लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०७७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ७७
[[लेखकः :|]]
अध्यायः ०७८ →



श्रीनारायण उवाच-
तव स्नेहात् प्रिये ज्ञानं प्रोक्तं भवनिबर्हणम् ।
नारायणबलिं ब्रूवे लोकोपकृतिहेतवे ।। १ ।।
अकस्मातादिनष्टानामुद्धारार्थमयं विधिः ।
शुभे तीर्थे शुभे क्षेत्रे पवित्रे देवमन्दिरे ।। २ ।।
वारितटे पुण्यवृक्षतले नारायणबलिम् ।
कुर्याद्विष्णुं समुद्दिश्य मन्त्रैः पौराणवैदिकैः ।। ३ ।।
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरेत् ।
नारायण हरे कृष्ण प्रेतमोक्षकरो भव ।। ४ ।।
पूर्णं तु तर्पणं कार्यं श्राद्धान्येकादशापि च ।
तोयव्रीहियवान् दद्याद् गोधूमाँश्च प्रियंगवान् ।। ५ ।।
हविष्यान्नं शुभां मुद्रां छत्रोष्णीषौ च चेलकम् ।
क्षीरं क्षौद्रं च धान्यानि वस्त्रे चोपानहौ तथा ।। ६ ।।
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाऽक्षतादिभिः ।
दातव्यमथ शंखे वा पात्रे ताम्रे च तर्पणम् ।। ७ ।।
प्रथमं वातधारेण जानुभ्यामवनीं गतः ।
जलार्थं चार्पयेद् देवमेकोद्दिष्टं पृथक-पृथक् ।। ८ ।।
'आपो देवी मधुमती' त्वादिपिण्डे प्रकल्पिता ।
'उपयाम-गृहीतोऽसि' द्वितीये तु निवेदयेत् ।। ९ ।।
'ये देवासः'-चतुर्थे तु, 'समुद्रं गच्छ'-पञ्चमे ।। 1.77.१० ।।
'अग्निर्ज्योति, स्तथा-षष्टे 'हिरण्यगर्भः'-सप्तमे ।
'यमाय' त्वष्टमे ज्ञेयं, 'यज्जाग्रन्नवमे' तथा ।। ११ ।।
दशमे 'याः फलिनी' ति, पिण्डे चैकादशे ततः ।
'भद्रं कर्णेभि,रित्याद्यैः कुर्यात् पिण्डविसर्जनम् ।। १२।।
कृत्वैकादशदैवत्यं श्राद्धं कुर्यात्परेऽहनि ।
विप्रानावाहयेदर्घ्यं दद्याद्देवान् विधापयेत् ।। १३ ।।
विष्णुं सर्वमयं रुद्रं ताम्रजं लोहजं यमम् ।
ब्रह्माणं राजतं प्रेतं सीसकं दर्भकं च वा ।। १४।।
ततो 'यमाय त्वे,त्यादिमन्त्रेण सामवेदिनम् ।
'अग्ने आयाहि,मन्त्रेण गोविन्दं पश्चिमे न्यसेत् ।। १५।।
अग्निमीलेतिमन्त्रेण पूर्वाशायां प्रजापतिम् ।
'इषे त्वेन्त्यादिमन्त्रेण दक्षिणे स्थापयेद् यमम् ।। १६।।
मध्ये तु मण्डले तत्र स्थाप्यो दर्भमयो नरः ।
ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पंचमः ।। १७।।
पृथक् कुंभेषु संस्थाप्याः पञ्चरत्नयुतेषु हि ।
वस्त्रयज्ञोपवीतानि मुद्राश्चैव पृथक्पृथक् ।। १८।।
जपं कुर्यात्पृथक् तत्र ब्रह्मादिदेवतासु वै ।
पंच श्राद्धानि कुर्वीत देवतानां यथाविधि ।। १९।।
जलधारां ततः कुर्यात् पिण्डे पिण्डे पृथक्पृथक् ।
शंखे वा ताम्रपात्रे वा ह्यलाभे मृण्मयेऽपि वा ।।।1.77.२०।।
तिलोदकं समादाय सर्वौषधिसमन्वितम् ।
आसनं मुद्रिकां छत्रमुपानहौ कमण्डलुम् ।।२ १।।
पात्रं भोज्यार्हधान्यं च वस्त्राण्यष्टविधं पदम् ।
ताम्रपात्रं तिलपूर्णं सहिरण्यं सदक्षिणम् ।।२२।।
दद्यात्तु विधिना तत्र मुख्याय ब्राह्मणाय वै ।
ऋग्वेदिने तु विप्राय दद्यात् ससस्यमेदिनीम् ।।२३ ।।
यजुर्वेदिब्राह्मणाय दद्याद् गां तु पयस्विनीम् ।
सामवेदिब्राह्मणाय दद्यात् सद्वस्त्रधौत्रकम् ।।२४।।
दद्याद् यमं समुद्दिश्य तिलान् लोहं च दक्षिणाम् ।
अथ पुत्तलकः कार्यः सर्वौषधिसमन्वितः ।।२५।।
पलाशस्य च वृन्तानां भागं कृत्वा च तत्र वै ।
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ।।२६ ।।
शतत्रयषष्टियुतैर्वृन्तैः प्रोक्तोऽस्थिसंचयः ।
विन्यस्य तानि बध्नीयात् कुशैरङ्गे पृथक् पृथक् ।।२७।।
चत्वारिंशच्छिरोभागे ग्रीवायां च दश न्यसेत् ।
विंशतिश्चोरसि क्षेप्यं विंशतिर्जठरे तथा ।।२८।।
बाहुद्वये शतं दद्यात् कट्यां दद्याच्च विंशतिम् ।
ऊरुद्वये शतं चापि त्रिंशच्च जंघयोर्द्वयोः ।।।२९।।।
दद्याच्चतुष्टयं शिश्ने षड् दद्याद् वृषणद्वये ।
दश पादांगुलीभागे एवमस्थीनि क्लृप्तयेत् ।।३ ०।।
शिरःस्थाने नारिकेलं दद्यात्तारं च तालुके ।
आस्ये दद्यात्पंचरत्न जिव्हायां कदलीफलम् ।।1.77.३ १।।
अन्त्रेषु वालुकां दद्याद् वाह्लीकं घ्राण एव च ।
वसायां मृत्तिकां दद्याद् गोमूत्रं मूत्रके तथा ।।३२।।
गन्धकं धातवे दद्याद् हरितालं मनःशिलाम् ।
यवपिष्टं तथा मांसे मधु शोणित एव च ।। ३३ ।।
केशेषु च जटाजूटं त्वचायां च मृगत्वचम् ।
पारदं रेतसः स्थाने पुरीषे पित्तलं तथा ।।।३४।।
मनःशिलां तथा गात्रे तिलकल्कं च सन्धिषु ।
कर्णयोस्ताडपत्रं च स्तनयोश्चैव गुंजकौ ।।३५।।।
नासायां शतपत्रं च कमलं नाभिमण्डले ।
वृन्ताकं वृषणे दद्यात् लिंगे तु गृंजनं शुभम् ।।३६।।
घृतं नाभ्यां प्रदद्याद्वै कौपीने तु त्रपु स्मृतम् ।
मौक्तिकं स्तनयोर्मूर्ध्नि कुंकुमेन विलेपनम् ।।३७।।
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ।
परिधाने पट्टसूत्रं हृदये रुक्मकं न्यसेत् ।।३८।।
ऋद्धिवृद्धिभुजौ द्वौ च नेत्रयोश्च कपर्दिकाम् ।
सिन्दूरं नेत्रकोणेषु ताम्बूलाद्युपहारकैः ।। ३९ ।।
सर्वौषधियुतां प्रेतपूजां कृत्वा यथोदिताम् ।
साग्निकैश्चापि विधिना यज्ञपात्राणि चार्पयेत् ।।1.77.४०।।
'शन्नो देवी पुनन्तु मे' 'इमं मे वरुणे' ति च ।
प्रेतस्य पावनं कृत्वा शालग्रामशिलोदकैः ।।४१ ।।
विष्णुमुद्दिश्य गोदानं महादानं तिलानि च ।
वैतरणीं प्रदद्याच्च सर्वाभरणभूषिताम् ।।४२ ।।
प्रकुर्याद् वैष्णवं श्राद्धं प्रेतमुक्त्यर्थमात्मना ।
प्रेतमोक्षं ततः कुर्याद्धरिं तत्र प्रकल्पयेत् ।।४३ ।।
'त्वं विष्णु' रिति संस्मृत्य प्रेतमग्नौ दहेत्तथा ।
त्रिदिनं सूतके रक्ष्य दशाहं गतपिण्डकाः ।।४४।।
सर्वं वै वर्षपर्यन्तं कर्तव्यं प्रेतमुक्तये ।
स्वर्णभूगोप्रदानं च कर्तव्यं मोक्षलब्धये ।।।४५ ।।
संक्रान्तौ कृतदानं तु द्युप्रदं सप्तकल्पकम् ।
हरौ सर्वस्वदानं तु स्यादनन्तं प्रमोक्षदम् ।।४६ ।।
वैतरणी भवेद् द्वेधा एका वै याम्यमार्गगा ।
शतयोजनविस्तीर्णा गोदानात्सा तु तीर्यते ।।४७।।
अपरा वासना साक्षाद् वैतरणी हृदि स्थिता ।
अनन्तयोजनदीर्घा ज्ञानभक्त्या हि तीर्यते ।।४८।।।
प्रथमा तत्र दुर्गन्धा द्वितीया भावगन्धिनी ।
आद्या रक्त पूयतोया रागद्वेषजलाऽपरा ।।४९ ।
मांसकर्दमयुक्ताऽऽद्या धातुकर्दमकाऽपरा ।
वज्रतुण्डैः शिशुमारैर्मकरैर्वज्रकर्तनैः ।।।1.77.५० ।
कृकचैः खर्जकैर्जीवैर्युक्ताऽऽद्या विषयैः परा ।
पतन्ति तत्र मर्त्यास्तु क्रन्दमाना हि पापिनः ।।५१।
पयस्विन्याश्च गोदानं तारयेत् पूयशोणितम् ।
अमृतकृद्धरेर्दानं तारयेद् वासनानदीम् ।।५२ ।।
प्राणाः प्राघूणिका बोध्या न यास्यन्त्यात्मना सह ।
अत्रैव लयमेष्यन्ति प्राणदं त हरिं भज ।।५३ ।।
सप्राणं मरणं निद्रा ह्यप्राणं मरणं मृतिः ।
द्वयोर्नास्त्येव विश्वासो जीवस्य जीवनाय हि ।।५४।
मोक्षार्थमद्य कुर्वीत यावन्न मरणं भवेत् ।
मरणं मोक्षपर्यायं प्राप्यं नाऽन्याभिधानकम् ।।५५।।
कः पतिः कस्य वा नारी कः पुत्रः कस्य वा पिता ।
ऋणानुबन्धसंसर्गाः सन्ति वैतरणीप्रदाः ।।५६ ।।
ममेदमिति सम्मत्वा घोरयत्नं करोति यत् ।
तत्सर्वं तु यत्नकृतः त्यक्त्वा तिष्ठति दूरतः ।।५७।।
वल्गन्तं नैव वल्गन्ति मानयन्तं न मन्वते ।
स्निह्यन्तं नैव स्निह्यन्ति तथाप्यज्ञो न पश्यति ।।५८।।
गुणवन्तं तु शुष्कार्था जनाः शंसन्ति वाह वाह ।
रूक्षाः स्वार्थं प्रसाध्यैव यान्ति दूरं न तान् सरेत् ।।५९।।
आदौ सार्थस्तथा मध्ये योऽन्तेऽपि सार्थतां भजेत् ।
अन्यत् त्यक्त्वा सदा सार्थं सखायं संभजेत तम् ।।1.77.६०।।
येन कर्तव्यमन्यद्वै नावशिष्येत किंचन ।
कर्तव्यं तत्कृतं सर्वं सखा मित्रं विमोक्ष्यते ।।६ १ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारायणबलिक्रियानिरूपणनामा सप्तसप्ततितमोऽध्यायः ।।७७।।

नारायण बल्युपरि टिप्पणी