्तस्तेनात्र न विलिख्यते ॥ १,४.४ ॥

यथा अष्टमस्कन्धे (८.१.२१२२)
ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् ।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः ॥ १,४.५ ॥
अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः ।
अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ १,४.६ ॥
इति ।

तृतीये औत्तमीये सत्यसेनः (८.१.२५२६)
धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।
सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ १,४.७ ॥
सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान् ।
भूतद्रुहो भूतगणांश्चावधीत्सत्यजित्सखः ॥ १,४.८ ॥
इति ।

चतुर्थे तामसीये हरिः (८.१.३०)
तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ १,४.९ ॥
इति ।

स्मर्यतेऽसौ सदा प्रातः सदाचारपरायणैः ।
सर्वानिष्टविनाशाय हरिर्दनीत्न्द्रमोचनः ॥ १,४.१० ॥

पञ्चमे रैवतीये वैकुण्ठः (८.५.४५)
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।
तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ १,४.११ ॥
वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ १,४.१२ ॥
इति ।

महावैकुण्ठलोकस्य व्यापकस्याव्ययात्मनः ।
प्रकटीकरणं सत्योपरि कल्पनमुच्यते ॥ १,४.१३ ॥

षष्ठे चाक्षुषीये अजितः (भागवतम् ८.५.९१०)
तत्रापि देवसम्भूत्यां वैराजस्याभवत्सुतः ।
अजितो नाम भगवानंशेन जगतः पतिः ॥ १,४.१४ ॥
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १,४.१५ ॥
इति ।

सप्तमे वैवस्वतीये वामनः
वैवस्वतान्तरे व्यक्तः पुरैवोक्तः स वामनः ।
भविष्याः सप्त कथ्यन्ते ते सावर्ण्यन्तरादिषु ॥ १,४.१६ ॥

अष्टमे सावर्णनीये सार्वभौमः (भागवतम् ८.१३.१७)
देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः ।
स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥ १,४.१७ ॥
इति ।

नवमे दक्षसावर्णनीये ऋषभः (८.१३.२०)
आयुष्मतोऽम्बुधारायामृषभो भगवत्कला ।
भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥ १,४.१८ ॥
इति ।

दशमे ब्रह्मसावर्णनीये विष्वक्सेनः (८.१३.२३)
विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।
जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ १,४.१९ ॥
इति ।

एकादशे धर्मसावर्णनीये धर्मसेतुः (८.१३.२६)
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ १,४.२० ॥
इति ।

द्वादशे रुद्रसावर्णनीये सुधामा (८.१३.२९)
स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः ।
अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥ १,४.२१ ॥

त्रयोदशे देवसावर्णनीये योगेश्वरः (८.१३.३२)
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ १,४.२२ ॥
इति ।

चतुर्दशे इन्द्रसावर्णनीये बृहद्भानुः (८.१३.३५)
सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः ।
वितानायां महाराज क्रियातन्तून् वितायिता ॥ १,४.२३ ॥

यज्ञवामनयोस्तत्र पुनरुक्ततया द्वयोः ।
मन्वन्तरावतारास्तु सङ्ख्यायां द्वादशोदिताः ॥ १,४.२४ ॥

इति मन्वन्तरावतारनिरूपणम् ।

अथ युगावताराः
कथ्यन्ते वर्णनामाभ्यां शुक्लः सत्ययुगे हरिः ।
रक्तः श्यामः क्रमात्कृष्णस्त्रेतायां द्वापरे कलौ ॥ १,४.२५ ॥
उपासनाविशेषार्थं सत्यादिषु युगेष्वसौ ।
मन्वन्तरावतारस्तु तथावतरति क्रमात् ॥ १,४.२६ ॥
कल्पमन्वन्तरयुगप्रादुर्भावविधायिनः ।
अवतारा इमे त्वेकचत्वारिंशदुदीरिताः ॥ १,४.२७ ॥
वृत्ता ब्राह्मादयः कल्पाः पाद्मान्तास्ते सहस्रशः ।
वर्तमानस्तु कल्पोऽयं श्वेतवाराह उच्यते ॥ १,४.२८ ॥
ब्राह्मकल्पप्रथमजे व्यक्ताः स्वायम्भुवान्तरे ।
कुमारनारदाद्याश्च चाक्षुषीयादिषूत्तरे ॥ १,४.२९ ॥
प्रायः स्वायम्भुवाद्याख्याः कल्पे कल्पे भवन्त्यमी ।
मनवस्तेऽवताराश्च तथा यज्ञादिनामकाः ॥ १,४.३० ॥

तथा हि श्रीविष्णुधर्मोत्तरे श्रीरुद्रप्रश्नः
य एते भवता प्रोक्ता मनवश्च चतुर्दश ।
नित्यं ब्रह्मदिने प्राप्ते एत एव क्रमाद्द्विज ।
भवन्त्युतान्ये धर्मज्ञ एतं मे छिन्धि संशयम् ॥ १,४.३१ ॥

श्रीमार्कण्डेयोत्तरम्
एत एव महाराज मनवश्च चतुर्दश ।
कल्पे कल्पे त्वया ज्ञेया नात्र कार्या विचारणा ॥ १,४.३२ ॥
एकरूपास्त्वया प्रोक्ता ज्ञातव्याः सर्व एव हि ।
केचित्किञ्चिद्विभिन्नाश्च मायया परमेशितुः ॥ १,४.३३ ॥
इति ।

अवताराश्चतुर्धा स्युरावेशाः प्राभवा अपि ।
अथैव वैभवावस्थाः परावअस्थाश्च तत्र ते ॥ १,४.३४ ॥
तत्रावेशावतारास्तु ज्ञेयाः पूर्वोक्तरीतितः ।
यथा कुमारदेवर्षिवेणाङ्गप्रभावादयः ॥ १,४.३५ ॥

यथा पाद्मे
आविष्टोऽभूत्कुमारेषु नारदे च हरिर्विभुः ॥ १,४.३६ ॥

यथा तत्रैव
आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः ॥ १,४.३७ ॥

आविष्टो भार्गवे चाभूदिति तत्रैव कीर्तितम् ॥ १,४.३८ ॥

तथा हि
एतत्ते कथितं देवि जामदग्नेर्महात्मनः ।
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ १,४.३९ ॥
इति ।

आवेशत्वं कल्किनोऽपि विष्णुधर्मे विलोक्यते ॥ १,४.४० ॥

यथा
प्रत्यक्षरूपधृग्देवो दृश्यते न कलौ हरिः ।
कृतादिष्विव तेनैव त्रियुगः परिपठ्यते ॥ १,४.४१ ॥
कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ॥ १,४.४२ ॥
पूर्वोत्पन्नेष्भूतेषु तेषु तेषु कलौ प्रभुः ।
कृत्वा प्रवेशं कुरुते यदभिप्रेतमात्मनः ॥ १,४.४३ ॥
इति ।

अतोऽमीष्वतारत्वं परं स्यादौपचारिकम् ॥ १,४.४४ ॥

अथ प्राभववैभवाः ।

हरिस्वरूपरूपा ये परावस्थेभ्य उनकाः ।
शक्तीनां तारतम्येन क्रमात्ते तत्तद्आख्यकाः ॥ १,४.४५ ॥
प्राभवाश्च द्विधा तत्र दृश्यन्ते शास्त्रचक्षुषा ।
एके नातिचिरव्यक्ता नातिविस्तृतकीर्तयः ।
ते मोहिनी च हंसश्च शुक्लाद्याश्च युगानुगाः ॥ १,४.४६ ॥
अपरे शास्त्रकर्तारः प्रायः स्युर्मुनिचेष्टिताः ।
धन्वन्तर्य्ऋषभौ व्यासो दत्तश्च कपिलश्च ते ॥ १,४.४७ ॥
अथ स्युर्वैभवावस्थास्ते च कूर्मो ऋषाधिपः ।
नारायणो नरसखः श्रीवराह्हयाननौ ॥ १,४.४८ ॥
पृश्निगर्भः प्रलम्बघ्नो यज्ञाद्याश्च चतुर्दश ।
इत्यमी वैभवावस्था एकविंशतिरीरिताः ॥ १,४.४९ ॥
ते क्रोडहयग्रीवौ नवव्यूहान्तरोदितौ ।
मन्वन्तरावतारेषु चत्वारः प्रवरास्तथा ॥ १,४.५० ॥
ते तु श्रीहरिवैकुण्ठौ तथैवाजितवामनौ ।
षडमी वैभवावस्थाः परावस्थोपमा मताः ॥ १,४.५१ ॥
केषांचिदेषां स्थानानि लिख्यन्ते शास्त्रदृष्टितः ।
यत्र तत्र विराजन्ते यानि ब्रह्माण्डमध्यतः ।
विष्णुधर्मोत्तरादीनां वाक्यं तत्र प्रमाण्यते ॥ १,४.५२ ॥

विष्णुधर्मोत्तरे
तयोपरिष्टादपरस्तावानेव प्रमाणतः ।
महातलेति विख्यातो रक्तभौमश्च पञ्चमः ॥
सरोवरं भवेत्तत्र योजनानां दशायुतम् ।
स्वयं च तत्र वसति कूर्मरूपधरो हरिः ॥ १,४.५३ ॥
तयोपरिष्टादपरस्तावानेव प्रमाणतः ।
तत्रास्ते सरसी दिव्या योजनानां शत्¨त्रयम् ।
तस्यां स वसते देवो मत्स्यरूपधरो हरिः ॥ १,४.५४ ॥
नारायणो नरसखो वसते वदरीपदे ॥ १,४.५५ ॥
नृवराहस्य वसतिर्महर्लोके प्रकीर्तिता ।
योजनानां प्रमाणेन अयुतानां शतत्रयम् ॥ १,४.५६ ॥
अयुतानि च पञ्चाशत्शेषस्थानं मनोहरम् ॥ १,४.५७ ॥
स एव लोको वाराहः कथितस्तु स्वयं प्रभः ।
लोकोऽयमण्डसंलग्नः सर्वाधस्तान्मनोहरः ।
वराहरूपो भगवान् श्वेतरूपधरोऽवसत् ॥ १,४.५८ ॥
तयोपरिष्टादपरस्तावानेव प्रमाणतः ।
पीतभौमश्चतुर्थस्तु गभस्तितलसंज्ञकः ।
तत्रास्ते भगवान् विष्णुर्देवो हयशिरोधरः ।
शशाङ्कशतसङ्काशः शातकुम्भविभूषणः ॥ १,४.५९ ॥
पृश्निगर्भस्य वसतिर्ब्रह्मणो भुवनोपरि ॥ १,४.६० ॥
वासस्तत्र प्रलम्बारेर्यत्रैवाघरिपोर्भवेत् ॥ १,४.६१ ॥
एतस्यैवांशभूतोऽयं पाताले वसति स्वयम् ।
नित्यं तालध्वजो वाग्मी वनमालाविभूषितः ॥
धारयन् शिरसा नित्यं रत्नचित्रां फणावलीम् ।
लाङ्गली मुषली कड्गी नीलाम्बरविभूषितः ॥ १,४.६२ ॥
ब्रह्मलोकोपरिष्टाच्च हरेर्लोको विराजते ॥ १,४.६३ ॥
स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः ।
तथा वैकुण्ठलोके च स्वयमाविष्कृतो हि यः ॥ १,४.६४ ॥
अजितस्य निवासस्तु ध्रुवलोके समर्थितः ।
भुवर्लोके तु वसतिर्वामनस्य महात्मनः ॥ १,४.६५ ॥
त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता ।
तथास्य ब्रह्मलोकस्थो दिव्यो नारायणाश्रयः ।
ब्रह्मलोकोपरिष्टाच्च निवासोऽनेन निर्मितः ॥ १,४.६६ ॥

हरिवंशे सुरेन्द्रेण कह्तितो यः सुरर्षये ॥ १,४.६७ ॥

तथा हि हरिवंशे (२.७०.३७)
इदं भुङ्क्त्वा महीयं तु भगवन् विष्णुना कृतम् ।
उपर्युपरि लोकानामधिकं भुवनं मुने ॥ १,४.६८ ॥
इति ॥

सर्वेषामवताराणां परव्योम्नि चकासति ।
निवासाः परमाश्चर्या इति शास्त्रे निरूप्यते ॥ १,४.६९ ॥

तथा हि पाद्मे
वैकुण्ठभुवने नित्ये निवसन्ति महोज्ज्वलाः ।
अवताराः सदा तत्र मत्स्यकूर्मादयोऽखिलाः ॥ १,४.७० ॥

इति अवतारतत्स्थाननिरूपणम् ।


पञ्चमः परिच्छेदः
परावस्थानिरूपणम्

अथ कृष्णो नरभ्रातुरवतार इति क्वचित् ।
उपेन्द्रस्येति च क्वापि भ्रातासौ नातिकोविदाम् ॥ १,५.१ ॥

यथा स्कान्दे
धर्मपुत्रो हरेरंशौ नरनारायणाभिधौ ।
चन्द्रवंशमनु प्राप्य जातौ कृष्णार्जुनावुभौ ॥ १,५.२ ॥

श्रीचतुर्थे च (४.१.५९)
ताविमौ वै भगवतो हरेरंशाविहागतौ ।
भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ १,५.३ ॥

एतद्उपोद्बोधकं श्रीदशमे (१०.६९.१६)
सम्पूज्य देवर्षिवर्यमृषिः पुराणो
नारायणो नरसखो विधिनोदितेन ।
वाण्याभिभाष्य मितयामृतमिष्टया तं
प्राह प्रभो भगवते करवाम हे किम् ॥ १,५.४ ॥

उपेन्द्रावतारत्वं च यथा हरिवंशे शक्रवचने (२.७०.३४)
ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ ।
यवीयांसमहं प्रेम्ना कृष्णं प्रश्यामि नारद ॥ १,५.५ ॥
इति ।

तदेतदुभयत्वं न भवेत्कृष्णे विरोधतः ।
अंशत्वं हि तयोरुक्तं परावस्थत्वमस्य तु ॥ १,५.६ ॥
नरभ्रातुरिहांशत्वमेते चांशेति वक्ष्यते ।
उपेन्द्रस्य तथात्वं च हरिवंशेऽपि दृश्यते ॥ १,५.७ ॥

तथा हि देवर्षिवचनम् (२.७१.२१२३)
अदित्या तपसा विष्णुर्महात्माराधितः पुरा ।
वरेण च्छन्दिता तेन परितुष्टेन चादितिः ।
तयोक्तस्त्वादृशं पुत्रमिच्छामीति सुरोत्तम ॥ १,५.८ ॥
तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः ।
अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते ॥ १,५.९ ॥
इति ।

अथ कृष्णे परावस्थभावोऽग्रे वक्ष्यते स्फुटम् ।
परावस्थश्च सम्पूर्णावस्थः शास्त्रे प्रकीर्तितः ॥
तस्माद्अंशत्वमेवास्य विरुद्धं स्फुटमीक्षते ॥ १,५.१० ॥
अर्थगत्यन्तरं तेषां वचनानां च दृश्यते ॥ १,५.११ ॥

तत्र धर्मपुत्रावित्यादौ कारिका
नरनारायणौ प्राप्येत्यात्मसात्कृत्य तौ स्वयम् ।
कृष्णार्जुनौ चन्द्रवंशमनु प्रकटतां गतौ ॥ १,५.१२ ॥

ताविमावित्यादि कारिका
कर्तारौ तौ हरेरंशौ नरनारायणाविह ।
द्वापरान्ते कर्मभूतौ आयातौ कृष्णफाल्गुनौ ॥ १,५.१३ ॥

सम्पूज्येत्यादौ कारिकाः
सर्वादावुपदेष्टृत्वाद्यः पुराणर्षिरुच्यते ।
नाराणां पुरुषाणां यस्त्रयाणामाश्रयः स तु ॥
नरेष्मर्त्यलोकेषु सहचारी भवन् स्वयम् ।
तद्धर्ममनुकृत्यात्र पूजयामास तं मुनिम् ॥
नारायणाख्येनांशेन कृष्णो यद्यपि तद्गुरुः ।
नारदं पूजयामास तथापि क्षत्रलीलया ॥ १,५.१४ ॥

ऐन्द्रमित्यादौ कारिका
इन्द्रस्तु नातिकौविद्यान्मत्सराच्चोक्तवानिदम् ।
तस्मात्कृष्णस्य नो तत्तद्रूपत्वं घटते क्वचित् ॥ १,५.१५ ॥

अथ परावरस्थाः । यथा पाद्मे
नृसिंहरामकृष्णेषु षाड्गुण्यं परिपूरितम् ।
परावस्थास्तु ते तस्य दीपाद्उत्पन्नदीपवत् ॥ १,५.१६ ॥

तत्र श्रीनृसिंहः (fरोम् Bहावार्थदीपिका १.१.१, १०.८७.१)
प्रह्लादहृदयाह्लादं भक्ताविद्याविदारणम् ।
शरद्इन्दुरुचिं वन्दे पारीन्द्रवदनं हरिम् ॥ १,५.१७ ॥
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥ १,५.१८ ॥
गम्भीरगर्जितारम्भस्तम्भिताम्भोजसम्भवः ।
संरम्भः स्तम्भपुत्रस्य मुनिनोज्जृम्भितो नृपे ॥ १,५.१९ ॥
यथा श्रीसप्तमे (७.८.३२३३)
सटावधूता जलदाः परापतन्
ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः ।
अम्भोधयः श्वासहता विचुक्षुभुर्
निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥ १,५.२० ॥

द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला
प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैलाः समुत्पेतुरमुष्य रंहसा
तत्तेजसा खं ककुभो न रेजिरे ॥ १,५.२१ ॥
इति ।

उग्रोऽप्यनुग्र एवायं स्वभक्तानां नृकेशरी ।
केशरीव स्वपोतानामन्येषामुग्रविग्रहः ॥ १,५.२२ ॥
[*Fरोम् श्रीधर ष्वामीऽस्चोम्मेन्तर्य्तो ७.९.१.]

अस्य श्रीदिव्यसिंहस्य पर्मानन्दतुन्दिलः ।
श्रीमन्नृसिंहतापन्यां महिमा प्रकटीकृतः ॥ १,५.२३ ॥
नृसिंहस्य भवेद्वासो जनलोके महात्मनः ।
सर्वोपरिष्टाच्च तथा विष्णुलोके प्रकीर्तितः ॥ १,५.२४ ॥

श्रीराघवेन्द्रः
पूर्वतोऽप्येष निःशेषमाधुर्यामृतचन्द्रमाः ।
भाति सद्गुणसङ्घेन तुङ्गः श्रीरघुपुङ्गवः ॥ १,५.२५ ॥

पाद्मे
वन्दामहे महेशानं हरकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ १,५.२६ ॥

अस्य जन्मोत्सवं ब्रूते श्रीरामार्चनचन्द्रिका ॥ १,५.२७ ॥
उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर्वसुमते मेघं गते पूषणि ।
निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेर्
आविर्भूतमभूदपूर्वविभवं यत्किञ्चिदेकं महः ॥ १,५.२८ ॥

एकादशे (११.५.३४)
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद्
वन्दे महापुरुष ते चरणारविन्दम् ॥ १,५.२९ ॥

श्रीनवमे (९.११.२०२१)
नेदं यशो रघुपतेः सुरयाच्ञयात्त
लीलातनोरधिकसाम्यविमुक्तधाम्नः ।
रक्षोवधो जलधिबन्धनमस्त्रपूगैः
किं तस्य शत्रुहनने कपयः सहायाः ॥ १,५.३० ॥

यस्यामलं नृपसदःसु यशोऽधुनापि
गायन्त्यघघ्नमृषयो दिग्इभेन्द्रपट्टम्
तं नाकपालवसुपालकिरीटजुष्ट
पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ १,५.३१ ॥
इति ।

अत्र कारिका
आत्ता प्रकटिता लीलातनुर्लीलामयी तनुः ।
येन तस्येति साम्येति स्वार्थे ष्यञ्प्रत्ययो मतः ॥
धामस्वरूपं विज्ञेयमधिकेन समेन च ।
विमुक्तं धाम यस्येति माहात्म्यं सर्वतोऽधिकम् ।
यस्याधिकः समश्चात्र क्वापि नास्तीति निश्चयः ॥ १,५.३२ ॥
नाकपाला महेन्द्राद्या वसुपा वसुधाधिपाः ॥ १,५.३३ ॥
वासुदेवादिरूपाणामवताराः प्रकीर्तिताः ।
विष्णुधर्मोत्तरे रामलक्ष्मणाद्याः क्रमादमी ॥ १,५.३४ ॥
पाद्मे तु रामो भगवान्नारायण इतीरितः ।
शेषश्चक्रं च शङ्खश्च क्रमात्स्युर्लक्ष्मणादयः ॥ १,५.३५ ॥
मध्यदेशस्थितायोध्यापुरेऽस्य वसतिः स्मृता ।
महावैकुण्ठलोके च राघवेद्रस्य कीर्तिता ॥ १,५.३६ ॥

श्रीकृष्णः । बिल्वमङ्गले
सन्त्ववतारा बहवः पुष्करनाभस्य सर्वतोभद्राः ।
कृष्णादन्यः को वा लतास्वपि प्रेमदो भवति ॥ १,५.३७ ॥

परमैश्वर्यमाधुर्यपीयूषापूर्ववारिधिः ।
देवकीनन्दनस्त्वेष पुरः परिचरिष्यते ॥ १,५.३८ ॥
यस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये ।
व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥ १,५.३९ ॥
ननु सिंहास्यरामाभ्यां साम्यमस्यागतं स्फुटम् ।
इति विष्णुपुराणीयप्रक्रियात्र विलोक्यते ॥ १,५.४० ॥

तत्र मैत्रेयप्रश्नः चतुर्थेऽंशे (४.१५.१२)
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ॥ १,५.४१ ॥
नालभत्तत्र चैवेह सायुज्यं स कथं पुनः ।
सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ १,५.४२ ॥

श्रीपराशरोत्तरम् (४.१५.४१७)
दैत्येश्वरस्य वधायाखिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं
कुर्वता नृसिंहरूपमाविष्कृतम् ॥ तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्
न मनस्यभूत् ॥ निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वजातमिति ।
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोऽवाप्तवधहैतुकीं
निरतिशयामेवाखिलत्रैलोक्याधिक्यधारिणीं दशाननत्वे भोगसम्पदम्
अवाप ॥ १,५.४३ ॥

न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालम्बिनि कृते
मनसस्तल्लयमवाप ॥ १,५.४४ ॥

एवं दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता
दाशरथिरूपधारिणा हतस्य तद्रूपदर्शनमेवासीत्नायमच्युत इत्यासक्तिर्
विपद्यतोऽन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् । पुनरप्य्
अचुतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म
अव्याहतैश्वर्यं शिशुपालत्वेऽप्यवाप ॥ १,५.४५ ॥

तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् । ततश्च
तत्कालकृतानां तेषामशेषाणामेवाच्युतनाम्नामनवरतमनेकजन्मसु
वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसन्तर्जनादिषूच्चारणमकरोत् । तच्च
रूपमुत्फुल्लपद्मदलामलाक्षमत्य्उज्ज्वलपीतवस्त्रधार्य्
अमलकिरीटकेयूरहारकटकादिशोभितम्
उदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावाद्
अटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यअत्रोपययावस्य
चेतसः ॥ १,५.४६ ॥

ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय
यावद्भगवद्धस्तचक्रांशुमालोज्ज्वलमक्षयतेजःस्वरूपं
ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ १,५.४७ ॥

तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसञ्चयो
भगवतान्तमुपनीतस्तस्मिन्नेव लयमुपययौ ॥ १,५.४८ ॥
एतत्तवाखिलं मयाभिहितम् । अयं हि भगवान् कीर्तितश्च संस्मृतश्च
द्वेषानुबन्धेनापि अखिलसुरासुरादिदुर्लभं फलं प्रयच्छति किमुत
सम्यग्भक्तिमतामिति ॥ १,५.४९ ॥

नोक्तं पराशरेणात्र स्थितौ तौ पार्षदाविति ।
किन्तूभयोस्तयोरासीज्जन्मत्रयमितीरितम् ॥ १,५.५० ॥
अतः सर्वेषु कल्पेषु न तौ पार्षदजौ मतौ ।
अन्यथा न तयोः पातः प्रतिकल्पं समञ्जसः ॥ १,५.५१ ॥
पराशरेण यद्गद्यं मैत्रेयायोत्तरीकृतम् ।
श्लोकीकृत्य तदेवेदं सङ्क्षेपेण विलिख्यते ॥ १,५.५२ ॥
नृसिंहरूपं हरिणा यदाविष्कृतमद्भुतम् ।
हिरण्यकशिपोरस्मिन् विष्णुबुद्धिर्न निश्चिता ॥ १,५.५३ ॥
किन्त्वेष पुण्यसम्पन्नः कोऽपीति कृतनिश्चयः ।
रजोद्रिक्ततानुन्नमतिस्तद्भावयोगतः ॥ १,५.५४ ॥
ततोऽवाप्त विनाशैकहेतुकामखिलोत्तमाम् ।
अवाप भोगसम्पत्तिं रावणत्वे सुदुर्लभाम् ॥ १,५.५५ ॥
विष्णुत्वान्निश्चयान्नातिद्वेषान्नावेशसन्ततिः ।
तां विना च भवेत्द्वेषो नरकायैव वेणवत् ॥ १,५.५६ ॥
किन्त्वस्य सम्पत्सम्प्राप्तिस्तत्करेण मृतेः परम् ।
एवमाहैवशब्देन तत्साद्गुण्यमनुस्मरन् ॥ १,५.५७ ॥
आवेशाभावतो दोषानाशाच्छुद्धमपश्यतः ।
प्रकटेऽपि परब्रह्मरूपे तत्रास्य नो लयः ॥ १,५.५८ ॥
रावणत्वे महाकामपराधीनीकृतात्मनः ।
तद्वन्मनुष्यधीरस्य श्रीरामेऽभून्मृतावपि ॥ १,५.५९ ॥
अतोऽसौ चेदिराजत्वे पुनरापोत्तमां श्रियम् ॥ १,५.६० ॥
तत्र कृष्णे समस्तानामेव नाम्नां रमापतेः ।
कारणानि प्रवृत्तेस्तु निमित्तान्यभवंस्तदा ॥ १,५.६१ ॥
तेन निश्चित्य तं विष्णुं स्वस्य द्विर्मरणं यतः ।
अतिद्वेषान्महावेशात्तानि नामानि सर्वशः ।
जजल्प सततं शश्वन्निन्दासन्तर्जनादिषु ॥ १,५.६२ ॥
रूपं च तादृशं दृष्ट्वा विष्णुरेवेति निश्चयात् ।
नामवत्तच्च सर्वत्र सर्वदा चैव संस्मरन् ॥
दग्धतद्द्वेषजाघौधः क्षिप्ते चक्रे च तद्रुचा ।
अपेतदैत्यभावोऽन्ते तथा संस्कृतदृष्टिकः ।
तदा तूज्ज्वलमद्राक्षीत्परं ब्रह्म नराकृति ॥ १,५.६३ ॥
तदैव चक्रघातेन दैत्यदेहे विनाशिते ।
तदेव ब्रह्म परममनुलीनत्वमाययौ ॥ १,५.६४ ॥
इत्युक्त्वाप्यत्र बक्यादेर्मोक्षमप्यर्भलीलया ।
अमोक्षं कालनेम्यादेरन्यत्रापीशचेष्टया ।
मुनिः स्मृत्वा पुनः प्राख्यतयं हि भगवानिति ॥ १,५.६५ ॥
[Vइড়् ४.१५.१७]
हि प्रसिद्धमयं कृष्णो भगवान् स्वयमेव यत् ।
प्रीणतां द्विषतां चातश्चेतांस्याकर्षति द्रुतम् ।
तस्मात्कीर्तित इत्यादि माहात्म्यं चित्रमत्र न ॥ १,५.६६ ॥
इति विज्ञाय गद्यानां हार्दं सौहार्दतः स्फुञम् ।
तस्मात्स एव कैमुत्याद्भजनीयतयेष्यते ॥ १,५.६७ ॥
अथाखिलानां नाम्नां च प्रवृत्तौ कारणं शृणु ॥ १,५.६८ ॥
लक्ष्मीशनामान्येवात्र प्रवृत्तेर्हेतुसाम्यतः ।
तथैव हेतुभेदाच्च वर्तन्ते यदुपुङ्गवे ॥ १,५.६९ ॥
दैत्यारिः पुण्डरीकाक्षः शार्ङ्गी गरुडवाहनः ।
पीताम्बरश्चक्रपाणिः श्रीवत्साङ्कश्चतुर्भुजः ।
इत्यादीन्यत्र नामानि प्रवृत्तेर्हेतुसाम्यतः ॥ १,५.७० ॥
वसुदेवस्य पुत्रत्वात्वासुदेवो निगद्यते ।
मधुवंशे यतो जातः कथ्यते माधवस्ततः ॥ १,५.७१ ॥
श्रीहरिवंशेऽपि (२.७.३६)[* आच्चोर्दिन्ग्तो थे च्रितिचलेदितिओन्, थिसिस्५१.३६ ओर्वेर्से ३४७३.
ठे ङ्मेदितिओन् ॠउओतेसितस्६३.३६.]
स च तेनैव नाम्नात्र कृष्णो वै दामबन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥ १,५.७२ ॥

तत्रैव (१५८.३०३२)[* आल्तेर्नतिवे नुम्बेरिन्ग्गिवेनिन् Kऋष्णष्५७ इस्१०१.३०३२. ई हवेन्ऽत्
येत्बेएनब्ले तो fइन्द्थेसे वेर्सेसिन् थे च्रितिचलोर्ङित ড়्रेस्सेदितिओन्स्.]
अधोऽनेन शयानेन शकटान्तरचारिणा ।
राक्षसी निहता रौद्री शकुनीवेशधारिणी ॥
पूतनानाम सा घोरा महाकाया महाबला ।
विषदिग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥ १,५.७३ ॥
ददृशुर्निहतां तत्र राक्षसीं वनगोचराः ।
पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ॥
इति ॥ १,५.७४ ॥

एषोऽधः शकटस्याक्षे पुनर्जात इवेत्यतः ।
अधोक्षज इति प्राहुरिति टीका कृतोदितम् ॥ १,५.७५ ॥

तत्रैव (२.९.४५)[* आल्तेर्नतिवे नुम्बेरिन्ग्स्ःV ६२.४३ ओर्४००५.]
अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।
गोविन्द इति लोकास्त्वां गास्यन्ति भुवि शाश्वतम् ॥ १,५.७६ ॥

तत्रैव (२.९.४६)
ममोपरि यथेन्द्रत्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ॥ १,५.७७ ॥

श्रीविष्णुपुराणे (५.१६.२३)
यस्मात्त्वयैव दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके ज्ञेयो भविष्यसि ॥ १,५.७८ ॥
इति ।

इत्यादिन्यत्र नामानि प्रवृत्तेर्हेतुभेदतः ।
एषां प्रवृत्तेर्हेतुत्वमन्यदेव रमापतौ ॥ १,५.७९ ॥
किं चासुराणां द्विषतां कृष्णमप्राप्य नान्यतः ।
कुतोऽपि मुक्तिरित्याख्यादेवकारद्वयेन सः ॥ १,५.८० ॥

तथा हि श्रीगीतायां (१६.१९२०)
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १,५.८१ ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १,५.८२ ॥
इति ।

मां कृष्णरूपिणं यावन्नाप्नुवन्ति मम द्विषः ।
तावदेवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ १,५.८३ ॥
तस्मात्त्रयाणामेवायं श्रेष्ठ इत्यत्र विस्मयः ।
को वा स्यात्न तथा यस्मात्स्वभावोऽन्यत्र दृश्यते ॥ १,५.८४ ॥
अतो मन्वक्षरमनोः कल्पे स्वायम्भुवागमे ।
पूज्यन्तेऽस्यावृतित्वेन रामसिंहाननादयः ॥ १,५.८५ ॥
नन्विदं श्रूयते शास्त्रे महावाराहवाक्यतः ।

सर्वे नित्याः शाश्वताश्च दहास्तस्य परात्मनः ।
हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः ।
सर्वे सर्वगुणैः पूर्णा सर्वदोषविवर्जिताः ॥ १,५.८६ ॥

किं च नारदपञ्चरात्रे
मणिर्यथा विभागेन नीलपीतादिभिर्युतः ।
रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः ॥ १,५.८७ ॥
इति ।

तस्मात्कथं तारतम्यं तेषां व्याख्यायते ।
अत्रोच्यते परेश्वत्वात्पूर्णा यद्यपि तेऽखिलाः ।
तथाप्यखिलशक्तीनां प्राकट्यं तत्र नो भवेत् ॥ १,५.८८ ॥
अंशत्वं नाम शक्तीनां सदाल्पांशप्रकाशिता ।
पूर्णत्वं च स्वच्छयैव नानाशक्तिप्रकाशिता ॥ १,५.८९ ॥
शक्तिरैश्वर्यमाधुर्यकृपातेजोमुखा गुणाः ।
शक्तेर्व्यक्तिस्तथाव्यक्तिस्तारतम्यस्य कारणम् ॥ १,५.९० ॥
शक्तिः समापि पूर्यादिदाहे दीपाग्निपुञ्जयोः ।
शीताद्य्आर्तिक्षयेनाग्निपुञ्जादेव सुखं भवेत् ॥ १,५.९१ ॥
एवमेव गुणादीनामाविष्कारानुसारतः ।
भवध्वंसेन सौख्यं स्यात्भक्तादीनां यथायथम् ॥ १,५.९२ ॥
एकत्वं च पृथक्त्वं च तथांशत्वमुतांशिता ।
तस्मिन्नेकत्र नायुक्तमचिन्त्यानन्तशक्तितः ॥ १,५.९३ ॥

तत्रैकत्वेऽपि पृथक्प्रकाशिता, यथा श्रीदशमे (१०.६९.२)
चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।
गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ १,५.९४ ॥

पृथक्त्वेऽप्येकरूपतापत्तिः, यथा पाद्मे
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।
एकीभूय पुनः शेते निर्दोषो हरिरादिकृत् ॥ १,५.९५ ॥
इति ।

यथा श्रीदशमे (१०.४०.७)
यजन्ति त्वमयास्त्वां वै बहुमूर्त्य्एकमूर्तिकम् ॥ १,५.९६ ॥
इति ।

कौर्मे च
अस्थूलश्चानणुश्चैव स्थूलोऽणुश्चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः श्यामो रक्ताक्तलोचनः ।
ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते ॥ १,५.९७ ॥

तथापि दोषाः परमे नैवाहार्यः कथञ्चन ।
गुणा विरुद्धा अप्येते समाहार्याः समन्ततः ॥ १,५.९८ ॥

श्रीषष्ठस्कन्धे [६.९.३३३५] च मिथो विरुद्धाचिन्त्यशक्तित्वं यथा गद्येषु
दुरवबोध इवायं तव विहारयोगो यदशरणोऽशरीर इदम्
अनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि हरसि
पासि ॥ १,५.९९ ॥

अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण
स्वकृतकुशलाकुशलं फलमुपाददाति । अहो स्विदात्माराम उपशमशीलः
समञ्जसदर्शन उपास्ते इति ह वाव न विदामः ॥ १,५.१०० ॥

न हि विरोध उभयं भगवत्यपरिगणितगुणगणे ईश्वरे
अनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कश्
आस्त्रकलितान्तःकरणाशयदुरवग्रहवादिनां विवादानवसरे
उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो
दुर्घट इव भवति स्वरूपद्वयाभावात्समविषममतीनां मतमनुसरसि
यथा रज्जुखण्डः सर्पादिधियाम् ॥ १,५.१०१ ॥

विना शरीरचेष्टत्वं विना भूम्यादिसंश्रयम् ।
विना सहायांस्ते कर्माविक्रियस्य सुदुर्गमम् ॥ १,५.१०२ ॥
उक्तो गुणविसर्गेण देवासुररणादिकः ।
तस्मिन् पतित आसक्तः पारतन्त्र्यस्तु तद्भवेत् ।
यदाश्रितेषु देवेषु पारवश्यं कृपाकृतम् ॥ १,५.१०३ ॥
तेन स्वकृतमात्मीयकृतं शुभशुभेतरत् ।
सुखदुःखादिरूपं किं फलं स्वीकुरुते भवान् ॥ १,५.१०४ ॥
आत्मारामतया किंवा तत्रोदास्तेतरामिति ।
न विद्मः किन्तु नैवेदं विरुद्धमुभयं त्वयि ॥ १,५.१०५ ॥
तत्र हेतुर्भगवतीत्यादि प्रोक्तं पदद्वयम् ।
तथैवेश्वर इत्यादिपदानां पञ्चकं मतम् ॥ १,५.१०६ ॥
भगवत्त्वेन सार्वज्ञं सद्गुणत्वं तथान्यतः ।
ब्रह्मत्वं केवलत्वेन लभ्यते तत्र च स्फुटम् ॥ १,५.१०७ ॥
यद्यपि ब्रह्मताहेतोः सर्वत्र स्यात्तटस्थता ।
तथाप्यादिगुणद्वय्या भवेद्भतानुकूलता ॥ १,५.१०८ ॥
नन्वेकस्य स्वरूपस्य द्वैरूप्यं कथमेकदा ।
तत्राह अर्वाचीनेति तादृशानां हि वादिनाम् ।
विवादस्यानवसरे तस्य तावदगोचरे ॥ १,५.१०९ ॥
अतोऽचिन्त्यात्मशक्तिं तां मध्येकृत्यात्र दुर्घटः ।
को न्वर्थः स्याद्विरुद्धोऽपि तथैवास्या ह्यचिन्त्यता ।
सा च नानाविरुद्धानां कार्याणामाश्रयान्मता ॥ १,५.११० ॥
श्रुतेस्तु शब्दमूलत्वादिति च ब्रह्मसूत्रकृत् ।
अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् ।
इति स्कान्दवचस्तच्च मण्यादिष्वपि दृश्यते ॥ १,५.१११ ॥
तादृशीं च विना शक्तिं न सिध्येत्परमेशता ।
यतश्चानवगाह्यत्वेनास्य माहात्म्यमुच्यते ॥ १,५.११२ ॥
अज्ञानमिन्द्रजालं वा वीक्ष्यते यत्र कुत्रचित् ।
अतो न पारमैश्वर्यं तेन तस्य प्रसिध्यति ॥ १,५.११३ ॥
तच्च तस्य न हीत्याह स्फुटं चोपरतेत्यदः ।
तथा भगवतीत्यादिपदानां षट्तयस्य च ।
भवेत्प्रयोगतात्पर्यमत्र निष्फलमेव हि ॥ १,५.११४ ॥
तस्मान्न शास्त्रयुक्तिभ्यामुभयं तद्विरुध्यते ।
तथाप्युच्चावचधियामनेवंतत्त्ववेदिनाम् ।
मतानुसारतो भासि रज्जूवत्त्वं तथा तथा ॥ १,५.११५ ॥
ननु भोः केवलं ज्ञानं ब्रह्म स्याद्भगवान् पुनः ।
नानाधर्मेति तत्रापि स्वरूपद्वय्मीक्ष्यते ॥
इति प्राह स्वरूपेति तत्स्वरूपस्य नैव हि ।
कदापि द्वैतमेकस्य धर्मद्वयमिदं ध्रुवम् ॥ १,५.११६ ॥
ततो विरोधस्तच्छक्तिविलासानां यदीक्ष्यते ।
तदेवाचिन्त्यमैश्वर्यं भॣषणं न तु दूषणम् ॥ १,५.११७ ॥
इयमेव विरोधोक्तिस्तृतीयेऽपि च दृश्यते ॥

कर्माण्यनीहस्य भवोऽभवस्य ते
दुर्गाश्रयोऽथारिभयात्पलायनम् ।
कालात्मनो यत्प्रमदायुताश्रमः
स्वात्मन्रतेः खिद्यति धीर्विदामिह ॥ १,५.११८ ॥
इति ।

तत्तन्न वास्तवं चेत्स्यात्विद्यां बुद्धिभ्रमस्तदा ।
न स्यादेवेत्यचिन्त्यैव शक्तिर्लीलासु कारणम् ॥
यथा यथा च तस्येच्छा सा व्यनक्ति तथा तथा ॥ १,५.११९ ॥
एवं प्रासङ्गिकं प्रोच्य प्रकृतार्थो निरूप्यते ।
ननु यः प्रकृतिस्वामी योऽन्तर्यामी च पुरुषः ।
ताभ्यामधिकता नास्य कंसारेरुपपद्यते ॥ १,५.१२० ॥

तथा हि श्रीप्रथमे (१.३.१५)
जगृहे पौरुषं रूपं भगवान्महद्आदिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १,५.१२१ ॥
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ १,५.१२२ ॥
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ १,५.१२३ ॥
पश्यन्त्यदो रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्य्अम्बरकुण्डलोल्लसत् ॥ १,५.१२४ ॥
एतन्नानावताराणां निधानं बीजमव्ययम् ।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ १,५.१२५ ॥
इति ।

अत्र कारिकाः
आदौ सर्वावताराग्रे भगवान् पुरुषोत्तमः ।
महत्तत्त्वादिभिः कृत्वा भुवनानां सिसृक्षया ॥ १,५.१२५ ॥
पौरुषं पुरुषाकारमथवा पुरुषाभिधम् ।
रूपमानन्दचिन्मूर्तिं जगृहे प्रादुराचरत् ॥ १,५.१२६ ॥
अर्थः सम्भूतशब्दस्य सम्यक्सत्यमितीरतिः ।
सम्भूतं युक्तमिति वा भुवनानां सिसृक्षया ।
षोडशैव कला यस्मिंस्तत्षोडशकलं मतम् ॥ १,५.१२७ ॥
ताः षोडशकलाः प्रोक्ता वैष्णवैः शास्त्रदर्शनात् ।
शक्तित्वेन च ता भक्तिविवेकादिषु सम्मताः ॥ १,५.१२८ ॥

श्रीर्भूः कीर्तिरिला लीला कान्तिर्विद्येति सप्तकम् ।
विमलाद्या नवेत्येता मुख्याः षोडश शक्तयः ॥ १,५.१२९ ॥
इति ।

तदिदं पौरुषं रूपं त्रिविधं पूर्वमीरितम् ।
तत्र प्रोच्य महत्स्रष्टृरूपमण्डस्थमुच्यते ॥ १,५.१३० ॥
यस्याजाण्डप्रवेशेन शयानस्य तदम्भसि ।
नाभिह्रदाम्बुजादासीदिति सुव्यक्तमेव हि ॥ १,५.१३१ ॥
यस्य नाभिह्रदाब्जस्यावयवाः कर्णिकादयः ।
संस्थानान्यत्र विद्यासविशेषास्तैस्तु कल्पितः ।
लोकानां सर्वजगतां विस्तारो विततिः किल ॥ १,५.१३२ ॥
स शेते येन रूपेण तच्छुद्धं सत्त्वमूर्जितम् ॥ १,५.१३३ ॥
पश्यन्तीत्य्आदिपद्येन तदेवेदं विशिष्यते ।
एतद्रूपं तु नानावताराणामुदयास्पदम् ॥ १,५.१३४ ॥

यथैकादशे (११.४.३)
भूतैर्यदा पञ्चभिरात्मसृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः ॥ १,५.१३५ ॥

अत्र सार्धकारिका
नारायणोऽत्र परमव्योमेशानः स आत्मना ।
पुंस्वरूपेण सृष्टैस्तैर्भूतैः सृष्ट्वा विराट्तनुम् ।
विष्टः स्वांशेन तेनैव सम्प्राप्तः पुरुषाभिधाम् ॥ १,५.१३६ ॥

प्रस्तुते तु किमायातमित्याशङ्क्य निगद्यते ।
सोऽस्य गर्भोदशय्यस्य विलासो यश्चतुर्भुजः ।
शेते प्रविश्य लोकाब्जं विष्ण्व्आख्यः क्षीरवारिधौ ॥ १,५.१३७ ॥
अयं च स्थावरान्तानां स्य्रादीनां शरीरिणाम् ।
हृद्य्अन्तर्यामितां प्राप्तो नानारूप इव स्थितः ॥ १,५.१३८ ॥
तृतीयं सर्वभूतस्थमिति विष्णोर्यदुच्यते ।
रूपं सात्वततन्त्रे तद्विलासोऽस्यैव सम्मतः ॥ १,५.१३९ ॥
[* षेए अबोवे १.२.९, ॠउओते fरों षात्वततन्त्र.]
अतः क्षीराम्बुधेस्तीरे कृतोपस्थानकः सुरैः ।
एष एवावतीर्णोऽभूत्कृष्णाख्य इति युज्यते ॥ १,५.१४० ॥
अथात्र पूर्वपक्षे वः सिद्धान्तः प्रतिपद्यते ।
यथा श्रीदशमे तेषु सुरेष्वेवाशरीरगीः ॥ १,५.१४१ ॥

वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः ।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ १,५.१४२ ॥
इति (भागवतम् १०.१.२३)

अत्र कारिकाः
पुरुषस्य परत्वेन साक्षाच्च भगवानिति ।
एतस्यैव महत्स्रष्टा सोऽंश इत्यभिविश्रुतः ॥ १,५.१४३ ॥
अत्र श्रीस्वामिपादानामपि सम्मतिरीक्ष्यते ।
यदंशभागेनेत्यस्य व्याख्यां कुर्वद्भिरेव तैः ॥
अंशेन भागो मायाया येनेत्यंशोऽस्य पुरुषः ।
भागो भजनमित्येवं पूर्णतास्य स्फुटीकृता ॥ १,५.१४४ ॥
किं च तत्रैव देवक्या कृते स्तोत्रे निरूपितम् ॥ १,५.१४५ ॥

यथा (१०.८५.३१)
यस्यांशांशांशभागेन
विश्वोत्पत्तिलयोदयाः ।
भवन्ति किल विश्वात्मंस्
तं त्वाद्याहं गतिं गता ॥ १,५.१४६ ॥

अत्र कारिका
यस्यांशः पुरुषस्य स्यादंशः प्रकृतिस्तु सा ।
तस्या अंशा गुणास्तेषां भागेनास्योद्भवादयः ॥ १,५.१४७ ॥

किं च तत्रैव (१०.१४.१४)
नारायणस्त्वं न हि सर्वदेहिनाम्
आत्मास्यधीशाखिललोकसाक्षी ।
नारायणोऽङ्गं नरभूजलायनात्
तच्चापि सत्यं न तवैव माया ॥ १,५.१४८ ॥
इति ।

अत्र कारिकाः
जगत्त्रयेति पद्येन श्रीनारायणतां वदन् ।
कृष्णस्याथ स्वयं दृष्ट्वा परमैश्वर्यमद्भुतम् ॥
पर्याप्त्याजाण्डनियुतं स्वयं भीतिभराकुलः ।
नारायणस्त्वं नेत्याह सापराध इवात्मभूः ॥ १,५.१४९ ॥
हे अधीशेत्यजाण्डौघस्थितान्तर्यामिपुरुषाः ।
ईशास्तेभ्योऽधिकोऽधीशो हि यतः सर्वदेहिनाम् ॥
समष्टीनां सविकुण्ठजीवानां त्वं प्रकाशकः ।
तेषामखिललोकानां साक्षी द्रष्टाप्यसि स्वयम् ॥ १,५.१५० ॥
अतो यो नरभूनीरायणान्नारायणः स्मृतः ।
स तेऽङ्गमंशः पूर्णस्य चिनिमायाशक्तिवैभवैः ।
चातुष्पादिकमैश्वर्यं तव तस्य तु पादिकम् ॥ १,५.१५१ ॥
विष्टभ्याहमिदं कृत्स्नमेकांशेनेति ते वचः ।
तच्चांशत्वं भवेत्सत्यं विराड्वन्न तु मायिकम् ॥ १,५.१५२ ॥

श्रीब्रह्मसंहितायां (५.४८)
यस्यैकनिश्वसितकालमथावलम्ब्य
जीवन्ति लोमविलजा जगद्अण्डनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.१५३ ॥

अतः पुरुष एवास्य कृष्णस्यांशो भवेद्यदि ।
तद्विलासस्तु नितरां भवेत्क्षीराब्धिनायकः ॥ १,५.१५४ ॥
ननु द्वितीयस्कन्धे तु योऽवतीर्णो यदोः कुले ।
किं विधात्रा स हि सितकृष्णकेशतयोदितः ॥ १,५.१५५ ॥

तथा हि (२.७.२६)
भूमेः सुरेतरवरूथविमर्दितायाः
क्लेशव्ययाय कलया सितकृष्णकेशः ।
जातः करिष्यति जनानुपलक्ष्यमार्गः
कर्माणि चात्ममहिमोपनिबन्धनानि ॥ १,५.१५६ ॥
इति ।

मैवं भोः श्रूयतामस्य पद्यसार्थो विधीयते ।
कलया शिल्पनैपुण्यविशेषविधिना सिताः ।
बद्धाः कृष्णा अतिश्यामाः केशा येनेति विग्रहः ।
स एवेत्यस्य वैदग्धीविशेषोत्कर्ष ईरितः ॥ १,५.१५७ ॥
किंवा यः कलयांशेन स्यात्सितश्यामकेशकः ।
स एवात्रावतीर्णोऽभूत्श्रीलीलापुरुषोत्तमः ॥ १,५.१५८ ॥

किं च
मार्कण्डेयेन वज्राय विष्णुधर्मोत्तरे स्फुटम् ।
लयाब्धिस्थोऽनिरुद्धोऽयं पिता ते इति कीर्तितम् ॥ १,५.१५९ ॥

तत्र वज्रप्रश्नः (१.७९.१)
कस्त्वसौ बालरूपेण कल्पान्तेषु पुनः पुनः ।
दृष्टो यो न त्वया ज्ञातस्तत्र कौतूहलं मम ॥ १,५.१६० ॥

मारकण्डेयोत्तरम् (१.७९.२३)
भूयो भूयस्त्व असौ दृष्टो मया देवो जगत्पतिः ।
कल्पक्षये न विज्ञातः स मया मोहितेन वै ॥ १,५.१६१ ॥
कल्पक्षये व्यतीते तु तं तु देवं पितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥ १,५.१६२ ॥
इति ।

अत्र कारिका
अन्यथा मुनिवर्षेऽयमवदिष्यदिदं तदा ।
तं श्रीकृष्णं विजानामि प्रपितामहमेव ते ॥ १,५.१६३ ॥
अतः केशावतारत्वभ्रमोऽप्यारात्पराहतः ॥ १,५.१६४ ॥
नन्वस्तु पुरुषादिभ्यः श्रैष्ठ्यं तस्याघविद्विषः ।
किन्तु श्रीवासुदेवोऽत्र सर्वैश्वर्यनिषेवितः ।
त्रिपात्पादविभूत्योश्च नानारूप इव स्थितः ॥
उन्मीलद्बालमार्तण्डपरार्धमधुरद्युतिः ।
क्वचिन्नवघनश्यामः क्वचिज्जाम्बुनदप्रभः ॥
महावैकुण्ठनाथस्य विलासत्वेन विश्रुतः ।
परमात्मा बलज्ञानवीर्यतेजोभिरन्वितः ॥ १,५.१६५ ॥
महावस्थाख्यया ख्यातं यद्व्यूहानां चतुष्टयम् ।
तस्याद्योऽयं तथोपास्यश्चित्ते तद्अधिदैवतम् ।
तथा विशुद्धसत्त्वस्य यश्चाधिष्ठानमुच्यते ॥ १,५.१६६ ॥
निजांशो यस्य भगवान् श्रीसङ्कर्षण ईष्यते ।
यस्य सङ्कर्षणो व्यूहो द्वितीय इति सम्मतः ।
जीवश्च स्यात्सर्वजीवप्रादुर्भावास्पदत्वतः ॥ १,५.१६७ ॥
पूर्णशारदशुभ्रांशुपरार्धमधुरद्युतिः ।
उपास्योऽयमहङ्कारे शेषन्यस्तनिजांशकः ॥
स्मरारातेरधर्मस्य सर्पान्तकसुरद्विषाम् ।
अन्तर्यामित्वमास्थाय जगत्संहारकारकः ॥ १,५.१६८ ॥
व्यूहस्तृतीयः प्रद्युम्नो विलासो यस्य विश्रुतः ।
यः प्रद्युम्नो बुद्धितत्त्वे बुद्धिमद्भिरुपास्यते ॥
स्तुवत्या च श्रिया देव्या निषेव्यते इलावृते ।
शुद्धजाम्बुनदप्रख्यः क्वचिन्नीलघनच्छविः ॥
निदानं विश्वसर्गस्य कामन्यस्यनिजांशकः ।
विधेः प्रजापतीनां रागिनां च स्मरस्य च ।
अन्तर्यामित्वमापन्नः सर्गं सम्यक्करोत्यसौ ॥ १,५.१६९ ॥
व्यूहस्तुर्योऽनिरुद्धाख्यो विलासो यस्य शस्यते ।
योऽनिरुद्धो मनस्तत्त्वे मनीषिभिरुपास्यते ॥
नीलजीमूतसङ्काशो विश्वरक्षणतत्परः ।
धर्मस्यायं मनूनां च देवानां भूभुजां तथा ।
अन्तर्यामित्वमास्थाय कुरुते जगतः स्थितिम् ॥ १,५.१७० ॥
मोक्षधर्मे तु मनसः स्यात्प्रद्युम्नोऽधिदैवतम् ।
अनिरुद्धस्त्वहङ्कारस्येति तत्रैव कीर्तितम् ॥ १,५.१७१ ॥
सर्वेषां पञ्चरात्राणामप्येषा प्रक्रिया मता ॥ १,५.१७२ ॥
पाद्मे तु परमव्योम्नः पूर्वाद्ये दिक्चतुष्टये ।
वासुदेवादयो व्यूहश्चत्वारः कथिताः क्रमात् ॥ १,५.१७३ ॥
तथा पादविभूतौ च निवसन्ति क्रमादि मे ।
जलावृतिस्थवैकुण्ठस्थित वेदवतीपुरे ॥
सत्योर्ध्वे वैष्णवे लोके नित्याख्ये द्वारकापुरे ।
शुद्धोदादुत्तरे श्वेतद्वीपे चैरावतीपुरे ।
क्षीराम्बुधिस्थितान्ते क्रोडपर्यङ्कधामनि ॥ १,५.१७४ ॥
सात्वतीये क्वचित्तन्त्रे नव व्यूहाः प्रकीर्तिताः ।
चत्वारो वासुदेवाद्या नारायणनृसिंहकौ ॥
हयग्रीवो महाक्रोडो ब्रह्मा चेति नवोदिताः ।
तत्र ब्रह्मा तु विज्ञेयः पूर्वोक्तविधया हरिः ॥ १,५.१७५ ॥
किन्तु व्यूहास्तु चत्वारो राजद्भुजचतुष्टयाः ।
अजस्रपरमैश्वर्यमर्षादापैर्भूषिताः ॥ १,५.१७६ ॥
अत्रापि वासुदेवोऽयं सम्पूर्णानन्दसम्प्लवः ।
ऐश्वर्यादौ निर्विशेषः परमव्योमनायकात् ।
आद्यानामपि सर्वेषामादिभूतः सुपर्वणाम् ॥ १,५.१७७ ॥
इत्याशङ्के स एवायं कृष्णाख्यः सन्नवातरत् ।
वासुदेवतया यस्मात्सर्वत्रैष सुविश्रुतः ॥ १,५.१७८ ॥
नैवं युक्तं शृणु ततः समाधानं विधीयते ।
आद्यव्यूहादपि श्रेष्ठः कथ्यते देवकीसुतः ॥ १,५.१७९ ॥

तथा श्रीदशमे
एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ॥ १,५.१८० ॥

अत्र कारिके
पुंनाम्नः पुरुषस्यैते श्रीवराहर्षादयः ।
अंशाः अत्रावताराः स्युः कुमाराद्याः कला मताः ॥
तुभिन्नोपक्रमे कृष्णो भगवान् पुरुषोत्तमः ।
स्वयमित्यपयातास्य वासुदेवावतारता ॥ १,५.१८१ ॥

श्रीदशमे चैवमेवोक्तम् (१०.१४.२)
अस्यापि देव वपुषो मद्अनुग्रहाय
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशे महि त्ववसितुं मनसाऽन्तरेण
साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ १,५.१८२ ॥
इति ।

अत्र कारिकाः
देवः स्वनाम्नि देवेति ख्यातं यस्य वपुः स हि ।
व्यूहानामादिमो वासुदेवो देववपुर्मतः ॥
ततोऽपि महि माहात्म्यं साक्षादेवात्र ते सतः ।
को विधाताप्यवसितुं ज्ञातुं नेशेऽस्मि न क्षमः ।
किमुताहो आत्मसुखानुभूतेर्ब्रह्मरूपतः ॥ १,५.१८३ ॥
एवमर्थोऽस्य पद्यस्य कैमुत्यन्यायसंस्थितः ॥ १,५.१८४ ॥
न्यूनेऽधिके च कैमुत्यं तत्र न्यूने भवेद्यथा ।
कौस्तुभस्तु महातेजाः सूर्यकोटिशतादपि ।
अयं किमुत वक्तव्यं प्रदीपाद्दीप्तिमानिति ॥ १,५.१८५ ॥
अथाधिके यथा ध्वान्तैः शक्यो दीपोऽपि नार्दितुम् ।
स तु मार्तण्डकोटीभिः सम’य्किमुत कौस्तुभः ॥ १,५.१८६ ॥
अतो न्यूनादपि न्यूने कैमुत्यमिह तु स्थितम् ॥ १,५.१८७ ॥
मय्येवानुग्रहो यस्येत्यनुग्रहभरो यतः ।
मय्येव विहितो भूयानपूर्वाश्चर्यदर्शनात् ॥ १,५.१८८ ॥
स्वेच्छामयस्य भक्तानां कामायाखिलकर्मणः ।
न तु भूतमयस्येति पुरुषत्वं च खण्डितम् ।
यदेष सर्वजीवानां पुरुषः परमाश्रयः ॥ १,५.१८९ ॥
आन्तरेण निरुद्धेन मनसेत्येकतानता ।
ज्ञातुं स्यान्महिमा शक्यो यद्यप्येभिर्विशेषणैः ।
ज्ञातुं तथापि नेशेऽस्मीत्यचिन्त्यैश्वर्यतोदिता ॥ १,५.१९० ॥
जानता वासुदेवाच्च ब्रह्मतश्चाधिकाधिकम् ।
माहात्म्यं कृष्णचन्द्रस्य विरिञ्चेन समर्थितम् ॥ १,५.१९१ ॥
अतो मन्व्अक्षरमनोर्ध्याने स्वायम्भुवागमे ।
चत्वारो वासुदेवाद्याः कृष्णस्यावृतिरीरिताः ॥ १,५.१९२ ॥
क्रमादिदीपिकायां च वस्व्अक्षरमनोर्विधौ ।
गोकुलेशावृतित्वेन वासुदेवादयो मताः ॥ १,५.१९३ ॥
ननु श्रैष्ठ्यं मुकुन्दस्य ब्रह्मतो युज्यते कथम् ।
यद्ब्रह्म श्रीभागअतोरैक्यमेव प्रसिध्यते ॥ १,५.१९४ ॥
पुरुषं परमात्मा च ब्रह्म च ज्ञानमित्यपि ।
स एको भगवानेव शास्त्रेषु बहुधोच्यते ॥ १,५.१९५ ॥

तथा च स्कान्दे
भगवान् परमात्मेति प्रोच्यतेऽष्टाङ्गयोगिभिः ।
ब्रह्मेत्युपनिषन्निष्ठैर्ज्ञानं च ज्ञानयोगिभिः ॥ १,५.१९६ ॥

श्रीप्रथमे च (१.२.११)
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ १,५.१९७ ॥
इति ।

सत्यमुक्तं शृणु ततस्तृतीये कापिलं वचः ॥ १,५.१९८ ॥

यथा (३.३२.३३)
यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः ।
एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः ॥ १,५.१९९ ॥
इति ।

अत्र कारिकाः
तत्तत्श्रीभगवत्येव स्वरूपं भुवि विद्यते ।
उपासनानुसारेण भाति तत्तद्उपासके ॥ १,५.२०० ॥
यथा रूपरसादीनां गुणानामाश्रयः सदा ।
क्षीरादिरेक एवार्थो ज्ञायते बहुधेन्द्रियैः ॥ १,५.२०१ ॥
दृशा शुक्लो रसनया मधुरो भगवांस्तथा ।
उपासनाभिर्बहुधा स एकोऽपि प्रतीयते ॥ १,५.२०२ ॥
जिह्वयैव यथा ग्राह्यं माधुर्यं तस्य नापरैः ।
यथा चक्षुर्आदीनि गृह्णन्त्यर्थं निजं निजम् ॥ १,५.२०३ ॥
तथान्या बाह्यकरणस्थानीयोपासनाखिला ।
भक्तिस्तु चेतः स्थानीया तत्तत्सर्वार्ह्तलाभतः ॥ १,५.२०४ ॥
इति प्रवरशास्त्रेषु तस्य ब्रह्मस्वरूपतः ।
माधुर्यादिगुणाधिक्यात्कृष्णस्य श्रेष्ठतोच्यते ॥ १,५.२०५ ॥

तथा च श्रीदशमे (१०.१४.६७)

तथापि भूमन्महिमागुणस्य ते
विबोद्धुमर्हत्यमलान्तर्आत्मभिः
अविक्रिया स्वानुभवादरूपतो
ह्यनन्यबोध्यात्मतया न चान्यथा ॥ १,५.२०६ ॥


गुणात्मनस्तेऽपि गुणान् विमातुं;
हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर्वा विमिताः सुकल्पैर्;
भूपांशवः खे मिहिका द्युभासः ॥ १,५.२०७ ॥
इति ।

ननु प्राकृतरूपत्वान्मृगतृष्णोपमाजुषाम् ।
गुणानां गणना न स्यादिति कात्र विचित्रता ॥ १,५.२०८ ॥
मैवं गुणानामेतस्य प्राकृतत्वं न विद्यते ।
तेषां स्वरूपभूतत्वात्सुखरूपत्वमेव हि ॥ १,५.२०९ ॥

तथा च ब्रह्मतर्के
गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः ।
न विष्णोर्न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥ १,५.२१० ॥

श्रीविष्णुपुराणे (१.९.४३)
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ १,५.२११ ॥

तथा च तत्रैव (६.५.७९)
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ १,५.२१२ ॥

पाद्मे च (६.२५५.३९४०)
योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगद्ईश्वरः ।
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ॥ १,५.२१३ ॥

प्रथमे च (१.१६.३०)
एते चान्ये च भगवन्नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ १,५.२१४ ॥
इति ।

अतः कृष्णोऽप्राकृतानां गुणानां नियुतायुतैः ।
विशिष्टोऽयं महाशक्तिः पूर्णानन्दघनाकृतिः ॥ १,५.२१५ ॥
ब्रह्मनिधर्मकं वस्तु निर्विशेषममूर्तिकम् ।
इति सूर्योपमस्यास्य कथ्यते तत्प्रभोपमम् ॥ १,५.२१६ ॥

तथा च श्रीगीतासु (१४.२६२७)
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ १,५.२१७ ॥
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १,५.२१८ ॥
इति ।

अत्र कारिकाः
स ब्रह्मभावमासाद्य लीलाविग्रहमाश्रयम् ।
मानानन्दघनं प्रेम्णा भजेदित्ययमाश्रयः ॥ १,५.२१९ ॥
भक्तेरव्यभिचारायाः प्रेमसेवैव यत्फलम् ।
केवलं ब्रह्मभावस्तु विद्वेषेणापि लभ्यते ॥ १,५.२२० ॥
ननु ते यादवस्यास्य भजनाद्ब्रह्मता कथम् ।
इत्याह ब्रह्मणो हीति हि यतोऽहं पुरस्तव ॥
स्थितोऽयं विविधानन्दपूर्णचिद्घनविग्रहः ।
ब्रह्मणश्चित्स्वरूपस्य प्रतिष्ठा परमाश्रयः ।
रविस्तेजोघनाकारः करौघस्य यथा भवेत् ॥ १,५.२२१ ॥
अव्ययेनामृतेनेह नित्यमुक्तिरुदीर्यते ।
शाश्वतेन तु धर्मेण भगवद्धर्म उच्यते ॥ १,५.२२२ ॥
ऐकान्तिकसुखेनात्र प्रेमभक्तिरसोत्सवः ।
येन मोक्षसुखस्यापि तिरस्कारो विधीयते ॥ १,५.२२३ ॥

किं च ब्रह्मसंहितायाम् (५.४०)
यस्य प्रभा प्रभवतो जगद्अण्डकोटि
कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं
गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.२२४ ॥
इति ।

अत्र कारिके
निष्कलादिस्वरूपं तत्ब्रह्माण्डार्बुदकोटिषु ।
विभूतिभिर्धराद्याभिर्भिन्नं भेदमुपागतम् ॥
सदा प्रभावयुक्तस्य ब्रह्म यस्य प्रभा भवेत् ।
तं गोविन्दं भजामीति पद्यस्यार्थः स्फुटीकृतः ॥ १,५.२२५ ॥
ननु भोस्तव भावोऽयं ज्ञात एव मया ध्रुवम् ।
परव्योमपतेः शौरिरवतारस्तयोच्यते ॥ १,५.२२६ ॥
जन्मादिलीलाप्राकट्यातवतारतयाप्यसौ ।
प्रोक्तो विलास एव स्यात्सर्वोत्कर्षातिभूमतः ॥ १,५.२२७ ॥
यः परव्योमनाथः स्यादसमानोर्धवैभवः ।
श्रुतिस्मृतिमहातन्त्रवर्णितोत्कर्षसौष्ठवः ।
लोकसृष्टेः पुरा ब्राह्मे कल्पे यः परमेष्ठिने ।
महावैकुण्ठलोकस्थं स्वमात्मानमदर्शयत् ॥ १,५.२२८ ॥

तथा हि श्रीद्वितीयस्कन्धे (२.९.९१६)

तस्मै स्वलोकं भगवान् सभाजितः
सन्दर्शयामास परं न यत्परम्
व्यपेतसङ्क्लेशविमोहसाध्वसं
स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ १,५.२२९ ॥

प्रवर्तते यत्र रजस्तमस्तयोः
सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥ १,५.२३० ॥

श्यामावदाताः शतपत्रलोचनाः
पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणि
प्रवेकनिष्काभरणाः सुवर्चसः ।
प्रवालवैदूर्यमृणालवर्चसः
परिस्फुरत्कुण्डलमौलिमालिनः ॥ १,५.२३१ ॥

भ्राजिष्णुभिर्यः परितो विराजते
लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमानः प्रमदोत्तमाद्युभिः
सविद्युदभ्रावलिभिर्यथा नभः ॥ १,५.२३२ ॥

श्रीर्यत्र रूपिण्युरुगायपादयोः
करोति मानं बहुधा विभूतिभिः ।
प्रेङ्खं श्रिता या कुसुमाकरानुगैर्
विगीयमाना प्रियकर्म गायती ॥ १,५.२३३ ॥

ददर्श तत्राखिलसात्वतां पतिं
श्रियः पतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभिः
स्वपार्षदाग्रैः परिसेवितं विभुम् ॥

भृत्यप्रसादाभिमुखं दृग्आसवं
प्रसन्नहासारुणलोचनाननम् ।
किरीटिनं कुण्डलिनं चतुर्भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया ॥

अध्यर्हणीयासनमास्थितं परं
वृतं चतुःषोडशपञ्चशक्तिभिः ।
युक्तं भगैः स्वैरितरत्र चाध्रुवैः
स्व एव धामन् रममाणमीश्वरम् ॥ १,५.२३४ ॥
इति ।

अत्र कारिकाः
यद्यतः परमुत्कृष्टं पदमन्यन्न हि क्वचित् ।
सङ्क्लेशाः पञ्चविद्याद्या विमोहो निर्विवेकता ॥
साध्वसं पाततो भीतिर्न सन्त्येतानि यत्र तम् ।
स्वदृष्टमात्मनः साक्षात्कारस्तद्वद्भिरीडितम् ॥ १,५.२३५ ॥

रजस्तमश्च नो यत्र सत्त्वं सध्र्यक्तयोर्न च ।
गुणा यत्र प्रकृतिजा न सत्नीति प्रदर्शितम् ॥
न कालविक्रमो यत्र सर्वविध्वंसकारिता ।
परं मूलमनर्थानां यत्र मायैव नास्ति हि ॥
अपरे तत्र किमुत विकारा महद्आदयः ।
अतो वैकुण्ठलोकस्य कथिता नित्यसिद्धता ॥ १,५.२३६ ॥

हरेरनुव्रता यत्र श्यामारुणहरित्सिताः ।
तत्तद्वर्णमुपास्येशं तत्सारूप्यमुपागताः ।
अथवा नित्यसिद्धत्वात्तद्रुचामप्यनादिता ॥ १,५.२३७ ॥

श्रीः सम्पद्रूपिणी मूर्ता यत्र पद्मांशसम्भवा ।
मानं सेवां रचयति विविधाभिर्विभूतिभिः ॥
कुसुमाकारशब्देन ऋतूनामधिपो मतः ।
तेन तस्यानुगैर्ग्रीष्मवर्षाद्यैरृतुभिश्च या ॥
विशेषाद्गीयमानापि प्रियकर्मैव गायती ।
शत्रन्तेन पदेनात्र तिङ्अन्ता लक्षिता क्रिया ॥ १,५.२३८ ॥

तत्रेश्वरं ददर्शासौ कथम्भूतं दृग्आसवम् ।
सान्द्रानन्दैर्दृशां सुष्ठु मादकत्वात्स आसवः ॥ १,५.२३९ ॥
पीतांशुकपदेनास्य ध्वन्यते श्यामवर्णता ॥ १,५.२४० ॥
अध्यर्हणीयशब्देन महायोगाख्यपीठकम् ।
श्रीपाद्मोत्तरखण्डोक्तमत्रैवाग्रे प्रवक्ष्यते ॥ १,५.२४१ ॥

चतस्रो ह्लादिनीकीर्तिकरुणातुष्टयः स्मृताः ।
शक्तयः षोडशात्रैव पूर्यमेव प्रदर्शिताः ॥ १,५.२४२ ॥
विद्यायाः पञ्चपर्वाणि साङ्ख्यादीन्यत्र पञ्च च ॥ १,५.२४३ ॥

तानि पञ्चरात्रे
साङ्ख्ययोगौ तु वैराग्यं तपो भक्तिश्च केशवे ।
पञ्चपर्वेति विद्येयं यया विद्वान् हरिं विशेत् ॥ १,५.२४४ ॥
इति ।

इत्येताभिर्वृतं पञ्चविंशत्या शक्तिभिः सदा ।
भगैरैश्वर्यधर्माद्यैः स्वैरसाधारणोदयैः ॥
इतरत्र विरिञ्च्य्आदावध्रुवैरस्स्थिरैः कृशैः ।
स्व एव धाम्नि वैकुण्ठे रतिं विदधतं सदा ।
किं वा स्वरूपभूतत्वात्श्रियस्तस्याः स्वधामता ॥ १,५.२४५ ॥

तथा च भार्गवतन्त्रे
शक्तिशक्तिमतोश्चापि न विभेदः कथञ्चन ।
अविभिन्नापि स्वेच्छादिशब्दैरपि विभाष्यते ॥
इति ॥ १,५.२४६ ॥

किं च पाद्मोत्तरखण्डे (६.२५५.५७६४)

प्रधानपरमव्योम्नोरन्तरे विरजा नदी ।
वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥ १,५.२४७ ॥
तस्याः पारे परव्योम्नि त्रिपाद्भूतं सनातनम् ।
अमृतं शाश्वतं नित्यमनन्तं परं पदम् ॥
शुद्धसत्त्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ॥
अनेककोटिसूर्याग्नितुल्यवर्चसमव्ययम् ॥
सर्ववेदमयं शुभ्रं सर्वप्रलयवर्जितम् ।
हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखाह्वयम् ॥
समानाधिक्यरहितमाद्य्अन्तरहितं शुभम् ॥
तेजसात्य्अद्भुतं रम्यं नित्यमानन्दसागरम् ।
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः ॥ १,५.२४८ ॥
तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् ।
न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ॥ १,५.२४९ ॥

तत्रैवाग्रे (६.२५६.९२१)
श्रीशार्ङ्गिभक्तिसेवैकरसभोगविवर्धिताः ।
महात्मनो महाभागा भगवत्पादसेवकाः ॥ १,५.२५० ॥
तद्विष्णोः परमं धाम यान्ति प्रेमसुखप्रदम् ।
नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् ।
प्रकारैश्च विमानैश्च सौधै रत्नमयैर्वृतम् ॥ १,५.२५१ ॥
तन्मध्ये नगरी दिव्या सायोन्ध्येति प्रकीर्तिता ।
मणिकाञ्चनचित्राढ्यप्राकारैस्तोरणैर्वृता ।
चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता ॥ १,५.२५२ ॥
चण्डादिद्वारपालैश्च कुमुदाद्यैः सुरक्षिता ।
चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ ।
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ॥ १,५.२५३ ॥
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।
एते दिक्पतयः प्रोक्ताः पूर्यामत्र शुभानने ॥ १,५.२५४ ॥
कोटिवैश्वानरप्रख्यगृहपङ्क्तिर्भिरावृता ।
आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता ॥ १,५.२५५ ॥
अन्तःपुरस्तु देवस्य मध्ये पूर्या मनोहरम् ।
मणिप्राकारसंयुक्तं वरतोरणशोभितम् ।
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्वृतम् ।
दिव्यापसरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥ १,५.२५६ ॥
मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् ।
माणिक्यस्तम्भसहस्रजुष्टं रत्नमयं शुभम् ।
नित्यमुक्तैः समाकीर्णं सामगानोपशोभितम् ॥ १,५.२५७ ॥
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् ।
धर्मादिदैवतैर्नित्यैर्वृतं वेदमयात्मकैः ।
धर्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः ॥ १,५.२५८ ॥

तत्रैव (६.२५६.२३५४)
वसन्ति मध्यमे तत्र वह्निसूर्यसुधांशवः ।
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः ॥
छन्दांसि सर्वमन्त्राश्च पीठरूपत्वमास्थिताः ।
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् ॥ १,५.२५९ ॥
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् ।
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने ।
ईश्वर्या सह देवेशस्तत्रासीनः परः पुमान् ॥ १,५.२६० ॥
इन्दीवरदलश्यामं सूर्यकोटिसमप्रभः ।
युवा कुमारः स्निग्धाङ्गः कोमलावयवैर्युतः ॥ १,५.२६१ ॥
फुल्लरक्ताम्बुजनिभकोमलाङ्घ्रिकराब्जवान् ।
प्रबुद्धपुण्डरीकाक्षः सुभ्रूलतायुगाङ्कितः ॥ १,५.२६२ ॥
सुनासः सुकपोलाढ्यः सुशोभमुखपङ्कजः ।
मुक्ताफलाभदस्ताढ्यः सुस्मिताधरविद्रुमः ॥ १,५.२६३ ॥
परिपूर्णेन्दुसङ्काशसुस्मिताननपङ्कजः ।
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजितः ॥ १,५.२६४ ॥
सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितः ।
मन्दारपारिजाताढ्यः कवरीकृतकेशवान् ॥ १,५.२६५ ॥
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः ।
हारस्वर्णस्रगासक्तकम्बुग्रीवविराजितः ॥ १,५.२६६ ॥
सिंहस्कन्धनिभैः प्रोच्चैः पीनैरंसैर्विराजितः ।
पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ॥ १,५.२६७ ॥
अङ्गुलीयैश्च कटकैः केयूरैरुपशोभितः ।
बालार्ककोटिसङ्काशैः कौस्तुभाद्यैः सुभूषणैः ।
विराजितमहावक्षा वनमालाविभूषितः ॥ १,५.२६८ ॥
विधातुर्जननस्थाननाभिपङ्कजशोभितः ।
बालातपनिभश्लक्ष्णपीतवस्त्रसमन्वितः ॥ १,५.२६९ ॥
नानारत्नविचित्राङ्घ्रिकटकाभ्यां विराजितः ।
सज्योत्स्नचन्द्रप्रतिमनखपङ्क्तिभिरावृतः ॥ १,५.२७० ॥
कोटिकन्दर्पलावण्यः सौन्दर्यनिधिरच्युतः ।
दिव्यचन्दनलिप्ताङ्गो वनमालाविभूषितः ॥
शङ्खचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ।
वरदाभयहस्ताभ्यामितराभ्यां तथैव च ॥ १,५.२७१ ॥
वामाङ्कसंस्थिता देवी महालक्ष्मीर्महेश्वरी ।
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा ॥ १,५.२७२ ॥
सर्वलक्षणसम्पन्ना यौवनारम्भविग्रहा ।
रत्नकुण्डलसंयुक्ता नीलाकुञ्चितशीर्षजा ॥ १,५.२७३ ॥
दिव्यचन्दनलिप्ताङ्गी दिव्यपुष्पोपशोभिता ।
मन्दारकेतकीजातीपुष्पाञ्चितसुकुन्तला ॥ १,५.२७४ ॥
सुभ्रूः सुनासा सुश्रोणी पीनोन्नतपयोधरा ।
परिपूर्णेन्दुसङ्काशसुस्मिताननपङ्कजा ॥ १,५.२७५ ॥
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विराजिता ।
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ॥ १,५.२७६ ॥
हस्तैश्चतुर्भिः संयुक्ता कनकाम्बुजभूषिता ।
नानारत्नविचित्राढ्यकनकाम्बुजमालया ।
हारकेयूरकटकैरङ्गुरीयैश्च भूषिता ॥ १,५.२७७ ॥
भुजयुग्मधृतोदग्रपद्मयुग्मविराजिता ।
गृहीतमातुलुङ्गाख्यजाम्बूनदकराञ्चिता ॥ १,५.२७८ ॥
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः ।
मोदते परमव्योम्नि शाश्वते सर्वदा प्रभुः ॥ १,५.२७९ ॥
पार्श्वयोरवनीलीले समासीने शुभानने ।
अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ॥ १,५.२८० ॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च ।
प्रह्वी सत्या तथेशाना महिष्यः परमात्मनः ॥
गृहीत्वा चामरान् दिव्यान् सुधाकरसमप्रभान् ।
सर्वलक्षणसम्पन्ना मोदन्ते पतिमच्युतम् ॥ १,५.२८१ ॥
दिव्याप्सरोगणाः पञ्चशतसङ्ख्याश्च योषितः ।
अन्तःपुरनिवासिन्यः सर्वाभरणभूषिताः ॥
पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः ।
सर्वलक्षणसम्पन्नाः शीतांशुसदृशाननाः ।
ताभिः परिवृतो राजा शुशुभे परमः पुमान् ॥ १,५.२८२ ॥
अनन्तविहगाधीशसेनान्य्आद्यैः सुरेश्वरैः ।
अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः ।
मोदते रमया सार्धं भोगैश्वर्यैः परः पुमान् ॥ १,५.२८३ ॥

अत्र कारिकाः
अर्थतः शब्दतश्चात्र यत्पुनः पुनरुच्यते ।
तद्असम्भायवस्तुत्वात्प्रतीत्यै हेतुवादिनाम् ॥ १,५.२८४ ॥
श्रीशनिश्वासरूपाणां वेदानां तत्र मूर्तता ।
ततस्तद्अङ्गतो जाताः स्वेदाः परमपावनाः ॥ १,५.२८५ ॥
त्रिपाद्विभूतेर्धामत्वात्त्रिपाद्भूतं तु तत्पदम् ।
विभूतिर्मायिकी सर्वा प्रोक्ता पादात्मिका यतः ॥ १,५.२८६ ॥
अमृतं सुष्ठु मधुरं शाश्वतस्तु मुहुर्नवम् ।
शुद्धसत्त्वस्तु तत्प्रोक्तं सत्त्वमप्राकृतं तु तत् ।
नित्याक्षरादिशब्दैस्तु षड्भावपरिवर्जनम् ॥ १,५.२८७ ॥

किं चानुत्थापितानामपि कारिकाः
आद्यमावरणं दिक्षु पूर्वादिषु किलाष्टसु ।
व्यूहैर्लक्ष्म्यादिसहितैर्वासुदेवादिभिर्मतम् ॥ १,५.२८८ ॥
पूर्यो लक्ष्म्याः सरस्वत्या रतेः कान्तेरनुक्रमात् ।
विदिक्षु परमव्योम्न आग्नेय्यादिषु कीर्तिताः ॥ १,५.२८९ ॥
केशवाद्यैरिह चतुर्विंशत्या तु द्वितीयकम् ।
अष्टासु किल काष्ठासु तेषां ज्ञेयं त्रयं त्रयम् ॥ १,५.२९० ॥
दशभिर्मत्स्यकूर्माद्यैर्दशदिक्षु तृतीयकम् ॥ १,५.२९१ ॥
सत्याच्युतानन्तदुर्गाविष्वक्सेनगजाननैः ।
शङ्खपद्मनिधिभ्यां च तुर्यमष्टासु दिक्ष्विदम् ॥ १,५.२९२ ॥
ऋग्वेदादिचतुष्केण सावित्र्या गरुडेन च ।
तथाधर्मसखाभ्यां च पञ्चमं पूर्ववन्मतम् ॥ १,५.२९३ ॥
शङ्खचक्रगदापद्मखड्गशार्ङ्गहलैस्तथा ।
मूषलेण च षष्ठं स्यादिन्द्राद्यै सप्तमं तथा ॥ १,५.२९४ ॥

साध्या मरुद्गणैस्चैव विश्वदेवास्तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये त्रिदिवौकसः ।
ते वै प्राकृतनाकेऽस्मिन्न नित्यास्त्रिदिवेश्वराः ॥ १,५.२९५ ॥

वासुदेवादिमूर्तीनां सप्ततेस्तु चतुर्युजः ।
लोकास्तु तावत्सङ्ख्याकाः परे धाम्नि चकासति ॥ १,५.२९६ ॥
त्रिषु पुंसोऽवतारेषु रुद्रात्पद्मभवात्तथा ।
भृग्वादिकृतनिर्धाराद्विष्णुरेव महत्तमः ॥
किं पुनः पुरुषस्तत्र वासुदेवोऽत्र किन्तराम् ।
तत्रापि किन्तमां सोऽयं महावैकुण्ठनायकः ॥ १,५.२९७ ॥
सदाशिवाख्यो यः शम्भुः स चैशान्यावृतिर्मता ॥ १,५.२९८ ॥
अतो ब्रुवेऽनयोः प्रायो वैलक्षण्यं द्वयोर्न हि ।
दीपोत्थदीपतुल्यत्वात्स्याद्विलासविलासिनोः ॥ १,५.२९९ ॥
मैवं वादीर्महावादिनधुना त्वमपेशलः ।
गहनैश्वर्यविज्ञानरसास्वादयोरसि ॥ १,५.३०० ॥
सर्ववेदान्ततः सारं वेदकल्पतरोः फलम् ।
श्रीभागवतमेवात्र प्रमाणं सर्वतो वरम् ॥ १,५.३०१ ॥

तथा हि श्रीतृतीये (३.२.२१)

स्वयं त्वसाम्यातिशयस्त्र्यधीशः
स्वाराज्यलक्ष्म्य्आप्तसमस्तकामः ।
बलिं हरद्भिश्चिरलोकपालैः
किरीटकोट्य्एडितपादपीठः ॥ १,५.३०२ ॥
इति ।

अत्र कारिकाः
विद्येते नान्यसाम्यातिशयौ यत्रेति विग्रहे ।
सर्वेभ्यस्तत्स्वरूपेभ्यः कृष्णोत्कर्षनिरूपणात् ।
आधिक्यं परमव्योमनाथादप्यस्य दर्शितम् ॥ १,५.३०३ ॥
स्वयंपदेन चास्यान्यनैरपेक्षमुदीरितम् ॥ १,५.३०४ ॥
रामोऽप्यधिकसाम्याभ्यां मुक्तधामेत्यवादि यत् ।
तत्र स्वयंपदाभावात्कृषेएनैक्येन तस्य तत् ।
नरलीलादिसाधर्म्यात्प्रेष्ठं रूपं तदस्य यत् ॥ १,५.३०५ ॥

तथा हि ब्रह्माण्डे श्रीकृष्णवाक्यम्
अन्तरङ्गस्वरूपा मे मत्स्यकूर्मादयस्त्वमी ।
सर्वात्मनायमत्रापि श्रीमद्दशरथात्मजः ॥ १,५.३०६ ॥
इति ।

स्वयं त्वसाम्यातिशयः कृष्णस्तु भगवान् स्वयम् ।
इत्यस्य परमैश्वर्यविशेषस्यानुवर्णने ।
पदस्य स्वयमित्यस्य द्विरुक्तिर्बोधयत्यसौ ।
कृष्णस्यान्यस्वरूपैक्याताधिक्यं नेति सर्वथा ॥ १,५.३०७ ॥
त्र्य्अधीश इति गोलोकमथुराद्वारकाभिधम् ।
यत्पदत्रितयं तस्य सोऽधिपत्वादधीश्वरः ।
प्रकृतीशविराड्अन्तर्यामिक्षीराब्धिशायिनाम् ।
त्रयाणामुपरीशोऽयं त्र्य्अधीश इति वा स्मृतः ॥ १,५.३०८ ॥

स्वाराज्यलक्ष्म्या तत्रापि प्राप्तसर्वसमीहितः ।
स्वेनात्मना स्वया वाङ्भूतया शक्तिवर्यया ।
राजतीति स्वराट्तस्य भावः स्वाराज्यमुच्यते ॥
तदेव लक्ष्मीः सर्वातिशायिनी सम्पदेतया ।
आप्ताः समस्ताः कामा यं कामाः प्रेष्ठार्थसिद्धयः ॥ १,५.३०९ ॥
चिरेति तु चिरायुष्का लोकपाः पद्मजादयः ।
तेषां किरीटकोटीभिर्मुकुटानां शतार्बुधैः ।
ईडिते संस्तुते पादपीठे यस्येति विग्रहः ॥ १,५.३१० ॥
हीरादिरत्नमुकुटैः पादपीटाभिघटनात् ।
जनितेन स्वनौघेन बाढमुत्प्रेक्षिता स्तुतिः ॥ १,५.३११ ॥
स्वस्वकर्मण्यवस्थित्या तैस्तैर्ब्रह्मादिलोकपैः ।
आज्ञापालनमेवास्य बलेर्हरणमुच्यते ॥ १,५.३१२ ॥
अथात्र प्रक्रिया ख्याता परुआण्येषा विलिख्यते ॥ १,५.३१३ ॥
ब्रह्माण्डानामनन्तानां प्रायो नानाविधात्मनाम् ।
वृन्दानि भगवच्छक्तौ विचित्राणि चकासति ॥ १,५.३१४ ॥
शतकोटिप्रमाणानि योजनानां तु कानिचित् ।
अजाण्डानि विराजन्ते शक्तिवैचित्र्यतो हरेः ॥ १,५.३१५ ॥
कानिचिच्च निखर्वेण तेषां पद्मायुतेन च ।
तत्परार्धशतेनापि विस्तृतानि तु कानिचित् ॥ १,५.३१६ ॥
मध्ये तेषामजाण्डेषु केषुचिद्विंशतिः कृता ।
भुवनानां च पञ्चाशत्कुत्रचित्सपततिस्तथा ।
शतं सहस्रमयुतं लक्षं क्वचन राजति ॥ १,५.३१७ ॥
ब्रह्माद्या लोकपास्तेषु नानारूपाश्चकासति ।
परमर्धिसहस्रेण सेव्यमानाः समन्ततः ॥
क्वचिदिन्द्रादयस्तेषु महाकल्पशतायुषः ।
महाकल्पपरार्धायुर्भाजो ब्रह्मादयस्तथा ॥ १,५.३१८ ॥
ते ते ब्रह्मसुरेशाद्याः कथिताश्चिरलोकपाः ।
स्तुताङ्घ्रिपीठः कृष्णोऽयं तेषां मुकुटकोटिभिः ॥ १,५.३१९ ॥
एकदा द्वारकापुर्यां सुधर्मायां मुरान्तके ।
विराजति तमागत्य द्वाराध्यक्षो न्यवेदयत् ।
दिदृक्ष्र्देवपादाब्जं ब्रह्मा द्वारेऽवतिष्ठते ॥ १,५.३२० ॥
आगतः कतमो ब्रह्मा द्वारीति परिपृच्छ तम् ।
इत्यच्युतगिरं शृण्वनेत्य द्वाराधिपः पुनः ॥
पृष्ट्वा ब्रह्मानमागत्य कृष्णाग्रे च तमब्रवीत् ।
आगतः सनकादीनां जनकश्चतुराननः ॥ १,५.३२१ ॥
आनयेति हरेर्वाचा तेन ब्रह्मा प्रवेशितः ।
प्रणमन् दण्डवत्पृष्टः कृष्णेन किमिहागतः ।
त्वमिति प्राह तं ब्रह्मा देवागमनकारणम् ।
वक्ष्ये पश्चाद्यदात्थाद्य ब्रह्मा करम इत्यदः ।
ज्ञातुमिच्छामि तन्नाथ ब्रह्मा नान्योऽस्ति मद्यतः ॥ १,५.३२२ ॥
अथ स्मित्वा मुकुन्देन द्वारवत्यां द्रुतं तदा ।
स्मृत्वा ब्रह्माण्डकोटिभ्यो लोकपालाः समागताः ।
अष्टवक्राश्चतुःषष्ठिवक्त्राः शतमुखास्तथा ।
सहस्रवक्त्रा लक्षास्याः कोटिवक्त्रा विरिञ्चयः ।
रुद्राश्च विंशतिमुखास्तथा पञ्चाशद्आननाः ।
शतवक्त्राः सहस्रास्या लक्षबाहुशिरोभृतः ॥
पुरन्दराश्च लक्षालक्षा नियुताक्षास्तथापरे ।
अपरे लोकपालाश्च विविधाकृतिभूषणाः ॥
कृष्णस्य पुरतः प्राप्ताः पादपीठमवानमन् ।
तान् दृष्ट्वा विस्मयात्तस्मिनुन्ममाद चतुर्मुखः ॥ १,५.३२३ ॥

किं च
विष्णुधर्मोत्तरे प्रोक्तं सर्वे ब्रह्माण्डमण्डलाः ।
देशतो जीवतश्चापि तुल्यरूप भवन्त्यमी ॥ १,५.३२४ ॥

तथा हि
एकरूपास्तथैवाण्डाः सर्व एव नरेश्वर ।
तुल्यदेशविभागाश्च तुल्यजन्तव एव च ॥ १,५.३२५ ॥
इति ।

विरोधेऽत्र समुत्पन्ने समाधानं विधीयते ॥ १,५.३२६ ॥

यतः श्रीकौर्मे
विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदिष्यते ।
यथाविरुद्धता च स्यात्तथार्थः कल्प्यते तयोः ॥ १,५.३२७ ॥
इति ।

युगपत्सकलाण्डानि जातु संहरते हरिः ॥ १,५.३२८ ॥

तथा हि श्रीविष्णुधर्मोत्तरे (१.७७.९)
अनन्तानि तवोक्तानि यान्यण्डानि मया पुरा ।
सर्वाणि तानि संहृत्य समकालं जगत्पतिः ।
प्रकृतौ तिष्ठति तदा सा रात्रिस्तस्य कीर्तिता ॥ १,५.३२९ ॥
इति ।

अतः संहृत्य सर्वाणि पुनरण्डान्यसौ सृजन् ।
विषमाणि सृजेज्जातु कदाचिच्च समान्यपि ॥ १,५.३३० ॥
इत्यौपोद्घातिकं प्रोच्य प्रकृतं परिलिख्यते ॥ १,५.३३१ ॥

किं च तत्रैव (३.२.१२)
यन्मर्त्यलीलौपयिकं स्वयोग
मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषणभूषणाङ्गम् ॥ १,५.३३२ ॥
इति ।

अत्र कारिकाः
यद्बिम्बं मर्त्यलीलानां भवेदौपायिकं परम् ।
पूर्वपद्यस्थितं बिम्बं यत्पदेनानुकृष्यते ॥ १,५.३३३ ॥
विविधाश्चर्यमाधुर्यवीर्यैश्वर्यादिसम्भवात् ।
स्वस्य देवादिलीलाभ्यो मर्त्यलीला मनोहराः ॥ १,५.३३४ ॥
ध्वन्यते बिम्बशब्देन सद्गुणावलिशालिनाम् ।
सकलस्वस्वरूपाणां मूलत्वं तस्य सर्वथा ॥ १,५.३३५ ॥
अतस्तदेव निःशेषगुणरूपास्पदत्वः ।
विचित्रनरलीलानामतियोग्यमुदीर्यते ॥ १,५.३३६ ॥
स्वयोगमाया चिच्छक्तिर्बलं तस्याः समर्थता ।
एतद्दर्शयता साक्षात्कुर्वता प्रकटीकृतम् ॥
अहो मदीयचिच्छक्तेः प्रभावं पश्यताद्भुतम् ।
दिव्यातिदिव्यलोकेषु यद्गन्धोऽपि न सम्भवेत् ।
तज्जगन्मोहनं रूपं ययाविष्कृतमीदृशम् ।
स्वयोगमायेत्याद्यस्य भावोऽयमिति गम्यते ॥ १,५.३३७ ॥
स्वस्यात्मनोऽपि परमव्योमेशाद्यात्मदर्शिनः ।
विस्मापनं नअवोद्दामचमत्कृतिकरं परम् ॥ १,५.३३८ ॥
सौभगर्धिर्महाश्चर्यसौन्दर्यपरमावधिः ।
तस्याः परं पदं नित्योत्कर्षसम्पद्वरास्पदम् ॥ १,५.३३९ ॥
यत्तु कौस्तुभमीनेन्द्रकुण्डलाद्यं हि भूषणम् ।
तस्यापि भूषणान्यङ्गान्यस्येति सति विग्रहे ।
तस्य श्रीविग्रहस्येदमसमोर्धत्वमीरितम् ॥ १,५.३४० ॥
सच्चिद्आनन्दसान्द्रत्वात्द्वयोरेवाविशेषतः ।
औपचारिक एवात्र भेदोऽयं देहदेहिनोः ॥ १,५.३४१ ॥

तथा च श्रीकौर्मे
देहदेहिभिदा चात्र नेश्वरे विद्यते क्वचित् ॥ १,५.३४२ ॥
इति ।

किं च श्रीदशमे श्रीपुरस्त्रीणामुक्तौ (१०.४४.१४)

गोप्यस्तपः किमचरन् यदमुष्य रूपं
लावण्यसारमसमोर्धमनन्यसिद्धम् ।
दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम्
एकान्तधाम यशसः श्रिय ऐश्वरस्य ॥ १,५.३४३ ॥
इति ।

तथा हि श्रीबलदेवं प्रति श्रीकृष्णोक्तौ (१०.१५.८)

धन्येयमद्य धरणी तृणवीरुधस्त्वत्
पादस्पृशो द्रुमलताः करजाभिमृष्टाः ।
नद्योऽद्रयः खगमृगाः सदयावलोकैर्
गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥ १,५.३४४ ॥
इति ।

अत्र कारिकाः
श्रीवृन्दावनतद्वासिमाधुर्योल्लोलचेतसा ।
तत्स्तवे हरिणारब्धे निजोकर्षावसायिनम् ।
तमालोच्य ततो राममपदिश्य व्यधायि सः ॥ १,५.३४५ ॥
अतोऽत्र नैव तात्पर्यं रामोत्कर्षानुवर्णने ।
सख्यभावात्तदा रामे नर्मणैवेदमीरितम् ॥ १,५.३४६ ॥
भुजान्तरं तु वक्षस्ते तेन धन्या व्रजाञ्गनाः ।
यत्स्पृहा वक्षसे यस्मै श्रीरप्याचरति स्पृहाम् ॥ १,५.३४७ ॥
यत्स्पृहैव परं तस्या न तु तत्प्राप्तियोग्यता ॥ १,५.३४८ ॥
सदा वक्षःस्थलस्थापि वैकुण्टेशितुरिन्दिरा ।
कृष्णोरःस्पृहयास्यैव रूपं विवृणुतेऽधिकम् ॥ १,५.३४९ ॥
पौराणिकमुपाख्यानमत्र सङ्क्षिप्य लिख्यते ॥ १,५.३५० ॥
श्रीः प्रेक्ष्य कृष्णसौन्दर्यं तत्र लुब्धा ततस्तपः ।
कुर्वतीं प्राह तां कृष्णः किं ते तपसि कारणम् ॥
विजिहीर्षे त्वया गोष्ठे गोपीरूपेति साब्रवीत् ।
तद्दुर्लभमिति प्रोक्ता लक्ष्मीस्तं पुनरब्रवीत् ॥
स्वर्णरेखेव ते नाथ वस्तुमिच्छामि वक्षसि ।
एवमस्त्विति सा तस्य तद्रूपा वक्षसि स्थिता ॥ १,५.३५१ ॥

यथोक्तं श्रीदशमे नागपत्नीभिः (१०.१६.३६)
यद्वाञ्छया श्रीर्ललनाचरत्तपो
विहाय कामान् सुचिरं धृतव्रता ॥ १,५.३५२ ॥
इति ।

नाम्नोऽपि महिमेतस्य सर्वतोऽधिक ईर्यते ॥ १,५.३५३ ॥

यथा श्रीब्रह्माण्डे

सहस्रनाम्नां पुण्यानां त्रिरावृत्य तु यत्फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ १,५.३५४ ॥

स्कान्दे च
मधुरमधुरमेतन्मङ्गलं मङ्गलानां
सकलनिगमवल्लीसत्फलं चित्स्वरूपम् ।
सकृदपि परिगीतं श्रद्धया हेलया वा
भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥
इति ॥ १,५.३५५ ॥

अतः स्वयंपदादिभ्यो भगवान् कृष्ण एव हि ।
स्वयंरूप इति व्यक्तं श्रीमद्भागवतादिषु ॥ १,५.३५६ ॥

यथोक्तं श्रीब्रह्मसंहितायां (५.१, ५.३९)
ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १,५.३५७ ॥

रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु
कृष्णः स्वयं समभवत्परमः पुमान् यो
गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.३५८ ॥
इति ।

तस्मात्परमवैकुण्ठनाथोऽप्यस्य विलासकः ॥ १,५.३५९ ॥
अतो मिलित्वा श्रुतिभिः स्वसारो यः स्तवः कृतः ।
तत्तात्पर्यकृती कृष्णमेव देवर्षिरानमत् ॥ १,५.३६० ॥
नमस्तस्मै भगवते कृष्णाय इत्यादि ॥ १,५.३६१ ॥
(१०.८७.४६)

नन्वेष द्वापरस्यान्ते प्रादुर्भूतो यदूद्वहः ।
स वैकुण्ठेश्वरोऽहादिस्तद्विलासः कथं भवेत् ॥ १,५.३६२ ॥
मैवमस्यादिशून्यस्य जन्मलीलाप्यनादिका ।
स्वच्छन्दतो मुकुन्देन प्राकट्यं नीयते मुहुः ॥ १,५.३६३ ॥

तथा च श्रीतृतीये (३.२.१५)
स्वशान्तरूपेष्वितरैः स्वरूपैर्
अभ्यर्द्यमानेष्वनुकम्पितात्मा ।
परावरेशो महद्अंशयुक्तो
ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १,५.३६४ ॥
इति ।

अत्र कारिकाः
स्वे भक्ताः स्वे च ते शान्तरूपाश्चेत्यत्र विग्रहः ।
शान्तिस्तन्निष्ठता बुद्धेः शान्तास्तन्निष्ठबुद्धयः ॥ १,५.३६५ ॥
तेषु सूरसुताद्येषु नन्दादिषु च साधुषु ।
इतरैस्तद्विरुद्धैस्तु कंसाद्यैरसुरादिभिः ॥
स्वरूपैः सुष्ठ्वरूपैरित्यरूपत्वं विरूपता ।
घोरातिविकटाकारैरित्यर्थः स्फुटमीरितः ॥ १,५.३६६ ॥
अभ्यर्द्यमानेष्वभितः क्रियमाणमहारित्षु ।
अनुकम्पायुतमनाः परे मायान्वयोज्झिताः ।
गोलोकमुख्या अवरे मायिकाजाण्डमण्डलाः ।
परेषामवरेषां च तेषामीशोऽधिनायकः ॥ १,५.३६७ ॥
स्युर्महान्तोऽतिपरममहत्तमतया स्मृताः ।
ते परव्योमनाथश्च व्यूहाश्च वसुसङ्ख्यकाः ॥ १,५.३६८ ॥
वासुदेवादयो व्यूहाः परव्योमेश्वरस्य ये ।
तेभ्योऽप्युत्कर्षभाजोऽमी कृष्णव्यूहाः सतां मताः ॥
इत्येते परमव्योमनाथव्यूहैः सहैकताम् ।
स्वविलासैरिहाभ्येत्य प्रादुर्भावमुपागताः ॥ १,५.३६९ ॥
अंशास्तस्यावतारा ये प्रसिद्धाः पुरुषादयः ।
तथा श्रीजानकीनाथनृषिंहक्रोडवामनाः ।
नारायणो नरसखा हयशीर्षाजितादयः ॥ १,५.३७० ॥
एभिर्युक्तः सदा योगमवाप्ययनवस्थितः ॥ १,५.३७१ ॥
अतो वृन्दावने तत्तल्लीलाप्रकटतेक्षते ॥ १,५.३७२ ॥
वैकुण्ठेश्वरलीलात्र दर्शिता या विरिञ्चये ।
सेश्वराणामजाण्डानां कोटिर्वृन्दावनेऽद्भुता ।
सैव ज्ञेया यतः स्वांशद्वारैवासौ प्रकाशिता ॥ १,५.३७३ ॥
वासुदेवादिलीलास्तु मथुरा द्वारकादिषु ।
तत्तद्रूपैर्व्रजान्तस्तु बाल्येहाभिश्च दर्शिताः ।
यथा श्रीदाम्नि तार्क्ष्यत्वं प्राप्ते सोऽपि चतुर्भुजः ।
आदित्येष्वथ लब्धेषु बभौ द्वादशभिर्भुजैः ॥ १,५.३७४ ॥
तथा साङ्कर्षणी लीला दैत्यसंहारकापि च ।
मूर्तयो माथुरे भान्ति श्रीप्रद्युम्न्¸अनिरुद्धयोः ।
याः श्रीगोपालतापन्यां वाराहादिषु च श्रुतः ॥ १,५.३७५ ॥
एवं पुरुषलीलानां प्राकट्यमिह माथुरे ।
अनन्तशायिरूपाभिः क्रियते सुष्ठु मूर्तिभिः ॥ १,५.३७६ ॥
यदा यदा च सा लीला कृष्णेन प्रकटीकृता ।
भव्वेत्तत्तद्उपाख्यानं पुराणेष्विति विश्रुतम् ॥ १,५.३७७ ॥
यानि रामादिरूपाणि प्रादुश्चक्रे स्वकेलिषु ।
तान्याधिष्ठानरूपेण राजन्तेऽद्यापि माथुरे ॥ १,५.३७८ ॥
गोपरार्धपयःपूरैर्जनितः क्षीरवारिधिः ।
ममन्थाजितरूपस्तं गोपैर्देवासुरीकृतैः ॥ १,५.३७९ ॥

अतेव ब्रह्माण्डे
यो वैकुण्ठे चतुर्बाहुर्भगवान् पुरुषोत्तमः
य एव श्वेतद्वीपेशो नरो नारायणश्च यः ।
स एव वृन्दावनभूविहारी नन्दनन्दनः ॥ १,५.३८० ॥
एतस्यैवापरेऽनन्ता अवतारा मनोहराः ।
महाग्नेरिह यद्वत्स्युरुल्काः शतसहस्रशः ।
तत्रैव लीना एकत्वं व्रजेयुस्ते हरौ तथा ॥ १,५.३८१ ॥
इति ।

इति सिद्धा प्रभोरस्य महद्अंशैस्तु युक्तता ॥ १,५.३८२ ॥
अतेव पुराणादौ केचिन्नरसख्यात्मताम् ।
महेन्द्रानुजतां केचित्केचित्क्षीराब्धिशायिताम् ।
सहस्रशीर्षतां केचित्केचिद्वैकुण्ठनाथताम् ।
ब्रूयुः कृष्णस्य मुनयस्तत्तद्वृत्तान्तगामिनः ॥ १,५.३८३ ॥

उपोद्घातं समाप्याथ प्रकृतं लिख्यते पुनः ॥ १,५.३८४ ॥
अजो जन्मविहीनोऽपि जातो जन्माविराचरत् ॥ १,५.३८५ ॥
नन्वेकस्य किलाजत्वं जन्मित्वं च विरुध्यते ।
इत्याशङ्क्याह भगवानचिन्त्यैश्वर्यवैभवः ॥ १,५.३८६ ॥
तत्र तत्र यथा वह्निस्तेजोरूपेण सन्नपि ।
जायते मणिकाष्ठादेर्हेतुं कञ्चिदवाप्य सः ॥
अनादिमेव जन्मादिलीलामेव तथाद्भुतम् ।
हेतुना केनचित्कृष्णः प्रादुष्कुर्यात्कदाचन ॥ १,५.३८७ ॥
स्वलीलाकीर्तिविस्तारात्लोकेष्वनुजिघृक्षुता ।
अस्य जन्मादिलीलानां प्राकट्ये हेतुरुत्तमः ॥ १,५.३८८ ॥
तथा भयङ्करतरैः पीड्यमानेषु दानवैः ।
प्रियेषु करुणाप्यत्र हेतुरित्युत्तमेव हि ॥ १,५.३८९ ॥
भूमिभाआपहाराय ब्रह्माद्यैस्त्रिदशेश्वरैः ।
अभ्यर्थनं तु यत्तस्य तद्भवेदानुषङ्गिकम् ॥ १,५.३९० ॥
चेदद्यापि दिदृक्षेरनुत्कण्ठार्ता निजप्रियाः ।
तां तां लीलां ततः कृष्णो दर्शयेत्तान् कृपानिधिः ॥ १,५.३९१ ॥
कैरपि प्रेमवैवश्यभाग्भिर्भागवतोत्तमैः ।
अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥ १,५.३९२ ॥
किं चास्य पार्षदादीनामप्युक्ता नित्यमूर्तिता ।
तस्येश्वरेशितुर्नित्य्मूर्तित्वे का विचित्रता ॥ १,५.३९३ ॥
तथापि शुष्कवादैकनिष्ठानां हेतुवादिनाम् ।
तुष्णीम्भावाय वचनं पुराणादेर्विलिख्यते ॥ १,५.३९४ ॥

तथा हि, श्रीभागवते ब्रह्मस्तुतौ (१०.१४.२२)
त्वय्येव नित्यसुखबोधतनावनन्ते
मायातुद्यदपि यत्सदिवावभाति ॥ १,५.३९५ ॥

श्रीब्रह्माण्डे च
अनादेयमहेयं च रूपं भगवतो हरेः ।
आविर्भावतिरोभावावस्योक्ते ग्रहमोचने ॥ १,५.३९६ ॥

श्रीबृहद्वैष्णवे
नित्यावतारो भगवान्नित्य्मूर्तिर्जगत्पतिः ।
नित्यरूपो नित्यगन्धो नित्यैश्वर्यसुखानुभूः ॥ १,५.३९७ ॥

पाद्मे श्रीव्यासाम्बरीषसंवादे श्रीकृष्णं प्रति श्रीव्यासवचनम् (४.७३.१२३)

त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ।
यत्तत्सत्यं परं ब्रह्म जगद्योनिं जगत्पतिम् ।
वदन्ति वेदशिरसश्चक्षुषं नाथ मेऽस्तु तत् ॥ १,५.३९८ ॥

श्रीकृष्णवाक्यम् (ড়द्मড়् ४.७३.१७१९)
पश्य त्वं दर्शयिष्यामि स्वरूपं वेदगोपितम् ।
ततोऽपश्यमहं भूप बालं कालाम्बुदप्रभम् ।
गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ।
कदम्बमूल आसीनं पीतवाससमच्युतम् ॥ १,५.३९९ ॥

तत्रैवाग्रे (४.७३.२३२५)
ततो मामाह भगवान् वृन्दावनचरः स्वयम् ।
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ।
निष्कलं निष्क्रियं शान्तं सच्चिद्आनन्दविग्रहम् ।
पूर्णं पद्मपलाशाक्षं नातः परतरं मम ॥ १,५.४०० ॥
इदमेव वदन्येते वेदाः कारणकारणम् ।
सत्यं व्यापि परानन्दं चिद्घनं शाश्वतं शिवम् ॥ १,५.४०१ ॥

श्रीवासुदेवोपनिषदि (३.५)
मद्रूपमद्वयं ब्रह्म मध्याद्य्अन्तविवर्जितम् ।
स्वप्रभं सच्चिद्आनन्दं भक्त्या जानाति चाव्ययम् ॥ १,५.४०२ ॥
इति ।

नन्वरूपः कृष्णो दृश्यो मायिकरूपतः ॥ १,५.४०३ ॥

तथापि मोक्षधर्मे श्रीभगवद्वचनं यथा (ंBह्१२.३२६.४२३)
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते ।
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः ॥ १,५.४०४ ॥
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि ॥ १,५.४०५ ॥
इति ।

तथा च पाद्मे
अनामरूप एवायं भगवान् हरिरीश्वरः ।
अकर्तेति च यो वेदैः स्मृतिभिश्चाभिधीयते ॥ १,५.४०६ ॥
इति ।

अत्र समाधानं यथा श्रीवासुदेवाध्यात्मे
अप्रसिद्धेस्तद्गुणानामनामासौ प्रकीर्तितः ।
अप्राकृतत्वादरूपस्याप्यरूपोऽसावुदीर्यते ॥
सम्बन्धेन प्रधानस्य हरेर्नास्त्येव कर्तृता ।
अकर्तारमतः प्राहुः पुराणं तं पुराविदः ॥ १,५.४०७ ॥
इति ।

अतश्च मोक्षधर्मीयवचनं योग्यमेव तत् ॥ १,५.४०८ ॥

तथा हि
रूपीति हेतोर्दृश्येत यथैव प्राकृतो जनः ।
तथासौ दृश्यत इति त्वया मा स्म विचार्यताम् ॥ १,५.४०९ ॥
इत्युक्त्वा स्वस्य रूपित्वेऽप्यदृश्यत्वमुदीरितम् ।
ततो निजस्वरूपस्याप्राकृतत्वं च दर्शितम् ॥ १,५.४१० ॥
तद्दर्शने त्वकुण्ठात्मा ममेच्छैव च कारणम् ।
इत्याहेच्छन्मुहूर्तादित्यर्धपद्यं स्वयं पुनः ।
नश्येयमित्यदृश्यः स्यां यतो नशिरदर्शने ॥ १,५.४११ ॥
तथापि भूतगुणवत्त्वेन मां त्वं यद्ईक्षसे ।
एषा माया मया सृष्टा नैवं त्वं ज्ञातुमर्हसि ॥ १,५.४१२ ॥
मायाशब्देन कुत्रापि चिच्छक्तिरभिधीयते ॥ १,५.४२३ ॥

चतुर्वेदशिखायां
स्वरूपभूतया नित्यशक्त्या मायाख्यया युतः ।
अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥
इत्येषा दर्शिता मध्वाचार्यैर्भाष्ये निजे श्रुतिः ॥ १,५.४१४ ॥

तत्र स्वेच्छैकप्रकाशत्वं मोक्षधर्मे (ंBह्१२.३२३.११, १३, १५१६, १८)
[* आल्तेर्नतिवे नुम्बेरिन्ग्. १२.३३८.१३२०.]
एव
प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः ।
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केन चित् ॥ १,५.४१५ ॥
बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः
आकाशं घ्नन् स्रुवः पातै रोषादश्रूण्यवर्तयत् ॥ १,५.४१६ ॥
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह ।
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ॥ १,५.४१७ ॥
ततः स तं समुद्धूतं भूमिपालो महान् विभुः ।
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥ १,५.४१८ ॥
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः ।
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १,५.४१९ ॥

तत्रैकतद्वितत्रितवाक्यं (ंभ्१२.३३८.२५२७ ओर्३२३.२३)
अथ व्रतस्यावभृते वागुवाचाशरीरिणी ।
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभोः ॥
[* आल्तेर्नतिवे रेअदिन्ग्
ततो व्रतस्यावभृथे वागुवाचाशरीरिणी ।
सुतप्तं वस्तपस्विप्राः प्रसन्नेनान्तरात्मना ॥]

यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् ॥ १,५.४२० ॥

ततः स्वयं प्रकाशत्वशक्त्या स्वेच्छाप्रकाशया ।
सोऽभिव्यक्तो भवेत्नेत्रे न नेत्रविषयत्वतः ॥ १,५.४२१ ॥

यथा, श्रीनारायणाध्यात्मे
नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः ।
तामृते परमात्मानं कः पश्येतामितं प्रभुम् ॥ १,५.४२२ ॥

पाद्मे च
सच्चिदानन्दरूपत्वात्स्यात्कृष्णोऽधोक्षजोऽप्यसौ ।
निजशक्तेः प्रभावेन स्वं भक्तान् दर्शयेत्प्रभुः ॥ १,५.४२३ ॥

य एव विग्रहो व्यापी परिच्छिन्नः स एव हि ।
एकस्यैवैकदा चास्य द्विरूपत्वं विराजते ॥ १,५.४२४ ॥

यथा श्रीदशमे (१०.९.१३१४)
न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥
तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १,५.४२५ ॥

अनेन पद्ययुग्मेन व्रजराजसुतस्य हि ।
दामबन्धनबेलायामेव व्यक्ता द्विरूपता ॥ १,५.४२६ ॥
तथैव च पुराणेषु श्रीमद्भागवतादिषु ।
श्रूयते कृष्णलीलानां नित्यता स्फुटमेव हि ॥ १,५.४२७ ॥

यथा च, श्रीप्रथमे श्रीद्वारकावासिवचनम् (१.१०.२६)
अहो अलं श्लाघ्यतमं यदोः कुलम्
अहो अलं पुण्यतमं मधोर्वनम् ।
यदेष पुंसामृषभः श्रियः पतिः
स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ १,५.४२८ ॥

अञ्चतीति पदं वर्तमानकालोपपादकम् ।
द्वारकावासिनामुक्तौ लीलानां वक्ति नित्यताम् ॥ १,५.४२९ ॥

श्रीदशमे श्रीशुकोक्तौ (१०.९०.४८)
जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ १,५.४३० ॥

श्रीस्कान्दे श्रीमथुराखण्डे श्रीयुधिष्ठिरं प्रति श्रीनारदवाक्यम्
वत्सैर्वत्सतरीभिश्च साकं क्रीडति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥ १,५.४३१ ॥

यद्आनयोस्तु संवादो द्वारवत्यां हरिस्तदा ।
तथापि वर्तमानत्वेनोक्तिस्तन्नैत्यवाचिका ॥ १,५.४३२ ॥

पाद्मे पातालखण्डे श्रीपार्वतीं प्रति श्रीरुद्रवाक्यम्
अहो मधुपुरी धन्या यत्र तिष्ठति कंसहा ।
तत्र देवा मुनिः सर्वे वासमिच्छन्ति सर्वदा ॥ १,५.४३३ ॥

लीलापरिकरा गोष्ठजनाः स्युर्यादवास्तथा ।
देवाश्च ब्रह्मजम्भारिकुवेरतनयादयः ।
नारदाद्याश्च दनुजनागयक्षादयश्च ते ॥ १,५.४३४ ॥
प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ॥ १,५.४३५ ॥

तथा हि
सदानन्तैः प्रकाशैः स्वैर्लीलाभिश्च स दीव्यति ।
तत्रैकेन प्रकाशेन कदाचित्जगद्अन्तरे ।
सहैव स्वपरीवारैर्जन्मादि कुरुते हरिः ॥ १,५.४३६ ॥
कृष्णभावानुसारेण लीलाख्या शक्तिरेव सा ।
तेषां परिकराणां च तं तं भावं विभावयेत् ॥ १,५.४३७ ॥
प्रपञ्चगोचरत्वेन सा लीला प्रकटा स्मृता ।
अन्यास्त्वप्रकटा भान्ति तादृश्यस्तद्अगोचराः ॥ १,५.४३८ ॥
तत्र प्रकटलीलायामेव स्यातां गमागमौ ।
गोकुले मथुरायां च द्वारवत्यां च शार्ङ्गिणः ॥ १,५.४३९ ॥
यास्तत्र तत्राप्रकटास्तत्र तत्रैव सन्ति ताः ।
इत्याह जयतीत्य्आदिपद्यादिकमभीक्ष्णशः ॥ १,५.४४० ॥
देवाद्य्अंशावतरणे प्रवृत्ते पद्मजाज्ञया ।
वसुदेवादिकानां ये स्वर्गेऽंशाः कश्यपादयः ॥
नित्यलीलान्तरस्थैस्ते वसुदेवादिभिर्गताः ।
सायुज्यमंशिभिस्तत्र जायन्ते शूरमुख्यतः ॥ १,५.४४१ ॥
यद्विलासो महाश्रीशः स लीलापुरुषोत्तमः ।
आविर्बुभूषुरत्राविष्कृत्य सङ्कर्षणं पुरः ।
अन्तस्थिताविष्कर्तव्यतद्अन्यव्यूह ईश्वरः ।
हृदये प्रकटस्तस्य भवत्यानकदुन्दुभेः ॥ १,५.४४२ ॥
भूमिभारनिरासाय देवानामभियाच्ञया ।
द्वारपस्यावसानेऽस्मिनष्टाविंशे चतुर्युगे ।
क्षीराब्धिशायियद्रूपमनिरुद्धतया स्मृतम् ।
तदिदं हृदयस्थेन रूपेणानकदुन्दुभेः ।
ऐक्यं प्राप्य ततो गच्छेत्प्राकट्यं देवकीहृदि ॥ १,५.४४३ ॥
प्रेमानन्दामृतैस्तस्या वात्सल्यैकस्वरूपिभिः ।
लाल्यमानो हरिस्तत्र वधते चन्द्रमा इव ॥ १,५.४४४ ॥
अथ भाद्रपदाष्टम्यामसितायां महानिशि ।
तस्या हृदस्तिरोभूयः कारायां सूतिसद्मनि ।
देवकीशयने तत्र कृष्णः प्रादुर्भवत्यसौ ॥ १,५.४४५ ॥
जनयित्रीप्रभृतिभिस्ताभिरित्यवगम्यते ।
लौकिकेन प्रकारेण सुखं शिशुरजायत ॥ १,५.४४६ ॥
अयं चतुर्भुजत्वेऽपि द्विभुजत्वेऽपि कृष्णताम् ।
न त्यजत्येव तद्भावगुणरूपात्मवृत्तितः ॥ १,५.४४७ ॥
तथापि द्विभुजत्वस्य कृष्णे प्राधान्यमुच्यते ।
गूढत्वादेव च क्वापि गौणत्वमिव कीर्त्यते ।
गूढं परं ब्रह्म मनुष्यलिङ्गमिति हि प्रथा ॥ १,५.४४८ ॥

अथ व्रजेश्वरीगेहे विशन्नानकदुम्दुभिः ।
तत्र न्यस्य सुतं तस्याः सुतामादाय निःसरेत् ॥ १,५.४४९ ॥
सोऽयं नित्यसुतत्वेन तस्या राजयनादितः ।
कृष्णः प्रकटलीलायां तद्द्वारेणाप्यभूत्तथा ॥ १,५.४५० ॥
अथ प्रकटतां लब्धे व्रजेन्द्रविहिते महे ।
तत्र प्रकटयत्येष लीला बाल्यादिका क्रमात् ।
करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्वपि ॥ १,५.४५१ ॥
प्रेष्ठानन्दैर्व्रजे तैस्तैरात्मनोऽपि विमोहनैः ।
लीलोल्लासैर्विलसति श्रीलीलापुरुषोत्तमः ॥ १,५.४५२ ॥
असमोर्धेन भगवान् वात्सल्येन व्रजेशयोः ।
सुतत्वेनैव स तयोरात्मानं वेत्ति सर्वदा ॥ १,५.४५३ ॥
केचिद्भागवताः प्राहुरेवमत्र पुरातनाः ।
व्यूहः प्रादुर्भवेदाद्यो गृहेष्वानकदुन्दुभेः ।
गोष्ठे तु मायया सार्धं श्रीलीलापुरुषोत्तमः ॥ १,५.४५४ ॥
गत्वा यदुवरो गोष्ठं तत्र सूतीगृहं विशन् ।
कन्यामेव परं वीक्ष्य तामादायाव्रजत्पुरम् ।
प्राविशद्वासुदेवस्तु श्रीलीलापुरुषोत्तमम् ॥ १,५.४५५ ॥
एतच्चातिरहस्यत्वात्नोक्तं तत्र कथाक्रमे ।
किन्तु क्वचित्प्रसङ्गेन सूच्यते श्रीशुकादिभिः ॥ १,५.४५६ ॥

यथा श्रीदशमे (१०.५.१)
नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः ॥ १,५.४५७ ॥

यथा तत्रैव (१०.६.४३)
नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ॥ १,५.४५८ ॥

तथा च (१०.९.२१)
नायं सुखापो भगवान् देहिनां गोपिकासुतः ॥ १,५.४५९ ॥

तथा च तत्र श्रीब्रह्मस्तवे (१०.१४.१)
वन्यस्रजे कवलवेत्रविषाणवेणु
लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १,५.४६० ॥

तथा श्रीयामलवचनं समुदाहरन्ति
कृष्णोऽन्यो यदुसम्भूतो यः पूर्णः सोऽस्त्यतः परम् ।
वृन्दावनं परित्यज्य स क्वचित्नैव गच्छति ॥ १,५.४६१ ॥
द्विभुजं सर्वदा सोऽत्र न कदाचित्चतुर्भुजः ।
गोप्यैकया युतस्तत्र परिक्रीडति नित्यदा ॥ १,५.४६२ ॥
इति ।

अथ प्रकटरूपेण कृष्णो यदुपुरीं व्रजेत् ।
व्रजेशजत्वमाच्छाद्य स्वां व्यञ्जन् वासुदेवताम् ।
यो वासुदेवो द्विभुजस्तथा भाति चतुर्भुजः ॥ १,५.४६३ ॥

स्ववचः, यथा श्रीदशमे (१०.३९.३५)
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः ।
सान्त्वयामास सप्रेमैरायास्य इति द्यौतकैः ॥ १,५.४७४ ॥

तथा (१०.४५.२३)
यात यूयं व्रजं तात वयं च स्नेहदुःखितान् ।
ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ १,५.४७५ ॥
इति ।

निइजप्रियतमस्यापि वचसा यदुमन्त्रिणः ।
एतदे एव वचः स्वीयं पुनस्तनोज्ज्वलीकृतम् ॥ १,५.४७६ ॥

यथा तत्रैव (१०.४६.३५)
हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् ।
यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥ १,५.४७७ ॥

यथा श्रीप्रथमे (१.११.९)
यर्ह्यम्बुजाक्षापससार भो भवान्
कुरून्मधून् वाथ सुहृद्दिदृक्षया ।
तत्राब्दकोटिप्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ १,५.४७९ ॥

अत्र कारिके
भो अम्बुजाक्ष सुहृदां नन्दादीनां दिदृक्षया ।
भवानपससारास्मानपहाय गतो मधून् ।
मथुरामिति विस्पष्टं मथुरामण्डले व्रजम् ।
तदानीं सुहृदां तत्र मधुपुर्यामभावतः ॥ १,५.४८० ॥

किं च
रथेन मथुरां गत्वा दन्तवक्रं निहत्य च
स्पष्टं पाद्मे पुराणेऽस्य कृष्णस्योक्ता व्रजागतिः ॥ १,५.४८१ ॥

तद्गद्यं पद्यं च यथा (ড়द्मড়् ६.२७९.२४२६)
कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नन्दव्रजं गत्वा सोत्कण्ठौ पितराव्
अभिवाद्याश्वास्य ताभ्यां साश्रुसेकमालिङ्गितः सकलगोपवृद्धान् प्रणम्य्
आश्वास्य बहुरत्नवज्राभरणादिभिस्तत्रस्थान् सर्वान्
सन्तरायामास ॥ १,५.४८२ ॥

कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमाचिते ।
गोपनारीभिरनिशं क्रीडयामास केशवः ॥
रम्यकेलिसुखेनैव गोपवेशधरः प्रभुः ।
बहुप्रेमरसेनात्र मासद्वयमुवास ह ॥
इति ॥ १,५.४८३ ॥

अत्र कारिकाः
यदुत्तीर्येत्युत्तरणं तद्आप्लवनमुच्यते ।
दुष्टं हत्वा व्रजे यानं स्नानपूर्वमिहोचितम् ॥ १,५.४८४ ॥
अतः प्रकटलीलायामप्ययोगोऽल्प एव हि ।
इति धामत्रये कृष्णो विहरत्येव सर्वदा ॥ १,५.४८५ ॥
व्रजागमनकाले च पाद्मोक्तेऽन्यच्च वर्तते ॥ १,५.४८६ ॥

यथा (ড়द्मড়् ६.२७९.२७)
अथ तत्रस्था नन्दगोपादयः सर्वे जनाः पुत्रदारादिसहिताः
पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः
परमं वैकुण्ठलोकमवापुः ॥
इति ॥ १,५.४८७ ॥

अत्र कारिके
व्रजेशादेरंशभूता ये द्रोणाद्या अवातरन् ।
कृष्णस्तानेव वैकुण्ठे प्राहिणोदिति साम्प्रतम् ॥ १,५.४८८ ॥
प्रेष्ठेभ्योऽपि प्रिअयतमैर्जनैर्गोकुलवासिभिः ।
वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥ १,५.४८९ ॥
स्कान्दायोध्यामहिमनि सौमित्रेः श्रूयते यथा ॥ १,५.४९० ॥
तथा हि
ततः शेषात्मतां यातं लक्ष्मणं सत्यसङ्गरम् ।
उवाच मधुरं शक्रः सर्वस्वं च स पश्यतः ॥ १,५.४९१ ॥
इन्द्र उवाच
लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोहस्व पदं स्वकम् ।
देवकार्यं कृतं वीर त्वया रिपुनिसूदन ।
वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् ।
भवन्मूर्तिः समायाता शेषोऽपि विलसत्फणः ॥ १,५.४९२ ॥
ततश्च
इत्युक्त्वा सुरराजेन्द्रो लक्ष्मणं सुरसङ्गतः ।
शेषं प्रस्थाप्य पाताले भूभारधरणक्षमम् ।
लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ॥ १,५.४९३ ॥
इति ।

लीलां चाप्रकटां तत्र द्वारवत्यां चिकीर्षुणा ।
स्वयं प्रकाश्यते तेन मुनिशापादिकैतवम् ॥ १,५.४९४ ॥
देवाद्य्अंशावतरणे ये तु वृष्णिष्ववातरन् ।
क्षीराब्धिशायिरूपस्तैः सार्धं स्वपदमाप्नुयात् ॥ १,५.४९५ ॥
नित्यलीलापरिकरा ये स्युर्यदुवरादयः ।
तैः सार्धं भगवान् कृष्णो द्वार्वत्यामेव दीव्यति ॥ १,५.४९६ ॥
धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा ।
माथुरं च द्विधा प्राहुर्गोकुलं पुरमेव च ॥ १,५.४९७ ॥
यत्तु गोलोकनाम स्यात्तच्च गोकुलवैभवम् ।
स गोलोको यथा ब्रह्मसंहितायामिह श्रुतः ॥ १,५.४९८ ॥

गोलोकनाम्नि निजधाम्नि तले च तस्य
देवि महेशहरिधामसु तेषु तेषु ।
ते ते प्रभावनिचया विहिताश्च येन
गोविन्दमादिपुरुषं तमहं भजामि ॥ १,५.४९९ ॥
[Bरह्मष्५.४३]

तथा चाग्रे (Bरह्मष्५.५६)

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥ १,५.५०० ॥

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ १,५.५०१ ॥
इति ।

तद्आत्मवैभवत्वं च तस्य तन्महिमोन्नतेः ॥ १,५.५०२ ॥

यथा पातालखण्डे
अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी ।
दिनमेकं निवासेन हरौ भक्तिः प्रजायते ॥ १,५.५०३ ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥ १,५.५०४ ॥
एवं सप्तपुरीणां तु सर्वोत्कृष्टं तु माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठभुवनोत्तमः ॥ १,५.५०५ ॥
इति ।

नित्यलीलास्पदत्वं च पूर्वमेव प्रदर्शितम् ।
अतेवास्य पाद्मे च श्रूयते नित्यरूपता ॥ १,५.५०६ ॥

नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा
यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥ १,५.५०७ ॥
इति ।

स तु मथुराभूरूपः परिच्छन्नोऽप्यथाद्भुतः ।
स्फारः सङ्कुचितश्च स्यात्कृष्णलीलानुसारतः ॥ १,५.५०८ ॥
अत्रैवाजाण्डमालापि पर्याप्तिमुपगच्छति ।
वृन्दावनप्रतीकेऽपि यानुभूतैव वेधसा ॥ १,५.५०९ ॥
इत्यतो रासलीलायां पुलिने तत्र यामुने ।
प्रदआशतकोट्योऽपि ममूर्यत्तत्किमद्भुतम् ॥ १,५.५१० ॥
स्वैः स्वैर्लीलापरिकरैर्जनैर्दृश्यानि नापरैः ।
तत्तल्लीलाद्य्अवसरे प्रादुर्भावोचितानि हि ॥ १,५.५११ ॥
आश्चर्यमेकदैकत्र वर्तमानान्यपि ध्रुवम् ।
परम्परमसंपृक्तस्वरूपाण्येव सर्वथा ॥ १,५.५१२ ॥
कृष्णबाल्यादिलीलाभिर्भूषितानि समन्ततः ।
शैलगोष्ठवनादीनां सन्ति रूपाण्यनेकशः ॥ १,५.५१३ ॥
लीलाढ्योऽपि प्रदेशोऽस्य कदाचित्किल कैश्चन ।
शून्य एवेक्षते दृष्टियोग्यैरप्यपरैरपि ॥ १,५.५१४ ॥
अतः प्रभोः प्रियाणां च धाम्नश्च समयस्य च ।
अविचिन्त्यप्रभावत्वादत्र किं च न दुर्घटम् ॥ १,५.५१५ ॥
एवमेव द्वारकायां ज्ञेयं सर्वं विचक्षणैः ॥ १,५.५१६ ॥

यथैकादशान्ते (११.३१.२३२४)
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात् ।
वर्जयित्वा महाराज श्रीमद्भगवद्आलयम् ॥
स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ।
नित्यं सन्निहितस्तत्र भगवान्मधुसूदनः ॥ १,५.५१७ ॥
इति ।

अथान्यद्वैभवं तस्य व्यक्तं श्रीनारदेक्षया ।
यत्रैकत्रैकदा नानारूपावसरचित्रता ॥ १,५.५१८ ॥

तथा च सम्मोहनतन्त्रे
सन्ति तस्य महाभागा अवताराः सहस्रशः ।
तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ॥ १,५.५२१ ॥
इति ।

अत्र कारिका
त्रिधा भवेद्वयो बाल्यं यौवनं वृद्धतेत्यपि ।
वर्षादाषोडशाद्बाल्यमिति लोके महान्तरम् ॥ १,५.५२२ ॥

तथा च ब्रह्माण्डे
सन्ति भूरीणि रूपाणि मम पूर्णानि षड्गुणैः ।
भवेयुस्तानि तुल्यानि न मया गोपरूपिणा ॥ १,५.५२३ ॥
इति ।

इत्यत्रैव महामन्त्राः महामाहात्म्यमण्डिताः ।
दशार्णाष्टादशार्णाद्या बहुतन्त्रेषु कीर्तिताः ॥ १,५.५२४ ॥
सर्वप्रमाणतः श्रेष्ठा तथा गोपालतापनी ।
स्वयमादौ विधात्रे या प्रोक्ता गोपालरूपिणा ॥ १,५.५२५ ॥
चतुर्धा माधुरी तस्य व्रज एव विराजते ।
ऐश्वर्यक्रीडयोर्वेणोस्तथा श्रीविग्रहस्य च ॥ १,५.५२६ ॥

तत्र ऐश्वर्यस्य
कुत्राप्यश्रुतपूर्वेण मधुरैश्वर्यराशिना ।
सेव्यमानो हरिस्तत्र विहारं कुरुते व्रजे ॥ १,५.५२७ ॥
यत्र पद्मजरुद्रआद्यैः स्तूयमानोऽपि साध्वसात् ।
दृग्अन्तपातमप्येषु कुरुते न तु केशवः ॥ १,५.५२८ ॥

यथा श्रीब्रह्माण्डे श्रीनारदवाक्यम्
ये दैत्या दुःशकं हन्तुं चक्रेणापि रथाङ्गिना ।
ते त्वया निहताः कृष्ण नव्यया बाल्यलीलया ॥
सार्धं मित्रैर्हरे क्रीडन् भ्रूभङ्गं कुरुषे यदि ।
सशङ्का ब्रह्मरुद्राद्याः कम्पते खस्थितास्तदा ॥ १,५.५२९ ॥
इति ।

यथा श्रीदशमे (१०.३५.१४)
विविधगोपचरणेषु विदग्धो
वेणुवाद्य उरुधा निजशिक्षाः ।
तव सुतः सति यदाधरबिम्बे
दत्तवेणुरनयत्स्वरजातीः ॥ १,५.५३० ॥

क्रीडायाः, यथा पाद्मे
चरितं कृष्णदेवस्य सर्वमेवाद्भुतं भवेत् ।
गोपाललीला तत्रापि सर्वतोऽतिमनोहरा ॥ १,५.५३१ ॥

श्रीबृहद्वामने
सन्ति यद्यपि मे प्राज्या लीलास्तास्ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥ १,५.५३२ ॥
इति ।

वेणोः यथा
यावती निखिले लोके नादानामस्ति माधुरी ।
तावती वंशिकानादपरमानौ निमज्जति
चरस्थावरयोः सान्द्रपरमानन्दमग्नयोः ।
भवेद्धर्मविपर्यासो यस्मिन् ध्वनति मोहने ॥ १,५.५३३ ॥
मोहनः कोऽपि मन्त्रो वा पदार्थो वाद्भुतः परः ।
श्रुतिपेयोऽयमित्युक्त्वा यत्रामुह्यन् शिवादयः ॥ १,५.५३४ ॥

सवनशस्तद्उपधार्य सुरेशाः
शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः
कश्मलं ययुरनिश्चिततत्त्वाः ॥ १,५.५३६ ॥
इति । (भागवतम् १०.३५.१५)

एकविंशे तथा पञ्चत्रिंशे चाध्याय ईडिता ।
माधुरी व्रजदेवीभिर्वेणोरेव महाद्भुता ॥ १,५.५३७ ॥

श्रीविग्रहस्य, यथा
असमानोर्धमाधुर्यतरङ्गामृतवारिधिः ।
जङ्गमस्थावरोल्लासिरूपो गोपेन्द्रनन्दनः ॥ १,५.५३८ ॥

यथा तन्त्रे
कन्दर्पकोट्य्अर्बुदरूपशोभा
नीराज्यपादाब्जनखाञ्चलस्य ।
कुत्राप्यदृष्टश्रुतरम्यकान्तेर्
ध्यानं परं नन्दसुतस्य वक्ष्ये ॥ १,५.५३९ ॥

श्रीदशमे च (१०.२९.४०)

का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन
सम्मोहिताऽर्यपदवीं न चलेत्त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ १,५.५४० ॥
इति श्रीरूपगोस्वामिपादकृते श्रीलघुभागवतामृते
श्रीकृष्णामृतनाम पूर्वखण्डं समाप्तम् ॥





ळघुभागवतामृत
ऊत्तरखण्डम्
ओं नमः श्रीकृष्णरसरसिकेभ्यः

अथ श्रीभक्तामृतम्

आराधनं मुकुन्दस्य भवेदावश्यकं यथा ।
तथा तदीयभक्तानां नो चेद्दोषोऽस्ति दुस्तरः ॥ २,१.१ ॥

तथा हि पाद्मे
मार्कण्डेयोऽम्बरीषस्य वसुर्व्यासो विभीषणः ।
पुण्डरीको बलिः शम्भुः प्रह्लादो विदुरो ध्रुवः ॥
दाल्भ्यः पराशरो भीष्मो नारदाद्याश्च वैष्णवैः ।
सेव्या हरिं निषेव्यामी नो चेदागः परं भवेत् ॥ २,१.२ ॥

तथा च हरिभक्तिसुधोदये (१६.७६)
अर्चयित्वा तु गोविन्दं तदीयान्नार्चयन्ति ये ।
न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः ॥ २,१.३ ॥

पाद्मोत्तरखण्डे
आराधनानां सर्वेषां विष्णोराराधनं परम् ।
तस्मात्परतरं देवि तदीयानां समर्चनम् ॥ २,१.४ ॥

तत्रैव च
अर्चयित्वा तु गोविन्दं तदीयान्नार्चयेत्तु यः ।
न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥ २,१.५ ॥
इति ।

आदिपुराणे
मम भक्ता हि ये पार्थ न मे भक्तास्तु ते मताः ।
मद्भक्तस्य तु ये भक्तास्ते मे युक्ततमा मताः ॥ २,१.६ ॥

श्रीमद्भागवते च (११.१९.२१)
मद्भक्तपूजाभ्यधिका । इति ॥ २,१.७ ॥

एतेषामपि सर्वेषां प्रह्लादः प्रवरो मतः ।
सर्वेषु हरिभक्तेषु प्रह्लादो हि महत्तमः ॥ २,१.८ ॥

यथा स्कान्दे श्रीरुद्रवाक्यम्
भक्त एव हि तत्त्वेन कृष्णं जानाति न त्वहम् ।
सर्वेषु हरिभक्तेषु प्रह्लादोऽतिमहत्तमः ॥ २,१.९ ॥

श्रीसप्तमस्कन्धे श्रीप्रह्लादस्यैव वाक्यम् (७.९.२६)
क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः ॥ २,१.१० ॥

तत्रैव श्रीनृसिंहवाक्यम् (७.१०.२१)
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ।
भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २,१.११ ॥

पाण्डवाः सर्वतः श्रेष्ठाः प्रह्लादादीदृशादपि ।
श्रीभागवतमेवात्र प्रमाणं स्फुटमीक्ष्यते ॥ २,१.१२ ॥

तथा हि श्रीसप्तमस्कन्धे श्रीनारदवाक्यं (७.१०.४८५०, ७.१५.७५७७)

यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ २,१.१३ ॥

स वा अयं ब्रह्म महद्विमृग्य
कैवल्यनिर्वाणसुखानुभूतिः ।
प्रियः सुहृद्वः खलु मातुलेय
आत्मार्हणीयो विधिकृद्गुरुश्च ॥ २,१.१४ ॥

न यस्य साक्षाद्भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदतामेष स सात्वतां पतिः ॥ २,१.१५ ॥
इति ।

व्याख्यातं च श्रीस्वामिपादैः

अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्दभाग्याः इति
विषीदन्तं राजानं प्रत्याह यूयमिति त्रिभिः ॥ २,१.१६ ॥

न तु प्रह्लादस्य गृहे परं ब्रह्म वसति, न च तद्दर्शनार्थं मुनयस्
तद्गृहानभियन्ति । न च तस्य ब्रह्म मातुलेयादिरूपेआ वर्तते । न च स्वयम्
एव प्रसन्नम् । अतो यूयमेव ततोऽप्यस्मत्तोऽपि भूरिभागाः इति
भावः ॥ २,१.१७ ॥

सदातिसन्निकृष्टत्वात्ममताधिक्यतो हरेः ।
पाण्डवेभ्योऽपि यदवः केचित्श्रेष्ठतमा मताः ॥ २,१.१८ ॥

तथा हि श्रीदशमे (१०.८२.२८,३०)
अहो भोजपते यूयं जन्मभाजो नॄणामिह ।
यत्पश्यथासकृत्कृष्णं दुर्दर्शमपि योगिनाम् ॥ २,१.१९ ॥

तद्दर्शनस्पर्शनानुपथप्रजल्प
शय्यासनाशनसयौनसपिण्डबन्धः ।
येषां गृहे निरयवर्त्मनि वर्ततां वः
स्वर्गापवर्गविरमः स्वयमास विष्टुः ॥ २,१.२० ॥

तथा (१०.९०.४६)
शय्यासनाटनालापक्रीडास्नानाशनादिषु ।
न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ २,१.२१ ॥
यदुभ्योऽपि वरिष्ठोऽसौ सर्वेभ्यः श्रीमद्उद्धवः ।
श्रीमद्भागवते यस्य श्रूयते महिमाद्भुतः ॥ २,१.२२ ॥

तथा हि एकादशे श्रीमद्भगवद्वाक्यम् ((ष्B ११.१४.१५)
न तथा मे प्रियतम आत्मयोनिर्न शङ्करः
न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ २,१.२३ ॥

तथा (११.१६.२९)
त्वं तु भागवतेष्वहम् ॥ २,१.२४ ॥
इति ।

आबाल्यादेव गोविन्दे भक्तिरस्याखिलोत्तमा ॥ २,१.२५ ॥

तथा च श्रीतृतीये (३.२.२)
यः पञ्चहायनो मात्रा प्रातर्आशाय याचितः ।
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥ २,१.२६ ॥

अतएव तत्रैव श्रीभगवद्वचनम् (३.४.३१)
नोद्धवोऽण्वपि मन्न्यूनो
यद्गुणैर्नार्दितः प्रभुः ॥ २,१.२७ ॥
इति ।

अस्यार्थः । यद्गुणैः यस्य उद्धवस्य गुणैः, प्रभुरप्यहं न अर्दितः । न
याचितः । यद्वा यत्यस्मात् । उद्धवः गुणैः सत्त्वादिभिः । न अर्दितः न पीडितः
। गुणातीत इत्यर्थः । तत्र हेतुः प्रभुः भक्तिरसांवादे
प्रभविष्णुः ॥ २,१.२८ ॥

व्रजदेव्यो वरीयस्य ईदृशादुद्धवादपि ।
यदासां प्रेममाधुर्यं स एषोऽप्यभियाचते ॥ २,१.२९ ॥

तथा हि श्रीदशमे (१०.४७.५८)
एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एवमखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ २,१.३० ॥

श्रीबृहद्वामने च भृग्व्आदीन् प्रति श्रीब्रह्मवाक्यम्
षष्ठिवर्षसहस्राणि मया तप्तं तपः पुरा ।
नन्दगोपव्रजस्त्रीणां पादरेणूपलब्धये ।
तथापि न मया प्राप्तास्तासां वै पादरेणवः ॥ २,१.३१ ॥

भृग्व्आदिवाक्यम्
वैष्णवानां पादरजो गृह्यते त्वद्विधैरपि ।
सन्ति ते बहवो लोके वैष्णवा नारदादयः ॥
तेषां विहाय गोपीनां पादरेणुस्त्वयापि यत् ।
गृह्यते संशयो मेऽत्र को हेतुस्तद्वत्प्रभो ॥ २,१.३२ ॥

श्रीब्रह्मवाक्यम्
न स्त्रियो व्रजसुन्दर्यः पुत्र श्रेष्ठाः श्रियोऽपि ताः ।
नाहं शिवश्च शेषश्च श्रीश्च ताभिः समाः क्वचित् ॥ २,१.३३ ॥

आदिपुराणे च श्रीमद्अर्जुनवाक्यं
त्रैलोक्ये भगवद्भक्ताः के त्वां जानन्ति मर्मणि ।
केषु वा त्वं सदा तुष्टः केषु प्रेम तवातुलम् ॥ २,१.३४ ॥

श्रीभगवद्वाक्यम्
न तथा मे प्रियतमो ब्रह्मारुद्रश्च पार्थिव ।
न च लक्ष्मीर्न चात्मा च यथा गोपीजनो मम् ॥ २,१.३५ ॥
भक्ता ममानुरक्ताश्च कति सन्ति न भूतले ।
किन्तु गोपीजनः प्राणाधिकप्रियतमो मम ॥ २,१.३६ ॥
न मां जानन्ति मुनयो योगिनश्च परन्तप ।
न च रुद्रादयो देवा यथा गोप्यो विदन्ति माम् ॥ २,१.३७ ॥
न तपोभिर्न वेदैश्च नाचारैर्न च विद्यया ।
वशोऽस्मि केवलं प्रेम्णा प्रेमाणं तत्र गोपिका ॥ २,१.३८ ॥
मन्माहात्म्यं मत्सपर्यां मच्छ्रद्दां मन्मनोगतम् ।
जानन्ति गोपिकाः पार्थ नान्ये जानन्ति मर्मणि ॥ २,१.३९ ॥
निजाङ्गमपि या गोप्यो ममेति समुपासते ।
ताभ्यः परं न मे पार्थ निगूढप्रेमभाजनम् ॥ २,१.४० ॥
इति ॥

न चित्रं प्रेममाधुर्यमासां वाञ्छेद्यदुद्धवः ।
पादरेणूक्षितं येन तृणजन्मापि याचते ॥ २,१.४१ ॥

तथा हि श्रीदशमे (भागवतम् १०.४७.६१)
आसामहो चरणरेणुजुषामहं स्याम्
वृन्दावने किमपि गुल्मलतौषधीनाम् ।
या दुस्त्यजं स्वजनमार्यपथं च हित्वा
भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ २,१.४२ ॥

इति कृष्णं निषेव्याग्रे कृष्णस्योपासकैर्जनैः ।
सेव्याः प्रसादपुष्पाद्यैरवश्यं व्रजसुभ्रुवः ॥ २,१.४३ ॥
तत्रापि सर्वगोपीनां राधिकातिवरीयसी ।
सर्वाधिक्येन कथिता यत्पुराणागमादिषु ॥ २,१.४४ ॥

यथा पाद्मे
यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ २,१.४५ ॥

आदिपुराणे च
त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ २,१.४६ ॥

इति श्रीलघुभागवतामृते श्रीभक्तामृतं नामोत्तरखण्डं समाप्तम् ।
इति श्रीलघुभागवतामृतं सम्पूर्णम् ।

"https://sa.wikisource.org/w/index.php?title=लघुभागवतामृतम्&oldid=403294" इत्यस्माद् प्रतिप्राप्तम्