लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १२५

विकिस्रोतः तः
Jump to navigation Jump to search


श्रीनारायणीश्रीरुवाच-
साधुव्रतं शुभं श्रेष्ठं धर्मार्थकाममोक्षदम् ।
श्रुतं ते कृपया कृष्ण श्रोतव्यं नावशिष्यते ।। १ ।।
तथापि तु गृहस्थानां धर्मवर्त्मानुवर्तिनाम् ।
लोकैषणादिसिद्ध्यर्थं जिज्ञासा दानधर्मिणी ।। २ ।।
जायतेऽतो गृहस्थानां हितार्थं परमेश्वर ।
महादानं भवेद् यच्च सर्वदानोत्तमोत्तमम् ।। ३ ।।
तादृशं विद्यते यद्वा तादृशानि भवन्ति चेत् ।
मह्यं निवेदय कृष्णकान्त लोकहिताय वै ।। ४ ।।
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि कथयामि तथाविधम् ।
बहुधा विद्यते तच्च महादानमनुत्तमम् ।। ५ ।।
सर्वपापक्षयकरं सर्वदुःस्वप्ननाशनम् ।
पुण्यं पवित्रमायुष्यं सर्वपापहरं शुभम् ।। ६ ।।
यत्तत् षोडशधा प्रोक्तं सत्पात्रे प्रतिपादनम् ।
न्यायोपार्जितसम्पत्तेर्दानं दानं तदुत्तमम् ।। ७ ।।
आद्यं तत्सर्वदानानां तुलापुरुषसंज्ञकम् ।
हिरण्यगर्भदानं च द्वितीयं परिकीर्तितम् ।। ८ ।।
ब्रह्माण्डदानं तृतीयं महादानमनुत्तमम् ।
कल्पपादपदानं च चतुर्थं परमं स्मृतम् ।। ९ ।।
पञ्चमं गोसहस्राद्यर्पणं दानमनुत्तमम् ।
हिरण्यकामधेनूनामर्पणं षष्ठमुत्तमम् ।। १ ०।।
हिरण्याऽश्वप्रदानं च दानं श्रेष्ठतमं मतम् ।
हिरण्याश्वरथदानं श्रेष्ठं तदष्टमं तथा ।। ११ ।।
हेमहस्तिरथदानं नवमं श्रेष्ठमुच्यते ।
पञ्चलाङ्गलकं दानं दशमं परमं मतम् ।। १२।।
धरादानं श्रेष्ठमेकादशं महत्तमं मतम् ।
विश्वचक्रप्रदानं तु महद्दानमनुत्तमम् ।। १३ ।।
कल्पलताप्रदानं च त्रयोदशमनुत्तमम् ।
सप्तसागरदानं च चतुर्दशमुदाहृतम् ।। १४।।
रत्नधेनुप्रदानं च पञ्चदशं ह्यनुत्तमम् ।
षोडशं तु महाभूतघटदानं परं शुभम् ।। १५।।
सर्वाण्येतानि दानानि रक्षाकराणि सर्वथा ।
स्वर्गदानि मोक्षदानि भवन्तीष्टप्रदानि वै ।। १६।।
तानि विघ्नसहस्रेभ्यो महादानानि सर्वथा ।
रक्षन्ति देवरूपाणि ह्येकैकमपि भूतले ।। १७।।
एषामन्यतमं कुर्यात् परमेशप्रसादतः ।
महादानमखं कुर्यात् साधुविप्रादिपूजितः ।। १८।।
अथ लक्ष्मि समासेन विधिना तानि ते पुनः ।
कथयामि यथा यत्र यद्वा देयानि तानि वै ।। १ ९।।
तुलापुरुषदानं तु दातव्यं विषुवेऽयने ।
दिनक्षये व्यतीपाते पुण्ये व्रतदिने शुभे ।।२० ।।
युगाद्यदिवसे राहुग्रहे मन्वाद्यहेषु च ।
संक्रान्तौ वैधृतौ पञ्चदश्यां चतुर्दशीदिने ।।२१ ।।
अष्टम्यां द्वादशिकायामेकादश्यां च पर्वणि ।
यज्ञोत्सवविवाहेषु दुःस्वप्नाऽद्भुतदर्शने ।।२२।।
द्रव्यब्राह्मणदेवानां लाभे सतां समागमे ।
तीर्थे च मन्दिरे गोष्ठे कूपाऽऽरामसरित्सु च ।।।२३।।
गृहे नवे तडागे च श्रद्धापात्रे च पावने ।
साधौ दीनेऽनाथबाले बालायां विधवाजने ।।२४।।
निराश्रये महाभक्ते तापसे चाऽपरिग्रहे ।
दैवे समर्थपुरुषे तैजसे च नरायणे ।।।२५।।
नारायणांशे विमले योगिनि पार्षदे हरेः ।
साध्व्यां सत्यां च योगिन्यां देव्यां योषिति दुर्बले ।।२६।।
एवमाद्येषु देयानि महादानानि तानि च ।
स्नात्वा शुभे क्षणे कृत्वा पुण्यं ब्राह्मणवाचनम् ।।२७।।
षोडशाऽरत्निमात्रं वा दश द्वादश वा करान् ।
मण्डपं कारयेत्तत्र चतुर्भद्रासनं शुभम् ।।२८।।
कृत्वा वेदीं सप्तहस्तां मध्ये पञ्चकरां तथा ।
कृत्वा मध्ये तोरणं च सारदारुमयं शुभम् ।। २९।।
कुर्यात् कुण्डानि चत्वारि चतुर्दिक्षु शुभानि वै ।
मेखलायोनियुक्तानि पूर्णकुंभान् निधापयेत् ।। ३ ०।।
आसनानि पवित्राणि विष्टराणि शुभानि च ।
यज्ञपात्राणि सर्वाणि ताम्रपात्रद्वयं तथा ।।३१ ।।
तिलाऽऽज्यधूपपुष्पोपहाराणि शोभनानि च ।
निधापयेत् सन्निधौ वै ततः पूर्वोत्तरे स्थले ।। ३२।।
ग्रहादिदेवपूजार्थं वेदीं हस्तमितां चरेत् ।
तत्राऽर्हणं मम कार्य पुरुषस्य परात्मनः ।।३२ ।।
वासुदेवादिरूपाणां कृष्णाद्यानां समर्हणम् ।
ब्रह्मविष्णुमहेशानां फलमाल्याम्बरादिभिः ।। ३४।।
पताकाः सध्वजा देया मण्डपे किंकिणीस्वने ।
तोरणानि प्रकार्याणि द्वारेषु शोभनानि वै ।।३५।।
चत्वारि क्षीरवृक्षाणां प्रतिद्वारं घटद्वयम् ।
स्रग्गन्धाऽक्षतधूपार्घाऽम्बररत्नफलान्वितम् ।।३६ ।।


शालेङ्गुदीदेवदारुश्रीपर्णिबिल्वचन्दनैः ।
प्रियकाञ्चनकैश्चापि कृतं स्तम्भद्वयं तथा ।। ३७।।
हस्तयुगाऽवखाते तत् क्षिप्त्वा कृत्वा दृढं च तत् ।
पञ्चहस्तोच्छ्रितं मध्यभूमिर्हस्तचतुष्टयम् ।।३८ ।।
स्तम्भोपरि दृढं तुलाऽवलम्बनं सुभारधृक् ।
मध्यभाराख्यकाष्ठं च न्यस्य कृत्वा स्थिरं च तत् ।। ३९ ।।
तन्मध्ये च तुला धार्या दीर्घा हस्तचतुष्टयम् ।
दशांगुलायते स्थाल्यौ स्वर्णपट्टसुशृंखले ।।५८० ।।
लोहपाशयुते चापि रत्नमालाविभूषिते ।
माल्यलेपनयुक्ते च चन्दनादिप्रपूजिते ।।४ १ ।।
द्वयोः स्थाल्योर्मध्यभागे लिखेत् कुंकुमपद्मके ।
तुलापात्रिकयोस्तत्र विकीरेत् पुष्पकाणि च ।। ४२।।
तुलादण्डिकमध्ये च फलमालम्बयेच्छुभम् ।
अथर्त्विजो वेदविदः साधवः साधुभूषणाः ।।४३ ।।
द्विजेन्द्रा गुरवः सन्तश्चाचार्योमन्त्रसम्प्रदः ।
सिताम्बरो मम भक्तस्तिष्ठेत्तुलान्तिके स्थले ।। ४४।।
पूर्व ऋचां विदावास्तां दक्षे यजुर्विदौ तथा ।
पश्चे सामविदावुत्तरे त्वथर्वविदौ तदा ।।४५ ।।
ततः सूक्तजपः कार्यो होमश्चाग्नौ घृतादिभिः ।
गणेशग्रहलोकेशा वस्वादित्यमरुद्गणाः ।।४६ ।।
ब्रह्मविष्णुमहेशाश्च तर्पणीया हवादिभिः ।
परमेशस्तथा कृष्णो नारायणो नरायणः ।।४७।।
वासुदेवोऽवताराश्च महाविष्णुर्विराड् हरिः ।
तर्पणीया हवनैश्च देव्यो लक्ष्म्यः समस्तिकाः ।।४८।।
होमोत्तरं गुरुस्तूर्यनादैरावाहयेत् सुरान् ।
बलिं पुष्पं च धूपं च कृत्वा मनून् वदेत्तथा ।। ४९ ।।
एह्येहीन्द्रोवज्रधरो रक्षाऽध्वरं नमोऽस्तु ते ।
एह्येह्यग्ने हव्यवाह तिष्ठाऽध्वरे नमोऽस्तु ते ।।५ ० ।।
एह्येहि धर्मराज त्वं पाहि मखं नमोऽस्तु ते ।
एह्येहि निर्ऋतदेव पाहि मखं नमोऽस्तु ते ।।।५ १ ।।
एह्येहि वारुणदेव पाहि चास्मान्नमोऽस्तु ते ।
एह्येहि प्राणनाथ त्वं वायो मखे नमोऽस्तु ते ।।५२।।
एह्येहि त्वं कुबेराऽत्र नमोऽस्तु धनधारिणे ।
एह्येहि त्वं महेशान गृहाणार्हो नमोऽस्तु ते ।।५२ ।।
एह्येहि नागराज त्वं ममाऽध्वरं प्रपालय ।
एह्येहि धातर्विश्वात्मन्नत्र मखे नमोऽस्तु ते ।।५४।।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे ।।५५ ।।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मनवो गावो देवमातर इत्यपि ।।५६।।
सर्वा देव्यो रमा लक्ष्म्यो ब्रह्मप्रिया हरिप्रियाः ।
मुक्तान्यश्चेश्वरेशाश्च रक्षां कुर्वन्तु मेऽध्वरे ।।५७।।
बलिं मिष्टं सुनैवेद्यं गृह्णन्तु हि मयाऽर्पितम् ।
पूजामारार्त्रिकं चापि गृह्णन्त्वपि च दक्षिणाः ।।५८।।
इत्यावाह्य सुरान् पूजयित्वा नीराजनोत्तरम् ।
ऋत्विग्भ्यो होमभूषादि दद्यादन्यानि चापि वै ।।५९।।
कुण्डलानि च हैमानि सूत्राणि कटकानि च ।
अङ्गुलीयपवित्राणि वासांसि शयनानि च ।।६ ०।।
द्विगुणं गुरवे दद्याद् भूषणाच्छादनानि च ।
जपेयुः शान्तिपाठाँश्च जापकाः सर्वतोदिशम् ।।६ १ ।।
कृत्वाऽधिवासनं सर्वे कुर्याद् ब्राह्मणवाचनम् ।
स्नात्वा मंगलसलिलैः कुर्याच्च त्रिःप्रदक्षिणम् ।।६२।।
धृत्वा पुष्पाञ्जलिं तुलां प्रार्थयेच्छ्वेतवस्त्रकः ।
नमस्ते धर्मशक्ते च सत्यरूपे तपोधने ।।६२।।
साक्षिभूते जगन्मातस्ते नमोऽस्तु रमासमे ।
धर्माधर्मपरीक्षार्थं कृताऽसि ब्रह्मणा पुरा ।।६४।।
प्रमाणं सर्वभूतानां दानेऽसि पारमार्थिके ।
मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते ।।६५।।
योऽन्तर्यामी परेशोऽस्ति जीवात्मा यश्च तत्तनुः ।
ताभ्यामधिष्ठिता त्वं वै तस्यै देव्यै नमो नमः ।।६६।।
लूता माया प्रकृतिर्या तस्या जालं प्रपञ्चकम् ।
तद् विनाश्य परे लोके प्रहिणोति यतस्तुला ।।६७।।
अनादिश्रीकृष्णनारायण तौलेय ते नमः ।
तुलापुरुषरूपस्त्वं संसारात् तारयस्व नः ।।६८।।
एवं तुलां नमस्कृत्य पूजयित्वा प्रदक्षिणम् ।
कृत्वाऽऽरुह्यात् स्वयं स्थाल्यां तुलायां दानकृज्जनः ।।६९।।
निजवेषयुतः सम्यक् सर्वाभरणहेतियुक् ।
धर्मदेवं तथा सूर्यं श्रीहरिं चावलोकयेत् ।।७० ।।
साधुं सतीं देवमूर्तिं प्रपश्येत्तावदेव सः ।
कराभ्यां बद्धमुष्टिभ्यां नमेत् कृष्णनरायणम् ।।७ १ ।।
कुटुम्बिनः स्वर्णमयं रूप्यमयं च वेतरत् ।
निजभारं द्रव्यमेव न्यसेयुः शर्करादिकम् ।।७२।।
तुल्यादभ्यधिकं यावत् कांचनं रजतं धनम् ।
शर्करां वा न्यसेयुश्च सर्वपापापनुत्तये ।।।७३ ।।
पुष्टिकामः प्रकुर्वीत भूमिसंस्थां धृतेस्तुलाम् ।
तोलयित्वा क्षणं तत्र वन्देत परमेश्वरीम् ।।७४।।
नमस्ते ते महालक्ष्मि धार्मिकि धर्मसाक्षिणि ।
सनातनि सर्वपापनाशिनी पुण्यदायिनी ।।७५।।
स्वर्णभरे कम्भरे त्वं रूप्यभरे प्रमुक्तिदे ।
रसाढ्ये रसदे देवि मातर्लक्ष्मि तुले नमः ।।७६।।
त्वया धृतं जगत् सर्वं सर्वदानफलप्रदे ।
हरेः प्रिये मम शुद्धिं प्रकारय समर्पिता ।।७७।।
इत्युक्त्वा चाऽवतीर्याऽथ गुरवेऽर्द्धं निवेदयेत् ।
ऋत्विग्भ्यो वै परमर्धं दद्यादुदकपूर्वकम् ।।७८।।
गुरवे ग्रामरत्नानि ऋत्विग्भ्यश्चार्पयेत्तथा ।
तेषां तदाज्ञया स्वर्णाद्यन्येभ्योऽपि परं दिशेत् ।।७९।।
दीनाऽनाथनिराधारान् सतीसाध्वीसुयोषितः ।
बालांश्च बालिकाश्चापि समर्च्य साधुसज्जनान् ।।८० ।।
ब्राह्मणान् भिक्षुकान् विप्रान् ब्रह्मिष्ठान् पार्षदान्प्रभून् ।
दानपात्राणि तत्र स्युर्ये ये तांस्तान् ततोऽपरम् ।।८१।।
स्वर्णं रूप्यं शर्करादि भक्त्या सम्पूज्य चार्पयेत् ।
न चिरं धारयेद् गेहे धनं दानार्थतोलितम् ।।८२।।
प्रोक्षितं कल्पितं वापि स्वर्णं रूप्यं धनं च वा ।
तिष्ठेद् भयावहं यस्माच्छोकव्याधिकरं भवेत् ।।८३।।
शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति दानवान् ।
स्वगृहे दानपूतं यद् देवस्वं विप्रनाणकम् ।।८४।।
साधुत्वं च सतीत्वं च विधवास्वं प्रचोरितम् ।
धनं यत्तन्निजीयं स्वं नाशयित्वैव गच्छति ।।८५।।
उपभुक्तं न सौख्याय रोगाय सज्जते हि तत् ।
कुलहानिफलं तस्य निर्वंशत्वकरं हि तत् ।।८६।।
तस्माद् देवधनं साधुधनं विप्रधनं तथा ।
धर्मधनं न वै भक्ष्यं दीननारीधनं च वा ।।८७।।
न वा स्थाप्यं धने नैजे सर्वनाशफलं यतः ।
शुक्तकोऽभूत् पुरा विप्रो देवसाधुप्रपूजकः ।।८८।।
साधुभिः सह देवस्य प्रतिमादिप्रपूजने ।
भक्तार्पितं धनं भुंक्ते ढब्बुकं शर्करादिकम् ।।८९।।
पक्षपातेन नित्यं स भुंक्तेऽदत्वोदरंभरः ।
तेन पापेन तस्याऽभूत् पुण्यक्षयः समन्ततः ।।९०।।
प्रत्युत पापवान् जातो दारिद्र्यदुःखदुःखितः ।
गृहलक्ष्मीर्विनष्टा च पत्नी नष्टा सुतादयः ।।९ १ ।।
क्षेत्रं च वाटिका नष्टा ऋणवान् समजायत ।
क्षुधाऽऽवृतोऽतिदीनश्च भिक्षुकः समजायत ।।९२।।
नेत्रहीनो धर्महीनो बुभुक्षितः पदे पदे ।
पापवृत्तिश्चाऽभवच्च मृत्युमुखं गतोऽभवत् ।।९३ ।।
याम्यदुःखान्यनुभूय श्वपचत्वं ततो गतः ।
कालान्तरे पुनस्तिर्यग्योन्यादौ समजायत ।।९४।।
एवं लक्ष्मि धनं साध्व्या देव्या देवस्य योगिनः ।
हानिदं न गृहे रक्ष्यं समूलाऽपहृतिप्रदम् ।।९५।।
तुलादानं हि विधिना निजभारं धनादिकम् ।
एवं दद्याद् यो मनुजो महेन्द्रादिपदं लभेत् ।।९६।।
लोकपालाधिनाथः स्यात् शाश्वतं स्वर्गमृच्छति ।
विमानेनाऽर्कवर्णेन किङ्किणीजालमालिना ।।९७।।
पूज्यमानो देवताभिर्भुक्त्वा स्वर्गं महाचिरम् ।
सत्यलोकं महालक्ष्मीलोकं श्रीनगरं व्रजेत् ।।९८।।
विष्णुपुरं हरेर्लोकं गोलोकं स व्रजेत्तथा ।
भक्तिमान् याति वैकुण्ठं चाऽक्षरं सत्पदं लभेत् ।।९९।।
दीयमानं महादानं प्रपश्यति प्रशंसति ।
निवेदयति लोकेभ्यः कालान्तरे स्मरत्यपि ।। १० ०।।
शृणोति वा प्रपठति भक्तिभावयुतो जनः ।
नारी वा भक्तियुक्ता सा राजा राज्ञी सखा सखी ।।१ ०१ ।।
विप्रो विप्राणिका चान्या दासी दासोऽपरोऽपि वा ।
तद्दशांऽशं फलं तत्र लभते दानशंसकः ।। १०२।।
स्वर्गे दानफलं भुक्त्वा भक्त्या यास्यति मत्पदम् ।
तुलादानफलं चैवं विशिष्यते समस्ततः ।। १०३ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महादानषोडशकेषु तुलापुरुषदानविधिनिरूपणनामा पञ्चविंशत्यधिकशततमोऽध्यायः ।। १२५ ।।