लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १००

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! ऽनादिकृष्णनारायण प्रभुः ।
प्रजगाद कथां चक्रवाक्या हेमायनर्षये ।। १ ।।
सनत्सुजातशापेन नारायणसुतोर्वशी ।
नारायणसरस्तीरे चक्रवाकी तु याऽभवत् ।। २ ।।
जातिस्मरा तु सा नित्यं तीर्थचिन्तां करोति हि ।
ग्रामाद्ग्रामान्तर याति नित्यमुड्डीय दूरतः ।। ३ ।।
मध्याह्ने तु कणान् भुंक्त्वा विश्रम्य च द्रुमान्तरे ।
उड्डीय दूरदेशं चाऽऽसायं याति विहायसा ।। ४ ।।
एवं सा तीर्थकामा च वैराग्यवृत्तिमास्थिता ।
कच्छदेशं शनैस्त्यक्त्वाऽखातमुल्लंध्य वेगतः ।। ५ ।।
आनर्तदेशानायाता चमत्कारपुरं प्रति ।
स्नात्वा सरोवरे कृत्वा हाटकेश्वरदर्शनम् ।। ६ ।।
सोमनाथं ययौ दृष्ट्वाऽक्षरक्षेत्रमुपाययौ ।
नत्वा श्रीकम्भरालक्ष्मीं बालकृष्णं प्रपूज्य च ।। ७ ।।
सिद्धसरस्वतीं गत्वाऽर्बुदे पुष्करमाययौ ।
ब्रह्माणं सा प्रणम्यैव गंगाद्वारमुपागता ।। ८ ।।
कुरुक्षेत्रं ततः कृत्वा प्रगण्डकीं नदीम् ।
शालग्रामान्नमस्कृत्य शालाद्रिं प्रणिपत्य च ।। ९ ।।
दर्शनार्थं पशुपतेरुड्डीय याति चाम्बरे ।
हिमाद्रेः सन्निधौ तस्योपत्यकोर्ध्वं तदाऽम्बरे ।। 2.100.१० ।।
उड्डयन्त्या भुवो भागे नीपालयप्रदेशके ।
अधोदृष्ट्या तया दृष्टा कन्यैका गण्डकीतटे ।। ११ ।।
चन्द्राननाऽतिगौरी च सूर्यवद्भासुराङ्गिनी ।
अष्टवर्षाऽपि कमलातुल्या तनुश्रियाऽभितः ।। १ २।।
स्थलपद्माभकान्त्याढ्या पद्मपत्रायतेक्षणा ।
सुगन्धव्याप्तदेहा च दिव्या नारायणी यथा ।।१ ३ ।।
हृदये श्रीपतिं कान्तं जिह्वायां हरये नमः ।
कट्यां जलधरं धृत्वा पश्यतीवाऽभितः स्थिता ।। १४।।
मणिकंकणहस्ता च मणिनद्धसुकण्ठिका ।
रशनाव्याप्तकटिका शृंखलाढ्यप्रकोष्ठका ।। १ ५।।
नुपूराढ्यचरणा च नत्थिकायुक्तनासिका ।
कुण्डलाढ्यसुकर्णा च वह्नयाभवस्त्रमण्डिता ।। १६ ।।
कुन्दचम्पकसौवर्णकान्त्याढ्या बहुशोभना ।
कृष्णनारायणविष्णो परब्रह्म पते हरे ।। १७।।
पुरुषोत्तमभगवन् कदा दास्यसि दर्शनम् ।
इत्येवं निर्जने शब्दं व्याहरन्ती विलोकिता ।। १८ ।।
चक्रवाकी तु तां ज्ञात्वा विश्वासपात्ररूपिणीम् ।
अवाततार वै व्योम्नः पार्श्वस्थे श्रीद्रमे ततः ।। १ ९।।
तस्या आकर्षणार्थं च जगौ गिरा सुमिष्टया ।
यथाऽप्सरसा गीतं वै समाकर्ण्य तु कन्यका ।। 2.100.२० ।।
व्यलोकयद् द्रुमे स्वल्पां पक्षिणीं गीतिकोविदाम् ।
गीतिकायामभूद्भावः कदा कृष्णो मिलिष्यति ।।२ १ ।।
अहं नारायणपुत्री यदा प्राप्स्यामि माधवम् ।
तदा तेऽपि महाकृष्णो मिलिष्यतीति मा शुचः ।। २२।
यथाऽहं वै वियुक्ताऽस्मि तथा त्वं दृश्यसे सखि ।
का त्वं कन्यास्वरूपाऽसि मानवी प्राक्स्थितिं वद ।। २३ ।।
इत्येवं गायने भावं श्रुत्वा कन्याऽतिहर्षिता ।
उवाच काऽसि चेटि त्वं पक्षिदेहवती वद् ।। २४।।
आगच्छ देववाण्या मां विबोधयसि सुव्रते ।
कृष्णो वा कृष्णदूती वा कृष्णा वा वर्तसेऽत्र किम् । । २५ ।।
एह्यत्र तिष्ठ मे पार्श्वं शंस मे मंगलं शुभम् ।
शृणोमि तव मांगल्यं हरिः कष्टं हरिष्यति ।।२६ ।।
इत्युक्ता सा भुवं तस्याः सन्निधौ न्यपतद् द्रुमात् ।
अपश्यत् पादयोः सौम्यं रूपं श्रीपादयोरिव ।। २७ ।।
अनमत् पादयोश्चापि पपौ वारि तयाऽर्पितम् ।
निषसादाऽन्तिके तस्या आसीनायाः सरित्तटे ।। २८ ।।
पृष्टा परिचयार्थं सा जगाद् शापजं फलम् ।
उर्वशीति हरेः पुत्री सनत्सुजातशापतः ।। २९ ।।
अप्सरोऽपि विवृताऽस्मि चक्रवाकी भवामि ह ।
यदा नारायणस्यैव दर्शनं मे भविष्यति ।। 2.100.३० ।।
तदा शापविनिर्मुक्ता भविष्याम्युर्वशी पुनः ।
इत्येवं कथयित्वा सा चेटी मुहुर्हि कन्यकाम् ।। ३१ ।।
विलोकयति भावेन श्रीसमां चिह्नशोभिताम् ।
चक्रवाक्या हृद्येऽस्याः कृष्णचिह्नं व्यलोकयत् । । ३२।।
चरणोर्ध्वतिलकाख्यपुण्ड्ररेखां व्यलोकयत् ।
जघने बाणरेखां च ललाटे मुकुटाकृतिम् ।। ३३ ।।
गण्डे तु दक्षिणे भाले शोणबिन्दुं व्यलोकयत् ।
उरसि विष्णुरेखां सा वामबाहौ गदां तथा ।। ३४।।
वामसक्थ्नि पादुकां च वैजयन्तीं हृदि स्थिताम् ।
करे तु कमलं रम्यं हस्तिचिह्नं व्यलोकयत् ।। ३५।।
दक्षे पादे शंखचिह्नं नौकाचिह्नं विमानकम् ।
गदां मत्स्यं शिखरं च झषं ताम्बूलवल्लिकाम्।। ३६ ।।
वामे पादे यवरेखां प्रासादं छत्रमित्यपि ।
ऊर्ध्वरेखां कमलं च ध्वजांऽकुशौ घटं तथा ।। ३७ ।।
कुमुदं श्रीफलं चापि स्थलपद्मं विधुं तथा ।
दशचक्राणि पूर्णानि स्वर्णरेखायुताऽङ्गुलीः ।। ३८ ।।
ललाटे पौरटं हारं स्वर्णरेखां च बिन्दुकम् ।
चिबुके बिन्दुकं हस्तरेखां दक्षस्तनोपरि ।। ३ ९।।
चक्रं वामस्तने कण्ठे हारं वक्षसि कानकम् ।
ध्वजं मत्स्यं च वंशी च स्वस्तिकं दक्षिणे करे ।।2.100.४०।।
धनुर्मत्स्यं कलशं च तथा व्यलोकयत् करे ।
प्राकारं तोरणं चापि दक्षहस्ते व्यलोकयत् ।।४१ ।।
फणायां लांगलचिह्नं ददर्श सुमनोहरम् ।
पदेऽश्वं च गजं वृक्षं यूपं बाणं च तोमरम् ।।०२। ।
हस्ते सुमालिकारेखां दीपरेखां च चामरम् ।
शैलं च कुण्डलं वेदीं चक्रं व्यदर्शयत्तु सा ।।४३। ।
आश्चर्यं परमं प्रापत् मत्वा श्रीं पारमेश्वरीम् ।
नान्यां त्वेतादृशीं प्रादृश्यं विना श्रीं नरायणीयम् ।।४४।।
नैतादृशानि चिह्नानि सर्वाणि कमलां विना ।
इति निश्चित्य चापृच्छत् तस्या नाम कुलादि च ।।४५।।
श्रुत्वा जगाद् कन्या तां चक्रवाकी यथार्थतः ।
पुत्रि! किं ते वदाम्यत्र विधिर्वै बलवान् सदा । ।४६ ।।
अहं नारायणपत्नी तव माता भवामि वै ।
नाम्ना लक्ष्मीरनादिश्रीकृष्णप्रियाऽस्मि शाश्वती ।। ४७।।
अर्धांगना महावैकुण्ठाख्ये वसामि सर्वदा ।
नाऽहं नारायणं त्यक्त्वा कदाचिद् यामि दूरतः ।। ४८ ।।
नारायणस्तु मां त्यक्त्वा भक्तार्थं याति दूरतः ।
यद्यहं विघ्नरूपा स्यां भक्तभक्तौ हरेः पुरः ।। ४९।।
भक्तार्थं तव पित्राहं त्यक्ता वैकुण्ठधामतः ।
वत्से श्रीभगवान् भक्तप्रियो वैकुण्ठमुत्तमम् ।। 2.100.५ ० । ।
त्यक्त्वा भक्ताऽनुगो भूत्वा ब्रह्माण्डेऽत्र समाययौ ।
अहं गवेषयितुं तं समायाताऽस्मि भूतले ।।५१ ।।
अप्रकाशितसामर्थ्याऽभवं मानवरूपिणी ।
पिता मे शिवराजेति शंकरो गण्डकीतटे ।।५ २ ।।
स्वेच्छामानवरूपोऽस्ति कैलासाऽधिपतिर्हरः ।
महाभागवतः श्रीगोपालभक्तो विरागवान् ।।५ ३ ।।
दक्षपुत्री सती तत्स्त्रीः जानकीर्ति हरप्रिया ।
सापि स्वेच्छामानवी च शंभोर्गृहे विराजते ।।१४।।
पितरौ तौ मया क्लृप्तौ मानसौ श्रेष्ठवैष्णवौ ।
गण्डकीतीरसंस्थं वै कैलासधामनामकम् ।।५५।।
पत्तनं वर्तते चेदं शैलद्रोण्यां महत्तमम् ।
अत्र मानवरूपेण विराजेते सतीशिवौ ।।५६।।
कैलाससदृशोद्याने निजराज्यस्य पत्तने ।
क्षात्रधर्मं समाश्रित्य लोकपालनहेतवे ।।५७।।
लोकाऽविज्ञाततत्त्वौ तौ सर्वविज्ञातराजजौ ।
यद्गेहे वसतिं श्रीमत् कृष्णनारायणो वशे ।।५८।।
प्रातर्नित्यं हरिस्तत्र समायात्यर्चनगृहे ।
सतीशंभ्वर्पितां पूजां गृहीत्वा याति लीनताम् ।।५९।।
तदहं श्रीकृष्णनारायणार्हणार्थमेव तु ।
उद्यानात् पितृदेवार्थे जलमाहर्तुमागता ।।2.100.६ ० ।।
दिष्टात् पुत्रि दृष्टवती त्वां वियुक्तां चिरादिह ।
आगच्छ मम गेहेऽत्र वसाऽत्र मम पञ्जरे ।।६ १ ।।
पक्षिधर्मेण वर्तेथा यथा जानन्ति नैव ते ।
सर्वथा पालयिष्येहं प्राप्ते काले प्रिये सुते ।।६२।।
नारायणेच्छया शीघ्रं शापमोक्षो भविष्यति ।
अत्र पार्श्वे न दूराणि सन्ति वनान्यनेकशः ।।६ ३ ।।
विहरिष्याव एवात्र पश्यामश्च नरायणम् ।
नात्र भयं हरेर्योगात् शिवयोगात्तथा क्वचित् ।।६४।।
मम योगात्तथा पुत्रि! सतीयोगाच्च निर्भयम् ।
राज्यं कैलासधामाख्यं नगरं चापि निर्भयम् ।।६५।।
समञ्जसं च कुशलं वर्तते सर्वमेव तु ।
नारायणो पिता तेऽत्र मां जानाति तथापि सः ।।६६।।
अज्ञ इव सदा चास्ते न बोधयति शंभवे ।
स एव वत्सलः प्राप्ते काले चोद्धारयिष्यति ।।६७।।
यद्वा गुप्तं करिष्यामस्तपश्चोद्धारहेतवे ।
तदा निजप्रसादाख्यं तपःफलं प्रदास्यति ।।६८।।
श्रुत्वेत्थं जानकीपुत्र्या वचः शिवसुतोदितम् ।
नारायणसुता चक्रवाक्युर्वशी ह्युवाच ताम् । ।६९। ।
मातस्ते दर्शनादद्य मम दुःखं गतं किल ।
यस्या कस्यामवस्थायां मातुरंको हि शान्तिदः । ।2.100.७०।।
दिष्टादद्य मया प्राप्ता दृष्टा पूज्यतमाऽत्र मो ।
यथा वदसि मातर्मे करोमि तत्तथैव च । ।७ १ ।।
मातुर्वचनं वेदोऽस्ति धर्मो दानं तपो व्रतम् ।
सर्वे मातुर्वचने वै कन्यायाः सफलं मतम् ।।७२।।
दुःखहा त्वं मम मातस्तथाऽहं ते च पुत्रिका ।
कृष्णवियोगनाशार्थं यतिष्ये तपआदिभिः । ।७३ । ।
मातुः सेवा हि कन्यायाः सर्वश्रेष्ठः परो वृषः ।
सर्वस्वं जननी पुत्र्याः पूर्वं विवाहनात्ततः ।। ७४। ।
आजीवनं तु जननी पुत्र्याः सौख्यं समिच्छति ।
न च पुत्रीसमो जीवो मातुरन्यो हि विद्यते ।।७२।।
शतजन्मकृतात्पुण्यान्माता पुत्रीमती भवेत् ।
पुत्री सहस्रजन्मोत्थपुण्यात् स्यान्मातृसेविका ।।७३।।
मातुरेव धनं पुत्री पितुर्धनं तु पुत्रकः ।
पितुः पुत्रः सहायः स्यान्मातुः पुत्री सहायिनी ।।७७।।
पुत्रे सत्यपि वन्ध्येव माता पुत्रीं विना मता ।
स्नाने पाके भोजने च गृहे वाटे दिवानिशम् ।।७८ ।।
शयने च प्रवासे चैकान्ते पुत्री सहायिनी ।
यथा वत्सायुता धेनुः प्रियतराऽति जायते ।।७९ ।।
तथा पुत्रीयुता माता मान्या लोकेऽधिका मता ।
मात्रवलम्बनं पुत्री माता पुत्र्यवलम्बनम् ।।2.100.८० ।।
तस्मात्पुत्र्या सदा माता श्रेयःप्रदा प्रसेव्यते ।
मातृतीर्थं परं तीर्थं माता साक्षात् सरस्वती ।।८ १ ।।
माता लक्ष्मीः सदा पोष्ट्री तारयित्री च पालिका ।
परार्थामपि स्वां पुत्रीं शिक्षयत्येव सत्कलाः ।।८२।।
आत्मवद् रक्षतीष्टं च सर्वं ददाति नित्यदा ।
कष्टे कष्टं सुखे सौख्यं माता विन्दति नेतरा ।।८३ ।।
भुक्त्वा कष्टं सुतां मत्वा चाऽबलां बलदा तु या ।
सदाऽऽश्रयं ददात्येव माता नान्या तथाऽपरा ।।८४।।
माता बोध्या तु सावित्री माता स्वाहा स्वधा यथा ।
माता ब्राह्मी महाशक्तिर्माता सर्वगरीयसी ।।८५ ।।
मातृवाक्यं सदा श्रेयः शकुनं चोत्तमं मतम् ।
मातृगालीघृतनालीआशिर्वादात्मिका सदा ।।८६ ।।
मातृभूमिर्मातृभाषा मातृदुग्धं प्रशस्यते ।
माता त्रिवेणिकाभूश्च तारिणी सा प्रशस्यते ।।८७।।
मातृदुग्धं मता गंगा मातुरंको यमी नदी ।
माता तीर्थत्रयं प्रोक्तं मातृवाक्यं सरस्वती ।।८८।।
मातुः पादजलं पुण्यं पावनं पापनाशनम् ।
मातुः स्पर्शोऽमृतस्पर्शः पोषको भोजनं विना ।।८९।।
मातुरुच्छिष्टभोज्यं च परमेशप्रसादवत् ।
मातू रक्ताणवः कन्या तस्मान्माता प्रशस्यते ।।2.100.९० ।।
नवमास्तु मातृदेहात् पुत्रीदेहः प्रजायते ।
तस्माद् ब्रह्मसमा माता सृष्टिप्रवाहकारणम् ।।९ १ ।।
तद्दर्शनं चाधिकं वै फलदं ब्रह्मदर्शनात् ।
तत्स्मरणं चाधिकं वै सुखदं ब्रह्मणः स्मृतेः ।।९२।।
तद्दास्यं सेवनं तस्या आज्ञापालनमित्यपि ।
वेदाध्ययनतः श्रेष्ठं ब्रह्मलोकप्रदं मतम् ।।९३।।
यया पुत्र्या निजा माता तोषिता सेवनादिभिः ।
मनसा कर्मणा वाचाऽनुवृत्त्या रञ्जिता तथा ।।९४।।
तस्या नास्ति भयं मायाकालकर्मयमादिजम् ।
नाऽकस्माच्च भयं तस्या रोगादिजं भयं न च ।।।९५।।
न त्रेधातापभीतिश्च न चौरादिभयं तथा ।
नापि विघ्नभयं तस्या न प्रेतादिभयं तथा ।।९६ ।।
किमत्र बहुनोक्तेन जन्ममृत्युभयं न च ।
पितुर्दशगुणी माता गर्भजन्मप्रपोषणैः ।।९७ ।।
गुरुर्माता हरिर्माता जननी ब्रह्मधाम च ।
स्वर्गं माता गृहं माता माता वै शाश्वतं पदम् ।। ९८।।
पशवः पक्षिणश्चापि बाला वा वृद्धतांगताः ।
युवानश्चापि कष्टाप्तौ मों मों मों सम्वदन्ति ते ।। ९९।।
मातृस्नेहौ ब्रह्मस्नेहस्तस्मान्मुक्तिर्न वै परा ।
स्वप्ने पुत्रीं समालोक्य मातुर्हर्षः प्रजायते ।। 2.100.१ ००।।
अद्य पुत्री मया दृष्टेत्युक्त्वा नित्यं स्मरत्यपि ।
मातुस्तु तारिणी पुत्री सर्वकार्यकरी यदि ।। १०१ ।।
मातरं चाऽसेवमाना भाग्यहीना भवेत् सदा ।
मातुर्हृदयक्लेशेन पुत्र्या भाग्यं विनश्यति ।। १ ०२।।
गृहकार्ये जलस्याऽप्यानयनं चान्नरन्धनम् ।
निष्कासनं कच्चरादेः पात्राणां शोधनं तथा ।। १०३।
शय्यादीनामुन्नयनं वस्त्राणां क्षालनं तथा ।
अनुजानां रञ्जनं च गृहशुद्ध्यादिरक्षणम् ।। १ ०४।।
कणादीनां संस्करणं वेषवारादिशोधनम् ।
गृहवस्तुप्ररक्षा चोचिता सेवा कुटुम्बिनाम् ।। १ ०५।।
देवपूजादिकरणं दधितक्रादिमाथनम् ।
गोपश्वादिप्रसेवा च मातुर्देहस्य मर्दनम् ।। १ ०६।।
केशप्रसाधनं मातुः पादसंवाहनादिकम् ।
एवमादिक्रियाकाण्डं मातृब्रह्मणि पुत्रिका ।। १ ०७।।
कृत्वा कृत्वाऽर्पयेद् भावयुक्ता श्रद्धावती सुता ।
सा मातृव्रतपुण्येन धर्मार्थाऽनंगमुक्तिषु ।। १०८।।
विजयं लभते पुत्री चाभ्युदयं च शाश्वतम् ।
नारायणीव लोके तु जायते ब्रह्मकोटिका ।। १०९।।
किं बहुनाऽत्र वक्तव्यं मया माता निषेविता ।
सेवितं शाश्वतं ब्रह्म तया प्राप्तं दिवं भुवि ।।2.100.१ १ ०।।
इत्येवं राधिके! पुत्री चक्रवाकी स्वमातरम् ।
उवाच दुःखहालक्ष्मीर्माहात्म्यज्ञाऽतिभावुकी ।। ११ १।।
अनादिश्रीकृष्णनारायणो हेमायनर्षये ।
प्राह चैतां कथां तत्र हेमशालाख्यपर्वते ।। ११२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चक्रवाक्यास्तीर्थयात्रायां गण्डकीतीरे स्वमातुर्लक्ष्म्या मेलनं मातृमहिमकथनं चेतिनिरूपणनामा शततमोऽध्यायः ।। १०० ।।