लक्ष्मीनृसिंहपञ्चरत्नम्

विकिस्रोतः तः
लक्ष्मीनृसिंहपञ्चरत्नम्
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ लक्ष्मीनृसिंहपञ्चरत्नम् ॥


त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं
 प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
 भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १ ॥


शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे-
 द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
 भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २ ॥


आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
 गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
 भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
 गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
 भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४ ॥


तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं
 स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
 भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
लक्ष्मीनृसिंहपञ्चरत्नं सम्पूर्णम् ॥