लक्ष्मीनृसिंहकरुणारसस्तोत्रम्

विकिस्रोतः तः
लक्ष्मीनृसिंहकरुणारसस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्री ।।

॥ लक्ष्मीनृसिंहकरुणारसस्तोत्रम् ॥


श्रीमत्पयोनिधिनिकेतनचक्रपाणे
 भोगीन्द्रभाेगमणिराजितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥

ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
 संघट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥

संसारदावदहनाकरभीकरोरु-
 ज्वालावलीभिरतिदग्धतनूरहस्य ।
त्वत्पादपद्मसरसीरुहमागतस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥

संसारजालपतितस्य जगन्निवास
 सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥

संसारकूपमतिघोरमागधमूलं
 संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥

संसारभीकरकरीन्द्रकराभिघात-
 निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥

संसारसर्पविषदिग्धमहोग्रतीव्र-
 दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥

संसारवृक्षमघबीजमनन्तकर्म-
 शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलिनं चकितं दयालो
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥

संसारसागरविशालकरालकाल-
 नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥

संसारसागरनिमज्जनमुह्यमानं
 दीनं विलोक्य विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारकृतावतार
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥

संसारघोरगहने चरतो मुरारे
 मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥

बद्ध्वा गले यमभटा बहु तर्जयन्तः
 कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥

लक्ष्मीपते कमलनाभ सुरेश विष्णो
 यज्ञेश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥

एकेन चक्रमपरेण करेण शङ्ख-
 मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥

अन्धस्य मे हृतविवेकमहाधनस्य
 चोरैर्महाबलिभिरिन्द्रियनामधेयैः ।
मोहान्धकारकुहरे विनिपातितस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥

प्रह्लादनारदपराशरपुण्डरीक-
 व्यासादिभागवतपुंगवहृन्निवास ।
भक्तानुरुक्तपरिपालनपारिजात
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥

लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
 स्तोत्रं कृतं शुभकरं भुवि शंकरेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
 स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
लक्ष्मीनृसिंहकरुणारसस्तोत्रं सम्पूर्णम् ॥