लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १२४
← अध्यायः १२३ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः १२४ [[लेखकः :|]] |
अध्यायः १२५ → |
श्रीपुरुषोत्तम उवाच-
श्रूयतां शिवराज्ञीश्रि! नारायणीरमे शृणु ।
साधुसेवाव्रतव्रातान् कथयाम्यधिकान् हिवाम् ।। १ ।।
गोमहिष्यव्यजोष्ट्रीणां दोग्ध्रीणां दोहरोधने ।
अभिचारे कृतेऽन्येन साधुव्रतं समाश्रयेत् ।। २ ।।
साधुपादरजो लब्ध्वा प्रसवेत्यभिधाय च ।
पशोः पृष्ठे न्यसेत्तेनाऽभिचारो नश्यति ध्रुवम् ।। ३ ।।
दोग्धुं ददाति सहसा दोग्ध्री नारी तु पाशवी ।
यद्वा चैकदिनं साध्वाश्रमे दुग्धं समस्तकम् ।। ४ ।।
दद्यात् सेवां प्रकुर्याच्च सतां दोग्धुं तदाऽर्पयेत् ।
पशूनां रोगपीडायां कर्तव्या मानता तदा ।। ५ ।।
पश्वर्पणं करिष्येऽहं यदि रोगो विनश्यति ।
यद्वा साधून् सेवयिष्येऽहर्निशं भृत्यवन्मठे ।। ६ ।।
गजवाजिगरुडानां हंसवृषभपक्षिणाम् ।
वाहनानां तु पीडायां कर्तव्या मानता शुभा ।। ७ ।।
पीडानाशे वाहनं वै कारयित्वा सतां तदा ।
अर्पयिष्ये वाहनं तद् यद्वाऽहर्निशयादरात् ।। ८ ।।
सतां मठे प्रसेविष्ये सतो जनान् यथासुखम् ।
निषाद्य वाहने साधून् नेष्यामि वाटिकां प्रति ।। ९ ।।
स्वगृहं चापि चानाय्य पूजयिष्येऽम्बरार्पणैः ।
अर्पंयिष्ये धनं धान्यं पशुरक्षा भवेद् यदि ।। 3.124.१ ०।।
गृहकोणे चत्वरे मे रथ्यायां भूतसञ्चरः ।
योऽस्ति तस्य विनाशार्थं कर्तव्या मानता शुभा ।। १ १।।
साधूनां भोजनं चात्र पूजनं हरिकीर्तनम् ।
कारयिष्ये जलसेकं प्रसादामृतवर्षणम् ।। १२।।
मूत्रेन्द्रियादिस्तंभे तु कर्तव्या मानता शुभा ।
मासं मठे स्थितिं कृत्वा सेविष्ये साधुसत्तमान् ।। १३।।
भोजयिष्ये पूजयिष्ये वर्तिष्ये तद्वचस्यहम् ।
सस्यकणिशयोगे चेज्जन्तुरोगः प्रजायते ।। १४।।
कर्तव्या मानता तत्र जन्तुरोगापनुत्तये ।
धान्यानां दशमो भागो दातव्यो देवमन्दिरे ।। १५।।
साधूनां भोजनं चाप्यतिथिदीनाऽन्नदानकम् ।
मया कार्यं तथा श्रेष्ठश्चान्नकूटसमुत्सवः ।। १६।।
मया कार्यः सुपाकं मे क्षेत्रं भवतु ऋद्धिमत् ।
उद्यानेषु फलिवृक्षादिषु रोगापनुत्तये ।। १७।।
कर्तव्या मानता श्रेष्ठा यदि रोगो विनश्यति ।
साधुभ्यः सत्फलान्येवाऽर्पयिष्ये वै दशांशतः ।। १८।।
कन्दमूलादिसत्पाके यदि हानिः प्रदृश्यते ।
पत्रपुष्पादिपाके च शाकपाके तदा शुभा ।। १९।।
कर्तव्या मानता पाकः समृद्धो मे भवेद्यदि ।
साधुभ्यः प्रथमं नित्यं दास्ये कन्ददलादिकम् ।।3.124.२०।।
साधुवासं कारयिष्ये क्षेत्रमध्ये शुभाश्रये ।
इक्षुपाके शृगालोन्दुर्वादिकृते ह्यपक्षये ।।२ १।।
मानता तत्र कर्तव्या तदुपद्रवशान्तये ।
इक्षुखण्डान् प्रत्यहं वै दास्ये साधुभ्य उत्तमान् ।।२२।।
पञ्च वा दश वा त्वेकादश्यां वा प्रत्यहं तथा ।
गूडं चोत्पन्नफलतो दशांशं साधवे शुभम् ।।२३।।
अर्पयिष्ये शर्करादि कारयिष्ये महोत्सवम् ।
व्यापारे लाभभागः स्यादुत्कृष्टो विपुलो यदि ।।२४।।
तदा दशांशं साधुभ्यो दास्ये देवाय वा ध्रुवम् ।
अधिकश्चेद् धारणातो लाभो मे वै भविष्यति ।।२५।।
तदा दास्येऽर्धमेवापि भागं श्रीहरये सते ।
सर्वनाशक्षणे कार्या मानता सर्वदानिका ।।२६।।
मृत्योर्भये समुत्पन्ने कर्तव्या मानता शुभा ।
समर्पितो भविष्यामि साधवे हरये च वा ।।२७।।
यदि जीवन् रक्षितोऽत्र भवेयं कालवेगतः ।
कुष्ठे शुष्के जडीभावे रक्तस्रावे विभेदने ।।२८।।
धातुरोगे फुल्लरोगे पाकरोगे जलोदरे ।
भगन्दरेऽर्शे रक्तोष्णविकृतौ प्रदरे वृणे ।।२९।।
प्रमेहे क्षीणभावे वा कर्तव्या मानत्तोत्तमा ।
एभ्यो रोगेभ्य एवाऽहं यदि मुक्तो भवामि च ।।3.124.३० ।।
तदा साधून् सेवयिष्ये चातुर्मास्ये मठे स्थितः ।
देहसेवां चानुवृत्तिरूपां प्रसन्नताप्रदाम् ।।३ १ ।।
करिष्ये सर्वथाभावैर्दास्यभावमुपाश्रितः ।
ऋणी कुर्यान्मानतां वै ऋणमुक्तो भवामि चेत् ।।२२।।
दशांशं वा विंशांशं वा पञ्चमांशं धनस्य मे ।
धान्यादेर्वा सम्प्रदास्ये साधुभ्यः सुनवार्जनात् ।। ३३।।
द्व्यहं मासे सतां सेवां करिष्ये दास्यतां तथा ।
शुश्रूषणं मठे स्थित्वा करिष्ये दिनपञ्चकम् ।।३४।।
निर्वंशस्याऽनपत्यस्य पुत्र्याद्यर्थं तु मानता ।
कर्तव्या गर्भलाभार्थं गोदानं साधुसेवनम् ।।३५।।
मठसम्मार्जनं चापि देवालयस्य मार्जनम् ।
लेपनं साधुवासे च जलाहरणमित्यपि ।।३६ ।।
आमान्नार्पणमेवाऽपि नित्यं सतां च दर्शनम् ।
पादसंवाहनं चाप्याशीर्वादग्रहणं सदा ।।३७।।
एवं कृते भवत्येव गर्भाधानं ततः परम् ।
मानता तत्र कर्तव्या गर्भरक्षणहेतवे ।।३८।।
सम्वत्सरं नित्यमेव दीपदानं घृतार्पणम् ।
आमान्नसम्प्रदानं च करिष्ये हरये सते ।।३९।।
प्रसवोपद्रवे कार्या मानता सुखजन्मने ।
पुत्रभारेण सौवर्णं रजतं शर्करां च वा ।।3.124.४०।।
वितरिष्यामि बालेभ्यः सद्भ्यः सद्भोजनं तथा ।
द्रव्यदानं च हरये बालिकाभ्यो धनार्पणम् ।।४१ ।।
सतां गमागमं देवदर्शनं कण्ठिकार्जनम् ।
बालकस्य कारयिष्ये मनुग्रहणमित्यपि ।।४२।।।
साधूनां सेवनं दिनपञ्चकं तन्मठे वसन् ।
करिष्ये सेवनं शुश्रूषणं पुत्रविवृद्धये ।।४३।।
गर्भस्रावो न मे भूयात् पुत्रमृत्युर्न मे भवेत् ।
कर्तव्या तु तदर्थं वै मानता देवतार्हणा ।।४४।।
महापूजां कारयिष्ये सतां पूजां च भोजनम् ।
तीर्थयात्रां करिष्येऽहं सतां दास्यं दशाहकम् ।।४५।।
मन्दिरे भृत्यतां चापि करिष्ये महिषीगवाम् ।
भक्तानां सेवनं चापि करिष्ये जपकीर्तनम् ।।४६।।
धान्यसौवर्णदानं च करिष्ये वै सतां मठे ।
बहुष्वपि च पुत्रेषु करिष्ये पुत्रकार्पणम् ।।४७।।
यदि रोगो भवेन्नैव प्राणनाशो भवेन्न च ।
विघ्नं चापि भवेन्नैव करिष्ये पुत्रकार्पणम् ।।४८।।
साधुवासे सुकूपादिं कारयिष्ये प्रपास्थलीम् ।
छायावासं कारयिष्ये शान्तिशालां तथोत्तमाम् ।।४९।।
साधुवासं पर्णकुटीं कारयिष्ये सदाश्रयम् ।
सभास्थानं कारयिष्ये व्याख्यानपीठमुत्तमम् ।।3.124.५०।।
अर्पयिष्ये स्वगुरवे साधवे तु तदिष्टकम् ।
चिरं जीवेत्याशिषश्च दापयिष्ये सुतस्य मे ।।५१।।
यज्ञोपवीतविध्यर्थे यदि विघ्नो विलोक्यते ।
कर्तव्या मानता तत्र करिष्ये मखमुत्तमम् ।।५२।।
साधूनां भोजनं स्वेष्टदेवस्य तु निवेदनम् ।
वेद्यं विविधं चापि जलं फलं दलादिकम् ।।।५३।।
दानं चाऽम्बरभूषाणां शृंगाराणां तु योषिते ।
साध्व्यै त्वं देवभक्तायै सुखयिष्ये धनार्पणात् ।।५४।।
वाग्दाने लग्नके विवाहोत्सवे पुनरावृतौ ।
विघ्नो विलोक्यते चेद्वै कर्तव्या मानता शुभा ।।५५।।
वाग्दानं लग्नकं चापि विवाहनं पुनर्गृहम् ।
निर्विघ्नं चेद् भवेन्मेऽत्र करिष्ये मन्दिरेऽर्पणम् ।।५६।।
सहस्रादिसुवर्णानां रूप्यकाणां तथाऽर्पणम् ।
यद्वा षण्मासपर्यन्तं सतां शुश्रूषणं सदा ।।५७।।
मन्दिरस्य तथा सेवां करिष्ये देहसंभवाम् ।
नैवेद्यजीविकां स्वेष्टदेवार्थं चोत्तमोत्तमाम् ।।५८।।
प्रथमो मम पुत्रो वा देवार्पितो भविष्यति ।
कन्या वा साध्विकादेव्यर्पिता मया भविष्यति ।।५९।।
गवां दानानि बहूनि करिष्ये वा सुसाधवे ।
क्षेत्रार्पणं गजाश्वानां करिष्ये वा समर्पणम् ।।3.124.६ ०।।
दासदास्यर्पणं वापि ग्रामार्पणं परात्मने ।
मन्दिराय सते चापि गुरवे च द्विजातये ।।६१ ।।
अनाथेभ्यश्च दीनेभ्यो दास्ये वृत्त्यर्पणं तथा ।
नारीभ्यश्च कुमारीभ्यो दास्येऽन्नधनभूषणम् ।।६२।।
अपत्यानामभिचारपराभवे कुदृष्टिके ।
उपद्रवेऽपरे जाते कर्तव्या मानता शुभा ।।६३।।
अपत्यं मे भवेत् स्वस्थं दास्ये तद्भारशर्कराम् ।
महापूजां कारयिष्ये सतां च भोजनं तथा ।।६४।।
यद्वा दिनद्वयं सेवां करिष्ये साधुमन्दिरे ।
यद्वा गोधूमतण्डुलयवान् दास्ये तु साधवे ।।६५।।
पितापुत्रवैमनस्ये कुटुम्बक्लेशने च वा ।
बान्धवानामसम्मेले कर्तव्या मानता तथा ।।६६।।
यदि चैषां सौमनस्यं सौहार्दं च परस्परम् ।
भवेत्तर्हि करिष्येऽहं साधवे हरयेऽथवा ।।६७।।
धनभोज्यार्पणाद्यं च ज्ञातिसम्मेलन शुभम् ।
देवसेवादिकं चापि करिष्ये च यथायथम् ।।६८।।
दम्पत्योस्तु विवादे वा वैमनस्ये वियोजने ।
मानता तत्र कर्तव्या सौमनस्यार्थमुत्तमा ।।६९।।
महापूजां कारयिष्ये साधूनां त्र्यहसेवनम् ।
भोजनं मालिकावर्तनं च सेवां च मन्दिरे ।।3.124.७०।।
निष्कासिता स्वपतिना तिरस्कृताऽवमानिता ।
कुर्याद्वै मानतां तत्र स्नेहोद्भावनकारिणीम् ।।७१ ।।
महापूजां कारयिष्ये करिष्ये साधुसेवनम् ।
देवसेवां धनाद्यैश्च करिष्येऽन्नादिदानकैः ।।७२।।
मन्त्रजपं मालिकावर्तनं पुष्पदलार्पणम् ।
सर्वार्पणं करिष्ये मां पतिर्निभालयिष्यति ।।७३।।
गृहस्य मानवः कश्चिद् दिग्भ्रमेण दिगन्तरम् ।
कुमार्गगो भ्रमन् भ्रष्टो गतोऽनागमनाय चेत् ।।७४।।
मानता तत्र कर्तव्या तदागमनकारिणी ।
गृहाऽऽयाते करिष्यामि गोदानं देवमन्दिरे ।।७५।।
साधोः सेवां द्व्यहं मिष्टभोजनाद्यैश्च पूजनम् ।
कन्याया अपहरणे मनुष्यहरणे तथा ।।७६।।
कर्तव्या स्त्रीहरणेऽपि मानता चागमार्थिनी ।
गृहाऽऽगते करिष्यामि महापूजां सतां तथा ।।७७।।
भोजनं पञ्चदिवसान् सेवां मठे च मन्दिरे ।
द्रव्यार्पणं स्वर्णरत्नाद्यर्पणं हरिकीर्तनम् ।।७८।।
जीविकाकार्यरोधे तु कर्तव्या मानता शुभा ।
जीविकायाः प्रवाहो मे यद्यरुद्धो भविष्यति ।।७९।।
यद्वाऽन्यजीविकालाभो भविष्यति तदा त्वहम् ।
पञ्चाहं साधुसेवां च प्रथमाऽऽयधनार्पणम् ।।3.124.८०।।
महापूजां करिष्यामि साधूनां भोजनादिकम् ।
व्यापारारम्भणे कार्या मानता लाभदायिनी ।।८ १ ।।
यावान् लाभस्तद्दशांशं दास्ये नारायणाय वै ।
धर्मार्थं च व्ययं सम्यक् करिष्ये साधुसेवनम् ।।८२।।
राज्यालये न्यायवादे विवादे पञ्चसाक्षिणि ।
स्वलाभार्थे तु कर्तव्या मानता साधुसेवनम् ।।८३।।
लाभार्थे हरये दास्ये साधुभ्यो भोजनादिकम् ।
विजये तु शुभं द्रव्यं दत्वा नवं सुमन्दिरम् ।।८४।।
साध्वाश्रमं कारयिष्ये तथाऽन्नसत्रमुत्तमम् ।
देवोद्यानं कारयिष्ये महोत्सवे घनार्पणम् ।।८५।।
रथार्पणं गोप्रदानं गृहदानं स्थलार्पणम् ।
अकस्मादिष्टलाभे तु कर्तव्यः सुमहोत्सवः ।।८६।।
नामकीर्तनवाद्याद्यैः शोभितो भोजनात्मकः ।
पूजोत्सवाः कारणीया ध्वजदानार्पणं तथा ।।८७।।
नारिकेलाद्यर्पणं च तैलार्पणं घृतार्पणम् ।
लड्डूकानामर्पणं च संयावाद्यर्पणं तथा ।।८८।।
करनक्तकगुच्छानां पुष्पाणामर्पणं तथा ।
आकस्मिके भये प्राप्ते भयनाशार्थमेव ह ।।८९।।
कर्तव्या मानता श्रेष्ठा गुरोः सेवात्मिका तथा ।
हरेः सेवा साधुसेवा धनधान्यार्पणत्मिका ।।3.124.९०।।
उपाधौ जायमाने तु लोकानां भजनादिषु ।
तन्नाशार्थं प्रकर्तव्या मालाऽऽवर्त्तनमानता ।।९ १।।
दुर्भिक्षोपद्रवे कृष्णनामकीर्तनमानता ।
यज्ञकार्यस्य विप्राणां भोज्यदानस्य मानता ।।९२।।
साधूनां स्वागताद्यं च प्रसन्नतासमर्जनम् ।
पतिव्रतायाः सत्कारो गवां ग्रासाऽर्पणादिकम् ।।९३।।
महामार्याद्युपप्लवे देशोपप्लवने तथा ।
रक्षार्थं सर्वदेवानां ग्रहाणां श्रीहरेस्तथा ।।९४।।
देवीनां च सतां सेवापूजाभक्त्यात्ममानता ।
कर्तव्याऽहर्निशं नारीनराद्यैः प्राणहेतवे ।।९५।।
सामुद्रे यानभंगे वा रक्षार्थं मानता शुभा ।
आकाशे यानभंगे वा भजनं सततं हरेः ।।९६।।
गुरुं साधुं सेवयिष्ये षण्मासान् मन्दिरे स्थितः ।
कर्तव्या मानता चापि ह्युत्पातेष्वनिवर्तिषु ।।९७।।
उत्पातानां विनाशेऽहं करिष्ये मखमुत्तमम् ।
साधूनां भोजनं चापि देवानां तु प्रपूजनम् ।।९८।।
देवतानां तु नैवेद्यं यथोचितं यथाधनम् ।
काराग्रहादिदुःखानां निवृत्तये हि मानता ।।९९।।
कर्तव्या स्वार्पणं श्रीमत्कृष्णनारायणेऽखिलम् ।
साधूनां भोजनं श्रीमद्बालकृष्णस्य पूजनम् ।। 3.124.१० ०।।
अनादिश्रीकृष्णनारायणस्य मम सेवनम् ।
राज्यलाभे तु तद्योग्या महती मानता मता ।। १०१ ।।
प्राणलाभे तु तद्योग्या मता सर्वार्पणात्मिका ।
सम्पल्लाभे वंशलाभे यथायोग्या हि सा मता ।। १ ०२।।
सर्वत्र साधुसाध्वीनां सेवाशुश्रूषणात्मिका ।
मानता चोत्तमा शीघ्रसिद्धिदाऽनुग्रहात्मिका ।। १ ०३।।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ' ।।१०४।।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।। १ ०५।।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।
'साधवो मे रक्षकाश्च सन्तु दुःखापहारकाः' ।। १ ०६।।
एवं मे शरणं गत्वा यत्र क्वापि स्थले जले ।
गगने गर्तके वह्नौ वायौ रक्षणमर्थयेत् ।। १ ०७।।
ध्यात्वा कृष्णं गुरुं साधुं देवं धर्मं सनातनम् ।
ध्यात्वाऽन्तर्यामिणं चापि कुर्याद् रक्षार्थमानता ।। १ ०८।।
हानौ लाभे सुखे दुःखे कर्तव्या मानता रमे! ।
साधुदेवादिपूजादि रक्षत्येव सुकल्पिता ।। १० ९।।
अन्तर्यामी विराजेऽहं शृणोमि हृदयंगतम् ।
दीनभक्तादिरक्षां वै द्राक् करोमि समर्पणात् ।। 3.124.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सुखदुःखादौ साधुदेवादिसेवाव्रतमानतादिनिरूपणनामा चतुर्विंशत्यधिकशततमोऽध्यायः ।। १२४ ।।